[कार्य प्रगति पर है।]
अगस्त्यगीता
श्रीवराह उवाच ।
श्रुत्वा दुर्वाससो वाक्यं धरणीव्रतमुत्तमम् ।
ययौ सत्यतपाः सद्यो हिमवत्पार्श्वमुत्तमम् ॥ ५१.१॥
पुष्पभद्रा नदी यत्र शिला चित्रशिला तथा ।
वटो भद्रवटो यत्र तत्र तस्याश्रमो बभौ ।
तत्रोपरि महत् तस्य चरितं संभविष्यति ॥ ५१.२॥
धरण्युवाच ।
बहुकल्पसहस्राणि व्रतस्यास्य सनातन ।
मया कृतस्य तपसस्तन्मया विस्मृतं प्रभो ॥ ५१.३॥
इदानीं त्वत्प्रसादेन स्मरणं प्राक्तनं मम ।
जातं जातिस्मरा चास्मि विशोका परमेश्वर ॥ ५१.४॥
यदि नाम परं देव कौतुकं हृदि वर्तते ।
अगस्त्यः पुनरागत्य भद्राश्वस्य निवेशनम् ।
यच्चकार स राजा च तन्ममाचक्ष्व भूधर ॥ ५१.५॥
श्रीवराह उवाच ।
प्रत्यागतमृषिं दृष्ट्वा भद्राश्वः श्वेतवाहनः ।
वरासनगतं दृष्ट्वा कृत्वा पूजां विशेषतः ।
अपृच्छन्मोक्षधर्माख्यं प्रश्नं सकलधारिणि ॥ ५१.६॥
भद्राश्व उवाच ।
भगवन् कर्मणा केन छिद्यते भवसंसृतिः ।
किं वा कृत्वा न शोचन्ति मूर्त्तामूर्त्तोपपत्तिषु ॥ ५१.७॥
अगस्त्य उवाच ।
शृणु राजन् कथां दिव्यां दूरासन्नव्यवस्थिताम् ।
दृश्यादृश्यविभागोत्थां समाहितमना नृप ॥ ५१.८॥
नाहो न रात्रिर्न दिशोऽदिशश्च
न द्यौर्न देवा न दिनं न सूर्यः ।
तस्मिन् काले पशुपालेति राजा
स पालयामास पशूननेकान् ॥ ५१.९॥
तान् पालयन् स कदाचिद् दिदृक्षुः
पूर्वं समुद्रं च जगाम तूर्णम् ।
अनन्तपारस्य महोदधेस्तु
तीरे वनं तत्र वसन्ति सर्पाः ॥ ५१.१०॥
अष्टौ द्रुमाः कामवहा नदी च
तुर्यक् चोद्र्ध्वं बभ्रमुस्तत्र चान्ये ।
पञ्च प्रधानाः पुरुषास्तथैकां
स्त्रियं बिभ्रते तेजसा दीप्यमानाम् ॥ ५१.११॥
साऽपि स्त्री स्वे वक्षसि धारयन्ती
सहस्रसूर्यप्रतिमं विशालम् ।
तस्याधरस्त्रिर्विकारस्त्रिवर्ण-
स्तं राजानं पश्य परिभ्रमन्तम् ॥ ५१.१२॥
तूष्णींभूता मृतकल्पा इवासन्
नृपोऽप्यसौ तद्वनं संविवेश ।
तस्मिन् प्रविष्टे सर्व एते विविशु-
र्भयादैक्यं गतवन्तः क्षणेन ॥ ५१.१३॥
तैः सर्पैः स नृपो दुर्विनीतैः
संवेष्टितो दस्युभिश्चिन्तयानः ।
कथं चैतेन भविष्यन्ति येन
कथं चैते संसृताः संभवेयुः ॥ ५१.१४॥
एवं राज्ञश्चिन्तयतस्त्रिवर्णः पुरुषः परः ।
श्वेतं रक्तं तथा कृष्णं त्रिवर्णं धारयन्नरः ॥ ५१.१५॥
स संज्ञां कृतवान् मह्यमपरोऽथ क्व यास्यसि ।
एवं तस्य ब्रुवाणस्य महन्नाम व्यजायत ॥ ५१.१६॥
तेनापि राजा संवीतः स बुध्यस्वेति चाब्रवीत् ।
एवमुक्ते ततः स्त्री तु तं राजानं रुरोध ह ॥ ५१.१७॥
मायाततं तं मा भैष्ट ततोऽन्यः पुरुषो नृपम् ।
संवेष्ट्य स्थितवान् वीरस्ततः सर्वेश्वरेश्वरः ॥ ५१.१८॥
ततोऽन्ये पञ्च पुरुषा आगत्य नृपसत्तमम् ।
संविष्ट्य संस्थिताः सर्वे ततो राजा विरोधितः ॥ ५१.१९॥
रुद्धे राजनि ते सर्वे एकीभूतास्तु दस्यवः ।
मथितुं शस्त्रमादाय लीनाऽन्योऽन्यं ततो भयात् ॥ ५१.२०॥
तैर्लीनैर्नृपर्तेर्वेश्म बभौ परमशोभनम् ।
अन्येषामपि पापानां कोटिः साग्राभवन्नृप ॥ ५१.२१॥
गृहे भूसलिलं वह्निः सुखशीतश्च मारुतः ।
सावकाशानि शुभ्राणि पञ्चैकोनगुणानि च ॥ ५१.२२॥
एकैव तेषां सुचिरं संवेष्ट्यासज्यसंस्थिता ।
एवं स पशुपालोऽसौ कृतवानञ्जसा नृप ॥ ५१.२३॥
तस्य तल्लाघवं दृष्ट्वा रूपं च नृपतेर्मृधे ।
त्रिवर्णः पुरुषो राजन्नब्रवीद् राजसत्तमम् ॥ ५१.२४॥
त्वत्पुत्रोऽस्मि महाराज ब्रूहि किं करवाणि ते ।
अस्माभिर्बन्धुमिच्छद्भिर्भवन्तं निश्चयः कृतः ॥ ५१.२५॥
यदि नाम कृताः सर्वे वयं देव पराजिताः ।
एवमेव शरीरेषु लीनास्तिष्ठाम पार्थिव ॥ ५१.२६॥
मर्य्येके तव पुत्रत्वं गते सर्वेषु संभवः ।
एवमुक्तस्ततो राजा तं नरं पुनरब्रवीत् ॥ ५१.२७॥
पुत्रो भवति मे कर्त्ता अन्येषामपि सत्तम ।
युष्मत्सुखैर्नरैर्भावैर्नाहं लिप्ये कदाचन ॥ ५१.२८॥
एवमुक्त्वा स नृपतिस्तमात्मजमथाकरोत् ।
तैर्विमुक्तः स्वयं तेषां मध्ये स विरराम ह ॥ ५१.२९॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे एकपञ्चाशोऽध्यायः ॥ ५१॥
अगस्त्य उवाच ।
स त्रिवर्णो नृपोत्सृष्टः स्वतन्त्रत्वाच्च पार्थिव ।
अहं नामानमसृजत् पुत्रं पुत्रस्त्रिवर्णकम् ॥ ५२.१॥
तस्यापि चाभवत् कन्या अवबोधस्वरूपिणी ।
सा तु विज्ञानदं पुत्रं मनोह्वं विससर्ज ॥ ५२.२॥
तस्यापि सर्वरूपाः स्युस्तनयाः पञ्चभोगिनः ।
यथासंख्येन पुत्रास्तु तेषामक्षाभिधानकाः ॥ ५२.३॥
एते पूर्वं दस्यवः स्युस्ततो राज्ञा वशीकृताः ।
अमूर्त्ता इव ते सर्वे चक्रुरायतनं शुभम् ॥ ५२.४॥
नवद्बारं पुरं तस्य त्वेकस्तम्भं चतुष्पथम् ।
नदीसहस्रसंकीर्ण जलकृत्य समास्थितम् ॥ ५२.५॥
तत्पुरं ते प्रविविशुरेकीभूतास्ततो नव ।
पुरुषो मूर्त्तिमान् राजा पशुपालोऽभवत् क्षणात् ॥ ५२.६॥
ततस्तत्पुरसंस्थस्तु पशुपालो महानृपः ।
संसूच्य वाचकाञ्छब्दान् वेदान् सस्मार तत्पुरे ॥ ५२.७॥
आत्मस्वरूपिणो नित्यास्तदुक्तानि व्रतानि च ।
नियमान् क्रतवश्चैव सर्वान् राजा चकार ह ॥ ५२.८॥
स कदाचिन्नृपः खिन्नः कर्मकाण्डं प्ररोचयन् ।
सर्वज्ञो योगनिद्रायां स्थित्वा पुत्रं ससर्ज ह ॥ ५२.९॥
चतुर्वक्त्रं चतुर्बाहुं चतुर्वेदं चतुष्पथम् ।
तस्मादारभ्य नृपतेर्वशे पश्वादयः स्थिताः ॥ ५२.१०॥
तस्मिन् समुद्रे स नृपो वने तस्मिंस्तथैव च ।
तृणादिषु नृपस्सैव हस्त्यादिषु तथैव च ।
समोभवत् कर्मकाण्डादनुज्ञाय महामते ॥ ५२.११॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे द्वापञ्चाशोऽध्यायः ॥ ५२॥
भद्राश्व उवाच ।
मत्प्रश्नविषये ब्रह्मन् कथेयं कथिता त्वया ।
तस्या विभूतिरभवत् कस्य केन कृतेन ह ॥ ५३.१॥
अगस्त्य उवाच ।
आगतेयं कथा चित्रा सर्वस्य विषये स्थिता ।
त्वद्देहे मम देहे च सर्वजन्तुषु सा समा ॥ ५३.२॥
तस्यां संभूतिमिच्छन् यस्तस्योपायं स्वयं परम् ।
पशुपालात् समुत्पन्नो यश्चतुष्पाच्चतुर्मुखः ॥ ५३.३॥
स गुरुः स कथायास्तु तस्याश्चैव प्रवर्त्तकः ।
तस्य पुत्रः स्वरो नाम सप्तमूर्तिंरसौ स्मृतः ॥ ५३.४॥
तेन प्रोक्तं तु यत्किंचित् चतुर्णां साधनं नृप ।
ऋगर्थानां चतुर्भिस्ते तद्भक्त्याराध्यतां ययुः ॥ ५३.५॥
चतुर्णां प्रथमो यस्तु चतुःशृङ्गसमास्थितः ।
वृषद्वितीयस्तत्प्रोक्तमार्गेणैव तृतीयकः ।
चतुर्थस्तत्प्रणीतस्तां पूज्य भक्त्या सुतं व्रजेत् ॥ ५३.६॥
सप्तमूर्त्तेस्तु चरितं शुश्रुंवुः प्रथमं नृप ।
ब्रह्मचर्येण वर्त्तेत द्वितीयोऽस्य सनातनः ॥ ५३.७॥
ततो भृत्यादिभरणं वृषभारोहणं त्रिषु ।
वनवासश्च निर्द्दिष्ट आत्मस्थे वृषभे सति ॥ ५३.८॥
अहमस्मि वदत्यन्यश्चतुर्द्धा एकधा द्विधा ।
भेदभिन्नसहोत्पन्नास्तस्यापत्यानि जज्ञिरे ॥ ५३.९॥
नित्यानित्यस्वरूपाणि दृष्ट्वा पूर्वं चतुर्मुखः ।
चिन्तयामास जनकं कथं पश्याम्यहं नृप ॥ ५३.१०॥
मदीयस्य पितुर्ये हि गुणा आसन् महात्मनः ।
न ते सम्प्रति दृश्यन्ते स्वरापत्येषु केषुचित् ॥ ५३.११॥
पितुः पुत्रस्य यः पुत्रः स पितामहनामवान् ।
एवं श्रुतिः स्थिता चेयं स्वरापत्येषु नान्यथा ॥ ५३.१२॥
क्वापि सम्पत्स्यते भावो द्रष्टव्यश्चापि ते पिता ।
एवं नीतेऽपि किं कार्यमिति चिन्तापरोऽभवत् ॥ ५३.१३॥
तस्य चिन्तयतः शस्त्रं पितृकं पुरतो बभौ ।
तेन शस्त्रेण तं रोषान्ममन्थ स्वरमन्तिके ॥ ५३.१४॥
तस्मिन् मथितमात्रे तु शिरस्तस्यापि दुर्ग्रहम् ।
नालिकेरफलाकारं चतुर्वक्त्रोऽन्वपश्यत ॥ ५३.१५॥
तच्चावृतं प्रधानेन दशधा संवृतो बभौ ।
चतुष्पादेन शस्त्रेण चिच्छेद तिलकाण्डवत् ॥ ५३.१६॥
प्रकामं तिलसंच्छिन्ने तदमूलौ न मे बभौ ।
अहं त्वहं वदन् भूतं तमप्येवमथाच्छिनत् ॥ ५३.१७॥
तस्मिन् छिन्ने तदस्यांसे ह्रस्वमन्यमवेक्षत ।
अहं भूतादि वः पञ्च वदन्तं भूतिमन्तिकात् ॥ ५३.१८॥
तमप्येवमथो छित्त्वा पञ्चाशून्यममीक्षत ।
कृत्वावकाशं ते सर्वे जल्पन्त इदमन्तिकात् ॥ ५३.१९॥
तमप्यसङ्गशस्त्रेण चिच्छेद तिलकाण्डवत् ।
तस्मिंच्छिन्ने दशांशेन ह्रस्वमन्यमपश्यत ॥ ५३.२०॥
पुरुषं रूपशस्त्रेण तं छित्त्वाऽन्यमपश्यत ।
तद्वद् ह्रस्वं सितं सौम्यं तमप्येवं तदाऽकरोत् ॥ ५३.२१॥
एवं कृते शरीरं तु ददर्श स पुनः प्रभुः ।
स्वकीयमेवाकस्यान्तः पितरं नृपसत्तम ॥ ५३.२२॥
त्रसरेणुसमं मूर्त्या अव्यक्तं सर्वजन्तुषु ।
समं दृष्ट्वा परं हर्षं उभे विसस्वरार्त्तवित् ॥ ५३.२३॥
एवंविधोऽसौ पुरुषः स्वरनामा महातपाः ।
मूर्त्तिस्तस्य प्रवृत्ताख्यं निवृत्ताख्यं शिरो महत् ॥ ५३.२४॥
एतस्मादेव तस्याशु कथया राजसत्तम ।
संभूतिरभवद् राजन् विवृत्तेस्त्वेष एव तु ॥ ५३.२५॥
एषेतिहासः प्रथमः सर्वस्य जगतो भृशम् ।
य इमं वेत्ति तत्त्वेन साक्षात् कर्मपरो भवेत् ॥ ५३.२६॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे त्रिपञ्चाशोऽध्यायः ॥ ५३॥
भद्राश्व उवाच ।
विज्ञानोत्पत्तिकामस्य क आराध्यो भवेद् द्विज ।
कथं चाराध्यतेऽसौ हि एतदाख्याहि मे द्विज ॥ ५४.१॥
अगस्त्य उवाच ।
विष्णुरेव सदाराध्यः सर्वदेवैरपि प्रभुः ।
तस्योपायं प्रवक्ष्यामि येनासौ वरदो भवेत् ॥ ५४.२॥
रहस्यं सर्वदेवानां मुनीनां मनुजांस्तथा ।
नारायणः परो देवस्तं प्रणम्य न सीदति ॥ ५४.३॥
श्रूयते च पुरा राजन् नारदेन महात्मना ।
कथितं तुष्टिदं विष्णोर्व्र्तमप्सरसां तथा ॥ ५४.४॥
नारदस्तु पुरा कल्पे गतवान् मानसं सरः ।
स्नानार्थं तत्र चजापश्यत् सर्वमप्सरसां गणम् ॥ ५४.५॥
तास्तं दृष्ट्वा विलासिन्यो जटामुकुटधारिणम् ।
अस्थिचर्मावशेषं तु छत्रदण्डकपालिनम् ॥ ५४.६॥
देवासुरमनुष्याणां दिदृक्षुं कलहप्रियम् ।
ब्रह्मपुत्रं तपोयुक्तं पप्रच्छुस्ता वराङ्गनाः ॥ ५४.७॥
अप्सरस ऊचुः ।
भगवन् ब्रह्मतनय भर्तृकामा वयं द्विज ।
नारायणश्च भर्त्ता नो यथा स्यात् तत् प्रचक्ष्व नः ॥ ५४.८॥
नारद उवाच ।
प्रणामपूर्वकः प्रश्नः सर्वत्र विहितः शुभः ।
स च मे न कृतो गर्वाद् युष्माभिर्यौवनस्मयात् ॥ ५४.९॥
तथापि देवदेवस्य विष्णोर्यन्नामकीर्तितम् ।
भवतीभिस्तथा भर्त्ता भवत्विति हरिः कृतः ।
तन्नामोच्चारणादेव कृतं सर्वं न संशयः ॥ ५४.१०॥
इदानीं कथयाम्याशु व्रतं येन हरिः स्वयम् ।
वरदत्वमवाप्नोति भर्तृत्वं च नियच्छति ॥ ५४.११॥
नारद उवाच ।
वसन्ते शुक्लपक्षस्य द्वादशी या भवेच्छुभा ।
तस्यामुपोष्य विधिवन् निशायां हरिमर्च्चयेत् ॥ ५४.१२॥
पर्यङ्कास्तरणं कृत्वा नानाचित्रसमन्वितम् ।
तत्र लक्ष्म्या युतं रौप्यं हरिं कृत्वा निवेशयेत् ॥ ५४.१३॥
तस्योपरि ततः पुष्पैर्मण्डपं कारयेद् बुधः ।
नृत्यवादित्रगेयैश्च जागरं तत्र कारयेत् ॥ ५४.१४॥
मनोभवायेति शिर अनङ्गायेति वै कटिम् ।
कामाय बाहुमूले तु सुशास्त्रायेति चोदरम् ॥ ५४.१५॥
मन्मथायेति पादौ तु हरयेति च सर्वतः ।
पुष्पैः सम्पूज्य देवेशं मल्लिकाजातिभिस्तथा ॥ ५४.१६॥
पश्चाच्चतुर आदाय इक्षुदण्डान् सुशोभनान् ।
चतुर्दिक्षु न्यसेत् तस्य देवस्य प्रणतो नृप ॥ ५४.१७॥
एवं कृत्वा प्रभाते तु प्रदद्याद् ब्राह्मणाय वै ।
वेदवेदाङ्गयुक्ताय सम्पूर्णाङ्गाय धीमते ॥ ५४.१८॥
ब्राह्मणांश्च तथा पूज्य व्रतमेतत् समापयेत् ।
एवं कृते तथा विष्णुर्भर्त्ता वो भविता ध्रुवम् ॥ ५४.१९॥
अकृत्वा मत्प्रणामं तु पृष्टो गर्वेण शोभनाः ।
अवमानस्य तस्यायं विपाको वो भविष्यति ॥ ५४.२०॥
एतस्मिन्नेव सरसि अष्टावक्रो महामुनिः ।
तस्योपहासं कृत्वा तु शापं लप्स्यथ शोभनाः ॥ ५४.२१॥
व्रतेनानेन देवेशं पतिं लब्ध्वाऽभिमानतः ।
अवमानेऽपहरणं गोपालैर्वो भविष्यति ।
पुरा हर्त्ता च कन्यानां देवो भर्त्ता भविष्यति ॥ ५४.२२॥
अगस्त्य उवाच ।
एवमुक्त्वा स देवर्षिः प्रययौ नारदः क्षणात् ।
ता अप्येतद् व्रतं चक्रुस्तुष्टश्चासां स्वयं हरिः ॥ ५४.२३॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे चतुःपञ्चाशोऽध्यायः ॥ ५४॥
अगस्त्य उवाच ।
शृणु राजन् महाभाग व्रतानामुत्तमं व्रतम् ।
येन सम्प्राप्यते विष्णुः शुभेनैव न संशयः ॥ ५५.१॥
मार्गशीर्षेऽथ मासे तु प्रथमाह्नात् समारभेत् ।
एकभक्तं सिते पक्षे यावत् स्याद् दशमी तिथिः ॥ ५५.२॥
ततो दशम्यां मध्याह्ने स्नात्वा विष्णुं समर्च्य च ।
भक्त्या संकल्पयेत् प्राग्वद् द्वादशीं पक्षतो नृप ॥ ५५.३॥
तामप्येवमुषित्वा च यवान् विप्राय दापयेत् ।
कृष्णायेति हरिर्वाच्यो दाने होमे तथार्च्चने ॥ ५५.४॥
चातुर्मास्यमथैवं तु क्षपित्वा राजसत्तम ।
चैत्रादिषु पुनस्तद्वदुपोष्य प्रयतः सुधीः ।
सक्तुपात्राणि विप्राणां सहिरण्यानि दापयेत् ॥ ५५.५॥
श्रावणादिषु मासेषु तद्वच्छालिं प्रदापयेत् ।
त्रिषु मासेषु यावच्च कार्त्तिकस्यादिरागतः ॥ ५५.६॥
तमप्येवं क्षपित्वा तु दशम्यां प्रयतः शुचिः ।
अर्चयित्वा हरिं भक्त्या मासनाम्ना विचक्षणः ॥ ५५.७॥
संकल्पं पूर्ववद् भक्त्या द्वादश्यां संयतेन्द्रियः ।
एकादश्यां यथाशक्त्या कारयेत् पृथिवीं नृप ॥ ५५.८॥
काञ्चनाङ्गां च पातालकुलपर्वतसंयुताम् ।
भूमिन्यासविधानेन स्थापयेत् तां हरेः पुरः ॥ ५५.९॥
सितवस्त्रयुगच्छन्नां सर्वबीजसमन्विताम् ।
सम्पूज्य प्रियदत्तेति पञ्चरत्नैर्विचक्षणः ॥ ५५.१०॥
जागरं तत्र कुर्वीत प्रभाते तु पुनर्द्विजान् ।
आमन्त्र्यं संख्यया राजंश्चतुर्विंशति यावतः ॥ ५५.११॥
तेषां एकैकशो गां च अनड्वाहं च दापयेत् ।
एकैकं वस्त्रयुग्मं च अङ्गुलीयकमेव च ॥ ५५.१२॥
कटकानि च सौवर्णकर्णाभरणकानि च ।
एकैकं ग्राममेतेषां राजा राजन् प्रदापयेत् ॥ ५५.१३॥
तन्मध्यमं सयुग्मं तु सर्वमाद्यं प्रदापयेत् ।
स्वशक्त्याभरणं चैव दरिद्रस्य स्वशक्तितः ॥ ५५.१४॥
यथाशक्त्या महीं कृत्वा काञ्चनीं गोयुगं तथा ।
वस्त्रयुग्मं च दातव्यं यथाविभवशक्तितः ॥ ५५.१५॥
गां युग्माभरणात् सर्वं सहिरण्यं च कारयेत् ।
एवं कृते तथा कृष्णशुक्लद्वादश्यमेव च ॥ ५५.१६॥
रौप्यां वा पृथिवीं कृत्वा यथाविभवशक्तितः ।
दापयेद् ब्राह्मणानां तु तथा तेषां च भोजनम् ।
उपानहौ यथाशक्त्या पादुके छत्रिकां तथा ॥ ५५.१७॥
एतान् दत्त्वा वदेदेवं कृष्णो दामोदरो मम ।
प्रीयतां सर्वदा देवो विश्वरूपो हरिर्मम ॥ ५५.१८॥
दाने च भोजने चैव कृत्वा यत् फलमाप्यते ।
तन्न शक्यं सहस्रेण वर्षाणामपि कीर्तितुम् ॥ ५५.१९॥
तथाप्युद्देशतः किञ्चित् फलं वक्ष्यामि तेऽनघ ।
व्रतस्यास्य पुरा वृत्तं शुभान्यस्य शृणुष्व तत् ॥ ५५.२०॥
आसीदादियुगे राजा ब्रह्मवादी दृढव्रतः ।
स पुत्रकामः पप्रच्छ ब्रह्माणं परमेष्ठिनम् ।
तस्येदं व्रतमाचख्यौ ब्रह्मा स कृतवांस्तथा ॥ ५५.२१॥
तस्य व्रतान्ते विश्वात्मा स्वयं प्रत्यक्षतां ययौ ।
तुष्टश्चोवाच भो राजन् वरो मे व्रियतां वरः ॥ ५५.२२॥
राजोवाच ।
पुत्रं मे देहि देवेश वेदमन्त्रविशारदम् ।
याजकं यजनासक्तं कीर्त्या युक्तं चिराभुषम् ।
असंख्यातगुणं चैव ब्रह्मभूतमकल्मषम् ॥ ५५.२३॥
एवमुक्त्वा ततो राजा पुनर्वचनमब्रवीत् ।
ममाप्यन्ते शुभं स्थानं प्रयच्छ परमेश्वर ।
यतन्मुनिपदं नाम यत्र गत्वा न शोचति ॥ ५५.२४॥
एवमस्त्विति तं देवः प्रोक्त्वा चादर्शनं गतः ।
तस्यापि राज्ञः पुत्रोऽभूद् वत्सप्रीर्नाम नामतः ॥ ५५.२५॥
वेदवेदाङ्गसम्पन्नो यज्ञयाजी बहुश्रुतः ।
तस्य कीर्त्तिर्महाराज विस्तृता धरणीतले ॥ ५५.२६॥
राजाऽपि तं सुतं लब्ध्वा विष्णुदत्तं प्रतापिनम् ।
जगाम तपसे युक्तः सर्वद्वन्द्वान् प्रहाय सः ॥ ५५.२७॥
आराधयामास हरिं निराहारो जितेन्द्रियः ।
हिमवत्पर्वते रम्ये स्तुतिं कुर्वंस्तदा नृपः ॥ ५५.२८॥
भद्राश्व उवाच ।
कीदृशी सा स्तुतिर्ब्रह्मन् यां चकार स पार्थिवः ।
किं च तस्याभवद् देवं स्तुवतः पुरुषोत्तमम् ॥ ५५.२९॥
दुर्वासा उवाच ।
हिमवन्तं समाश्रित्य राजा तद्गतमानसः ।
स्तुतिं चकार देवाय विष्णवे प्रभविष्णवे ॥ ५५.३०॥
राजोवाच ।
क्षराक्षरं क्षीरसमुद्रशायिनं
क्षितीधरं मूर्तिमतां परं पदम् ।
अतीन्द्रियं विश्वभुजां पुरः कृतं
निराकृतं स्तौमि जनार्दनं प्रभुम् ॥ ५५.३१॥
त्वमादिदेवः परमार्थरूपी
विभुः पुराणः पुरुषोत्तमश्च ।
अतीन्द्रियो वेदविदां प्रधानः
प्रपाहि मां शङ्खगदास्त्रपाणे ॥ ५५.३२॥
कृतं त्वया देव सुरासुराणां
संकीर्त्यतेऽसौ च अनन्तमूर्ते ।
सृष्ट्यर्थमेतत् तव देव विष्णो
न चेष्टितं कूटगतस्य तत्स्यात् ॥ ५५.३३॥
तथैव कूर्मत्वमृगत्वमुच्चै -
स्त्वया कृतं रूपमनेकरूप ।
सर्वज्ञभावादसकृच्च जन्म
संकीर्त्त्यते तेऽच्युत नैतदस्ति ॥ ५५.३४॥
नृसिंह नमो वामन जमदग्निनाम
दशास्यगोत्रान्तक वासुदेव ।
नमोऽस्तु ते बुद्ध कल्किन् खगेश
शंभो नमस्ते विबुधारिनाशन ॥ ५५.३५॥
नमोऽस्तु नारायण पद्मनाभ
नमो नमस्ते पुरुषोत्तमाय ।
नमः समस्तामरसङ्घपूज्य
नमोऽस्तु ते सर्वविदां प्रधान ॥ ५५.३६॥
नमः करालास्य नृसिंहमूर्त्ते
नमो विशालाद्रिसमान कूर्म ।
नमः समुद्रप्रतिमान मत्स्य
नमामि त्वां क्रोडरूपिननन्त ॥ ५५.३७॥
सृष्ट्यर्थमेतत् तव देव चेष्टितं
न मुख्यपक्षे तव मूर्त्तिता विभो ।
अजानता ध्यानमिदं प्रकाशितं
नैभिर्विना लक्ष्यसे त्वं पुराण ॥ ५५.३८॥
आद्यो मखस्त्वं स्वयमेव विष्णो
मखाङ्गभूतोऽसि हविस्त्वमेव ।
पशुर्भवान् ऋत्विगिज्यं त्वमेव
त्वां देवसङ्घा मुनयो यजन्ति ॥ ५५.३९॥
यदेतस्मिन् जगध्रुवं चलाचलं
सुरादिकालानलसंस्थमुत्तमम् ।
न त्वं विभक्तोऽसि जनार्दनेश
प्रयच्छ सिद्धिं हृदयेप्सितां मे ॥ ५५.४०॥
नमः कमलपत्राक्ष मूर्त्तामूर्त्त नमो हरे ।
शरणं त्वां प्रपन्नोऽस्मि संसारान्मां समुद्धर ॥ ५५.४१॥
एवं स्तुतस्तदा देवस्तेन राज्ञा महात्मना ।
विशालाम्रतलस्थेन तुतोष परमेश्वरः ॥ ५५.४२॥
कुब्जरूपी ततो भूत्वा आजगाम हरिः स्वयम् ।
तस्मिन्नागतमात्रे तु सीप्याम्रः कुब्जकोऽभवत् ॥ ५५.४३॥
तं दृष्ट्वा महदाश्चर्यं स राजा संशितव्रतः ।
विशालस्य कथं कौब्ज्यमिति चिन्तापरोभवत् ॥ ५५.४४॥
तस्य चिन्तयतो बुद्धिर्बभौ तं ब्राह्मणं प्रति ।
अनेनागतमात्रेण कृतमेतन्न संशयः ॥ ५५.४५॥
तस्मादेषैव भविता भगवान् पुरुषोत्तमः ।
एवमुक्त्वा नमश्चक्रे तस्य विप्रस्य स नृपः ॥ ५५.४६॥
अनुग्रहाय भगवन् नूनं त्वं पुरुषोत्तमः ।
आगतोऽसि स्वरूपं मे दर्शयस्वाधुना हरे ॥ ५५.४७॥
एवमुक्तस्तदा देवः शङ्खचक्रगदाधरः ।
बभौ तत्पुरतः सौम्यो वाक्यं चेदमुवाच ह ॥ ५५.४८॥
वरं वृणीष्व राजेन्द्र यत्ते मनसि वर्तते ।
मयि प्रसन्ने त्रैलोक्य तिलमात्रमिदं नृप ॥ ५५.४९॥
एवमुक्तस्ततो राजा हर्षोत्फुल्लितलोचनः ।
मोक्षं प्रयच्छ देवेशेत्युक्त्वा नोवाच किंचन ॥ ५५.५०॥
एवमुक्तः स भगवान् पुनर्वाक्यमुवाच ह ।
मय्यागते विशालोऽयमाम्रः कुब्जत्वमागतः ।
यस्मात् तस्मात् तीर्थमिदं कुब्जकाम्रं भविष्यति ॥ ५५.५१॥
तिर्यग्योन्यादयोऽप्यस्मिन् ब्राह्मणान्ता यदि स्वकम् ।
कलेवरं त्यजिष्यन्ति तेषां पञ्चशतानि च ।
विमानानि भविष्यन्ति योगिनां मुक्तिरेव च ॥ ५५.५२॥
एवमुक्त्वा नृपं देवः शङ्खाग्रेण जनार्दनः ।
पस्पर्श स्पृष्टमात्रोऽसौ परं निर्वाणमाप्तवान् ॥ ५५.५३॥
तस्मात्त्वमपि राजेन्द्र तं देवं शरणं व्रज ।
येन भूयः पुनः शोच्यपदवीं नो प्रयास्यसि ॥ ५५.५४॥
य इदं शृणुयान्नित्यं प्रातरुत्थाय मानवः ।
पठेद् यश्चरितं ताभ्यां मोक्षधर्मार्थदो भवेत् ॥ ५५.५५॥
शुभव्रतमिदं पुण्यं यश्च कुर्याज्जनेश्वर ।
स सर्वसम्पदं चेह भुक्त्वेते तल्लयं व्रजेत् ॥ ५५.५६॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे पञ्चपञ्चाशोऽध्यायः ॥ ५५॥
अगस्त्य उवाच ।
अतः परं प्रवक्ष्यामि धन्यव्रतमनुत्तमम् ।
येन सद्यो भवेद् धन्य अधन्योऽपि हि यो भवेत् ॥ ५६.१॥
मार्गशीर्षे सिते पक्षे प्रतिपद् या तिथिर्भवेत् ।
तस्यां नक्तं प्रकुर्वीत विष्णुमग्निं प्रपूजयेत् ॥ ५६.२॥
वैश्वानराय पादौ तु अग्नयेत्युदरं तथा ।
हविर्भुंजाय च उरो द्रविणोदेति वै भुजो ॥ ५६.३॥
संवर्त्तायेति च शिरो ज्वलनायेति सर्वतः ।
अभ्यर्च्यैवं विधानेन देवदेवं जनार्दनम् ॥ ५६.४॥
तस्यैव पुरतः कुण्डं कारयित्वा विघानतः ।
होमं तत्र प्रकुर्वीत एभिर्मन्त्रैर्विचक्षणः ॥ ५६.५॥
ततः संयावकं चान्नं भुञ्जीयाद् घृतसंयुतम् ।
कृष्णपक्षेऽप्येवमेव चातुर्मास्यं तु यावतः ॥ ५६.६॥
चैत्रादिषु च भुञ्जीत पायसं सघृतं बुधः ।
श्रावणादिषु सक्तूंश्च ततश्चैतत् समाप्यते ॥ ५६.७॥
समाप्ते तु व्रते वह्निं काञ्चनं कारयेद् बुधः ।
रक्तवस्त्रयुगच्छन्नं रक्तपुष्पानुलेपनम् ॥ ५६.८॥
कुङ्कुमेन तथा लिप्य ब्राह्मणं देवदेव च ।
सर्वावयवसम्पूर्णं ब्राह्मणं प्रियदर्शनम् ॥ ५६.९॥
पूजयित्वा विधानेन रक्तवस्त्रयुगेन च ।
पश्चात् तं दापयेत् तस्य मन्त्रेणानेन बुद्धिमान् ॥ ५६.१०॥
धन्योऽस्मि धन्यकर्माऽस्मि धन्यचेष्टोऽस्मि धन्यवान् ।
धन्येनानेन चीर्णेन व्रतेन स्यां सदा सुखी ॥ ५६.११॥
एवमुच्चार्य तं विप्रे न्यस्य कोशं महात्मनः ।
सद्यो धन्यत्वमाप्नोति योऽपि स्याद् भाग्यवर्जितः ॥ ५६.१२॥
इह जन्मनि सौभाग्यं धनं धान्यं च पुष्कलम् ।
अनेन कृतमात्रेण जायते नात्र संशयः ॥ ५६.१३॥
प्राग्जन्मजनितं पापमग्निर्दहति तस्य ह ।
दग्धे पापे विमुक्तात्मा इह जन्मन्यसौ भवेत् ॥ ५६.१४॥
योऽपीदं शृणुयान्नित्यं यश्च भक्त्या पठेद् द्विजः ।
उभौ ताविह लोके तु धन्यौ सद्यो भविष्यतः ॥ ५६.१५॥
श्रूयते च व्रतं चैतच्चीर्णमासीन्महात्मना ।
धनदेन पुरा कल्पे शूद्रयोनौ स्थितेन तु ॥ ५६.१६॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे षट्पञ्चाशोऽध्यायः ॥ ५६॥
अगस्त्य उवाच ।
अतः परं प्रवक्ष्यामि कान्तिव्रतमनुत्तमम् ।
यत्कृत्वा तु पुरा सोमः कान्तिमानभवत् पुनः ॥ ५७.१॥
यक्ष्मणा दक्षशापेन पुराक्रान्तो निशाकरः ।
एतच्चीर्त्वा व्रतं सद्यः कान्तिमानभवत् किल ॥ ५७.२॥
द्वितीयायां तु राजेन्द्र कार्त्तिकस्य सिते दिने ।
नक्तं कुर्वीत यत्नेन अर्चयन् बलकेशवम् ॥ ५७.३॥
बलदेवाय पादौ तु केशवाय शिरोऽर्चयेत् ।
एवमभ्यर्च्य मेधावी वैष्णवं रूपमुत्तमम् ॥ ५७.४॥
परस्वरूपं सोमाख्यं द्विकलं तद्दिने हि यत् ।
तस्यार्घं दापयेद् धीमान् मन्त्रेण परमेष्ठिनः ॥ ५७.५॥
नमोऽस्त्वमृतरूपाय सर्वौषधिनृपाय च ।
यज्ञलोकाधिपतये सोमाय परमात्मने ॥ ५७.६॥
अनेनैव च मार्गेण दत्त्वार्घ्यं परमेष्ठिनः ।
रात्रौ सविप्रो भुञ्जीत यवान्नं सघृतं नरः ॥ ५७.७॥
फाल्गुनादिचतुष्के तु पायसं भोजयेच्छुचिः ।
शालिहोमं तु कुर्वीत कार्त्तिके तु यवैस्तथा ॥ ५७.८॥
आषाढादिचतुष्के तु तिलहोमं तु कारयेत् ।
तद्वत् तिलान्नं भुञ्जीत एष एव विधिक्रमः ॥ ५७.९॥
ततः संवत्सरे पूर्णे शशिनं कृतराजतम् ।
सितवस्त्रयुगच्छन्नं सितपुष्पानुलेपनम् ।
एवमेव द्विजं पूज्य ततस्तं प्रतिपादयेत् ॥ ५७.१०॥
कान्तिमानपि लोकेऽस्मिन् सर्वज्ञः प्रियदर्शनः ।
त्वत्प्रसादात् सोमरूपिन् नारायण नमोऽस्तु ते ॥ ५७.११॥
अनेन किल मन्त्रेण दत्त्वा विप्राय वाग्यतः ।
दत्तमात्रे ततस्तस्मिन् कान्तिमान् जायते नरः ॥ ५७.१२॥
आत्रेयेणापि सोमेन कृतमेतत् पुरा नृप ।
तस्य व्रतान्ते संतुष्टः स्वयमेव जनार्दनः ।
यक्ष्माणमपनीयाशु अमृताख्यां कलां ददौ ॥ ५७.१३॥
तां कलां सोमराजाऽसौ तपसा लब्धवानिति ।
सोमत्वं चागमत् सोऽस्य ओषधीनां पतिर्बभौ ॥ ५७.१४॥
द्वितीयामश्विनौ सोमभुजौ कीर्त्येते तद्दिने नृप ।
तौ शेषविष्णू विख्यातौ मुख्यपक्षौ न संशयः ॥ ५७.१५॥
न विष्णोर्व्यतिरिक्तं स्याद् दैवतं नृपसत्तम ।
नामभेदेन सर्वत्र संस्थितः परमेश्वरः ॥ ५७.१६॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे सप्तपञ्चाशोऽध्यायः ॥ ५७॥
अगस्त्य उवाच ।
अतः परं महाराज सौभाग्यकरणं व्रतम् ।
शृणु येनाशु सौभाग्यं स्त्रीपुंसामुपजायते ॥ ५८.१॥
फाल्गुनस्य तु मासस्य तृतीया शुक्लपक्षतः ।
उपासितव्या नक्तेन शुचिना सत्यवादिना ॥ ५८.२॥
सश्रीकं च हरिं पूज्य रुद्रं वा चोमया सह ।
या श्रीः सा गिरिजा प्रोक्ता यो हरिः स त्रिलोचनः ॥ ५८.३॥
एवं सर्वेषु शास्त्रेषु पुराणेषु च पठ्यते ।
एतस्मादन्यथा यस्तु ब्रूते शास्त्रं पृथक्तया ॥ ५८.४॥
रुद्रो जनानां मर्त्यानां काव्यं शास्त्रं न तद्भवेत् ।
विष्णुं रुद्रकृतं ब्रूयात् श्रीर्गौरी न तु पार्थिव ।
तन्नास्तिकानां मर्त्यानां काव्यं ज्ञेयं विचक्षणैः ॥ ५८.५॥
एवं ज्ञात्वा सलक्ष्मीकं हरिं सम्पूज्य भक्तितः ।
मन्त्रेणानेन राजेन्द्र ततस्तं परमेश्वरम् ॥ ५८.६॥
गम्भीरायेति पादौ तु सुभगायेति वै कटिम् ।
उदरं देवदेवेति त्रिनेत्रायेति वै मुखम् ।
वाचस्पतये च शिरो रुद्रायेति च सर्वतः ॥ ५८.७॥
एवमभ्यर्च्य मेधावी विष्णुं लक्ष्म्या समन्वितम् ।
हरं वा गौरिसंयुक्तं गन्धपुष्पादिभिः क्रमात् ॥ ५८.८॥
ततस्तस्याग्रतो होमं कारयेन्मधुसर्पिषा ।
तिलैः सह महाराज सौभाग्यपतयेति च ॥ ५८.९॥
ततस्त्वक्षारविरसं निस्नेहं धरणीतले ।
गोधूमान्नं तु भुञ्जीत कृष्णेप्येवं विधिः स्मृतः ।
आषाढादिद्वितीयां तु पारणं तत्र भोजनम् ॥ ५८.१०॥
यवान्नं तु ततः पश्चात् कार्त्तिकादिषु पार्थिव ।
श्यामाकं तत्र भुञ्जीत त्रीन् मासान् नियतः शुचिः ॥ ५८.११॥
ततो माघसिते पक्षे तृतीयायां नराधिप ।
सौवर्णां कारयेद् गौरीं रुद्रं चैकत्र बुद्धिमान् ॥ ५८.१२॥
सलक्ष्मीकं हरिं चापि यथाशक्त्या प्रसन्नधीः ।
ततस्तं ब्राह्मणे दद्यात् पात्रभूते विचक्षणे ॥ ५८.१३॥
अन्नेन हीने वेदानां पारगे साधुवर्तिनि ।
सदाचारेति वा दद्यादल्पवित्ते विशेषतः ॥ ५८.१४॥
षड्भिः पात्रैरुपेतं तु ब्राह्मणाय निवेदयेत् ।
एकं मधुमयं पात्रं द्वितीयं घृतपूरितम् ॥ ५८.१५॥
तृतीयं तिलतैलस्य चतुर्थं गुडसंयुतम् ।
पञ्चमं लवणैः पूर्णं षष्ठं गोक्षीरसंयुतम् ॥ ५८.१६॥
एतानि दत्त्वा पात्राणि सप्तजन्मान्तरं भवेत् ।
सुभगो दर्शनीयश्च नारी वा पुरुषोऽपि वा ॥ ५८.१७॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे अष्टपञ्चाशोऽध्यायः ॥ ५८॥
अगस्त्य उवाच ।
अथाविघ्नकरं राजन् कथयामि शृणुष्व मे ।
येन सम्यक् कृतेनापि न विघ्नमुपजायते ॥ ५९.१॥
चतुर्थ्यां फाल्गुने मासि ग्रहीतव्यं व्रतं त्विदम् ।
नक्ताहारेण राजेन्द्र तिलान्नं पारणं स्मृतम् ।
तदेवाग्नौ तु होतव्यं ब्राह्मणाय च तद् भवेत् ॥ ५९.२॥
चातुर्मास्यं व्रतं चैतत् कृत्वा वै पञ्च मे तथा ।
सौवर्णं गजवक्त्रं तु कृत्वा विप्राय दापयेत् ॥ ५९.३॥
पायसैः पञ्चभिः पात्रैरुपेतं तु तिलैस्तथा ।
एवं कृत्वा व्रतं चैतत् सर्वविघ्नैर्विमुच्यते ॥ ५९.४॥
हयमेधस्य विघ्ने तु संजाते सगरः पुरा ।
एतदेव चरित्वा तु हयमेधं समाप्तवान् ॥ ५९.५॥
तथा रुद्रेण देवेन त्रिपुरं निघ्नता पुरा ।
एतदेव कृतं तस्मात् त्रिपुरं तेन पातितम् ।
मया समुद्रं पिबता एतदेव कृतं व्रतम् ॥ ५९.६॥
अन्यैरपि महीपालैरेतदेव कृतं पुरा ।
तपोऽर्थिभिर्ज्ञानकृतैर्निर्विघ्नार्थे परंतप ॥ ५९.७॥
शूराय धीराय गजाननाय
लम्बोदरायैकदंष्ट्राय चैव ।
एवं पूज्यस्तद्दिने तत् पुनश्च
होमं कुर्याद् विघ्नविनाशहेतोः ॥ ५९.८॥
अनेन कृतमात्रेण सर्वविघ्नैर्विमुच्यते ।
विनायकस्य कृपया कृतकृत्यो नरो भवेत् ॥ ५९.९॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे नवपञ्चाशोऽध्यायः ॥ ५९॥
अगस्त्य उवाच ।
शान्तिव्रतं प्रवक्ष्यामि तव राजन् शृणुष्व तत् ।
येन चीर्णेन शान्तिः स्यात् सर्वदा गृहमेधिनाम् ॥ ६०.१॥
पञ्चम्यां शुक्लपक्षस्य कार्त्तिके मासि सुव्रत ।
आरभेद् वर्षमेकं तु भुञ्जीयादम्लवर्जितम् ॥ ६०.२॥
नक्तं देवं तु सम्पूज्य हरिं शेषोपरि स्थितम् ।
अनन्तायेति पादौ तु वासुकायेति वै कटिम् ॥ ६०.३॥
तक्षकायेति जठरमुरः कर्कोटकाय च ।
पद्माय कण्ठं सम्पूज्य महापद्माय दोर्युगम् ॥ ६०.४॥
शङ्खपालाय वक्त्रं तु कुटिलायेति वै शिरः ।
एवं विष्णुगतं पूज्य पृथक्त्वेन च पूजयेत् ॥ ६०.५॥
क्षीरेण स्नपनं कुर्यात् तानुद्दिश्य हरेः पुनः ।
तदग्रे होमयेत् क्षीरं तिलैः सह विचक्षणः ॥ ६०.६॥
एवं संवत्सरस्यान्ते कुर्याद् ब्राह्मणभोजनम् ।
नागं तु काञ्चनं कुर्याद् ब्राह्मणाय निवेदयेत् ॥ ६०.७॥
एवं यः कुरुते भक्त्या व्रतमेतन्नराधिपः ।
तस्य शान्तिर्भवेन्नित्यं नागानां न भयं तथा ॥ ६०.८॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे षष्टितमोऽध्यायः ॥ ६०॥
अगस्त्य उवाच ।
कामव्रतं महाराज शृणु मे गदतोऽधुना ।
येन कामाः समृद्ध्यन्ते मनसा चिन्तिता अपि ॥ ६१.१॥
षष्ठ्यां फलाशनो यस्तु वर्षमेकं व्रतं चरेत् ।
पौषमाससिते पक्षे चतुर्थ्यां कृतभोजनः ॥ ६१.२॥
षष्ठ्यां तु पारयेद् धीमान् प्रथमं तु फलं नृप ।
ततो भुञ्जीत यत्नेन वाग्यतः शुद्धमोदनम् ॥ ६१.३॥
ब्राह्मणैः सह राजेन्द्र अथवा केवलैः फलैः ।
तमेकं दिवसं स्थित्वा सप्तम्यां पारयेन्नृप ॥ ६१.४॥
अग्निकार्यं तु कुर्वीत गुहरूपेण केशवम् ।
पूजयित्वाभिधानेन वर्षमेकं व्रतं चरेत् ॥ ६१.५॥
षड्वक्त्र कार्त्तिक गुह सेनानी कृत्तिकासुत ।
कुमार स्कन्द इत्येवं पूज्यो विष्णुः स्वनामभिः ॥ ६१.६॥
समाप्तौ तु व्रतस्यास्य कुर्याद् ब्राह्मणभोजनम् ।
षण्मुखं सर्वसौवर्णं ब्राह्मणाय निवेदयेत् ॥ ६१.७॥
सर्वे कामाः समृद्ध्यन्तां मम देव कुमारक ।
त्वत्प्रसादादिमं भक्त्या गृह्यतां विप्र माचिरम् ॥ ६१.८॥
अनेन दत्त्वा मन्त्रेण ब्राह्मणाय सयुग्मकम् ।
ततः कामाः समृद्ध्यन्ते सर्वे वै इह जन्मनि ॥ ६१.९॥
अपुत्रो लभते पुत्रमधनो लभते धनम् ।
भ्रष्टराज्यो लभेद् राज्यं नात्र कार्या विचारणा ॥ ६१.१०॥
एतद् व्रतं पुरा चीर्णं नलेन नृपसत्तम ।
ऋतुपर्णस्य विषये वसता व्रतचर्यया ॥ ६१.११॥
तथा राज्यच्युतैरन्यैर्बहुभिर्नृपसत्तमैः ।
पौराणिकं व्रतं चैव सिद्ध्यर्थं नृपसत्तम ॥ ६१.१२॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे एकषष्टितमोऽध्यायः ॥ ६१॥
अगस्त्य उवाच ।
अथापरं महाराज व्रतमारोग्यसंज्ञितम् ।
कथयामि परं पुण्यं सर्वपापप्रणाशनम् ॥ ६२.१॥
तस्यैव माघमासस्य सप्तम्यां समुपोषितः ।
पूजयेद् भास्करं देवं विष्णुरूपं सनातनम् ॥ ६२.२॥
आदित्य भास्कर रवे भानो सूर्य दिवाकर ।
प्रभाकरेति सम्पूज्य एवं सम्पूज्यते रविः ॥ ६२.३॥
षष्ठ्यां चैव कृताहारः सप्तम्यां भानुमर्चयेत् ।
अष्टम्यां चैव भुञ्जीत एष एव विधिक्रमः ॥ ६२.४॥
अनेन वत्सरं पूर्णं विधिना योऽर्चयेद् रविम् ।
तस्यारोग्यं धनं धान्यमिह जन्ममि जायते ।
परत्र च शुभं स्थानं यद् गत्वा न निवर्तते ॥ ६२.५॥
सार्वभौमः पुरा राजा अनरण्यो महाबलः ।
तेनायमर्चितो देवो व्रतेनानेन पार्थिव ।
तस्य तुष्टो वरं देवः प्रादादारोग्यमुत्तमम् ॥ ६२.६॥
भद्राश्व उवाच ।
किमसौ रोगवान् राजा येनारोग्यमवाप्तवान् ।
सार्वभौमस्य च कथं ब्रह्मन् रोगस्य संभवः ॥ ६२.७॥
अगस्त्य उवाच ।
स राजा सार्वभौमोऽभूद् यशस्वी च सुरूपवान् ।
स कदाचिन्नृपश्रेष्ठो नृपश्रेष्ठ महाबलः ॥६२.८॥
गतवान् मानसं दिव्यं सरो देवगणान्वितम् ।
तत्रापश्यद् बृहद् पद्मं सरोमध्यगतं सितम् ॥ ६२.९॥
तत्र चाङ्गुष्ठमात्रं तु स्थितं पुरुषसत्तमम् ।
रक्तवासोभिराछन्नं द्विभुजं तिग्मतेजसम् ॥ ६२.१०॥
तं दृष्ट्वा सारथिं प्राह पद्ममेतत् समानय ।
इदं तु शिरसा बिभ्रत् सर्वलोकस्य सन्निधौ ।
श्लाघनीयो भविष्यामि तस्मादाहर माचिरम् ॥ ६२.११॥
एवमुक्तस्तदा तेन सारथिः प्रविवेश ह ।
ग्रहीतुमुपचक्राम तं पद्मं नृपसत्तम ॥ ६२.१२॥
स्पृष्टमात्रे ततः पद्मे हुङ्कारः समजायत ।
तेन शब्देन स त्रस्तः पपात च ममार च ॥ ६२.१३॥
राजा च तत्क्षणात् तेन शब्देन समपद्यत ।
कुष्ठी विगतवर्णश्च बलवीर्यविवर्जितः ॥ ६२.१४॥
तथागतमथात्मानं दृष्ट्वा स पुरुषर्षभः ।
तस्थौ तत्रैव शोकार्त्तः किमेतदिति चिन्तयन् ॥ ६२.१५॥
तस्य चिन्तयतो धीमानाजगाम महातपाः ।
वसिष्ठो ब्रह्मपुत्रोऽथ तं स पप्रच्छ पार्थिवम् ॥ ६२.१६॥
कथं ते राजशार्दूल तव देहस्य शासनम् ।
इदानीमेव किं कार्यं तन्ममाचक्ष्व पृच्छतः ॥ ६२.१७॥
एवमुक्तस्ततो राजा वसिष्ठेन महात्मना ।
सर्वं पद्मस्य वृत्तान्तं कथयामास स प्रभुः ॥ ६२.१८॥
तं श्रुत्वा स मुनिस्तत्र साधु राजन्नथाब्रवीत् ।
असाधुरथ वा तिष्ठ तस्मात् कुष्ठित्वमागतः ॥ ६२.१९॥
एवमुक्तस्तदा राजा वेपमानः कृताञ्जलिः ।
पप्रच्छ साध्वहं विप्र कथं वाऽसाध्वहं मुने ।
कथं च कुष्ठं मे जातमेतन्मे वक्तुमर्हसि ॥ ६२.२०॥
वसिष्ठ उवाच ।
एतद् ब्रह्मोद्भवं नाम पद्मं त्रैलोक्यविश्रुतम् ।
दृष्टमात्रेण चानेन दृष्टाः स्युः सर्वदेवताः ।
एतस्मिन् दृश्यते चैतत् षण्मासं क्वापि पार्थिव ॥ ६२.२१॥
एतस्मिन् दृष्टमात्रे तु यो जलं विशते नरः ।
सर्वपापविनिर्मुक्तः परं निर्वाणमर्हति ॥ ६२.२२॥
ब्रह्मणः प्रागवस्थाया मूर्तिरप्सु व्यवस्थिता ।
एतां दृष्ट्वा जले मग्नः संसाराद् विप्रमुच्यते ॥ ६२.२३॥
इमं च दृष्ट्वा ते सूतो जले मग्नो नरोत्तम ।
प्रविष्टश्च पुनरिमं हर्तुमिच्छन्नराधिप ।
प्राप्तवानसि दुर्बुद्धे कुष्ठित्वं पापपूरुष ॥ ६२.२४॥
दृष्टमेतत् त्वया यस्मात् त्वं साध्विति ततः प्रभो ।
मयोक्तो मोहमापन्नस्तेनासाधुरितीरितः ॥ ६२.२५॥
ब्रह्मपुत्रो ह्यहं चेमं पश्यामि परमेश्वरम् ।
अहन्यहनि चागच्छंस्तं पुनर्दृष्टवानसि ॥ ६२.२६॥
देवा अपि वदन्त्येते पद्मं काञ्चनमुत्तमम् ।
मानसे ब्रह्मपद्मं तु दृष्ट्वा चात्र गतं हरिम् ।
प्राप्स्यामस्तत् परं ब्रह्म यद् गत्वा न पुनर्भवेत् ॥ ६२.२७॥
इदं च कारणं चान्यत् कुष्ठस्य शृणु पार्थिव ।
आदित्यः पद्मगर्भेऽस्मिन् स्वयमेव व्यवस्थितः ॥ ६२.२८॥
तं दृष्ट्वा तत्त्वतो भावः परमात्मैष शाश्वतः ।
धारयामि शिरस्येनं लोकमध्ये विभूषणम् ॥ ६२.२९॥
एवं ते जल्पता पापमिदं देवेन दर्शितम् ।
इदानीमिममेव त्वमाराधय महामते ॥ ६२.३०॥
अगस्त्य उवाच ।
एवमुक्त्वा वसिष्ठस्तु इममेव व्रतं तदा ।
आदित्याराधनं दिव्यमारोग्याख्यं जगाद ह ॥ ६२.३१॥
सोऽपि राजाऽकरोच्चेमं व्रतं भक्तिसमन्वितः ।
सिद्धिं च परमां प्राप्तो विरोगश्चाभवत् क्षणात् ॥ ६२.३२॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे द्विषष्टितमोऽध्यायः ॥ ६२॥
अगस्त्य उवाच ।
अथापरं महाराज पुत्रप्राप्तिव्रतं शुभम् ।
कथयामि समासेन तन्मे निगदतः शृणु ॥ ६३.१॥
मासे भाद्रपदे या तु कृष्णपक्षे नरेश्वर ।
अष्टम्यामुपवासेन पुत्रप्राप्तिव्रतं हि तत् ॥ ६३.२॥
षष्ठ्यां चैव तु संकल्प्य सप्तम्यामर्चयेद् हरिम् ।
देवक्युत्सङ्गगं देवं मातृभिः परिवेष्टितम् ॥ ६३.३॥
प्रभाते विमलेऽष्टम्यामर्चयेत् प्रयतो हरिम् ।
प्राग्विधानेन गोविन्दमर्चयित्वा विधानतः ॥ ६३.४॥
ततो यवैः कृष्णतिलैः सघृतैर्होमयेद् दधि ।
ब्राह्मणान् भोजयेद् भक्त्या यथाशक्त्या सदक्षिणान् ॥ ६३.५॥
ततः स्वयं तु भुञ्जीत प्रथमं बिल्वमुत्तमम् ।
पश्चाद् यथेष्टं भुञ्जीत स्नेहैः सर्वरसैर्युतम् ॥ ६३.६॥
प्रतिमासमनेनैव विधिनोपोष्य मानवः ।
कृष्णाष्टमीमपुत्रोऽपि लभेत् पुत्रं न संशयः ॥ ६३.७॥
श्रूयते च पुरा राजा शूरसेनः प्रतापवान् ।
स ह्यपुत्रस्तपस्तेपे हिमवत्पर्वतोत्तमे ॥ ६३.८॥
तस्यैवं कुर्वतो देवो व्रतमेतज्जगाद ह ।
सोऽप्येतत् कृतवान् राजा पुत्रं चैवोपलब्धवान् ॥ ६३.९॥
वसुदेवं महाभागमनेकक्रतुयाजिनम् ।
तं लब्ध्वा सोऽपि राजर्षिः परं निर्वाणमापत्वान् ॥ ६३.१०॥
एवं कृष्णाष्टमी राजन् मया ते परिकीर्तिता ।
संवत्सरान्ते दातव्यं कृष्णयुग्मं द्विजातये ॥ ६३.११॥
एतत् पुत्रव्रतं नाम मया ते परिकीर्तितम् ।
एतत् कृत्वा नरः पापैः सर्वैरेव प्रमुच्यते ॥ ६३.१२॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे त्रिषष्टितमोऽध्यायः ॥ ६३॥
अगस्त्य उवाच ।
अथापरं प्रवक्ष्यामि शौर्यव्रतमनुत्तमम् ।
येन भीरोरपि महच्छौर्यं भवति तत्क्षणात् ॥ ६४.१॥
मासि चाश्वयुजे शुद्धां नवमीं समुपोषयेत् ।
सप्तम्यां कृतसंकल्पः स्थित्वाऽष्टम्यां निरोदनः ॥ ६४.२॥
नवम्यां पारयेत् पिष्टं प्रथमं भक्तितो नृप ।
ब्राह्मणान् भोजयेद् भक्त्या देवीं चैव तु पूजयेत् ।
दुर्गां देवीं महाभागां महामायां महाप्रभाम् ॥ ६४.३॥
एवं संवत्सरं यावदुपोष्येति विधानतः ।
व्रतान्ते भोजयेद् धीमान् यथाशक्त्या कुमारिकाः ॥ ६४.४॥
हेमवस्त्रादिभिस्तास्तु भूषयित्वा तु शक्तितः ।
पश्चात् क्षमापयेत् तास्तु देवी मे प्रीयतामिति ॥ ६४.५॥
एवं कृते भ्रष्टराज्यो लभेद् राज्यं न संशयः ।
अविद्यो लभते विद्यां भीतः शौर्यं च विदन्ति ॥ ६४.६॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे चतुःषष्टितमोऽध्यायः ॥ ६४॥
अगस्त्य उवाच ।
सार्वभौमव्रतं चान्यत् कथयामि समासतः ।
येन सम्यक्कृतेनाशु सार्वभौमो नृपो भवेत् ॥ ६५.१॥
कार्तिकस्य तु मासस्य दशमी शुक्लपक्षिका ।
तस्यां नक्ताशनो नित्यं दिक्षु शुद्धबलिं हरेत् ॥ ६५.२॥
विचित्रैः कुसुमैर्भक्त्या पूजयित्वा द्विजोत्तमान् ।
दिशां तु प्रार्थनां कुर्यान् मन्त्रेणानेन सुव्रतः ।
सर्वा भवन्त्यः सिद्ध्यन्तु मम जन्मनि जन्मनि ॥ ६५.३॥
एवमुक्त्वा बलिं तासु दत्त्वा शुद्धेन चेतसा ।
ततो रात्रौ तु भुञ्जीत दध्यन्नं तु सुसंस्कृतम् ॥ ६५.४॥
पूर्वं पश्चाद् यथेष्टं तु एवं संवत्सरं नृप ।
यः करोति नरो नित्यं तस्य दिग्विजयो भवेत् ॥ ६५.५॥
एकादश्यां तु यत्नेन नरः कुर्याद् यथाविधि ।
मार्गशीर्षे शुक्लपक्षादारभ्याब्दं विचक्षणः ।
तद् व्रत धनदस्येष्टं कृतं वित्तं प्रयच्छति ॥ ६५.६॥
एकादश्यां निराहारो यो भुङ्क्ते द्वादशीदिने ।
शुक्ले वाऽप्यथवा कृष्णे तद् व्रतं वैष्णवं महत् ॥ ६५.७॥
एवं चीर्ण सुघोराणि हन्ति पापानि रपार्थिव ।
त्रयोदश्यां तु नक्तेन धर्मव्रतमथोच्यते ॥ ६५.८॥
शुक्लपक्षे फाल्गुनस्य तथारभ्य विचक्षणः ।
रौद्रं व्रतं चतुर्दश्यां कृष्णपक्षे विशेषतः ।
माघमासादथारभ्य पूर्णं संवत्सरं नृप ॥ ६५.९॥
इन्दुव्रतं पञ्चदश्यां शुक्लायां नक्तभोजनम् ।
पितृव्रतममावास्यामिति राजन तथेरितम् ॥ ६५.१०॥
दश पञ्च च वर्षाणि य एवं कुरुते नृप ।
तिथिव्रतानि कस्तस्य फलं व्रतप्रमाणतः ॥ ६५.११॥
अश्वमेधसहस्राणि राजसूयशतानि च ।
यष्टानि तेन राजेन्द्र कल्पोक्ताः क्रतवस्तथा ॥ ६५.१२॥
एकमेव कृतं हन्ति व्रतं पापानि नित्यशः ।
यः पुनः सर्वमेतद्धि कुर्यान्नरवरात्मज ।
स शुद्धो विरजो लोकानाप्नोति सकलं नृप ॥ ६५.१३॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे पञ्चषष्टितमोऽध्यायः ॥ ६५॥
भद्राश्व उवाच ।
आश्चर्यं यदि ते किंचिद् विदितं दृष्टमेव वा ।
तन्मे कथय धर्मज्ञ मम कौतूहलं महत् ॥ ६६.१॥
अगस्त्य उवाच ।
आश्चर्यभूतो भगवानेष एव जनार्दनः ।
तस्याश्चर्याणि दृष्टानि बहूनि विविधानि वै ॥ ६६.२॥
श्वेतद्वीपं गतः पूर्वं नारदः किल पार्थिव ।
सोऽपश्यच्छङ्खचक्राब्जान् पुरुषांस्तिग्मतेजसः ॥ ६६.३॥
अयं विष्णुरयं विष्णुरेष विष्णुः सनातनः ।
चिन्ताऽभूत्तस्यतान्दृष्ट्वा कोऽस्मिन्विष्णुरिति प्रभुः ॥ ६६.४॥
एवं चिन्तयतस्तस्य चिन्ता कृष्णं प्रति प्रभो ।
आराधयामि च कथं शङ्खचक्रगदाधरम् ॥ ६६.५॥
येन वेद्मि परं तेषां देवो नारायणः प्रभुः ।
एवं संचिन्त्य दध्यौ स तं देवं परमेश्वरम् ॥ ६६.६॥
दिव्यं वर्षसहस्रं तु साग्रं ब्रह्मसुतस्तदा ।
ध्यायतस्तस्य देवोऽसौ परितोषं जगाम ह ॥ ६६.७॥
उवाच च प्रसन्नात्मा प्रत्यक्षत्वं गतः प्रभुः ।
वरं ब्रह्मसुत ब्रूहि किं ते दद्मि महामुने ॥ ६६.८॥
नारद उवाच ।
सहस्रमेकं वर्षाणां ध्यातस्त्वं भुवनेश्वर ।
त्वत्प्राप्तिर्येन तद् ब्रूहि यदि तुष्टोऽसि मेऽच्युत ॥ ६६.९॥
देवदेव उवाच ।
पौरुषं सूक्तमास्थाय ये यजन्ति द्विजास्तु माम् ।
संहितामाद्यमास्थाय ते मां प्राप्स्यन्ति नारद ॥ ६६.१०॥
अलाभे वेदशास्त्राणां पञ्चरात्रोदितेन ह ।
मार्गेण मां प्रपश्यन्ते ते मां प्राप्स्यन्ति मानवाः ॥ ६६.११॥
ब्राह्मणक्षत्रियविशां पञ्चरात्रं विधीयते ।
शूद्रादीनां न तच्छ्रोत्रपदवीमुपयास्यति ॥ ६६.१२॥
एवं मयोक्तं विप्रेन्द्र पुराकल्पे पुरातनम् ।
पञ्चरात्रं सहस्राणां यदि कश्चिद् ग्रहीष्यति ॥ ६६.१३॥
कर्मक्षये च मां कश्चिद् यदि भक्तो भविष्यति ।
तस्य चेदं पञ्चरात्रं नित्यं हृदि वसिष्यति ॥ ६६.१४॥
इतरे राजसैर्भावैस्तामसैश्च समावृताः ।
भविष्यन्ति द्विजश्रेष्ठ मच्छासनपराङ्मुखाः ॥ ६६.१५॥
कृतं त्रेता द्वापरं च युगानि त्रीणि नारद ।
सत्त्वस्थां मां समेष्यन्ति कलौ रजस्तमोऽधिकाः ॥ ६६.१६॥
अन्यच्च ते वरं दद्मि शृणु नारद साम्प्रतम् ।
यदिदं पञ्चरात्रं मे शास्त्रं परमदुर्लभम् ।
तद्भवान् वेत्स्यते सर्वं मत्प्रसादान्न संशयः ॥ ६६.१७॥
वेदेन पञ्चरात्रेण भक्त्या यज्ञेन च द्विज ।
प्राप्योऽहं नान्यथा वत्स वर्षकोट्यायुतैरपि ॥ ६६.१८॥
एवमुक्त्वा स भगवान् नारदं परमेश्वरः ।
जगामादर्शनं सद्यो नारदोऽपि ययौ दिवम् ॥ ६६.१९॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे षट्षष्टितमोऽध्यायः ॥ ६६॥
भद्राश्व उवाच ।
भगवन् सितकृष्णे द्वे भिन्ने जगति केशवान् ।
स्त्रियौ बभूवतुः के द्वे सितकृष्णा च का शुभा ॥ ६७.१॥
कश्चासौ पुरुषो ब्रह्मन् य एकः सप्तधा भवेत् ।
कोऽसौ द्वादशधा विप्र द्विदेहः षट्शिराः शुभः ॥ ६७.२॥
दम्पत्यं च द्विजश्रेष्ठ कृतसूर्योदयादनम् ।
कस्मादेतज्जगदिदं विततं द्विजसत्तम ॥ ६७.३॥
अगस्त्य उवाच ।
सितकृष्णे स्त्रियौ ये ते ते भगिन्यौ प्रकीर्तिते ।
सत्यासत्ये द्विवर्णा च नारी रात्रिरुदाहृता ॥ ६७.४॥
यः पुमान् सप्तधा जात एको भूत्वा नरेश्वर ।
स समुद्रस्तु विज्ञेयः सप्तधैको व्यवस्थितः ॥ ६७.५॥
योऽसौ द्वादशधा राजन् द्विदेहः षट्शिराः प्रभुः ।
संवत्सरः स विज्ञेयः शरीरे द्वे गती स्मृते ।
ऋतवः षट् च वक्त्राणि एष संवत्सरः स्मृतः ॥ ६७.६॥
दम्पत्यं तदहोरात्रं सूर्याचन्द्रमसौ ततः ।
ततो जगत् समुत्तस्थौ देवस्यास्य नृपोत्तम ॥ ६७.७॥
स विष्णुः परमो देवो विज्ञेयो नृपसत्तम ।
न च वेदक्रियाहीनः पश्यते परमेश्वरम् ॥ ६७.८॥
॥ इति वराहपुराणे भगवच्छास्त्रे सप्तषष्टितमोऽध्यायः ॥ ६७॥
इति श्रीअगस्त्यगीता समाप्ता ।
॥ अजगरगीता ॥
भीष्मेण युधिष्ठिरम्प्रति प्रपञ्चस्यानित्यत्वादिज्ञानपूर्वकविरक्तेः
सुखहेतुतायां प्रमाणतया प्रह्लादाजगरमुनिसंवादानुवादः ॥ १॥
युधिष्ठिर उवाच । ०
केन वृत्तेन वृत्तज्ञ वीतशोकश्चरेन्महीम् ।
किञ्च कुर्वन्नरो लोके प्राप्नोति गतिमुत्तमाम् ॥ १
भीष्म उवाच । २
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
प्रह्लादस्य च संवादं मुनेराजगरस्य च ॥ २
चरन्तं ब्राह्मणं कञ्चित्कल्यचित्तमनामयम् ।
पप्रच्छ राजा प्रह्लादो बुद्धिमान्प्राज्ञसत्तमः ॥ ३
प्रह्लाद उवाच । ४
स्वस्थः शक्तो मृदुर्दान्तो निर्विधित्सोऽनसूयकः ।
सुवाग्बहुमतो लोके प्राज्ञश्चरसि बालवत् ॥ ४
नैव प्रार्थयसे लाभं नालाभेष्वनुशोचसि ।
नित्यतृप्त इव ब्रह्मन्न किञ्चिदिव मन्यसे ॥ ५
स्रोतसा ह्रियमाणासु प्रजासु विमना इव ।
धर्मकामार्थकार्येषु कूटस्थ इव लक्ष्यसे ॥ ६
नानुतिष्ठसि धर्मार्थौ न कामे चापि वर्तसे ।
इन्द्रियार्थाननादृत्य मुक्तश्चरसि साक्षिवत् ॥ ७
का नु प्रज्ञा श्रुतं वा किं वृत्तिर्वा का नु ते मुने ।
क्षिप्रमाचक्ष्व मे ब्रह्मञ्श्रेयो यदिह मन्यसे ॥ ८
भीष्म उवाच । ९
अनुयुक्तः स मेधावी लोकधर्मविधानवित् ।
उवाच श्लक्ष्णया वाचा प्रह्लादमनपार्थया ॥ ९
पश्य प्रह्लाद भूतानामुत्पत्तिमनिमित्ततः ।
ह्रासं वृद्धिं विनाशं च न प्रहृष्ये न च व्यथे ॥ १०
(७२१०२)
स्वभावादेव सन्दृश्या वर्तमानाः प्रवृत्तयः ।
स्वभावनिरताः सर्वाः प्रतिपाद्या न केनचित् ॥ ११
पश्य प्रह्लाद संयोगान्विप्रयोगपरायणान् ।
सञ्चयांश्च विनाशान्तान्न क्वचिद्विदधे मनः ॥ १२
अन्तवन्ति च भूतानि गुणयुक्तानि पश्यतः ।
उत्पत्तिनिधनज्ञस्य किं पर्यायेणोपलक्षये। १३
जलजानामपि ह्यन्तं पर्यायेणोपलक्षये ।
महतामपि कायानां सूक्ष्माणां च महोदधौ ॥ १४
जङ्गमस्थावराणां च भूतानामसुराधिप ।
पार्थिवानामपि व्यक्तं मृत्युं पश्यामि सर्वशः ॥ १५
अन्तरिक्षचराणां च दानवोत्तमपक्षिणाम् ।
उत्तिष्ठते यथाकालं मृत्युर्बलवतामपि ॥ १६
दिवि सञ्चरमाणानि ह्रस्वानि च महान्ति च ।
ज्योतींष्यपि यथाकालं पतमानानि लक्षये ॥ १७
इति भूतानि सम्पश्यन्ननुषक्तानि मृत्युना ।
सर्वं सामान्यतो विद्वान्कृतकृत्यः सुखं स्वपे ॥ १८
सुमहान्तमपि ग्रासं ग्रसे लब्धं यदृच्छया ।
शये पुनरभुञ्जानो दिवसानि बहून्यपि ॥ १९
आशयन्त्यपि मामन्नं पुनर्बहुगुणं बहु ।
पुनरल्पं पुनस्तोकं पुनर्नैवोपपद्यते ॥ २०
कणं कदाचित्खादामि पिण्याकमपि च ग्रसे ।
भक्षये शालिमांसानि भक्षांश्चोच्चावचान्पुनः ॥ २१
शये कदाचित्पर्यङ्के भूमावपि पुनः शये ।
प्रासादे चापि मे शय्या कदाचिदुपपद्यते ॥ २२
धारयामि च चीराणि शाणक्षौमाजिनानि च ।
महार्हाणि च वासांसि धारयाम्यहमेकदा ॥ २३
न सन्निपतितं धर्म्यमुपभोगं यदृच्छया ।
प्रत्याचक्षे न चाप्येनमनुरुध्ये सुदुर्लभम् ॥ २४
अचलमनिधनं शिवं विशोकं
शुचिमतुलं विदुषां मते प्रविष्टम् ।
अनभिमतमसेवितं विमूढै
र्व्रतमिदमाजगरं शुचिश्चरामि ॥ २५
अचलितमतिरच्युतः स्वधर्मा
त्परिमितसंसरणः परावरज्ञः ।
विगतभयकषायलोभमोहो
व्रतमिदमाजगरं शुचिश्चरामि ॥ २६
अनियतफलभक्ष्यभोज्यपेयं
विधिपरिणामविभक्तदेशकालम् ।
हृदयसुखमसेवितं कदर्यै
र्व्रतमिदमाजगरं सुचिश्चरामि ॥ २७
इदमिदमिति तृष्णयाऽभिभूतं
जनमनवाप्तधनं विषीदमानम् ।
निपुणमनुनिशाम्य तत्त्वबुद्ध्या
व्रतमिदमाजगरं शुचिश्चरामि ॥ २८
बहुविधमनुदृश्य चार्थहेतोः
कृपणमिहार्यमनार्यमाश्रयं तम् ।
उपशमरुचिरात्मवान्प्रशान्तो
व्रतमिदमाजगरं शुचिश्चरामि ॥ २९
सुखमसुखमलाभमर्थलाभं
रतिमरतिं मरणं च जीवितं च ।
विधिनियतमवेक्ष्य तत्त्वतोऽहं
व्रतमिदमाजगरं शुचिश्चरामि ॥ ३०
अपगतभयरागमोहदर्पो
धृतिमतिबुद्धिसमन्वितः प्रशान्तः ।
उपगतफलभोगिनो निशाम्य
व्रतमिदमाजगरं शुचिश्चरामि ॥ ३१
अनियतशयनासनः प्रकृत्या
दमनियमव्रतसत्यशौचयुक्तः ।
अपगतफलसञ्चयः प्रहृष्टो
व्रतमिदमाजगरं शुचिश्चरामि ॥ ३२
अपगतमसुखार्थमीहनार्थै
रुपगतबुद्धिरवेक्ष्य चात्मसंस्थम् ।
तृपितमनियतं मनो नियन्तुं
व्रतमिदमाजगरं शुचिश्चरामि ॥ ३३
न हृदयमनुरुध्यते मनो वा
प्रियसुखदुर्लभतामनित्यतां च ।
तदुभयमुपलक्षयन्निवाहं
व्रतमिदमाजगरं शुचिश्चरामि ॥ ३४
बहु कथितमिदं हि बुद्धिमद्भिः
कविभिरपि प्रथयद्भिरात्मकीर्तिम् ।
इदमिदमिति तत्रतत्र हन्त
स्वपरमतैर्गहनं प्रतर्कयद्भिः ॥ ३५
तदिदमनुनिशाम्य विप्रपातं
पृथगभिपन्नमिहाबुधैर्मनुष्यैः ।
अनवसितमनन्तदोषपारं
नृपु विहरामि विनीतदोषतृष्णः ॥ ३६
भीष्म उवाच । ३७
अजगरचरितं व्रतं महात्मा
य इह नरोऽनुचरेद्विनीतरागः ।
अपगतभयलोभमोहमन्युः
स खलु सुखी विचरेदिमं विहारम् ॥ ॥ ३७
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
सप्तसप्तत्यधिकशततमोऽध्यायः ॥ १७७.।
Mahabharata - Shanti Parva - Chapter Footnotes
२ आजगरस्याऽजगरवृत्त्या जीवतः ॥
४ निर्विधित्सो निरारम्भः ॥
६ स्रोतसा कामादिवेगेन । कूटस्थो निर्व्यापारः ॥
७ इन्द्रियार्थान् गन्धरसादीननादृत्य चरसि
तन्निर्वाहमात्रार्थी अश्नासि ॥
८ प्रज्ञा तत्त्वदर्शनम् । श्रुतं तन्मूलभूतं
शास्त्रम्। वृत्तिस्तदर्थानुष्ठानम्। श्रेयो ममेति शेषः ॥
९ अनुयुक्तः पृष्टः । लोकस्य धर्मो जन्मजरादिस्तस्य विधानं
कारणं तदभिज्ञः लोकधर्मविधानवित् ॥
१० अनिमित्ततः कारणहीनाद्ब्रह्मणः । पश्य आलोचय ॥
१२ तस्मादहं मनो न क्वचिद्विषये विदधे धारयामि तद्विनाशे
शोकोत्पत्तिं जानन् ॥
१५ पार्थिवानां पृथिवीस्थानाम् ॥
१९ आजगरीं वृत्तिं प्रपञ्चयति सुमहान्तमित्यादिना ॥
२० आशयन्ति भोजयन्ति ॥
२६ कषायः रागद्वेषादिः ॥
२८ धनप्राप्तौ कर्मैव कारणं न पौरुषमिति धिया
निशाम्यालोच्य ॥
२९ अर्थहेतोरनार्यं नीचम् । अर्यं स्वामिनगाश्रयति यः
कृपणो दीनजनस्तमनुदृश्योपशमरुचिः। आत्मवान् जितचित्तः ॥
३० विधिनियतं दैवाधीनम् ॥
३१ मतिरालोचनम् । बुद्धिर्निश्चयः। उपगतं समीपागतं
फलं प्रियं येषां तान् भोगिनः सर्पान् अजगरान् निशाम्य
दृष्ट्वा। फलभोगिन इति मध्यमपदलोपः ॥
३२ प्रकृत्या दमादियुक्तः
अपगतफलसञ्चयस्त्यक्तयोगफलसमूहः ॥
३३ एषणाविषयैः पुत्रवित्तादिर्भिर्हेतुभिः । असुखार्थं
परिणामे दुःखार्थम्। अपगतमात्मनः पराङ्भुखं तृषितमनियतं
च मनोऽवेक्ष्य। उपगतबुद्धिर्लव्धालोकः। आत्मसंस्थमात्मनि संस्था
समाप्तिर्यस्य तत्तथा तुं व्रतं चरामि ॥
॥ अनुगीता ॥
अध्यायः १६
जनमेजय उवाच
सभायां वसतोस्तस्यां निहत्यारीन्महात्मनोः ।
केशवार्जुनयोः का नु कथा समभवद्द्विज ॥ १॥
वैशम्पायन उवाच
कृष्णेन सहितः पार्थः स्वराज्यं प्राप्य केवलम् ।
तस्यां सभायां रम्यायां विजहार मुदा युतः ॥ २॥
ततः कं चित्सभोद्देशं स्वर्गोद्देश समं नृप ।
यदृच्छया तौ मुदितौ जग्मतुः स्वजनावृतौ ॥ ३॥
ततः प्रतीतः कृष्णेन सहितः पाण्डवोऽर्जुनः ।
निरीक्ष्य तां सभां रम्यामिदं वचनमब्रवीत् ॥ ४॥
विदितं ते महाबाहो सङ्ग्रामे समुपस्थिते ।
माहात्म्यं देवकी मातस्तच्च ते रूपमैश्वरम् ॥ ५॥
यत्तु तद्भवता प्रोक्तं तदा केशव सौहृदात् ।
तत्सर्वं पुरुषव्याघ्र नष्टं मे नष्टचेतसः ॥ ६॥
मम कौतूहलं त्वस्ति तेष्वर्थेषु पुनः प्रभो ।
भवांश्च द्वारकां गन्ता नचिरादिव माधव ॥ ७॥
वैशन्पायन उवाच
एवमुक्तस्ततः कृष्णः फल्गुनं प्रत्यभाषत ।
परिष्वज्य महातेजा वचनं वदतां वरः ॥ ८॥
वासुदेव उवाच
श्रावितस्त्वं मया गुह्यं ज्ञापितश्च सनातनम् ।
धर्मं स्वरूपिणं पार्थ सर्वलोकांश्च शाश्वतान् ॥ ९॥
अबुद्ध्वा यन्न गृह्णीथास्तन्मे सुमहदप्रियम् ।
नूनमश्रद्दधानोऽसि दुर्मेधाश्चासि पाण्डव ॥ १०॥
स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने ।
न शक्यं तन्मया भूयस्तथा वक्तुमशेषतः ॥ ११॥
परं हि ब्रह्म कथितं योगयुक्तेन तन्मया ।
इतिहासं तु वक्ष्यामि तस्मिन्नर्थे पुरातनम् ॥ १२॥
यथा तां बुद्धिमास्थाय गतिमग्र्यां गमिष्यसि ।
शृणु धर्मभृतां श्रेष्ठ गदतः सर्वमेव मे ॥ १३॥
आगच्छद्ब्राह्मणः कश्चित्स्वर्गलोकादरिन्दम ।
ब्रह्मलोकाच्च दुर्धर्षः सोऽस्माभिः पूजितोऽभवत् ॥ १४॥
अस्माभिः परिपृष्टश्च यदाह भरतर्षभ ।
दिव्येन विधिना पार्थ तच्छृणुष्वाविचारयन् ॥ १५॥
ब्राह्मण उवाच
मोक्षधर्मं समाश्रित्य कृष्ण यन्मानुपृच्छसि ।
भूतानामनुकम्पार्थं यन्मोहच्छेदनं प्रभो ॥ १६॥
तत्तेऽहं सम्प्रवक्ष्यामि यथावन्मधुसूदन ।
शृणुष्वावहितो भूत्वा गदतो मम माधव ॥ १७॥
कश्चिद्विप्रस्तपो युक्तः काश्यपो धर्मवित्तमः ।
आससाद द्विजं कं चिद्धर्माणामागतागमम् ॥ १८॥
गतागते सुबहुशो ज्ञानविज्ञानपारगम् ।
लोकतत्त्वार्थ कुशलं ज्ञातारं सुखदुःखयोः ॥ १९॥
जाती मरणतत्त्वज्ञं कोविदं पुण्यपापयोः ।
द्रष्टारमुच्चनीचानां कर्मभिर्देहिनां गतिम् ॥ २०॥
चरन्तं मुक्तवत्सिद्धं प्रशान्तं संयतेन्द्रियम् ।
दीप्यमानं श्रिया ब्राह्म्या क्रममाणं च सर्वशः ॥ २१॥
अन्तर्धानगतिज्ञं च श्रुत्वा तत्त्वेन काश्यपः ।
तथैवान्तर्हितैः सिद्धैर्यान्तं चक्रधरैः सह ॥ २२॥
सम्भाषमाणमेकान्ते समासीनं च तैः सह ।
यदृच्छया च गच्छन्तमसक्तं पवनं यथा ॥ २३॥
तं समासाद्य मेधावी स तदा द्विजसत्तमः ।
चरणौ धर्मकामो वै तपस्वी सुसमाहितः ।
प्रतिपेदे यथान्यायं भक्त्या परमया युतः ॥ २४॥
विस्मितश्चाद्भुतं दृष्ट्वा काश्यपस्तं द्विजोत्तमम् ।
परिचारेण महता गुरुं वैद्यमतोषयत् ॥ २५॥
प्रीतात्मा चोपपन्नश्च श्रुतचारित्य संयुतः ।
भावेन तोषयच्चैनं गुरुवृत्त्या परन्तपः ॥ २६॥
तस्मै तुष्टः स शिष्याय प्रसन्नोऽथाब्रवीद्गुरुः ।
सिद्धिं परामभिप्रेक्ष्य शृणु तन्मे जनार्दन ॥ २७॥
सिद्ध उवाच
विविधैः कर्मभिस्तात पुण्ययोगैश्च केवलैः ।
गच्छन्तीह गतिं मर्त्या देवलोकेऽपि च स्थितिम् ॥ २८॥
न क्व चित्सुखमत्यन्तं न क्व चिच्छाश्वती स्थितिः ।
स्थानाच्च महतो भ्रंशो दुःखलब्धात्पुनः पुनः ॥ २९॥
अशुभा गतयः प्राप्ताः कष्टा मे पापसेवनात् ।
काममन्युपरीतेन तृष्णया मोहितेन च ॥ ३०॥
पुनः पुनश्च मरणं जन्म चैव पुनः पुनः ।
आहारा विविधा भुक्ताः पीता नानाविधाः स्तनाः ॥ ३१॥
मातरो विविधा दृष्टाः पितरश्च पृथग्विधाः ।
सुखानि च विचित्राणि दुःखानि च मयानघ ॥ ३२॥
प्रियैर्विवासो बहुशः संवासश्चाप्रियैः सह ।
धननाशश्च सम्प्राप्तो लब्ध्वा दुःखेन तद्धनम् ॥ ३३॥
अवमानाः सुकष्टाश्च परतः स्वजनात्तथा ।
शारीरा मानसाश्चापि वेदना भृशदारुणाः ॥ ३४॥
प्राप्ता विमाननाश्चोग्रा वधबन्धाश्च दारुणाः ।
पतनं निरये चैव यातनाश्च यमक्षये ॥ ३५॥
जरा रोगाश्च सततं वासनानि च भूरिशः ।
लोकेऽस्मिन्ननुभूतानि द्वन्द्वजानि भृशं मया ॥ ३६॥
ततः कदा चिन्निर्वेदान्निकारान्निकृतेन च ।
लोकतन्त्रं परित्यक्तं दुःखार्तेन भृशं मया ।
ततः सिद्धिरियं प्राप्ता प्रसादादात्मनो मया ॥ ३७॥
नाहं पुनरिहागन्ता लोकानालोकयाम्यहम् ।
आ सिद्धेरा प्रजा सर्गादात्मनो मे गतिः शुभा ॥ ३८॥
उपलब्धा द्विजश्रेष्ठ तथेयं सिद्धिरुत्तमा ।
इतः परं गमिष्यामि ततः परतरं पुनः ।
ब्रह्मणः पदमव्यग्रं मा तेऽभूदत्र संशयः ॥ ३९॥
नाहं पुनरिहागन्ता मर्त्यलोके परन्तप ।
प्रीतोऽस्मि ते महाप्राज्ञ ब्रूहि किं करवाणि ते ॥ ४०॥
यदीप्सुरुपपन्नस्त्वं तस्य कालोऽयमागतः ।
अभिजाने च तदहं यदर्थं मा त्वमागतः ।
अचिरात्तु गमिष्यामि येनाहं त्वामचूचुदम् ॥ ४१॥
भृशं प्रीतोऽस्मि भवतश्चारित्रेण विचक्षण ।
परिपृच्छ यावद्भवते भाषेयं यत्तवेप्सितम् ॥ ४२॥
बहु मन्ये च ते बुद्धिं भृशं सम्पूजयामि च ।
येनाहं भवता बुद्धो मेधावी ह्यसि काश्यप ॥ ४३॥
इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि सप्तदशोऽध्यायः ॥
अध्यायः १७
वासुदेव उवाच
ततस्तस्योपसङ्गृह्य पादौ प्रश्नान्सुदुर्वचान् ।
पप्रच्छ तांश्च सर्वान्स प्राह धर्मभृतां वरः ॥ १॥
काश्यप उवाच
कथं शरीरं च्यवते कथं चैवोपपद्यते ।
कथं कष्टाच्च संसारात्संसरन्परिमुच्यते ॥ २॥
आत्मानं वा कथं युक्त्वा तच्छरीरं विमुञ्चति ।
शरीरतश्च निर्मुक्तः कथमन्यत्प्रपद्यते ॥ ३॥
कथं शुभाशुभे चायं कर्मणी स्वकृते नरः ।
उपभुङ्क्ते क्व वा कर्म विदेहस्योपतिष्ठति ॥ ४॥
ब्राह्मण उवाच
एवं सञ्चोदितः सिद्धः प्रश्नांस्तान्प्रत्यभाषत ।
आनुपूर्व्येण वार्ष्णेय यथा तन्मे वचः शृणु ॥ ५॥
सिद्ध उवाच
आयुः कीर्तिकराणीह यानि कर्माणि सेवते ।
शरीरग्रहणेऽन्यस्मिंस्तेषु क्षीणेषु सर्वशः ॥ ६॥
आयुः क्षयपरीतात्मा विपरीतानि सेवते ।
बुद्धिर्व्यावर्तते चास्य विनाशे प्रत्युपस्थिते ॥ ७॥
सत्त्वं बलं च कालं चाप्यविदित्वात्मनस्तथा ।
अतिवेलमुपाश्नाति तैर्विरुद्धान्यनात्मवान् ॥ ८॥
यदायमतिकष्टानि सर्वाण्युपनिषेवते ।
अत्यर्थमपि वा भुङ्क्ते न वा भुङ्क्ते कदा चन ॥ ९॥
दुष्टान्नं विषमान्नं च सोऽन्योन्येन विरोधि च ।
गुरु वापि समं भुङ्क्ते नातिजीर्णेऽपि वा पुनः ॥ १०॥
व्यायाममतिमात्रं वा व्यवायं चोपसेवते ।
सततं कर्म लोभाद्वा प्राप्तं वेगविधारणम् ॥ ११॥
रसातियुक्तमन्नं वा दिवा स्वप्नं निषेवते ।
अपक्वानागते काले स्वयं दोषान्प्रकोपयन् ॥ १२॥
स्वदोषकोपनाद्रोगं लभते मरणान्तिकम् ।
अथ चोद्बन्धनादीनि परीतानि व्यवस्यति ॥ १३॥
तस्य तैः कारणैर्जन्तोः शरीराच्च्यवते यथा ।
जीवितं प्रोच्यमानं तद्यथावदुपधारय ॥ १४॥
ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः ।
शरीरमनुपर्येति सर्वान्प्राणान्रुणद्धि वै ॥ १५॥
अत्यर्थं बलवानूष्मा शरीरे परिकोपितः ।
भिनत्ति जीव स्थानानि तानि मर्माणि विद्धि च ॥ १६॥
ततः स वेदनः सद्यो जीवः प्रच्यवते क्षरन् ।
शरीरं त्यजते जन्तुश्छिद्यमानेषु मर्मसु ।
वेदनाभिः परीतात्मा तद्विद्धि द्विजसत्तम ॥ १७॥
जातीमरणसंविग्नाः सततं सर्वजन्तवः ।
दृश्यन्ते सन्त्यजन्तश्च शरीराणि द्विजर्षभ ॥ १८॥
गर्भसङ्क्रमणे चापि मर्मणामतिसर्पणे ।
तादृशीमेव लभते वेदनां मानवः पुनः ॥ १९॥
भिन्नसन्धिरथ क्लेदमद्भिः स लभते नरः ।
यथा पञ्चसु भूतेषु संश्रितत्वं निगच्छति ।
शैत्यात्प्रकुपितः काये तीव्रवायुसमीरितः ॥ २०॥
यः स पञ्चसु भूतेषु प्राणापाने व्यवस्थितः ।
स गच्छत्यूर्ध्वगो वायुः कृच्छ्रान्मुक्त्वा शरीरिणम् ॥ २१॥
शरीरं च जहात्येव निरुच्छ्वासश्च दृश्यते ।
निरूष्मा स निरुच्छ्वासो निःश्रीको गतचेतनः ॥ २२॥
ब्रह्मणा सम्परित्यक्तो मृत इत्युच्यते नरः ।
स्रोतोभिर्यैर्विजानाति इन्द्रियार्थाञ्शरीरभृत् ।
तैरेव न विजानाति प्राणमाहारसम्भवम् ॥ २३॥
तत्रैव कुरुते काये यः स जीवः सनातनः ।
तेषां यद्यद्भवेद्युक्तं संनिपाते क्व चित्क्व चित् ।
तत्तन्मर्म विजानीहि शास्त्रदृष्टं हि तत्तथा ॥ २४॥
तेषु मर्मसु भिन्नेषु ततः स समुदीरयन् ।
आविश्य हृदयं जन्तोः सत्त्वं चाशु रुणद्धि वै ।
ततः स चेतनो जन्तुर्नाभिजानाति किं चन ॥ २५॥
तमसा संवृतज्ञानः संवृतेष्वथ मर्मसु ।
स जीवो निरधिष्ठानश्चाव्यते मातरिश्वना ॥ २६॥
ततः स तं महोच्छ्वासं भृशमुच्छ्वस्य दारुणम् ।
निष्क्रामन्कम्पयत्याशु तच्छरीरमचेतनम् ॥ २७॥
स जीवः प्रच्युतः कायात्कर्मभिः स्वैः समावृतः ।
अङ्कितः स्वैः शुभैः पुण्यैः पापैर्वाप्युपपद्यते ॥ २८॥
ब्राह्मणा ज्ञानसम्पन्ना यथावच्छ्रुत निश्चयाः ।
इतरं कृतपुण्यं वा तं विजानन्ति लक्षणैः ॥ २९॥
यथान्ध कारे खद्योतं लीयमानं ततस्ततः ।
चक्षुष्मन्तः प्रपश्यन्ति तथा तं ज्ञानचक्षुषः ॥ ३०॥
पश्यन्त्येवंविधाः सिद्धा जीवं दिव्येन चक्षुषा ।
च्यवन्तं जायमानं च योनिं चानुप्रवेशितम् ॥ ३१॥
तस्य स्थानानि दृष्टानि त्रिविधानीह शास्त्रतः ।
कर्मभूमिरियं भूमिर्यत्र तिष्ठन्ति जन्तवः ॥ ३२॥
ततः शुभाशुभं कृत्वा लभन्ते सर्वदेहिनः ।
इहैवोच्चावचान्भोगान्प्राप्नुवन्ति स्वकर्मभिः ॥ ३३॥
इहैवाशुभ कर्मा तु कर्मभिर्निरयं गतः ।
अवाक्स निरये पापो मानवः पच्यते भृशम् ।
तस्मात्सुदुर्लभो मोक्ष आत्मा रक्ष्यो भृशं ततः ॥ ३४॥
ऊर्ध्वं तु जन्तवो गत्वा येषु स्थानेष्ववस्थिताः ।
कीर्त्यमानानि तानीह तत्त्वतः संनिबोध मे ।
तच्छ्रुत्वा नैष्ठिकीं बुद्धिं बुध्येथाः कर्म निश्चयात् ॥ ३५॥
तारा रूपाणि सर्वाणि यच्चैतच्चन्द्रमण्डलम् ।
यच्च विभ्राजते लोके स्वभासा सूर्यमण्डलम् ।
स्थानान्येतानि जानीहि नराणां पुण्यकर्मणाम् ॥ ३६॥
कर्म क्षयाच्च ते सर्वे च्यवन्ते वै पुनः पुनः ।
तत्रापि च विशेषोऽस्ति दिवि नीचोच्चमध्यमः ॥ ३७॥
न तत्राप्यस्ति सन्तोषो दृष्ट्वा दीप्ततरां श्रियम् ।
इत्येता गतयः सर्वाः पृथक्त्वे समुदीरिताः ॥ ३८॥
उपपत्तिं तु गर्भस्य वक्ष्याम्यहमतः परम् ।
यथावत्तां निगदतः शृणुष्वावहितो द्विज ॥ ३९॥
इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि अष्टादशोऽध्यायः ॥
अध्यायः १८
ब्राह्मण उवाच
शुभानामशुभानां च नेह नाशोऽस्ति कर्मणाम् ।
प्राप्य प्राप्य तु पच्यन्ते क्षेत्रं क्षेत्रं तथा तथा ॥ १॥
यथा प्रसूयमानस्तु फली दद्यात्फलं बहु ।
तथा स्याद्विपुलं पुण्यं शुद्धेन मनसा कृतम् ॥ २॥
पापं चापि तथैव स्यात्पापेन मनसा कृतम् ।
पुरोधाय मनो हीह कर्मण्यात्मा प्रवर्तते ॥ ३॥
यथा कत्म समादिष्टं काममन्युसमावृतः ।
नरो गर्भं प्रविशति तच्चापि शृणु चोत्तरम् ॥ ४॥
शुक्रं शोणितसंसृष्टं स्त्रिया गर्भाशयं गतम् ।
क्षेत्रं कर्मजमाप्नोति शुभं वा यदि वाशुभम् ॥ ५॥
सौक्ष्म्यादव्यक्तभावाच्च न स क्व चन सज्जते ।
सम्प्राप्य ब्रह्मणः कायं तस्मात्तद्ब्रह्म शाश्वतम् ।
तद्बीजं सर्वभूतानां तेन जीवन्ति जन्तवः ॥ ६॥
स जीवः सर्वगात्राणि गर्भस्याविश्य भागशः ।
दधाति चेतसा सद्यः प्राणस्थानेष्ववस्थितः ।
ततः स्पन्दयतेऽङ्गानि स गर्भश्चेतनान्वितः ॥ ७॥
यथा हि लोहनिष्यन्दो निषिक्तो बिम्बविग्रहम् ।
उपैति तद्वज्जानीहि गर्भे जीव प्रवेशनम् ॥ ८॥
लोहपिण्डं यथा वह्निः प्रविशत्यभितापयन् ।
तथा त्वमपि जानीहि गर्भे जीवोपपादनम् ॥ ९॥
यथा च दीपः शरणं दीप्यमानः प्रकाशयेत् ।
एवमेव शरीराणि प्रकाशयति चेतना ॥ १०॥
यद्यच्च कुरुते कर्म शुभं वा यदि वाशुभम् ।
पूर्वदेहकृतं सर्वमवश्यमुपभुज्यते ॥ ११॥
ततस्तत्क्षीयते चैव पुनश्चान्यत्प्रचीयते ।
यावत्तन्मोक्षयोगस्थं धर्मं नैवावबुध्यते ॥ १२॥
तत्र धर्मं प्रवक्ष्यामि सुखी भवति येन वै ।
आवर्तमानो जातीषु तथान्योन्यासु सत्तम ॥ १३॥
दानं व्रतं ब्रह्मचर्यं यथोक्तव्रतधारणम् ।
दमः प्रशान्तता चैव भूतानां चानुकम्पनम् ॥ १४॥
संयमश्चानृशंस्यं च परस्वादान वर्जनम् ।
व्यलीकानामकरणं भूतानां यत्र सा भुवि ॥ १५॥
मातापित्रोश्च शुश्रूषा देवतातिथिपूजनम् ।
गुरु पूजा घृणा शौचं नित्यमिन्द्रियसंयमः ॥ १६॥
प्रवर्तनं शुभानां च तत्सतां वृत्तमुच्यते ।
ततो धर्मः प्रभवति यः प्रजाः पाति शाश्वतीः ॥ १७॥
एवं सत्सु सदा पश्येत्तत्र ह्येषा ध्रुवा स्थितिः ।
आचारो धर्ममाचष्टे यस्मिन्सन्तो व्यवस्थिताः ॥ १८॥
तेषु तद्धर्मनिक्षिप्तं यः स धर्मः सनातनः ।
यस्तं समभिपद्येत न स दुर्गतिमाप्नुयात् ॥ १९॥
अतो नियम्यते लोकः प्रमुह्य धर्मवर्त्मसु ।
यस्तु योगी च मुक्तश्च स एतेभ्यो विशिष्यते ॥ २०॥
वर्तमानस्य धर्मेण पुरुषस्य यथातथा ।
संसारतारणं ह्यस्य कालेन महता भवेत् ॥ २१॥
एवं पूर्वकृतं कर्म सर्वो जन्तुर्निषेवते ।
सर्वं तत्कारणं येन निकृतोऽयमिहागतः ॥ २२॥
शरीरग्रहणं चास्य केन पूर्वं प्रकल्पितम् ।
इत्येवं संशयो लोके तच्च वक्ष्याम्यतः परम् ॥ २३॥
शरीरमात्मनः कृत्वा सर्वभूतपितामहः ।
त्रैलोक्यमसृजद्ब्रह्मा कृत्स्नं स्थावरजङ्गमम् ॥ २४॥
ततः प्रधानमसृजच्चेतना सा शरीरिणाम् ।
यया सर्वमिदं व्याप्तं यां लोके परमां विदुः ॥ २५॥
इह तत्क्षरमित्युक्तं परं त्वमृतमक्षरम् ।
त्रयाणां मिथुनं सर्वमेकैकस्य पृथक्पृथक् ॥ २६॥
असृजत्सर्वभूतानि पूर्वसृष्टः प्रजापतिः ।
स्थावराणि च भूतानि इत्येषा पौर्विकी श्रुतिः ॥ २७॥
तस्य कालपरीमाणमकरोत्स पितामहः ।
भूतेषु परिवृत्तिं च पुनरावृत्तिमेव च ॥ २८॥
यथात्र कश्चिन्मेधावी दृष्टात्मा पूर्वजन्मनि ।
यत्प्रवक्ष्यामि तत्सर्वं यथावदुपपद्यते ॥ २९॥
सुखदुःखे सदा सम्यगनित्ये यः प्रपश्यति ।
कायं चामेध्य सङ्घातं विनाशं कर्म संहितम् ॥ ३०॥
यच्च किं चित्सुखं तच्च सर्वं दुःखमिति स्मरन् ।
संसारसागरं घोरं तरिष्यति सुदुस्तरम् ॥ ३१॥
जाती मरणरोगैश्च समाविष्टः प्रधानवित् ।
चेतनावत्सु चैतन्यं समं भूतेषु पश्यति ॥ ३२॥
निर्विद्यते ततः कृत्स्नं मार्गमाणः परं पदम् ।
तस्योपदेशं वक्ष्यामि याथातथ्येन सत्तम ॥ ३३॥
शाश्वतस्याव्ययस्याथ पदस्य ज्ञानमुत्तमम् ।
प्रोच्यमानं मया विप्र निबोधेदमशेषतः ॥ ३४॥
इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि षोडषोऽश्द्यायः ॥
अध्यायः १९
ब्राह्मण उवाच
यः स्यादेकायने लीनस्तूष्णीं किं चिदचिन्तयन् ।
पूर्वं पूर्वं परित्यज्य स निरारम्भको भवेत् ॥ १॥
सर्वमित्रः सर्वसहः समरक्तो जितेन्द्रियः ।
व्यपेतभयमन्युश्च कामहा मुच्यते नरः ॥ २॥
आत्मवत्सर्वभूतेषु यश्चरेन्नियतः शुचिः ।
अमानी निरभीमानः सर्वतो मुक्त एव सः ॥ ३॥
जीवितं मरणं चोभे सुखदुःखे तथैव च ।
लाभालाभे प्रिय द्वेष्ये यः समः स च मुच्यते ॥ ४॥
न कस्य चित्स्पृहयते नावजानाति किं चन ।
निर्द्वन्द्वो वीतरागात्मा सर्वतो मुक्त एव सः ॥ ५॥
अनमित्रोऽथ निर्बन्धुरनपत्यश्च यः क्व चित् ।
त्यक्तधर्मार्थकामश्च निराकाङ्क्षी स मुच्यते ॥ ६॥
नैव धर्मी न चाधर्मी पूर्वोपचितहा च यः ।
धातुक्षयप्रशान्तात्मा निर्द्वन्द्वः स विमुच्यते ॥ ७॥
अकर्मा चाविकाङ्क्षश्च पश्यञ्जगदशाश्वतम् ।
अस्वस्थमवशं नित्यं जन्म संसारमोहितम् ॥ ८॥
वैराग्य बुद्धिः सततं तापदोषव्यपेक्षकः ।
आत्मबन्धविनिर्मोक्षं स करोत्यचिरादिव ॥ ९॥
अगन्ध रसमस्पर्शमशब्दमपरिग्रहम् ।
अरूपमनभिज्ञेयं दृष्ट्वात्मानं विमुच्यते ॥ १०॥
पञ्च भूतगुणैर्हीनममूर्ति मदलेपकम् ।
अगुणं गुणभोक्तारं यः पश्यति स मुच्यते ॥ ११॥
विहाय सर्वसङ्कल्पान्बुद्ध्या शारीर मानसान् ।
शनैर्निर्वाणमाप्नोति निरिन्धन इवानलः ॥ १२॥
विमुक्तः सर्वसंस्कारैस्ततो ब्रह्म सनातनम् ।
परमाप्नोति संशान्तमचलं दिव्यमक्षरम् ॥ १३॥
अतः परं प्रवक्ष्यामि योगशास्त्रमनुत्तमम् ।
यज्ज्ञात्वा सिद्धमात्मानं लोके पश्यन्ति योगिनः ॥ १४॥
तस्योपदेशं पश्यामि यथावत्तन्निबोध मे ।
यैर्द्वारैश्चारयन्नित्यं पश्यत्यात्मानमात्मनि ॥ १५॥
इन्द्रियाणि तु संहृत्य मन आत्मनि धारयेत् ।
तीव्रं तप्त्वा तपः पूर्वं ततो योक्तुमुपक्रमेत् ॥ १६॥
तपस्वी त्यक्तसङ्कल्पो दम्भाहङ्कारवर्जितः ।
मनीषी मनसा विप्रः पश्यत्यात्मानमात्मनि ॥ १७॥
स चेच्छक्नोत्ययं साधुर्योक्तुमात्मानमात्मनि ।
तत एकान्तशीलः स पश्यत्यात्मानमात्मनि ॥ १८॥
संयतः सततं युक्त आत्मवान्विजितेन्द्रियः ।
तथायमात्मनात्मानं साधु युक्तः प्रपश्यति ॥ १९॥
यथा हि पुरुषः स्वप्ने दृष्ट्वा पश्यत्यसाविति ।
तथारूपमिवात्मानं साधु युक्तः प्रपश्यति ॥ २०॥
इषीकां वा यथा मुञ्जात्कश्चिन्निर्हृत्य दर्शयेत् ।
योगी निष्कृष्टमात्मानं यथा सम्पश्यते तनौ ॥ २१॥
मुञ्जं शरीरं तस्याहुरिषीकामात्मनि श्रिताम् ।
एतन्निदर्शनं प्रोक्तं योगविद्भिरनुत्तमम् ॥ २२॥
यदा हि युक्तमात्मानं सम्यक्पश्यति देहभृत् ।
तदास्य नेशते कश्चित्त्रैलोक्यस्यापि यः प्रभुः ॥ २३॥
अन्योन्याश्चैव तनवो यथेष्टं प्रतिपद्यते ।
विनिवृत्य जरामृत्यू न हृष्यति न शोचति ॥ २४॥
देवानामपि देवत्वं युक्तः कारयते वशी ।
ब्रह्म चाव्ययमाप्नोति हित्वा देहमशाश्वतम् ॥ २५॥
विनश्यत्ष्वपि लोकेषु न भयं तस्य जायते ।
क्लिश्यमानेषु भूतेषु न स क्लिश्यति केन चित् ॥ २६॥
दुःखशोकमयैर्घोरैः सङ्गस्नेह समुद्भवैः ।
न विचाल्येत युक्तात्मा निस्पृहः शान्तमानसः ॥ २७॥
नैनं शस्त्राणि विध्यन्ते न मृत्युश्चास्य विद्यते ।
नातः सुखतरं किं चिल्लोके क्व चन विद्यते ॥ २८॥
सम्यग्युक्त्वा यदात्मानमात्मयेव प्रपश्यति ।
तदैव न स्पृहयते साक्षादपि शतक्रतोः ॥ २९॥
निर्वेदस्तु न गन्तव्यो युञ्जानेन कथं चन ।
योगमेकान्तशीलस्तु यथा युञ्जीत तच्छृणु ॥ ३०॥
दृष्टपूर्वा दिशं चिन्त्य यस्मिन्संनिवसेत्पुरे ।
पुरस्याभ्यन्तरे तस्य मनश्चायं न बाह्यतः ॥ ३१॥
पुरस्याभ्यन्तरे तिष्ठन्यस्मिन्नावसथे वसेत् ।
तस्मिन्नावसथे धार्यं स बाह्याभ्यन्तरं मनः ॥ ३२॥
प्रचिन्त्यावसथं कृत्स्नं यस्मिन्कायेऽवतिष्ठते ।
तस्मिन्काये मनश्चार्यं न कथं चन बाह्यतः ॥ ३३॥
संनियम्येन्द्रियग्रामं निर्घोषे निर्जने वने ।
कायमभ्यन्तरं कृत्स्नमेकाग्रः परिचिन्तयेत् ॥ ३४॥
दन्तांस्तालु च जिह्वां च गलं ग्रीवां तथैव च ।
हृदयं चिन्तयेच्चापि तथा हृदयबन्धनम् ॥ ३५॥
इत्युक्तः स मया शिष्यो मेधावी मधुसूदन ।
पप्रच्छ पुनरेवेमं मोक्षधर्मं सुदुर्वचम् ॥ ३६॥
भुक्तं भुक्तं कथमिदमन्नं कोष्ठे विपच्यते ।
कथं रसत्वं व्रजति शोणितं जायते कथम् ।
तथा मांसं च मेदश्च स्नाय्वस्थीनि च पोषति ॥ ३७॥
कथमेतानि सर्वाणि शरीराणि शरीरिणाम् ।
वर्धन्ते वर्धमानस्य वर्धते च कथं बलम् ।
निरोजसां निष्क्रमणं मलानां च पृथक्पृथक् ॥ ३८॥
कुतो वायं प्रश्वसिति उच्छ्वसित्यपि वा पुनः ।
कं च देशमधिष्ठाय तिष्ठत्यात्मायमात्मनि ॥ ३९॥
जीवः कायं वहति चेच्चेष्टयानः कलेवरम् ।
किं वर्णं कीदृशं चैव निवेशयति वै मनः ।
याथातथ्येन भगवन्वक्तुमर्हसि मेऽनघ ॥ ४०॥
इति सम्परिपृष्टोऽहं तेन विप्रेण माधव ।
प्रत्यब्रुवं महाबाहो यथा श्रुतमरिन्दम ॥ ४१॥
यथा स्वकोष्ठे प्रक्षिप्य कोष्ठं भाण्ड मना भवेत् ।
तथा स्वकाये प्रक्षिप्य मनो द्वारैरनिश्चलैः ।
आत्मानं तत्र मार्गेत प्रमादं परिवर्जयेत् ॥ ४२॥
एवं सततमुद्युक्तः प्रीतात्मा नचिरादिव ।
आसादयति तद्ब्रह्म यद्दृष्ट्वा स्यात्प्रधानवित् ॥ ४३॥
न त्वसौ चक्षुषा ग्राह्यो न च सर्वैरपीन्द्रियैः ।
मनसैव प्रदीपेन महानात्मनि दृश्यते ॥ ४४॥
सर्वतः पाणिपादं तं सर्वतोऽक्षिशिरोमुखम् ।
जीवो निष्क्रान्तमात्मानं शरीरात्सम्प्रपश्यति ॥ ४५॥
स तदुत्सृज्य देहं स्वं धारयन्ब्रह्म केवलम् ।
आत्मानमालोकयति मनसा प्रहसन्निव ॥ ४६॥
इदं सर्वरहस्यं ते मयोक्तं द्विजसत्तम ।
आपृच्छे साधयिष्यामि गच्छ शिष्ययथासुखम् ॥ ४७॥
इत्युक्तः स तदा कृष्ण मया शिष्यो महातपाः ।
अगच्छत यथाकामं ब्राह्मणश्छिन्नसंशयः ॥ ४८॥
वासुदेव उवाच
इत्युक्त्वा स तदा वाक्यं मां पार्थ द्विजपुङ्गवः ।
मोक्षधर्माश्रितः सम्यक्तत्रैवान्तरधीयत ॥ ४९॥
कच्चिदेतत्त्वया पार्थ श्रुतमेकाग्रचेतसा ।
तदापि हि रथस्थस्त्वं श्रुतवानेतदेव हि ॥ ५०॥
नैतत्पार्थ सुविज्ञेयं व्यामिश्रेणेति मे मतिः ।
नरेणाकृत सञ्ज्ञेन विदग्धेनाकृतात्मना ॥ ५१॥
सुरहस्यमिदं प्रोक्तं देवानां भरतर्षभ ।
कच्चिन्नेदं श्रुतं पार्थ मर्त्येनान्येन केन चित् ॥ ५२॥
न ह्येतच्छ्रोतुमर्होऽन्यो मनुष्यस्त्वामृतेऽनघ ।
नैतदद्य सुविज्ञेयं व्यामिश्रेणान्तरात्मना ॥ ५३॥
क्रियावद्भिर्हि कौन्तेय देवलोकः समावृतः ।
न चैतदिष्टं देवानां मर्त्यै रूपनिवर्तनम् ॥ ५४॥
परा हि सा गतिः पार्थ यत्तद्ब्रह्म सनातनम् ।
यत्रामृतत्वं प्राप्नोति त्यक्त्वा दुःखं सदा सुखी ॥ ५५॥
एवं हि धर्ममास्थाय योऽपि स्युः पापयोनयः ।
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥ ५६॥
किं पुनर्ब्राह्मणाः पार्थ क्षत्रिया वा बहुश्रुताः ।
स्वधर्मरतयो नित्यं ब्रह्मलोकपरायणाः ॥ ५७॥
हेतुमच्चैतदुद्दिष्टमुपायाश्चास्य साधने ।
सिद्धेः फलं च मोक्षश्च दुःखस्य च विनिर्णयः ।
अतः परं सुखं त्वन्यत्किं नु स्याद्भरतर्षभ ॥ ५८॥
श्रुतवाञ्श्रद्दधानश्च पराक्रान्तश्च पाण्डव ।
यः परित्यजते मर्त्यो लोकतन्त्रमसारवत् ।
एतैरुपायैः स क्षिप्रं परां गतिमवाप्नुयात् ॥ ५९॥
एतावदेव वक्तव्यं नातो भूयोऽस्ति किं चन ।
षण्मासान्नित्ययुक्तस्य योगः पार्थ प्रवर्तते ॥ ६०॥
इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि एकोनविंषोऽध्यायः ॥
॥ इति अनुगीता समाप्ता ॥
॥ अवधूतगीतम् ॥
अथ अवधूतगीतम् ।
अवधूतं द्विजं कञ्चित् चरन्तम् अकुतोभयम् ।
कविं निरीक्ष्य तरुणं यदुः पप्रच्छ धर्मवित् ॥ २५॥
यदुः उवाच ।
कुतः बुद्धिः इयं ब्रह्मन् अकर्तुः सुविशारदा ।
याम् आसाद्य भवान् लोकं विद्वान् चरति बालवत् ॥ २६॥
प्रायः धर्मार्थकामेषु विवित्सायां च मानवाः ।
हेतुना एव समीहन्ते आयुषः यशसः श्रियः ॥ २७॥
त्वं तु कल्पः कविः दक्षः सुभगः अमृतभाषणः ।
न कर्ता नेहसे किञ्चित् जडौन्मत्तपिशाचवत् ॥ २८॥
जनेषु दह्यमानेषु कामलोभदवाग्निना ।
न तप्यसे अग्निना मुक्तः गङ्गाम्भस्थः इव द्विपः ॥ २९॥
त्वं हि नः पृच्छतां ब्रह्मन् आत्मनि आनन्दकारणम् ।
ब्रूहि स्पर्शविहीनस्य भवतः केवल आत्मनः ॥ ३०॥
श्री भगवान् उवाच ।
यदुना एवं महाभागः ब्रह्मण्येन सुमेधसा ।
पृष्टः सभाजितः प्राह प्रश्रय अवनतं द्विजः ॥ ३१॥
ब्राह्मणः उवाच ।
सन्ति मे गुरवः राजन् बहवः बुद्ध्या उपाश्रिताः ।
यतः बुद्धिम् उपादाय मुक्तः अटामि इह तान् श्रुणु ॥ ३२॥
पृथिवी वायुः आकाशम् आपः अग्निः चन्द्रमा रविः ।
कपोतः अजगरः सिन्धुः पतङ्गः मधुकृद् गजः ॥ ३३॥
मधुहा हरिणः मीनः पिङ्गला कुररः अर्भकः ।
कुमारी शरकृत् सर्पः ऊर्णनाभिः सुपेशकृत् ॥ ३४॥
एते मे गुरवः राजन् चतुर्विंशतिः आश्रिताः ।
शिक्षा वृत्तिभिः एतेषाम् अन्वशिक्षम् इह आत्मनः ॥ ३५॥
यतः यत् अनुशिक्षामि यथा वा नाहुषआत्मज ।
तत् तथा पुरुषव्याघ्र निबोध कथयामि ते ॥ ३६॥
भूतैः आक्रमाणः अपि धीरः दैववशानुगैः ।
तत् विद्वान् न चलेत् मार्गात् अन्वशिक्षं क्षितेः व्रतम् ॥ ३७॥
शश्वत् परार्थसर्वेहः परार्थ एकान्तसम्भवः ।
साधुः शिक्षेत भूभृत्तः नगशिष्यः परात्मताम् ॥ ३८॥
प्राणवृत्त्या एव सन्तुष्येत् मुनिः न एव इन्द्रियप्रियैः ।
ज्ञानं यथा न नश्येत न अवकीर्येत वाङ्मनः ॥ ३९॥
विषयेषु आविशन् योगी नानाधर्मेषु सर्वतः ।
गुणदोषव्यपेत आत्मा न विषज्जेत वायुवत् ॥ ४०॥
पार्थिवेषु इह देहेषु प्रविष्टः तत् गुणआश्रयः ।
गुणैः न युज्यते योगी गन्धैः वायुः इव आत्मदृक् ॥ ४१॥
अन्तः हितः च स्थिरजङ्गमेषु
ब्रह्म आत्मभावेन समन्वयेन ।
व्याप्त्य अवच्छेदम् असङ्गम् आत्मनः
मुनिः नभः त्वं विततस्य भावयेत् ॥ ४२॥
तेजः अबन्नमयैः भावैः मेघ आद्यैः वायुना ईरितैः ।
न स्पृश्यते नभः तद्वत् कालसृष्टैः गुणैः पुमान् ॥ ४३॥
स्वच्छः प्रकृतितः स्निग्धः माधुर्यः तीर्थभूः नृणाम् ।
मुनिः पुनाति अपां मित्रम् ईक्ष उपस्पर्शकीर्तनैः ॥ ४४॥
तेजस्वी तपसा दीप्तः दुर्धर्षौदरभाजनः ।
सर्वभक्षः अपि युक्त आत्मा न आदत्ते मलम् अग्निवत् ॥ ४५॥
क्वचित् शन्नः क्वचित् स्पष्टः उपास्यः श्रेयः इच्छताम् ।
भुङ्क्ते सर्वत्र दातॄणां दहन् प्राक् उत्तर अशुभम् ॥ ४६॥
स्वमायया सृष्टम् इदं सत् असत् लक्षणं विभुः ।
प्रविष्टः ईयते तत् तत् स्वरूपः अग्निः इव एधसि ॥ ४७॥
विसर्गाद्याः श्मशानान्ताः भावाः देहस्य न आत्मनः ।
कलानाम् इव चन्द्रस्य कालेन अव्यक्तवर्त्मना ॥ ४८॥
कालेन हि ओघवेगेन भूतानां प्रभव अपि अयौ ।
नित्यौ अपि न दृश्येते आत्मनः अग्नेः यथा अर्चिषाम् ॥ ४९॥
गुणैः गुणान् उपादत्ते यथाकालं विमुञ्चति ।
न तेषु युज्यते योगी गोभिः गाः इव गोपतिः ॥ ५०॥
बुध्यते स्वेन भेदेन व्यक्तिस्थः इव तत् गतः ।
लक्ष्यते स्थूलमतिभिः आत्मा च अवस्थितः अर्कवत् ॥ ५१॥
न अतिस्नेहः प्रसङ्गः वा कर्तव्यः क्व अपि केनचित् ।
कुर्वन् विन्देत सन्तापं कपोतः इव दीनधीः ॥ ५२॥
कपोतः कश्चन अरण्ये कृतनीडः वनस्पतौ ।
कपोत्या भार्यया सार्धम् उवास कतिचित् समाः ॥ ५३॥
कपोतौ स्नेहगुणितहृदयौ गृहधर्मिणौ ।
दृष्टिं दृष्ट्याङ्गम् अङ्गेन बुद्धिं बुद्ध्या बबन्धतुः ॥ ५४॥
शय्यासनाटनस्थानवार्ताक्रीडाशनआदिकम् ।
मिथुनीभूय विस्रब्धौ चेरतुः वनराजिषु ॥ ५५॥
यं यं वाञ्छति सा राजन् तर्पयन्ति अनुकम्पिता ।
तं तं समनयत् कामं कृच्छ्रेण अपि अजितैन्द्रियः ॥ ५६॥
कपोती प्रथमं गर्भं गृह्णति कालः आगते ।
अण्डानि सुषुवे नीडे स्वपत्युः संनिधौ सती ॥ ५७॥
तेषू काले व्यजायन्त रचितावयवा हरेः ।
शक्तिभिः दुर्विभाव्याभिः कोमलाङ्गतनूरुहाः ॥ ५८॥
प्रजाः पुपुषतुः प्रीतौ दम्पती पुत्रवत्सलौ ।
शृण्वन्तौ कूजितं तासां निर्वृतौ कलभाषितैः ॥ ५९॥
तासां पतत्रैः सुस्पर्शैः कूजितैः मुग्धचेष्टितैः ।
प्रत्युद्गमैः अदीनानां पितरौ मुदम् आपतुः ॥ ६०॥
स्नेहानुबद्धहृदयौ अन्योन्यं विष्णुमायया ।
विमोहितौ दीनधियौ शिशून् पुपुषतुः प्रजाः ॥ ६१॥
एकदा जग्मतुः तासाम् अन्नार्थं तौ कुटुम्बिनौ ।
परितः कानने तस्मिन् अर्थिनौ चेरतुः चिरम् ॥ ६२॥
दृष्ट्वा तान् लुब्धकः कश्चित् यदृच्छ अतः वनेचरः ।
जगृहे जालम् आतत्य चरतः स्वालयान्तिके ॥ ६३॥
कपोतः च कपोती च प्रजापोषे सदा उत्सुकौ ।
गतौ पोषणम् आदाय स्वनीडम् उपजग्मतुः ॥ ६४॥
कपोती स्वात्मजान् वीक्ष्य बालकान् जालसंवृतान् ।
तान् अभ्यधावत् क्रोशन्ती क्रोशतः भृशदुःखिता ॥ ६५॥
सा असकृत् स्नेहगुणिता दीनचित्ता अजमायया ।
स्वयं च अबध्यत शिचा बद्धान् पश्यन्ति अपस्मृतिः ॥ ६६॥
कपोतः च आत्मजान् बद्धान् आत्मनः अपि अधिकान् प्रियान् ।
भार्यां च आत्मसमां दीनः विललाप अतिदुःखितः ॥ ६७॥
अहो मे पश्यत अपायम् अल्पपुण्यस्य दुर्मतेः ।
अतृप्तस्य अकृतार्थस्य गृहः त्रैवर्गिकः हतः ॥ ६८॥
अनुरूपा अनुकूला च यस्य मे पतिदेवता ।
शून्ये गृहे मां सन्त्यज्य पुत्रैः स्वर्याति साधुभिः ॥ ६९॥
सः अहं शून्ये गृहे दीनः मृतदारः मृतप्रजः ।
जिजीविषे किमर्थं वा विधुरः दुःखजीवितः ॥ ७०॥
तान् तथा एव आवृतान् शिग्भिः मृत्युग्रस्तान् विचेष्टतः ।
स्वयं च कृपणः शिक्षु पश्यन् अपि अबुधः अपतत् ॥ ७१॥
तं लब्ध्वा लुब्धकः क्रूरः कपोतं गृहमेधिनम् ।
कपोतकान् कपोतीं च सिद्धार्थः प्रययौ गृहम् ॥ ७२॥
एवं कुटुम्बी अशान्त आत्मा द्वन्द्व आरामः पतत् त्रिवत् ।
पुष्णन् कुटुम्बं कृपणः सानुबन्धः अवसीदति ॥ ७३॥
यः प्राप्य मानुषं लोकं मुक्तिद्वारम् अपावृतम् ।
गृहेषु खगवत् सक्तः तम् आरूढच्युतं विदुः ॥ ७४॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे
यद्वधूतेतिहासे सप्तमोऽध्यायः ॥ ७॥
अथास्श्टमोऽध्यायः ।
सुखम् ऐन्द्रियकं राजन् स्वर्गे नरकः एव च ।
देहिनः यत् यथा दुःखं तस्मात् न इच्छेत तत् बुधाः ॥ १॥
ग्रासं सुमृष्टं विरसं महान्तं स्तोकम् एव वा ।
यदृच्छया एव अपतितं ग्रसेत् आजगरः अक्रियः ॥ २॥
शयीत अहानि भूरीणि निराहारः अनुपक्रमः ।
यदि न उपनमेत् ग्रासः महाहिः इव दिष्टभुक् ॥ ३॥
ओजः सहोबलयुतं बिभ्रत् देहम् अकर्मकम् ।
शयानः वीतनिद्रः च नेहेत इन्द्रियवान् अपि ॥ ४॥
मुनिः प्रसन्नगम्भीरः दुर्विगाह्यः दुरत्ययः ।
अनन्तपारः हि अक्षोभ्यः स्तिमित उदः इव अर्णवः ॥ ५॥
समृद्धकामः हीनः वा नारायणपरः मुनिः ।
न उत्सर्पेत न शुष्येत सरिद्भिः इव सागरः ॥ ६॥
दृष्ट्वा स्त्रियं देवमायां तत् भावैः अजितेन्द्रियः ।
प्रलोभितः पतति अन्धे तमसि अग्नौ पतङ्गवत् ॥ ७॥
योषित् हिरण्य आभरण अम्बरादि
द्रव्येषु मायारचितेषु मूढः ।
प्रलोभितात्मा हि उपभोगबुद्ध्या
पतङ्गवत् नश्यति नष्टदृष्टिः ॥ ८॥
स्तोकं स्तोकं ग्रसेत् ग्रासं देहः वर्तेत यावता ।
गृहान् अहिंसत् न आतिष्ठेत् वृत्तिं माधुकरीं मुनिः ॥ ९॥
अणुभ्यः च महद्भ्यः च शास्त्रेभ्यः कुशलः नरः ।
सर्वतः सारम् आदद्यात् पुष्पेभ्यः इव षट्पदः ॥ १०॥
सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षितम् ।
पाणिपात्र उदरामत्रः मक्षिका इव न सङ्ग्रही ॥ ११॥
सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षुकः ।
मक्षिकाः इव सङ्गृह्णन् सह तेन विनश्यति ॥ १२॥
पद अपि युवतीं भिक्षुः न स्पृशेत् दारवीम् अपि ।
स्पृशन् करीव बध्येत करिण्या अङ्गसङ्गतः ॥ १३॥
न अधिगच्छेत् स्त्रियं प्राज्ञः कर्हिचित् मृत्युम् आत्मनः ।
बल अधिकैः स हन्येत गजैः अन्यैः गजः यथा ॥ १४॥
न देयं न उपभोग्यं च लुब्धैः यत् दुःख सञ्चितम् ।
भुङ्क्ते तत् अपि तत् च अन्यः मधुहेव अर्थवित् मधु ॥ १५॥
सुख दुःख उपार्जितैः वित्तैः आशासानां गृह आशिषः ।
मधुहेव अग्रतः भुङ्क्ते यतिः वै गृहमेधिनाम् ॥ १६॥
ग्राम्यगीतं न श्रुणुयात् यतिः वनचरः क्वचित् ।
शिखेत हरिणात् वद्धात् मृगयोः गीतमोहितात् ॥ १७॥
नृत्यवादित्रगीतानि जुषन् ग्राम्याणि योषिताम् ।
आसां क्रीडनकः वश्यः ऋष्यशृङ्गः मृगीसुतः ॥ १८॥
जिह्वया अतिप्रमाथिन्या जनः रसविमोहितः ।
मृत्युम् ऋच्छति असत् बुद्धिः मीनः तु बडिशैः यथा ॥ १९॥
इन्द्रियाणि जयन्ति आशुः निराहाराः मनीषिणः ।
वर्जयित्वा तु रसनं तत् निरन्नस्य वर्धते ॥ २०॥
तावत् जितेन्द्रियः न स्यात् विजितानि इन्द्रियः पुमान् ।
न जयेत् रसनं यावत् जितं सर्वं जिते रसे ॥ २१॥
पिङ्गला नाम वेश्या आसीत् विदेहनगरे पुरा ।
तस्या मे शिक्षितं किञ्चित् निबोध नृपनन्दन ॥ २२॥
सा स्वैरिण्येकदा कान्तं सङ्केत उपनेष्यती ।
अभूत्काले बहिर्द्वारि बिभ्रती रूपमुत्तमम् ॥ २३॥
मार्ग आगच्छतो वीक्ष्य पुरुषान्पुरुषर्षभ ।
तान् शुल्कदान्वित्तवतः कान्तान्मेनेऽर्थकामुका ॥ २४॥
आगतेष्वपयातेषु सा सङ्केतोपजीवनी ।
अप्यन्यो वित्तवान्कोऽपि मामुपैष्यति भूरिदः ॥ २५॥
एअवं दुराशया ध्वस्तनिद्रा द्वार्यवलम्बती ।
निर्गच्छन्ती प्रविशती निशीथं समपद्यत ॥ २६॥
तस्या वित्ताशया शुष्यद्वक्त्राया दीनचेतसः ।
निर्वेदः परमो जज्ञे चिन्ताहेतुः सुखावहः ॥ २७॥
तस्या निर्विण्णचित्ताया गीतं श्रुणु यथा मम ।
निर्वेद आशापाशानां पुरुषस्य यथा ह्यसिः ॥ २८॥
न हि अङ्गाजातनिर्वेदः देहबन्धं जिहासति ।
यथा विज्ञानरहितः मनुजः ममतां नृप ॥ २९॥
पिङ्गला उवाच ।
अहो मे मोहविततिं पश्यत अविजित आत्मनः ।
या कान्तात् असतः कामं कामये येन बालिशा ॥ ३०॥
सन्तं समीपे रमणं रतिप्रदं
वित्तप्रदं नित्यम् इमं विहाय ।
अकामदं दुःखभय आदि शोक
मोहप्रदं तुच्छम् अहं भजे अज्ञा ॥ ३१॥
अहो मयात्मा परितापितो वृथा
साङ्केत्यवृत्त्याऽतिविगर्ह्यवार्तया ।
स्त्रैणान्नराद्याऽर्थतृषोऽनुशोच्या
त्क्रीतेन वित्तं रतिमात्मनेच्छती ॥ ३२॥
यदस्थिभिर्निर्मितवंशवंश्य
स्थूणं त्वचा रोमनखैः पिनद्धम् ।
क्षरन्नवद्वारमगारमेतद्
विण्मूत्रपूर्णं मदुपैति कान्या ॥ ३३॥
विदेहानां पुरे ह्यस्मिन्नहमेकैव मूढधीः ।
याऽन्यस्मिच्छन्त्यसत्यस्मादात्मदात्काममच्युतात् ॥ ३४॥
सुहृत्प्रेष्ठतमो नाथ आत्मा चायं शरीरिणाम् ।
तं विक्रीयात्मनैवाहं रमेऽनेन यथा रमा ॥ ३५॥
कियत्प्रियं ते व्यभजन्कामा ये कामदा नराः ।
आद्यन्तवन्तो भार्याया देवा वा कालविद्रुताः ॥ ३६॥
नूनं मे भगवान् प्रीतः विष्णुः केन अपि कर्मणा ।
निर्वेदः अयं दुराशाया यत् मे जातः सुखावहः ॥ ३७॥
मैवं स्युर्मन्दभग्यायाः क्लेशा निर्वेदहेतवः ।
येनानुबन्धं निहृत्य पुरुषः शममृच्छति ॥ ३८॥
तेन उपकृतम् आदाय शिरसा ग्राम्यसङ्गताः ।
त्यक्त्वा दुराशाः शरणं व्रजामि तम् अधीश्वरम् ॥ ३९॥
सन्तुष्टा श्रद्दधत्येतद्यथालाभेन जीवती ।
विहराम्यमुनैवाहमात्मना रमणेन वै ॥ ४०॥
संसारकूपे पतितं विषयैर्मुषितेक्षणम् ।
ग्रस्तं कालाहिनाऽऽत्मानं कोऽन्यस्त्रातुमधीश्वरः ॥ ४१॥
आत्मा एव हि आत्मनः गोप्ता निर्विद्येत यदाखिलात् ।
अप्रमत्तः इदं पश्यत् ग्रस्तं कालाहिना जगत् ॥ ४२॥
ब्राह्मण उवाच ।
एअवं व्यवसितमतिर्दुराशां कान्ततर्षजाम् ।
छित्वोपशममास्थाय शय्यामुपविवेश सा ॥ ४३॥
आशा हि परमं दुःखं नैराश्यं परमं सुखम् ।
यथा संछिद्य कान्ताशां सुखं सुष्वाप पिङ्गला ॥ ४४॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे पिङ्गलोपाख्याऽनेष्टमोऽध्यायः
॥ ८॥
अथ नवमोऽध्यायः ।
ब्राह्मणः उवाच ।
परिग्रहः हि दुःखाय यत् यत् प्रियतमं नृणाम् ।
अनन्तं सुखम् आप्नोति तत् विद्वान् यः तु अकिञ्चनः ॥ १॥
सामिषं कुररं जघ्नुः बलिनः ये निरामिषाः ।
तत् आमिषं परित्यज्य सः सुखं समविन्दत ॥ २॥
न मे मानावमानौ स्तः न चिन्ता गेहपुत्रिणाम् ।
आत्मक्रीडः आत्मरतिः विचरामि इह बालवत् ॥ ३॥
द्वौ एव चिन्तया मुक्तौ परम आनन्दः आप्लुतौ ।
यः विमुग्धः जडः बालः यः गुणेभ्यः परं गतः ॥ ४॥
क्वचित् कुमारी तु आत्मानं वृणानान् गृहम् आगतान् ।
स्वयं तान् अर्हयामास क्वापि यातेषु बन्धुषु ॥ ५॥
तेषम् अभ्यवहारार्थं शालीन् रहसि पार्थिव ।
अवघ्नन्त्याः प्रकोष्ठस्थाः चक्रुः शङ्खाः स्वनं महत् ॥ ६॥
सा तत् जुगुप्सितं मत्वा महती व्रीडिता ततः ।
बभञ्ज एकैकशः शङ्खान् द्वौ द्वौ पाण्योः अशेषयत् ॥ ७॥
उभयोः अपि अभूत् घोषः हि अवघ्नन्त्याः स्म शङ्खयोः ।
तत्र अपि एकं निरभिदत् एकस्मान् न अभवत् ध्वनिः ॥ ८॥
अन्वशिक्षम् इमं तस्याः उपदेशम् अरिन्दम ।
लोकान् अनुचरन् एतान् लोकतत्त्वविवित्सया ॥ ९॥
वासे बहूनां कलहः भवेत् वार्ता द्वयोः अपि ।
एकः एव चरेत् तस्मात् कुमार्याः इव कङ्कणः ॥ १०॥
मनः एकत्र संयुज्यात् जितश्वासः जित आसनः ।
वैराग्याभ्यासयोगेन ध्रियमाणम् अतन्द्रितः ॥ ११॥
यस्मिन् मनः लब्धपदं यत् एतत्
शनैः शनैः मुञ्चति कर्मरेणून् ।
सत्त्वेन वृद्धेन रजः तमः च
विधूय निर्वाणम् उपैति अनिन्धनम् ॥ १२॥
तत् एवम् आत्मनि अवरुद्धचित्तः
न वेद किञ्चित् बहिः अन्तरं वा ।
यथा इषुकारः नृपतिं व्रजन्तम्
इषौ गतात्मा न ददर्श पार्श्वे ॥ १३॥
एकचार्यनिकेतः स्यात् अप्रमत्तः गुहाशयः ।
अलक्ष्यमाणः आचारैः मुनिः एकः अल्पभाषणः ॥ १४॥
गृहारम्भः अतिदुःखाय विफलः च अध्रुवात्मनः ।
सर्पः परकृतं वेश्म प्रविश्य सुखम् एधते ॥ १५॥
एको नारायणो देवः पूर्वसृष्टं स्वमायया ।
संहृत्य कालकलया कल्पान्त इदमीश्वरः ॥ १६॥
एक एवाद्वितीयोऽभूदात्माधारोऽखिलाश्रयः ।
कालेनात्मानुभावेन साम्यं नीतासु शक्तिषु ।
सत्त्वादिष्वादिपुएरुषः प्रधानपुरुषेश्वरः ॥ १७॥
परावराणां परम आस्ते कैवल्यसञ्ज्ञितः ।
केवलानुभवानन्दसन्दोहो निरुपाधिकः ॥ १८॥
केवलात्मानुभावेन स्वमायां त्रिगुणात्मिकाम् ।
संक्षोभयन्सृजत्यादौ तया सूत्रमरिन्दम ॥ १९॥
तामाहुस्त्रिगुणव्यक्तिं सृजन्तीं विश्वतोमुखम् ।
यस्मिन्प्रोतमिदं विश्वं येन संसरते पुमान् ॥ २०॥
यथा ऊर्णनाभिः हृदयात् ऊर्णां सन्तत्य वक्त्रतः ।
तया विहृत्य भूयस्तां ग्रसति एवं महेश्वरः ॥ २१॥
यत्र यत्र मनः देही धारयेत् सकलं धिया ।
स्नेहात् द्वेषात् भयात् वा अपि याति तत् तत् सरूपताम् ॥ २२॥
कीटः पेशस्कृतं ध्यायन् कुड्यां तेन प्रवेशितः ।
याति तत् स्सत्मतां राजन् पूर्वरूपम् असन्त्यजन् ॥ २३॥
एवं गुरुभ्यः एतेभ्यः एष मे शिक्षिता मतिः ।
स्वात्मा उपशिक्षितां बुद्धिं श्रुणु मे वदतः प्रभो ॥ २४॥
देहः गुरुः मम विरक्तिविवेकहेतुः
बिभ्रत् स्म सत्त्वनिधनं सतत अर्त्युत् अर्कम् ।
तत्त्वानि अनेन विमृशामि यथा तथा अपि
पारक्यम् इति अवसितः विचरामि असङ्गः ॥ २५॥
जायात्मजार्थपशुभृत्यगृहाप्तवर्गान्
पुष्णाति यत् प्रियचिकीर्षया वितन्वन् ॥
स्वान्ते सकृच्छ्रम् अवरुद्धधनः सः देहः
सृष्ट्वा अस्य बीजम् अवसीदति वृक्षधर्मा ॥ २६॥
जिह्वा एकतः अमुम् अवकर्षति कर्हि तर्षा
शिश्नः अन्यतः त्वक् उदरं श्रवणं कुतश्चित् ।
ग्राणः अन्यतः चपलदृक् क्व च कर्मशक्तिः
बह्व्यः सपत्न्यः इव गेहपतिं लुनन्ति ॥ २७॥
सृष्ट्वा पुराणि विविधानि अजया आत्मशक्त्या
वृक्षान् सरीसृपपशून्खगदंशमत्स्यान् ।
तैः तैः अतुष्टहृदयः पुरुषं विधाय
ब्रह्मावलोकधिषणं मुदमाप देवः ॥ २८॥
लब्ध्वा सुदुर्लभम् इदं बहुसम्भवान्ते
मानुष्यमर्थदमनित्यमपीह धीरः ।
तूर्णं यतेत न पतेत् अनुमृत्युः यावत्
निःश्रेयसाय विषयः खलु सर्वतः स्यात् ॥ २९॥
एवं सञ्जातवैराग्यः विज्ञानलोक आत्मनि ।
विचरामि महीम् एतां मुक्तसङ्गः अनहङ्कृतिः ॥ ३०॥
न हि एकस्मात् गुरोः ज्ञानं सुस्थिरं स्यात् सुपुष्कलम् ।
ब्रह्म एतत् अद्वितीयं वै गीयते बहुधा ऋषिभिः ॥ ३१॥
श्रीभगवानुवाच ।
इत्युक्त्वा स यदुं विप्रस्तमामन्त्रय गभीरधीः ।
वन्दितो।आभ्यर्थितो राज्ञा ययौ प्रीतो यथागतम् ॥ ३२॥
अवधूतवचः श्रुत्वा पूर्वेषां नः स पूर्वजः ।
सर्वसङ्गविनिर्मुक्तः समचित्तो बभूव ह ॥ ३३॥
(इति अवधूतगीतम् ।)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे भगवदुद्धवसंवादे
नवमोऽध्यायः ॥ ९॥
॥ अवधूत गीता ॥
अथ प्रथमोऽध्यायः ॥
ईश्वरानुग्रहादेव पुंसामद्वैतवासना ।
महद्भयपरित्राणाद्विप्राणामुपजायते ॥ १॥
येनेदं पूरितं सर्वमात्मनैवात्मनात्मनि ।
निराकारं कथं वन्दे ह्यभिन्नं शिवमव्ययम् ॥ २॥
पञ्चभूतात्मकं विश्वं मरीचिजलसन्निभम् ।
कस्याप्यहो नमस्कुर्यामहमेको निरञ्जनः ॥ ३॥
आत्मैव केवलं सर्वं भेदाभेदो न विद्यते ।
अस्ति नास्ति कथं ब्रूयां विस्मयः प्रतिभाति मे ॥ ४॥
वेदान्तसारसर्वस्वं ज्ञानं विज्ञानमेव च ।
अहमात्मा निराकारः सर्वव्यापी स्वभावतः ॥ ५॥
यो वै सर्वात्मको देवो निष्कलो गगनोपमः ।
स्वभावनिर्मलः शुद्धः स एवायं न संशयः ॥ ६॥
अहमेवाव्ययोऽनन्तः शुद्धविज्ञानविग्रहः ।
सुखं दुःखं न जानामि कथं कस्यापि वर्तते ॥ ७॥
न मानसं कर्म शुभाशुभं मे
न कायिकं कर्म शुभाशुभं मे ।
न वाचिकं कर्म शुभाशुभं मे
ज्ञानामृतं शुद्धमतीन्द्रियोऽहम् ॥ ८॥
मनो वै गगनाकारं मनो वै सर्वतोमुखम् ।
मनोऽतीतं मनः सर्वं न मनः परमार्थतः ॥ ९॥
अहमेकमिदं सर्वं व्योमातीतं निरन्तरम् ।
पश्यामि कथमात्मानं प्रत्यक्षं वा तिरोहितम् ॥ १०॥
त्वमेवमेकं हि कथं न बुध्यसे
समं हि सर्वेषु विमृष्टमव्ययम् ।
सदोदितोऽसि त्वमखण्डितः प्रभो
दिवा च नक्तं च कथं हि मन्यसे ॥ ११॥
आत्मानं सततं विद्धि सर्वत्रैकं निरन्तरम् ।
अहं ध्याता परं ध्येयमखण्डं खण्ड्यते कथम् ॥ १२॥
न जातो न मृतोऽसि त्वं न ते देहः कदाचन ।
सर्वं ब्रह्मेति विख्यातं ब्रवीति बहुधा श्रुतिः ॥ १३॥
स बाह्याभ्यन्तरोऽसि त्वं शिवः सर्वत्र सर्वदा ।
इतस्ततः कथं भ्रान्तः प्रधावसि पिशाचवत् ॥ १४॥
संयोगश्च वियोगश्च वर्तते न च ते न मे ।
न त्वं नाहं जगन्नेदं सर्वमात्मैव केवलम् ॥ १५॥
शब्दादिपञ्चकस्यास्य नैवासि त्वं न ते पुनः ।
त्वमेव परमं तत्त्वमतः किं परितप्यसे ॥ १६॥
जन्म मृत्युर्न ते चित्तं बन्धमोक्षौ शुभाशुभौ ।
कथं रोदिषि रे वत्स नामरूपं न ते न मे ॥ १७॥
अहो चित्त कथं भ्रान्तः प्रधावसि पिशाचवत् ।
अभिन्नं पश्य चात्मानं रागत्यागात्सुखी भव ॥ १८॥
त्वमेव तत्त्वं हि विकारवर्जितं
निष्कम्पमेकं हि विमोक्षविग्रहम् ।
न ते च रागो ह्यथवा विरागः
कथं हि सन्तप्यसि कामकामतः ॥ १९॥
वदन्ति श्रुतयः सर्वाः निर्गुणं शुद्धमव्ययम् ।
अशरीरं समं तत्त्वं तन्मां विद्धि न संशयः ॥ २०॥
साकारमनृतं विद्धि निराकारं निरन्तरम् ।
एतत्तत्त्वोपदेशेन न पुनर्भवसम्भवः ॥ २१॥
एकमेव समं तत्त्वं वदन्ति हि विपश्चितः ।
रागत्यागात्पुनश्चित्तमेकानेकं न विद्यते ॥ २२॥
अनात्मरूपं च कथं समाधि-
रात्मस्वरूपं च कथं समाधिः ।
अस्तीति नास्तीति कथं समाधि-
र्मोक्षस्वरूपं यदि सर्वमेकम् ॥ २३॥
विशुद्धोऽसि समं तत्त्वं विदेहस्त्वमजोऽव्ययः ।
जानामीह न जानामीत्यात्मानं मन्यसे कथम् ॥ २४॥
तत्त्वमस्यादिवाक्येन स्वात्मा हि प्रतिपादितः ।
नेति नेति श्रुतिर्ब्रूयादनृतं पाञ्चभौतिकम् ॥ २५॥
आत्मन्येवात्मना सर्वं त्वया पूर्णं निरन्तरम् ।
ध्याता ध्यानं न ते चित्तं निर्लज्जं ध्यायते कथम् ॥ २६॥
शिवं न जानामि कथं वदामि
शिवं न जानामि कथं भजामि ।
अहं शिवश्चेत्परमार्थतत्त्वं
समस्वरूपं गगनोपमं च ॥ २७॥
नाहं तत्त्वं समं तत्त्वं कल्पनाहेतुवर्जितम् ।
ग्राह्यग्राहकनिर्मुक्तं स्वसंवेद्यं कथं भवेत् ॥ २८॥
अनन्तरूपं न हि वस्तु किंचि-
त्तत्त्वस्वरूपं न हि वस्तु किंचित् ।
आत्मैकरूपं परमार्थतत्त्वं
न हिंसको वापि न चाप्यहिंसा ॥ २९॥
विशुद्धोऽसि समं तत्त्वं विदेहमजमव्ययम् ।
विभ्रमं कथमात्मार्थे विभ्रान्तोऽहं कथं पुनः ॥ ३०॥
घटे भिन्ने घटाकाशं सुलीनं भेदवर्जितम् ।
शिवेन मनसा शुद्धो न भेदः प्रतिभाति मे ॥ ३१॥
न घटो न घटाकाशो न जीवो जीवविग्रहः ।
केवलं ब्रह्म संविद्धि वेद्यवेदकवर्जितम् ॥ ३२॥
सर्वत्र सर्वदा सर्वमात्मानं सततं ध्रुवम् ।
सर्वं शून्यमशून्यं च तन्मां विद्धि न संशयः ॥ ३३॥
वेदा न लोका न सुरा न यज्ञा
वर्णाश्रमो नैव कुलं न जातिः ।
न धूममार्गो न च दीप्तिमार्गो
ब्रह्मैकरूपं परमार्थतत्त्वम् ॥ ३४॥
व्याप्यव्यापकनिर्मुक्तः त्वमेकः सफलं यदि ।
प्रत्यक्षं चापरोक्षं च ह्यात्मानं मन्यसे कथम् ॥ ३५॥
अद्वैतं केचिदिच्छन्ति द्वैतमिच्छन्ति चापरे ।
समं तत्त्वं न विन्दन्ति द्वैताद्वैतविवर्जितम् ॥ ३६॥
श्वेतादिवर्णरहितं शब्दादिगुणवर्जितम् ।
कथयन्ति कथं तत्त्वं मनोवाचामगोचरम् ॥ ३७॥
यदाऽनृतमिदं सर्वं देहादिगगनोपमम् ।
तदा हि ब्रह्म संवेत्ति न ते द्वैतपरम्परा ॥ ३८॥
परेण सहजात्मापि ह्यभिन्नः प्रतिभाति मे ।
व्योमाकारं तथैवैकं ध्याता ध्यानं कथं भवेत् ॥ ३९॥
यत्करोमि यदश्नामि यज्जुहोमि ददामि यत् ।
एतत्सर्वं न मे किंचिद्विशुद्धोऽहमजोऽव्ययः ॥ ४०॥
सर्वं जगद्विद्धि निराकृतीदं
सर्वं जगद्विद्धि विकारहीनम् ।
सर्वं जगद्विद्धि विशुद्धदेहं
सर्वं जगद्विद्धि शिवैकरूपम् ॥ ४१॥
तत्त्वं त्वं न हि सन्देहः किं जानाम्यथवा पुनः ।
असंवेद्यं स्वसंवेद्यमात्मानं मन्यसे कथम् ॥ ४२॥
मायाऽमाया कथं तात छायाऽछाया न विद्यते ।
तत्त्वमेकमिदं सर्वं व्योमाकारं निरञ्जनम् ॥ ४३॥
आदिमध्यान्तमुक्तोऽहं न बद्धोऽहं कदाचन ।
स्वभावनिर्मलः शुद्ध इति मे निश्चिता मतिः ॥ ४४॥
महदादि जगत्सर्वं न किंचित्प्रतिभाति मे ।
ब्रह्मैव केवलं सर्वं कथं वर्णाश्रमस्थितिः ॥ ४५॥
जानामि सर्वथा सर्वमहमेको निरन्तरम् ।
निरालम्बमशून्यं च शून्यं व्योमादिपञ्चकम् ॥ ४६॥
न षण्ढो न पुमान्न स्त्री न बोधो नैव कल्पना ।
सानन्दो वा निरानन्दमात्मानं मन्यसे कथम् ॥ ४७॥
षडङ्गयोगान्न तु नैव शुद्धं
मनोविनाशान्न तु नैव शुद्धम् ।
गुरूपदेशान्न तु नैव शुद्धं
स्वयं च तत्त्वं स्वयमेव बुद्धम् ॥ ४८॥
न हि पञ्चात्मको देहो विदेहो वर्तते न हि ।
आत्मैव केवलं सर्वं तुरीयं च त्रयं कथम् ॥ ४९॥
न बद्धो नैव मुक्तोऽहं न चाहं ब्रह्मणः पृथक् ।
न कर्ता न च भोक्ताहं व्याप्यव्यापकवर्जितः ॥ ५०॥
यथा जलं जले न्यस्तं सलिलं भेदवर्जितम् ।
प्रकृतिं पुरुषं तद्वदभिन्नं प्रतिभाति मे ॥ ५१॥
यदि नाम न मुक्तोऽसि न बद्धोऽसि कदाचन ।
साकारं च निराकारमात्मानं मन्यसे कथम् ॥ ५२॥
जानामि ते परं रूपं प्रत्यक्षं गगनोपमम् ।
यथा परं हि रूपं यन्मरीचिजलसन्निभम् ॥ ५३॥
न गुरुर्नोपदेशश्च न चोपाधिर्न मे क्रिया ।
विदेहं गगनं विद्धि विशुद्धोऽहं स्वभावतः ॥ ५४॥
विशुद्धोऽस्य शरीरोऽसि न ते चित्तं परात्परम् ।
अहं चात्मा परं तत्त्वमिति वक्तुं न लज्जसे ॥ ५५॥
कथं रोदिषि रे चित्त ह्यात्मैवात्मात्मना भव ।
पिब वत्स कलातीतमद्वैतं परमामृतम् ॥ ५६॥
नैव बोधो न चाबोधो न बोधाबोध एव च ।
यस्येदृशः सदा बोधः स बोधो नान्यथा भवेत् ॥ ५७॥
ज्ञानं न तर्को न समाधियोगो
न देशकालौ न गुरूपदेशः ।
स्वभावसंवित्तरहं च तत्त्व-
माकाशकल्पं सहजं ध्रुवं च ॥ ५८॥
न जातोऽहं मृतो वापि न मे कर्म शुभाशुभम् ।
विशुद्धं निर्गुणं ब्रह्म बन्धो मुक्तिः कथं मम ॥ ५९॥
यदि सर्वगतो देवः स्थिरः पूर्णो निरन्तरः ।
अन्तरं हि न पश्यामि स बाह्याभ्यन्तरः कथम् ॥ ६०॥
स्फुरत्येव जगत्कृत्स्नमखण्डितनिरन्तरम् ।
अहो मायामहामोहो द्वैताद्वैतविकल्पना ॥ ६१॥
साकारं च निराकारं नेति नेतीति सर्वदा ।
भेदाभेदविनिर्मुक्तो वर्तते केवलः शिवः ॥ ६२॥
न ते च माता च पिता च बन्धुः
न ते च पत्नी न सुतश्च मित्रम् ।
न पक्षपाती न विपक्षपातः
कथं हि संतप्तिरियं हि चित्ते ॥ ६३॥
दिवा नक्तं न ते चित्तं उदयास्तमयौ न हि ।
विदेहस्य शरीरत्वं कल्पयन्ति कथं बुधाः ॥ ६४॥
नाविभक्तं विभक्तं च न हि दुःखसुखादि च ।
न हि सर्वमसर्वं च विद्धि चात्मानमव्ययम् ॥ ६५॥
नाहं कर्ता न भोक्ता च न मे कर्म पुराऽधुना ।
न मे देहो विदेहो वा निर्ममेति ममेति किम् ॥ ६६॥
न मे रागादिको दोषो दुःखं देहादिकं न मे ।
आत्मानं विद्धि मामेकं विशालं गगनोपमम् ॥ ६७॥
सखे मनः किं बहुजल्पितेन
सखे मनः सर्वमिदं वितर्क्यम् ।
यत्सारभूतं कथितं मया ते
त्वमेव तत्त्वं गगनोपमोऽसि ॥ ६८॥
येन केनापि भावेन यत्र कुत्र मृता अपि ।
योगिनस्तत्र लीयन्ते घटाकाशमिवाम्बरे ॥ ६९॥
तीर्थे चान्त्यजगेहे वा नष्टस्मृतिरपि त्यजन् ।
समकाले तनुं मुक्तः कैवल्यव्यापको भवेत् ॥ ७०॥
धर्मार्थकाममोक्षांश्च द्विपदादिचराचरम् ।
मन्यन्ते योगिनः सर्वं मरीचिजलसन्निभम् ॥ ७१॥
अतीतानागतं कर्म वर्तमानं तथैव च ।
न करोमि न भुञ्जामि इति मे निश्चला मतिः ॥ ७२॥
शून्यागारे समरसपूत-
स्तिष्ठन्नेकः सुखमवधूतः ।
चरति हि नग्नस्त्यक्त्वा गर्वं
विन्दति केवलमात्मनि सर्वम् ॥ ७३॥
त्रितयतुरीयं नहि नहि यत्र
विन्दति केवलमात्मनि तत्र ।
धर्माधर्मौ नहि नहि यत्र
बद्धो मुक्तः कथमिह तत्र ॥ ७४॥
विन्दति विन्दति नहि नहि मन्त्रं
छन्दोलक्षणं नहि नहि तन्त्रम् ।
समरसमग्नो भावितपूतः
प्रलपितमेतत्परमवधूतः ॥ ७५॥
सर्वशून्यमशून्यं च सत्यासत्यं न विद्यते ।
स्वभावभावतः प्रोक्तं शास्त्रसंवित्तिपूर्वकम् ॥ ७६॥
इति प्रथमोऽध्यायः ॥ १॥
अथ द्वितीयोऽध्यायः ॥
बालस्य वा विषयभोगरतस्य वापि
मूर्खस्य सेवकजनस्य गृहस्थितस्य ।
एतद्गुरोः किमपि नैव न चिन्तनीयं
रत्नं कथं त्यजति कोऽप्यशुचौ प्रविष्टम् ॥ १॥
नैवात्र काव्यगुण एव तु चिन्तनीयो
ग्राह्यः परं गुणवता खलु सार एव ।
सिन्दूरचित्ररहिता भुवि रूपशून्या
पारं न किं नयति नौरिह गन्तुकामान् ॥ २॥
प्रयत्नेन विना येन निश्चलेन चलाचलम् ।
ग्रस्तं स्वभावतः शान्तं चैतन्यं गगनोपमम् ॥ ३॥
अयत्नाछालयेद्यस्तु एकमेव चराचरम् ।
सर्वगं तत्कथं भिन्नमद्वैतं वर्तते मम ॥ ४॥
अहमेव परं यस्मात्सारात्सारतरं शिवम् ।
गमागमविनिर्मुक्तं निर्विकल्पं निराकुलम् ॥ ५॥
सर्वावयवनिर्मुक्तं तथाहं त्रिदशार्चितम् ।
सम्पूर्णत्वान्न गृह्णामि विभागं त्रिदशादिकम् ॥ ६॥
प्रमादेन न सन्देहः किं करिष्यामि वृत्तिमान् ।
उत्पद्यन्ते विलीयन्ते बुद्बुदाश्च यथा जले ॥ ७॥
महदादीनि भूतानि समाप्यैवं सदैव हि ।
मृदुद्रव्येषु तीक्ष्णेषु गुडेषु कटुकेषु च ॥ ८॥
कटुत्वं चैव शैत्यत्वं मृदुत्वं च यथा जले ।
प्रकृतिः पुरुषस्तद्वदभिन्नं प्रतिभाति मे ॥ ९॥
सर्वाख्यारहितं यद्यत्सूक्ष्मात्सूक्ष्मतरं परम् ।
मनोबुद्धीन्द्रियातीतमकलङ्कं जगत्पतिम् ॥ १०॥
ईदृशं सहजं यत्र अहं तत्र कथं भवेत् ।
त्वमेव हि कथं तत्र कथं तत्र चराचरम् ॥ ११॥
गगनोपमं तु यत्प्रोक्तं तदेव गगनोपमम् ।
चैतन्यं दोषहीनं च सर्वज्ञं पूर्णमेव च ॥ १२॥
पृथिव्यां चरितं नैव मारुतेन च वाहितम् ।
वरिणा पिहितं नैव तेजोमध्ये व्यवस्थितम् ॥ १३॥
आकाशं तेन संव्याप्तं न तद्व्याप्तं च केनचित् ।
स बाह्याभ्यन्तरं तिष्ठत्यवच्छिन्नं निरन्तरम् ॥ १४॥
सूक्ष्मत्वात्तददृश्यत्वान्निर्गुणत्वाच्च योगिभिः ।
आलम्बनादि यत्प्रोक्तं क्रमादालम्बनं भवेत् ॥ १५॥
सतताऽभ्यासयुक्तस्तु निरालम्बो यदा भवेत् ।
तल्लयाल्लीयते नान्तर्गुणदोषविवर्जितः ॥ १६॥
विषविश्वस्य रौद्रस्य मोहमूर्च्छाप्रदस्य च ।
एकमेव विनाशाय ह्यमोघं सहजामृतम् ॥ १७॥
भावगम्यं निराकारं साकारं दृष्टिगोचरम् ।
भावाभावविनिर्मुक्तमन्तरालं तदुच्यते ॥ १८॥
बाह्यभावं भवेद्विश्वमन्तः प्रकृतिरुच्यते ।
अन्तरादन्तरं ज्ञेयं नारिकेलफलाम्बुवत् ॥ १९॥
भ्रान्तिज्ञानं स्थितं बाह्यं सम्यग्ज्ञानं च मध्यगम् ।
मध्यान्मध्यतरं ज्ञेयं नारिकेलफलाम्बुवत् ॥ २०॥
पौर्णमास्यां यथा चन्द्र एक एवातिनिर्मलः ।
तेन तत्सदृशं पश्येद्द्विधादृष्टिर्विपर्ययः ॥ २१॥
अनेनैव प्रकारेण बुद्धिभेदो न सर्वगः ।
दाता च धीरतामेति गीयते नामकोटिभिः ॥ २२॥
गुरुप्रज्ञाप्रसादेन मूर्खो वा यदि पण्डितः ।
यस्तु सम्बुध्यते तत्त्वं विरक्तो भवसागरात् ॥ २३॥
रागद्वेषविनिर्मुक्तः सर्वभूतहिते रतः ।
दृढबोधश्च धीरश्च स गच्छेत्परमं पदम् ॥ २४॥
घटे भिन्ने घटाकाश आकाशे लीयते यथा ।
देहाभावे तथा योगी स्वरूपे परमात्मनि ॥ २५॥
उक्तेयं कर्मयुक्तानां मतिर्यान्तेऽपि सा गतिः ।
न चोक्ता योगयुक्तानां मतिर्यान्तेऽपि सा गतिः ॥ २६॥
या गतिः कर्मयुक्तानां सा च वागिन्द्रियाद्वदेत् ।
योगिनां या गतिः क्वापि ह्यकथ्या भवतोर्जिता ॥ २७॥
एवं ज्ञात्वा त्वमुं मार्गं योगिनां नैव कल्पितम् ।
विकल्पवर्जनं तेषां स्वयं सिद्धिः प्रवर्तते ॥ २८॥
तीर्थे वान्त्यजगेहे वा यत्र कुत्र मृतोऽपि वा ।
न योगी पश्यते गर्भं परे ब्रह्मणि लीयते ॥ २९॥
सहजमजमचिन्त्यं यस्तु पश्येत्स्वरूपं
घटति यदि यथेष्टं लिप्यते नैव दोषैः ।
सकृदपि तदभावात्कर्म किंचिन्नकुर्यात्
तदपि न च विबद्धः संयमी वा तपस्वी ॥ ३०॥
निरामयं निष्प्रतिमं निराकृतिं
निराश्रयं निर्वपुषं निराशिषम् ।
निर्द्वन्द्वनिर्मोहमलुप्तशक्तिकं
तमीशमात्मानमुपैति शाश्वतम् ॥ ३१॥
वेदो न दीक्षा न च मुण्डनक्रिया
गुरुर्न शिष्यो न च यन्त्रसम्पदः ।
मुद्रादिकं चापि न यत्र भासते
तमीशमात्मानमुपैति शाश्वतम् ॥ ३२॥
न शाम्भवं शाक्तिकमानवं न वा
पिण्डं च रूपं च पदादिकं न वा ।
आरम्भनिष्पत्तिघटादिकं च नो
तमीशमात्मानमुपैति शाश्वतम् ॥ ३३॥
यस्य स्वरूपात्सचराचरं जग-
दुत्पद्यते तिष्ठति लीयतेऽपि वा ।
पयोविकारादिव फेनबुद्बुदा-
स्तमीशमात्मानमुपैति शाश्वतम् ॥ ३४॥
नासानिरोधो न च दृष्टिरासनं
बोधोऽप्यबोधोऽपि न यत्र भासते ।
नाडीप्रचारोऽपि न यत्र किञ्चि-
त्तमीशमात्मानमुपैति शाश्वतम् ॥ ३५॥
नानात्वमेकत्वमुभत्वमन्यता
अणुत्वदीर्घत्वमहत्त्वशून्यता ।
मानत्वमेयत्वसमत्ववर्जितं
तमीशमात्मानमुपैति शाश्वतम् ॥ ३६॥
सुसंयमी वा यदि वा न संयमी
सुसंग्रही वा यदि वा न संग्रही ।
निष्कर्मको वा यदि वा सकर्मक-
स्तमीशमात्मानमुपैति शाश्वतम् ॥ ३७॥
मनो न बुद्धिर्न शरीरमिन्द्रियं
तन्मात्रभूतानि न भूतपञ्चकम् ।
अहंकृतिश्चापि वियत्स्वरूपकं
तमीशमात्मानमुपैति शाश्वतम् ॥ ३८॥
विधौ निरोधे परमात्मतां गते
न योगिनश्चेतसि भेदवर्जिते ।
शौचं न वाशौचमलिङ्गभावना
सर्वं विधेयं यदि वा निषिध्यते ॥ ३९॥
मनो वचो यत्र न शक्तमीरितुं
नूनं कथं तत्र गुरूपदेशता ।
इमां कथामुक्तवतो गुरोस्त-
द्युक्तस्य तत्त्वं हि समं प्रकाशते ॥ ४०॥
इति द्वितीयोऽध्यायः ॥ २॥
अथ तृतीयोऽध्यायः ॥
गुणविगुणविभागो वर्तते नैव किञ्चित्
रतिविरतिविहीनं निर्मलं निष्प्रपञ्चम् ।
गुणविगुणविहीनं व्यापकं विश्वरूपं
कथमहमिह वन्दे व्योमरूपं शिवं वै ॥ १॥
श्वेतादिवर्णरहितो नियतं शिवश्च
कार्यं हि कारणमिदं हि परं शिवश्च ।
एवं विकल्परहितोऽहमलं शिवश्च
स्वात्मानमात्मनि सुमित्र कथं नमामि ॥ २॥
निर्मूलमूलरहितो हि सदोदितोऽहं
निर्धूमधूमरहितो हि सदोदितोऽहम् ।
निर्दीपदीपरहितो हि सदोदितोऽहं
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ३॥
निष्कामकाममिह नाम कथं वदामि
निःसङ्गसङ्गमिह नाम कथं वदामि ।
निःसारसाररहितं च कथं वदामि
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ४॥
अद्वैतरूपमखिलं हि कथं वदामि
द्वैतस्वरूपमखिलं हि कथं वदामि ।
नित्यं त्वनित्यमखिलं हि कथं वदामि
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ५॥
स्थूलं हि नो नहि कृशं न गतागतं हि
आद्यन्तमध्यरहितं न परापरं हि ।
सत्यं वदामि खलु वै परमार्थतत्त्वं
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ६॥
संविद्धि सर्वकरणानि नभोनिभानि
संविद्धि सर्वविषयांश्च नभोनिभांश्च ।
संविद्धि चैकममलं न हि बन्धमुक्तं
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ७॥
दुर्बोधबोधगहनो न भवामि तात
दुर्लक्ष्यलक्ष्यगहनो न भवामि तात ।
आसन्नरूपगहनो न भवामि तात
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ८॥
निष्कर्मकर्मदहनो ज्वलनो भवामि
निर्दुःखदुःखदहनो ज्वलनो भवामि ।
निर्देहदेहदहनो ज्वलनो भवामि
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ९॥
निष्पापपापदहनो हि हुताशनोऽहं
निर्धर्मधर्मदहनो हि हुताशनोऽहम् ।
निर्बन्धबन्धदहनो हि हुताशनोऽहं
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ १०॥
निर्भावभावरहितो न भवामि वत्स
निर्योगयोगरहितो न भवामि वत्स ।
निश्चित्तचित्तरहितो न भवामि वत्स
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ११॥
निर्मोहमोहपदवीति न मे विकल्पो
निःशोकशोकपदवीति न मे विकल्पः ।
निर्लोभलोभपदवीति न मे विकल्पो
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ १२॥
संसारसन्ततिलता न च मे कदाचित्
सन्तोषसन्ततिसुखो न च मे कदाचित् ।
अज्ञानबन्धनमिदं न च मे कदाचित्
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ १३॥
संसारसन्ततिरजो न च मे विकारः
सन्तापसन्ततितमो न च मे विकारः ।
सत्त्वं स्वधर्मजनकं न च मे विकारो
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ १४॥
सन्तापदुःखजनको न विधिः कदाचित्
सन्तापयोगजनितं न मनः कदाचित् ।
यस्मादहङ्कृतिरियं न च मे कदाचित्
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ १५॥
निष्कम्पकम्पनिधनं न विकल्पकल्पं
स्वप्नप्रबोधनिधनं न हिताहितं हि ।
निःसारसारनिधनं न चराचरं हि
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ १६॥
नो वेद्यवेदकमिदं न च हेतुतर्क्यं
वाचामगोचरमिदं न मनो न बुद्धिः ।
एवं कथं हि भवतः कथयामि तत्त्वं
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ १७॥
निर्भिन्नभिन्नरहितं परमार्थतत्त्व-
मन्तर्बहिर्न हि कथं परमार्थतत्त्वम् ।
प्राक्सम्भवं न च रतं नहि वस्तु किञ्चित्
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ १८॥
रागादिदोषरहितं त्वहमेव तत्त्वं
दैवादिदोषरहितं त्वहमेव तत्त्वम् ।
संसारशोकरहितं त्वहमेव तत्त्वं
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ १९॥
स्थानत्रयं यदि च नेति कथं तुरीयं
कालत्रयं यदि च नेति कथं दिशश्च ।
शान्तं पदं हि परमं परमार्थतत्त्वं
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ २०॥
दीर्घो लघुः पुनरितीह नमे विभागो
विस्तारसंकटमितीह न मे विभागः ।
कोणं हि वर्तुलमितीह न मे विभागो
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ २१॥
मातापितादि तनयादि न मे कदाचित्
जातं मृतं न च मनो न च मे कदाचित् ।
निर्व्याकुलं स्थिरमिदं परमार्थतत्त्वं
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ २२॥
शुद्धं विशुद्धमविचारमनन्तरूपं
निर्लेपलेपमविचारमनन्तरूपम् ।
निष्खण्डखण्डमविचारमनन्तरूपं
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ २३॥
ब्रह्मादयः सुरगणाः कथमत्र सन्ति
स्वर्गादयो वसतयः कथमत्र सन्ति ।
यद्येकरूपममलं परमार्थतत्त्वं
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ २४॥
निर्नेति नेति विमलो हि कथं वदामि
निःशेषशेषविमलो हि कथं वदामि ।
निर्लिङ्गलिङ्गविमलो हि कथं वदामि
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ २५॥
निष्कर्मकर्मपरमं सततं करोमि
निःसङ्गसङ्गरहितं परमं विनोदम् ।
निर्देहदेहरहितं सततं विनोदं
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ २६॥
मायाप्रपञ्चरचना न च मे विकारः ।
कौटिल्यदम्भरचना न च मे विकारः ।
सत्यानृतेति रचना न च मे विकारो
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ २७॥
सन्ध्यादिकालरहितं न च मे वियोगो-
ह्यन्तः प्रबोधरहितं बधिरो न मूकः ।
एवं विकल्परहितं न च भावशुद्धं
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ २८॥
निर्नाथनाथरहितं हि निराकुलं वै
निश्चित्तचित्तविगतं हि निराकुलं वै ।
संविद्धि सर्वविगतं हि निराकुलं वै
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ २९॥
कान्तारमन्दिरमिदं हि कथं वदामि
संसिद्धसंशयमिदं हि कथं वदामि ।
एवं निरन्तरसमं हि निराकुलं वै
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ३०॥
निर्जीवजीवरहितं सततं विभाति
निर्बीजबीजरहितं सततं विभाति ।
निर्वाणबन्धरहितं सततं विभाति
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ३१॥
सम्भूतिवर्जितमिदं सततं विभाति
संसारवर्जितमिदं सततं विभाति ।
संहारवर्जितमिदं सततं विभाति
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ३२॥
उल्लेखमात्रमपि ते न च नामरूपं
निर्भिन्नभिन्नमपि ते न हि वस्तु किञ्चित् ।
निर्लज्जमानस करोषि कथं विषादं
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ३३॥
किं नाम रोदिषि सखे न जरा न मृत्युः
किं नाम रोदिषि सखे न च जन्म दुःखम् ।
किं नाम रोदिषि सखे न च ते विकारो
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ३४॥
किं नाम रोदिषि सखे न च ते स्वरूपं
किं नाम रोदिषि सखे न च ते विरूपम् ।
किं नाम रोदिषि सखे न च ते वयांसि
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ३५॥
किं नाम रोदिषि सखे न च ते वयांसि
किं नाम रोदिषि सखे न च ते मनांसि ।
किं नाम रोदिषि सखे न तवेन्द्रियाणि
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ३६॥
किं नाम रोदिषि सखे न च तेऽस्ति कामः
किं नाम रोदिषि सखे न च ते प्रलोभः ।
किं नाम रोदिषि सखे न च ते विमोहो
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ३७॥
ऐश्वर्यमिच्छसि कथं न च ते धनानि
ऐश्वर्यमिच्छसि कथं न च ते हि पत्नी ।
ऐश्वर्यमिच्छसि कथं न च ते ममेति
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ३८॥
लिङ्गप्रपञ्चजनुषी न च ते न मे च
निर्लज्जमानसमिदं च विभाति भिन्नम् ।
निर्भेदभेदरहितं न च ते न मे च
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ३९॥
नो वाणुमात्रमपि ते हि विरागरूपं
नो वाणुमात्रमपि ते हि सरागरूपम् ।
नो वाणुमात्रमपि ते हि सकामरूपं
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ४०॥
ध्याता न ते हि हृदये न च ते समाधि-
र्ध्यानं न ते हि हृदये न बहिः प्रदेशः ।
ध्येयं न चेति हृदये न हि वस्तु कालो
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ४१॥
यत्सारभूतमखिलं कथितं मया ते
न त्वं न मे न महतो न गुरुर्न न शिष्यः ।
स्वच्छन्दरूपसहजं परमार्थतत्त्वं
ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ ४२॥
कथमिह परमार्थं तत्त्वमानन्दरूपं
कथमिह परमार्थं नैवमानन्दरूपम् ।
कथमिह परमार्थं ज्ञानविज्ञानरूपं
यदि परमहमेकं वर्तते व्योमरूपम् ॥ ४३॥
दहनपवनहीनं विद्धि विज्ञानमेक-
मवनिजलविहीनं विद्धि विज्ञानरूपम् ।
समगमनविहीनं विद्धि विज्ञानमेकं
गगनमिव विशालं विद्धि विज्ञानमेकम् ॥ ४४॥
न शून्यरूपं न विशून्यरूपं
न शुद्धरूपं न विशुद्धरूपम् ।
रूपं विरूपं न भवामि किञ्चित्
स्वरूपरूपं परमार्थतत्त्वम् ॥ ४५॥
मुञ्च मुञ्च हि संसारं त्यागं मुञ्च हि सर्वथा ।
त्यागात्यागविषं शुद्धममृतं सहजं ध्रुवम् ॥ ४६॥
इति तृतीयोऽध्यायः ॥ ३॥
अथ चतुर्थोऽध्यायः ॥
नावाहनं नैव विसर्जनं वा
पुष्पाणि पत्राणि कथं भवन्ति ।
ध्यानानि मन्त्राणि कथं भवन्ति
समासमं चैव शिवार्चनं च ॥ १॥
न केवलं बन्धविबन्धमुक्तो
न केवलं शुद्धविशुद्धमुक्तः ।
न केवलं योगवियोगमुक्तः
स वै विमुक्तो गगनोपमोऽहम् ॥ २॥
सञ्जायते सर्वमिदं हि तथ्यं
सञ्जायते सर्वमिदं वितथ्यम् ।
एवं विकल्पो मम नैव जातः
स्वरूपनिर्वाणमनामयोऽहम् ॥ ३॥
न साञ्जनं चैव निरञ्जनं वा
न चान्तरं वापि निरन्तरं वा ।
अन्तर्विभन्नं न हि मे विभाति
स्वरूपनिर्वाणमनामयोऽहम् ॥ ४॥
अबोधबोधो मम नैव जातो
बोधस्वरूपं मम नैव जातम् ।
निर्बोधबोधं च कथं वदामि
स्वरूपनिर्वाणमनामयोऽहम् ॥ ५॥
न धर्मयुक्तो न च पापयुक्तो
न बन्धयुक्तो न च मोक्षयुक्तः ।
युक्तं त्वयुक्तं न च मे विभाति
स्वरूपनिर्वाणमनामयोऽहम् ॥ ६॥
परापरं वा न च मे कदाचित्
मध्यस्थभावो हि न चारिमित्रम् ।
हिताहितं चापि कथं वदामि
स्वरूपनिर्वाणमनामयोऽहम् ॥ ७॥
नोपासको नैवमुपास्यरूपं
न चोपदेशो न च मे क्रिया च ।
संवित्स्वरूपं च कथं वदामि
स्वरूपनिर्वाणमनामयोऽहम् ॥ ८॥
नो व्यापकं व्याप्यमिहास्ति किञ्चित्
न चालयं वापि निरालयं वा ।
अशून्यशून्यं च कथं वदामि
स्वरूपनिर्वाणमनामयोऽहम् ॥ ९॥
न ग्राहको ग्राह्यकमेव किञ्चित्
न कारणं वा मम नैव कार्यम् ।
अचिन्त्यचिन्त्यं च कथं वदामि
स्वरूपनिर्वाणमनामयोऽहम् ॥ १०॥
न भेदकं वापि न चैव भेद्यं
न वेदकं वा मम नैव वेद्यम् ।
गतागतं तात कथं वदामि
स्वरूपनिर्वाणमनामयोऽहम् ॥ ११॥
न चास्ति देहो न च मे विदेहो
बुद्धिर्मनो मे न हि चेन्द्रियाणि ।
रागो विरागश्च कथं वदामि
स्वरूपनिर्वाणमनामयोऽहम् ॥ १२॥
उल्लेखमात्रं न हि भिन्नमुच्चै-
रुल्लेखमात्रं न तिरोहितं वै ।
समासमं मित्र कथं वदामि
स्वरूपनिर्वाणमनामयोऽहम् ॥ १३॥
जितेन्द्रियोऽहं त्वजितेन्द्रियो वा
न संयमो मे नियमो न जातः ।
जयाजयौ मित्र कथं वदामि
स्वरूपनिर्वाणमनामयोऽहम् ॥ १४॥
अमूर्तमूर्तिर्न च मे कदाचि-
दाद्यन्तमध्यं न च मे कदाचित् ।
बलाबलं मित्र कथं वदामि
स्वरूपनिर्वाणमनामयोऽहम् ॥ १५॥
मृतामृतं वापि विषाविषं च
सञ्जायते तात न मे कदाचित् ।
अशुद्धशुद्धं च कथं वदामि
स्वरूपनिर्वाणमनामयोऽहम् ॥ १६॥
स्वप्नः प्रबोधो न च योगमुद्रा
नक्तं दिवा वापि न मे कदाचित् ।
अतुर्यतुर्यं च कथं वदामि
स्वरूपनिर्वाणमनामयोऽहम् ॥ १७॥
संविद्धि मां सर्वविसर्वमुक्तं
माया विमाया न च मे कदाचित् ।
सन्ध्यादिकं कर्म कथं वदामि
स्वरूपनिर्वाणमनामयोऽहम् ॥ १८॥
संविद्धि मां सर्वसमाधियुक्तं
संविद्धि मां लक्ष्यविलक्ष्यमुक्तम् ।
योगं वियोगं च कथं वदामि
स्वरूपनिर्वाणमनामयोऽहम् ॥ १९॥
मूर्खोऽपि नाहं न च पण्डितोऽहं
मौनं विमौनं न च मे कदाचित् ।
तर्कं वितर्कं च कथं वदामि
स्वरूपनिर्वाणमनामयोऽहम् ॥ २०॥
पिता च माता च कुलं न जाति-
र्जन्मादि मृत्युर्न च मे कदाचित् ।
स्नेहं विमोहं च कथं वदामि
स्वरूपनिर्वाणमनामयोऽहम् ॥ २१॥
अस्तं गतो नैव सदोदितोऽहं
तेजोवितेजो न च मे कदाचित् ।
सन्ध्यादिकं कर्म कथं वदामि
स्वरूपनिर्वाणमनामयोऽहम् ॥ २२॥
असंशयं विद्धि निराकुलं मां
असंशयं विद्धि निरन्तरं माम् ।
असंशयं विद्धि निरञ्जनं मां
स्वरूपनिर्वाणमनामयोऽहम् ॥ २३॥
ध्यानानि सर्वाणि परित्यजन्ति
शुभाशुभं कर्म परित्यजन्ति ।
त्यागामृतं तात पिबन्ति धीराः
स्वरूपनिर्वाणमनामयोऽहम् ॥ २४॥
विन्दति विन्दति न हि न हि यत्र
छन्दोलक्षणं न हि न हि तत्र ।
समरसमग्नो भावितपूतः
प्रलपति तत्त्वं परमवधूतः ॥ २५॥
इति चतुर्थोऽध्यायः ॥ ४॥
अथ पञ्चमोध्यायः ॥
ॐ इति गदितं गगनसमं तत्
न परापरसारविचार इति ।
अविलासविलासनिराकरणं
कथमक्षरबिन्दुसमुच्चरणम् ॥ १॥
इति तत्त्वमसिप्रभृतिश्रुतिभिः
प्रतिपादितमात्मनि तत्त्वमसि ।
त्वमुपाधिविवर्जितसर्वसमं
किमु रोदिषि मानसि सर्वसमम् ॥ २॥
अध ऊर्ध्वविवर्जितसर्वसमं
बहिरन्तरवर्जितसर्वसमम् ।
यदि चैकविवर्जितसर्वसमं
किमु रोदिषि मानसि सर्वसमम् ॥ ३॥
न हि कल्पितकल्पविचार इति
न हि कारणकार्यविचार इति ।
पदसन्धिविवर्जितसर्वसमं
किमु रोदिषि मानसि सर्वसमम् ॥ ४॥
न हि बोधविबोधसमाधिरिति
न हि देशविदेशसमाधिरिति ।
न हि कालविकालसमाधिरिति
किमु रोदिषि मानसि सर्वसमम् ॥ ५॥
न हि कुम्भनभो न हि कुम्भ इति
न हि जीववपुर्न हि जीव इति ।
न हि कारणकार्यविभाग इति
किमु रोदिषि मानसि सर्वसमम् ॥ ६॥
इह सर्वनिरन्तरमोक्षपदं
लघुदीर्घविचारविहीन इति ।
न हि वर्तुलकोणविभाग इति
किमु रोदिषि मानसि सर्वसमम् ॥ ७॥
इह शून्यविशून्यविहीन इति
इह शुद्धविशुद्धविहीन इति ।
इह सर्वविसर्वविहीन इति
किमु रोदिषि मानसि सर्वसमम् ॥ ८॥
न हि भिन्नविभिन्नविचार इति
बहिरन्तरसन्धिविचार इति ।
अरिमित्रविवर्जितसर्वसमं
किमु रोदिषि मानसि सर्वसमम् ॥ ९॥
न हि शिष्यविशिष्यस्वरूप इति
न चराचरभेदविचार इति ।
इह सर्वनिरन्तरमोक्षपदं
किमु रोदिषि मानसि सर्वसमम् ॥ १०॥
ननु रूपविरूपविहीन इति
ननु भिन्नविभिन्नविहीन इति ।
ननु सर्गविसर्गविहीन इति
किमु रोदिषि मानसि सर्वसमम् ॥ ११॥
न गुणागुणपाशनिबन्ध इति
मृतजीवनकर्म करोमि कथम् ।
इति शुद्धनिरञ्जनसर्वसमं
किमु रोदिषि मानसि सर्वसमम् ॥ १२॥
इह भावविभावविहीन इति
इह कामविकामविहीन इति ।
इह बोधतमं खलु मोक्षसमं
किमु रोदिषि मानसि सर्वसमम् ॥ १३॥
इह तत्त्वनिरन्तरतत्त्वमिति
न हि सन्धिविसन्धिविहीन इति ।
यदि सर्वविवर्जितसर्वसमं
किमु रोदिषि मानसि सर्वसमम् ॥ १४॥
अनिकेतकुटी परिवारसमं
इहसङ्गविसङ्गविहीनपरम् ।
इह बोधविबोधविहीनपरं
किमु रोदिषि मानसि सर्वसमम् ॥ १५॥
अविकारविकारमसत्यमिति
अविलक्षविलक्षमसत्यमिति ।
यदि केवलमात्मनि सत्यमिति
किमु रोदिषि मानसि सर्वसमम् ॥ १६॥
इह सर्वसमं खलु जीव इति
इह सर्वनिरन्तरजीव इति ।
इह केवलनिश्चलजीव इति
किमु रोदिषि मानसि सर्वसमम् ॥ १७॥
अविवेकविवेकमबोध इति
अविकल्पविकल्पमबोध इति ।
यदि चैकनिरन्तरबोध इति
किमु रोदिषि मानसि सर्वसमम् ॥ १८॥
न हि मोक्षपदं न हि बन्धपदं
न हि पुण्यपदं न हि पापपदम् ।
न हि पूर्णपदं न हि रिक्तपदं
किमु रोदिषि मानसि सर्वसमम् ॥ १९॥
यदि वर्णविवर्णविहीनसमं
यदि कारणकार्यविहीनसमम् ।
यदिभेदविभेदविहीनसमं
किमु रोदिषि मानसि सर्वसमम् ॥ २०॥
इह सर्वनिरन्तरसर्वचिते
इह केवलनिश्चलसर्वचिते ।
द्विपदादिविवर्जितसर्वचिते
किमु रोदिषि मानसि सर्वसमम् ॥ २१॥
अतिसर्वनिरन्तरसर्वगतं
अतिनिर्मलनिश्चलसर्वगतम् ।
दिनरात्रिविवर्जितसर्वगतं
किमु रोदिषि मानसि सर्वसमम् ॥ २२॥
न हि बन्धविबन्धसमागमनं
न हि योगवियोगसमागमनम् ।
न हि तर्कवितर्कसमागमनं
किमु रोदिषि मानसि सर्वसमम् ॥ २३॥
इह कालविकालनिराकरणं
अणुमात्रकृशानुनिराकरणम् ।
न हि केवलसत्यनिराकरणं
किमु रोदिषि मानसि सर्वसमम् ॥ २४॥
इह देहविदेहविहीन इति
ननु स्वप्नसुषुप्तिविहीनपरम् ।
अभिधानविधानविहीनपरं
किमु रोदिषि मानसि सर्वसमम् ॥ २५॥
गगनोपमशुद्धविशालसमं
अतिसर्वविवर्जितसर्वसमम् ।
गतसारविसारविकारसमं
किमु रोदिषि मानसि सर्वसमम् ॥ २६॥
इह धर्मविधर्मविरागतर-
मिह वस्तुविवस्तुविरागतरम् ।
इह कामविकामविरागतरं
किमु रोदिषि मानसि सर्वसमम् ॥ २७॥
सुखदुःखविवर्जितसर्वसम-
मिह शोकविशोकविहीनपरम् ।
गुरुशिष्यविवर्जिततत्त्वपरं
किमु रोदिषि मानसि सर्वसमम् ॥ २८॥
न किलाङ्कुरसारविसार इति
न चलाचलसाम्यविसाम्यमिति ।
अविचारविचारविहीनमिति
किमु रोदिषि मानसि सर्वसमम् ॥ २९॥
इह सारसमुच्चयसारमिति ।
कथितं निजभावविभेद इति ।
विषये करणत्वमसत्यमिति
किमु रोदिषि मानसि सर्वसमम् ॥ ३०॥
बहुधा श्रुतयः प्रवदन्ति यतो
वियदादिरिदं मृगतोयसमम् ।
यदि चैकनिरन्तरसर्वसमं
किमु रोदिषि मानसि सर्वसमम् ॥ ३१॥
विन्दति विन्दति न हि न हि यत्र
छन्दोलक्षणं न हि न हि तत्र ।
समरसमग्नो भावितपूतः
प्रलपति तत्त्वं परमवधूतः ॥ ३२॥
इति पञ्चमोऽध्यायः ॥ ५॥
अथ षष्ठमोऽध्यायः ॥
बहुधा श्रुतयः प्रवदन्ति वयं
वियदादिरिदं मृगतोयसमम् ।
यदि चैकनिरन्तरसर्वशिव-
मुपमेयमथोह्युपमा च कथम् ॥ १॥
अविभक्तिविभक्तिविहीनपरं
ननु कार्यविकार्यविहीनपरम् ।
यदि चैकनिरन्तरसर्वशिवं
यजनं च कथं तपनं च कथम् ॥ २॥
मन एव निरन्तरसर्वगतं
ह्यविशालविशालविहीनपरम् ।
मन एव निरन्तरसर्वशिवं
मनसापि कथं वचसा च कथम् ॥ ३॥
दिनरात्रिविभेदनिराकरण-
मुदितानुदितस्य निराकरणम् ।
यदि चैकनिरन्तरसर्वशिवं
रविचन्द्रमसौ ज्वलनश्च कथम् ॥ ४॥
गतकामविकामविभेद इति
गतचेष्टविचेष्टविभेद इति ।
यदि चैकनिरन्तरसर्वशिवं
बहिरन्तरभिन्नमतिश्च कथम् ॥ ५॥
यदि सारविसारविहीन इति
यदि शून्यविशून्यविहीन इति ।
यदि चैकनिरन्तरसर्वशिवं
प्रथमं च कथं चरमं च कथम् ॥ ६॥
यदिभेदविभेदनिराकरणं
यदि वेदकवेद्यनिराकरणम् ।
यदि चैकनिरन्तरसर्वशिवं
तृतीयं च कथं तुरीयं च कथम् ॥ ७॥
गदिताविदितं न हि सत्यमिति
विदिताविदितं नहि सत्यमिति ।
यदि चैकनिरन्तरसर्वशिवं
विषयेन्द्रियबुद्धिमनांसि कथम् ॥ ८॥
गगनं पवनो न हि सत्यमिति
धरणी दहनो न हि सत्यमिति ।
यदि चैकनिरन्तरसर्वशिवं
जलदश्च कथं सलिलं च कथम् ॥ ९॥
यदि कल्पितलोकनिराकरणं
यदि कल्पितदेवनिराकरणम् ।
यदि चैकनिरन्तरसर्वशिवं
गुणदोषविचारमतिश्च कथम् ॥ १०॥
मरणामरणं हि निराकरणं
करणाकरणं हि निराकरणम् ।
यदि चैकनिरन्तरसर्वशिवं
गमनागमनं हि कथं वदति ॥ ११॥
प्रकृतिः पुरुषो न हि भेद इति
न हि कारणकार्यविभेद इति ।
यदि चैकनिरन्तरसर्वशिवं
पुरुषापुरुषं च कथं वदति ॥ १२॥
तृतीयं न हि दुःखसमागमनं
न गुणाद्द्वितीयस्य समागमनम् ।
यदि चैकनिरन्तरसर्वशिवं
स्थविरश्च युवा च शिशुश्च कथम् ॥ १३॥
ननु आश्रमवर्णविहीनपरं
ननु कारणकर्तृविहीनपरम् ।
यदि चैकनिरन्तरसर्वशिव-
मविनष्टविनष्टमतिश्च कथम् ॥ १४॥
ग्रसिताग्रसितं च वितथ्यमिति
जनिताजनितं च वितथ्यमिति ।
यदि चैकनिरन्तरसर्वशिव-
मविनाशि विनाशि कथं हि भवेत् ॥ १५॥
पुरुषापुरुषस्य विनष्टमिति
वनितावनितस्य विनष्टमिति ।
यदि चैकनिरन्तरसर्वशिव-
मविनोदविनोदमतिश्च कथम् ॥ १६॥
यदि मोहविषादविहीनपरो
यदि संशयशोकविहीनपरः ।
यदि चैकनिरन्तरसर्वशिव-
महमत्र ममेति कथं च पुनः ॥ १७॥ महमेति
ननु धर्मविधर्मविनाश इति
ननु बन्धविबन्धविनाश इति ।
यदि चैकनिरन्तरसर्वशिवं-
मिहदुःखविदुःखमतिश्च कथम् ॥ १८॥
न हि याज्ञिकयज्ञविभाग इति
न हुताशनवस्तुविभाग इति ।
यदि चैकनिरन्तरसर्वशिवं
वद कर्मफलानि भवन्ति कथम् ॥ १९॥
ननु शोकविशोकविमुक्त इति
ननु दर्पविदर्पविमुक्त इति ।
यदि चैकनिरन्तरसर्वशिवं
ननु रागविरागमतिश्च कथम् ॥ २०॥
न हि मोहविमोहविकार इति
न हि लोभविलोभविकार इति ।
यदि चैकनिरन्तरसर्वशिवं
ह्यविवेकविवेकमतिश्च कथम् ॥ २१॥
त्वमहं न हि हन्त कदाचिदपि
कुलजातिविचारमसत्यमिति ।
अहमेव शिवः परमार्थ इति
अभिवादनमत्र करोमि कथम् ॥ २२॥
गुरुशिष्यविचारविशीर्ण इति
उपदेशविचारविशीर्ण इति ।
अहमेव शिवः परमार्थ इति
अभिवादनमत्र करोमि कथम् ॥ २३॥
न हि कल्पितदेहविभाग इति
न हि कल्पितलोकविभाग इति ।
अहमेव शिवः परमार्थ इति
अभिवादनमत्र करोमि कथम् ॥ २४॥
सरजो विरजो न कदाचिदपि
ननु निर्मलनिश्चलशुद्ध इति ।
अहमेव शिवः परमार्थ इति
अभिवादनमत्र करोमि कथम् ॥ २५॥
न हि देहविदेहविकल्प इति
अनृतं चरितं न हि सत्यमिति ।
अहमेव शिवः परमार्थ इति
अभिवादनमत्र करोमि कथम् ॥ २६॥
विन्दति विन्दति न हि न हि यत्र
छन्दोलक्षणं न हि न हि तत्र ।
समरसमग्नो भावितपूतः
प्रलपति तत्त्वं परमवधूतः ॥ २७॥
इति षष्ठमोऽध्यायः ॥ ६॥
अथ सप्तमोऽध्यायः ॥
रथ्याकर्पटविरचितकन्थः
पुण्यापुण्यविवर्जितपन्थः ।
शून्यागारे तिष्ठति नग्नो
शुद्धनिरञ्जनसमरसमग्नः ॥ १॥
लक्ष्यालक्ष्यविवर्जितलक्ष्यो
युक्तायुक्तविवर्जितदक्षः ।
केवलतत्त्वनिरञ्जनपूतो
वादविवादः कथमवधूतः ॥ २॥
आशापाशविबन्धनमुक्ताः
शौचाचारविवर्जितयुक्ताः ।
एवं सर्वविवर्जितशान्ता-
स्तत्त्वं शुद्धनिरञ्जनवन्तः ॥ ३॥
कथमिह देहविदेहविचारः
कथमिह रागविरागविचारः ।
निर्मलनिश्चलगगनाकारं
स्वयमिह तत्त्वं सहजाकारम् ॥ ४॥
कथमिह तत्त्वं विन्दति यत्र
रूपमरूपं कथमिह तत्र ।
गगनाकारः परमो यत्र
विषयीकरणं कथमिह तत्र ॥ ५॥
गगनाकारनिरन्तरहंस-
स्तत्त्वविशुद्धनिरञ्जनहंसः ।
एवं कथमिह भिन्नविभिन्नं
बन्धविबन्धविकारविभिन्नम् ॥ ६॥
केवलतत्त्वनिरन्तरसर्वं
योगवियोगौ कथमिह गर्वम् ।
एवं परमनिरन्तरसर्व-
मेवं कथमिह सारविसारम् ॥ ७॥
केवलतत्त्वनिरञ्जनसर्वं
गगनाकारनिरन्तरशुद्धम् ।
एवं कथमिह सङ्गविसङ्गं
सत्यं कथमिह रङ्गविरङ्गम् ॥ ८॥
योगवियोगै रहितो योगी
भोगविभोगै रहितो भोगी ।
एवं चरति हि मन्दं मन्दं
मनसा कल्पितसहजानन्दम् ॥ ९॥
बोधविबोधैः सततं युक्तो
द्वैताद्वैतैः कथमिह मुक्तः ।
सहजो विरजः कथमिह योगी
शुद्धनिरञ्जनसमरसभोगी ॥ १०॥
भग्नाभग्नविवर्जितभग्नो
लग्नालग्नविवर्जितलग्नः ।
एवं कथमिह सारविसारः
समरसतत्त्वं गगनाकारः ॥ ११॥
सततं सर्वविवर्जितयुक्तः
सर्वं तत्त्वविवर्जितमुक्तः ।
एवं कथमिह जीवितमरणं
ध्यानाध्यानैः कथमिह करणम् ॥ १२॥
इन्द्रजालमिदं सर्वं यथा मरुमरीचिका ।
अखण्डितमनाकारो वर्तते केवलः शिवः ॥ १३॥
धर्मादौ मोक्षपर्यन्तं निरीहाः सर्वथा वयम् ।
कथं रागविरागैश्च कल्पयन्ति विपश्चितः ॥ १४॥
विन्दति विन्दति न हि न हि यत्र
छन्दोलक्षणं न हि न हि तत्र ।
समरसमग्नो भावितपूतः
प्रलपति तत्त्वं परमवधूतः ॥ १५॥
इति सप्तमोऽध्यायः ॥ ७॥
अथ अष्टमोऽध्यायः ॥
त्वद्यात्रया व्यापकता हता ते
ध्यानेन चेतःपरता हता ते ।
स्तुत्या मया वाक्परता हता ते
क्षमस्व नित्यं त्रिविधापराधान् ॥ १॥
कामैरहतधीर्दान्तो मृदुः शुचिरकिञ्चनः ।
अनीहो मितभुक् शान्तः स्थिरो मच्छरणो मुनिः ॥ २॥
अप्रमत्तो गभीरात्मा धृतिमान् जितषड्गुणः ।
अमानी मानदः कल्पो मैत्रः कारुणिकः कविः ॥ ३॥
कृपालुरकृतद्रोहस्तितिक्षुः सर्वदेहिनाम् ।
सत्यसारोऽनवद्यात्मा समः सर्वोपकारकः ॥ ४॥
अवधूतलक्षणं वर्णैर्ज्ञातव्यं भगवत्तमैः ।
वेदवर्णार्थतत्त्वज्ञैर्वेदवेदान्तवादिभिः ॥ ५॥
आशापाशविनिर्मुक्त आदिमध्यान्तनिर्मलः ।
आनन्दे वर्तते नित्यमकारं तस्य लक्षणम् ॥ ६॥
वासना वर्जिता येन वक्तव्यं च निरामयम् ।
वर्तमानेषु वर्तेत वकारं तस्य लक्षणम् ॥ ७॥
धूलिधूसरगात्राणि धूतचित्तो निरामयः ।
धारणाध्याननिर्मुक्तो धूकारस्तस्य लक्षणम् ॥ ८॥
तत्त्वचिन्ता धृता येन चिन्ताचेष्टाविवर्जितः ।
तमोऽहंकारनिर्मुक्तस्तकारस्तस्य लक्षणम् ॥ ९॥
दत्तात्रेयावधूतेन निर्मितानन्दरूपिणा ।
ये पठन्ति च शृण्वन्ति तेषां नैव पुनर्भवः ॥ १०॥
इति अष्टमोऽध्यायः ॥ ८॥
इति अवधूतगीता समाप्ता ॥
अष्टावक्रगीता
॥ श्री ॥
अथ श्रीमदष्टावक्रगीता प्रारभ्यते ॥
१
जनक उवाच ॥
कथं ज्ञानमवाप्नोति कथं मुक्तिर्भविष्यति ।
वैराग्यं च कथं प्राप्तमेतद् ब्रूहि मम प्रभो ॥ १-१॥
अष्टावक्र उवाच ॥
मुक्तिमिच्छसि चेत्तात विषयान् विषवत्त्यज ।
क्षमार्जवदयातोषसत्यं पीयूषवद् भज ॥ १-२॥
न पृथ्वी न जलं नाग्निर्न वायुर्द्यौर्न वा भवान् ।
एषां साक्षिणमात्मानं चिद्रूपं विद्धि मुक्तये ॥ १-३॥
यदि देहं पृथक् कृत्य चिति विश्राम्य तिष्ठसि ।
अधुनैव सुखी शान्तो बन्धमुक्तो भविष्यसि ॥ १-४॥
न त्वं विप्रादिको वर्णो नाश्रमी नाक्षगोचरः ।
असङ्गोऽसि निराकारो विश्वसाक्षी सुखी भव ॥ १-५॥
धर्माधर्मौ सुखं दुःखं मानसानि न ते विभो ।
न कर्तासि न भोक्तासि मुक्त एवासि सर्वदा ॥ १-६॥
एको द्रष्टासि सर्वस्य मुक्तप्रायोऽसि सर्वदा ।
अयमेव हि ते बन्धो द्रष्टारं पश्यसीतरम् ॥ १-७॥
अहं कर्तेत्यहंमानमहाकृष्णाहिदंशितः ।
नाहं कर्तेति विश्वासामृतं पीत्वा सुखी भव ॥ १-८॥
एको विशुद्धबोधोऽहमिति निश्चयवह्निना ।
प्रज्वाल्याज्ञानगहनं वीतशोकः सुखी भव ॥ १-९॥
यत्र विश्वमिदं भाति कल्पितं रज्जुसर्पवत् ।
आनन्दपरमानन्दः स बोधस्त्वं सुखं भव ॥ १-१०॥
मुक्ताभिमानी मुक्तो हि बद्धो बद्धाभिमान्यपि ।
किंवदन्तीह सत्येयं या मतिः सा गतिर्भवेत् ॥ १-११॥
आत्मा साक्षी विभुः पूर्ण एको मुक्तश्चिदक्रियः ।
असङ्गो निःस्पृहः शान्तो भ्रमात्संसारवानिव ॥ १-१२॥
कूटस्थं बोधमद्वैतमात्मानं परिभावय ।
आभासोऽहं भ्रमं मुक्त्वा भावं बाह्यमथान्तरम् ॥ १-१३॥
देहाभिमानपाशेन चिरं बद्धोऽसि पुत्रक ।
बोधोऽहं ज्ञानखड्गेन तन्निकृत्य सुखी भव ॥ १-१४॥
निःसङ्गो निष्क्रियोऽसि त्वं स्वप्रकाशो निरञ्जनः ।
अयमेव हि ते बन्धः समाधिमनुतिष्ठति ॥ १-१५॥
त्वया व्याप्तमिदं विश्वं त्वयि प्रोतं यथार्थतः ।
शुद्धबुद्धस्वरूपस्त्वं मा गमः क्षुद्रचित्तताम् ॥ १-१६॥
निरपेक्षो निर्विकारो निर्भरः शीतलाशयः ।
अगाधबुद्धिरक्षुब्धो भव चिन्मात्रवासनः ॥ १-१७॥
साकारमनृतं विद्धि निराकारं तु निश्चलम् ।
एतत्तत्त्वोपदेशेन न पुनर्भवसम्भवः ॥ १-१८॥
यथैवादर्शमध्यस्थे रूपेऽन्तः परितस्तु सः ।
तथैवाऽस्मिन् शरीरेऽन्तः परितः परमेश्वरः ॥ १-१९॥
एकं सर्वगतं व्योम बहिरन्तर्यथा घटे ।
नित्यं निरन्तरं ब्रह्म सर्वभूतगणे तथा ॥ १-२०॥
२
जनक उवाच ॥
अहो निरञ्जनः शान्तो बोधोऽहं प्रकृतेः परः ।
एतावन्तमहं कालं मोहेनैव विडम्बितः ॥ २-१॥
यथा प्रकाशयाम्येको देहमेनं तथा जगत् ।
अतो मम जगत्सर्वमथवा न च किञ्चन ॥ २-२॥
स शरीरमहो विश्वं परित्यज्य मयाधुना ।
कुतश्चित् कौशलाद् एव परमात्मा विलोक्यते ॥ २-३॥
यथा न तोयतो भिन्नास्तरङ्गाः फेनबुद्बुदाः ।
आत्मनो न तथा भिन्नं विश्वमात्मविनिर्गतम् ॥ २-४॥
तन्तुमात्रो भवेद् एव पटो यद्वद् विचारितः ।
आत्मतन्मात्रमेवेदं तद्वद् विश्वं विचारितम् ॥ २-५॥
यथैवेक्षुरसे क्लृप्ता तेन व्याप्तैव शर्करा ।
तथा विश्वं मयि क्लृप्तं मया व्याप्तं निरन्तरम् ॥ २-६॥
आत्मज्ञानाज्जगद् भाति आत्मज्ञानान्न भासते ।
रज्ज्वज्ञानादहिर्भाति तज्ज्ञानाद् भासते न हि ॥ २-७॥
प्रकाशो मे निजं रूपं नातिरिक्तोऽस्म्यहं ततः ।
यदा प्रकाशते विश्वं तदाहं भास एव हि ॥ २-८॥
अहो विकल्पितं विश्वमज्ञानान्मयि भासते ।
रूप्यं शुक्तौ फणी रज्जौ वारि सूर्यकरे यथा ॥ २-९॥
मत्तो विनिर्गतं विश्वं मय्येव लयमेष्यति ।
मृदि कुम्भो जले वीचिः कनके कटकं यथा ॥ २-१०॥
अहो अहं नमो मह्यं विनाशो यस्य नास्ति मे ।
ब्रह्मादिस्तम्बपर्यन्तं जगन्नाशोऽपि तिष्ठतः ॥ २-११॥
अहो अहं नमो मह्यमेकोऽहं देहवानपि ।
क्वचिन्न गन्ता नागन्ता व्याप्य विश्वमवस्थितः ॥ २-१२॥
अहो अहं नमो मह्यं दक्षो नास्तीह मत्समः ।
असंस्पृश्य शरीरेण येन विश्वं चिरं धृतम् ॥ २-१३॥
अहो अहं नमो मह्यं यस्य मे नास्ति किञ्चन ।
अथवा यस्य मे सर्वं यद् वाङ्मनसगोचरम् ॥ २-१४॥
ज्ञानं ज्ञेयं तथा ज्ञाता त्रितयं नास्ति वास्तवम् ।
अज्ञानाद् भाति यत्रेदं सोऽहमस्मि निरञ्जनः ॥ २-१५॥
द्वैतमूलमहो दुःखं नान्यत्तस्याऽस्ति भेषजम् ।
दृश्यमेतन् मृषा सर्वमेकोऽहं चिद्रसोमलः ॥ २-१६॥
बोधमात्रोऽहमज्ञानाद् उपाधिः कल्पितो मया ।
एवं विमृशतो नित्यं निर्विकल्पे स्थितिर्मम ॥ २-१७॥
न मे बन्धोऽस्ति मोक्षो वा भ्रान्तिः शान्तो निराश्रया ।
अहो मयि स्थितं विश्वं वस्तुतो न मयि स्थितम् ॥ २-१८॥
सशरीरमिदं विश्वं न किञ्चिदिति निश्चितम् ।
शुद्धचिन्मात्र आत्मा च तत्कस्मिन् कल्पनाधुना ॥ २-१९॥
शरीरं स्वर्गनरकौ बन्धमोक्षौ भयं तथा ।
कल्पनामात्रमेवैतत् किं मे कार्यं चिदात्मनः ॥ २-२०॥
अहो जनसमूहेऽपि न द्वैतं पश्यतो मम ।
अरण्यमिव संवृत्तं क्व रतिं करवाण्यहम् ॥ २-२१॥
नाहं देहो न मे देहो जीवो नाहमहं हि चित् ।
अयमेव हि मे बन्ध आसीद्या जीविते स्पृहा ॥ २-२२॥
अहो भुवनकल्लोलैर्विचित्रैर्द्राक् समुत्थितम् ।
मय्यनन्तमहाम्भोधौ चित्तवाते समुद्यते ॥ २-२३॥
मय्यनन्तमहाम्भोधौ चित्तवाते प्रशाम्यति ।
अभाग्याज्जीववणिजो जगत्पोतो विनश्वरः ॥ २-२४॥
मय्यनन्तमहाम्भोधावाश्चर्यं जीववीचयः ।
उद्यन्ति घ्नन्ति खेलन्ति प्रविशन्ति स्वभावतः ॥ २-२५॥
३
अष्टावक्र उवाच ॥
अविनाशिनमात्मानमेकं विज्ञाय तत्त्वतः ।
तवात्मज्ञानस्य धीरस्य कथमर्थार्जने रतिः ॥ ३-१॥
आत्माज्ञानादहो प्रीतिर्विषयभ्रमगोचरे ।
शुक्तेरज्ञानतो लोभो यथा रजतविभ्रमे ॥ ३-२॥
विश्वं स्फुरति यत्रेदं तरङ्गा इव सागरे ।
सोऽहमस्मीति विज्ञाय किं दीन इव धावसि ॥ ३-३॥
श्रुत्वापि शुद्धचैतन्य आत्मानमतिसुन्दरम् ।
उपस्थेऽत्यन्तसंसक्तो मालिन्यमधिगच्छति ॥ ३-४॥
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।
मुनेर्जानत आश्चर्यं ममत्वमनुवर्तते ॥ ३-५॥
आस्थितः परमाद्वैतं मोक्षार्थेऽपि व्यवस्थितः ।
आश्चर्यं कामवशगो विकलः केलिशिक्षया ॥ ३-६॥
उद्भूतं ज्ञानदुर्मित्रमवधार्यातिदुर्बलः ।
आश्चर्यं काममाकाङ्क्षेत् कालमन्तमनुश्रितः ॥ ३-७॥
इहामुत्र विरक्तस्य नित्यानित्यविवेकिनः ।
आश्चर्यं मोक्षकामस्य मोक्षाद् एव विभीषिका ॥ ३-८॥
धीरस्तु भोज्यमानोऽपि पीड्यमानोऽपि सर्वदा ।
आत्मानं केवलं पश्यन् न तुष्यति न कुप्यति ॥ ३-९॥
चेष्टमानं शरीरं स्वं पश्यत्यन्यशरीरवत् ।
संस्तवे चापि निन्दायां कथं क्षुभ्येत् महाशयः ॥ ३-१०॥
मायामात्रमिदं विश्वं पश्यन् विगतकौतुकः ।
अपि सन्निहिते मृत्यौ कथं त्रस्यति धीरधीः ॥ ३-११॥
निःस्पृहं मानसं यस्य नैराश्येऽपि महात्मनः ।
तस्यात्मज्ञानतृप्तस्य तुलना केन जायते ॥ ३-१२॥
स्वभावाद् एव जानानो दृश्यमेतन्न किञ्चन ।
इदं ग्राह्यमिदं त्याज्यं स किं पश्यति धीरधीः ॥ ३-१३॥
अन्तस्त्यक्तकषायस्य निर्द्वन्द्वस्य निराशिषः ।
यदृच्छयागतो भोगो न दुःखाय न तुष्टये ॥ ३-१४॥
४
जनक उवाच ॥
हन्तात्मज्ञानस्य धीरस्य खेलतो भोगलीलया ।
न हि संसारवाहीकैर्मूढैः सह समानता ॥ ४-१॥
यत् पदं प्रेप्सवो दीनाः शक्राद्याः सर्वदेवताः ।
अहो तत्र स्थितो योगी न हर्षमुपगच्छति ॥ ४-२॥
तज्ज्ञस्य पुण्यपापाभ्यां स्पर्शो ह्यन्तर्न जायते ।
न ह्याकाशस्य धूमेन दृश्यमानापि सङ्गतिः ॥ ४-३॥
आत्मैवेदं जगत्सर्वं ज्ञातं येन महात्मना ।
यदृच्छया वर्तमानं तं निषेद्धुं क्षमेत कः ॥ ४-४॥
आब्रह्मस्तम्बपर्यन्ते भूतग्रामे चतुर्विधे ।
विज्ञस्यैव हि सामर्थ्यमिच्छानिच्छाविवर्जने ॥ ४-५॥
आत्मानमद्वयं कश्चिज्जानाति जगदीश्वरम् ।
यद् वेत्ति तत्स कुरुते न भयं तस्य कुत्रचित् ॥ ४-६॥
५
अष्टावक्र उवाच ॥
न ते सङ्गोऽस्ति केनापि किं शुद्धस्त्यक्तुमिच्छसि ।
सङ्घातविलयं कुर्वन्नेवमेव लयं व्रज ॥ ५-१॥
उदेति भवतो विश्वं वारिधेरिव बुद्बुदः ।
इति ज्ञात्वैकमात्मानमेवमेव लयं व्रज ॥ ५-२॥
प्रत्यक्षमप्यवस्तुत्वाद् विश्वं नास्त्यमले त्वयि ।
रज्जुसर्प इव व्यक्तमेवमेव लयं व्रज ॥ ५-३॥
समदुःखसुखः पूर्ण आशानैराश्ययोः समः ।
समजीवितमृत्युः सन्नेवमेव लयं व्रज ॥ ५-४॥
६
जनक उवाच ॥
आकाशवदनन्तोऽहं घटवत् प्राकृतं जगत् ।
इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः ॥ ६-१॥
महोदधिरिवाहं स प्रपञ्चो वीचिसऽन्निभः ।
इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः ॥ ६-२॥
अहं स शुक्तिसङ्काशो रूप्यवद् विश्वकल्पना ।
इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः ॥ ६-३॥
अहं वा सर्वभूतेषु सर्वभूतान्यथो मयि ।
इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः ॥ ६-४॥
७
जनक उवाच ॥
मय्यनन्तमहाम्भोधौ विश्वपोत इतस्ततः ।
भ्रमति स्वान्तवातेन न ममास्त्यसहिष्णुता ॥ ७-१॥
मय्यनन्तमहाम्भोधौ जगद्वीचिः स्वभावतः ।
उदेतु वास्तमायातु न मे वृद्धिर्न च क्षतिः ॥ ७-२॥
मय्यनन्तमहाम्भोधौ विश्वं नाम विकल्पना ।
अतिशान्तो निराकार एतदेवाहमास्थितः ॥ ७-३॥
नात्मा भावेषु नो भावस्तत्रानन्ते निरञ्जने ।
इत्यसक्तोऽस्पृहः शान्त एतदेवाहमास्तितः ॥ ७-४॥
अहो चिन्मात्रमेवाहमिन्द्रजालोपमं जगत् ।
इति मम कथं कुत्र हेयोपादेयकल्पना ॥ ७-५॥
८
अष्टावक्र उवाच ॥
तदा बन्धो यदा चित्तं किञ्चिद् वाञ्छति शोचति ।
किञ्चिन् मुञ्चति गृण्हाति किञ्चिद् दृष्यति कुप्यति ॥ ८-१॥
तदा मुक्तिर्यदा चित्तं न वाञ्छति न शोचति ।
न मुञ्चति न गृण्हाति न हृष्यति न कुप्यति ॥ ८-२॥
तदा बन्धो यदा चित्तं सक्तं काश्वपि दृष्टिषु ।
तदा मोक्षो यदा चित्तमसक्तं सर्वदृष्टिषु ॥ ८-३॥
यदा नाहं तदा मोक्षो यदाहं बन्धनं तदा ।
मत्वेति हेलया किञ्चिन्मा गृहाण विमुञ्च मा ॥ ८-४॥
९
अष्टावक्र उवाच ॥
कृताकृते च द्वन्द्वानि कदा शान्तानि कस्य वा ।
एवं ज्ञात्वेह निर्वेदाद् भव त्यागपरोऽव्रती ॥ ९-१॥
कस्यापि तात धन्यस्य लोकचेष्टावलोकनात् ।
जीवितेच्छा बुभुक्षा च बुभुत्सोपशमः गताः ॥ ९-२॥
अनित्यं सर्वमेवेदं तापत्रितयदूषितम् ।
असारं निन्दितं हेयमिति निश्चित्य शाम्यति ॥ ९-३॥
कोऽसौ कालो वयः किं वा यत्र द्वन्द्वानि नो नृणाम् ।
तान्युपेक्ष्य यथाप्राप्तवर्ती सिद्धिमवाप्नुयात् ॥ ९-४॥
नाना मतं महर्षीणां साधूनां योगिनां तथा ।
दृष्ट्वा निर्वेदमापन्नः को न शाम्यति मानवः ॥ ९-५॥
कृत्वा मूर्तिपरिज्ञानं चैतन्यस्य न किं गुरुः ।
निर्वेदसमतायुक्त्या यस्तारयति संसृतेः ॥ ९-६॥
पश्य भूतविकारांस्त्वं भूतमात्रान् यथार्थतः ।
तत्क्षणाद् बन्धनिर्मुक्तः स्वरूपस्थो भविष्यसि ॥ ९-७॥
वासना एव संसार इति सर्वा विमुञ्च ताः ।
तत्त्यागो वासनात्यागात्स्थितिरद्य यथा तथा ॥ ९-८॥
१०
अष्टावक्र उवाच ॥
विहाय वैरिणं काममर्थं चानर्थसङ्कुलम् ।
धर्ममप्येतयोर्हेतुं सर्वत्रानादरं कुरु ॥ १०-१॥
स्वप्नेन्द्रजालवत् पश्य दिनानि त्रीणि पञ्च वा ।
मित्रक्षेत्रधनागारदारदायादिसम्पदः ॥ १०-२॥
यत्र यत्र भवेत्तृष्णा संसारं विद्धि तत्र वै ।
प्रौढवैराग्यमाश्रित्य वीततृष्णः सुखी भव ॥ १०-३॥
तृष्णामात्रात्मको बन्धस्तन्नाशो मोक्ष उच्यते ।
भवासंसक्तिमात्रेण प्राप्तितुष्टिर्मुहुर्मुहुः ॥ १०-४॥
त्वमेकश्चेतनः शुद्धो जडं विश्वमसत्तथा ।
अविद्यापि न किञ्चित्सा का बुभुत्सा तथापि ते ॥ १०-५॥
राज्यं सुताः कलत्राणि शरीराणि सुखानि च ।
संसक्तस्यापि नष्टानि तव जन्मनि जन्मनि ॥ १०-६॥
अलमर्थेन कामेन सुकृतेनापि कर्मणा ।
एभ्यः संसारकान्तारे न विश्रान्तमभून् मनः ॥ १०-७॥
कृतं न कति जन्मानि कायेन मनसा गिरा ।
दुःखमायासदं कर्म तदद्याप्युपरम्यताम् ॥ १०-८॥
११
अष्टावक्र उवाच ॥
भावाभावविकारश्च स्वभावादिति निश्चयी ।
निर्विकारो गतक्लेशः सुखेनैवोपशाम्यति ॥ ११-१॥
ईश्वरः सर्वनिर्माता नेहान्य इति निश्चयी ।
अन्तर्गलितसर्वाशः शान्तः क्वापि न सज्जते ॥ ११-२॥
आपदः सम्पदः काले दैवादेवेति निश्चयी ।
तृप्तः स्वस्थेन्द्रियो नित्यं न वान्छति न शोचति ॥ ११-३॥
सुखदुःखे जन्ममृत्यू दैवादेवेति निश्चयी ।
साध्यादर्शी निरायासः कुर्वन्नपि न लिप्यते ॥ ११-४॥
चिन्तया जायते दुःखं नान्यथेहेति निश्चयी ।
तया हीनः सुखी शान्तः सर्वत्र गलितस्पृहः ॥ ११-५॥
नाहं देहो न मे देहो बोधोऽहमिति निश्चयी ।
कैवल्यमिव सम्प्राप्तो न स्मरत्यकृतं कृतम् ॥ ११-६॥
आब्रह्मस्तम्बपर्यन्तमहमेवेति निश्चयी ।
निर्विकल्पः शुचिः शान्तः प्राप्ताप्राप्तविनिर्वृतः ॥ ११-७॥
नाश्चर्यमिदं विश्वं न किञ्चिदिति निश्चयी ।
निर्वासनः स्फूर्तिमात्रो न किञ्चिदिव शाम्यति ॥ ११-८॥
१२
जनक उवाच ॥
कायकृत्यासहः पूर्वं ततो वाग्विस्तरासहः ।
अथ चिन्तासहस्तस्माद् एवमेवाहमास्थितः ॥ १२-१॥
प्रीत्यभावेन शब्दादेरदृश्यत्वेन चात्मनः ।
विक्षेपैकाग्रहृदय एवमेवाहमास्थितः ॥ १२-२॥
समाध्यासादिविक्षिप्तौ व्यवहारः समाधये ।
एवं विलोक्य नियममेवमेवाहमास्थितः ॥ १२-३॥ ।
हेयोपादेयविरहाद् एवं हर्षविषादयोः ।
अभावादद्य हे ब्रह्मन्न् एवमेवाहमास्थितः ॥ १२-४॥
आश्रमानाश्रमं ध्यानं चित्तस्वीकृतवर्जनम् ।
विकल्पं मम वीक्ष्यैतैरेवमेवाहमास्थितः ॥ १२-५॥
कर्मानुष्ठानमज्ञानाद् यथैवोपरमस्तथा ।
बुध्वा सम्यगिदं तत्त्वमेवमेवाहमास्थितः ॥ १२-६॥
अचिन्त्यं चिन्त्यमानोऽपि चिन्तारूपं भजत्यसौ ।
त्यक्त्वा तद्भावनं तस्माद् एवमेवाहमास्थितः ॥ १२-७॥
एवमेव कृतं येन स कृतार्थो भवेदसौ ।
एवमेव स्वभावो यः स कृतार्थो भवेदसौ ॥ १२-८॥
१३
जनक उवाच ॥
अकिञ्चनभवं स्वास्थं कौपीनत्वेऽपि दुर्लभम् ।
त्यागादाने विहायास्मादहमासे यथासुखम् ॥ १३-१॥
कुत्रापि खेदः कायस्य जिह्वा कुत्रापि खेद्यते ।
मनः कुत्रापि तत्त्यक्त्वा पुरुषार्थे स्थितः सुखम् ॥ १३-२॥
कृतं किमपि नैव स्याद् इति सञ्चिन्त्य तत्त्वतः ।
यदा यत्कर्तुमायाति तत् कृत्वासे यथासुखम् ॥ १३-३॥
कर्मनैष्कर्म्यनिर्बन्धभावा देहस्थयोगिनः ।
संयोगायोगविरहादहमासे यथासुखम् ॥ १३-४॥
अर्थानर्थौ न मे स्थित्या गत्या न शयनेन वा ।
तिष्ठन् गच्छन् स्वपन् तस्मादहमासे यथासुखम् ॥ १३-५॥
स्वपतो नास्ति मे हानिः सिद्धिर्यत्नवतो न वा ।
नाशोल्लासौ विहायास्मदहमासे यथासुखम् ॥ १३-६॥
सुखादिरूपा नियमं भावेष्वालोक्य भूरिशः ।
शुभाशुभे विहायास्मादहमासे यथासुखम् ॥ १३-७॥
१४
जनक उवाच ॥
प्रकृत्या शून्यचित्तो यः प्रमादाद् भावभावनः ।
निद्रितो बोधित इव क्षीणसंस्मरणो हि सः ॥ १४-१॥
क्व धनानि क्व मित्राणि क्व मे विषयदस्यवः ।
क्व शास्त्रं क्व च विज्ञानं यदा मे गलिता स्पृहा ॥ १४-२॥
विज्ञाते साक्षिपुरुषे परमात्मनि चेश्वरे ।
नैराश्ये बन्धमोक्षे च न चिन्ता मुक्तये मम ॥ १४-३॥
अन्तर्विकल्पशून्यस्य बहिः स्वच्छन्दचारिणः ।
भ्रान्तस्येव दशास्तास्तास्तादृशा एव जानते ॥ १४-४॥
१५
अष्टावक्र उवाच ॥
यथातथोपदेशेन कृतार्थः सत्त्वबुद्धिमान् ।
आजीवमपि जिज्ञासुः परस्तत्र विमुह्यति ॥ १५-१॥
मोक्षो विषयवैरस्यं बन्धो वैषयिको रसः ।
एतावदेव विज्ञानं यथेच्छसि तथा कुरु ॥ १५-२॥
वाग्मिप्राज्ञामहोद्योगं जनं मूकजडालसम् ।
करोति तत्त्वबोधोऽयमतस्त्यक्तो बुभुक्षभिः ॥ १५-३॥
न त्वं देहो न ते देहो भोक्ता कर्ता न वा भवान् ।
चिद्रूपोऽसि सदा साक्षी निरपेक्षः सुखं चर ॥ १५-४॥
रागद्वेषौ मनोधर्मौ न मनस्ते कदाचन ।
निर्विकल्पोऽसि बोधात्मा निर्विकारः सुखं चर ॥ १५-५॥
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।
विज्ञाय निरहङ्कारो निर्ममस्त्वं सुखी भव ॥ १५-६॥
विश्वं स्फुरति यत्रेदं तरङ्गा इव सागरे ।
तत्त्वमेव न सन्देहश्चिन्मूर्ते विज्वरो भव ॥ १५-७॥
श्रद्धस्व तात श्रद्धस्व नात्र मोऽहं कुरुष्व भोः ।
ज्ञानस्वरूपो भगवानात्मा त्वं प्रकृतेः परः ॥ १५-८॥
गुणैः संवेष्टितो देहस्तिष्ठत्यायाति याति च ।
आत्मा न गन्ता नागन्ता किमेनमनुशोचसि ॥ १५-९॥
देहस्तिष्ठतु कल्पान्तं गच्छत्वद्यैव वा पुनः ।
क्व वृद्धिः क्व च वा हानिस्तव चिन्मात्ररूपिणः ॥ १५-१०॥
त्वय्यनन्तमहाम्भोधौ विश्ववीचिः स्वभावतः ।
उदेतु वास्तमायातु न ते वृद्धिर्न वा क्षतिः ॥ १५-११॥
तात चिन्मात्ररूपोऽसि न ते भिन्नमिदं जगत् ।
अतः कस्य कथं कुत्र हेयोपादेयकल्पना ॥ १५-१२॥
एकस्मिन्नव्यये शान्ते चिदाकाशेऽमले त्वयि ।
कुतो जन्म कुतो कर्म कुतोऽहङ्कार एव च ॥ १५-१३॥
यत्त्वं पश्यसि तत्रैकस्त्वमेव प्रतिभाससे ।
किं पृथक् भासते स्वर्णात् कटकाङ्गदनूपुरम् ॥ १५-१४॥
अयं सोऽहमयं नाहं विभागमिति सन्त्यज ।
सर्वमात्मेति निश्चित्य निःसङ्कल्पः सुखी भव ॥ १५-१५॥
तवैवाज्ञानतो विश्वं त्वमेकः परमार्थतः ।
त्वत्तोऽन्यो नास्ति संसारी नासंसारी च कश्चन ॥ १५-१६॥
भ्रान्तिमात्रमिदं विश्वं न किञ्चिदिति निश्चयी ।
निर्वासनः स्फूर्तिमात्रो न किञ्चिदिव शाम्यति ॥ १५-१७॥
एक एव भवाम्भोधावासीदस्ति भविष्यति ।
न ते बन्धोऽस्ति मोक्षो वा कृत्यकृत्यः सुखं चर ॥ १५-१८॥
मा सङ्कल्पविकल्पाभ्यां चित्तं क्षोभय चिन्मय ।
उपशाम्य सुखं तिष्ठ स्वात्मन्यानन्दविग्रहे ॥ १५-१९॥
त्यजैव ध्यानं सर्वत्र मा किञ्चिद् हृदि धारय ।
आत्मा त्वं मुक्त एवासि किं विमृश्य करिष्यसि ॥ १५-२०॥
१६
अष्टावक्र उवाच ॥
आचक्ष्व शृणु वा तात नानाशास्त्राण्यनेकशः ।
तथापि न तव स्वास्थ्यं सर्वविस्मरणाद् ऋते ॥ १६-१॥
भोगं कर्म समाधिं वा कुरु विज्ञ तथापि ते ।
चित्तं निरस्तसर्वाशमत्यर्थं रोचयिष्यति ॥ १६-२॥
आयासात्सकलो दुःखी नैनं जानाति कश्चन ।
अनेनैवोपदेशेन धन्यः प्राप्नोति निर्वृतिम् ॥ १६-३॥
व्यापारे खिद्यते यस्तु निमेषोन्मेषयोरपि ।
तस्यालस्य धुरीणस्य सुखं नन्यस्य कस्यचित् ॥ १६-४॥
इदं कृतमिदं नेति द्वन्द्वैर्मुक्तं यदा मनः ।
धर्मार्थकाममोक्षेषु निरपेक्षं तदा भवेत् ॥ १६-५॥
विरक्तो विषयद्वेष्टा रागी विषयलोलुपः ।
ग्रहमोक्षविहीनस्तु न विरक्तो न रागवान् ॥ १६-६॥
हेयोपादेयता तावत्संसारविटपाङ्कुरः ।
स्पृहा जीवति यावद् वै निर्विचारदशास्पदम् ॥ १६-७॥
प्रवृत्तौ जायते रागो निर्वृत्तौ द्वेष एव हि ।
निर्द्वन्द्वो बालवद् धीमान् एवमेव व्यवस्थितः ॥ १६-८॥
हातुमिच्छति संसारं रागी दुःखजिहासया ।
वीतरागो हि निर्दुःखस्तस्मिन्नपि न खिद्यति ॥ १६-९॥
यस्याभिमानो मोक्षेऽपि देहेऽपि ममता तथा ।
न च ज्ञानी न वा योगी केवलं दुःखभागसौ ॥ १६-१०॥
हरो यद्युपदेष्टा ते हरिः कमलजोऽपि वा ।
तथापि न तव स्वाथ्यं सर्वविस्मरणादृते ॥ १६-११॥
१७
अष्टावक्र उवाच ॥
तेन ज्ञानफलं प्राप्तं योगाभ्यासफलं तथा ।
तृप्तः स्वच्छेन्द्रियो नित्यमेकाकी रमते तु यः ॥ १७-१॥
न कदाचिज्जगत्यस्मिन् तत्त्वज्ञो हन्त खिद्यति ।
यत एकेन तेनेदं पूर्णं ब्रह्माण्डमण्डलम् ॥ १७-२॥
न जातु विषयाः केऽपि स्वारामं हर्षयन्त्यमी ।
सल्लकीपल्लवप्रीतमिवेभं निम्बपल्लवाः ॥ १७-३॥
यस्तु भोगेषु भुक्तेषु न भवत्यधिवासितः ।
अभुक्तेषु निराकाङ्क्षी तदृशो भवदुर्लभः ॥ १७-४॥
बुभुक्षुरिह संसारे मुमुक्षुरपि दृश्यते ।
भोगमोक्षनिराकाङ्क्षी विरलो हि महाशयः ॥ १७-५॥
धर्मार्थकाममोक्षेषु जीविते मरणे तथा ।
कस्याप्युदारचित्तस्य हेयोपादेयता न हि ॥ १७-६॥
वाञ्छा न विश्वविलये न द्वेषस्तस्य च स्थितौ ।
यथा जीविकया तस्माद् धन्य आस्ते यथा सुखम् ॥ १७-७॥
कृतार्थोऽनेन ज्ञानेनेत्येवं गलितधीः कृती ।
पश्यन् शृण्वन् स्पृशन् जिघ्रन्न्
अश्नन्नास्ते यथा सुखम् ॥ १७-८॥
शून्या दृष्टिर्वृथा चेष्टा विकलानीन्द्रियाणि च ।
न स्पृहा न विरक्तिर्वा क्षीणसंसारसागरे ॥ १७-९॥
न जागर्ति न निद्राति नोन्मीलति न मीलति ।
अहो परदशा क्वापि वर्तते मुक्तचेतसः ॥ १७-१०॥
सर्वत्र दृश्यते स्वस्थः सर्वत्र विमलाशयः ।
समस्तवासना मुक्तो मुक्तः सर्वत्र राजते ॥ १७-११॥
पश्यन् शृण्वन् स्पृशन् जिघ्रन्न् अश्नन्
गृण्हन् वदन् व्रजन् ।
ईहितानीहितैर्मुक्तो मुक्त एव महाशयः ॥ १७-१२॥
न निन्दति न च स्तौति न हृष्यति न कुप्यति ।
न ददाति न गृण्हाति मुक्तः सर्वत्र नीरसः ॥ १७-१३॥
सानुरागां स्त्रियं दृष्ट्वा मृत्युं वा समुपस्थितम् ।
अविह्वलमनाः स्वस्थो मुक्त एव महाशयः ॥ १७-१४॥
सुखे दुःखे नरे नार्यां सम्पत्सु च विपत्सु च ।
विशेषो नैव धीरस्य सर्वत्र समदर्शिनः ॥ १७-१५॥
न हिंसा नैव कारुण्यं नौद्धत्यं न च दीनता ।
नाश्चर्यं नैव च क्षोभः क्षीणसंसरणे नरे ॥ १७-१६॥
न मुक्तो विषयद्वेष्टा न वा विषयलोलुपः ।
असंसक्तमना नित्यं प्राप्ताप्राप्तमुपाश्नुते ॥ १७-१७॥
समाधानसमाधानहिताहितविकल्पनाः ।
शून्यचित्तो न जानाति कैवल्यमिव संस्थितः ॥ १७-१८॥
निर्ममो निरहङ्कारो न किञ्चिदिति निश्चितः ।
अन्तर्गलितसर्वाशः कुर्वन्नपि करोति न ॥ १७-१९॥
मनःप्रकाशसंमोहस्वप्नजाड्यविवर्जितः ।
दशां कामपि सम्प्राप्तो भवेद् गलितमानसः ॥ १७-२०॥
१८
अष्टावक्र उवाच ॥
यस्य बोधोदये तावत्स्वप्नवद् भवति भ्रमः ।
तस्मै सुखैकरूपाय नमः शान्ताय तेजसे ॥ १८-१॥
अर्जयित्वाखिलान् अर्थान् भोगानाप्नोति पुष्कलान् ।
न हि सर्वपरित्यागमन्तरेण सुखी भवेत् ॥ १८-२॥
कर्तव्यदुःखमार्तण्डज्वालादग्धान्तरात्मनः ।
कुतः प्रशमपीयूषधारासारमृते सुखम् ॥ १८-३॥
भवोऽयं भावनामात्रो न किञ्चित् परमर्थतः ।
नास्त्यभावः स्वभावानां भावाभावविभाविनाम् ॥ १८-४॥
न दूरं न च सङ्कोचाल्लब्धमेवात्मनः पदम् ।
निर्विकल्पं निरायासं निर्विकारं निरञ्जनम् ॥ १८-५॥
व्यामोहमात्रविरतौ स्वरूपादानमात्रतः ।
वीतशोका विराजन्ते निरावरणदृष्टयः ॥ १८-६॥
समस्तं कल्पनामात्रमात्मा मुक्तः सनातनः ।
इति विज्ञाय धीरो हि किमभ्यस्यति बालवत् ॥ १८-७॥
आत्मा ब्रह्मेति निश्चित्य भावाभावौ च कल्पितौ ।
निष्कामः किं विजानाति किं ब्रूते च करोति किम् ॥ १८-८॥
अयं सोऽहमयं नाहमिति क्षीणा विकल्पना ।
सर्वमात्मेति निश्चित्य तूष्णीम्भूतस्य योगिनः ॥ १८-९॥
न विक्षेपो न चैकाग्र्यं नातिबोधो न मूढता ।
न सुखं न च वा दुःखमुपशान्तस्य योगिनः ॥ १८-१०॥
स्वाराज्ये भैक्षवृत्तौ च लाभालाभे जने वने ।
निर्विकल्पस्वभावस्य न विशेषोऽस्ति योगिनः ॥ १८-११॥
क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता ।
इदं कृतमिदं नेति द्वन्द्वैर्मुक्तस्य योगिनः ॥ १८-१२॥
कृत्यं किमपि नैवास्ति न कापि हृदि रञ्जना ।
यथा जीवनमेवेह जीवन्मुक्तस्य योगिनः ॥ १८-१३॥
क्व मोहः क्व च वा विश्वं क्व तद् ध्यानं क्व मुक्तता ।
सर्वसङ्कल्पसीमायां विश्रान्तस्य महात्मनः ॥ १८-१४॥
येन विश्वमिदं दृष्टं स नास्तीति करोतु वै ।
निर्वासनः किं कुरुते पश्यन्नपि न पश्यति ॥ १८-१५॥
येन दृष्टं परं ब्रह्म सोऽहं ब्रह्मेति चिन्तयेत् ।
किं चिन्तयति निश्चिन्तो द्वितीयं यो न पश्यति ॥ १८-१६॥
दृष्टो येनात्मविक्षेपो निरोधं कुरुते त्वसौ ।
उदारस्तु न विक्षिप्तः साध्याभावात्करोति किम् ॥ १८-१७॥
धीरो लोकविपर्यस्तो वर्तमानोऽपि लोकवत् ।
न समाधिं न विक्षेपं न लोपं स्वस्य पश्यति ॥ १८-१८॥
भावाभावविहीनो यस्तृप्तो निर्वासनो बुधः ।
नैव किञ्चित्कृतं तेन लोकदृष्ट्या विकुर्वता ॥ १८-१९॥
प्रवृत्तौ वा निवृत्तौ वा नैव धीरस्य दुर्ग्रहः ।
यदा यत्कर्तुमायाति तत्कृत्वा तिष्ठतः सुखम् ॥ १८-२०॥
निर्वासनो निरालम्बः स्वच्छन्दो मुक्तबन्धनः ।
क्षिप्तः संस्कारवातेन चेष्टते शुष्कपर्णवत् ॥ १८-२१॥
असंसारस्य तु क्वापि न हर्षो न विषादता ।
स शीतलमना नित्यं विदेह इव राजये ॥ १८-२२॥
कुत्रापि न जिहासास्ति नाशो वापि न कुत्रचित् ।
आत्मारामस्य धीरस्य शीतलाच्छतरात्मनः ॥ १८-२३॥
प्रकृत्या शून्यचित्तस्य कुर्वतोऽस्य यदृच्छया ।
प्राकृतस्येव धीरस्य न मानो नावमानता ॥ १८-२४॥
कृतं देहेन कर्मेदं न मया शुद्धरूपिणा ।
इति चिन्तानुरोधी यः कुर्वन्नपि करोति न ॥ १८-२५॥
अतद्वादीव कुरुते न भवेदपि बालिशः ।
जीवन्मुक्तः सुखी श्रीमान् संसरन्नपि शोभते ॥ १८-२६॥
नानाविचारसुश्रान्तो धीरो विश्रान्तिमागतः ।
न कल्पते न जाति न शृणोति न पश्यति ॥ १८-२७॥
असमाधेरविक्षेपान् न मुमुक्षुर्न चेतरः ।
निश्चित्य कल्पितं पश्यन् ब्रह्मैवास्ते महाशयः ॥ १८-२८॥
यस्यान्तः स्यादहङ्कारो न करोति करोति सः ।
निरहङ्कारधीरेण न किञ्चिदकृतं कृतम् ॥ १८-२९॥
नोद्विग्नं न च सन्तुष्टमकर्तृ स्पन्दवर्जितम् ।
निराशं गतसन्देहं चित्तं मुक्तस्य राजते ॥ १८-३०॥
निर्ध्यातुं चेष्टितुं वापि यच्चित्तं न प्रवर्तते ।
निर्निमित्तमिदं किन्तु निर्ध्यायेति विचेष्टते ॥ १८-३१॥
तत्त्वं यथार्थमाकर्ण्य मन्दः प्राप्नोति मूढताम् ।
अथवा याति सङ्कोचममूढः कोऽपि मूढवत् ॥ १८-३२॥
एकाग्रता निरोधो वा मूढैरभ्यस्यते भृशम् ।
धीराः कृत्यं न पश्यन्ति सुप्तवत्स्वपदे स्थिताः ॥ १८-३३॥
अप्रयत्नात् प्रयत्नाद् वा मूढो नाप्नोति निर्वृतिम् ।
तत्त्वनिश्चयमात्रेण प्राज्ञो भवति निर्वृतः ॥ १८-३४॥
शुद्धं बुद्धं प्रियं पूर्णं निष्प्रपञ्चं निरामयम् ।
आत्मानं तं न जानन्ति तत्राभ्यासपरा जनाः ॥ १८-३५॥
नाप्नोति कर्मणा मोक्षं विमूढोऽभ्यासरूपिणा ।
धन्यो विज्ञानमात्रेण मुक्तस्तिष्ठत्यविक्रियः ॥ १८-३६॥
मूढो नाप्नोति तद् ब्रह्म यतो भवितुमिच्छति ।
अनिच्छन्नपि धीरो हि परब्रह्मस्वरूपभाक् ॥ १८-३७॥
निराधारा ग्रहव्यग्रा मूढाः संसारपोषकाः ।
एतस्यानर्थमूलस्य मूलच्छेदः कृतो बुधैः ॥ १८-३८॥
न शान्तिं लभते मूढो यतः शमितुमिच्छति ।
धीरस्तत्त्वं विनिश्चित्य सर्वदा शान्तमानसः ॥ १८-३९॥
क्वात्मनो दर्शनं तस्य यद् दृष्टमवलम्बते ।
धीरास्तं तं न पश्यन्ति पश्यन्त्यात्मानमव्ययम् ॥ १८-४०॥
क्व निरोधो विमूढस्य यो निर्बन्धं करोति वै ।
स्वारामस्यैव धीरस्य सर्वदासावकृत्रिमः ॥ १८-४१॥
भावस्य भावकः कश्चिन् न किञ्चिद् भावकोपरः ।
उभयाभावकः कश्चिद् एवमेव निराकुलः ॥ १८-४२॥
शुद्धमद्वयमात्मानं भावयन्ति कुबुद्धयः ।
न तु जानन्ति संमोहाद्यावज्जीवमनिर्वृताः ॥ १८-४३॥
मुमुक्षोर्बुद्धिरालम्बमन्तरेण न विद्यते ।
निरालम्बैव निष्कामा बुद्धिर्मुक्तस्य सर्वदा ॥ १८-४४॥
विषयद्वीपिनो वीक्ष्य चकिताः शरणार्थिनः ।
विशन्ति झटिति क्रोडं निरोधैकाग्रसिद्धये ॥ १८-४५॥
निर्वासनं हरिं दृष्ट्वा तूष्णीं विषयदन्तिनः ।
पलायन्ते न शक्तास्ते सेवन्ते कृतचाटवः ॥ १८-४६॥
न मुक्तिकारिकां धत्ते निःशङ्को युक्तमानसः ।
पश्यन् शृण्वन् स्पृशन् जिघ्रन्नश्नन्नास्ते यथासुखम् ॥ १८-४७॥
वस्तुश्रवणमात्रेण शुद्धबुद्धिर्निराकुलः ।
नैवाचारमनाचारमौदास्यं वा प्रपश्यति ॥ १८-४८॥
यदा यत्कर्तुमायाति तदा तत्कुरुते ऋजुः ।
शुभं वाप्यशुभं वापि तस्य चेष्टा हि बालवत् ॥ १८-४९॥
स्वातन्त्र्यात्सुखमाप्नोति स्वातन्त्र्याल्लभते परम् ।
स्वातन्त्र्यान्निर्वृतिं गच्छेत्स्वातन्त्र्यात् परमं पदम् ॥ १८-५०॥
अकर्तृत्वमभोक्तृत्वं स्वात्मनो मन्यते यदा ।
तदा क्षीणा भवन्त्येव समस्ताश्चित्तवृत्तयः ॥ १८-५१॥
उच्छृङ्खलाप्यकृतिका स्थितिर्धीरस्य राजते ।
न तु सस्पृहचित्तस्य शान्तिर्मूढस्य कृत्रिमा ॥ १८-५२॥
विलसन्ति महाभोगैर्विशन्ति गिरिगह्वरान् ।
निरस्तकल्पना धीरा अबद्धा मुक्तबुद्धयः ॥ १८-५३॥
श्रोत्रियं देवतां तीर्थमङ्गनां भूपतिं प्रियम् ।
दृष्ट्वा सम्पूज्य धीरस्य न कापि हृदि वासना ॥ १८-५४॥
भृत्यैः पुत्रैः कलत्रैश्च दौहित्रैश्चापि गोत्रजैः ।
विहस्य धिक्कृतो योगी न याति विकृतिं मनाक् ॥ १८-५५॥
सन्तुष्टोऽपि न सन्तुष्टः खिन्नोऽपि न च खिद्यते ।
तस्याश्चर्यदशां तां तां तादृशा एव जानते ॥ १८-५६॥
कर्तव्यतैव संसारो न तां पश्यन्ति सूरयः ।
शून्याकारा निराकारा निर्विकारा निरामयाः ॥ १८-५७॥
अकुर्वन्नपि सङ्क्षोभाद् व्यग्रः सर्वत्र मूढधीः ।
कुर्वन्नपि तु कृत्यानि कुशलो हि निराकुलः ॥ १८-५८॥
सुखमास्ते सुखं शेते सुखमायाति याति च ।
सुखं वक्ति सुखं भुङ्क्ते व्यवहारेऽपि शान्तधीः ॥ १८-५९॥
स्वभावाद्यस्य नैवार्तिर्लोकवद् व्यवहारिणः ।
महाहृद इवाक्षोभ्यो गतक्लेशः सुशोभते ॥ १८-६०॥
निवृत्तिरपि मूढस्य प्रवृत्ति रुपजायते ।
प्रवृत्तिरपि धीरस्य निवृत्तिफलभागिनी ॥ १८-६१॥
परिग्रहेषु वैराग्यं प्रायो मूढस्य दृश्यते ।
देहे विगलिताशस्य क्व रागः क्व विरागता ॥ १८-६२॥
भावनाभावनासक्ता दृष्टिर्मूढस्य सर्वदा ।
भाव्यभावनया सा तु स्वस्थस्यादृष्टिरूपिणी ॥ १८-६३॥
सर्वारम्भेषु निष्कामो यश्चरेद् बालवन् मुनिः ।
न लेपस्तस्य शुद्धस्य क्रियमाणेऽपि कर्मणि ॥ १८-६४॥
स एव धन्य आत्मज्ञः सर्वभावेषु यः समः ।
पश्यन् शृण्वन् स्पृशन् जिघ्रन्न् अश्नन्निस्तर्षमानसः ॥ १८-६५॥
क्व संसारः क्व चाभासः क्व साध्यं क्व च साधनम् ।
आकाशस्येव धीरस्य निर्विकल्पस्य सर्वदा ॥ १८-६६॥
स जयत्यर्थसंन्यासी पूर्णस्वरसविग्रहः ।
अकृत्रिमोऽनवच्छिन्ने समाधिर्यस्य वर्तते ॥ १८-६७॥
बहुनात्र किमुक्तेन ज्ञाततत्त्वो महाशयः ।
भोगमोक्षनिराकाङ्क्षी सदा सर्वत्र नीरसः ॥ १८-६८॥
महदादि जगद्द्वैतं नाममात्रविजृम्भितम् ।
विहाय शुद्धबोधस्य किं कृत्यमवशिष्यते ॥ १८-६९॥
भ्रमभूतमिदं सर्वं किञ्चिन्नास्तीति निश्चयी ।
अलक्ष्यस्फुरणः शुद्धः स्वभावेनैव शाम्यति ॥ १८-७०॥
शुद्धस्फुरणरूपस्य दृश्यभावमपश्यतः ।
क्व विधिः क्व च वैराग्यं क्व त्यागः क्व शमोऽपि वा ॥ १८-७१॥
स्फुरतोऽनन्तरूपेण प्रकृतिं च न पश्यतः ।
क्व बन्धः क्व च वा मोक्षः क्व हर्षः क्व विषादिता ॥ १८-७२॥
बुद्धिपर्यन्तसंसारे मायामात्रं विवर्तते ।
निर्ममो निरहङ्कारो निष्कामः शोभते बुधः ॥ १८-७३॥
अक्षयं गतसन्तापमात्मानं पश्यतो मुनेः ।
क्व विद्या च क्व वा विश्वं क्व देहोऽहं ममेति वा ॥ १८-७४॥
निरोधादीनि कर्माणि जहाति जडधीर्यदि ।
मनोरथान् प्रलापांश्च कर्तुमाप्नोत्यतत्क्षणात् ॥ १८-७५॥
मन्दः श्रुत्वापि तद्वस्तु न जहाति विमूढताम् ।
निर्विकल्पो बहिर्यत्नादन्तर्विषयलालसः ॥ १८-७६॥
ज्ञानाद् गलितकर्मा यो लोकदृष्ट्यापि कर्मकृत् ।
नाप्नोत्यवसरं कर्त्रुं वक्तुमेव न किञ्चन ॥ १८-७७॥
क्व तमः क्व प्रकाशो वा हानं क्व च न किञ्चन ।
निर्विकारस्य धीरस्य निरातङ्कस्य सर्वदा ॥ १८-७८॥
क्व धैर्यं क्व विवेकित्वं क्व निरातङ्कतापि वा ।
अनिर्वाच्यस्वभावस्य निःस्वभावस्य योगिनः ॥ १८-७९॥
न स्वर्गो नैव नरको जीवन्मुक्तिर्न चैव हि ।
बहुनात्र किमुक्तेन योगदृष्ट्या न किञ्चन ॥ १८-८०॥
नैव प्रार्थयते लाभं नालाभेनानुशोचति ।
धीरस्य शीतलं चित्तममृतेनैव पूरितम् ॥ १८-८१॥
न शान्तं स्तौति निष्कामो न दुष्टमपि निन्दति ।
समदुःखसुखस्तृप्तः किञ्चित् कृत्यं न पश्यति ॥ १८-८२॥
धीरो न द्वेष्टि संसारमात्मानं न दिदृक्षति ।
हर्षामर्षविनिर्मुक्तो न मृतो न च जीवति ॥ १८-८३॥
निःस्नेहः पुत्रदारादौ निष्कामो विषयेषु च ।
निश्चिन्तः स्वशरीरेऽपि निराशः शोभते बुधः ॥ १८-८४॥
तुष्टिः सर्वत्र धीरस्य यथापतितवर्तिनः ।
स्वच्छन्दं चरतो देशान् यत्रस्तमितशायिनः ॥ १८-८५॥
पततूदेतु वा देहो नास्य चिन्ता महात्मनः ।
स्वभावभूमिविश्रान्तिविस्मृताशेषसंसृतेः ॥ १८-८६॥
अकिञ्चनः कामचारो निर्द्वन्द्वश्छिन्नसंशयः ।
असक्तः सर्वभावेषु केवलो रमते बुधः ॥ १८-८७॥
निर्ममः शोभते धीरः समलोष्टाश्मकाञ्चनः ।
सुभिन्नहृदयग्रन्थिर्विनिर्धूतरजस्तमः ॥ १८-८८॥
सर्वत्रानवधानस्य न किञ्चिद् वासना हृदि ।
मुक्तात्मनो वितृप्तस्य तुलना केन जायते ॥ १८-८९॥
जानन्नपि न जानाति पश्यन्नपि न पश्यति ।
ब्रुवन्न् अपि न च ब्रूते कोऽन्यो निर्वासनादृते ॥ १८-९०॥
भिक्षुर्वा भूपतिर्वापि यो निष्कामः स शोभते ।
भावेषु गलिता यस्य शोभनाशोभना मतिः ॥ १८-९१॥
क्व स्वाच्छन्द्यं क्व सङ्कोचः क्व वा तत्त्वविनिश्चयः ।
निर्व्याजार्जवभूतस्य चरितार्थस्य योगिनः ॥ १८-९२॥
आत्मविश्रान्तितृप्तेन निराशेन गतार्तिना ।
अन्तर्यदनुभूयेत तत् कथं कस्य कथ्यते ॥ १८-९३॥
सुप्तोऽपि न सुषुप्तौ च स्वप्नेऽपि शयितो न च ।
जागरेऽपि न जागर्ति धीरस्तृप्तः पदे पदे ॥ १८-९४॥
ज्ञः सचिन्तोऽपि निश्चिन्तः सेन्द्रियोऽपि निरिन्द्रियः ।
सुबुद्धिरपि निर्बुद्धिः साहङ्कारोऽनहङ्कृतिः ॥ १८-९५॥
न सुखी न च वा दुःखी न विरक्तो न सङ्गवान् ।
न मुमुक्षुर्न वा मुक्ता न किञ्चिन्न्न च किञ्चन ॥ १८-९६॥
विक्षेपेऽपि न विक्षिप्तः समाधौ न समाधिमान् ।
जाड्येऽपि न जडो धन्यः पाण्डित्येऽपि न पण्डितः ॥ १८-९७॥
मुक्तो यथास्थितिस्वस्थः कृतकर्तव्यनिर्वृतः ।
समः सर्वत्र वैतृष्ण्यान्न स्मरत्यकृतं कृतम् ॥ १८-९८॥
न प्रीयते वन्द्यमानो निन्द्यमानो न कुप्यति ।
नैवोद्विजति मरणे जीवने नाभिनन्दति ॥ १८-९९॥
न धावति जनाकीर्णं नारण्यमुपशान्तधीः ।
यथातथा यत्रतत्र सम एवावतिष्ठते ॥ १८-१००॥
१९
जनक उवाच ॥
तत्त्वविज्ञानसन्दंशमादाय हृदयोदरात् ।
नाविधपरामर्शशल्योद्धारः कृतो मया ॥ १९-१॥
क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता ।
क्व द्वैतं क्व च वाऽद्वैतं स्वमहिम्नि स्थितस्य मे ॥ १९-२॥
क्व भूतं क्व भविष्यद् वा वर्तमानमपि क्व वा ।
क्व देशः क्व च वा नित्यं स्वमहिम्नि स्थितस्य मे ॥ १९-३॥
क्व चात्मा क्व च वानात्मा क्व शुभं क्वाशुभं यथा ।
क्व चिन्ता क्व च वाचिन्ता स्वमहिम्नि स्थितस्य मे ॥ १९-४॥
क्व स्वप्नः क्व सुषुप्तिर्वा क्व च जागरणं तथा ।
क्व तुरीयं भयं वापि स्वमहिम्नि स्थितस्य मे ॥ १९-५॥
क्व दूरं क्व समीपं वा बाह्यं क्वाभ्यन्तरं क्व वा ।
क्व स्थूलं क्व च वा सूक्ष्मं स्वमहिम्नि स्थितस्य मे ॥ १९-६॥
क्व मृत्युर्जीवितं वा क्व लोकाः क्वास्य क्व लौकिकम् ।
क्व लयः क्व समाधिर्वा स्वमहिम्नि स्थितस्य मे ॥ १९-७॥
अलं त्रिवर्गकथया योगस्य कथयाप्यलम् ।
अलं विज्ञानकथया विश्रान्तस्य ममात्मनि ॥ १९-८॥
२०
जनक उवाच ॥
क्व भूतानि क्व देहो वा क्वेन्द्रियाणि क्व वा मनः ।
क्व शून्यं क्व च नैराश्यं मत्स्वरूपे निरञ्जने ॥ २०-१॥
क्व शास्त्रं क्वात्मविज्ञानं क्व वा निर्विषयं मनः ।
क्व तृप्तिः क्व वितृष्णात्वं गतद्वन्द्वस्य मे सदा ॥ २०-२॥
क्व विद्या क्व च वाविद्या क्वाहं क्वेदं मम क्व वा ।
क्व बन्ध क्व च वा मोक्षः स्वरूपस्य क्व रूपिता ॥ २०-३॥
क्व प्रारब्धानि कर्माणि जीवन्मुक्तिरपि क्व वा ।
क्व तद् विदेहकैवल्यं निर्विशेषस्य सर्वदा ॥ २०-४॥
क्व कर्ता क्व च वा भोक्ता निष्क्रियं स्फुरणं क्व वा ।
क्वापरोक्षं फलं वा क्व निःस्वभावस्य मे सदा ॥ २०-५॥
क्व लोकं क्व मुमुक्षुर्वा क्व योगी ज्ञानवान् क्व वा ।
क्व बद्धः क्व च वा मुक्तः स्वस्वरूपेऽहमद्वये ॥ २०-६॥
क्व सृष्टिः क्व च संहारः क्व साध्यं क्व च साधनम् ।
क्व साधकः क्व सिद्धिर्वा स्वस्वरूपेऽहमद्वये ॥ २०-७॥
क्व प्रमाता प्रमाणं वा क्व प्रमेयं क्व च प्रमा ।
क्व किञ्चित् क्व न किञ्चिद् वा सर्वदा विमलस्य मे ॥ २०-८॥
क्व विक्षेपः क्व चैकाग्र्यं क्व निर्बोधः क्व मूढता ।
क्व हर्षः क्व विषादो वा सर्वदा निष्क्रियस्य मे ॥ २०-९॥
क्व चैष व्यवहारो वा क्व च सा परमार्थता ।
क्व सुखं क्व च वा दुखं निर्विमर्शस्य मे सदा ॥ २०-१०॥
क्व माया क्व च संसारः क्व प्रीतिर्विरतिः क्व वा ।
क्व जीवः क्व च तद्ब्रह्म सर्वदा विमलस्य मे ॥ २०-११॥
क्व प्रवृत्तिर्निर्वृत्तिर्वा क्व मुक्तिः क्व च बन्धनम् ।
कूटस्थनिर्विभागस्य स्वस्थस्य मम सर्वदा ॥ २०-१२॥
क्वोपदेशः क्व वा शास्त्रं क्व शिष्यः क्व च वा गुरुः ।
क्व चास्ति पुरुषार्थो वा निरुपाधेः शिवस्य मे ॥ २०-१३॥
क्व चास्ति क्व च वा नास्ति क्वास्ति चैकं क्व च द्वयम् ।
बहुनात्र किमुक्तेन किञ्चिन्नोत्तिष्ठते मम ॥ २०-१४॥
इति अष्टावक्रगीता समाप्ता ।
॥ ॐ तत्सत् ॥
॥ ईश्वरगीता कूर्मपुराणे ॥
प्रथमोऽध्यायः
ऋषय ऊचुः
भवता कथितः सम्यक् सर्गः स्वायंभुवस्ततः ।
ब्रह्माण्डस्यास्य विस्तारो मन्वन्तरविनिश्चयः ॥ १.१॥
तत्रेश्वरेश्वरो देवो वर्णिभिर्धर्मतत्परैः ।
ज्ञानयोगरतैर्नित्यमाराध्यः कथितस्त्वया ॥ १.२॥
तद्वदाशेषसंसारदुःखनाशमनुत्तमम् ।
ज्ञानं ब्रह्मैकविषयं येन पश्येम तत्परम् ॥ १.३॥
त्वं हि नारायण साक्षात् कृष्णद्वैपायनात् प्रभो ।
अवाप्ताखिलविज्ञानस्तत्त्वां पृच्छामहे पुनः ॥ १.४॥
श्रुत्वा मुनीनां तद् वाक्यं कृष्णद्वैपायनात् प्रभुम् ।
सूतः पौराणिकः स्मृत्वा भाषितुं ह्युपचक्रमे ॥ १.५॥
अथास्मिन्नन्तरे व्यासः कृष्णद्वैपायनः स्वयम् ।
आजगाम मुनिश्रेष्ठा यत्र सत्रं समासते ॥ १.६॥
तं दृष्ट्वा वेदविद्वांसं कालमेघसमद्युतिम् ।
व्यासं कमलपत्राक्षं प्रणेमुर्द्विजपुंगवाः ॥ १.७॥
पपात दण्डवद् भूमौ दृष्ट्वाऽसौ लोमहर्षणः ।
प्रदक्षिणीकृत्य गुरुं प्राञ्जलिः पार्श्वगोऽभवत् ॥ १.८॥
पृष्टास्तेऽनामयं विप्राः शौनकाद्या महामुनिम् ।
समाश्वास्यासनं तस्मै तद्योग्यं समकल्पयन् ॥ १.९॥
अथैतानब्रवीद् वाक्यं पराशरसुतः प्रभुः ।
कच्चिन्न तपसो हानिः स्वाध्यायस्य श्रुतस्य च ॥ १.१०॥
ततः स सूतः स्वगुरुं प्रणम्याह महामुनिम् ।
ज्ञानं तद् ब्रह्मविषयं मुनीनां वक्तुमर्हसि ॥ १.११॥
इमे हि मुनयः शान्तास्तापसा धर्मतत्पराः ।
शुश्रूषा जायते चैषां वक्तुमर्हसि तत्त्वतः ॥ १.१२॥
ज्ञानं विमुक्तिदं दिव्यं यन्मे साक्षात् त्वयोदितम् ।
मुनीनां व्याहृतं पूर्वं विष्णुना कूर्मरूपिणा ॥ १.१३॥
३श्रुत्वा सूतस्य वचनं मुनिः सत्यवतीसुतः
प्रणम्य शिरसा रुद्रं वचः प्राह सुखावहम् ॥ १.१४॥
व्यास उवाच
वक्ष्ये देवो महादेवः पृष्टो योगीश्वरैः पुरा ।
सनत्कुमारप्रमुखैः स स्वयं समभाषत ॥ १.१५॥
सनत्कुमारः सनकस्तथैव च सनन्दनः ।
अङ्गिरा रुद्रसहितो भृगुः परमधर्मवित् ॥ १.१६॥
कणादः कपिलो योगी वामदेवो महामुनिः ।
शुक्रो वसिष्ठो भगवान् सर्वे संयतमानसाः ॥ १.१७॥
परस्परं विचार्यैते संशयाविष्टचेतसः ।
तप्तवन्तस्तपो घोरं पुण्ये बदरिकाश्रमे ॥ १.१८॥
अपश्यंस्ते महायोगमृषिं धर्मसुतं शुचिम् ।
नारायणमनाद्यन्तं नरेण सहितं तदा ॥ १.१९॥
संस्तूय विविधैः स्तोत्रैः सर्वे वेदसमुद्भवैः ।
प्रणेमुर्भक्तिसंयुक्ता योगिनो योगवित्तमम् ॥ १.२०॥
विज्ञाय वाञ्छितं तेषां भगवानपि सर्ववित् ।
प्राह गम्भीरया वाचा किमर्थं तप्यते तपः ॥ १.२१॥
अब्रुवन् हृष्टमनसो विश्वात्मानं सनातनम् ।
साक्षान्नारायणं देवमागतं सिद्धिसूचकम् ॥ १.२२॥
वयं संशयमापन्नाः सर्वे वै ब्रह्मवादिनः ।
भवन्तमेकं शरणं प्रपन्नाः पुरुषोत्तमम् ॥ १.२३॥
त्वं हि वेत्सि परमं गुह्यं सर्वन्तु भगवानृषिः ।
नारायणः स्वयं साक्षात् पुराणोऽव्यक्तपूरुषः ॥ १.२४॥
नह्यन्यो विद्यते वेत्ता त्वामृते परमेश्वरम् ।
शुश्रूषाऽस्माकमखिलं संशयं छेत्तुमर्हसि ॥ १.२५॥
किं कारणमिदं कृत्स्नं कोऽनुसंसरते सदा ।
कश्चिदात्मा च का मुक्तिः संसारः किंनिमित्तकः ॥ १.२६॥
कः संसारपतीशानः को वा सर्वं प्रपश्यति ।
किं तत् परतरं ब्रह्म सर्वं नो वक्तुमर्हसि ॥ १.२७॥
एवमुक्ता तु मुनयः प्रापश्यन् पुरुषोत्तमम् ।
विहाय तापसं रूपं संस्थितं स्वेन तेजसा ॥ १.२८॥
विभ्राजमानं विमलं प्रभामण्डलमण्डितम् ।
श्रीवत्सवक्षसं देवं तप्तजाम्बूनदप्रभम् ॥ १.२९॥
शङ्खचक्रगदापाणिं शार्ङ्गहस्तं श्रियावृतम् ।
न दृष्टस्तत्क्षणादेव नरस्तस्यैव तेजसा ॥ १.३०॥
तदन्तरे महादेवः शशाङ्काङ्कितशेखरः ।
प्रसादाभिमुखो रुद्रः प्रादुरासीन्महेश्वरः ॥ १.३१॥
निरीक्ष्य ते जगन्नाथं त्रिनेत्रं चन्द्रभूषणम् ।
तुष्टबुर्हृष्टमनसो भक्त्या तं परमेश्वरम् ॥ १.३२॥
जयेश्वर महादेव जय भूतपते शिव ।
जयाशेषमुनीशान तपसाऽभिप्रपूजित ॥ १.३३॥
सहस्रमूर्ते विश्वात्मन् जगद्यन्त्रप्रवर्त्तक ।
जयानन्त जगज्जन्मत्राणसंहारकारक ॥ १.३४॥
सहस्रचरणेशान शंभो योगीन्द्रवन्दित ।
जयाम्बिकापते देव नमस्ते परमेश्वर ॥ १.३५॥
संस्तुतो भगवानीशस्त्र्यम्बको भक्तवत्सलः ।
समालिङ्ग्य हृषीकेशं प्राह गम्भीरया गिरा ॥ १.३६॥
किमर्थं पुण्डरीकाक्ष मुनीन्द्रा ब्रह्मवादिनः ।
इमं समागता देशं किं वा कार्यं मयाऽच्युत ॥ १.३७॥
आकर्ण्य भगवद्वाक्यं देवदेवो जनार्दनः ।
प्राह देवो महादेवं प्रसादाभिमुखं स्थितम् ॥ १.३८॥
इमे हि मुनयो देव तापसाः क्षीणकल्पषाः ।
अभ्यागतानां शरणं सम्यग्दर्शनकाङ्क्षिणाम् ॥ १.३९॥
यदि प्रसन्नो भगवान् मुनीनां भावितात्मनाम् ।
सन्निधौ मम तज्ज्ञानं दिव्यं वक्तुमिहार्हसि ॥ १.४०॥
त्वं हि वेत्सि स्वमात्मानं न ह्यन्यो विद्यते शिव ।
ततस्त्वमात्मनात्मानं मुनीन्द्रेभ्यः प्रदर्शय ॥ १.४१॥
एवमुक्त्वा हृषीकेशः प्रोवाच मुनिपुंगवान् ।
प्रदर्शयन् योगसिद्धिं निरीक्ष्य वृषभध्वजम् ॥ १.४२॥
संदर्शनान्महेशस्य शंकरस्याथ शूलिनः ।
कृतार्थं स्वयमात्मानं ज्ञातुमर्हथ तत्त्वतः ॥ १.४३॥
द्रष्टुमर्हथ विश्वेशं प्रत्यक्षं पुरतः स्थितम् ।
ममैव सन्निधावेव यथावद् वक्तुमीश्वरः ॥ १.४४॥
निशम्य विष्णोर्वचनं प्रणम्य वृषभध्वजम् ।
सनत्कुमारप्रमुखाः पृच्छन्ति स्म महेश्वरम् ॥ १.४५॥
अथास्मिन्नन्तरे दिव्यमासनं विमलं शिवम् ।
किमप्यचिन्त्यं गगनादीश्वरार्थे समुद्बभौ ॥ १.४६॥
तत्राससाद योगात्मा विष्णुना सह विश्वकृत् ।
तेजसा पूरयन् विश्वं भाति देवो महेश्वरः ॥ १.४७॥
ततो देवादिदेवेशं शंकरं ब्रह्मवादिनः ।
विभ्राजमानं विमले तस्मिन् ददृशुरासने ॥ १.४८॥
यं प्रपश्यन्तियोगस्थाः स्वात्मन्यात्मानमीश्वरमा ।
अनन्यतेजसं शान्तं शिवं ददृशिरे किल ॥ १.४९॥
यतः प्रसूतिर्भूतानां यत्रैतत् प्रविलीयते ।
तमासनस्थं भूतानामीशं ददृशिरे किल ॥ १.५०॥
यदन्तरा सर्वमेतद् यतोऽभिन्नमिदं जगत् ।
सवासुदेवमासीनं तमीशं ददृशुः किल ॥ १.५१॥
प्रोवाच पृष्टो भगवान् मुनीनां परमेश्वरः ।
निरीक्ष्य पुण्डरीकाक्षं स्वात्मयोगमनुत्तमम् ॥ १.५२॥
तच्छृणुध्वं यथान्यायमुच्यमानं मयाऽनघाः ।
प्रशान्तमानसाः सर्वे ज्ञानमीश्वरभाषितम् ॥ १.५३॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
(ईश्वरगीतासु) प्रथमोऽध्यायः ॥ १॥
द्वितीयोऽध्यायः
ईश्वर उवाच ।
अवाच्यमेतद् विज्ञानमात्मगुह्यं सनातनम् ।
यन्न देवा विजानन्ति यतन्तोऽपि द्विजातयः ॥ २.१॥
इदं ज्ञानं समाश्रित्य ब्रह्मभूता द्विजोत्तमाः ।
न संसारं प्रपद्यन्ते पूर्वेऽपि ब्रह्मवादिनः ॥ २.२॥
गुह्याद् गुह्यतमं साक्षाद् गोपनीयं प्रयत्नतः ।
वक्ष्ये भक्तिमतामद्य युष्माकं ब्रह्मवादिनाम् ॥ २.३॥
आत्मायः केवलः स्वच्छः शुद्धः सूक्ष्मः सनातनः ।
अस्ति सर्वान्तरः साक्षाच्चिन्मात्रस्तमसः परः ॥ २.४॥
सोऽन्तर्यामी स पुरुषः स प्राणः स महेश्वरः ।
स कालोऽत्रस्तदव्यक्तं स एवेदमिति श्रुतिः ॥ २.५॥
अस्माद् विजायते विश्वमत्रैव प्रविलीयते ।
स मायी मायया बद्धः करोति विविधास्तनूः ॥ २.६॥
न चाप्ययं संसरति न च संसारमयः प्रभुः ।
नायं पृथ्वी न सलिलं न तेजः पवनो नभः ॥ २.७॥
न प्राणे न मनोऽव्यक्तं न शब्दः स्पर्श एव च ।
न रूपरसगन्धाश्च नाहं कर्त्ता न वागपि ॥ २.८॥
न पाणिपादौ नो पायुर्न चोपस्थं द्विजोत्तमाः ।
न कर्त्ता न च भोक्ता वा न च प्रकृतिपूरुषौ ॥ २.९॥
न माया नैव च प्राणा चैतन्यं परमार्थतः ।
यथा प्रकाशतमसोः सम्बन्धो नोपपद्यते ॥ २.१०॥
तद्वदैक्यं न संबन्धः प्रपञ्चपरमात्मनोः
छायातपौ यथा लोके परस्परविलक्षणौ ॥ २.११॥
तद्वत् प्रपञ्चपुरुषौ विभिन्नौ परमार्थतः ।
तथात्मा मलिनोऽसृष्टो विकारी स्यात् स्वभावतः ॥ २.१२॥
नहि तस्य भवेन्मुक्तिर्जन्मान्तरशतैरपि ।
पश्यन्ति मुनयो युक्ताः स्वात्मानं परमार्थतः ॥ २.१३॥
विकारहीनं निर्दुः खमानन्दात्मानमव्ययम् ।
अह कर्त्ता सुखी दुःखी कृशः स्थूलेति या मतिः ॥ २.१४॥
सा चाहंकारकर्तृत्वादात्मन्यारोप्यते जनैः ।
वदन्ति वेदविद्वांसः साक्षिणं प्रकृतेः परम् ॥ २.१५॥
भोक्तारमक्षरं शुद्धं सर्वत्र समवस्थितम् ।
तस्मादज्ञानमूलो हि संसारः सर्वदेहिनाम् ॥ २.१६॥
अज्ञानादन्यथा ज्ञानात् तत्वं प्रकृतिसंगतम् ।
नित्योदितं स्वयं ज्योतिः सर्वगः पुरुषः परः ॥ २.१७॥
अहंकाराविवेकेन कर्त्ताहमिति मन्यते ।
पश्यन्ति ऋषयोऽव्यक्तं नित्यं सदसदात्मकम् ॥ २.१८॥
प्रधानं प्रकृतिं बुद्ध्वा कारणं ब्रह्मवादिनः ।
तेनायं संगतो ह्यात्मा कूटस्थोऽपि निरञ्जनः ॥ २.१९॥
स्वात्मानमक्षरं ब्रह्म नावबुद्ध्येत तत्त्वतः ।
अनात्मन्यात्मविज्ञानं तस्माद् दुःखं तथेतरत् ॥ २.२०॥
रगद्वेषादयो दोषाः सर्वे भ्रान्तिनिबन्धनाः ।
कर्माण्यस्य भवेद् दोषः पुण्यापुण्यमिति स्थितिः ॥ २.२१॥
तद्वशादेव सर्वेषां सर्वदेहसमुद्भवः ।
नित्यः सर्वत्रगो ह्यात्मा कूटस्थो दोषवर्जितः ॥ २.२२॥
एकः स भिद्यते शक्त्या मायया न स्वभावतः ।
तस्मादद्वैतमेवाहुर्मुनयः परमार्थतः ॥ २.२३॥
भेदो व्यक्तस्वभावेन सा च मायात्मसंश्रया ।
यथा हि धूमसम्पर्कान्नाकाशो मलिनो भवेत् ॥ २.२४॥
अन्तः करणजैर्भावैरात्मा तद्वन्न लिप्यते ।
यथा स्वप्रभया भाति केवलः स्फटिकोऽमलः ॥ २.२५॥
उपाधिहीनो विमलस्तथैवात्मा प्रकाशते ।
ज्ञानस्वूपमेवाहुर्जगदेतद् विचक्षणाः ॥ २.२६॥
अर्थस्वरूपमेवान्ये पश्यन्त्यन्ये कुदृष्टयः ।
कूटस्थो निर्गुणो व्यापी चैतन्यात्मा स्वभावतः ॥ २.२७॥
दृश्यते ह्यर्थरूपेण पुरुषैर्ज्ञानदृष्टिभिः ।
यथा स लक्ष्यते रक्तः केवलः स्फटिको जनैः ॥ २.२८॥
रक्तिकाद्युपधानेन तद्वत् परमपूरुषः ।
तस्मादात्माऽक्षरः शुद्धो नित्यः सर्वगतोऽव्ययः ॥ २.२९॥
उपासितव्यो मन्तव्यः श्रोतव्यश्च मुमुक्षुभिः ।
यदा मनसि चैतन्यं भाति सर्वत्रगं सदा ॥ २.३०॥
योगिनोऽव्यवधानेन तदा सम्पद्यते स्वयम् ।
यदा सर्वाणि भूतानि स्वात्मन्येवाभिपश्यति ॥ २.३१॥
सर्वभूतेषु चात्मानं ब्रह्म सम्पद्यते तदा ।
यदा सर्वाणि भूतानि समाधिस्थो न पश्यति ॥ २.३२॥
एकीभूतः परेणासौ तदा भवति केवलम् ।
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः ॥ २.३३॥
तदाऽसावमृतीभूतः क्षेमं गच्छति पण्डितः ।
यदा भूतपृथग्भावमेकस्थमनुपश्यति ॥ २.३४॥
तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ।
यदा पश्यति चात्मानं केवलं परमार्थतः ॥ २.३५॥
मायामात्रं जगत् कृत्स्नं तदा भवति निर्वृतः ॥ २.३६॥
यदा जन्मजरादुःखव्याधीनामेकभेषजम् ।
केवलं ब्रह्मविज्ञानं जायतेऽसौ तदा शिवः ॥ २.३७॥
यथा नदीनदा लोके सागरेणैकतां ययुः ।
तद्वदात्माऽक्षरेणासौ निष्कलेनैकतां व्रजेत् ॥ २.३८॥
तस्माद् विज्ञानमेवास्ति न प्रपञ्चो न संसृतिः ।
अज्ञानेनावृतं लोको विज्ञानं तेन मुह्यति ॥ २.३९॥
तज्ज्ञानं निर्मलं सूक्ष्मं निर्विकल्पं तदव्ययम् ।
अज्ञानमितरत् सर्वं विज्ञानमिति तन्मतम् ॥ २.४०॥
एतद्वः कथितं सांख्यं भाषितं ज्ञानमुत्तमम् ।
सर्ववेदान्तसारं हि योगस्तत्रैकचित्तता ॥ २.४१॥
योगात् संजायते ज्ञानं ज्ञानाद् योगः प्रवर्त्तते ।
योगज्ञानाभियुक्तस्य नावाप्यं विद्यते क्वचित् ॥ २.४२॥
यदेव योगिनो यान्ति सांख्यैस्तदधिगम्यते ।
एकं सांख्यं च योगं च यः पश्यति स तत्त्ववित् ॥ २.४३॥
अन्ये च योगिनो विप्रा ऐश्वर्यासक्तचेतसः ।
मज्जन्ति तत्र तत्रैव ये चान्येकुण्टबुद्धयः ॥ २.४४॥
यत्तत् सर्वगतं दिव्यमैश्वर्यमचलं महत् ।
ज्ञानयोगाभियुक्तस्तु देहान्ते तदवाप्नुयात् ॥ २.४५॥
एष आत्माऽहमव्यक्तो मायावी परमेश्वरः ।
कीर्तितः सर्ववेदेषु सर्वात्मा सर्वतोमुखः ॥ २.४६॥
सर्वकामः सर्वरसः सर्वगन्धोऽजरोऽमरः ।
सर्वतः पाणिपादोऽहमन्तर्यामी सनातनः ॥ २.४७॥
अपाणिपादो जवनो ग्रहीता हृदि संस्थितः ।
अचक्षुरपि पश्यामि तथाऽकर्णः शृणोम्यहम् ॥ २.४८॥
वेदाहं सर्वमेवेदं न मां जानाति कश्चन ।
प्राहुर्महान्तं पुरुषं मामेकं तत्त्वदर्शिनः ॥ २.४९॥
पश्यन्ति ऋषयो हेतुमात्मनः सूक्ष्मदर्शिनः ।
निर्गुणामलरूपस्य यत्तदैश्वर्यमुत्तमम् ॥ २.५०॥
यन्न देवा विजानन्ति मोहिता मम मायया ।
वक्ष्ये समाहिता यूयं शृणुध्वं ब्रह्मवादिनः ॥ २.५१॥
नाहं प्रशास्ता सर्वस्य मायातीतः स्वभावतः ।
प्रेरयामि तथापीदं कारणं सूरयो विदुः ॥ २.५२॥
यन्मे गुह्यतमं देहं सर्वगं तत्त्वदर्शिनः ।
प्रविष्टा मम सायुज्यं लभन्ते योगिनोऽव्ययम् ॥ २.५३॥
तेषां हि वशमापन्ना माया मे विश्वरूपिणी ।
लभन्ते परमं शुद्धं निर्वाणं ते मया सह ॥ २.५४॥
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ।
प्रसादान्मम योगीन्द्रा एतद् वेदानुसासनम् ॥ २.५५॥
तत्पुत्रशिष्ययोगिभ्यो दातव्यं ब्रह्मवादिभिः ।
मदुक्तमेतद् विज्ञानं सांख्यं योगसमाश्रयम् ॥ २.५६॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
(ईश्वरगीतासु) द्वितीयोऽध्यायः ॥ २॥
तृतीयोऽध्यायः
ईश्वर उवाच
अव्यक्तादभवत् कालः प्रधानं पुरुषः परः ।
तेभ्यः सर्वमिदं जातं तस्माद् ब्रह्ममयं जगत् ॥ ३.१॥
सर्वतः पाणिपादान्तं सर्वतोऽक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ ३.२॥
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।
सर्वाधारं सदानन्दमव्यक्तं द्वैतवर्जितम् ॥ ३.३॥
सर्वोपमानरहितं प्रमाणातीतगोचरम् ।
निर्वकल्पं निराभासं सर्वावासं परामृतम् ॥ ३.४॥
अभिन्नं भिन्नसंस्थानं शाश्वतं ध्रुवमव्ययम् ।
निर्गुणं परमं व्योम तज्ज्ञानं सूरयो विदुः ॥ ३.५॥
स आत्मा सर्वभूतानां स बाह्याभ्यन्तरः परः ।
सोऽहं सर्वत्रगः शान्तो ज्ञानात्मा परमेश्वरः ॥ ३.६॥
मया ततमिदं विश्वं जगदव्यक्तमूर्तिना ।
मत्स्थानि सर्वभूतानि यस्तं वेद स वेदवित् ॥ ३.७॥
प्रधानं पुरुषं चैव तद्वस्तु समुदाहृतम् ।
तयोरनादिरुद्दिष्टः कालः संयोगजः परः ॥ ३.८॥
त्रयमेतदनाद्यन्तमव्यक्ते समवस्थितम् ।
तदात्मकं तदन्यत् स्यात् तद्रूपं मामकं विदुः ॥ ३.९॥
महदाद्यं विशेषान्तं सम्प्रसूतेऽखिलं जगत् ।
या सा प्रकृतिरुद्दिष्टा मोहिनी सर्वदेहिनाम् ॥ ३.१०॥
पुरुषः प्रकृतिस्थो हि भुङ्क्तेयः प्राकृतान् गुणान् ।
अहंकारविमुक्तत्वात् प्रोच्यते पञ्चविंशकः ॥ ३.११॥
आद्यो विकारः प्रकृतेर्महानिति च कथ्यते ।
विज्ञातृशक्तिर्विज्ञानात् ह्यहंकारस्तदुत्थितः ॥ ३.१२॥
एक एव महानात्मा सोऽहंकारोऽभिधीयते ।
स जीवः सोऽन्तरात्मेति गीयते तत्त्वचिन्तकैः ॥ ३.१३॥
तेन वेदयते सर्वं सुखं दुः खं च जन्मसु ।
स विज्ञानात्मकस्तस्य मनः स्यादुपकारकम् ॥ ३.१४॥
तेनापि तन्मयस्तस्मात् संसारः पुरुषस्य तु ।
स चाविवेकः प्रकृतौ सङ्गात् कालेन सोऽभवत् ॥ ३.१५॥
कालः सृजति भूतानि कालः संहरति प्रजाः ।
सर्वे कालस्य वशगा न कालः कस्यचिद् वशे ॥ ३.१६॥
सोऽन्तरा सर्वमेवेदं नियच्छति सनातनः ।
प्रोच्यते भगवान् प्राणः सर्वज्ञः पुरुषोत्तमः ॥ ३.१७॥
सर्वेन्द्रियेभ्यः परमं मन आहुर्मनीषिणः ।
मनसश्चाप्यहंकारमहंकारान्महान् परः ॥ ३.१८॥
महतः परमव्यक्तमव्यक्तात् पुरुषः परः ।
पुरुषाद् भगवान् प्राणस्तस्य सर्वमिदं जगत् ॥ ३.१९॥
प्राणात् परतरं व्योम व्योमातीतोऽग्निरीश्वरः ।
सोऽहं ब्रह्माव्ययः शान्तो ज्ञानात्मा परमेश्वरः ।
नास्ति मत्तः परं भूतं मां विज्ञाय मुच्यते ॥ ३.२०॥
नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् ।
ऋते मामेकमव्यक्तं व्योमरूपं महेश्वरम् ॥ ३.२१॥
सोऽहं सृजामि सकलं संहरामि सदा जगत् ।
मायी मायामयो देवः कालेन सह सङ्गतः ॥ ३.२२॥
मत्सन्निधावेष कालः करोति सकलं जगत् ।
नियोजयत्यनन्तात्मा ह्येतद् वेदानुशासनम् ॥ ३.२३॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
(ईश्वरगीतासु) तृतीयोऽध्यायः ॥ ३॥
चतुर्थोऽध्यायः
ईश्वर उवाच ।
वक्ष्ये समाहिता यूयं शृणुध्वं ब्रह्मवादिनः ।
माहात्म्यं देवदेवस्य येने सर्वं प्रवर्त्तते ॥ ४.१॥
नाहं तपोभिर्विविधैर्न दानेन न चेज्यया ।
शक्यो हि पुरुषैर्ज्ञातुमृते भक्तिमनुत्तमाम् ॥ ४.२॥
अहं हि सर्वभावानामन्तस्तिष्ठामि सर्वगः ।
मां सर्वसाक्षिणं लोको न जानाति मुनीश्वराः ॥ ४.३॥
यस्यान्तरा सर्वमिदं यो हि सर्वान्तकः परः ।
सोऽहंधाता विधाता च कालोऽग्निर्विश्वतोमुखः ॥ ४.४॥
न मां पश्यन्ति मुनयः सर्वे पितृदिवौकसः ।
ब्रह्मा च मनवः शक्रो ये चान्ये प्रथितौजसः ॥ ४.५॥
गृणन्ति सततं वेदा मामेकं परमेश्वरम् ।
यजन्ति विविधैरग्निं ब्राह्मणा वैदिकैर्मखैः ॥ ४.६॥
सर्वे लोका नमस्यन्ति ब्रह्मा लोकपितामहः ।
ध्यायन्ति योगिनो देवं भूताधिपतिमीश्वरम् ॥ ४.७॥
अहं हि सर्वहविषां भोक्ता चैव फलप्रदः ।
सर्वदेवतनुर्भूत्वा सर्वात्मा सर्वसम्प्लुतः ॥ ४.८॥
मां पश्यन्तीह विद्वांशो धार्मिका वेदवादिनः ।
तेषां सन्निहितो नित्यं ये भक्त्या मामुपासते ॥ ४.९॥
ब्राह्मणाः क्षत्रिया वैश्या धार्मिका मामुपासते ।
तेषां ददामि तत् स्थानमानन्दं परमं पदम् ॥ ४.१०॥
अन्येऽपि ये स्वधर्मस्थाः शूद्राद्या नीचजातयः ।
भक्तिमन्तः प्रमुच्यन्ते कालेन मयि संगताः ॥ ४.११॥
न मद्भक्ता विनश्यन्ति मद्भक्ता वीतकल्मषाः ।
आदावेव प्रतिज्ञातं न मे भक्तः प्रणश्यति ॥ ४.१२॥
यो वै निन्दति तं मूढो देवदेवं स निन्दति ।
यो हि पूजयते भक्त्या स पूजयति मां सदा ॥ ४.१३॥
पत्रं पुष्पं फलं तोयं मदाराधनकारणात् ।
यो मे ददाति नियतं स मे भक्तः प्रियो मतः ॥ ४.१४॥
अहं हि जगतामादौ ब्रह्माणं परमेष्ठिनम् ।
विदधौ दत्तवान् वेदानशेषानात्मनिः सृतान् ॥ ४.१५॥
अहमेव हि सर्वेषां योगिनां गुरुरव्ययः ।
धार्मिकाणां च गोप्ताऽहं निहन्ता वेदविद्विषाम् ॥ ४.१६॥
अहं वै सर्वसंसारान्मोचको योगिनामिह ।
संसारहेतुरेवाहं सर्वसंसारवर्जितः ॥ ४.१७॥
अहमेव हि संहर्त्ता संस्रष्टा परिपालकः ।
मायावी मामीका शक्तिर्माया लोकविमोहिनी ॥ ४.१८॥
ममैव च परा शक्तिर्या सा विद्यते गीयते ।
नाशयामि च तां मायां योगिनां हृदि संस्थितः ॥ ४.१९॥
अहं हि सर्वशक्तीनां प्रवर्त्तकनिवर्त्तकः ।
आधारभूतः सर्वासां निधानममृतस्य च ॥ ४.२०॥
एका सर्वान्तरा शक्तिः करोति विविधं जगत् ।
आस्थाय ब्रह्माणो रूपं मन्मयी मदधिष्ठिता ॥ ४.२१॥
अन्या च शक्तिर्विपुला संस्थापयति मे जगत् ।
भूत्वा नारायणोऽनन्तो जगन्नाथो जगन्मयः ॥ ४.२२॥
तृतीया महती शक्तिर्निहन्ति सकलं जगत् ।
तामसी मे समाख्याता कालाख्या रुद्ररूपिणी ॥ ४.२३॥
ध्यानेन मां प्रपश्यन्ति केचिज्ज्ञानेन चापरे ।
अपरे भक्तियोगेन कर्मयोगेन चापरे ॥ ४.२४॥
सर्वेषामेव भक्तानामिष्टः प्रियतमो मम ।
यो हि ज्ञानेन मां नित्यमाराधयति नान्यथा ॥ ४.२५॥
अन्ये च हरये भक्ता मदाराधनकाङ्क्षिणः ।
तेऽपि मां प्राप्नुवन्त्येव नावर्त्तन्ते च वै पुनः ॥ ४.२६॥
मया ततमिदं कृत्सनं प्रधानपुरुषात्मकम् ।
मय्येव संस्थितं चित्तं मया सम्प्रेर्यते जगत् ॥ ४.२७॥
नाहं प्रेरयिता विप्राः परमं योगमाश्रितः ।
प्रेरयामि जगत्कृत्स्नमेतद्यो वेद सोऽमृतः ॥ ४.२८॥
पश्याम्यशेषमेवेदं वर्त्तमानं स्वभावतः ।
करोति कालो भगवान् महायोगेश्वरः स्वयम् ॥ ४.२९॥
योगः सम्प्रोच्यते योगी मायी शास्त्रेषु सूरिभिः ।
योगेश्वरोऽसौ भगवान् महादेवो महान् प्रभुः ॥ ४.३०॥
महत्त्वं सर्वतत्त्वानां वरत्वात् परमेष्ठिनः ।
प्रोच्यते भगवान् ब्रह्मा महान् ब्रह्मयोऽमलः ॥ ४.३१॥
यो मामेवं विजानाति महायोगेश्वरेश्वरम् ।
सोऽविकल्पेन योगेन युज्यते नात्र संशयः ॥ ४.३२॥
सोऽहं प्रेरयिता देवः परमानन्दमाश्रितः ।
नृत्यामि योगी सततं यस्तद् वेद स वेदवित् ॥ ४.३३॥
इति गुह्यतमं ज्ञानं सर्ववेदेषु निष्ठितम् ।
प्रसन्नचेतसे देयं धार्मिकायाहिताग्नये ॥ ४.३४॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
(ईश्वरगीतासु) चतुर्थोऽध्यायः ॥ ४॥
पञ्चमोऽध्यायः
व्यास उवाच ।
एतावदुक्त्वा भगवान् योगिनां परमेश्वरः ।
ननर्त्त परमं भावमैश्वरं सम्प्रदर्शयन् ॥ ५.१॥
तं ते ददृशुरीशानं तेजसां परमं निधिम् ।
नृत्यमानं महादेवं विष्णुना गगनेऽमले ॥ ५.२॥
यं विदुर्योगतत्त्वज्ञा योगिनो यतमानसाः ।
तमीशं सर्वभूतानामाकशे ददृशुः किल ॥ ५.३॥
यस्य मायामयं सर्वं येनेदं प्रेर्यते जगत् ।
नृत्यमानः स्वयं विप्रैर्विश्वेशः खलु दृश्यते ॥ ५.४॥
यत् पादपङ्कजं स्मृत्वा पुरुषोऽज्ञानजं भयम् ।
जहति नृत्यमानं तं भूतेशं ददृशुः किल ॥ ५.५॥
यं विनिद्रा जितश्वासाः शान्ता भक्तिसमन्विताः ।
ज्योतिर्मयं प्रपश्यन्ति स योगी दृश्यते किल ॥ ५.६॥
योऽज्ञानान्मोचयेत् क्षिप्रं प्रसन्नो भक्तवत्सलः ।
तमेव मोचनं रुद्रमाकाशे ददृशुः परम् ॥ ५.८॥
सहस्रशिरसं देवं सहस्रचरणाकृतिम् ।
सहस्रबाहुं जटिलं चन्द्रार्धकृतशेखरम् ॥ ५.८॥
वसानं चर्म वैयाघ्रं शूलासक्तमहाकरम् ।
दण्डपाणिं त्रयीनेत्रं सूर्यसोमाग्निलोचनम् ॥ ५.९॥
ब्रह्माण्डं तेजसा स्वेन सर्वमावृत्य च स्थितम् ।
दंष्ट्राकरालं दुर्द्धर्षं सूर्यकोटिसमप्रभम् ॥ ५.१०॥
अण्डस्थं चाण्डबाह्यस्थं बाह्यमभ्यन्तरं परम् ।
सृजन्तमनलज्वालं दहन्तमखिलं जगत् ।
नृत्यन्तं ददृशुर्देवं विश्वकर्माणमीश्वरम् ॥ ५.११॥
महादेवं महायोगं देवानामपि दैवतम् ।
पशूनां पतिमीशानं ज्योतिषां ज्योतिरव्ययम् ॥ ५.१२॥
पिनाकिनं विशालाक्षं भेषजं भवरोगिणाम् ।
कालात्मानं कालकालं देवदेवं महेश्वरम् ॥ ५.१३॥
उमापतिं विरूपाक्षं योगानन्दमयं परम् ।
ज्ञानवैराग्यनिलयं ज्ञानयोगं सनातनम् ॥ ५.१४॥
शाश्वतैश्वर्यविभवं धर्माधारं दुरासदम् ।
महेन्द्रोपेन्द्रनमितं महर्षिगणवन्दितम् ॥ ५.१५॥
आधारं सर्वशक्तीनां महायोगेश्वरेश्वरम् ।
योगिनां परमं ब्रह्म योगिनां योगवन्दितम् ।
योगिनां हृदि तिष्ठन्तं योगमायासमावृतम् ॥॥
क्षणेन जगतो योनिं नारायणमनामयम् ॥ ५.१६॥
ईश्वरेणैकतापन्नमपश्यन् ब्रह्मवादिनः ।
दृष्ट्वा तदैश्वरं रूपं रुद्रनारायणात्मकम् ।
कृतार्थं मेनिरे सन्तः स्वात्मानं ब्रह्मवादिनः ॥ ५.१८॥
सनत्कुमारः सनको भृगुश्चसनातनश्चैव सनन्दनश्च ।
रैभ्योऽङ्गिरा वामदेवोऽथ शुक्रो महर्षिरत्रिः कपिलो मरीचिः ॥ ५.१८॥
दृष्ट्वाऽथ रुद्रं जगदीशितारंतं पद्मनाभाश्रितवामभागम् ।
ध्यात्वा हृदिस्थं प्रणिपत्य मूर्ध्नाबद्ध्वाञ्जलिं स्वेषु
शिरः सु भूयः ॥ ५.१९॥
ओङ्कारमुच्चार्य विलोक्य देव-मन्तः शरीरे निहितं गुहायाम् ।
समस्तुवन् ब्रह्ममयैर्वचोभि-रानन्दपूर्णायतमानसास्ते ॥ ५.२०॥
मुनय ऊचुः
त्वामेकमीशं पुरुषं पुराणंप्राणेश्वरं रुद्रमनन्तयोगम् ।
नमाम सर्वे हृदि सन्निविष्टंप्रचेतसं ब्रह्ममयं पवित्रम् ॥ ५.२१॥
त्वां पश्यन्ति मुनयो ब्रह्मयोनिंदान्ताः शान्ता विमलं रुक्मवर्णम् ।
ध्यात्वात्मस्थमचलं स्वे शरीरे कविं परेभ्यः परमं परं च ॥ ५.२२॥
त्वत्तः प्रसूता जगतः प्रसूतिः सर्वात्मभूस्त्वं परमाणुभूतः ।
अणोरणीयान् महतो महीयां-स्त्वामेव सर्वं प्रवदन्ति सन्तः ॥ ५.२३॥
हिरण्यगर्भो जगदन्तरात्मा त्वत्तोऽधिजातः पुरुषः पुराणः ।
संजायमानो भवता विसृष्टो यथाविधानं सकलं ससर्ज ॥ ५.२४॥
त्वत्तो वेदाः सकलाः सम्प्रसूता-स्त्वय्येवान्ते संस्थितिं ते लभन्ते ।
पश्यामस्त्वां जगतो हेतुभूतं नृत्यन्तं स्वे हृदये सन्निविष्टम् ॥ ५.२५॥
त्वयैवेदं भ्राम्यते ब्रह्मचक्रंमायावी त्वं जगतामेकनाथः ।
नमामस्त्वां शरणं सम्प्रपन्नायोगात्मानं चित्पतिं दिव्यनृत्यम् ॥ ५.२६॥
पश्यामस्त्त्वां परमाकाशमध्येनृत्यन्तं ते महिमानं स्मरामः ।
सर्वात्मानं बहुधा सन्निविष्टंब्रह्मानन्दमनुभूयानुभूय ॥ ५.२८॥
ॐकारस्ते वाचको मुक्तिबीजंत्वमक्षरं प्रकृतौ गूढरूपम् ।
तत्त्वां सत्यं प्रवदन्तीह सन्तःस्वयंप्रभं भवतो यत्प्रभावम् ॥ ५.२८॥
स्तुवन्ति त्वां सततं सर्ववेदानमन्ति त्वामृषयः क्षीणदोषाः ।
शान्तात्मानः सत्यसंधं वरिष्ठविशन्ति त्वां यतयो ब्रह्मनिष्ठाः ॥ ५.२९॥
एको वेदो बहुशाखो ह्यनन्तस्त्वामेवैकं बोधयत्येकरूपम् ।
वंन्द्यं त्वां ये शरणं सम्प्रपन्ना-स्तेषां शान्तिः शाश्वती
नेतरेषाम् ॥ ५.३०॥
भवानीशोऽनादिमांस्तेजोराशि-र्ब्रह्मा विश्वं परमेष्ठी वरिष्टः ।
स्वात्मानन्दमनुभूय विशन्तेस्वयं ज्योतिरचलो नित्यमुक्ताः ॥ ५.३१॥
एको रुद्रस्त्वं करोषीह विश्वंत्वं पालयस्यखिलं विश्वरूपम् ।
त्वामेवान्ते निलयं विन्दतीदं नमामस्त्वां शरणं सम्प्रपन्नाः ॥ ५.३२॥
त्वामेकमाहुः कविमेकरुद्रंब्रह्मं बृहन्तं हरिमग्निमीशम् ।
इन्द्रं मृत्युमनिलं चेकितानंधातारमादित्यमनेकरूपम् ॥ ५.३३॥
त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् ।
त्वमव्ययः शाश्वतधर्मगोप्तासनातनस्त्वं पुरुषोत्तमोऽसि ॥ ५.३४॥
त्वमेव विष्णुश्चतुराननस्त्वं त्वमेव रुद्रो भगवानपीशः ।
त्वं विश्वनाथः प्रकृतिः प्रतिष्ठासर्वेश्वरस्त्वं
परमेश्वरोऽसि ॥ ५.३५॥
त्वामेकमाहुः पुरुषं पुराण-मादित्यवर्णं तमसः परस्तात् ।
चिन्मात्रमव्यक्तमचिन्त्यरूपंखं ब्रह्म शून्यं प्रकृतिं निर्गुणं
च ॥ ५.३६॥
यदन्तरा सर्वमिदं विभाति यदव्ययं निर्मलमेकरूपम् ।
किमप्यचिन्त्यं तव रूपमेतत् तदन्तरा यत्प्रतिभाति तत्त्वम् ॥ ५.३८॥
योगेश्वरं भद्रमनन्तशक्तिंपरायणं ब्रह्मतनुं पुराणम् ।
नमाम सर्वे शरणार्थिनस्त्वांप्रसीद भूताधिपते महेश ॥ ५.३८॥
त्वत्पादपद्मस्मरणादशेष-संसारबीजं निलयं प्रयाति ।
मनो नियम्य प्रणिधाय कायंप्रसादयामो वयमेकमीशम् ॥ ५.३९॥
नमो भवायास्तु भवोद्भवायकालाय सर्वाय हराय तुम्यम् ।
नमोऽस्तु रुद्राय कपर्दिने ते नमोऽग्नये देव नमः शिवाय ॥ ५.४०॥
ततः स भगवान् प्रीतः कपर्दी वृषवाहनः ।
संहृत्य परमं रूपं प्रकृतिस्थोऽभवद् भवः ॥ ५.४१॥
ते भवं बूतभव्येशं पूर्ववत् समवस्थितम् ।
दृष्ट्वा नारायणं देवं विस्मितं वाक्यमब्रुवन् ॥ ५.४२॥
भगवन् भूतभव्येश गोवृषाङ्कितशासन ।
दृष्ट्वा ते परमं रूपं निर्वृताः स्म सनातन ॥ ५.४३॥
भवत्प्रसादादमले परस्मिन् परमेश्वरे ।
अस्माकं जायते भक्तिस्त्वय्येवाव्यभिचारिणी ॥ ५.४४॥
इदानीं श्रोतुमिच्छामो माहात्म्यं तव शंकर ।
भूयोऽपि तारयन्नित्यं याथात्म्यं परमेष्ठिनः ॥ ५.४५॥
स तेषां वाक्यमाकर्ण्य योगिनां योगसिद्धिदः ।
प्राहः गम्भीरया वाचा समालोक्य च माधवम् ॥ ५.४६॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
(ईश्वरगीतासु) पञ्चमोऽध्यायः ॥ ५॥
षष्ठोऽध्यायः
ईश्वर उवाच ।
शृणुध्वमृषयः सर्वे यथावत् परमेष्ठिनः ।
वक्ष्यामीशस्य माहात्म्यं यत्तद्वेदविदो विदुः ॥ ६.१॥
सर्वलोकैकनिर्माता सर्वलोकैकरक्षिता ।
सर्वलोकैकसंहर्त्ता सर्वात्माऽहं सनातनः ॥ ६.२॥
सर्वेषामेव वस्तूनामन्तर्यामी महेश्वरः ।
मध्ये चान्तः स्थितं सर्वं नाहं सर्वत्र संस्थितः ॥ ६.३॥
भवद्भिरद्भुतं दृष्टं यत्स्वरूपं तु मामकम् ।
ममैषा ह्युपमा विप्रा मायया दर्शिता मया ॥ ६.४॥
सर्वेषामेव भावानामन्तरा समवस्थितः ।
प्रेरयामि जगत् कृत्स्नं क्रियाशाक्तिरियं मम ॥ ६.५॥
ययेदं चेष्टते विश्वं तत्स्वभावानुवर्त्ति च ।
सोऽहं कालो जगत् कृत्स्नं प्रेरयामि कलात्मकम् ॥ ६.६॥
एकांशेन जगत् कृत्स्नं करोमि मुनिपुंगवाः ।
संहराम्येकरूपेण स्थिताऽवस्था ममैव तु ॥ ६.७॥
आदिमध्यान्तनिर्मुक्तो मायातत्त्वप्रवर्त्तकः ।
क्षोभयामि च सर्गादौ प्रधानपुरुषावुभौ ॥ ६.८॥
ताभ्यां संजायते विश्वं संयुक्ताभ्यां परस्परम् ।
महदादिक्रमेणैव मम तेजो विजृम्भते ॥ ६.९॥
यो हि सर्वजगत्साक्षी कालचक्रप्रवर्त्तकः ।
हिरण्यगर्भो मार्त्तण्डः सोऽपि मद्देहसंभवः ॥ ६.१०॥
तस्मै दिव्यं स्वमैश्वर्यं ज्ञानयोगं सनातनम् ।
दत्तवानात्मजान् वेदान् कल्पादौ चतुरो द्विजाः ॥ ६.११॥
स मन्नियोगतो देवो ब्रह्मा मद्भावभावितः ।
दिव्यं तन्मामकैश्वर्यं सर्वदा वहति स्वयम् ॥ ६.१२॥
स सर्वलोकनिर्माता मन्नियोगेन सर्ववित् ।
भूत्वा चतुर्मुखः सर्गं सृजत्येवात्मसंभवः ॥ ६.१३॥
योऽपि नारायणोऽनन्तो लोकानां प्रभवाव्ययः ।
ममैव परमा मूर्तिः करोति परिपालनम् ॥ ६.१४॥
योऽन्तकः सर्वभूतानां रुद्रः कालात्मकः प्रभुः ।
मदाज्ञयाऽसौ सततं संहरिष्यति मे तनुः ॥ ६.१५॥
हव्यं वहति देवानां कव्यं कव्याशिनामपि ।
पाकं च कुरुते वह्निः सोऽपि मच्छक्तिनोदितः ॥ ६.१६॥
भुक्तमाहारजातं च पचते तदहर्निशम् ।
वैश्वानरोऽग्निर्भगवानीश्वरस्य नियोगतः ॥ ६.१७॥
योऽपि सर्वाम्भसां योनिर्वरुणो देवपुंगवः ।
सोऽपि संजीवयेत् कृत्स्नमीशस्यैव नियोगतः ॥ ६.१८॥
योऽन्तस्तिष्ठति भूतानां बहिर्देवः प्रभञ्जनः ।
मदाज्ञयाऽसौ भूतानां शरीराणि बिभर्ति हि ॥ ६.१९॥
योऽपि संजीवनो नॄणां देवानाममृताकरः ।
सोमः स मन्नियोगेन चोदितः किल वर्तते ॥ ६.२०॥
यः स्वभासा जगत् कृत्स्नं प्रकाशयति सर्वदा ।
सूर्यो वृष्टिं वितनुते शास्त्रेणैव स्वयंभुवः ॥ ६.२१॥
योऽप्यशेषजगच्छास्ता शक्रः सर्वामरेश्वरः ।
यज्वनां फलदो देवो वर्त्ततेऽसौ मदाज्ञया ॥ ६.२२॥
यः प्रशास्ता ह्यसाधूनां वर्त्तते नियमादिह ।
यमो वैवस्वतो देवो देवदेवनियोगतः ॥ ६.२३॥
योऽपि सर्वधनाध्यक्षो धनानां सम्प्रदायकः ।
सोऽपीश्वरनियोगेन कुबेरो वर्त्तते सदा ॥ ६.२४॥
यः सर्वरक्षसां नाथस्तामसानां फलप्रदः ।
मन्नियोगादसौ देवो वर्त्तते निरृतिः सदा ॥ ६.२५॥
वेतालगणभूतानां स्वामी भोगफलप्रदः ।
ईशानः किल भक्तानां सोऽपि तिष्ठन्ममाज्ञया ॥ ६.२६॥
यो वामदेवोऽङ्गिरसः शिष्यो रुद्रगणाग्रणीः ।
रक्षको योगिनां नित्यं वर्त्ततेऽसौ मदाज्ञया ॥ ६.२७॥
यश्च सर्वजगत्पूज्यो वर्त्तते विघ्नकारकः ।
विनायको धर्मरतः सोऽपि मद्वचनात् किल ॥ ६.२८॥
योऽपि ब्रह्मविदां श्रेष्ठो देवसेनापतिः प्रभुः ।
स्कन्दोऽसौ वर्त्तते नित्यं स्वयंभूर्विधिचोदितः ॥ ६.२९॥
ये च प्रजानां पतयो मरीच्याद्या महर्षयः ।
सृजन्ति विविधं लोकं परस्यैव नियोगतः ॥ ६.३०॥
या च श्रीः सर्वभूतानां ददाति विपुलां श्रियम् ।
पत्नी नारायणस्यासौ वर्त्तते मदनुग्रहात् ॥ ६.३१॥
वाचं ददाति विपुलां या च देवी सरस्वती ।
साऽपीश्वरनियोगेन चोदिता सम्प्रवर्त्तते ॥ ६.३२॥
याऽशेषपुरुषान् घोरान्नरकात् तारयिष्यति ।
सावित्री संस्मृता देवी देवाज्ञाऽनुविधायिनी ॥ ६.३३॥
पार्वती परमा देवी ब्रह्मविद्याप्रदायिनी ।
याऽपि ध्याता विशेषेण सापि मद्वचनानुगा ॥ ६.३४॥
योऽनन्तमहिमाऽनन्तः शेषोऽशेषामरप्रभुः ।
दधाति शिरसा लोकं सोऽपि देवनियोगतः ॥ ६.३५॥
योऽग्निः संवर्त्तको नित्यं वडवारूपसंस्थितः ।
पिबत्यखिलमम्भोधिमीश्वरस्य नियोगतः ॥ ६.३६॥
ये चतुर्दश लोकेऽस्मिन् मनवः प्रथितौजसः ।
पालयन्ति प्रजाः सर्वास्तेऽपि तस्य नियोगतः ॥ ६.३७॥
आदित्या वसवो रुद्रा मरुतश्च तथाऽश्विनौ ।
अन्याश्च देवताः सर्वा मच्छास्त्रेणैव निष्ठिताः ॥ ६.३८॥
गन्धर्वा गरुडा ऋक्षाः सिद्धाः साध्याश्चचारणाः ।
यक्षरक्षः पिशाचाश्च स्थिताः सृष्टाः स्वयंभुवः ॥ ६.३९॥
कलाकाष्ठानिमेषाश्च मुहूर्त्ता दिवसाः क्षपाः ।
ऋतवः पक्षमासाश्च स्थिताः शास्त्रे प्रजापतेः ॥ ६.४०॥
युगमन्वन्तराण्येव मम तिष्ठन्ति शासने ।
पराश्चैव परार्धाश्च कालभेदास्तथा परे ॥ ६.४१॥
चतुर्विधानि बूतानि स्थावराणि चराणि च ।
नियोगादेव वर्त्तन्ते देवस्य परमात्मनः ॥ ६.४२॥
पातालानि च सर्वाणि भुवनानि च शासनात् ।
ब्रह्माण्डानि च वर्त्तन्ते सर्वाण्येव स्वयंभुवः ॥ ६.४३॥
अतीतान्यप्यसंख्यानि ब्रह्माण्डानि ममाज्ञया ।
प्रवृत्तानि पदार्थौघैः सहितानि समन्ततः ॥ ६.४४॥
ब्रह्माण्डानि भविष्यन्ति सह वस्तुभिरात्मगैः ।
वहिष्यन्ति सदैवाज्ञां परस्य परमात्मनः ॥ ६.४५॥
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
भूतादिरादिप्रकृतिर्नियोगे मम वर्त्तते ॥ ६.४६॥
योऽशेषजगतां योनिर्मोहिनी सर्वदेहिनाम् ।
माया विवर्त्तते नित्यं सापीश्वरनियोगतः ॥ ६.४७॥
यो वै देहभृतां देवः पुरुषः पठ्यते परः ।
आत्माऽसौ वर्त्तते नित्यमीश्वरस्य नियोगतः ॥ ६.४८॥
विधूय मोहकलिलं यया पश्यति तत् पदम् ।
साऽपि बुद्धिर्महेशस्य नियोगवशवर्त्तिनी ॥ ६.४९॥
बहुनाऽत्र किमुक्तेन मम शक्त्यात्मकं जगत् ॥॥
मयैव प्रेर्यते कृत्स्नं मय्येव प्रलयं व्रजेत् ॥ ६.५०॥
अहं हि भगवानीशः स्वयं ज्योतिः सनातनः ।
परमात्मार परं ब्रह्म मत्तो ह्यन्यो न विद्यते ॥ ६.५१॥
इत्येतत् परमं ज्ञानं युष्माकं कथितं मया ।
ज्ञात्वा विमुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ ६.५२॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
(ईश्वरगीतासु) षष्ठोऽध्यायः ॥ ६॥
सप्तमोऽध्यायः
ईश्वर उवाच ।
शृणुध्वमृषयः सर्वे प्रभावं परमेष्ठिनः ।
यं ज्ञात्वा पुरुषो मुक्तो न संसारे पतेत् पुनः ॥ ७.१॥
परात् परतरं ब्रह्म शाश्वतं निष्कलं परम् ।
नित्यानन्दं निर्विकल्पं तद्धाम परमं मम ॥ ७.२॥
अहं ब्रह्मविदां ब्रह्मा स्वयंभूर्विश्वतोमुखः ।
मायाविनामहं देवः पुराणो हरिरव्ययः ॥ ७.३॥
योगिनामस्म्यहं शंभुः स्त्रीणां देवी गिरीन्द्रजा ।
आदित्यानामहं विष्णुर्वसूनामस्मि पावकः ॥ ७.४॥
रुद्राणां शंकरश्चाहं गरुडः पततामहम् ।
ऐरावतो गजेन्द्राणां रामः शस्त्रप्रभृतामहम् ॥ ७.५॥
ऋषीणां च वसिष्ठोऽहं देवानां च शतक्रतुः ।
शिल्पिनां विश्वकर्माऽहं प्रह्लादोऽस्म्यमरद्विषाम् ॥ ७.६॥
मुनीनामप्यहं व्यासो गणानां च विनायकः ।
वीराणां वीरभद्रोऽहं सिद्धानां कपिलो मुनिः ॥ ७.७॥
पर्वतानामहं मेरुर्नक्षत्राणां च चन्द्रमाः ।
वज्रं प्रहरणानां च व्रतानां सत्यमस्म्यहम् ॥ ७.८॥
अनन्तो भोगिनां देवः सेनानीनां च पावकिः ।
आश्रमाणां च गृहस्थोऽहमीश्वराणां महेश्वरः ॥ ७.९॥
महाकल्पश्च कल्पानां युगानां कृतमस्म्यहम् ।
कुबेरः सर्वयक्षाणां गणेशानां च वीरुकः ॥ ७.१०॥
प्रजापतीनां दक्षोऽहं निरृतिः सर्वरक्षसाम् ।
वायुर्बलवतामस्मि द्वीपानां पुष्करोऽस्म्यहम् ॥ ७.११॥
मृगेन्द्राणां च सिंहोऽहं यन्त्राणां धनुरेव च ।
वेदानां सामवेदोऽहं यजुषां शतरुद्रियम् ॥ ७.१२॥
सावित्री सर्वजप्यानां गुह्यानां प्रणवोऽस्म्यहम् ।
सूक्तानां पौरुषं सूक्तं ज्येष्ठसाम च सामसु ॥ ७.१३॥
सर्ववेदार्थविदुषां मनुः स्वायंभुवोऽस्म्यहम् ।
ब्रह्मावर्त्तस्तु देशानां क्षेत्राणामविमुक्तकम् ॥ ७.१४॥
विद्यानामात्मविद्याऽहं ज्ञानानामैश्वरं परम् ।
भूतानामस्म्यहं व्योम सत्त्वानां मृत्युरेव च ॥ ७.१५॥
पाशानामस्म्यहं माया कालः कलयतामहम् ।
गतीनां मुक्तिरेवाहं परेषां परमेश्वरः ॥ ७.१६॥
यच्चान्यदपि लोकेऽस्मिन् सत्त्वं तेजोबलाधिकम् ।
तत्सर्वं प्रतिजानीध्वं मम तेजोविजृम्भितम् ॥ ७.१७॥
आत्मानः पशवः प्रोक्ताः सर्वे संसारवर्त्तिनः ।
तेषां पतिरहं देवः स्मृतः पशुपतिर्बुधैः ॥ ७.१८॥
मायापाशेन बध्नामि पशूनेतान् स्वलीलया ।
मामेव मोचकं प्राहुः पशूनां वेदवादिनः ॥ ७.१९॥
मायापाशेन बद्धानां मोचकोऽन्यो न विद्यते ।
मामृते परमात्मानं भूताधिपतिमव्ययम् ॥ ७.२०॥
चतुर्विशतितत्त्वानि माया कर्म गुणा इति ।
एते पाशाः पशुपतेः क्लेशाश्च पशुबन्धनाः ॥ ७.२१॥
मनो बुद्धिरहंकारः खानिलाग्निजलानि भूः ।
एताः प्रकृतयस्त्वष्टौ विकाराश्च तथापरे ॥ ७.२२॥
श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं चैव तु पञ्चमम् ।
पायूपस्थं करौ पादौ वाक् चैव दशमी मता ॥ ७.२३॥
शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च ।
त्रयोविंशतिरेतानि तत्त्वानि प्राकृतानि ॥ ७.२४॥
चतुर्विंशकमव्यक्तं प्रधानं गुणलक्षणम् ।
अनादिमध्यनिधनं कारणं जगतः परम् ॥ ७.२५॥
सत्त्वं रजस्तमश्चेति गुणत्रयमुदाहृतम् ।
साम्यावस्थितिमेतेषामव्यक्तं प्रकृतिं विदुः ॥ ७.२६॥
सत्त्वं ज्ञानं तमोऽज्ञानं रजो मिश्रमुदाहृतम् ।
गुणानां बुद्धिवैषम्याद् वैषम्यं कवयो विदुः ॥ ७.२७॥
धर्माधर्माविति प्रोक्तौ पाशौ द्वौ कर्मसंज्ञितौ ।
मय्यर्पितानि कर्माणि नबन्धाय विमुक्तये ॥ ७.२८॥
अविद्यामस्मितां रागं द्वेषं चाभिनिवेशकम् ।
क्लेशाख्यांस्तान् स्वयं प्राह पाशानात्मनिबन्धनान् ॥ ७.२९॥
एतेषामेव पाशानां माया कारणमुच्यते ।
मूलप्रकृतिरव्यक्ता सा शक्तिर्मयि तिष्ठति ॥ ७.३०॥
स एव मूलप्रकृतिः प्रधानं पुरुषोऽपि च ।
विकारा महदादीनि देवदेवः सनातनः ॥ ७.३१॥
स एव बन्धः स च बन्धकर्त्तास एव पाशः पशुभृत्स एव ।
स वेद सर्वं न च तस्य वेत्तातमाहुराद्यं पुरुषं पुराणम् ॥ ७.३२॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
(ईश्वरगीतासु) सप्तमोऽध्यायः ॥ ७॥
अष्टमोऽध्यायः
ईश्वर उवाच ।
अन्यद् गुह्यतमं ज्ञानं वक्ष्ये ब्राह्मणपुंगवाः ।
येनासौ तरते जन्तुर्घोरं संसारसागरम् ॥ ८.१॥
अहं ब्रह्ममयः शान्तः शाश्वतो निर्मलोऽव्ययः ।
एकाकी भगवानुक्तः केवलः परमेश्वरः ॥ ८.२॥
मम योनिर्महद् ब्रह्म तत्र गर्भं दधाम्यहम् ।
मूल मायाभिधानं तं ततो जातमिदं जगत् ॥ ८.३॥
प्रधानं पुरुषो ह्यत्मा महान् भूतादिरेव च ।
तन्मात्राणि महाभूतानीन्द्रियाणि च जज्ञिरे ॥ ८.४॥
ततोऽण्डमभवद्धैमं सूर्यकोटिसमप्रभम् ।
तस्मिन् जज्ञे महाब्रह्मा मच्छक्त्या चोपबृंहितः ॥ ८.५॥
ये चान्ये बहवो जीवा मन्मयाः सर्व एव ते ।
न मां पश्यन्ति पितरं मायया मम मोहिताः ॥ ८.६॥
यासु योनिषु सर्वासु संभवन्ति हि मूर्त्तयः ।
तासां माया परा योनिर्मामेव पितरं विदुः ॥ ८.७॥
यो मामेवं विजानाति बीजिनं पितरं प्रभुम् ।
स धीरः सर्वलोकेषु न मोहमधिगच्छति ॥ ८.८॥
ईशानः सर्वविद्यानां भूतानां परमेश्वरः ।
ओङ्कारमूर्तिर्भगवानहं ब्रह्मा प्रजापतिः ॥ ८.९॥
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ ८.१०॥
समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम् ।
न हिनस्त्यात्मनात्मानं ततो याति परांगतिम् ॥ ८.११॥
विदित्वा सप्त सूक्ष्माणि षडङ्गं च महेश्वरम् ।
प्रधानविनियोगज्ञः परं ब्रह्माधिगच्छति ॥ ८.१२॥
सर्वज्ञता तृप्तिरनादिबोधः स्वतन्दता नित्यमलुप्तशक्तिः ।
अनन्तशक्तिश्च विभोर्विदित्वा षडाहुरङ्गानि महेश्वरस्य ॥ ८.१३॥
तन्मात्राणि मन आत्मा च तानि सूक्ष्माण्याहुः सप्ततत्त्वात्मकानि ।
या सा हेतुः प्रकृतिः सा प्रधानंबन्धः प्रोक्तो विनियोगोऽपि तेन ॥ ८.१४॥
या सा शक्तिः प्रकृतौ लीनरूपावेदेषूक्ता कारणं ब्रह्मयोनिः ।
तस्या एकः परमेष्ठी पुरस्ता-न्महेश्वरः पुरुषः सत्यरूपः ॥ ८.१५॥
ब्रहामा योगी परमात्मा महीयान् व्योमव्यापी वेदवेद्यः पुराणः ।
एको रुद्रो मृत्युमव्यक्तमेकंबीजं विश्वं देव एकः स एव ॥ ८.१६॥
तमेवैकं प्राहुरन्येऽप्यनेकं त्वेकात्मानं केचिदन्यंतमाहुः ।
अणोरणीयान् महतो महीयान् महादेवः प्रोच्यते वेदविद्भिः ॥ ८.१७॥
एवम् हि यो वेद गुहाशयं परं प्रभुं पुराणं पुरुषं विश्वरूपम् ।
हिरण्मयं बुद्धिमतां परां गतिंसबुद्धिमान् बुद्धिमतीत्य तिष्ठति ॥ ८.१८॥
इति श्रीकूर्मपाराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
(ईश्वरगीतासु) अष्टमोऽध्यायः ॥ ८॥
नवमोऽध्यायः
ऋषय ऊचुः ।
निष्कलो निर्मलो नित्यो निष्क्रियः परमेश्वरः ।
तन्नो वद महादेव विश्वरूपः कथं भवान् ॥ ९.१॥
ईश्वर उवाच ।
नाहं विश्वो न विश्वं च मामृते विद्यते द्विजाः ।
मायानिमित्तमत्रास्ति सा चात्मनि मया श्रिता ॥ ९.२॥
अनादिनिधना शक्तिर्मायाऽव्यक्तसमाश्रया ।
तन्निमित्तः प्रपञ्चोऽयमव्यक्तादभवत् खलु ॥ ९.३॥
अव्यक्तं कारणं प्राहुरानन्दं ज्योतिरक्षरम् ।
अहमेव परं ब्रह्म मत्तो ह्यन्यन्न विद्यते ॥ ९.४॥
तस्मान्मे विश्वरूपत्वं निश्चितं ब्रह्मवादिभिः ।
एकत्वे च पृथक्त्वं च प्रोक्तमेतन्निदर्शनम् ॥ ९.५॥
अहं तत् परमं ब्रह्म परमात्मा सनातनः ।
अकारणं द्विजाः प्रोक्तो न दोषो ह्यात्मनस्तथा ॥ ९.६॥
अनन्ता शक्तयोऽव्यक्ता मायया संस्थिता ध्रुवाः ।
तस्मिन् दिवि स्थितं नित्यमव्यक्तं भाति केवलम् ॥ ९.७॥
याभिस्तल्लक्ष्यते भिन्नं ब्रग्माव्यक्तं सनातनम् ।
एकया मम सायुज्यमनादिनिधनं ध्रुवम् ॥ ९.८॥
पुंसोऽन्याभूद्यथा भूतिरन्यया न तिरोहितम् ।
अनादिमध्यं तिष्ठन्तं चेष्टतेऽविद्यया किल ॥ ९.९॥
तदेतत् परमं व्यक्तं प्रभामण्डलमण्डितम् ।
तदक्षरं परं ज्योतिस्तद् विष्णोः परमं पदम् ॥ ९.१०॥
तत्र सर्वमिदं प्रोतमोतं चैवाखिलं जगत् ।
तदेव च जगत् कृत्स्नं तद् विज्ञाय विमुच्यते ॥ ९.११॥
यतो वाचो निवर्त्तन्ते अप्राप्य मनसा सह ।
आनन्दं ब्रह्मणो विद्वान् विभेति न कुतश्चन ॥ ९.१२॥
वेदाहमेतं पुरुषं महान्त-
मादित्यवर्णं तमसः परस्तात् ।
तद् विज्ञाय परिमुच्येत विद्वान्
नित्यानन्दी भवति ब्रह्मभूतः ॥ ९.१३॥
यस्मात् परं नापरमस्ति किञ्चित्
यज्ज्योतिषां ज्योतिरेकं दिविस्थम् ।
तदेवात्मानं मन्यमानोऽथ विद्वा-
नात्मनन्दी भवति ब्रह्मभूतः ॥ ९.१४॥
तदप्ययं कलिलं गूढदेहं
ब्रह्मानन्दममृतं विश्वधामा ।
वदन्त्येवं ब्राह्मणा ब्रह्मनिष्ठा
यत्र गत्वा न निवर्त्तेत भूयः ॥ ९.१५॥
हिरण्मये परमाकाशतत्त्वे
यदर्चिषि प्रविभातीव तेजः ।
तद्विज्ञाने परिपश्यन्ति धीरा
विभ्राजमानं विमलं व्योम धाम ॥ ९.१६॥
ततः परं परिपश्यन्ति धीरा
आत्मन्यात्मानमनुभूय साक्षात् ।
स्वयंप्रभुः परमेष्ठी महीयान्
ब्रह्मानन्दी भगवानीश एषः ॥ ९.१७॥
एको देवः सर्वभूतेषु गूढः
सर्वव्यापी सर्वभूतान्तरात्मा ।
तमेवैकं येऽनुपश्यन्ति धीरा-
स्तेषां शान्तिः शाश्वतीनेतरेषाम् ॥ ९.१८॥
सर्वायनशिरोग्रीवः सर्वभूतगुहाशयः ।
सर्वव्यापी च भगवान् न तस्मादन्यदिष्यते ॥ ९.१९॥
इत्येतदैश्वरं ज्ञानमुक्तं वो मुनिपुंगवाः ।
गोपनीयं विशेषेण योगिनामपि दुर्लभम् ॥ ९.२०॥
इति श्रीकूर्मपाराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
(ईश्वरगीतासु) नवमोऽध्यायः ॥ ९॥
दशमोऽध्यायः
ईश्वर उवाच ।
अलिङ्गमेकमव्यक्तं लिङ्गं ब्रह्मेति निश्चितम् ।
स्वयंज्योतिः परं तत्त्वं परे व्योम्नि व्यवस्थितम् ॥ १०.१॥
अव्यक्तं कारणं यत्तदक्षरं परमं पदम् ।
निर्गुणं शुद्धविज्ञानं तद् वै पश्यन्ति सूरयः ॥ १०.२॥
तन्निष्ठाः शान्तसंकल्पा नित्यं तद्भावभाविताः ।
पश्यन्ति तत् परं ब्रह्म यत्तल्लिङ्गमिति श्रुतिः ॥ १०.३॥
अन्यथा नहि मां द्रष्टुं शक्यं वै मुनिपुंगवाः ।
नहि तद् विद्यते ज्ञानं यतस्तज्ज्ञायते परम् ॥ १०.४॥
एतत्तत्परमं ज्ञानं केवलं कवयो विदुः ।
अज्ञानमितरत् सर्वं यस्मान्मायामयं जगत् ॥ १०.५॥
यज्ज्ञानं निर्मलं शुद्धं निर्विकल्पं यदव्ययम् ।
ममात्माऽसौ तदेवेमिति प्राहुर्विपश्चितः ॥ १०.६॥
येऽप्यनेकं प्रपश्यन्ति तेऽपि पश्यन्ति तत्परम् ।
आश्रिताः परमां निष्ठां बुद्ध्वैकं तत्त्वमव्ययम् ॥ १०.७॥
ये पुनः परमं तत्त्वमेकं वानेकमीश्वरम् ।
भक्त्या मां सम्प्रपश्यन्ति विज्ञेयास्ते तदात्मकाः ॥ १०.८॥
साक्षादेव प्रपश्यन्ति स्वात्मानं परमेश्वरम् ।
नित्यानन्दं निर्विकल्पं सत्यरूपमिति स्थितिः ॥ १०.९॥
भजन्ते परमानन्दं सर्वगं जगदात्मकम् ।
स्वात्मन्यवस्थिताः शान्ताः परऽव्यक्ते परस्य तु ॥ १०.१०॥
एषा विमुक्तिः परमा मम सायुज्यमुत्तमम् ।
निर्वाणं ब्रह्मणा चैक्यं कैवल्यं कवयो विदुः ॥ १०.११॥
तस्मादनादिमध्यान्तं वस्त्वेकं परमं शिवम् ।
स ईश्वरो महादेवस्तं विज्ञाय प्रमुच्यते ॥ १०.१२॥
न तत्र सूर्यः प्रविभातीह चन्द्रो
नक्षत्राणां गणो नोत विद्युत् ।
तद्भासितं ह्यखिलं भाति विश्वं
अतीवभासममलं तद्विभाति ॥ १०.१३॥
विश्वोदितं निष्कलं निर्विकल्पं
शुद्धं बृहन्तं परमं यद्विभाति ।
अत्रान्तरे ब्रह्मविदोऽथ नित्यं
पश्यन्ति तत्त्वमचलं यत् स ईशः ॥ १०.१४॥
नित्यानन्दममृतं सत्यरूपं
शुद्धं वदन्ति पुरुषं सर्ववेदाः ।
तमोमिति प्रणवेनेशितारं
धायायन्ति वेदार्थविनिश्चितार्थाः ॥ १०.१५॥
न भूमिरापो न मनो न वह्निः
प्राणोऽनिलो गगनं नोत बुद्धिः ।
न चेतनोऽन्यत् परमाकाशमध्ये
विभाति देवः शिव एव केवलः ॥ १०.१६॥
इत्येतदुक्तं परमं रहस्यं
ज्ञानामृतं सर्ववेदेषु गूढम् ।
जानाति योगी विजनेऽथ देशे
युञ्जीत योगं प्रयतो ह्यजस्त्रम् ॥ १०.१७॥
इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
(ईश्वरगीतासु) दशमोऽध्यायः ॥ १०॥
एकादशोऽध्यायः
ईश्वर उवाच ।
अतः परं प्रवक्ष्यामि योगं परमदुर्लभम् ।
येनात्मानं प्रपश्यन्ति भानुमन्तमिवेश्वरम् ॥ ११.१॥
योगाग्निर्दहति क्षिप्रमशेषं पापपञ्जरम् ।
प्रसन्नं जायते ज्ञानं साक्षान्निर्वाणसिद्धिदम् ॥ ११.२॥
योगात्संजायते ज्ञानं ज्ञानाद् योगः प्रवर्त्तते ।
योगज्ञानाभियुक्तस्य प्रसीदति महेश्वरः ॥ ११.३॥
एककालं द्विकालं वा त्रिकालं नित्यमेव वा ।
ये युञ्जन्ति महायोगं ते विज्ञेया महेश्वराः ॥ ११.४॥
योगस्तु द्विविधो ज्ञेयो ह्यभावः प्रथमो मतः ।
अपरस्तु महायोगः सर्वयोगोत्तमोत्तमः ॥ ११.५॥
शून्यं सर्वनिराभासं स्वरूपं यत्र चिन्त्यते ।
अभावयोगः स प्रोक्तो येनात्मानं प्रपश्यति ॥ ११.६॥
यत्र पश्यति चात्मानं नित्यानन्दं निरञ्जनम् ।
मयैक्यं स महायोगो भाषितः परमेश्वरः ॥ ११.७॥
ये चान्ये योगिनां योगाः श्रूयन्ते ग्रन्थविस्तरे ।
सर्वे ते ब्रह्मयोगस्य कलां नार्हन्ति षोडशीम् ॥ ११.८॥
यत्र साक्षात् प्रपश्यन्ति विमुक्ता विश्वमीश्वरम् ।
सर्वेषामेव योगानां स योगः परमो मतः ॥ ११.९॥
सहस्रशोऽथ शतशो ये चेश्वरबहिष्कृताः ।
न ते पश्यन्ति मामेकं योगिनो यतमानसाः ॥ ११.१०॥
प्राणायामस्तथा ध्यानं प्रत्याहारोऽथ धारणा ।
समाधिश्च मुनिश्रेष्ठा यमो नियम आसनम् ॥ ११.११॥
मय्येकचित्ततायोगो वृत्त्यन्तरनिरोधतः ।
तत्साधनानि चान्यानि युष्माकं कथितानि तु ॥ ११.१२॥
अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ ।
यमाः संक्षेपतः प्रोक्ताश्चित्तशुद्धिप्रदा नृणाम् ॥ ११.१३॥
कर्मणा मनसा वाचा सर्वभूतेषु सर्वदा ।
अक्लेशजननं प्रोक्ता त्वहिंसा परमर्षिभिः ॥ ११.१४॥
अहिंसायाः परो धर्मो नास्त्यहिंसा परं सुखम् ।
विधिना या भवेद्धिंसा त्वहिंसैव प्रकीर्त्तिता ॥ ११.१५॥
सत्येन सर्वमाप्नोति सत्ये सर्वं प्रतिष्ठितम् ।
यथार्थकथनाचारः सत्यं प्रोक्तं द्विजातिभिः ॥ ११.१६॥
परद्रव्यापहरणं चौर्यादऽथ बलेन वा ।
स्तेयं तस्यानाचरणादस्तेयं धर्मसाधनम् ॥ ११.१७॥
कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा ।
सर्वत्र मैथुनत्यागं ब्रह्मचर्यं प्रचक्षते ॥ ११.१८॥
द्रव्याणामप्यनादानमापद्यपि तथेच्छया ।
अपरिग्रहं इत्याहुस्तं प्रयत्नेन पालयेत् ॥ ११.१९॥
तपः स्वाध्यायसंतोषौ शौचमीश्वरपूजनम् ।
समासान्नियमाः प्रोक्ता योगसिद्धिप्रदायिनः ॥ ११.२०॥
उपवासपराकादिकृच्छ्रचान्द्रायणादिभिः ।
शरीरशोषणं प्राहुस्तापसास्तप उत्तमम् ॥ ११.२१॥
वेदान्तशतरुद्रीयप्रणवादिजपं बुधाः ।
सत्त्वसिद्धिकरं पुंसां स्वाध्यायं परिचक्षते ॥ ११.२२॥
स्वाध्यायस्य त्रयो भेदा वाचिकोपांशुमानसाः ।
उत्तरोत्तरवैशिष्ट्यं प्राहुर्वेदार्थवेदिनः ॥ ११.२३॥
यः शब्दबोधजननः परेषां शृण्वतां स्फुटम् ।
स्वाध्यायो वाचिकः प्रोक्त उपांशोरथ लक्षणम् ॥ ११.२४॥
ओष्ठयोः स्पन्दमात्रेण परस्याशब्दबोधकम् ।
उपांशुरेष निर्दिष्टः साहस्रवाचिकोजपः ॥ ११.२५॥
यत्पदाक्षरसङ्गत्या परिस्पन्दनवर्जितम् ।
चिन्तनं सर्वशब्दानां मानसं तं जपं विदुः ॥ ११.२६॥
यदृच्छालाभतो नित्यमलं पुंसो भवेदिति ।
प्राशस्त्यमृषयः प्राहुः संतोषं सुखलक्षणम् ॥ ११.२७॥
बाह्यमाभ्यन्तरं शौचं द्विधा प्रोक्तं द्विजोत्तमाः ।
मृज्जलाभ्यां स्मृतं बाह्यं मनः शुद्धिरथान्तरम् ॥ ११.२८॥
स्तुतिस्मरणपूजाभिर्वाङ्मनः कायकर्मभिः ।
सुनिश्चला शिवे भक्तिरेतदीश्वरपूजनम् ॥ ११.२९॥
यमाश्च नियमाः प्रोक्ताः प्राणायामं निबोधत ।
प्राणः स्वदेहजो वायुरायामस्तन्निरोधनम् ॥ ११.३०॥
उत्तमाधममध्यत्वात् त्रिधाऽयं प्रतिपादितः ।
य एव द्विविधः प्रोक्तः सगर्भोऽगर्भ एव च ॥ ११.३१॥
मात्राद्वादशको मन्दश्चतुर्विशतिमात्रकः ।
मध्यमः प्राणसंरोधः षट्त्रिंशान्मात्रिकोत्तमः ॥ ११.३२॥
यः स्वेदकम्पनोच्छ्वासजनकस्तु यथाक्रमम् ।
मन्दमध्यममुख्यानामानन्दादुत्तमोत्तमः ॥ ११.३३॥
सगर्भमाहुः सजपमगर्भं विजपं बुधाः ।
एतद् वै योगिनामुक्तं प्राणायामस्य लक्षणम् ॥ ११.३४॥
सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।
त्रिर्जपेदायतप्राणः प्राणायामः स उच्यते ॥ ११.३५॥
रेचकः पूरकश्चैव प्राणायामोऽथ कुम्भकः ।
प्रोच्यते सर्वशास्त्रेषु योगिभिर्यतमानसैः ॥ ११.३६॥
रेचको बाह्यनिश्वासः पूरकस्तन्निरोधनः ।
साम्येन संस्थितिर्या सा कुम्भकः परिगीयते ॥ ११.३७॥
इन्द्रियाणां विचरतां विषयेषु स्वबावतः ।
निग्रहः प्रोच्यते सद्भिः प्रत्याहारस्तु सत्तमाः ॥ ११.३८॥
हृत्पुण्डरीके नाभ्यां वा मूर्ध्नि पर्वसुस्तके ।
एवमादिषु देशेषु धारणा चित्तबन्धनम् ॥ ११.३९॥
देशावस्थितिमालम्ब्य बुद्धेर्या वृत्तिसंततिः ।
वृत्त्यन्तरैरसृष्टा या तद्ध्यानं सूरयो विदुः ॥ ११.४०॥
एकाकारः समाधिः स्याद् देशालम्बनवर्जितः ।
प्रत्ययो ह्यर्थमात्रेण योगसाधनमुत्तमम् ॥ ११.४१॥
धारणा द्वादशायामा ध्यानं द्वादशधारणाः ।
ध्यानं द्वादशकं यावत् समाधिरभिधीयते ॥ ११.४२॥
आसनं स्वस्तिकं प्रोक्तं पद्ममर्द्धासनं तथा ।
साधनानां च सर्वेषामेतत्साधनमुत्तमम् ॥ ११.४३॥
ऊर्वोरुपरि विप्रेन्द्राः कृत्वा पादतले उभे ।
समासीनात्मनः पद्ममेतदासनमुत्तमम् ॥ ११.४४॥
एकं पादमथैकस्मिन् विष्टभ्योरसि सत्तमाः ।
आसीनार्द्धासनमिदं योगसाधनमुत्तमम् ॥ ११.४५॥
उभे कृत्वा पादतले जानूर्वोरन्तरेण हि ।
समासीतात्मनः प्रोक्तमासनं स्वस्तिकं परम् ॥ ११.४६॥
अदेशकाले योगस्य दर्शनं हि न विद्यते ।
अग्न्यभ्यासे जले वाऽपि शुष्कपर्णचये तथा ॥ ११.४७॥
जन्तुव्याप्ते श्मशाने च जीर्णगोष्ठे चतुष्पथे ।
सशब्दे सभये वाऽपि चैत्यवल्मीकसंचये ॥ ११.४८॥
अशुभे दुर्जनाक्रान्ते मशकादिसमन्विते ।
नाचरेद् देहबाधे वा दौर्मनस्यादिसंभवे ॥ ११.४९॥
सुगुप्ते सुशुभे देशे गुहायां पर्वतस्य तु ।
नद्यास्तीरे पुण्यदेशे देवतायतने तथा ॥ ११.५०॥
गृहे वा सुशुभे रम्ये विजने जन्तुवर्जिते ।
युञ्जीत योगी सततमात्मानं मत्परायणः ॥ ११.५१॥
नमस्कृत्याथ योगीन्द्रान् सशिष्यांश्च विनायकम् ।
गुरुं चैवाथ मां योगी युञ्जीत सुसमाहितः ॥ ११.५२॥
आसनं स्वस्तिकं बद्ध्वा पद्ममर्द्धमथापि वा ।
नासिकाग्रे समां दृष्टिमीषदुन्मीलितेक्षणः ॥ ११.५३॥
कृत्वाऽथ निर्भयः शान्तस्त्यक्त्वा मायामयं जगत् ।
स्वात्मन्यवस्थितं देवं चिन्तयेत् परमेश्वरम् ॥ ११.५४॥
शिखाग्रे द्वादशाङ्गुल्ये कल्पयित्वाऽथ पङ्कजम् ।
धर्मकन्दसमुद्भूतं ज्ञाननालं सुशोभनम् ॥ ११.५५॥
ऐश्वर्याष्टदलं श्वेतं परं वैराग्यकर्णिकम् ।
चिन्तयेत् परमं कोशं कर्णिकायां हिरण्मयम् ॥ ११.५६॥
सर्वशक्तिमयं साक्षाद् यं प्राहुर्दिव्यमव्ययम् ।
ओंकारवाच्यमव्यक्तं रश्मिजालसमाकुलम् ॥ ११.५७॥
चिन्तयेत् तत्र विमलं परं ज्योतिर्यदक्षरम् ।
तस्मिन् ज्योतिषि विन्यस्यस्वात्मानं तदभेदतः ॥ ११.५८॥
ध्यायीताकाशमध्यस्थमीशं परमकारणम् ।
तदात्मा सर्वगो भूत्वा न किंचिदपि चिन्तयेत् ॥ ११.५९॥
एतद् गुह्यतमं ध्यानं ध्यानान्तरमथोच्यते ।
चिन्तयित्वा तु पूर्वोक्तं हृदये पद्ममुत्तमम् ॥ ११.६०॥
आत्मानमथ कर्त्तारं तत्रानलसमत्विषम् ।
मध्ये वह्निशिखाकारं पुरुषं पञ्चविंशकम् ॥ ११.६१॥
चिन्तयेत् परमात्मानं तन्मध्ये गगनं परम् ।
ओंकरबोधितं तत्त्वं शाश्वतं शिवमच्युतम् ॥ ११.६२॥
अव्यक्तं प्रकृतौ लीनं परं ज्योतिरनुत्तमम् ।
तदन्तः परमं तत्त्वमात्माधारं निरञ्जनम् ॥ ११.६३॥
ध्यायीत तन्मयो नित्यमेकरूपं महेश्वरम् ।
विशोध्य सर्वतत्त्वानि प्रणवेनाथवा पुनः ॥ ११.६४॥
संस्थाप्य मयि चात्मानं निर्मले परमे पदे ।
प्लावयित्वात्मनो देहं तेनैव ज्ञानवारिणा ॥ ११.६५॥
मदात्मा मन्मना भस्म गृहीत्वा त्वग्निहोत्रजम् ।
तेनोद्धृत्य तु सर्वाङ्गमग्निरित्यादिमन्त्रतः ॥ ११.६६॥
चिन्तयेत् स्वात्मनीशानं परं ज्योतिः स्वरूपिणम् ।
एष पाशुपतो योगः पशुपाशविमुक्तये ॥ ११.६७॥
सर्ववेदान्तसारोऽयमत्याश्रममिति श्रुतिः ।
एतत् परतरं गुह्यं मत्सायुज्य प्रदायकम् ॥ ११.६८॥
द्विजातीनां तु कथितं भक्तानां ब्रह्मचारिणाम् ।
ब्रह्मचर्यमहिंसा च क्षमा शौचं तपो दमः ॥ ११.६९॥
संतोषः सत्यमास्तिक्यं व्रताङ्गानि विशेषतः ।
एकेनाप्यथ हीनेन व्रतमस्य तु लुप्यते ॥ ११.७०॥
तस्मादात्मुगुणोपेतो मद्व्रतं वोढुमर्हति ।
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ॥ ११.७१॥
बहवोऽनेन योगेन पूता मद्भावमागताः ।
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ॥ ११.७२॥
ज्ञानयोगेन मां तस्माद् यजेत परमेश्वरम् ।
अथवा भक्तियोगेन वैराग्येण परेण तु ॥ ११.७३॥
चेतसा बोधयुक्तेन पूजयेन्मां सदा शुचिः ।
सर्वकर्माणि संन्यस्य भिक्षाशी निष्परिग्रहः ॥ ११.७४॥
प्राप्नोति मम सायुज्यं गुह्यमेतन्मयोदितम् ।
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ॥ ११.७५॥
निर्ममो निरहंकारो यो मद्भक्तः स मे प्रियः ।
संतुष्टः सततं योगी यतात्मा दृढनिश्चयः ॥ ११.७६॥
मय्यर्पितमनो बुद्धिर्यो मद्भक्तः स मे प्रियः ।
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ॥ ११.७७॥
हर्षामर्षभयोद्वेगैर्मुक्तो यः स हि मे प्रियः ।
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ॥ ११.७८॥
सर्वारम्भपरित्यागी भक्तिमान् यः स मे प्रियः ।
तुल्यनिन्दास्तुतिर्मौनी संतुष्टो येन केनचित् ॥ ११.७९॥
अनिकेतः स्थिरमतिर्मद्भक्तो मामुपैष्यति ।
सर्वकर्माण्यपि सदा कुर्वाणो मत्परायणः ॥ ११.८०॥
मत्प्रसादादवाप्नोति शाश्वतं परमं पदम् ।
चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः ॥ ११.८१॥
निराशीर्निर्ममो भूत्वा मामेकं शरणं व्रजेत् ।
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ॥ ११.८२॥
कर्मण्यपिप्रवृत्तोऽपि नैव तेन निबध्यते ।
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ॥ ११.८३॥
शारीरं केवलं कर्म कुर्वन्नाप्नोति तत्पदम् ।
यदृच्छालाभतुष्टस्य द्वन्द्वातीतस्य चैव हि ॥ ११.८४॥
कुर्वतो मत्प्रसादार्थं कर्म संसारनाशनम् ।
मन्मना मन्नमस्कारो मद्याजी मत्परायणः ॥ ११.८५॥
मामुपास्ते योगीशं ज्ञात्वा मां परमेश्वरम् ।
मद्बुद्धयो मां सततं बोधयन्तः परस्परम् ॥ ११.८६॥
कथयन्तश्च मां नित्यं मम सायुज्यमाप्नुयुः ।
एवं नित्याभियुक्तानां मायेयं कर्मसान्वगम् ॥ ११.८७॥
नाशयामि तमः कृत्स्नं ज्ञानदीपेन भास्वता ।
मद्बुद्धयो मां सततं पूजयन्तीह ये जनाः ॥ ११.८८॥
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ।
येऽन्ये च कामभोगार्थं यजन्ते ह्यन्यदेवताः ॥ ११.८९॥
तेषां तदन्तं विज्ञेयं देवतानुगतं फलम् ।
ये चान्यदेवताभक्ताः पूजयन्तीह देवताः ॥ ११.९०॥
मद्भावनासमायुक्ता मुच्यन्ते तेऽपि मानवाः ।
तस्माद्विनश्वरानन्यांस्त्यक्त्वा देवानशेषतः ॥ ११.९१॥
मामेव संश्रयेदीशं स याति परमं पदम् ।
त्यक्त्वा पुत्रादिषु स्नेहं निः शोको निष्परिग्रहः ॥ ११.९२॥
यजेच्चामरणाल्लिङ्गं विरक्तः परमेश्वरम् ।
येऽर्चयन्ति सदा लिङ्गं त्यक्त्वा भोगानशेषतः ॥ ११.९३॥
एकेन जन्मना तेषां ददामि परमैश्वरम् ।
परात्मनः सदा लिङ्गं केवलं सन्निरञ्जनम् ॥ ११.९४॥
ज्ञानात्मकं सर्वगतं योगिनां हृदि संस्थितम् ।
ये चान्ये नियता भक्ता भावयित्वा विधानतः ॥ ११.९५॥
यत्र क्वचन तल्लिङ्गमर्चयन्ति महेश्वरम् ।
जले वा वह्निमध्ये वा व्योम्नि सूर्येऽथवाऽन्यतः ॥ ११.९६॥
रत्नादौ भावयित्वेशमर्चयेल्लिङ्गमैश्वरम् ।
सर्वं लिङ्गमयं ह्येतत् सर्वं लिङ्गे प्रतिष्ठितम् ॥ ११.९७॥
तस्माल्लिङ्गेऽर्चयेदीशं यत्र क्वचन शाश्वतम् ।
अग्नौ क्रियावतामप्सु व्योम्नि सूर्ये मनीषिणाम् ॥ ११.९८॥
काष्ठादिष्वेव मूर्खाणां हृदि लिङ्गंतुयोगिनाम् ।
यद्यनुत्पन्निविज्ञानो विरक्तः प्रीतिसंयुतः ॥ ११.९९॥
यावज्जीवं जपेद् युक्तः प्रणवं ब्रह्मणो वपुः ।
अथवा शतरुद्रीयं जपेदामरणाद् द्विजः ॥ ११.१००॥
एकाकी यतचित्तात्मा स याति परमं पदम् ।
वसेच्चामरणाद् विप्रो वाराणस्यां समाहितः ॥ ११.१०१॥
सोऽपीश्वरप्रसादेन याति तत् परमं पदम् ।
तत्रोत्क्रमणकाले हि सर्वेषामेव देहिनाम् ॥ ११.१०२॥
ददाति तत् परं ज्ञानं येन मुच्यते बन्धनात् ।
वर्णाश्रमविधिं कृत्स्नं कुर्वाणो मत्परायणः ॥ ११.१०३॥
तेनैव जन्मना ज्ञानं लब्ध्वा याति शिवं पदम् ।
येऽपि तत्र वसन्तीह नीचा वा पापयोनयः ॥ ११.१०४॥
सर्वे तरन्ति संसारमीश्वरानुग्रहाद् द्विजाः ।
किन्तु विघ्ना भविष्यन्ति पापोपहतचेतसाम् ॥ ११.१०५॥
धर्मन् समाश्रयेत् तस्मान्मुक्तये नियतं द्विजाः ।
एतद् रहस्यं वेदानां न देयं यस्य कस्य चित् ॥ ११.१०६॥
धार्मिकायैव दातव्यं भक्ताय ब्रह्मचारिणे ।
व्यास उवाच ।
इत्येतदुक्त्वा भगवानात्मयोगमनुत्तमम् ॥ ११.१०७॥
व्याजहार समासीनं नारायणमनामयम् ।
मयैतद् भाषितं ज्ञानं हितार्थं ब्रह्मवादिनाम् ॥ ११.१०८॥
दातव्यं शान्तचित्तेभ्यः शिष्येभ्यो भवता शिवम् ।
उक्त्वैवमर्थं योगीन्द्रानब्रवीद् भगवानजः ॥ ११.१०९॥
हिताय सर्वभक्तानां द्विजातीनां द्विजोत्तमाः ।
भवन्तोऽपि हि मज्ज्ञानं शिष्याणां विधिपूर्वकम् ॥ ११.११०॥
उपदेक्ष्यन्ति भक्तानां सर्वेषां वचनान्मम ।
अयं नारायणो योऽहमीश्वरो नात्र संशयः ॥ ११.१११॥
नान्तरं ये प्रपश्यन्ति तेषां देयमिदं परम् ।
ममैषा परमा मूर्त्तिर्नारायणसमाह्वया ॥ ११.११२॥
सर्वभूतात्मभूतस्था शान्ता चाक्षरसंज्ञिता ।
ये त्वन्यथा प्रपश्यन्ति लोके भेददृशो जनाः ॥ ११.११३॥
ते मुक्तिं प्रपश्यन्ति जायन्ते च पुनः पुनः ।
ये त्वेनं विष्णुमव्यक्तं माञ्च देवं महेश्वरम् ॥ ११.११४॥
एकीभावेन पश्यन्ति न तेषां पुनरुद्भवः ।
तस्मादनादिनिधनं विष्णुमात्मानमव्ययम् ॥ ११.११५॥
मामेव सम्प्रपश्यध्वं पूजयध्वं तथैव हि ।
येऽन्यथा मां प्रपश्यन्ति मत्वेवं देवतान्तरम् ॥ ११.११६॥
ते यान्ति नरकान् घोरान् नाहं तेषु व्यवस्थितः ।
मूर्खं वा पण्डितं वापि ब्राह्मणं वा मदाश्रयम् ॥ ११.११७॥
मोचयामि श्वपाकं वा न नारायणनिन्दकम् ।
तस्मादेष महायोगी मद्भक्तैः पुरुषोत्तमः ॥ ११.११८॥
अर्चनीयो नमस्कार्यो मत्प्रीतिजननाय हि ।
एवमुक्त्वा समालिङ्ग्य वासुदेवं पिनाकधृक् ॥ ११.११९॥
अन्तर्हितोऽभवत् तेषां सर्वेषामेव पश्यताम् ।
नारायणोऽपि भगवांस्तापसं वेषमुत्तमम् ॥ ११.१२०॥
जग्राह योगिनः सर्वांस्त्यक्त्वा वै परमं वपुः ।
ज्ञानं भवद्भिरमलं प्रसादात् परमेष्ठिनः ॥ ११.१२१॥
साक्षाद्देव महेशस्य ज्ञानं संसारनाशनम् ।
गच्छध्वं विज्वराः सर्वे विज्ञानं परमेष्ठिनः ॥ ११.१२२॥
प्रवर्त्तयध्वं शिष्येभ्यो धार्मिकेभ्यो मुनीश्वराः ।
इदं भक्ताय शान्ताय धार्मिकायाहिताग्नये ॥ ११.१२३॥
विज्ञानमैश्वरं देयं ब्राह्मणाय विशेषतः ।
एवमुक्त्वा स विश्वात्मा योगिनां योगवित्तमः ॥ ११.१२४॥
नारायणो महायोगी जगामादर्शनं स्वयम् ।
तेऽपि देवादिदेवेशं नमस्कृत्य महेश्वरम् ॥ ११.१२५॥
नारायणं च भूतादिं स्वानि स्थानानि लेभिरे ।
सनत्कुमारो भगवान् संवर्त्ताय महामुनिः ॥ ११.१२६॥
दत्तवानैश्वरं ज्ञानं सोऽपि सत्यव्रताय तु ।
सनन्दनोऽपि योगीन्द्रः पुलहाय महर्षये ॥ ११.१२७॥
प्रददौ गौतमायाथ पुलहोऽपि प्रजापतिः ।
अङ्गिरा वेदविदुषे भरद्वाजाय दत्तवान् ॥ ११.१२८॥
जैगीषव्याय कपिलस्तथा पञ्चशिखाय च ।
पराशरोऽपि सनकात् पिता मे सर्वतत्त्वदृक् ॥ ११.१२९॥
लेभेतत्परमं ज्ञानं तस्माद् वाल्मीकिराप्तवान् ।
ममोवाच पुरा देवः सतीदेहभवाङ्गजः ॥ ११.१३०॥
वामदेवो महायोगी रुद्रः किल पिनाकधृक् ।
नारायणोऽपि भगवान् देवकीतनयो हरिः ॥ ११.१३१॥
अर्जुनाय स्वयं साक्षात् दत्तवानिदमुत्तमम् ।
यदाहं लब्धवान् रुद्राद् वामदेवादनुत्तमम् ॥ ११.१३२॥
विशेषाद् गिरिशे भक्तिस्तस्मादारभ्य मेऽभवत् ।
शरण्यं शरणं रुद्रं प्रपन्नोऽहं विशेषतः ॥ ११.१३३॥
भूतेशं गिरशं स्थाणुं देवदेवं त्रिशूलिनम् ।
भवन्तोऽपि हि तं देवं शंभुं गोवृषवाहनम् ॥ ११.१३४॥
प्रपद्यन्तां सपत्नीकाः सपुत्राः शरणं शिवम् ।
वर्त्तध्वं तत्प्रसादेन कर्मयोगेन शंकरम् ॥ ११.१३५॥
पूजयध्वं महादेव गोपतिं व्यालभूषणम् ।
एवमुक्ते पुनस्ते तु शौनकाद्या महेश्वरम् ॥ ११.१३६॥
प्रणेमुः शाश्वतं स्थाणुं व्यासं सत्यवतीसुतम् ।
अब्रुवन् हृष्टमनसः कृष्णद्वैपायनं प्रभुम् ॥ ११.१३७॥
साक्षाद्देवं हृषीकेशं सर्वलोकमहेश्वरम् ।
भवत्प्रसादादचला शरण्ये गोवृषध्वजे ॥ ११.१३८॥
इदानीं जायते भक्तिर्या देवैरपि दुर्लभा ।
कथयस्व मुनिश्रेष्ठ कर्मयोगमनुत्तमम् ॥ ११.१३९॥
येनासौ भगवानीशः समाराध्यो मुमुक्षुभिः ।
त्वत्संनिधावेव सूतः शृणोतु भगवद्वचः ॥ ११.१४०॥
तद्वच्चाखिललोकानां रक्षणं धर्मसंग्रहम् ।
यदुक्तं देवदेवेन विष्णुना कूर्मरूपिणा ॥ ११.१४१॥
पृष्टेन मुनिभिः पूर्वं शक्रेणामृतमन्थने ।
श्रुत्वा सत्यवतीसूनुः कर्मयोगं सनातनम् ॥ ११.१४२॥
मुनीनां भाषितं कृत्स्नं प्रोवाच सुसमाहितः ।
य इमं पठते नित्यं संवादं कृत्तिवाससः ॥ ११.१४३॥
सनत्कुमारप्रमुखैः सर्वपापैः प्रमुच्यते ।
श्रावयेद् वा द्विजान् शुद्धान् ब्रह्मचर्यपरायणान् ॥ ११.१४४॥
यो वा विचारयेदर्थं स याति परमां गतिम् ।
यश्चैतच्छृणुयान्नित्यं भक्तियुक्तो दृढव्रतः ॥ ११.१४५॥
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ।
तस्मात् सर्वप्रयत्नेन पठितव्यो मनीषिभिः ॥ ११.१४६॥
श्रोतव्यश्चाथ मन्तव्यो विशेषाद् ब्राह्मणैः सदा ॥ ११.१४७॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
(ईश्वरगीतासु) एकादशोऽध्यायः ॥ ११॥
॥ उतथ्यगीता ॥
अध्यायः ९१
यानङ्गिराः क्षत्रधर्मानुतथ्यो ब्रह्म वित्तमः ।
मान्धात्रे यौवनाश्वाय प्रीतिमानभ्यभाषत ॥ १॥
स यथानुशशासैनमुतथ्यो ब्रह्म वित्तमः ।
तत्ते सर्वं प्रवक्ष्यामि निखिलेन युधिष्ठिर ॥ २॥
धर्माय राजा भवति न कामकरणाय तु ।
मान्धातरेवं जानीहि राजा लोकस्य रक्षिता ॥ ३॥
राजा चरति वै धर्मं देवत्वायैव गच्छति ।
न चेद्धर्मं स चरति नरकायैव गच्छति ॥ ४॥
धर्मे तिष्ठन्ति भूतानि धर्मो राजनि तिष्ठति ।
तं राजा साधु यः शास्ति स राजा पृथिवीपतिः ॥ ५॥
राजा परमधर्मात्मा लक्ष्मीवान्पाप उच्यते ।
देवाश्च गर्हां गच्छन्ति धर्मो नास्तीति चोच्यते ॥ ६॥
अधर्मे वर्तमानानामर्थसिद्धिः प्रदृश्यते ।
तदेव मङ्गलं सर्वं लोकः समनुवर्तते ॥ ७॥
उच्छिद्यते धर्मवृत्तमधर्मो वर्तते महान् ।
भयमाहुर्दिवारात्रं यदा पापो न वार्यते ॥ ८॥
न वेदाननुवर्तन्ति व्रतवन्तो द्विजातयः ।
न यज्ञांस्तन्वते विप्रा यदा पापो न वार्यते ॥ ९॥
वध्यानामिव सर्वेषां मनो भवति विह्वलम् ।
मनुष्याणां महाराज यदा पापो न वार्यते ॥ १०॥
उभौ लोकावभिप्रेक्ष्य राजानमृषयः स्वयम् ।
असृजन्सुमहद्भूतमयं धर्मो भविष्यति ॥ ११॥
यस्मिन्धर्मो विराजेत तं राजानं प्रचक्षते ।
यस्मिन्विलीयते धर्मं तं देवा वेषलं विदुः ॥ १२॥
वृषो हि भगवान्धर्मो यस्तस्य कुरुते ह्यलम् ।
वृषलं तं विदुर्देवास्तस्माद्धर्मं न लोपयेत् ॥ १३॥
धर्मे वर्धति वर्धन्ति सर्वभूतानि सर्वदा ।
तस्मिन्ह्रसति हीयन्ते तस्माद्धर्मं प्रवर्धयेत् ॥ १४॥
धनात्स्रवति धर्मो हि धारणाद्वेति निश्चयः ।
अकार्याणां मनुष्येन्द्र स सीमान्त करः स्मृतः ॥ १५॥
प्रभवार्थं हि भूतानां धर्मः सृष्टः स्वयं भुवा ।
तस्मात्प्रवर्धयेद्धर्मं प्रजानुग्रह कारणात् ॥ १६॥
तस्माद्धि राजशार्दूल धर्मः श्रेष्ठ इति स्मृतः ।
स राजा यः प्रजाः शास्ति साधु कृत्पुरुषर्षभः ॥ १७॥
कामक्रोधावनादृत्य धर्ममेवानुपालयेत् ।
धर्मः श्रेयः करतमो राज्ञां भरतसत्तम ॥ १८॥
धर्मस्य ब्राह्मणा योनिस्तस्मात्तान्पूजयेत्सदा ।
ब्राह्मणानां च मान्धातः कामान्कुर्यादमत्सरी ॥ १९॥
तेषां ह्यकाम करणाद्राज्ञः सञ्जायते भयम् ।
मित्राणि च न वर्धन्ते तथामित्री भवन्त्यपि ॥ २०॥
ब्राह्मणान्वै तदासूयाद्यदा वैरोचनो बलिः ।
अथास्माच्छ्रीरपाक्रामद्यास्मिन्नासीत्प्रतापिनी ॥ २१॥
ततस्तस्मादपक्रम्य सागच्छत्पाकशासनम् ।
अथ सोऽन्वतपत्पश्चाच्छ्रियं दृष्ट्वा पुरन्दरे ॥ २२॥
एतत्फलमसूयाया अभिमानस्य चाभिभो ।
तस्माद्बुध्यस्व मान्धातर्मा त्वा जह्यात्प्रतापिनी ॥ २३॥
दर्पो नाम श्रियः पुत्रो जज्ञेऽधर्मादिति श्रुतिः ।
तेन देवासुरा राजन्नीताः सुबहुशो वशम् ॥ २४॥
राजर्षयश्च बहवस्तस्माद्बुध्यस्व पार्थिव ।
राजा भवति तं जित्वा दासस्तेन पराजितः ॥ २५॥
स यथा दर्पसहितमधर्मं नानुसेवते ।
तथा वर्तस्व मान्धातश्चिरं चेत्स्थातुमिच्छसि ॥ २६॥
मत्तात्प्रमत्तात्पोगण्डादुन्मत्ताच्च विशेषतः ।
तदभ्यासादुपावर्तादहितानां च सेवनात् ॥ २७॥
निगृहीतादमात्याच्च स्त्रीभ्यश्चैव विशेषतः ।
पर्वताद्विषमाद्दुर्गाद्धस्तिनोऽश्वात्सरीसृपात् ॥ २८॥
एतेभ्यो नित्ययत्तः स्यान्नक्तञ्चर्यां च वर्जयेत् ।
अत्यायं चाति मानं च दम्भं क्रोधं च वर्जयेत् ॥ २९॥
अविज्ञातासु च स्त्रीषु क्लीबासु स्वैरिणीषु च ।
परभार्यासु कन्यासु नाचरेन्मैथुनं नृपः ॥ ३०॥
कुलेषु पापरक्षांसि जायन्ते वर्णसङ्करात् ।
अपुमांसोऽङ्गहीनाश्च स्थूलजिह्वा विचेतसः ॥ ३१॥
एते चान्ये च जायन्ते यदा राजा प्रमाद्यति ।
तस्माद्राज्ञा विशेषेण वर्तितव्यं प्रजाहिते ॥ ३२॥
क्षत्रियस्य प्रमत्तस्य दोषः सञ्जायते महान् ।
अधर्माः सम्प्रवर्तन्ते प्रजा सङ्करकारकाः ॥ ३३॥
अशीते विद्यते शीतं शीते शीतं न विद्यते ।
अवृष्टिरति वृष्टिश्च व्याधिश्चाविशति प्रजाः ॥ ३४॥
नक्षत्राण्युपतिष्ठन्ति ग्रहा घोरास्तथापरे ।
उत्पाताश्चात्र दृश्यन्ते बहवो राजनाशनाः ॥ ३५॥
अरक्षितात्मा यो राजा प्रजाश्चापि न रक्षति ।
प्रजाश्च तस्य क्षीयन्ते ताश्च सोऽनु विनश्यति ॥ ३६॥
द्वावाददाते ह्येकस्य द्वयोश् च बहवोऽपरे ।
कुमार्यः सम्प्रलुप्यन्ते तदाहुर्नृप दूषणम् ॥ ३७॥
ममैतदिति नैकस्य मनुष्येष्ववतिष्ठते ।
त्यक्त्वा धर्मं यदा राजा प्रमादमनुतिष्ठति ॥ ३८॥
अध्यायः ९२
कालवर्षी च पर्जन्यो धर्मचारी च पार्थिवः ।
सम्पद्यदैषा भवति सा बिभर्ति सुखं प्रजाः ॥ १॥
यो न जानाति निर्हन्तुं वस्त्राणां रजको मलम् ।
रक्तानि वा शोधयितुं यथा नास्ति तथैव सः ॥ २॥
एवमेव द्विजेन्द्राणां क्षत्रियाणां विशाम् अपि ।
शूद्राश्चतुर्णां वर्णानां नाना कर्मस्ववस्थिताः ॥ ३॥
कर्म शूद्रे कृषिर्वैश्ये दण्डनीतिश्च राजनि ।
ब्रह्मचर्यं तपो मन्त्राः सत्यं चापि द्विजातिषु ॥ ४॥
तेषां यः क्षत्रियो वेद वस्त्राणामिव शोधनम् ।
शीलदोषान्विनिर्हन्तुं स पिता स प्रजापतिः ॥ ५॥
कृतं त्रेता द्वापरश्च कलिश्च भरतर्षभ ।
राजवृत्तानि सर्वाणि राजैव युगमुच्यते ॥ ६॥
चातुर्वर्ण्यं तथा वेदाश्चातुराश्रम्यमेव च ।
सर्वं प्रमुह्यते ह्येतद्यदा राजा प्रमाद्यति ॥ ७॥
राजैव कर्ता भूतानां राजैव च विनाशकः ।
धर्मात्मा यः स कर्ता स्यादधर्मात्मा विनाशकः ॥ ८॥
राज्ञो भार्याश्च पुत्राश्च बान्धवाः सुहृदस्तथा ।
समेत्य सर्वे शोचन्ति यदा राजा प्रमाद्यति ॥ ९॥
हस्तिनोऽश्वाश्च गावश्चाप्युष्ट्राश्वतर गर्दभाः ।
अधर्मवृत्ते नृपतौ सर्वे सीदन्ति पार्थिव ॥ १०॥
दुर्बलार्थं बलं सृष्टं धात्रा मान्धातरुच्यते ।
अबलं तन्महद्भूतं यस्मिन्सर्वं प्रतिष्ठितम् ॥ ११॥
यच्च भूतं स भजते भूता ये च तदन्वयाः ।
अधर्मस्थे हि नृपतौ सर्वे सीदन्ति पार्थिव ॥ १२॥
दुर्बलस्य हि यच्चक्षुर्मुनेराशीविषस्य च ।
अविषह्य तमं मन्ये मा स्म दुर्बलमासदः ॥ १३॥
दुर्बलांस्तात बुध्येथा नित्यमेवाविमानितान् ।
मा त्वां दुर्बलचक्षूंषि प्रदहेयुः स बान्धवम् ॥ १४॥
न हि दुर्बलदग्धस्य कुले किं चित्प्ररोहति ।
आमूलं निर्दहत्येव मा स्म दुर्बलमासदः ॥ १५॥
अबलं वै बलाच्छ्रेयो यच्चाति बलवद्बलम् ।
बलस्याबल दग्धस्य न किं चिदवशिष्यते ॥ १६॥
विमानितो हतोत्क्रुष्टस्त्रातारं चेन्न विन्दति ।
अमानुष कृतस्तत्र दण्डो हन्ति नराधिपम् ॥ १७॥
मा स्म तात बले स्थेया बाधिष्ठा मापि दुर्बलम् ।
मा त्वा दुर्बलचक्षूंषि धक्ष्यन्त्यग्निरिवाश्रयम् ॥ १८॥
यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि रोदताम् ।
तानि पुत्रान्पशून्घ्नन्ति तेषां मिथ्याभिशासताम् ॥ १९॥
यदि नात्मनि पुत्रेषु न चेत्पौत्रेषु नप्तृषु ।
न हि पापं कृतं कर्म सद्यः फलति गौरिव ॥ २०॥
यत्राबलो वध्यमानस्त्रातारं नाधिगच्छति ।
महान्दैवकृतस्तत्र दण्डः पतति दारुणः ॥ २१॥
युक्ता यदा जानपदा भिक्षन्ते ब्राह्मणा इव ।
अभीक्ष्णं भिक्षुदोषेण राजानं घ्नन्ति तादृशाः ॥ २२॥
राज्ञो यदा जनपदे बहवो राजपूरुषाः ।
अनयेनोपवर्तन्ते तद्राज्ञः किल्बिषं महत् ॥ २३॥
यदा युक्ता नयन्त्यर्थान्कामादर्थवशेन वा ।
कृपणं याचमानानां तद्राज्ञो वैशसं महत् ॥ २४॥
महावृक्षो जायते वर्धते च
तं चैव भूतानि समाश्रयन्ति ।
यदा वृक्षश्छिद्यते दह्यते वा
तदाश्रया अनिकेता भवन्ति ॥ २५॥
यदा राष्ट्रे धर्ममग्र्यं चरन्ति
संस्कारं वा राजगुणं ब्रुवाणाः ।
तैरेवाधर्मश्चरितो धर्ममोहात्
तूर्णं जह्यात्सुकृतं दुष्कृतं च ॥ २६॥
यत्र पापा ज्यायमानाश् चरन्ति
सतां कलिर्विन्दति तत्र राज्ञः ।
यदा राजा शास्ति नरान्नशिष्यान्
न तद्राज्ञ्य वर्धते भूमिपाल ॥ २७॥
यश्चामात्यं मानयित्वा यथार्हं
मन्त्रे च युद्धे च नृपो नियुज्ञ्यात् ।
प्रवर्धते तस्य राष्ट्रं नृपस्य
भुङ्क्ते महीं चाप्यखिलां चिराय ॥ २८॥
अत्रापि सुकृतं कर्म वाचं चैव सुभाषिताम् ।
समीक्ष्य पूजयन्राजा धर्मं प्राप्नोत्यनुत्तमम् ॥ २९॥
संविभज्य यदा भुङ्क्ते न चान्यानवमन्यते ।
निहन्ति बलिनं दृप्तं स राज्ञो धर्म उच्यते ॥ ३०॥
त्रायते हि यदा सर्वं वाचा कायेन कर्मणा ।
पुत्रस्यापि न मृष्येच्च स राज्ञो धर्म उच्यते ॥ ३१॥
यदा शारणिकान्राजा पुत्र वत्परिरक्षति ।
भिनत्ति न च मर्यादां स राज्ञो धर्म उच्यते ॥ ३२॥
यदाप्त दक्षिणैर्यज्ञैर्यजते श्रद्धयान्वितः ।
कामद्वेषावनादृत्य स राज्ञो धर्म उच्यते ॥ ३३॥
कृपणानाथ वृद्धानां यदाश्रु व्यपमार्ष्टि वै ।
हर्षं सञ्जनयन्नॄणां स राज्ञो धर्म उच्यते ॥ ३४॥
विवर्धयति मित्राणि तथारींश्चापकर्षति ।
सम्पूजयति साधूंश्च स राज्ञो धर्म उच्यते ॥ ३५॥
सत्यं पालयति प्राप्त्या नित्यं भूमिं प्रयच्छति ।
पूजयत्यतिथीन्भृत्यान्स राज्ञो धर्म उच्यते ॥ ३६॥
निग्रहानुग्रहौ चोभौ यत्र स्यातां प्रतिष्ठितौ ।
अस्मिँल्लोके परे चैव राजा तत्प्राप्नुते फलम् ॥ ३७॥
यमो राजा धार्मिकाणां मान्धातः परमेश्वरः ।
संयच्छन्भवति प्राणान्न संयच्छंस्तु पापकः ॥ ३८॥
ऋत्विक्पुरोहिताचार्यान्सत्कृत्यानवमन्य च ।
यदा सम्यक्प्रगृह्णाति स राज्ञो धर्म उच्यते ॥ ३९॥
यमो यच्छति भूतानि सर्वाण्येवाविशेषतः ।
तस्य राज्ञानुकर्तव्यं यन्तव्या विधिवत्प्रजाः ॥ ४०॥
सहस्राक्षेण राजा हि सर्व एवोपमीयते ।
स पश्यति हि यं धर्मं स धर्मः पुरुषर्षभ ॥ ४१॥
अप्रमादेन शिक्षेथाः क्षमां बुद्धिं धृतिं मतिम् ।
भूतानां सत्त्वजिज्ञासां साध्वसाधु च सर्वदा ॥ ४२॥
सङ्ग्रहः सर्वभूतानां दानं च मधुरा च वाक् ।
पौरजानपदाश्चैव गोप्तव्याः स्वा यथा प्रजाः ॥ ४३॥
न जात्वदक्षो नृपतिः प्रजाः शक्नोति रक्षितुम् ।
भरो हि सुमहांस्तात राज्यं नाम सुदुष्करम् ॥ ४४॥
तद्दण्डविन्नृपः प्राज्ञः शूरः शक्नोति रक्षितुम् ।
न हि शक्यमदण्डेन क्लीबेनाबुद्धिनापि वा ॥ ४५॥
अभिरूपैः कुले जातैर्दक्षैर्भक्तैर्बहुश्रुतैः ।
सर्वा बुद्धीः परीक्षेथास्तापसाश्रमिणाम् अपि ॥ ४६॥
ततस्त्वं सर्वभूतानां धर्मं वेत्स्यसि वै परम् ।
स्वदेशे परदेशे वा न ते धर्मो विनश्यति ॥ ४७॥
धर्मश्चार्थश्च कामश् च धर्म एवोत्तरो भवेत् ।
अस्मिँल्लोके परे चैव धर्मवित्सुखमेधते ॥ ४८॥
त्यजन्ति दारान्प्राणांश्च मनुष्याः प्रतिपूजिताः ।
सङ्ग्रहश्चैव भूतानां दानं च मधुरा च वाक् ॥ ४९॥
अप्रमादश्च शौचं च तात भूतिकरं महत् ।
एतेभ्यश्चैव मान्धातः सततं मा प्रमादिथाः ॥ ५०॥
अप्रमत्तो भवेद्राजा छिद्रदर्शी परात्मनोः ।
नास्य छिद्रं परः पश्येच्छिद्रेषु परमन्वियात् ॥ ५१॥
एतद्वृत्तं वासवस्य यमस्य वरुणस्य च ।
राजर्षीणां च सर्वेषां तत्त्वमप्यनुपालय ॥ ५२॥
तत्कुरुष्व महाराज वृत्तं राजर्षिसेवितम् ।
आतिष्ठ दिव्यं पन्थानमह्नाय भरतर्षभ ॥ ५३॥
धर्मवृत्तं हि राजानं प्रेत्य चेह च भारत ।
देवर्षिपितृगन्धर्वाः कीर्तयन्त्यमितौजसः ॥ ५४॥
स एवमुक्तो मान्धाता तेनोतथ्येन भारत ।
कृतवानविशङ्कस्तदेकः प्राप च मेदिनीम् ॥ ५५॥
भवानपि तथा सम्यङ्मान्धातेव महीपतिः ।
धर्मं कृत्वा महीं रक्षन्स्वर्गे स्थानमवाप्स्यसि ॥ ५६॥
॥ इति उतथ्यगीता समाप्ता ॥
॥ उत्तरगीता ॥
अखण्डं सच्चिदानन्दमवाङ्मनसगोचरम् ।
आत्मानमखिलाधारमाश्रयेऽभीष्टसिद्धये ॥
अर्जुन उवाच -
यदेकं निष्कलं ब्रह्म व्योमातीतं निरञ्जनम् ।
अप्रतर्क्यमविज्ञेयं विनाशोत्पत्तिवर्जितम् ॥ १॥
कारणं योगनिर्मुक्तं हेतुसाधनवर्जितम् ।
हृदयाम्बुजमध्यस्थं ज्ञानज्ञेयस्वरूपकम् ॥ २॥
तत्क्षणादेव मुच्येत यज्ज्ञानाद्ब्रूहि केशव ।
श्रीभगवानुवाच -
साधु पृष्टं महाबाहो बुद्धिमानसि पाण्डव ॥ ३॥
यन्मां पृच्छसि तत्त्वार्थमशेषं प्रवदाम्यहम् ।
आत्ममन्त्रस्य हंसस्य परस्परसमन्वयात् ॥ ४॥
योगेन गतकामानां भावना ब्रह्म चक्षते ।
शरीरिणामजस्यान्तं हंसत्वं पारदर्शनम् ॥ ५॥
हंसो हंसाक्षरं चैतत्कूटस्थं यत्तदक्षरम् ।
तद्विद्वानक्षरं प्राप्य जह्यान्मरणजन्मनी ॥ ६॥
काकीमुखं ककारान्तमुकारश्चेतनाकृतिः ।
मकारस्य तु लुप्तस्य कोऽर्थः सम्प्रतिपद्यते ॥ ७॥
काकीमुखककारान्तमुकारश्चेतनाकृतिः ।
अकारस्य तु लुप्तस्य कोऽर्थः सम्प्रतिपद्यते ॥ ७॥
गच्छंस्तिष्ठन्सदा कालं वायुस्वीकरणं परम् ।
सर्वकालप्रयोगेन सहस्रायुर्भवेन्नरः ॥ ८॥
यावत्पश्येत्खगाकारं तदाकारं विचिन्तयेत् ।
खमध्ये कुरु चात्मानमात्ममध्ये च खं कुरु ।
आत्मानं खमयं कृत्वा न किंचिदपि चिन्तयेत् ॥ ९॥
स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः ।
बहिर्व्योमस्थितं नित्यं नासाग्रे च व्यवस्थितम् ।
निष्कलं तं विजानीयाच्छ्वासो यत्र लयं गतः ॥ १०॥
पुटद्वयविनिर्मुक्तो वायुर्यत्र विलीयते ॥ ११॥
तत्र संस्थं मनः कृत्वा तं ध्यायेत्पार्थ ईश्वरम् ॥ १२॥
निर्मलं तं विजानीयात्षडूर्मिरहितं शिवम् ।
प्रभाशून्यं मनःशून्यं बुद्धिशून्यं निरामयम् ॥ १३॥
सर्वशून्यं निराभासं समाधिस्तस्य लक्षणम् ।
त्रिशून्यं यो विजानीयात्स तु मुच्येत बन्धनात् ॥ १४॥
स्वयमुच्चलिते देहे देही न्यस्तसमाधिना ।
निश्चलं तद्विजानीयात्समाधिस्थस्य लक्षणम् ॥ १५॥
अमात्रं शब्दरहितं स्वरव्यञ्जनवर्जितम् ।
बिन्दुनादकलातीतं यस्तं वेद स वेदवित् ॥ १६॥
प्राप्ते ज्ञानेन विज्ञाने ज्ञेये च हृदि संस्थिते ।
लब्धशान्तिपदे देहे न योगो नैव धारणा ॥ १७॥
यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः ।
तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥ १८॥
नावार्थी च भवेत्तावद्यावत्पारं न गच्छति ।
उत्तीर्णे च सरित्पारे नावया किं प्रयोजनम् ॥ १९॥
ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः ।
पलालमिव धान्यार्थी त्यजेद्ग्रन्थमशेषतः ॥ २०॥
उल्काहस्तो यथा कश्चिद्द्रव्यमालोक्य तां त्यजेत्
ज्ञानेन ज्ञेयमालोक्य पश्चाज्ज्ञानं परित्यजेत् ॥ २१॥
यथामृतेन तृप्तस्य पयसा किं प्रयोजनम् ।
एवं तं परमं ज्ञात्वा वेदैर्नास्ति प्रयोजनम् ॥ २२॥
ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः ।
न चास्ति किञ्चित्कर्तव्यमस्ति चेन्न स तत्त्ववित् ॥ २३॥
तैलधारामिवाच्छिन्नं दीर्घघण्टानिनादवत् ।
अवाच्यं प्रणवस्याग्रं यस्तं वेद स वेदवित् ॥ २४॥
आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।
ध्याननिर्मथनाभ्यासादेवं पश्येन्निगूढवत् ॥ २५॥
तादृशं परमं रूपं स्मरेत्पार्थ ह्यनन्यधीः ।
विधूमाग्निनिभं देवं पश्येदन्त्यन्तनिर्मलम् ॥ २६॥
दूरस्थोऽपि न दूरस्थः पिण्डस्थः पिण्डवर्जितः ।
विमलः सर्वदा देही सर्वव्यापी निरञ्जनः ॥ २७॥
कायस्थोऽपि न कायस्थः कायस्थोऽपि न जायते ।
कायस्थोऽपि न भुञ्जानः कायस्थोऽपि न बध्यते ॥ २८॥
कायस्थोऽपि न लिप्तः स्यात्कायस्थोऽपि न बाध्यते ।
तिलमध्ये यथा तैलं क्षीरमध्ये यथा घृतम् ॥ २९॥
पुष्पमध्ये यथा गन्धः फलमध्ये यथा रसः ।
काष्ठाग्निवत्प्रकाशेत आकाशे वायुवच्चरेत् ॥ ३०॥
तथा सर्वगतो देही देहमध्ये व्यवस्थितः ।
मनस्थो देशिनां देवो मनोमध्ये व्यवस्थितः ॥ ३१॥
मनस्थं मनमध्यस्थं मध्यस्थं मनवर्जितम् ।
मनसा मन आलोक्य स्वयं सिध्यन्ति योगिनः ॥ ३२॥
आकाशं मानसं कृत्वा मनः कृत्वा निरास्पदम् ।
निश्चलं तद्विजानीयात्समाधिस्थस्य लक्षणम् ॥ ३३॥
योगामृतरसं पीत्वा वायुभक्षः सदा सुखी ।
यममभ्यस्यते नित्यं समाधिर्मृत्युनाशकृत् ॥ ३४॥
ऊर्ध्वशून्यमधःशून्यं मध्यशून्यं यदात्मकम् ।
सर्वशून्यं स आत्मेति समाधिस्थस्य लक्षणम् ॥ ३५॥
शून्यभावितभावात्मा पुण्यपापैः प्रमुच्यते ।
अर्जुन उवाच-
अदृश्ये भावना नास्ति दृश्यमेतद्विनश्यति ॥ ३६॥
अवर्णमस्वरं ब्रह्म कथं ध्यायन्ति योगिनः ।
श्रीभगवानुवाच-
ऊर्ध्वपूर्णमधःपूर्णं मध्यपूर्णं यदात्मकम् ॥ ३७॥
सर्वपूर्णं स आत्मेति समाधिस्थस्य लक्षणम् ।
अर्जुन उअवाच-
सालम्बस्याप्यनित्यत्वं निरालम्बस्य शून्यता ॥ ३८॥
उभयोरपि दुष्ठत्वात्कथं ध्यायन्ति योगिनः ।
श्रीभगवानुवाच-
हृदयं निर्मलं कृत्वा चिन्तयित्वाप्यनामयम् ॥ ३९॥
अहमेव इदं सर्वमिति पश्येत्परं सुखम् ।
अर्जुन उवाच-
अक्षराणि समात्राणि सर्वे बिन्दुसमाश्रिताः ॥ ४०॥
बिन्दुभिर्भिद्यते नादः स नादः केन भिद्यते ।
श्रीभगवानुवाच-
अनाहतस्य शब्दस्य तस्य शब्दस्य यो ध्वनिः ॥ ४१॥
ध्वनेरन्तर्गतं ज्योतिर्ज्योतिरन्तर्गतं मनः ।
तन्मनो विलयं याति तद्विष्णोः परमं पदम् ॥ ४२॥
ॐकारध्वनिनादेन वायोः संहरणान्तिकम् ।
निरालम्बं समुद्दिश्य यत्र नादो लयं गतः ॥ ४३॥
अर्जुन उवाच-
भिन्ने पञ्चात्मके देहे गते पञ्चसु पञ्चधा ।
प्राणैर्विमुक्ते देहे तु धर्माधर्मौ क्व गच्छतः ॥ ४४॥
श्रीभगवानुवाच-
धर्माधर्मौ मनश्चैव पञ्चभूतानि यानि च ।
इन्द्रियाणि च पञ्चैव याश्चान्याः पञ्च देवताः ॥ ४५॥
ताश्चैव मनसा सर्वे नित्यमेवाभिमानतः ।
जीवेन सह गच्छन्ति यावत्तत्त्वं न विन्दति ॥ ४६॥
अर्जुन उवाच-
स्थावरं जङ्गमं चैव यत्किंचित्सचराचरम् ।
जीवा जीवेन सिध्यन्ति स जीवः केन सिध्यति ॥ ४७॥
श्रीभगवानुवाच-
मुखनासिकयोर्मध्ये प्राणः संचरते सदा ।
आकाशः पिबते प्राणं स जीवः केन जीवति ॥ ४८॥
अर्जुन उवाच-
ब्रह्माण्डव्यापितं व्योम व्योम्ना चावेष्टितं जगत् ।
अन्तर्बहिश्च तद्व्योम कथं देवो निरञ्जनः ॥ ४९॥
श्रीभगवानुवाच-
आकाशो ह्यवकाशश्च आकाशव्यापितं च यत् ।
आकाशस्य गुणः शब्दो निःशब्दो ब्रह्म उच्यते ॥ ५०॥
अर्जुन उवाच-
दन्तोष्ठतालुजिह्वानामास्पदं यत्र दृश्यते ।
अक्षरत्वं कुतस्तेषां क्षरत्वं वर्तते सदा ॥ ५१॥
अघोषमव्यञ्जनमस्वरं चा-
प्यतालुकण्ठोष्ठमनासिकं च ।
अरेखजातं परमूष्मवर्जितं
तदक्षरं न क्षरते कथंचित् ॥ ५२॥
अर्जुन उवाच-
ज्ञात्वा सर्वगतं ब्रह्म सर्वभूताधिवासितम् ।
इन्द्रियाणां निरोधेन कथं सिध्यन्ति योगिनः ॥ ५३॥
श्रीभगवानुवाच-
इन्द्रियाणां निरोधेन देहे पश्यन्ति मानवाः ।
देहे नष्टे कुतो बुद्धिर्बुद्धिनाशे कुतो ज्ञता ॥ ५४॥
तावदेव निरोधः स्याद्यावत्तत्त्वं न विन्दति ।
विदिते तु परे तत्त्वे एकमेवानुपश्यति ॥ ५५॥
भवच्छिद्रकृता देहाः स्रवन्ति गलिका इव ।
नैव ब्रह्म न शुद्धं स्यात्पुमान्ब्रह्म न विन्दति ॥ ५६॥
अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः ।
उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते ॥ ५७॥
इति उत्तरगीतायां प्रथमोऽध्यायः ॥
॥ द्वितीयोऽध्यायः ॥
अरूढस्यारुरुक्षोश्च स्वरूपे परिकीर्तिते ।
तत्रारूढस्य बिम्बैक्यं कथं स्यादिति पृच्छति ॥
अर्जुन उवाच-
ज्ञात्वा सर्वगतं ब्रह्म सर्वज्ञं परमेश्वरम् ।
अहं ब्रह्मेति निर्देष्टुं प्रमाणं तत्र किं भवेत् ॥ १॥
श्रीभगवानुवाच-
यथा जलं जले क्षिप्तं क्षीरे क्षीरं घृते घृतम् ।
अविशेषो भवेत्तद्वज्जीवात्मपरमात्मनोः ॥ २॥
जीवे परेण तादात्म्यं सर्वगं ज्योतिरीश्वरम् ।
प्रमाणलक्षणैर्ज्ञेयं स्वयमेकाग्रवेदिना ॥ ३॥
अर्जुन उवाच-
ज्ञानादेव भवेज्ज्ञेयं विदित्वा तत्क्षणेन तु ।
ज्ञानमात्रेण मुच्येत किं पुनर्योगधारणा ॥ ४॥
श्रीभगवानुवाच-
ज्ञानेन दीपिते देहे बुद्धिर्ब्रह्मसमन्विता ।
ब्रह्मज्ञानाग्निना विद्वान्निर्दहेत्कर्मबन्धनम् ॥ ५॥
ततः पवित्रं परमेश्वराख्य-
मद्वैतरूपं विमलाम्बराभम् ।
यथोदके तोयमनुप्रविष्टं
तथात्मरूपो निरुपाधिसंस्थः ॥ ६॥
आकाशवत्सूक्ष्मशरीर आत्मा
न दृश्यते वायुवदन्तरात्मा ।
स बाह्यमभ्यन्तरनिश्चलात्मा
ज्ञानोल्कया पश्यति चान्तरात्मा ॥ ७॥
यत्र यत्र मृतो ज्ञानी येन केनापि मृत्युना ।
यथा सर्वगतं व्योम तत्र तत्र लयं गतः ॥ ८॥
शरीरव्यापितं व्योम भुवनानि चतुर्दश ।
निश्चलो निर्मलो देही सर्वव्यापी निरञ्जनः ॥ ९॥
मुहूर्तमपि यो गच्छेन्नासाग्रे मनसा सह ।
सर्वं तरति पाप्मानं तस्य जन्म शतार्जितम् ॥ १०॥
दक्षिणे पिङ्गला नाडी वह्निमण्डलगोचरा ।
देवयानमिति ज्ञेया पुण्यकर्मानुसारिणी ॥ ११॥
इला च वामनिश्वाससोममण्डलगोचरा ।
पितृयानमिति ज्ञेयं वाममाश्रित्य तिष्ठति ॥ १२॥
गुदस्य पृष्ठभागेऽस्मिन्वीणादण्डस्य देहभृत् ।
दीर्घास्ति मूर्ध्निपर्यन्तं ब्रह्मदण्डीति कथ्यते ॥ १३॥
तस्यान्ते सुषिरं सूक्ष्मं ब्रह्मनाडीति सूरिभिः ।
इलापिङ्गलयोर्मध्ये सुषुम्ना सूक्ष्मरूपिणी ।
सर्वं प्रतिष्ठितं यस्मिन्सर्वगं सर्वतोमुखम् ॥ १४॥
तस्य मध्यगताः सूर्यसोमाग्निपरमेश्वराः ।
भूतलोका दिशः क्षेत्रसमुद्राः पर्वताः शिलाः ॥ १५॥
द्वीपाश्च निम्नगा वेदाः शास्त्रविद्याकलाक्षराः ।
स्वरमन्त्रपुराणानि गुणाश्चैते च सर्वशः ॥ १६॥
बीजं बीजात्मकास्तेषां क्षेत्रज्ञाः प्राणवायवः ।
सुषुम्नान्तर्गतं विश्वं तस्मिन्सर्वं प्रतिष्ठितम् ॥ १७॥
नानानाडीप्रसवकं सर्वभूतान्तरात्मनि ।
ऊर्ध्वमूलमधः शाखं वायुमार्गेण सर्वगम् ॥ १८॥
द्विसप्ततिसहस्राणि नाड्यः स्युर्वायुगोचराः ।
कर्ममार्गेण सुषिरास्तिर्यञ्चः सुषिरात्मकाः ॥ १९॥
अधश्चोर्ध्वगतास्तासु नवद्वाराणि शोधयन् ।
वायुना सह जीवोर्ध्वज्ञानी मोक्षमवाप्नुयात् ॥ २०॥
अमरावतीन्द्रलोकोऽस्मिन्नासाग्रे पूर्वतो दिशि ।
अग्निलोको हृदि ज्ञेयश्चक्षुस्तेजोवती पुरी ॥ २१॥
याम्या संयमनी श्रोत्रे यमलोकः प्रतिष्ठितः ।
नैरृतो ह्यथ तत्पार्श्वे नैरृतो लोक आश्रितः ॥ २२॥
विभावरी प्रतीच्यां तु पृष्ठे वारुणिका पुरी ।
वायोर्गन्धवती कर्णपार्श्वे लोकः प्रतिष्ठितः ॥ २३॥
सौम्या पुष्पवती सौम्ये सोमलोकस्तु कण्ठतः ।
वामकर्णे तु विज्ञेयो देहमाश्रित्य तिष्ठति ॥ २४॥
वामे चक्षुषि चैशानी शिवलोको मनोन्मनी ।
मूर्ध्नि ब्रह्मपुरी ज्ञेया ब्रह्माण्डं देहमाश्रितम् ॥ २५॥
पादादधः शिवोऽनन्तः कालाग्निप्रलयात्मकः ।
अनामयमधश्चोर्ध्वं मध्यमं तु बहिः शिवम् ॥ २६॥
अधः पदोऽतलं विद्यात्पादं च वितलं विदुः ।
नितलं पादसन्धिश्च सुतलं जङ्घमुच्यते ॥ २७॥
महातलं तु जानु स्यादूरुदेशो रसातलम् ।
कटिस्तालतलं प्रोक्तं सप्त पातालसंज्ञया ॥ २८॥
कालाग्निनरकं घोरं महापातालसंज्ञया ।
पातालं नाभ्यधोभागो भोगीन्द्रफणिमण्डलम् ॥ २९॥
वेष्टितः सर्वतोऽनन्तः स बिभ्रज्जीवसंज्ञकः ।
भूलोकं नाभिदेशं तु भुवर्लोकं तु कुक्षितः ॥ ३०॥
हृदयं स्वर्गलोकं तु सूर्यादिग्रहतारकाः ।
सूर्यसोमसुनक्षत्रं बुधशुक्रकुजाङ्गिराः ॥ ३१॥
मन्दश्च सप्तमो ह्येष ध्रुवोऽतः स्वर्गलोकतः ।
हृदये कल्पयन्योगी तस्मिन्सर्वसुखं लभेत् ॥ ३२॥
हृदयस्य महर्लोकं जनोलोकं तु कण्ठतः ।
तपोलोकं भ्रुवोर्मध्ये मूर्ध्नि सत्यं प्रतिष्ठितम् ॥ ३३॥
ब्रह्माण्डरूपिणी पृथ्वी तोयमध्ये विलीयते ।
अग्निना पच्यते तोयं वायुना ग्रस्यतेऽनलः ॥ ३४॥
आकाशं तु पिबेद्वायुं मनश्चाकाशमेव च ।
बुद्ध्यहङ्कारचित्तं च क्षेत्रज्ञः परमात्मनि ॥ ३५॥
अहं ब्रह्मेति मां ध्यायेदेकाग्रमनसा सकृत् ।
सर्वं तरति पाप्मानं कल्पकोटिशतैः कृतम् ॥ ३६॥
घटसंवृतमाकाशं नीयमाने घटे यथा ।
घटो नश्यति नाकाशं तद्वज्जीव इहात्मनि ॥ ३७॥
घटाकाशमिवात्मानं विलयं वेत्ति तत्त्वतः ।
स गच्छति निरालम्बं ज्ञानालोक्यं न संशयः ॥ ३८॥
तपेद्वर्षसहस्राणि एकपादस्थितो नरः ।
एकस्य ध्यानयोगस्य कलां नार्हन्ति षोडशीम् ॥ ३९॥
आलोड्य चतुरो वेदान्धर्मशास्त्राणि सर्वदा ।
यो वै ब्रह्म न जानाति दर्वी पाकरसं यथा ॥ ४०॥
यथा खरश्चन्दनभारवाही
सारस्य वाही न तु चन्दनस्य ।
एवं हि शास्त्राणि बहून्यधीत्य
सारं त्वजानन्खरवद्वहेत्सः ॥ ४१॥
अनन्तकर्म शौचं च जपो यज्ञस्तथैव च ।
तीर्थयात्रादिगमनं यावत्तत्त्वं न विन्दति ॥ ४२॥
गवामनेकवर्णानां क्षीरं स्यादेकवर्णकम् ।
क्षीरवद्दृश्यते ज्ञानं देहिनां च गवां यथा ॥ ४३॥
अहं ब्रह्मेति नियतं मोक्षहेतुर्महात्मनाम् ।
द्वे पदे बन्धमोक्षाय न ममेति ममेति च ॥ ४४॥
ममेति बध्यते जन्तुर्न ममेति विमुच्यते ।
मनसो ह्युन्मनीभावाद्द्वैतं नैवोपलभ्यते ।
यदा यात्युन्मनीभावं तदा तत्परमं पदम् ॥ ४५॥
हन्यान्मुष्टिभिराकाशं क्षुधार्तः कण्डयेत्तुषम् ।
नाहं ब्रह्मेति जानाति तस्य मुक्तिर्न जायते ॥ ४६॥
इति उत्तरगीतायां द्वितीयोऽध्यायः ॥
॥ तृतीयोऽध्यायः ॥
योगी व्यर्थक्रियालापपरित्यागेन शान्तधीः ।
तृतीये शरणं यायाद्धरिमेवेति कीर्त्यते ॥
श्रीभगवानुवाच-
अनन्तशास्त्रं बहुवेदितव्य-
मल्पश्च कालो बहवश्च विघ्नाः ।
यत्सारभूतं तदुपासितव्यं
हंसो यथा क्षीरमिवाम्बुमिश्रम् ॥ १॥
पुराणं भारतं वेदशास्त्राणि विविधानि च ।
पुत्रदारादिसंसारो योगाभ्यासस्य विघ्नकृत् ॥ २॥
इदं ज्ञानमिदं ज्ञेयं यः सर्वं ज्ञातुमिच्छति ।
अपि वर्षसहस्रायुः शास्त्रान्तं नाधिगच्छति ॥ ३॥
विज्ञेयोऽक्षरतन्मात्रं जीवितं चापि चञ्चलम् ।
विहाय शास्त्रजालानि यत्सत्यं तदुपास्यताम् ॥ ४॥
पृथिव्यां यानि भूतानि जिह्वोपस्थनिमित्तिकम् ।
जिह्वोपस्थपरित्यागे पृथिव्यां किं प्रयोजनम् ॥ ५॥
तीर्थानि तोयपूर्णानि देवान्पाषाणमृन्मयान् ।
योगिनो न प्रपद्यन्ते आत्मध्यानपरायणाः ॥ ६॥
अग्निर्देवो द्विजातीनां मुनीनां हृदि दैवतम् ।
प्रतिमा स्वल्पबुद्धीनां सर्वत्र समदर्शिनाम् ॥ ७॥
सर्वत्रावस्थितं शान्तं न प्रपश्येज्जनार्दनम् ।
ज्ञानचक्षुर्विहीनत्वादन्धः सूर्यमिवोदितम् ॥ ८॥
यत्र यत्र मनो याति तत्र तत्र परं पदम् ।
तत्र तत्र परं ब्रह्म सर्वत्र समवस्थितम् ॥ ९॥
दृश्यन्ते दृशि रूपाणि गगनं भाति निर्मलम् ।
अहमित्यक्षरं ब्रह्म परमं विष्णुमव्ययम् ॥ १०॥
दृश्यते चेत्खगाकारं खगाकारं विचिन्तयेत् ।
सकलं निष्कलं सूक्ष्मं मोक्षद्वारेण निर्गतम् ॥ ११॥
अपवर्गस्य निर्वाणं परमं विष्णुमव्ययम् ।
सर्वज्योतिर्निराकारं सर्वभूतगुणान्वितम् ॥ १२॥
सर्वत्र परमात्मानं अहमात्मा परमव्ययम् ।
अहं ब्रह्मेति यः सर्वं विजानाति नरः सदा ।
हन्यात्स्वयमिमान्कामान्सर्वाशी सर्वविक्रयी ॥ १३॥
निमिषं निमिषार्धं वा शीताशीतनिवारणम् ।
अचला केशवे भक्तिर्विभवैः किं प्रयोजनम् ॥ १४॥
भिक्षान्नं देहरक्षार्थं वस्त्रं शीतनिवारणम् ।
अश्मानं च हिरण्यं च शाकं शाल्योदनं तथा ॥ १५॥
समानं चिन्तयेद्योगी यदि चिन्त्यमपेक्षते ।
भूतवस्तुन्यशोचित्वं पुनर्जन्म न विद्यते ॥ १६॥
आत्मयोगमवोचद्यो भक्तियोगशिरोमणिम् ।
तं वन्दे परमानन्दं नन्दनन्दनमीश्वरम् ॥
इति उत्तरगीतायां तृतीयोऽध्यायः ॥
॥ उद्धवगीता ॥
श्रीराधाकृष्णाभ्यां नमः ।
श्रीमद्भागवतपुराणम् ।
एकादशः स्कन्धः । उद्धव गीता ।
अथ प्रथमोऽध्यायः ।
श्रीबादरायणिः उवाच ।
कृत्वा दैत्यवधं कृष्णः सरमः यदुभिः वृतः ।
भुवः अवतारवत् भारं जविष्ठन् जनयन् कलिम् ॥ १॥
ये कोपिताः सुबहु पाण्डुसुताः सपत्नैः
दुर्द्यूतहेलनकचग्रहण आदिभिः तान् ।
कृत्वा निमित्तम् इतर इतरतः समेतान्
हत्वा नृपान् निरहरत् क्षितिभारम् ईशः ॥ २॥
भूभारराजपृतना यदुभिः निरस्य
गुप्तैः स्वबाहुभिः अचिन्तयत् अप्रमेयः ।
मन्ये अवनेः ननु गतः अपि अगतं हि भारम्
यत् यादवं कुलम् अहो हि अविषह्यम् आस्ते ॥ ३॥
न एव अन्यतः परिभवः अस्य भवेत् कथञ्चित्
मत् संश्रयस्य विभव उन्नहन् अस्य नित्यम् ।
अन्तःकलिम् यदुकुलस्य विध्हाय वेणुः
तम्बस्य वह्निम् इव शान्तिम् उपैमि धाम ॥ ४॥
एवं व्यवसितः राजन् सत्यसङ्कल्पः ईश्वरः ।
शापव्याजेन विप्राणां सञ्जह्वे स्वकुलं विभुः ॥ ५॥
स्वमूर्त्या लोकलावण्यनिर्मुक्त्या लोचनं नृणाम् ।
गीर्भिः ताः स्मरतां चित्तं पदैः तान् ईक्षतां क्रिया ॥ ६॥
आच्छिद्य कीर्तिं सुश्लोकां वितत्य हि अञ्जसा नु कौ ।
तमः अनया तरिष्यन्ति इति अगात् स्वं पदम् ईश्वरः ॥ ७॥
राजा उवाच ।
ब्रह्मण्यानां वदान्यानां नित्यं वृद्धौपसेविनाम् ।
विप्रशापः कथम् अभूत् वृष्णीनां कृष्णचेतसाम्
॥ ८॥
यत् निमित्तः सः वै शापः यादृशः द्विजसत्तम ।
कथम् एकात्मनां भेदः एतत् सर्वं वदस्व मे ॥ ९॥
श्रीशुकः उवाच ।
बिभ्रत् वपुः सकलसुन्दरसंनिवेशम्
कर्माचरन् भुवि सुमङ्गलम् आप्तकामः ।
आस्थाय धाम रममाणः उदारकीर्तिः
संहर्तुम् ऐच्छत कुलं स्थितकृत्यशेषः ॥ १०॥
कर्माणि पुण्यनिवहानि सुमङ्गलानि
गायत् जगत् कलिमलापहराणि कृत्वा ।
काल आत्मना निवसता यदुदेवगेहे
पिण्डारकं समगमन् मुनयः निसृष्टाः ॥ ११॥
विश्वामित्रः असितः कण्वः दुर्वासाः भृगुः अङ्गिराः ।
कश्यपः वामदेवः अत्रिः वसिष्ठः नारद आदयः ॥ १२॥
क्रीडन्तः तान् उपव्रज्य कुमाराः यदुनन्दनाः ।
उपसङ्गृह्य पप्रच्छुः अविनीता विनीतवत् ॥ १३॥
ते वेषयित्वा स्त्रीवेषैः साम्बं जाम्बवतीसुतम् ।
एषा पृच्छति वः विप्राः अन्तर्वत् न्यसित ईक्षणा ॥ १४॥
प्रष्टुं विलज्जति साक्षात् प्रब्रूत अमोघदर्शनाः ।
प्रसोष्यन्ति पुत्रकामा किंस्वित् सञ्जनयिष्यति ॥ १५॥
एवं प्रलब्ध्वा मुनयः तान् ऊचुः कुपिता नृप ।
जनयिष्यति वः मन्दाः मुसलं कुलनाशनम् ॥ १६॥
तत् शृत्वा ते अतिसन्त्रस्ताः विमुच्य सहसोदरम् ।
साम्बस्य ददृशुः तस्मिन् मुसलं खलु अयस्मयम् ॥ १७॥
किं कृतं मन्दभाग्यैः किं वदिष्यन्ति नः जनाः ।
इति विह्वलिताः गेहान् आदाय मुसलं ययुः ॥ १८॥
तत् च उपनीय सदसि परिम्लानमुखश्रियः ।
राज्ञः आवेदयान् चक्रुः सर्वयादवसंनिधौ ॥ १९॥
श्रुत्वा अमोघं विप्रशापं दृष्ट्वा च मुसलं नृप ।
विस्मिताः भयसन्त्रस्ताः बभूवुः द्वारकौकसः ॥ २०॥
तत् चूर्णयित्वा मुसलं यदुराजः सः आहुकः ।
समुद्रसलिले प्रास्यत् लोहं च अस्य अवशेषितम् ॥ २१॥
कश्चित् मत्स्यः अग्रसीत् लोहं चूर्णानि तरलैः ततः ।
उह्यमानानि वेलायां लग्नानि आसन् किल ऐरिकाः ॥ २२॥
मत्स्यः गृहीतः मत्स्यघ्नैः जालेन अन्यैः सह अर्णवे ।
तस्य उदरगतं लोहं सः शल्ये लुब्धकः अकरोत् ॥ २३॥
भगवान् ज्ञातसर्वार्थः ईश्वरः अपि तदन्यथा ।
कर्तुं न ऐच्छत् विप्रशापं कालरूपी अन्वमोदत ॥ २४॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे विप्रशापो नाम प्रथमोऽध्यायः
॥ १॥
अथ द्वितीयोऽध्यायः ।
श्रीशुकः उवाच ।
गोविन्दभुजगुप्तायां द्वारवत्यां कुरूद्वह ।
अवात्सीत् नारदः अभीक्ष्णं कृष्णौपासनलालसः ॥ १॥
को नु राजन् इन्द्रियवान् मुकुन्दचरणाम्बुजम् ।
न भजेत् सर्वतः मृत्युः उपास्यम् अमरौत्तमैः ॥ २॥
तम् एकदा देवर्षिं वसुदेवः गृह आगतम् ।
अर्चितं सुखम् आसीनम् अभिवाद्य इदम् अब्रवीत् ॥ ३॥
वसुदेवः उवाच ।
भगवन् भवतः यात्रा स्वस्तये सर्वदेहिनाम् ।
कृपणानां यथा पित्रोः उत्तमश्लोकवर्त्मनाम् ॥ ४॥
भूतानां देवचरितं दुःखाय च सुखाय च ।
सुखाय एव हि साधूनां त्वादृशाम् अच्युत आत्मनाम् ॥
५॥
भजन्ति ये यथा देवान् देवाः अपि तथा एव तान् ।
छाया इव कर्मसचिवाः साधवः दीनवत्सलाः ॥ ६॥
ब्रह्मन् तथा अपि पृच्छामः धर्मान् भागवतान् तव ।
यान् श्रुत्वा श्रद्धया मर्त्यः मुच्यते सर्वतः भयात् ॥ ७॥
अहं किल पुरा अनन्तं प्रजार्थः भुवि मुक्तिदम् ।
अपूजयं न मोक्षाय मोहितः देवमायया ॥ ८॥
यया विचित्रव्यसनात् भवद्भिः विश्वतः भयात् ।
मुच्येम हि अञ्जसा एव अद्धा तथा नः शाधि सुव्रत ॥ ९॥
श्रीशुकः उवाच ।
राजन् एवं कृतप्रश्नः वसुदेवेन धीमता ।
प्रीतः तम् आह देवर्षिः हरेः संस्मारितः गुणैः ॥ १०॥
नारदः उवाच ।
सम्यक् एतत् व्यवसितं भवता सात्वतर्षभ ।
यत् पृच्छसे भागवतान् धर्मान् त्वं विश्वभावनान् ॥
११॥
श्रुतः अनुपठितः ध्यातः आदृतः वा अनुमोदितः ।
सद्यः पुनाति सद्धर्मः देवविश्वद्रुहः अपि ॥ १२॥
त्वया परमकल्याणः पुण्यश्रवणकीर्तनः ।
स्मारितः भगवान् अद्य देवः नारायणः मम ॥ १३॥
अत्र अपि उदाहरन्ति इमम् इतिहासं पुरातनम् ।
आर्षभाणां च संवादं विदेहस्य महात्मनः ॥ १४॥
प्रियव्रतः नाम सुतः मनोः स्वायम्भुवस्य यः ।
तस्य अग्नीध्रः ततः नाभिः ऋषभः तत् सुतः स्मृतः ॥ १५॥
तम् आहुः वासुदेवांशं मोक्षधर्मविवक्षया ।
अवतीर्णं सुतशतं तस्य आसीत् वेदपारगम् ॥ १६॥
तेषां वै भरतः ज्येष्ठः नारायणपरायणः ।
विख्यातं वर्षम् एतत् यत् नाम्ना भारतम् अद्भुतम् ॥ १७॥
सः भुक्तभोगां त्यक्त्वा इमां निर्गतः तपसा हरिम् ।
उपासीनः तत् पदवीं लेभे वै जन्मभिः त्रिभिः ॥ १८॥
तेषां नव नवद्वीपपतयः अस्य समन्ततः ।
कर्मतन्त्रप्रणेतारः एकाशीतिः द्विजातयः ॥ १९॥
नव अभवन् महाभागाः मुनयः हि अर्थशंसिनः ।
श्रमणाः वातः अशनाः आत्मविद्याविशारदाः ॥ २०॥
कविः हरिः अन्तरिक्षः प्रबुद्धः पिप्पलायनः ।
आविर्होत्रः अथ द्रुमिलः चमसः करभाजनः ॥ २१॥
एते वै भगवद्रूपं विश्वं सदसद् आत्मकम् ।
आत्मनः अव्यतिरेकेण पश्यन्तः व्यचरत् महीम् ॥ २२॥
अव्याहत इष्टगतयाः सुरसिद्धसिद्धसाध्य
गन्धर्वयक्षनरकिन्नरनागलोकान् ।
मुक्ताः चरन्ति मुनिचारणभूतनाथ
विद्याधरद्विजगवां भुवनानि कामम् ॥ २३॥
तः एकदा निमेः सत्रम् उपजग्मुः यत् ऋच्छया ।
वितायमानम् ऋषिभिः अजनाभे महात्मनः ॥ २४॥
तान् दृष्ट्वा सूर्यसङ्काशान् महाभगवतान् नृपः ।
यजमानः अग्नयः विप्राः सर्वः एव उपतस्थिरे ॥ २५॥
विदेहः तान् अभिप्रेत्य नारायणपरायणान् ।
प्रीतः सम्पूजयान् चक्रे आसनस्थान् यथा अर्हतः ॥ २६॥
तान् रोचमानान् स्वरुचा ब्रह्मपुत्रौपमान् नव ।
पप्रच्छ परमप्रीतः प्रश्रय अवनतः नृपः ॥ २७॥
विदेहः उवाच ।
मन्ये भगवतः साक्षात् पार्षदान् वः मधुद्विषः ।
विष्णोः भूतानि लोकानां पावनाय चरन्ति हि ॥ २८॥
दुर्लभः मानुषः देहः देहिनां क्षणभङ्गुरः ।
तत्र अपि दुर्लभं मन्ये वैकुण्ठप्रियदर्शनम् ॥ २९॥
अतः आत्यन्तिकं कहेमं पृच्छामः भवतः अनघाः ।
संसारे अस्मिन् क्षणार्धः अपि सत्सङ्गः शेवधिः नृणाम् ॥
३०॥
धर्मान् भागवतान् ब्रूत यदि नः श्रुतये क्षमम् ।
यैः प्रसन्नः प्रपन्नाय दास्यति आत्मानम् अपि अजः ॥ ३१॥
श्रीनारदः उवाच ।
एवं ते निमिना पृष्टा वसुदेव महत्तमाः ।
प्रतिपूज्य अब्रुवन् प्रीत्या ससदसि ऋत्विजं नृपम् ॥ ३२॥
कविः उवाच ।
मन्ये अकुतश्चित् भयम् अच्युतस्य
पादाम्बुजौपासनम् अत्र नित्यम् ।
उद्विग्नबुद्धेः असत् आत्मभावात्
विश्वआत्मना यत्र निवर्तते भीः ॥ ३३॥
ये वै भगवता प्रोक्ताः उपायाः हि आत्मलब्धये ।
अञ्जः पुंसाम् अविदुषां विद्धि भागवतान् हि तान् ॥ ३४॥
यान् आस्थाय नरः राजन् न प्रमाद्येत कर्हिचित् ।
धावन् निमील्य वा नेत्रे न स्खलेन पतेत् इह ॥ ३५॥
कायेन वाचा मनसा इन्द्रियैः वा
बुद्ध्या आत्मना वा अनुसृतस्वभावात् ।
करोति यत् यत् सकलं परस्मै
नारायणाय इति समर्पयेत् तत् ॥ ३६॥
भयं द्वितीयाभिनिवेशतः स्यात्
ईशात् अपेतस्य विपर्ययः अस्मृतिः ।
तत् मायया अतः बुधः आभजेत् तं
भक्त्या एक ईशं गुरुदेवतात्मा ॥ ३७।
अविद्यमानः अपि अवभाति हि द्वयोः
ध्यातुः धिया स्वप्नमनोरथौ यथा ।
तत् कर्मसङ्कल्पविकल्पकं मनः
बुधः निरुन्ध्यात् अभयं ततः स्यात् ॥ ३८॥
श्रुण्वन् सुभद्राणि रथाङ्गपाणेः
जन्मानि कर्माणि च यानि लोके ।
गीतानि नामानि तत् अर्थकानि
गायन् विलज्जः विचरेत् असङ्गः ॥ ३९॥
एवं व्रतः स्वप्रियनामकीर्त्या
जातानुरागः द्रुतचित्तः उच्चैः ।
हसति अथः रोदिति रौति गायति
उन्मादवत् नृत्यति लोकबाह्यः ॥ ४०॥
खं वायुम् अग्निं सलिलं महीं च
ज्योतींषि सत्त्वानि दिशः द्रुमआदीन् ।
सरित् समुद्रान् च हरेः शरीरं
यत्किञ्च भूतं प्रणमेत् अनन्यः ॥ ४१॥
भक्तिः परेश अनुभवः विरक्तिः
अन्यत्र एष त्रिकः एककालः ।
प्रपद्यमानस्य यथा अश्नतः स्युः
तुष्टिः पुष्टिः क्षुत् अपायः अनुघासम् ॥ ४२॥
इति अच्युत अङ्घ्रिं भजतः अनुवृत्त्या
भक्तिः विरक्तिः भगवत् प्रबोधः ।
भवन्ति वै भागवतस्य राजन्
ततः परां शान्तिम् उपैति साक्षात् ॥ ४३॥
राजा उवाच ।
अथ भागवतं ब्रूत यत् धर्मः यादृशः नृणाम् ।
यथा चरति यत् ब्रूते यैः लिङ्गैः भगवत् प्रियः ॥ ४४॥
हरिः उवाच ।
सर्वभूतेषु यः पश्येत् भगवत् भाव आत्मनः ।
भूतानि भागवति आत्मनि एष भागवतौत्तमः ॥ ४५॥
ईश्वरे तत् अधीनेषु बालिशेषु द्विषत्सु च ।
प्रेममैत्रीकृपाउपेक्षा यः करोति स मध्यमः ॥ ४६॥
अर्चायाम् एव हरये पूजां यः श्रद्धया ईहते ।
न तत् भक्तेषु च अन्येषु सः भक्तः प्राकृतः स्मृतः ॥
४७॥
गृहीत्वा अपि इन्द्रियैः अर्थान्यः न द्वेष्टि न हृष्यति ।
विष्णोः मायाम् इदं पश्यन् सः वै भागवत उत्तमः ॥ ४८॥
देहैन्द्रियप्राणमनःधियां यः
जन्मापिअयक्षुत् भयतर्षकृच्छ्रैः ।
संसारधर्मैः अविमुह्यमानः
स्मृत्या हरेः भागवतप्रधानः ॥ ४९॥
न कामकर्मबीजानां यस्य चेतसि सम्भवः ।
वासुदेवएकनिलयः सः वै भागवत उत्तमः ॥ ५०॥
न यस्य जन्मकर्मभ्यां न वर्णाश्रमजातिभिः ।
सज्जते अस्मिन् अहम्भावः देहे वै सः हरेः प्रियः ॥ ५१॥
न यस्य स्वः परः इति वित्तेषु आत्मनि वा भिदा ।
सर्वभूतसमः शान्तः सः वौ भागवत उत्तमः ॥ ५२॥
त्रिभुवनविभवहेतवे अपि अकुण्ठस्मृतिः
अजितआत्मसुरआदिभिः विमृग्यात् ।
न चलति भगवत् पद अरविन्दात्
लवनिमिष अर्धम् अपि यः सः वैष्णव अग्र्यः ॥ ५३॥
भगवतः उरुविक्रम अङ्घ्रिशाखा
नखमणिचन्द्रिकया निरस्ततापे ।
हृदि कथम् उपसीदतां पुनः सः
प्रभवति चन्द्रः इव उदिते अर्कतापः ॥ ५४॥
विसृजति हृदयं न यस्य साक्षात्
हरिः अवश अभिहितः अपि अघौघनाशः ।
प्रणयः अशनया धृत अङ्घ्रिपद्मः
सः भवति भागवतप्रधानः उक्तः ॥ ५५॥
इति श्रीमत् भागवते महापुराणे पारमहंस्यां
संहितायां एकादशस्कन्धे निमिजायन्तसंवादे द्वितीयः
अध्यायः ॥ २॥
अथ तृतीयोऽध्यायः ।
परस्य विष्णोः ईशस्य मायिनाम अपि मोहिनीम् ।
मायां वेदितुम् इच्छामः भगवन्तः ब्रुवन्तु नः ॥ १॥
न अनुतृप्ये जुषन् युष्मत् वचः हरिकथा अमृतम् ।
संसारतापनिःतप्तः मर्त्यः तत् ताप भेषजम् ॥ २॥
अन्तरिक्षः उवाच ।
एभिः भूतानि भूतात्मा महाभूतैः महाभुज ।
ससर्जोत् च अवचानि आद्यः स्वमात्रप्रसिद्धये ॥ ३॥
एवं सृष्टानि भूतानि प्रविष्टः पञ्चधातुभिः ।
एकधा दशधा आत्मानं विभजन् जुषते गुणान् ॥ ४॥
गुणैः गुणान् सः भुञ्जानः आत्मप्रद्योदितैः प्रभुः ।
मन्यमानः इदं सृष्टम् आत्मानम् इह सज्जते ॥ ५॥
कर्माणि कर्मभिः कुर्वन् सनिमित्तानि देहभृत् ।
तत् तत् कर्मफलं गृह्णन् भ्रमति इह सुखैतरम् ॥ ६॥
इत्थं कर्मगतीः गच्छन् बह्वभद्रवहाः पुमान् ।
आभूतसम्प्लवात् सर्गप्रलयौ अश्नुते अवशः ॥ ७॥
धातु उपप्लवः आसन्ने व्यक्तं द्रव्यगुणात्मकम् ।
अनादिनिधनः कालः हि अव्यक्ताय अपकर्षति ॥ ८॥
शतवर्षाः हि अनावृष्टिः भविष्यति उल्बणा भुवि ।
तत् काल उपचित उष्ण अर्कः लोकान् त्रीन् प्रतपिष्यति
॥९॥
पातालतलम् आरभ्य सङ्कर्षणमुख अनलः ।
दहन् ऊर्ध्वशिखः विष्वक् वर्धते वायुना ईरितः ॥ १०॥
सांवर्तकः मेघगणः वर्षति स्म शतं समाः ।
धाराभिः हस्तिहस्ताभिः लीयते सलिले विराट् ॥ ११॥
ततः विराजम् उत्सृज्य वैराजः पुरुषः नृप ।
अव्यक्तं विशते सूक्ष्मं निरिन्धनः इव अनलः ॥ १२॥
वायुना हृतगन्धा भूः सलिलत्वाय कल्पते ।
सलिलं तत् धृतरसं ज्योतिष्ट्वाय उपकल्पते ॥ १३॥
हृतरूपं तु तमसा वायौ ज्योतिः प्रलीयते ।
हृतस्पर्शः अवकाशेन वायुः नभसि लीयते ।
कालात्मना हृतगुणं नवः आत्मनि लीयते ॥ १४॥
इन्द्रियाणि मनः बुद्धिः सह वैकारिकैः नृप ।
प्रविशन्ति हि अहङ्कारं स्वगुणैः अहम् आत्मनि ॥ १५॥
एषा माया भगवतः सर्गस्थिति अन्तकारिणी ।
त्रिवर्णा वर्णिता अस्माभिः किं भूयः श्रोतुम् इच्छसि ॥ १६॥
राजा उवाच ।
यथा एताम् ऐश्वरीं मायां दुस्तराम् अकृतात्मभिः ।
तरन्ति अञ्जः स्थूलधियः महर्षः इदम् उच्यताम् ॥ १७॥
प्रबुद्धः उवाच ।
कर्माणि आरभमाणानां दुःखहत्यै सुखाय च ।
पश्येत् पाकविपर्यासं मिथुनीचारिणां नृणाम् ॥ १८॥
नित्यार्तिदेन वित्तेन दुर्लभेन आत्ममृत्युना ।
गृह अपत्यआप्तपशुभिः का प्रीतिः साधितैः चलैः ॥
१९॥
एवं लोकं परं विद्यात् नश्वरं कर्मनिर्मितम् ।
सतुल्य अतिशय ध्वंसं यथा मण्डलवर्तिनाम् ॥ २०॥
तस्मात् गुरुं प्रपद्येत जिज्ञासुः श्रेयः उत्तमम् ।
शाब्दे परे च निष्णातं ब्रह्मणि उपशमआश्रयम् ॥ २१॥
तत्र भागवतान् धर्मान् शिक्षेत् गुरुआत्मदैवतः ।
अमायया अनुवृत्या यैः तुष्येत् आत्मा आत्मदः हरिः ॥ २२॥
सर्वतः मनसः असङ्गम् आदौ सङ्गं च साधुषु ।
दयां मैत्रीं प्रश्रयं च भूतेषु अद्धा यथा उचितम्
॥ २३॥
शौचं तपः तितिक्षां च मौनं स्वाध्यायम् आर्जवम् ।
ब्रह्मचर्यं अहिंसां च समत्वं द्वन्द्वसञ्ज्ञयोः ॥ २४॥
सर्वत्र आत्मेश्वर अन्वीक्षां कैवल्यम् अनिकेतताम् ।
विविक्तचीरवसनं सन्तोषं येन केनचित् ॥ २५॥
श्रद्धां भागवते शास्त्रे अनिन्दाम् अन्यत्र च अपि हि ।
मनोवाक् कर्मदण्डं च सत्यं शमदमौ अपि ॥ २६॥
श्रवणं कीर्तनं ध्यानं हरेः अद्भुतकर्मणः ।
जन्मकर्मगुणानां च तदर्थे अखिलचेष्टितम् ॥ २७॥
इष्टं दत्तं तपः जप्तं वृत्तं यत् च आत्मनः प्रियम् ।
दारान् सुतान् गृहान् प्राणान् यत् परस्मै निवेदनम् ॥ २८॥
एवं कृष्णआत्मनाथेषु मनुष्येषु च सौहृदम् ।
परिचर्यां च उभयत्र महत्सु नृषु साधुषु ॥ २९॥
परस्पर अनुकथनं पावनं भगवत् यशः ।
मिथः रतिः मिथः तुष्टिः निवृत्तिः मिथः आत्मनः ॥ ३०॥
स्मरन्तः स्मारयन्तः च मिथः अघौघहरं हरिम् ।
भक्त्या सञ्जातया भक्त्या बिभ्रति उत्पुलकां तनुम् ॥ ३१॥
क्वचित् रुदन्ति अच्युतचिन्तया क्वचित्
हसन्ति नन्दन्ति वदन्ति अलौकिकाः ।
नृत्यन्ति गायन्ति अनुशीलयन्ति
अजं भवन्ति तूष्णीं परम् एत्य निर्वृताः ॥ ३२॥
इति भागवतान् धर्मान् शिक्षन् भक्त्या तदुत्थया ।
नारायणपरः मायम् अञ्जः तरति दुस्तराम् ॥ ३३॥
राजा उवाच ।
नारायण अभिधानस्य ब्रह्मणः परमात्मनः ।
निष्ठाम् अर्हथ नः वक्तुं यूयं हि ब्रह्मवित्तमाः ॥ ३४॥
पिप्पलायनः उवाच ।
स्थिति उद्भवप्रलयहेतुः अहेतुः अस्य
यत् स्वप्नजागरसुषुप्तिषु सत् बहिः च ।
देह इन्द्रियासुहृदयानि चरन्ति येन
सञ्जीवितानि तत् अवेहि परं नरेन्द्र ॥ ३५॥
न एतत् मनः विशति वागुत चक्षुः आत्मा
प्राणेन्द्रियाणि च यथा अनलम् अर्चिषः स्वाः ।
शब्दः अपि बोधकनिषेधतया आत्ममूलम्
अर्थ उक्तम् आह यदृते न निषेधसिद्धिः ॥ ३६॥
सत्वम् रजः तमः इति त्रिवृदेकम् आदौ
सूत्रं महान् अहम् इति प्रवदन्ति जीवम् ।
ज्ञानक्रिया अर्थफलरूपतयोः उशक्ति
ब्रह्म एव भाति सत् असत् च तयोः परं यत् ॥ ३७॥
न आत्मा जजान न मरिष्यति न एधते असौ
न क्षीयते सवनवित् व्यभिचारिणां हि ।
सर्वत्र शस्वदनपायि उपलब्धिमात्रं
प्राणः यथा इन्द्रियवलेन विकल्पितं सत् ॥ ३८॥
अण्डेषु पेशिषु तरुषु अविनिश्चितेषु
प्राणः हि जीवम् उपधावति तत्र तत्र ।
सन्ने यत् इन्द्रियगणे अहमि च प्रसुप्ते
कूटस्थः आशयमृते तत् अनुस्मृतिः नः ॥ ३९॥
यः हि अब्ज नाभ चरण एषणयोः उभक्त्या
चेतोमलानि विधमेत् गुणकर्मजानि ।
तस्मिन् विशुद्धः उपलभ्यतः आत्मतत्त्वम्
साक्षात् यथा अमलदृशः सवितृप्रकाशः ॥ ४०॥
कर्मयोगं वदत नः पुरुषः येन संस्कृतः ।
विधूय इह आशु कर्माणि नैष्कर्म्यं विन्दते परम् ॥ ४१॥
एवं प्रश्नम् ऋषिन् पूर्वम् अपृच्छं पितुः अन्तिके ।
न अब्रुवन् ब्रह्मणः पुत्राः तत्र कारणम् उच्यताम् ॥ ४२॥
आविर्होत्रः उवाच ।
कर्म अकर्मविकर्म इति वेदवादः न लौकिकः ।
वेदस्य च ईश्वरआत्मत्वात् तत्र मुह्यन्ति सूरयः ॥ ४३॥
परोक्षवादः वेदः अयं बालानाम् अनुशासनम् ।
कर्ममोक्षाय कर्माणि विधत्ते हि अगदं यथा ॥ ४४॥
न आचरेत् यः तु वेद उक्तं स्वयम् अज्ञः अजितेन्द्रियः ।
विकर्मणा हि अधर्मेण मृत्योः मृत्युम् उपैति सः ॥ ४५॥
वेद उक्तम् एव कुर्वाणः निःसङ्गः अर्पितम् ईश्वरे ।
नैष्कर्म्यां लभते सिद्धिं रोचनार्था फलश्रुतिः ॥ ४६॥
यः आशु हृदयग्रन्थिं निर्जिहीषुः परात्मनः ।
विधिना उपचरेत् देवं तन्त्र उक्तेन च केशवम् ॥ ४७॥
लब्ध अनुग्रहः आचार्यात् तेन सन्दर्शितआगमः ।
महापुरुषम् अभ्यर्चेत् मूर्त्या अभिमतया आत्मनः ॥ ४८॥
शुचिः संमुखम् आसीनः प्राणसंयमनआदिभिः ।
पिण्डं विशोध्य संन्यासकृतरक्षः अर्चयेत् हरिम् ॥ ४९॥
अर्चआदौ हृदये च अपि यथालब्ध उपचारकैः ।
द्रव्यक्षितिआत्मलिङ्गानि निष्पाद्य प्रोक्ष्य च आसनम्
॥ ५०॥
पाद्यआदीन् उपकल्प्या अथ संनिधाप्य समाहितः ।
हृत् आदिभिः कृतन्यासः मूलमन्त्रेण च अर्चयेत् ॥ ५१॥
साङ्गोपाङ्गां सपार्षदां तां तां मूर्तिं स्वमन्त्रतः ।
पाद्य अर्घ्यआचमनीयआद्यैः स्नानवासःविभूषणैः
॥ ५२॥
गन्धमाल्याक्षतस्रग्भिः धूपदीपहारकैः ।
साङ्गं सम्पूज्य विधिवत् स्तवैः स्तुत्वा नमेत् हरिम् ॥ ५३॥
आत्मां तन्मयं ध्यायन् मूर्तिं सम्पूजयेत् हरेः ।
शेषाम् आधाय शिरसि स्वधाम्नि उद्वास्य सत्कृतम् ॥ ५४॥
एवम् अग्नि अर्कतोयआदौ अतिथौ हृदये च यः ।
यजति ईश्वरम् आत्मानम् अचिरात् मुच्यते हि सः ॥ ५५॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे निमिजायन्तसंवादे
मायाकर्मब्रह्मनिरूपणं तृतीयोऽध्यायः ॥ ३॥
अथ चतुर्थोऽध्यायः ।
राजा उवाच ।
यानि यानि इह कर्माणि यैः यैः स्वच्छन्दजन्मभिः ।
चक्रे करोति कर्ता वा हरिः तानि ब्रुवन्तु नः ॥ १॥
द्रुमिलः उवाच ।
यः वा अनन्तस्य गुणान् अनन्तान्
अनुक्रमिष्यन् सः तु बालबुद्धिः ।
रजांसि भूमेः गणयेत् कथञ्चित्
कालेन न एव अखिलशक्तिधाम्नः ॥ २॥
भूतैः यदा पञ्चभिः आत्मसृष्टैः
पुरं विराजं विरचय्य तस्मिन् ।
स्वांशेन विष्टः पुरुषाभिधान
मवाप नारायणः आदिदेवः ॥ ३॥
यत् कायः एषः भुवनत्रयसंनिवेशः
यस्य इन्द्रियैः तनुभृताम् उभयैन्द्रियाणि ।
ज्ञानं स्वतः श्वसनतः बलम् ओजः ईहा
सत्त्वआदिभिः स्थितिलयौद्भवः आदिकर्ता ॥ ४॥
आदौ अभूत् शतधृती रजस अस्य सर्गे
विष्णु स्थितौ क्रतुपतिः द्विजधर्मसेतुः ।
रुद्रः अपि अयाय तमसा पुरुषः सः आद्यः
इति उद्भवस्थितिलयाः सततं प्रजासु ॥ ५॥
धर्मस्य दक्षदुहितर्यजनिष्टः मूर्त्या
नारायणः नरः ऋषिप्रवरः प्रशान्तः ।
नैष्कर्म्यलक्षणम् उवाच चचार कर्म
यः अद्य अपि च आस्त ऋषिवर्यनिषेविताङ्घ्रिः ॥ ६॥
इन्द्रः विशङ्क्य मम धाम जिघृक्षति इति
कामं न्ययुङ्क्त सगणं सः बदरिउपाख्यम् ।
गत्वा अप्सरोगणवसन्तसुमन्दवातैः
स्त्रीप्रेक्षण इषुभिः अविध्यतत् महिज्ञः ॥ ७॥
विज्ञाय शक्रकृतम् अक्रमम् आदिदेवः
प्राह प्रहस्य गतविस्मयः एजमानान् ।
मा भैष्ट भो मदन मारुत देववध्वः
गृह्णीत नः बलिम् अशून्यम् इमं कुरुध्वम् ॥ ८॥
इत्थं ब्रुवति अभयदे नरदेव देवाः
सव्रीडनम्रशिरसः सघृणम् तम् ऊचुः ।
न एतत् विभो त्वयि परे अविकृते विचित्रम्
स्वारामधीः अनिकरानतपादपद्मे ॥ ९॥
त्वां सेवतां सुरकृता बहवः अन्तरायाः
स्वौको विलङ्घ्य परमं व्रजतां पदं ते ।
न अन्यस्य बर्हिषि बलीन् ददतः स्वभागान्
धत्ते पदं त्वम् अविता यदि विघ्नमूर्ध्नि ॥ १०॥
क्षुत् तृट्त्रिकालगुणमारुतजैव्ह्यशैश्न्यान्
अस्मान् अपारजलधीन् अतितीर्य केचित् ।
क्रोधस्य यान्ति विफलस्य वश पदे गोः
मज्जन्ति दुश्चरतपः च वृथा उत्सृजन्ति ॥ ११॥
इति प्रगृणतां तेषां स्त्रियः अति अद्भुतदर्शनाः ।
दर्शयामास शुश्रूषां स्वर्चिताः कुर्वतीः विभुः ॥ १२॥
ते देव अनुचराः दृष्ट्वा स्त्रियः श्रीः इव रूपिणीः ।
गन्धेन मुमुहुः तासां रूप औदार्यहतश्रियः ॥ १३॥
तान् आह देवदेव ईशः प्रणतान् प्रहसन् इव ।
आसाम् एकतमां वृङ्ग्ध्वं सवर्णां स्वर्गभूषणाम् ॥
१४॥
ओम् इति आदेशम् आदाय नत्वा तं सुरवन्दिनः ।
उर्वशीम् अप्सरःश्रेष्ठां पुरस्कृत्य दिवं ययुः ॥ १५॥
इन्द्राय आनम्य सदसि श्रुण्वतां त्रिदिवौकसाम् ।
ऊचुः नारायणबलं शक्रः तत्र आस विस्मितः ॥ १६॥
हंसस्वरूपी अवददत् अच्युतः आत्मयोगम्
दत्तः कुमार ऋषभः भगवान् पिता नः ।
विष्णुः शिवाय जगतां कलया अवतीर्णः
तेन आहृताः मधुभिदा श्रुतयः हयास्ये ॥ १७॥
गुप्तः अपि अये मनुः इला ओषधयः च मात्स्ये
क्रौडे हतः दितिजः उद्धरता अम्भसः क्ष्माम् ।
कौर्मे धृतः अद्रिः अमृत उन्मथने स्वपृष्ठे
ग्राहात् प्रपन्नमिभराजम् अमुञ्चत् आर्तम् ॥ १८॥
संस्तुन्वतः अब्धिपतितान् श्रमणान् ऋषीं च
शक्रं च वृत्रवधतः तमसि प्रविष्टम् ।
देवस्त्रियः असुरगृहे पिहिताः अनाथाः
जघ्ने असुरेन्द्रम् अभयाय सतां नृसिंहे ॥ १९॥
देव असुरे युधि च दैत्यपतीन् सुरार्थे
हत्वा अन्तरेषु भुवनानि अदधात् कलाभिः ।
भूत्वा अथ वामनः इमाम् अहरत् बलेः क्ष्माम्
याञ्चाच्छलेन समदात् अदितेः सुतेभ्यः ॥ २०॥
निःक्षत्रियाम् अकृत गां च त्रिःसप्तकृत्वः
रामः तु हैहयकुल अपि अयभार्गव अग्निः ।
सः अब्धिं बबन्ध दशवक्त्रम् अहन् सलङ्कम्
सीतापतिः जयति लोकम् अलघ्नकीर्तिः ॥ २१॥
भूमेः भर अवतरणाय यदुषि अजन्मा जातः
करिष्यति सुरैः अपि दुष्कराणि ।
वादैः विमोहयति यज्ञकृतः अतदर्हान्
शूद्रां कलौ क्षितिभुजः न्यहनिष्यदन्ते ॥ २२॥
एवंविधानि कर्माणि जन्मानि च जगत् पतेः ।
भूरीणि भूरियशसः वर्णितानि महाभुज ॥ २३॥
इति श्रीमद्भगवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे निमिजायन्तसंवादे
चतुर्थोऽध्यायः ॥ ४॥
अथ पञ्चमोऽध्यायः ।
राजा उवाच ।
भगवन्तं हरिं प्रायः न भजन्ति आत्मवित्तमाः ।
तेषाम् अशान्तकामानां का निष्ठा अविजितात्मनाम् ॥ १॥
चमसः उवाच ।
मुखबाहूरूपआदेभ्यः पुरुषस्य आश्रमैः सह ।
चत्वारः जज्ञिरे वर्णाः गुणैः विप्रआदयः पृथक् ॥ २॥
यः एषां पुरुषं साक्षात् आत्मप्रभवम् ईश्वरम् ।
न भजन्ति अवजानन्ति स्थानात् भ्रष्टाः पतन्ति अधः ॥ ३॥
दूरे हरिकथाः केचित् दूरे च अच्युतकीर्र्तनाः ।
स्त्रियः शूद्रआदयः च एव ते अनुकम्प्या भवादृशाम् ॥ ४॥
विप्रः राजन्यवैश्यौ च हरेः प्राप्ताः पदान्तिकम् ।
श्रौतेन जन्मना अथ अपि मुह्यन्ति आम्नायवादिनः ॥ ५॥
कर्मणि अकोविदाः स्तब्धाः मूर्खाः पण्डितमानिनः ।
वदन्ति चाटुकात् मूढाः यया माध्व्या गिर उत्सुकाः ॥ ६॥
रजसा घोरसङ्कल्पाः कामुकाः अहिमन्यवः ।
दाम्भिकाः मानिनः पापाः विहसन्ति अच्युतप्रियान् ॥ ७॥
वदन्ति ते अन्योन्यम् उपासितस्त्रियः
गृहेषु मैथुन्यसुखेषु च आशिषः ।
यजन्ति असृष्टान् अविधान् अदक्षिणम्
वृत्त्यै परं घ्नन्ति पशून् अतद्विदः ॥ ८॥
श्रिया विभूत्या अभिजनेन विद्यया
त्यागेन रूपेण बलेन कर्मणा
सतः अवमन्यन्ति हरिप्रियान् खलाः ॥ ९॥
सर्वेषु शश्वत् तनुभृत् स्ववस्थितम्
यथा स्वम् आत्मानम् अभीष्टम् ईश्वरम् ।
वेदोपगीतं च न श्रुण्वते अबुधाः
मनोरथानां प्रवदन्ति वार्तया ॥ १०॥
लोके व्यवाय आमिषम् अद्यसेवा
नित्याः तु जन्तोः न हि तत्र चोदना ।
व्यवस्थितिः तेषु विवाहयज्ञ
सुराग्रहैः आसु निवृत्तिः इष्टा ॥ ११॥
धनं च धर्मएकफलं यतः वै
ज्ञानं सविज्ञानम् अनुप्रशान्ति ।
गृहेषु युञ्जन्ति कलेवरस्य
मृत्युं न पश्यन्ति दुरन्तवीर्यम् ॥ १२॥
यत् घ्राणभक्षः विहितः सुरायाः
तथा पशोः आलभनं न हिंसा ।
एवं व्यवायः प्रजया न रत्या
इअमं विशुद्धं न विदुः स्वधर्मम् ॥ १३॥
ये तु अनेवंविदः असन्तः स्तब्धाः सत् अभिमानिनः ।
पशून् द्रुह्यन्ति विस्रब्धाः प्रेत्य खादन्ति ते च तान् ॥ १४॥
द्विषन्तः परकायेषु स्वात्मानं हरिम् ईश्वरम् ।
मृतके सानुबन्धे अस्मिन् बद्धस्नेहाः पतन्ति अधः ॥ १५॥
ये कैवल्यम् असम्प्राप्ताः ये च अतीताः च मूढताम् ।
त्रैवर्गिकाः हि अक्षणिकाः आत्मानं घातयन्ति ते ॥ १६॥
एतः आत्महनः अशान्ताः अज्ञाने ज्ञानमानिनः ।
सीदन्ति अकृतकृत्याः वै कालध्वस्तमनोरथाः ॥ १७॥
हित्वा आत्याय असरचिताः गृह अपत्यसुहृत् श्रियः ।
तमः विशन्ति अनिच्छन्तः वासुदेवपराङ्मुखाः ॥ १८॥
राजा उवाच ।
कस्मिन् काले सः भगवान् किं वर्णः कीदृशः नृभिः ।
नाम्ना वा केन विधिना पूज्यते तत् इह उच्यताम् ॥ १९॥
करभाजनः उवाच ।
कृतं त्रेता द्वापरं च कलिः इत्येषु केशवः ।
नानावर्ण अभिधआकारः नाना एव विधिना इज्यते ॥ २०॥
कृते शुक्लः चतुर्बाहुः जटिलः वल्कलाम्बरः ।
कृष्णाजिनौपवीताक्षान् बिभ्रत् दण्डकमण्डलून् ॥ २१॥
मनुष्याः तु तदा शान्ताः निर्वैराः सुहृदः समाः ।
यजन्ति तपसा देवं शमेन च दमेन च ॥ २२॥
हंसः सुपर्णः वैकुण्ठः धर्मः योगेश्वरः अमलः ।
ईश्वरः पुरुषः अव्यक्तः परमात्मा इति गीयते ॥ २३॥
त्रेतायां रक्तवर्णः असौ चतुर्बाहुः त्रिमेखलः ।
हिरण्यकेशः त्रयी आत्मा स्रुक्स्रुवआदि उपलक्षणः ॥ २४॥
तं तदा मनुजा देवं सर्वदेवमयं हरिम् ।
यजन्ति विद्यया त्रय्या धर्मिष्ठाः ब्रह्मवादिनः ॥ २५॥
विष्णुः यज्ञः पृष्णिगर्भः सर्वदेवः उरुक्रमः ।
वृषाकपिः जयन्तः च उरुगाय इति ईर्यते ॥ २६॥
द्वापरे भगवान् श्यामः पीतवासा निजायुधः ।
श्रीवत्सआदिभिः अङ्कैः च लक्षणैः उपलक्षितः ॥ २७॥
तं तदा पुरुषं मर्त्या महाराजौपलक्षणम् ।
यजन्ति वेदतन्त्राभ्यां परं जिज्ञासवः नृप ॥ २८॥
नमः ते वासुदेवाय नमः सङ्कर्षणाय च ।
प्रद्युम्नाय अनिरुद्धाय तुभ्यं भगवते नमः ॥ २९॥
नारायणाय ऋषये पुरुषाय महात्मने ।
विश्वेश्वराय विश्वाय सर्वभूतआत्मने नमः ॥ ३०॥
इति द्वापरः उर्वीश स्तुवन्ति जगदीश्वरम् ।
नानातन्त्रविधानेन कलौ अपि यथा श्रुणु ॥ ३१॥
कृष्णवर्णं त्विषाकृष्णं साङ्गौपाङ्गास्त्र
पार्षदम् ।
यज्ञैः सङ्कीर्तनप्रायैः यजन्ति हि सुमेधसः ॥ ३२॥
ध्येयं सदा परिभवघ्नम् अभीष्टदोहम्
तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यम् ।
भृत्यार्तिहन् प्रणतपाल भवाब्धिपोतम्
वन्दे महापुरुष ते चरणारविन्दम् ॥ ३३॥
त्यक्त्वा सुदुस्त्यजसुरैप्सितराज्यलक्ष्मीम्
धर्मिष्ठः आर्यवचसा यत् अगात् अरण्यम् ।
मायामृगं दयितया इप्सितम् अन्वधावत्
वन्दे महापुरुष ते चरणारविन्दम् ॥ ३४॥
एवं युगानुरूपाभ्यां भगवान् युगवर्तिभिः ।
मनुजैः इज्यते राजन् श्रेयसाम् ईश्वरः हरिः ॥ ३५॥
कलिं सभाजयन्ति आर्या गुणज्ञाः सारभागिनः ।
यत्र सङ्कीर्तनेन एव सर्वः स्वार्थः अभिलभ्यते ॥ ३६॥
न हि अतः परमः लाभः देहिनां भ्राम्यताम् इह ।
यतः विन्देत परमां शान्तिं नश्यति संसृतिः ॥ ३७॥
कृतआदिषु प्रजा राजन् कलौ इच्छन्ति सम्भवम् ।
कलौ खलु भविष्यन्ति नारायणपरायणाः ॥ ३८॥
क्वचित् क्वचित् महाराज द्रविडेषु च भूरिशः ।
ताम्रपर्णी नदी यत्र कृतमाला पयस्विनी ॥ ३९॥
कावेरी च महापुण्या प्रतीची च महानदी ।
ये पिबन्ति जलं तासां मनुजा मनुजेश्वर ।
प्रायः भक्ताः भगवति वासुदेवः अमल आशयाः ॥ ४०॥
देवर्षिभूतआप्तनृणा पितॄणां
न किङ्करः न अयं ऋणी च राजन् ।
सर्वआत्मना यः शरणं शरण्यम्
गतः मुकुन्दं परिहृत्य कर्तुम् ॥ ४१॥
स्वपादमूलं भजतः प्रियस्य
त्यक्तान्यभावस्य हरिः परेशः ।
विकर्म यत् च उत्पतितं कथञ्चित्
धुनोति सर्वं हृदि संनिविष्टः ॥ ४२॥
नारदः उवाच ।
धर्मान् भागवतान् इत्थं श्रुत्वा अथ मिथिलेश्वरः ।
जायन्त इयान् मुनीन् प्रीतः सोपाध्यायः हि अपूजयत् ॥ ४३॥
ततः अन्तः दधिरे सिद्धाः सर्वलोकस्य पश्यतः ।
राजा धर्मान् उपातिष्ठन् अवाप परमां गतिम् ॥ ४४॥
त्वम् अपि एतान् महाभाग धर्मान् भागवतान् श्रुतान् ।
आस्थितः श्रद्धया युक्तः निःसङ्गः यास्यसे परम् ॥ ४५॥
युवयोः खलु दम्पत्योः यशसा पूरितं जगत् ।
पुत्रताम् अगमत् यत् वां भगवान् ईश्वरः हरिः ॥ ४६॥
दर्शनआलिङ्गनआलापैः शयनआसनभोजनैः ।
आत्मा वां पावितः कृष्णे पुत्रस्नेह प्रकुर्वतोः ॥ ४७॥
वैरेण यं नृपतयः शिशुपालपौण्ड्र
शाल्वआदयः गतिविलासविलोकनआदयैः ।
ध्यायन्तः आकृतधियः शयनआसनआदौ
तत् साम्यम् आपुः अनुरक्तधियां पुनः किम् ॥ ४८॥
मा अपत्यबुद्धिम् अकृथाः कृष्णे सर्वआत्मनईश्वरे ।
मायामनुष्यभावेन गूढ ऐश्वर्ये परे अव्यये ॥ ४९॥
भूभारराजन्यहन्तवे गुप्तये सताम् ।
अवतीर्णस्य निर्वृत्यै यशः लोके वितन्यते ॥ ५०॥
श्रीशुकः उवाच ।
एतत् श्रुत्वा महाभागः वसुदेवः अतिविस्मितः ।
देवकी च महाभागाः जहतुः मोहम् आत्मनः ॥ ५१॥
इतिहासम् इमं पुण्यं धारयेत् यः समाहितः ।
सः विधूय इह शमलं ब्रह्मभूयाय कल्पते ॥ ५२॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे वसुदेवनारदसंवादे
पञ्चमोऽध्यायः ॥ ५॥
अथ षष्ठोऽध्यायः ।
श्रीशुकः उवाच ।
अथ ब्रह्मा आत्मजैः देवैः प्रजेशैः आवृतः अभ्यगात् ।
भवः च भूतभव्यईशः ययौ भूतगणैः वृतः ॥ १॥
इन्द्रः मरुद्भिः भगवान् आदित्याः वसवः अश्विनौ ।
ऋभवः अङ्गिरसः रुद्राः विश्वे साध्याः च देवताः ॥ २॥
गन्धर्वाप्सरसः नागाः सिद्धचारणगुह्यकाः ।
ऋषयः पितरः च एव सविद्याधरकिन्नराः ॥ ३॥
द्वारकाम् उपसञ्जग्मुः सर्वे कृष्णआदिदृक्षवः ।
वपुषा येन भगवान् नरलोकमनोरमः ।
यशः वितेने लोकेषु सर्वलोकमलापहम् ॥ ४॥
तस्यां विभ्राजमानायां समृद्धायां महर्धिभिः ।
व्यचक्षत अवितृप्ताक्षाः कृष्णम् अद्भुतदर्शनम् ॥
५॥
स्वर्गौद्यानौअपगैः माल्यैः छादयन्तः यदु उत्तमम् ।
गीर्भिः चित्रपदार्थाभिः तुष्टुवुः जगत् ईश्वरम् ॥६॥
देवाः ऊचुः ।
नताः स्म ते नाथ पदारविन्दं
बुद्धीन्द्रियप्राणमनोवचोभिः ।
यत् चिन्त्यते अन्तर्हृदि भावयुक्तैः
मुमुक्षुभिः कर्ममय ऊरुपाशात् ॥ ७॥
त्वं मायया त्रिगुणया आत्मनि दुर्विभाव्यं
व्यक्तं सृजसि अवसि लुम्पसि तत् गुणस्थः ।
न एतैः भवान् अजित कर्मभिः अज्यते वै
यत् स्वे सुखे अव्यवहिते अभिरतः अनवद्यः ॥ ८॥
शुद्धिः नृणां न तु तथा ईड्य दुराशयानां
विद्याश्रुताध्ययनदानतपक्रियाभिः ।
सत्त्वआत्मनाम् ऋषभ ते यशसि प्रवृद्ध
सत् श्रद्धया श्रवणसम्भृतया यथा स्यात् ॥ ९॥
स्यात् नः तव अङ्घ्रिः अशुभाशयधूमकेतुः
क्षेमाय यः मुनिभिः आर्द्रहृदौह्यमानः ।
यः सात्वतैः समविभूतयः आत्मवद्भिः
व्यूहे अर्चितः सवनशः स्वः अतिक्रमाय ॥ १०॥
यः चिन्त्यते प्रयतपाणिभिः अध्वराग्नौ
त्रय्या निरुक्तविधिना ईश हविः गृहीत्वा ।
अध्यात्मयोगः उत योगिभिः आत्ममायां
जिज्ञासुभिः परमभागवतैः परीष्टः ॥ ११॥
पर्युष्टया तव विभो वनमालया इयं
संस्पर्धिनी भगवती प्रतिपत्निवत् श्रीः ।
यः सुप्रणीतम् अमुयार्हणम् आदत् अन्नः
भूयात् सदा अङ्घ्रिः अशुभआशयधूमकेतुः ॥ १२॥
केतुः त्रिविक्रमयुतः त्रिपत् पताकः
यः ते भयाभयकरः असुरदेवचम्वोः ।
स्वर्गाय साधुषु खलु एषु इतराय भूमन्
पादः पुनातु भगवन् भजताम् अधं नः ॥ १३॥
नस्योतगावः इव यस्य वशे भवन्ति
ब्रह्मआदयः अनुभृतः मिथुरर्द्यमानाः ।
कालस्य ते प्रकृतिपूरुषयओः परस्य
शं नः तनोतु चरणः पुरुषोत्तमस्य ॥ १४॥
अस्य असि हेतुः उदयस्थितिसंयमानां
अव्यक्तजीवमहताम् अपि कालम् आहुः ।
सः अयं त्रिणाभिः अखिल अपचये प्रवृत्तः
कालः गभीररयः उत्तमपूरुषः त्वम् ॥ १५॥
त्वत्तः पुमान् समधिगम्य यया स्ववीर्य
धत्ते महान्तम् इव गर्भम् अमोघवीर्यः ।
सः अयं तया अनुगतः आत्मनः आण्डकोशं
हैमं ससर्ज बहिः आवरणैः उपेतम् ॥ १६॥
तत्तस्थुषः च जगतः च भवान् अधीशः
यत् मायया उत्थगुणविक्रियया उपनीतान् ।
अर्थान् जुषन् अपि हृषीकपते न लिप्तः
ये अन्ये स्वतः परिहृतात् अपि बिभ्यति स्म ॥ १७॥
स्माया अवलोकलवदर्शितभावहारि
भ्रूमण्डलप्रहितसौरतमन्त्रशौण्डैः ।
पत्न्यः तु षोडशसहस्रम् अनङ्गबाणैः
यस्य इन्द्रियं विमथितुं करणैः विभ्व्यः ॥ १८॥
विभ्व्यः तव अमृतकथा उदवहाः त्रिलोक्याः
पादौ अनेजसरितः शमलानि हन्तुम् ।
आनुश्रवं श्रुतिभिः अङ्घ्रिजम् अङ्गसङ्गैः
तीर्थद्वयं शुचिषदस्तः उपस्पृशन्ति ॥ १९॥
बादरायणिः उवाच ।
इति अभिष्टूय विबुधैः सेशः शतधृतिः हरिम् ।
अभ्यभाषत गोविन्दं प्रणम्य अम्बरम् आश्रितः ॥ २०॥
ब्रह्म उवाच ।
भूमेः भार अवताराय पुरा विज्ञापितः प्रभो ।
त्वम् अस्माभिः अशेषआत्मन् तत् तथा एव उपपादितम् ॥ २१॥
धर्मः च स्थापितः सत्सु सत्यसन्धेषु वै त्वया ।
कीर्तिः च दिक्षु विक्षिप्ता सर्वलोकमलआपहा ॥ २२॥
अवतीर्य यदोः वंशे बिभ्रत् रूपम् अनुत्तमम् ।
कर्माणि उद्दामवृत्तानि हिताय जगतः अकृथाः ॥ २३॥
यानि ते चरितानि ईश मनुष्याः साधवः कलौ ।
शृण्वन्तः कीर्तयन्तः च तरिष्यन्ति अञ्जसा तमः ॥ २४॥
यदुवंशे अवतीर्णस्य भवतः पुरुषोत्तम ।
शरत् शतं व्यतीयाय पञ्चविंश अधिकं प्रभोः ॥ २५॥
न अधुना ते अखिल आधार देवकार्य अवशेषितम् ।
कुलं च विप्रशापेन नष्टप्रायम् अभूत् इदम् ॥ २६॥
ततः स्वधाम परमं विशस्व यदि मन्यसे ।
सलोकान् लोकपालान् नः पाहि वैकुण्ठकिङ्करान् ॥ २७॥
श्री भगवान् उवाच ।
अवधारितम् एतत् मे यदात्थ विबुधेश्वर ।
कृतं वः कार्यम् अखिलं भूमेः भारः अवतारितः ॥ २८॥
तत् इदं यादवकुलं वीर्यशौर्यश्रियोद्धतम् ।
लोकं जिघृक्षत् रुद्धं मे वेलया इव महार्णवः ॥ २९॥
यदि असंहृत्य दृप्तानां यदुनां विपुलं कुलम् ।
गन्तास्मि अनेन लोकः अयम् उद्वेलेन विनङ्क्ष्यति ॥ ३०॥
इदानीं नाशः आरब्धः कुलस्य द्विजशापतः ।
यास्यामि भवनं ब्रह्मन् न एतत् अन्ते तव आनघ ॥ ३१॥
श्री शुकः उवाच ।
इति उक्तः लोकनाथेन स्वयम्भूः प्रणिपत्य तम् ।
सह देवगणैः देवः स्वधाम समपद्यत ॥ ३२॥
अथ तस्यां महोत्पातान् द्वारवत्यां समुत्थितान् ।
विलोक्य भगवान् आह यदुवृद्धान् समागतान् ॥ ३३॥
श्री भगवान् उवाच ।
एते वै सुमहोत्पाताः व्युत्तिष्ठन्ति इह सर्वतः ।
शापः च नः कुलस्य आसीत् ब्राह्मणेभ्यः दुरत्ययः ॥ ३४॥
न वस्तव्यम् इह अस्माभिः जिजीविषुभिः आर्यकाः ।
प्रभासं सुमहत् पुण्यं यास्यामः अद्य एव मा चिरम् ॥ ३५॥
यत्र स्नात्वा दक्षशापात् गृहीतः यक्ष्मणौडुराट् ।
विमुक्तः किल्बिषात् सद्यः भेजे भूयः कलोदयम् ॥ ३६॥
वयं च तस्मिन् आप्लुत्य तर्पयित्वा पितॄन्सुरान् ।
भोजयित्वा उशिजः विप्रान् नानागुणवता अन्धसा ॥ ३७॥
तेषु दानानि पात्रेषु श्रद्धया उप्त्वा महान्ति वै ।
वृजिनानि तरिष्यामः दानैः नौभिः इव अर्णवम् ॥ ३८॥
श्री शुकः उवाच ।
एवं भगवता आदिष्टाः यादवाः कुलनन्दन ।
गन्तुं कृतधियः तीर्थं स्यन्दनान् समयूयुजन् ॥ ३९॥
तत् निरीक्ष्य उद्धवः राजन् श्रुत्वा भगवता उदितम् ।
दृष्ट्वा अरिष्टानि घोराणि नित्यं कृष्णम् अनुव्रतः ॥ ४०॥
विविक्तः उपसङ्गम्य जगताम् ईश्वरेश्वरम् ।
प्रणम्य शिरसा पादौ प्राञ्जलिः तम् अभाषत ॥ ४१॥
उद्धवः उवाच ।
देवदेवेश योगेश पुण्यश्रवणकीर्तन ।
संहृत्य एतत् कुलं नूनं लोकं सन्त्यक्ष्यते भवान् ।
विप्रशापं समर्थः अपि प्रत्यहन् न यदि ईश्वरः ॥ ४२॥
न अहं तव अङ्घ्रिकमलं क्षणार्धम् अपि केशव ।
त्यक्तुं समुत्सहे नाथ स्वधाम नय माम् अपि ॥ ४३॥
तव विक्रीडितं कृष्ण नृणां परममङ्गलम् ।
कर्णपीयूषम् आस्वाद्य त्यजति अन्यस्पृहां जनः ॥ ४४॥
शय्यआसनाटनस्थानस्नानक्रीडाशनआदिषु ।
कथं त्वां प्रियम् आत्मानं वयं भक्ताः त्यजेमहि ॥ ४५॥
त्वया उपभुक्तस्रक्गन्धवासः अलङ्कारचर्चिताः ।
उच्छिष्टभोजिनः दासाः तव मायां जयेमहि ॥ ४६॥
वाताशनाः यः ऋषयः श्रमणा ऊर्ध्वमन्थिनः ।
ब्रह्मआख्यं धाम ते यान्ति शान्ताः संन्यासिनः अमलाः ॥
४७॥
वयं तु इह महायोगिन् भ्रमन्तः कर्मवर्त्मसु ।
त्वत् वार्तया तरिष्यामः तावकैः दुस्तरं तमः ॥ ४८॥
स्मरन्तः कीर्तयन्तः ते कृतानि गदितानि च ।
गतिउत्स्मितईक्षणक्ष्वेलि यत् नृलोकविडम्बनम् ॥ ४९॥
श्री शुकः उवाच ।
एवं विज्ञापितः राजन् भगवान् देवकीसुतः ।
एकान्तिनं प्रियं भृत्यम् उद्धवं समभाषत ॥ ५०॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे देवस्तुत्युद्ध्वविज्ञापनं नाम
षष्ठोऽध्यायः ॥ ६॥
अथ सप्तमोऽध्यायः ।
श्री भगवान् उवाच ।
यत् आत्थ मां महाभाग तत् चिकीर्षितम् एव मे ।
ब्रह्मा भवः लोकपालाः स्वर्वासं मे अभिकाङ्क्षिणः ॥ १॥
मया निष्पादितं हि अत्र देवकार्यम् अशेषतः ।
यदर्थम् अवतीर्णः अहम् अंशेन ब्रह्मणार्थितः ॥ २॥
कुलं वै शापनिर्दग्धं नङ्क्ष्यति अन्योन्यविग्रहात् ।
समुद्रः सप्तमे अह्न्ह्येतां पुरीं च प्लावयिष्यति ॥ ३॥
यः हि एव अयं मया त्यक्तः लोकः अयं नष्टमङ्गलः ।
भविष्यति अचिरात् साधो कलिनाऽपि निराकृतः ॥ ४॥
न वस्तव्यं त्वया एव इह मया त्यक्ते महीतले ।
जनः अधर्मरुचिः भद्रः भविष्यति कलौ युगे ॥ ५॥
त्वं तु सर्वं परित्यज्य स्नेहं स्वजनबन्धुषु ।
मयि आवेश्य मनः सम्यक् समदृक् विचरस्व गाम् ॥ ६॥
यत् इदं मनसा वाचा चक्षुर्भ्यां श्रवणआदिभिः ।
नश्वरं गृह्यमाणं च विद्धि मायामनोमयम् ॥ ७॥
पुंसः अयुक्तस्य नानार्थः भ्रमः सः गुणदोषभाक् ।
कर्माकर्मविकर्म इति गुणदोषधियः भिदा ॥ ८॥
तस्मात् युक्तैन्द्रियग्रामः युक्तचित्तः इदं जगत् ।
आत्मनि ईक्षस्व विततम् आत्मानं मयि अधीश्वरे ॥ ९॥
ज्ञानविज्ञानसंयुक्तः आत्मभूतः शरीरिणाम् ।
आत्मानुभवतुष्टआत्मा न अन्तरायैः विहन्यसे ॥ १०॥
दोषबुद्ध्या उभयातीतः निषेधात् न निवर्तते ।
गुणबुद्ध्या च विहितं न करोति यथा अर्भकः ॥ ११॥
सर्वभूतसुहृत् शान्तः ज्ञानविज्ञाननिश्चयः ।
पश्यन् मदात्मकं विश्वं न विपद्येत वै पुनः ॥ १२॥
श्री शुकः उवाच ।
इति आदिष्टः भगवता महाभागवतः नृप ।
उद्धवः प्रणिपत्य आह तत्त्वजिज्ञासुः अच्युतम् ॥ १३॥
उद्धवः उवाच ।
योगेश योगविन्न्यास योगात्म योगसम्भव ।
निःश्रेयसाय मे प्रोक्तः त्यागः संन्यासलक्षणः ॥ १४॥
त्यागः अयं दुष्करः भूमन् कामानां विषयआत्मभिः ।
सुतरां त्वयि सर्वआत्मन् न अभक्तैः इति मे मतिः ॥ १५॥
सः अहं मम अहम् इति मूढमतिः विगाढः
त्वत् मायया विरचित आत्मनि सानुबन्धे ।
तत् तु अञ्जसा निगदितं भवता यथा अहम्
संसाधयामि भगवन् अनुशाधि भृत्यम् ॥ १६॥
सत्यस्य ते स्वदृशः आत्मनः आत्मनः अन्यम्
वक्तारम् ईश विबुधेषु अपि न अनुचक्षे ।
सर्वे विमोहितधियः तव मायया इमे
ब्रह्मआदयः तनुभृतः बहिः अर्थभावः ॥ १७॥
तस्मात् भवन्तम् अनवद्यम् अनन्तपारम्
सर्वज्ञम् ईश्वरम् अकुण्ठविकुण्ठधिष्णि अयम् ।
निर्विण्णधीः अहम् उ ह वृजनाभितप्तः
नारायणं नरसखं शरणं प्रपद्ये ॥ १८॥
श्री भगवान् उवाच ।
प्रायेण मनुजा लोके लोकतत्त्वविचक्षणाः ।
समुद्धरन्ति हि आत्मानम् आत्मना एव अशुभआशयात् ॥ १९॥
आत्मनः गुरुः आत्मा एव पुरुषस्य विशेषतः ।
यत् प्रत्यक्ष अनुमानाभ्यां श्रेयः असौ अनुविन्दते ॥ २०॥
पुरुषत्वे च मां धीराः साङ्ख्ययोगविशारदाः ।
आविस्तरां प्रपश्यन्ति सर्वशक्ति उपबृंहितम् ॥ २१॥
एकद्वित्रिचतुष्पादः बहुपादः तथा अपदः ।
बह्व्यः सन्ति पुरः सृष्टाः तासां मे पौरुषी प्रिया ॥ २२॥
अत्र मां मार्गयन्त्यद्धाः युक्ताः हेतुभिः ईश्वरम् ।
गृह्यमाणैः गुणैः लिङ्गैः अग्राह्यम् अनुमानतः ॥ २३॥
अत्र अपि उदाहरन्ति इमम् इतिहासं पुरातनम् ।
अवधूतस्य संवादं यदोः अमिततेजसः ॥ २४॥
(अथ अवधूतगीतम् ।)
अवधूतं द्विजं कञ्चित् चरन्तम् अकुतोभयम् ।
कविं निरीक्ष्य तरुणं यदुः पप्रच्छ धर्मवित् ॥ २५॥
यदुः उवाच ।
कुतः बुद्धिः इयं ब्रह्मन् अकर्तुः सुविशारदा ।
याम् आसाद्य भवान् लोकं विद्वान् चरति बालवत् ॥ २६॥
प्रायः धर्मार्थकामेषु विवित्सायां च मानवाः ।
हेतुना एव समीहन्ते आयुषः यशसः श्रियः ॥ २७॥
त्वं तु कल्पः कविः दक्षः सुभगः अमृतभाषणः ।
न कर्ता नेहसे किञ्चित् जडौन्मत्तपिशाचवत् ॥ २८॥
जनेषु दह्यमानेषु कामलोभदवाग्निना ।
न तप्यसे अग्निना मुक्तः गङ्गाम्भस्थः इव द्विपः ॥ २९॥
त्वं हि नः पृच्छतां ब्रह्मन् आत्मनि आनन्दकारणम् ।
ब्रूहि स्पर्शविहीनस्य भवतः केवल आत्मनः ॥ ३०॥
श्री भगवान् उवाच ।
यदुना एवं महाभागः ब्रह्मण्येन सुमेधसा ।
पृष्टः सभाजितः प्राह प्रश्रय अवनतं द्विजः ॥ ३१॥
ब्राह्मणः उवाच ।
सन्ति मे गुरवः राजन् बहवः बुद्ध्या उपाश्रिताः ।
यतः बुद्धिम् उपादाय मुक्तः अटामि इह तान् श्रुणु ॥ ३२॥
पृथिवी वायुः आकाशम् आपः अग्निः चन्द्रमा रविः ।
कपोतः अजगरः सिन्धुः पतङ्गः मधुकृद् गजः ॥ ३३॥
मधुहा हरिणः मीनः पिङ्गला कुररः अर्भकः ।
कुमारी शरकृत् सर्पः ऊर्णनाभिः सुपेशकृत् ॥ ३४॥
एते मे गुरवः राजन् चतुर्विंशतिः आश्रिताः ।
शिक्षा वृत्तिभिः एतेषाम् अन्वशिक्षम् इह आत्मनः ॥ ३५॥
यतः यत् अनुशिक्षामि यथा वा नाहुषआत्मज ।
तत् तथा पुरुषव्याघ्र निबोध कथयामि ते ॥ ३६॥
भूतैः आक्रमाणः अपि धीरः दैववशानुगैः ।
तत् विद्वान् न चलेत् मार्गात् अन्वशिक्षं क्षितेः व्रतम् ॥ ३७॥
शश्वत् परार्थसर्वेहः परार्थ एकान्तसम्भवः ।
साधुः शिक्षेत भूभृत्तः नगशिष्यः परात्मताम् ॥
३८॥
प्राणवृत्त्या एव सन्तुष्येत् मुनिः न एव इन्द्रियप्रियैः ।
ज्ञानं यथा न नश्येत न अवकीर्येत वाङ्मनः ॥ ३९॥
विषयेषु आविशन् योगी नानाधर्मेषु सर्वतः ।
गुणदोषव्यपेत आत्मा न विषज्जेत वायुवत् ॥ ४०॥
पार्थिवेषु इह देहेषु प्रविष्टः तत् गुणआश्रयः ।
गुणैः न युज्यते योगी गन्धैः वायुः इव आत्मदृक् ॥ ४१॥
अन्तः हितः च स्थिरजङ्गमेषु
ब्रह्म आत्मभावेन समन्वयेन ।
व्याप्त्य अवच्छेदम् असङ्गम् आत्मनः
मुनिः नभः त्वं विततस्य भावयेत् ॥ ४२॥
तेजः अबन्नमयैः भावैः मेघ आद्यैः वायुना ईरितैः ।
न स्पृश्यते नभः तद्वत् कालसृष्टैः गुणैः पुमान् ॥
४३॥
स्वच्छः प्रकृतितः स्निग्धः माधुर्यः तीर्थभूः नृणाम् ।
मुनिः पुनाति अपां मित्रम् ईक्ष उपस्पर्शकीर्तनैः ॥ ४४॥
तेजस्वी तपसा दीप्तः दुर्धर्षौदरभाजनः ।
सर्वभक्षः अपि युक्त आत्मा न आदत्ते मलम् अग्निवत् ॥ ४५॥
क्वचित् शन्नः क्वचित् स्पष्टः उपास्यः श्रेयः इच्छताम् ।
भुङ्क्ते सर्वत्र दातॄणां दहन् प्राक् उत्तर अशुभम् ॥
४६॥
स्वमायया सृष्टम् इदं सत् असत् लक्षणं विभुः ।
प्रविष्टः ईयते तत् तत् स्वरूपः अग्निः इव एधसि ॥ ४७॥
विसर्गाद्याः श्मशानान्ताः भावाः देहस्य न आत्मनः ।
कलानाम् इव चन्द्रस्य कालेन अव्यक्तवर्त्मना ॥ ४८॥
कालेन हि ओघवेगेन भूतानां प्रभव अपि अयौ ।
नित्यौ अपि न दृश्येते आत्मनः अग्नेः यथा अर्चिषाम् ॥ ४९॥
गुणैः गुणान् उपादत्ते यथाकालं विमुञ्चति ।
न तेषु युज्यते योगी गोभिः गाः इव गोपतिः ॥ ५०॥
बुध्यते स्वेन भेदेन व्यक्तिस्थः इव तत् गतः ।
लक्ष्यते स्थूलमतिभिः आत्मा च अवस्थितः अर्कवत् ॥ ५१॥
न अतिस्नेहः प्रसङ्गः वा कर्तव्यः क्व अपि केनचित् ।
कुर्वन् विन्देत सन्तापं कपोतः इव दीनधीः ॥ ५२॥
कपोतः कश्चन अरण्ये कृतनीडः वनस्पतौ ।
कपोत्या भार्यया सार्धम् उवास कतिचित् समाः ॥ ५३॥
कपोतौ स्नेहगुणितहृदयौ गृहधर्मिणौ ।
दृष्टिं दृष्ट्याङ्गम् अङ्गेन बुद्धिं बुद्ध्या बबन्धतुः ॥
५४॥
शय्यासनाटनस्थानवार्ताक्रीडाशनआदिकम् ।
मिथुनीभूय विस्रब्धौ चेरतुः वनराजिषु ॥ ५५॥
यं यं वाञ्छति सा राजन् तर्पयन्ति अनुकम्पिता ।
तं तं समनयत् कामं कृच्छ्रेण अपि अजितैन्द्रियः ॥ ५६॥
कपोती प्रथमं गर्भं गृह्णति कालः आगते ।
अण्डानि सुषुवे नीडे स्वपत्युः संनिधौ सती ॥ ५७॥
तेषू काले व्यजायन्त रचितावयवा हरेः ।
शक्तिभिः दुर्विभाव्याभिः कोमलाङ्गतनूरुहाः ॥ ५८॥
प्रजाः पुपुषतुः प्रीतौ दम्पती पुत्रवत्सलौ ।
शृण्वन्तौ कूजितं तासां निर्वृतौ कलभाषितैः ॥ ५९॥
तासां पतत्रैः सुस्पर्शैः कूजितैः मुग्धचेष्टितैः ।
प्रत्युद्गमैः अदीनानां पितरौ मुदम् आपतुः ॥ ६०॥
स्नेहानुबद्धहृदयौ अन्योन्यं विष्णुमायया ।
विमोहितौ दीनधियौ शिशून् पुपुषतुः प्रजाः ॥ ६१॥
एकदा जग्मतुः तासाम् अन्नार्थं तौ कुटुम्बिनौ ।
परितः कानने तस्मिन् अर्थिनौ चेरतुः चिरम् ॥ ६२॥
दृष्ट्वा तान् लुब्धकः कश्चित् यदृच्छ अतः वनेचरः ।
जगृहे जालम् आतत्य चरतः स्वालयान्तिके ॥ ६३॥
कपोतः च कपोती च प्रजापोषे सदा उत्सुकौ ।
गतौ पोषणम् आदाय स्वनीडम् उपजग्मतुः ॥ ६४॥
कपोती स्वात्मजान् वीक्ष्य बालकान् जालसंवृतान् ।
तान् अभ्यधावत् क्रोशन्ती क्रोशतः भृशदुःखिता ॥ ६५॥
सा असकृत् स्नेहगुणिता दीनचित्ता अजमायया ।
स्वयं च अबध्यत शिचा बद्धान् पश्यन्ति अपस्मृतिः ॥ ६६॥
कपोतः च आत्मजान् बद्धान् आत्मनः अपि अधिकान् प्रियान् ।
भार्यां च आत्मसमां दीनः विललाप अतिदुःखितः ॥ ६७॥
अहो मे पश्यत अपायम् अल्पपुण्यस्य दुर्मतेः ।
अतृप्तस्य अकृतार्थस्य गृहः त्रैवर्गिकः हतः ॥ ६८॥
अनुरूपा अनुकूला च यस्य मे पतिदेवता ।
शून्ये गृहे मां सन्त्यज्य पुत्रैः स्वर्याति साधुभिः ॥ ६९॥
सः अहं शून्ये गृहे दीनः मृतदारः मृतप्रजः ।
जिजीविषे किमर्थं वा विधुरः दुःखजीवितः ॥ ७०॥
तान् तथा एव आवृतान् शिग्भिः मृत्युग्रस्तान् विचेष्टतः ।
स्वयं च कृपणः शिक्षु पश्यन् अपि अबुधः अपतत् ॥ ७१॥
तं लब्ध्वा लुब्धकः क्रूरः कपोतं गृहमेधिनम् ।
कपोतकान् कपोतीं च सिद्धार्थः प्रययौ गृहम् ॥ ७२॥
एवं कुटुम्बी अशान्त आत्मा द्वन्द्व आरामः पतत् त्रिवत् ।
पुष्णन् कुटुम्बं कृपणः सानुबन्धः अवसीदति ॥ ७३॥
यः प्राप्य मानुषं लोकं मुक्तिद्वारम् अपावृतम् ।
गृहेषु खगवत् सक्तः तम् आरूढच्युतं विदुः ॥ ७४॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे
यद्वधूतेतिहासे सप्तमोऽध्यायः ॥ ७॥
अथास्श्टमोऽध्यायः ।
सुखम् ऐन्द्रियकं राजन् स्वर्गे नरकः एव च ।
देहिनः यत् यथा दुःखं तस्मात् न इच्छेत तत् बुधाः ॥ १॥
ग्रासं सुमृष्टं विरसं महान्तं स्तोकम् एव वा ।
यदृच्छया एव अपतितं ग्रसेत् आजगरः अक्रियः ॥ २॥
शयीत अहानि भूरीणि निराहारः अनुपक्रमः ।
यदि न उपनमेत् ग्रासः महाहिः इव दिष्टभुक् ॥ ३॥
ओजः सहोबलयुतं बिभ्रत् देहम् अकर्मकम् ।
शयानः वीतनिद्रः च नेहेत इन्द्रियवान् अपि ॥ ४॥
मुनिः प्रसन्नगम्भीरः दुर्विगाह्यः दुरत्ययः ।
अनन्तपारः हि अक्षोभ्यः स्तिमित उदः इव अर्णवः ॥ ५॥
समृद्धकामः हीनः वा नारायणपरः मुनिः ।
न उत्सर्पेत न शुष्येत सरिद्भिः इव सागरः ॥ ६॥
दृष्ट्वा स्त्रियं देवमायां तत् भावैः अजितेन्द्रियः ।
प्रलोभितः पतति अन्धे तमसि अग्नौ पतङ्गवत् ॥ ७॥
योषित् हिरण्य आभरण अम्बरादि
द्रव्येषु मायारचितेषु मूढः ।
प्रलोभितात्मा हि उपभोगबुद्ध्या
पतङ्गवत् नश्यति नष्टदृष्टिः ॥ ८॥
स्तोकं स्तोकं ग्रसेत् ग्रासं देहः वर्तेत यावता ।
गृहान् अहिंसत् न आतिष्ठेत् वृत्तिं माधुकरीं मुनिः ॥ ९॥
अणुभ्यः च महद्भ्यः च शास्त्रेभ्यः कुशलः नरः ।
सर्वतः सारम् आदद्यात् पुष्पेभ्यः इव षट्पदः ॥ १०॥
सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षितम् ।
पाणिपात्र उदरामत्रः मक्षिका इव न सङ्ग्रही ॥ ११॥
सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षुकः ।
मक्षिकाः इव सङ्गृह्णन् सह तेन विनश्यति ॥ १२॥
पद अपि युवतीं भिक्षुः न स्पृशेत् दारवीम् अपि ।
स्पृशन् करीव बध्येत करिण्या अङ्गसङ्गतः ॥ १३॥
न अधिगच्छेत् स्त्रियं प्राज्ञः कर्हिचित् मृत्युम् आत्मनः ।
बल अधिकैः स हन्येत गजैः अन्यैः गजः यथा ॥ १४॥
न देयं न उपभोग्यं च लुब्धैः यत् दुःख सञ्चितम् ।
भुङ्क्ते तत् अपि तत् च अन्यः मधुहेव अर्थवित् मधु ॥ १५॥
सुख दुःख उपार्जितैः वित्तैः आशासानां गृह आशिषः ।
मधुहेव अग्रतः भुङ्क्ते यतिः वै गृहमेधिनाम् ॥ १६॥
ग्राम्यगीतं न श्रुणुयात् यतिः वनचरः क्वचित् ।
शिखेत हरिणात् वद्धात् मृगयोः गीतमोहितात् ॥ १७॥
नृत्यवादित्रगीतानि जुषन् ग्राम्याणि योषिताम् ।
आसां क्रीडनकः वश्यः ऋष्यशृङ्गः मृगीसुतः ॥ १८॥
जिह्वया अतिप्रमाथिन्या जनः रसविमोहितः ।
मृत्युम् ऋच्छति असत् बुद्धिः मीनः तु बडिशैः यथा ॥ १९॥
इन्द्रियाणि जयन्ति आशुः निराहाराः मनीषिणः ।
वर्जयित्वा तु रसनं तत् निरन्नस्य वर्धते ॥ २०॥
तावत् जितेन्द्रियः न स्यात् विजितानि इन्द्रियः पुमान् ।
न जयेत् रसनं यावत् जितं सर्वं जिते रसे ॥ २१॥
पिङ्गला नाम वेश्या आसीत् विदेहनगरे पुरा ।
तस्या मे शिक्षितं किञ्चित् निबोध नृपनन्दन ॥ २२॥
सा स्वैरिण्येकदा कान्तं सङ्केत उपनेष्यती ।
अभूत्काले बहिर्द्वारि बिभ्रती रूपमुत्तमम् ॥ २३॥
मार्ग आगच्छतो वीक्ष्य पुरुषान्पुरुषर्षभ ।
तान् शुल्कदान्वित्तवतः कान्तान्मेनेऽर्थकामुका ॥ २४॥
आगतेष्वपयातेषु सा सङ्केतोपजीवनी ।
अप्यन्यो वित्तवान्कोऽपि मामुपैष्यति भूरिदः ॥ २५॥
एअवं दुराशया ध्वस्तनिद्रा द्वार्यवलम्बती ।
निर्गच्छन्ती प्रविशती निशीथं समपद्यत ॥ २६॥
तस्या वित्ताशया शुष्यद्वक्त्राया दीनचेतसः ।
निर्वेदः परमो जज्ञे चिन्ताहेतुः सुखावहः ॥ २७॥
तस्या निर्विण्णचित्ताया गीतं श्रुणु यथा मम ।
निर्वेद आशापाशानां पुरुषस्य यथा ह्यसिः ॥ २८॥
न हि अङ्गाजातनिर्वेदः देहबन्धं जिहासति ।
यथा विज्ञानरहितः मनुजः ममतां नृप ॥ २९॥
पिङ्गला उवाच ।
अहो मे मोहविततिं पश्यत अविजित आत्मनः ।
या कान्तात् असतः कामं कामये येन बालिशा ॥ ३०॥
सन्तं समीपे रमणं रतिप्रदं
वित्तप्रदं नित्यम् इमं विहाय ।
अकामदं दुःखभय आदि शोक
मोहप्रदं तुच्छम् अहं भजे अज्ञा ॥ ३१॥
अहो मयात्मा परितापितो वृथा
साङ्केत्यवृत्त्याऽतिविगर्ह्यवार्तया ।
स्त्रैणान्नराद्याऽर्थतृषोऽनुशोच्या
त्क्रीतेन वित्तं रतिमात्मनेच्छती ॥ ३२॥
यदस्थिभिर्निर्मितवंशवंश्य
स्थूणं त्वचा रोमनखैः पिनद्धम् ।
क्षरन्नवद्वारमगारमेतद्
विण्मूत्रपूर्णं मदुपैति कान्या ॥ ३३॥
विदेहानां पुरे ह्यस्मिन्नहमेकैव मूढधीः ।
याऽन्यस्मिच्छन्त्यसत्यस्मादात्मदात्काममच्युतात् ॥ ३४॥
सुहृत्प्रेष्ठतमो नाथ आत्मा चायं शरीरिणाम् ।
तं विक्रीयात्मनैवाहं रमेऽनेन यथा रमा ॥ ३५॥
कियत्प्रियं ते व्यभजन्कामा ये कामदा नराः ।
आद्यन्तवन्तो भार्याया देवा वा कालविद्रुताः ॥ ३६॥
नूनं मे भगवान् प्रीतः विष्णुः केन अपि कर्मणा ।
निर्वेदः अयं दुराशाया यत् मे जातः सुखावहः ॥ ३७॥
मैवं स्युर्मन्दभग्यायाः क्लेशा निर्वेदहेतवः ।
येनानुबन्धं निहृत्य पुरुषः शममृच्छति ॥ ३८॥
तेन उपकृतम् आदाय शिरसा ग्राम्यसङ्गताः ।
त्यक्त्वा दुराशाः शरणं व्रजामि तम् अधीश्वरम् ॥ ३९॥
सन्तुष्टा श्रद्दधत्येतद्यथालाभेन जीवती ।
विहराम्यमुनैवाहमात्मना रमणेन वै ॥ ४०॥
संसारकूपे पतितं विषयैर्मुषितेक्षणम् ।
ग्रस्तं कालाहिनाऽऽत्मानं कोऽन्यस्त्रातुमधीश्वरः ॥ ४१॥
आत्मा एव हि आत्मनः गोप्ता निर्विद्येत यदाखिलात् ।
अप्रमत्तः इदं पश्यत् ग्रस्तं कालाहिना जगत् ॥ ४२॥
ब्राह्मण उवाच ।
एअवं व्यवसितमतिर्दुराशां कान्ततर्षजाम् ।
छित्वोपशममास्थाय शय्यामुपविवेश सा ॥ ४३॥
आशा हि परमं दुःखं नैराश्यं परमं सुखम् ।
यथा संछिद्य कान्ताशां सुखं सुष्वाप पिङ्गला ॥ ४४॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे पिङ्गलोपाख्याऽनेष्टमोऽध्यायः
॥ ८॥
अथ नवमोऽध्यायः ।
ब्राह्मणः उवाच ।
परिग्रहः हि दुःखाय यत् यत् प्रियतमं नृणाम् ।
अनन्तं सुखम् आप्नोति तत् विद्वान् यः तु अकिञ्चनः ॥ १॥
सामिषं कुररं जघ्नुः बलिनः ये निरामिषाः ।
तत् आमिषं परित्यज्य सः सुखं समविन्दत ॥ २॥
न मे मानावमानौ स्तः न चिन्ता गेहपुत्रिणाम् ।
आत्मक्रीडः आत्मरतिः विचरामि इह बालवत् ॥ ३॥
द्वौ एव चिन्तया मुक्तौ परम आनन्दः आप्लुतौ ।
यः विमुग्धः जडः बालः यः गुणेभ्यः परं गतः ॥ ४॥
क्वचित् कुमारी तु आत्मानं वृणानान् गृहम् आगतान् ।
स्वयं तान् अर्हयामास क्वापि यातेषु बन्धुषु ॥ ५॥
तेषम् अभ्यवहारार्थं शालीन् रहसि पार्थिव ।
अवघ्नन्त्याः प्रकोष्ठस्थाः चक्रुः शङ्खाः स्वनं महत् ॥
६॥
सा तत् जुगुप्सितं मत्वा महती व्रीडिता ततः ।
बभञ्ज एकैकशः शङ्खान् द्वौ द्वौ पाण्योः अशेषयत् ॥
७॥
उभयोः अपि अभूत् घोषः हि अवघ्नन्त्याः स्म शङ्खयोः ।
तत्र अपि एकं निरभिदत् एकस्मान् न अभवत् ध्वनिः ॥ ८॥
अन्वशिक्षम् इमं तस्याः उपदेशम् अरिन्दम ।
लोकान् अनुचरन् एतान् लोकतत्त्वविवित्सया ॥ ९॥
वासे बहूनां कलहः भवेत् वार्ता द्वयोः अपि ।
एकः एव चरेत् तस्मात् कुमार्याः इव कङ्कणः ॥ १०॥
मनः एकत्र संयुज्यात् जितश्वासः जित आसनः ।
वैराग्याभ्यासयोगेन ध्रियमाणम् अतन्द्रितः ॥ ११॥
यस्मिन् मनः लब्धपदं यत् एतत्
शनैः शनैः मुञ्चति कर्मरेणून् ।
सत्त्वेन वृद्धेन रजः तमः च
विधूय निर्वाणम् उपैति अनिन्धनम् ॥ १२॥
तत् एवम् आत्मनि अवरुद्धचित्तः
न वेद किञ्चित् बहिः अन्तरं वा ।
यथा इषुकारः नृपतिं व्रजन्तम्
इषौ गतात्मा न ददर्श पार्श्वे ॥ १३॥
एकचार्यनिकेतः स्यात् अप्रमत्तः गुहाशयः ।
अलक्ष्यमाणः आचारैः मुनिः एकः अल्पभाषणः ॥ १४॥
गृहारम्भः अतिदुःखाय विफलः च अध्रुवात्मनः ।
सर्पः परकृतं वेश्म प्रविश्य सुखम् एधते ॥ १५॥
एको नारायणो देवः पूर्वसृष्टं स्वमायया ।
संहृत्य कालकलया कल्पान्त इदमीश्वरः ॥ १६॥
एक एवाद्वितीयोऽभूदात्माधारोऽखिलाश्रयः ।
कालेनात्मानुभावेन साम्यं नीतासु शक्तिषु ।
सत्त्वादिष्वादिपुएरुषः प्रधानपुरुषेश्वरः ॥ १७॥
परावराणां परम आस्ते कैवल्यसञ्ज्ञितः ।
केवलानुभवानन्दसन्दोहो निरुपाधिकः ॥ १८॥
केवलात्मानुभावेन स्वमायां त्रिगुणात्मिकाम् ।
संक्षोभयन्सृजत्यादौ तया सूत्रमरिन्दम ॥ १९॥
तामाहुस्त्रिगुणव्यक्तिं सृजन्तीं विश्वतोमुखम् ।
यस्मिन्प्रोतमिदं विश्वं येन संसरते पुमान् ॥ २०॥
यथा ऊर्णनाभिः हृदयात् ऊर्णां सन्तत्य वक्त्रतः ।
तया विहृत्य भूयस्तां ग्रसति एवं महेश्वरः ॥ २१॥
यत्र यत्र मनः देही धारयेत् सकलं धिया ।
स्नेहात् द्वेषात् भयात् वा अपि याति तत् तत् सरूपताम् ॥ २२॥
कीटः पेशस्कृतं ध्यायन् कुड्यां तेन प्रवेशितः ।
याति तत् स्सत्मतां राजन् पूर्वरूपम् असन्त्यजन् ॥ २३॥
एवं गुरुभ्यः एतेभ्यः एष मे शिक्षिता मतिः ।
स्वात्मा उपशिक्षितां बुद्धिं श्रुणु मे वदतः प्रभो ॥ २४॥
देहः गुरुः मम विरक्तिविवेकहेतुः
बिभ्रत् स्म सत्त्वनिधनं सतत अर्त्युत् अर्कम् ।
तत्त्वानि अनेन विमृशामि यथा तथा अपि
पारक्यम् इति अवसितः विचरामि असङ्गः ॥ २५॥
जायात्मजार्थपशुभृत्यगृहाप्तवर्गान्
पुष्णाति यत् प्रियचिकीर्षया वितन्वन् ॥
स्वान्ते सकृच्छ्रम् अवरुद्धधनः सः देहः
सृष्ट्वा अस्य बीजम् अवसीदति वृक्षधर्मा ॥ २६॥
जिह्वा एकतः अमुम् अवकर्षति कर्हि तर्षा
शिश्नः अन्यतः त्वक् उदरं श्रवणं कुतश्चित् ।
ग्राणः अन्यतः चपलदृक् क्व च कर्मशक्तिः
बह्व्यः सपत्न्यः इव गेहपतिं लुनन्ति ॥ २७॥
सृष्ट्वा पुराणि विविधानि अजया आत्मशक्त्या
वृक्षान् सरीसृपपशून्खगदंशमत्स्यान् ।
तैः तैः अतुष्टहृदयः पुरुषं विधाय
ब्रह्मावलोकधिषणं मुदमाप देवः ॥ २८॥
लब्ध्वा सुदुर्लभम् इदं बहुसम्भवान्ते
मानुष्यमर्थदमनित्यमपीह धीरः ।
तूर्णं यतेत न पतेत् अनुमृत्युः यावत्
निःश्रेयसाय विषयः खलु सर्वतः स्यात् ॥ २९॥
एवं सञ्जातवैराग्यः विज्ञानलोक आत्मनि ।
विचरामि महीम् एतां मुक्तसङ्गः अनहङ्कृतिः ॥ ३०॥
न हि एकस्मात् गुरोः ज्ञानं सुस्थिरं स्यात् सुपुष्कलम् ।
ब्रह्म एतत् अद्वितीयं वै गीयते बहुधा ऋषिभिः ॥ ३१॥
श्रीभगवानुवाच ।
इत्युक्त्वा स यदुं विप्रस्तमामन्त्रय गभीरधीः ।
वन्दितो।आभ्यर्थितो राज्ञा ययौ प्रीतो यथागतम् ॥ ३२॥
अवधूतवचः श्रुत्वा पूर्वेषां नः स पूर्वजः ।
सर्वसङ्गविनिर्मुक्तः समचित्तो बभूव ह ॥ ३३॥
(इति अवधूतगीतम् ।)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे भगवदुद्धवसंवादे
नवमोऽध्यायः ॥ ९॥
अथ दशमोऽध्यायः ।
श्रीभगवान् उवाच ।
मया उदितेषु अवहितः स्वधर्मेषु मदाश्रयः ।
वर्णाश्रमकुल आचारम् अकामात्मा समाचरेत् ॥ १॥
अन्वीक्षेत विशुद्धात्मा देहिनां विषयात्मनाम् ।
गुणेषु तत्त्वध्यानेन सर्वारम्भविपर्ययम् ॥ २॥
सुप्तस्य विषयालोकः ध्यायतः वा मनोरथः ।
नानामकत्वात् विफलः तथा भेदात्मदीः गुणैः ॥ ३॥
निवृत्तं कर्म सेवेत प्रवृत्तं मत्परः त्यजेत् ।
जिज्ञासायां सम्प्रवृत्तः न अद्रियेत् कर्म चोदनाम् ॥ ४॥
यमानभीक्ष्णं सेवेत नियमान् मत्परः क्वचित् ।
मदभिज्ञं गुर्ं शान्तम् उपासीत मदात्मकम् ॥ ५॥
अमान्यमत्सरः दक्षः निर्ममः दृढसौहृदः ।
असत्वरः अर्थजिज्ञासुः अनसूयौः अमोघवाक् ॥ ६॥
जायापत्यगृहक्षेत्रस्वजनद्रविण आदिषु ।
उदासीनः समं पश्यन् सर्वेषु अर्थम् इव आत्मनः ॥ ७॥
विलक्षणः स्थूलसूक्ष्मात् देहात् आत्मेक्षिता स्वदृक् ।
यथाग्निः दारुणः दाह्यात् दाहकः अन्यः प्रकाशकः ॥ ८॥
निरोध उत्पत्ति अणु बृहन् नानात्वं तत्कृतान् गुणान् ।
अन्तः प्रविष्टः आधत्तः एवं देहगुणान् परः ॥ ९॥
यः असौ गुणैः विरचितः देहः अयं पुरुषस्य हि ।
संसारः तत् निबन्धः अयं पुंसः विद्यात् छिदात्मनः ॥ १०॥
तस्मात् जिज्ञासया आत्मानम् आत्मस्थं परम् ।
सङ्गम्य निरसेत् एतत् वस्तुबुद्धिं यथाक्रमम् ॥ ११॥
आचार्यः अरणिः आद्यः स्यात् अन्तेवासि उत्तर अरणिः ।
तत् सन्धानं प्रवचनं विद्या सन्धिः सुखावहः ॥ १२॥
वैशारदी सा अतिविशुद्धबुद्धिः
धुनोति मायां गुणसम्प्रसूताम् ।
गुणान् च सन्दह्य यत् आत्मम् एतत्
स्वयं च शाम्यति असमिद् यथा अग्निः ॥ १३॥
अथ एषां कर्मकर्तॄणां भोक्तॄणां सुखदुःखयोः ।
नानात्वम् अथ नित्यत्वं लोककालागम आत्मनाम् ॥ १४॥
मन्यसे सर्वभावानां संस्था हि औत्पत्तिकी यथा ।
तत् तत् आकृतिभेदेन जायते भिद्यते च धीः ॥ १५॥
एवम् अपि अङ्ग सर्वेषां देहिनां देहयोगतः ।
काल अवयवतः सन्ति भावा जन्मादयोः असकृत् ॥ १६॥
अत्र अपि कर्मणां कर्तुः अस्वातन्त्र्यं च लक्ष्यते ।
भोक्तुः च दुःखसुखयोः कः अन्वर्थः विवशं भजेत् ॥ १७॥
न देहिनां सुखं किञ्चित् विद्यते विदुषाम् अपि ।
तथा च दुःखं मूढानां वृथा अहङ्करणं परम् ॥ १८॥
यदि प्राप्तिं विघातं च जानन्ति सुखदुःखयोः ।
ते अपि अद्धा न विदुः योगं मृत्युः न प्रभवेत् यथा ॥ १९॥
कः अन्वर्थः सुखयति एनं कामः वा मृत्युः अन्तिके ।
आघातं नीयमानस्य वध्यसि एव न तुष्टिदः ॥ २०॥
श्रुतं च दृष्टवत् दुष्टं स्पर्धा असूया अत्ययव्ययैः ।
बहु अन्तराय कामत्वात् कृषिवत् च अपि निष्फलम् ॥ २१॥
अन्तरायैः अविहतः यदि धर्मः स्वनुष्ठितः ।
तेनापि निर्जितं स्थानं यथा गच्छति तत् श्रुणु ॥ २२॥
इष्त्वा इह देवताः यज्ञैः स्वर्लोकं याति याज्ञिकः ।
भुञ्जीत देववत् तत्र भोगान् दिव्यान् निज अर्जितान् ॥ २३॥
स्वपुण्य उपचिते शुभ्रे विमानः उपगीयते ।
गन्धर्वैः विहरन्मध्ये देवीनां हृद्यवेषधृक् ॥ २४॥
स्त्रीभिः कामगयानेन किङ्किणीजालमालिना ।
क्रीडन् न वेद आत्मपातं सुराक्रीडेषु निर्वृतः ॥ २५॥
तावत् प्रमोदते स्वर्गे यावत् पुण्यं समाप्यते ।
क्षीणपुण्यः पतति अर्वाक् अनिच्छन् कालचालितः ॥ २६॥
यदि अधर्मरतः सङ्गात् असतां वा अजितेन्द्रियः ।
कामात्मा कृपणः लुब्धः स्त्रैणः भूतविहिंसकः ॥ २७॥
पशून् अविधिना आलभ्य प्रेतभूतगणान् यजन् ।
नरकान् अवशः जन्तुः गत्वा याति उल्बणं तमः ॥ २८॥
कर्माणि दुःख उदर्काणि कुर्वन् देहेन तैः पुनः ।
देहम् आभजते तत्र किं सुखं मर्त्यधर्मिणः ॥ २९॥
लोकानां लोक पालानां मद्भयं कल्पजीविनाम् ।
ब्रह्मणः अपि भयं मत्तः द्विपराधपर आयुषः ॥ ३०॥
गुणाः सृजन्ति कर्माणि गुणः अनुसृजते गुणान् ।
जीवः तु गुणसंयुक्तः भुङ्क्ते कर्मफलानि असौ ॥ ३१॥
यावत् स्यात् गुणवैषम्यं तावत् नानात्वम् आत्मनः ।
नानात्वम् आत्मनः यावत् पारतन्त्र्यं तदा एव हि ॥ ३२॥
यावत् अस्य अस्वतन्त्रत्वं तावत् ईश्वरतः भयम् ।
यः एतत् समुपासीरन् ते मुह्यन्ति शुचार्पिताः ॥ ३३॥
कालः आत्मा आगमः लोकः स्वभावः धर्मः एव च ।
इति मां बहुधा प्राहुः गुणव्यतिकरे सति ॥ ३४॥
उद्धवः उवाच ।
गुणेषु वर्तमानः अपि देहजेषु अनपावृताः ।
गुणैः न बध्यते देही बध्यते वा कथं विभो ॥ ३५॥
कथं वर्तेत विहरेत् कैः वा ज्ञायेत लक्षणैः ।
किं भुञ्जीत उत विसृजेत् शयीत आसीत याति वा ॥ ३६॥
एतत् अच्युत मे ब्रूहि प्रश्नं प्रश्नविदां वर ।
नित्यमुक्तः नित्यबद्धः एकः एव इति मे भ्रमः ॥ ३७॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे भगवदुद्धवसंवादे
दशमोऽध्यायः ॥ १०॥
अथ एकादशोऽध्यायः ।
श्रीभगवान् उवाच ।
बद्धः मुक्तः इति व्याख्या गुणतः मे न वस्तुतः ।
गुणस्य मायामूलत्वात् न मे मोक्षः न बन्धनम् ॥ १॥
शोकमोहौ सुखं दुःखं देहापत्तिः च मायया ।
स्वप्नः यथा आत्मनः ख्यातिः संसृतिः न तु वास्तवी ॥ २॥
विद्या अविद्ये मम तनू विद्धि उद्धव शरीरिणाम् ।
मोक्षबन्धकरी आद्ये मायया मे विनिर्मिते ॥ ३॥
एकस्य एव मम अंशस्य जीवस्य एव महामते ।
बन्धः अस्य अविद्यया अनादिः विद्यया च तथा इतरः ॥ ४॥
अथ बद्धस्य मुक्तस्य वैलक्षण्यं वदामि ते ।
विरुद्धधर्मिणोः तात स्थितयोः एकधर्मिणि ॥ ५॥
सुपर्णौ एतौ सदृशौ सखायौ
यदृच्छया एतौ कृतनीडौ च वृक्षे ।
एकः तयोः खादति पिप्पलान्नम्
अन्यः निरन्नः अपि बलेन भूयान् ॥ ६॥
आत्मानम् अन्यं च सः वेद विद्वान्
अपिप्पलादः न तु पिप्पलादः ।
यः अविद्यया युक् स तु नित्यबद्धः
विद्यामयः यः स तु नित्यमुक्तः ॥ ७॥
देहस्थः अपि न देहस्थः विद्वान् स्वप्नात् यथा उत्थितः ।
अदेहस्थः अपि देहस्थः कुमतिः स्वप्नदृक् यथा ॥ ८॥
इन्द्रियैः इन्द्रियार्थेषु गुणैः अपि गुणेषु च ।
गृह्यमाणेषु अहङ्कुर्यात् न विद्वान् यः तु अविक्रियः ॥ ९॥
दैवाधीने शरीरे अस्मिन् गुणभाव्येन कर्मणा ।
वर्तमानः अबुधः तत्र कर्ता अस्मि इति निबध्यते ॥ १०॥
एवं विरक्तः शयनः आसनाटनमज्जने ।
दर्शनस्पर्शनघ्राणभोजनश्रवणआदिषु ॥ ११॥
न तथा बध्यते विद्वान् तत्र तत्र आदयन् गुणान् ।
प्रकृतिस्थः अपि असंसक्तः यथा खं सविता अनिलः ॥ १२॥
वैशारद्येक्षया असङ्गशितया छिन्नसंशयः ।
प्रतिबुद्धः इव स्वप्नात् नानात्वात् विनिवर्तते ॥ १३॥
यस्य स्युः वीतसङ्कल्पाः प्राणेन्द्रियमनोधियाम् ।
वृत्तयः सः विनिर्मुक्तः देहस्थः अपि हि तत् गुणैः ॥ १४॥
यस्य आत्मा हिंस्यते हिंस्र्यैः येन किञ्चित् यदृच्छया ।
अर्च्यते वा क्वचित् तत्र न व्यतिक्रियते बुधः ॥ १५॥
न स्तुवीत न निन्देत कुर्वतः साधु असाधु वा ।
वदतः गुणदोषाभ्यां वर्जितः समदृक् मुनिः ॥ १६॥
न कुर्यात् न वदेत् किञ्चित् न ध्यायेत् साधु असाधु वा ।
आत्मारामः अनया वृत्त्या विचरेत् जडवत् मुनिः ॥ १७॥
शब्दब्रह्मणि निष्णातः न निष्णायात् परे यदि ।
श्रमः तस्य श्रमफलः हि अधेनुम् इव रक्षतः ॥ १८॥
गां दुग्धदोहाम् असतीं च भार्याम्
देहं पराधीनम् असत्प्रजां च ।
वित्तं तु अतीर्थीकृतम् अङ्ग वाचम्
हीनां मया रक्षति दुःखदुःखी ॥ १९॥
यस्यां न मे पावनम् अङ्ग कर्म
स्थितिउद्भवप्राण निरोधनम् अस्य ।
लीलावतारईप्सितजन्म वा स्यात्
बन्ध्यां गिरं तां बिभृयात् न धीरः ॥ २०॥
एवं जिज्ञासया अपोह्य नानात्वभ्रमम् आत्मनि ।
उपारमेत विरजं मनः मयि अर्प्य सर्वगे ॥ २१॥
यदि अनीशः धारयितुं मनः ब्रह्मणि निश्चलम् ।
मयि सर्वाणि कर्माणि निरपेक्षः समाचर ॥ २२॥
श्रद्धालुः मे कथाः शृण्वन् सुभद्रा लोकपावनीः ।
गायन् अनुस्मरन् कर्म जन्म च अभिनयन् मुहुः ॥ २३॥
मदर्थे धर्मकामार्थान् आचरन् मदपाश्रयः ।
लभते निश्चलां भक्तिं मयि उद्धव सनातने ॥ २४॥
सत्सङ्गलब्धया भक्त्या मयि मां सः उपासिता ।
सः वै मे दर्शितं सद्भिः अञ्जसा विन्दते पदम् ॥ २५॥
उद्धव उवाच ।
साधुः तव उत्तमश्लोक मतः कीदृग्विधः प्रभो ।
भक्तिः त्वयि उपयुज्येत कीदृशी सद्भिः आदृता ॥ २६॥
एतत् मे पुरुषाध्यक्ष लोकाध्यक्ष जगत् प्रभो ।
प्रणताय अनुरक्ताय प्रपन्नाय च कथ्यताम् ॥ २७॥
त्वं ब्रह्म परमं व्योम पुरुषः प्रकृतेः परः ।
अवतीर्णः असि भगवन् स्वेच्छाउपात्तपृथक् वपुः ॥ २८॥
श्रीभगवान् उवाच ।
कृपालुः अकृतद्रोहः तितिक्षुः सर्वदेहिनाम् ।
सत्यसारः अनवद्यात्मा समः सर्वोपकारकः ॥ २९॥
कामैः अहतधीः दान्तः मृदुः शुचिः अकिञ्चनः ।
अनीहः मितभुक् शान्तः स्थिरः मत् शरणः मुनिः ॥ ३०॥
अप्रमत्तः गभीरात्मा धृतिमाञ्जितषड्गुणः ।
अमानी मानदः कल्पः मैत्रः कारुणिकः कविः ॥ ३१॥
आज्ञाय एवं गुणान् दोषान्मयादिष्टान् अपि स्वकान् ।
धर्मान् सन्त्यज्य यः सर्वान् मां भजेत सः सत्तमः ॥ ३२॥
ज्ञात्वा अज्ञात्वा अथ ये वै मां यावान् यः च अस्मि
यादृशः ।
भजन्ति अनन्यभावेन ते मे भक्ततमाः मताः ॥ ३३॥
मल्लिङ्गमद्भक्तजनदर्शनस्पर्शनार्चनम् ।
परिचर्या स्तुतिः प्रह्वगुणकर्म अनुकीर्तनम् ॥ ३४॥
मत्कथाश्रवणे श्रद्धा मत् अनुध्यानम् उद्धव ।
सर्वलाभ उपहरणं दास्येन आत्मनिवेदनम् ॥ ३५॥
मज्जन्मकर्मकथनं मम पर्वानुमोदनम् ।
गीतताण्डववादित्रगोष्ठीभिः मद्गृह उत्सवः ॥ ३६॥
यात्रा बलिविधानं च सर्ववार्षिकपर्वसु ।
वैदिकी तान्त्रिकी दीक्षा मदीयव्रतधारणम् ॥ ३७॥
मम अर्चास्थापने श्रद्धा स्वतः संहत्य च उद्यमः ।
उद्यान उपवनाक्रीडपुरमन्दिरकर्मणि । ३८॥
संमार्जन उपलेपाभ्यां सेकमण्डलवर्तनैः ।
गृहशुश्रूषणं मह्यं दासवद्यदमायया ॥ ३९॥
अमानित्वम् अदम्भित्वं कृतस्य अपरिकीर्तनम् ।
अपि दीपावलोकं मे न उपयुञ्ज्यात् निवेदितम् ॥ ४०॥
यत् यत् इष्टतमं लोके यत् च अतिप्रियम् आत्मनः ।
तत् तत् निवेदयेत् मह्यं तत् आनन्त्याय कल्पते ॥ ४१॥
सूर्यः अग्निः ब्राह्मणः गावः वैष्णवः खं मरुत् जलम् ।
भूः आत्मा सर्वभूतानि भद्र पूजापदानि मे ॥ ४२॥
सूर्ये तु विद्यया त्रय्या हविषाग्नौ यजेत माम् ।
आतिथ्येन तु विप्राग्र्यः गोष्वङ्ग यवसादिना ॥ ४३॥
वैष्णवे बन्धुसत्कृत्या हृदि खे ध्याननिष्ठया ।
वायौ मुख्यधिया तोये द्रव्यैः तोयपुरस्कृतैः ॥ ४४॥
स्थण्डिले मन्त्रहृदयैः भोगैः आत्मानम् आत्मनि ।
क्षेत्रज्ञं सर्वभूतेषु समत्वेन यजेत माम् ॥ ४५॥
धिष्ण्येषु एषु इति मद्रूपं शङ्खचक्रगदाम्बुजैः ।
युक्तं चतुर्भुजं शान्तं ध्यायन् अर्चेत् समाहितः ॥ ४६॥
इष्टापूर्तेन माम् एवं यः यजेत समाहितः ।
लभते मयि सद्भक्तिं मत्स्मृतिः साधुसेवया ॥ ४७॥
प्रायेण भक्तियोगेन सत्सङ्गेन विना उद्धव ।
न उपायः विद्यते सध्र्यङ् प्रायणं हि सताम् अहम् ॥ ४८॥
अथ एतत् परमं गुह्यं श्रुण्वतः यदुनन्दन ।
सुगोप्यम् अपि वक्ष्यामि त्वं मे भृत्यः सुहृत् सखा ॥ ४९॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे
एकादशपूजाविधानयोगो नाम एकादशोऽध्यायः ॥ ११॥
अथ द्वादशोऽध्यायः ।
श्रीभगवान् उवाच ।
न रोधयति मां योगः न स्साङ्ख्यं धर्मः एव च ।
न स्वाध्यायः तपः त्यागः न इष्टापूर्तं न दक्षिणा ॥ १॥
व्रतानि यज्ञः छन्दांसि तीर्थानि नियमाः यमाः ।
यथा अवरुन्धे सत्सङ्गः सर्वसङ्ग अपहः हि माम् ॥ २॥
सत्सङ्गेन हि दैतेया यातुधानः मृगाः खगाः ।
गन्धर्व अप्सरसः नागाः सिद्धाः चारणगुह्यकाः ॥ ३॥
विद्याधराः मनुष्येषु वैश्याः शूद्राः स्त्रियः अन्त्यजाः ।
रजः तमः प्रकृतयः तस्मिन् तस्मिन् युगे अनघ ॥ ४॥
बहवः मत्पदं प्राप्ताः त्वाष्ट्रकायाधवादयः ।
वृषपर्वा बलिः वाणः मयः च अथ विभीषणः ॥ ५॥
सुग्रीवः हनुमान् ऋक्षः गजः गृध्रः वणिक्पथः ।
व्याधः कुब्जा व्रजे गोप्यः यज्ञपत्न्यः तथा अपरे ॥ ६॥
ते न अधितश्रुतिगणाः न उपासितमहत्तमाः ।
अव्रतातप्ततपसः मत्सङ्गात् माम् उपागताः ॥ ७॥
केवलेन हि भावेन गोप्यः गावः नगाः मृगाः ।
ये अन्ये मूढधियः नागाः सिद्धाः माम् ईयुः अञ्जसा ॥ ८॥
यं न योगेन साङ्ख्येन दानव्रततपः अध्वरैः ।
व्याख्याः स्वाध्यायसंन्यासैः प्राप्नुयात् यत्नवान् अपि ॥ ९॥
रामेण सार्धं मथुरां प्रणीते
श्वाफल्किना मयि अनुरक्तचित्ताः ।
विगाढभावेन न मे वियोग
तीव्राधयः अन्यं ददृशुः सुखाय ॥ १०॥
ताः ताः क्षपाः प्रेष्ठतमेन नीताः
मया एव वृन्दावनगोचरेण ।
क्षणार्धवत् ताः पुनरङ्ग तासां
हीना माया कल्पसमा बभूवुः ॥ ११॥
ताः न अविदन् मयि अनुषङ्गबद्ध
धियः स्वमात्मानम् अदः तथा इदम् ।
यथा समाधौ मुनयः अब्धितोये
नद्यः प्रविष्टाः इव नामरूपे ॥ १२॥
मत्कामा रमणं जारम् अस्वरूपविदः अबलाः ।
ब्रह्म मां परमं प्रापुः सङ्गात् शतसहस्रशः ॥ १३॥
तस्मात् त्वम् उद्धव उत्सृज्य चोदनां प्रतिचोदनाम् ।
प्रवृत्तं च निवृत्तं च श्रोतव्यं श्रुतम् एव च ॥ १४॥
माम् एकम् एव शरणम् आत्मानं सर्वदेहिनाम् ।
याहि सर्वात्मभावेन मया स्याः हि अकुतोभयः ॥ १५॥
उद्धवः उवाच ।
संशयः श्रुण्वतः वाचं तव योगेश्वर ईश्वर ।
न निवर्ततः आत्मस्थः येन भ्राम्यति मे मनः ॥ १६॥
श्रीभगवान् उवाच ।
सः एष जीवः विवरप्रसूतिः
प्राणेन घोषेण गुहां प्रविष्टः ।
मनोमयं सूक्ष्मम् उपेत्य रूपं
मात्रा स्वरः वर्णः इति स्थविष्ठः ॥ १७॥
यथा अनलः खे अनिलबन्धुः ऊष्मा
बलेन दारुण्यधिमथ्यमानः ।
अणुः प्रजातः हविषा समिध्यते
तथा एव मे व्यक्तिः इयं हि वाणी ॥ १८॥
एवं गदिः कर्मगतिः विसर्गः
घ्राणः रसः दृक् स्पर्शः श्रुतिः च ।
सङ्कल्पविज्ञानम् अथ अभिमानः
सूत्रं रजः सत्त्वतमोविकारः ॥ १९॥
अयं हि जीवः त्रिवृत् अब्जयोनिः
अव्यक्तः एकः वयसा सः आद्यः ।
विश्लिष्टशक्तिः बहुधा एव भाति
बीजानि योनिं प्रतिपद्य यद्वत् ॥ २०॥
यस्मिन् इदं प्रोतम् अशेषम् ओतं
पटः यथा तन्तुवितानसंस्थः ।
यः एष संसारतरुः पुराणः
कर्मात्मकः पुष्पफले प्रसूते ॥ २१॥
द्वे अस्य बीजे शतमूलः त्रिनालः
पञ्चस्कन्धः पञ्चरसप्रसूतिः ।
दश एकशाखः द्विसुपर्णनीडः
त्रिवल्कलः द्विफलः अर्कं प्रविष्टः ॥ २२॥
अदन्ति च एकं फलम् अस्य गृध्रा
ग्रामेचराः एकम् अरण्यवासाः ।
हंसाः यः एकं बहुरूपम् इज्यैः
मायामयं वेद सः वेद वेदम् ॥ २३॥
एवं गुरु उपासनया एकभक्त्या
विद्याकुठारेण शितेन धीरः ।
विवृश्च्य जीवाशयम् अप्रमत्तः
सम्पद्य च आत्मानम् अथ त्यज अस्त्रम् ॥ २४॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे
द्वादशोऽध्यायः ॥ १२॥
अथ त्रयोदशोऽध्यायः ।
श्रीभगवान् उवाच ।
सत्त्वं रजः तमः इति गुणाः बुद्धेः न च आत्मनः ।
सत्त्वेन अन्यतमौ हन्यात् सत्त्वं सत्त्वेन च एव हि ॥ १॥
सत्त्वात् धर्मः भवेत् वृद्धात् पुंसः मद्भक्तिलक्षणः ।
सात्विक उपासया सत्त्वं ततः धर्मः प्रवर्तते ॥ २॥
धर्मः रजः तमः हन्यात् सत्त्ववृद्धिः अनुत्तमः ।
आशु नश्यति तत् मूलः हि अधर्मः उभये हते ॥ ३॥
आगमः अपः प्रजा देशः कालः कर्म च जन्म च ।
ध्यानं मन्त्रः अथ संस्कारः दश एते गुणहेतवः ॥ ४॥
तत् तत् सात्विकम् एव एषां यत् यत् वृद्धाः प्रचक्षते ।
निन्दन्ति तामसं तत् तत् राजसं तत् उपेक्षितम् ॥ ५॥
सात्त्विकानि एव सेवेत पुमान् सत्त्वविवृद्धये ।
ततः धर्मः ततः ज्ञानं यावत् स्मृतिः अपोहनम् ॥ ६॥
वेणुसङ्घर्षजः वह्निः दग्ध्वा शाम्यति तत् वनम् ।
एवं गुणव्यत्ययजः देहः शाम्यति तत् क्रियः ॥ ७॥
उद्धवः उवाच ।
विदन्ति मर्त्याः प्रायेण विषयान् पदम् आपदाम् ।
तथा अपि भुञ्जते कृष्ण तत् कथं श्व खर अजावत् ॥ ८॥
श्रीभगवान् उवाच ।
अहम् इति अन्यथाबुद्धिः प्रमत्तस्य यथा हृदि ।
उत्सर्पति रजः घोरं ततः वैकारिकं मनः ॥ ९॥
रजोयुक्तस्य मनसः सङ्कल्पः सविकल्पकः ।
ततः कामः गुणध्यानात् दुःसहः स्यात् हि दुर्मतेः ॥ १०॥
करोति कामवशगः कर्माणि अविजितेन्द्रियः ।
दुःखोदर्काणि सम्पश्यन् रजोवेगविमोहितः ॥ ११।
रजः तमोभ्यां यत् अपि विद्वान् विक्षिप्तधीः पुनः ।
अतन्द्रितः मनः युञ्जन् दोषदृष्टिः न सज्जते ॥ १२॥
अप्रमत्तः अनुयुञ्जीतः मनः मयि अर्पयन् शनैः ।
अनिर्विण्णः यथाकालं जितश्वासः जितासनः ॥ १३॥
एतावान् योगः आदिष्टः मत् शिष्यैः सनक आदिभिः ।
सर्वतः मनः आकृष्य मय्यद्धा आवेश्यते यथा ॥ १४॥
उद्धवः उवाच ।
यदा त्वं सनक आदिभ्यः येन रूपेण केशव ।
योगम् आदिष्टवान् एतत् रूपम् इच्छामि वेदितुम् ॥ १५॥
श्रीभगवान् उवाच ।
पुत्राः हिरण्यगर्भस्य मानसाः सनक आदयः ।
पप्रच्छुः पितरं सूक्ष्मां योगस्य ऐकान्तिकीं गतिम् ॥
१६॥
सनक आदयः ऊचुः ।
गुणेषु आविशते चेतः गुणाः चेतसि च प्रभो ।
कथम् अन्योन्यसन्त्यागः मुमुक्षोः अतितितीर्षोः ॥ १७॥
श्रीभगवान् उवाच ।
एवं पृष्टः महादेवः स्वयम्भूः भूतभावनः ।
ध्यायमानः प्रश्नबीजं न अभ्यपद्यत कर्मधीः ॥ १८॥
सः माम् अचिन्तयत् देवः प्रश्नपारतितीर्षया ।
तस्य अहं हंसरूपेण सकाशम् अगमं तदा ॥ १९॥
दृष्ट्वा माम् त उपव्रज्य कृत्वा पाद अभिवन्दनम् ।
ब्रह्माणम् अग्रतः कृत्वा पप्रच्छुः कः भवान् इति ॥ २०॥
इति अहं मुनिभिः पृष्टः तत्त्वजिज्ञासुभिः तदा ।
यत् अवोचम् अहं तेभ्यः तत् उद्धव निबोध मे ॥ २१॥
वस्तुनः यदि अनानात्वम् आत्मनः प्रश्नः ईदृशः ।
कथं घटेत वः विप्राः वक्तुः वा मे कः आश्रयः ॥ २२॥
पञ्चात्मकेषु भूतेषु समानेषु च वस्तुतः ।
कः भवान् इति वः प्रश्नः वाचारम्भः हि अनर्थकः ॥ २३॥
मनसा वचसा दृष्ट्या गृह्यते अन्यैः अपि इन्द्रियैः ।
अहम् एव न मत्तः अन्यत् इति बुध्यध्वम् अञ्जसा ॥ २४॥
गुणेषु आविशते चेतः गुणाः चेतसि च प्रजाः ।
जीवस्य देहः उभयं गुणाः चेतः मत् आत्मनः ॥ २५॥
गुणेषु च आविशत् चित्तम् अभीक्ष्णं गुणसेवया ।
गुणाः च चित्तप्रभवाः मत् रूपः उभयं त्यजेत् ॥ २६॥
जाग्रत् स्वप्नः सुषुप्तं च गुणतः बुद्धिवृत्तयः ।
तासां विलक्षणः जीवः साक्षित्वेन विनिश्चितः ॥ २७॥
यः हि संसृतिबन्धः अयम् आत्मनः गुणवृत्तिदः ।
मयि तुर्ये स्थितः जह्यात् त्यागः तत् गुणचेतसाम् ॥ २८॥
अहङ्कारकृतं बन्धम् आत्मनः अर्थविपर्ययम् ।
विद्वान् निर्विद्य संसारचिन्तां तुर्ये स्थितः त्यजेत् ॥ २९॥
यावत् नानार्थधीः पुंसः न निवर्तेत युक्तिभिः ।
जागर्ति अपि स्वपन् अज्ञः स्वप्ने जागरणं यथा ॥ ३०॥
असत्त्वात् आत्मनः अन्येषां भावानां तत् कृता भिदा ।
गतयः हेतवः च अस्य मृषा स्वप्नदृशः यथा ॥ ३१॥
यो जागरे बहिः अनुक्षणधर्मिणः अर्थान्
भुङ्क्ते समस्तकरणैः हृदि तत् सदृक्षान् ।
स्वप्ने सुषुप्तः उपसंहरते सः एकः
स्मृति अन्वयात् त्रिगुणवृत्तिदृक् इन्द्रिय ईशः ॥ ३२॥
एवं विमृश्य गुणतः मनसः त्र्यवस्था
मत् मायया मयि कृता इति निश्चितार्थाः ।
संछिद्य हार्दम् अनुमानस्त् उक्तितीक्ष्ण
ज्ञानासिना भजतः मा अखिलसंशयाधिम् ॥ ३३॥
ईक्षेत विभ्रमम् इदं मनसः विलासम्
दृष्टं विनष्टम् अतिलोलम् अलातचक्रम् ।
विज्ञानम् एकम् उरुधा इव विभाति माया
स्वप्नः त्रिधा गुणविसर्गकृतः विकल्पः ॥ ३४॥
दृष्टिं ततः प्रतिनिवर्त्य निवृत्ततृष्णः
तूष्णीं भवेत् निजसुख अनुभवः निरीहः ।
सन्दृश्यते क्व च यदि इदम् अवस्तुबुद्ध्या
त्यक्तं भ्रमाय न भवेत् स्मृतिः आनिपातात् ॥ ३५॥
देहं च नश्वरम् अवस्थितम् उत्थितं वा
सिद्धः न पश्यति यतः अध्यगमत्स्वरूपम् ।
दैवात् अपेतम् उत दैवशात् उपेतम्
वासः यथा परिकृतं मदिरामदान्धः ॥ ३६॥
देहः अपि दैववशगः खलु कर्म यावत्
स्वारम्भकं प्रतिसमीक्षतः एव सासुः ।
तं अप्रपञ्चम् अधिरूढसमाधियोगः
स्वाप्नं पुनः न भजते प्रतिबुद्धवस्तुः ॥ ३७॥
मया एतत् उक्तं वः विप्राः गुह्यं यत् साङ्ख्ययोगयोः ।
जानीतम् आगतं यज्ञं युष्मत् धर्मविवक्षया ॥ ३८॥
अहं योगस्य साङ्ख्यस्य सत्यस्यर्तस्य तेजसः ।
परायणं द्विजश्रेष्ठाः श्रियः कीर्तेः दमस्य च ॥ ३९॥
मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम् ।
सुहृदं प्रियम् आत्मानं साम्य असङ्ग आदयः गुणाः ॥ ४०॥
इति मे छिन्नसन्देहाः मुनयः सनक आदयः ।
सभाजयित्वा परया भक्त्या अगृणत संस्तवैः ॥ ४१॥
तैः अहं पूजितः सम्यक् संस्तुतः परम ऋषिभिः ।
प्रत्येयाय स्वकं धाम पश्यतः परमेष्ठिनः ॥ ४२॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे
हंसगीतानिरूपणं नाम त्रयोदशोऽध्यायः ॥ १३॥
अथ चतुर्दशोऽध्यायः ।
उद्धवः उवाच ।
वदन्ति कृष्ण श्रेयांसि बहूनि ब्रह्मवादिनः ।
तेषां विकल्पप्राधान्यम् उत अहो एकमुख्यता ॥ १॥
भवत् उदाहृतः स्वामिन् भक्तियोगः अनपेक्षितः ।
निरस्य सर्वतः सङ्गं येन त्वयि आविशेत् मनः ॥ २॥
श्रीभगवान् उवाच ।
कालेन नष्टा प्रलये वाणीयं वेदसञ्ज्ञिता ।
मया आदौ ब्रह्मणे प्रोक्ता धर्मः यस्यां मदात्मकः ॥ ३॥
तेन प्रोक्ता च पुत्राय मनवे पूर्वजाय सा ।
ततः भृगु आदयः अगृह्णन् सप्तब्रह्ममहर्षयः ॥ ४॥
तेभ्यः पितृभ्यः तत् पुत्राः देवदानवगुह्यकाः ।
मनुष्याः सिद्धगन्धर्वाः सविद्याधरचारणाः ॥ ५॥
किन्देवाः किन्नराः नागाः रक्षः किम्पुरुष आदयः ।
बह्व्यः तेषां प्रकृतयः रजःसत्त्वतमोभुवः ॥ ६॥
याभिः भूतानि भिद्यन्ते भूतानां मतयः तथा ।
यथाप्रकृति सर्वेषां चित्राः वाचः स्रवन्ति हि ॥ ७॥
एवं प्रकृतिवैचित्र्यात् भिद्यन्ते मतयः नृणाम् ।
पारम्पर्येण केषाञ्चित् पाखण्डमतयः अपरे ॥ ८॥
मन्मायामोहितधियः पुरुषाः पुरुषर्षभ ।
श्रेयः वदन्ति अनेकान्तं यथाकर्म यथारुचि ॥ ९॥
धर्मम् एके यशः च अन्ये कामं सत्यं दमं शमम् ।
अन्ये वदन्ति स्वार्थं वा ऐश्वर्यं त्यागभोजनम् ।
केचित् यज्ञतपोदानं व्रतानि नियम अन्यमान् ॥ १०॥
आदि अन्तवन्तः एव एषां लोकाः कर्मविनिर्मिताः ।
दुःख उदर्काः तमोनिष्ठाः क्षुद्र आनन्दाः शुच अर्पिताः ॥
११॥
मयि अर्पित मनः सभ्य निरपेक्षस्य सर्वतः ।
मया आत्मना सुखं यत् तत् कुतः स्यात् विषय आत्मनाम् ॥
१२॥
अकिञ्चनस्य दान्तस्य शान्तस्य समचेतसः ।
मया सन्तुष्टमनसः सर्वाः सुखमयाः दिशः ॥ १३॥
न पारमेष्ठ्यं न महेन्द्रधिष्ण्यम्
न सार्वभौमं न रसाधिपत्यम् ।
न योगसिद्धीः अपुनर्भवं वा
मयि अर्पित आत्मा इच्छति मत् विना अन्यत् ॥ १४॥
न तथा मे प्रियतमः आत्मयोनिः न शङ्करः ।
न च सङ्कर्षणः न श्रीः न एव आत्मा च यथा भवान्
॥ १५॥
निरपेक्षं मुनिं शातं निर्वैरं समदर्शनम् ।
अनुव्रजामि अहं नित्यं पूयेयेति अङ्घ्रिरेणुभिः ॥ १६॥
निष्किञ्चना मयि अनुरक्तचेतसः
शान्ताः महान्तः अखिलजीववत्सलाः ।
कामैः अनालब्धधियः जुषन्ति यत्
तत् नैरपेक्ष्यं न विदुः सुखं मम ॥ १७॥
बाध्यमानः अपि मद्भक्तः विषयैः अजितेन्द्रियः ।
प्रायः प्रगल्भया भक्त्या विषयैः न अभिभूयते ॥ १८॥
यथा अग्निः सुसमृद्ध अर्चिः करोति एधांसि भस्मसात् ।
तथा मद्विषया भक्तिः उद्धव एनांसि कृत्स्नशः ॥ १९॥
न साधयति मां योगः न साङ्ख्यं धर्मः उद्धव ।
न स्वाध्यायः तपः त्यागः यथा भक्तिः मम ऊर्जिता ॥ २०॥
भक्त्या अहम् एकया ग्राह्यः श्रद्धया आत्मा प्रियः सताम् ।
भक्तिः पुनाति मन्निष्ठा श्वपाकान् अपि संभवात् ॥ २१॥
धर्मः सत्यदया उपेतः विद्या वा तपसान्विता ।
मद्भ्क्त्यापेतम् आत्मानं न सम्यक् प्रपुनाति हि ॥ २२॥
कथं विना रोमहर्षं द्रवता चेतसा विना ।
विनानन्द अश्रुकलया शुध्येत् भक्त्या विनाशयः ॥ २३॥
वाक् गद्गदा द्रवते यस्य चित्तम्
रुदति अभीक्ष्णं हसति क्वचित् च ।
विलज्जः उद्गायति नृत्यते च
मद्भक्तियुक्तः भुवनं पुनाति ॥ २४॥
यथा अग्निना हेम मलं जहाति
ध्मातं पुनः स्वं भजते च रूपम् ।
आत्मा च कर्मानुशयं विधूय
मद्भक्तियोगेन भजति अथः माम् ॥ २५॥
यथा यथा आत्मा परिमृज्यते असौ
मत्पुण्यगाथाश्रवण अभिधानैः ।
तथा तथा पश्यति वस्तु सूक्ष्मम्
चक्षुः यथा एव अञ्जनसम्प्रयुक्तम् ॥ २६॥
विषयान् ध्यायतः चित्तं विषयेषु विषज्जते ।
माम् अनुस्मरतः चित्तं मयि एव प्रविलीयते ॥ २७॥
तस्मात् असत् अभिध्यानं यथा स्वप्नमनोरथम् ।
हित्वा मयि समाधत्स्व मनः मद्भावभावितम् ॥ २८॥
स्त्रीणां स्त्रीसङ्गिनां सङ्गं त्यक्त्वा दूरतः आत्मवान् ।
क्षेमे विविक्तः आसीनः चिन्तयेत् माम् अतन्द्रितः ॥ २९॥
न तथा अस्य भवेत् क्लेशः बन्धः च अन्यप्रसङ्गतः ।
योषित् सङ्गात् यथा पुंसः यथा तत् सङ्गिसङ्गतः ॥ ३०॥
उद्धवः उवाच ।
यथा त्वाम् अरविन्दाक्ष यादृशं वा यदात्मकम् ।
ध्यायेत् मुमुक्षुः एतत् मे ध्यानं मे वक्तुम् अर्हसि ॥ ३१॥
श्रीभगवान् उवाच ।
समः आसनः आसीनः समकायः यथासुखम् ।
हस्तौ उत्सङ्गः आधाय स्वनासाग्रकृत ईक्षणः । ३२॥
प्राणस्य शोधयेत् मार्गं पूरकुम्भकरेचकैः ।
विपर्ययेण अपि शनैः अभ्यसेत् निर्जितेन्द्रियः ॥ ३३॥
हृदि अविच्छिन्नम् ओङ्कारं घण्टानादं बिसोर्णवत् ।
प्राणेन उदीर्य तत्र अथ पुनः संवेशयेत् स्वरम् ॥ ३४॥
एवं प्रणवसंयुक्तं प्राणम् एव समभ्यसेत् ।
दशकृत्वः त्रिषवणं मासात् अर्वाक् जित अनिलः ॥३५॥
हृत्पुण्डरीकम् अन्तस्थम् ऊर्ध्वनालम् अधोमुखम् ।
ध्यात्वा ऊर्ध्वमुखम् उन्निद्रम् अष्टपत्रं सकर्णिकम् ॥ ३६॥
कर्णिकायां न्यसेत् सूर्यसोमाग्नीन् उत्तरोत्तरम् ।
वह्निमध्ये स्मरेत् रूपं मम एतत् ध्यानमङ्गलम् ॥ ३७॥
समं प्रशान्तं सुमुखं दीर्घचारुचतुर्भुजम् ।
सुचारुसुन्दरग्रीवं सुकपोलं शुचिस्मितम् ॥ ३८॥
समान कर्ण विन्यस्त स्फुरन् मकर कुण्डलम् ।
हेम अम्बरं घनश्यामं श्रीवत्स श्रीनिकेतनम् ॥ ३९॥
शङ्ख चक्र गदा पद्म वनमाला विभूषितम् ।
नूपुरैः विलसत् पादं कौस्तुभ प्रभया युतम् ॥ ४०॥
द्युमत् किरीट कटक कटिसूत्र अङ्गद अयुतम् ।
सर्वाङ्ग सुन्दरं हृद्यं प्रसाद सुमुख ईक्षणम् ॥ ४१॥
सुकुमारम् अभिध्यायेत् सर्वाङ्गेषु मनः दधत् ।
इन्द्रियाणि इन्द्रियेभ्यः मनसा आकृष्य तत् मनः ।
बुद्ध्या सारथिना धीरः प्रणयेत् मयि सर्वतः ॥ ४२॥
तत् सर्व व्यापकं चित्तम् आकृष्य एकत्र धारयेत् ।
न अन्यानि चिन्तयेत् भूयः सुस्मितं भावयेत् मुखम् ॥ ४३॥
तत्र लब्धपदं चित्तम् आकृष्य व्योम्नि धारयेत् ।
तत् च त्यक्त्वा मदारोहः न किञ्चित् अपि चिन्तयेत् ॥ ४४॥
एवं समाहितमतिः माम् एव आत्मानम् आत्मनि ।
विचष्टे मयि सर्वात्मत् ज्योतिः ज्योतिषि संयुतम् ॥ ४५॥
ध्यानेन इत्थं सुतीव्रेण युञ्जतः योगिनः मनः ।
संयास्यति आशु निर्वाणं द्रव्य ज्ञान क्रिया भ्रमः ॥ ४६॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे
भक्तिरहस्यावधारणयोगो नाम चतुर्दशोऽध्यायः ॥ १४॥
अथ पञ्चदशोऽध्यायः ।
श्रीभगवान् उवाच ।
जितेन्द्रियस्य युक्तस्य जितश्वासस्य योगिनः
मयि धारयतः चेतः उपतिष्ठन्ति सिद्धयः ॥ १॥
उद्धवः उवाच ।
कया धारणया कास्वित् कथंस्वित् सिद्धिः अच्युत ।
कति वा सिद्धयः ब्रूहि योगिनां सिद्धिदः भवान् ॥ २॥
श्रीभगवान् उवाच ।
सिद्धयः अष्टादश प्रोक्ता धारणायोगपारगैः ।
तासाम् अष्टौ मत् प्रधानाः दशः एव गुणहेतवः ॥ ३॥
अणिमा महिमा मूर्तेः लघिमा प्राप्तिः इन्द्रियैः ।
प्राकाम्यं श्रुतदृष्टेषु शक्तिप्रेरणम् ईशिता ॥ ४॥
गुणेषु असङ्गः वशिता यत् कामः तत् अवस्यति ।
एताः मे सिद्धयः सौम्य अष्टौ उत्पत्तिकाः मताः ॥ ५॥
अनूर्मिमत्त्वं देहे अस्मिन् दूरश्रवणदर्शनम् ।
मनोजवः कामरूपं परकायप्रवेशनम् ॥ ६॥
स्वच्छन्दमृत्युः देवानां सहक्रीडानुदर्शनम् ।
यथासङ्कल्पसंसिद्धिः आज्ञाप्रतिहता गतिः ॥ ७॥
त्रिकालज्ञत्वम् अद्वन्द्वं परचित्तादि अभिज्ञता ।
अग्नि अर्क अम्बु विष आदीनां प्रतिष्टम्भः अपराजयः ॥ ८॥
एताः च उद्देशतः प्रोक्ता योगधारणसिद्धयः ।
यया धारणया या स्यात् यथा वा स्यात् निबोध मे ॥ ९॥
भूतसूक्ष्म आत्मनि मयि तन्मात्रं धारयेत् मनः ।
अणिमानम् अवाप्नोति तन्मात्र उपासकः मम ॥ १०॥
महति आत्मन् मयि परे यथासंस्थं मनः दधत् ।
महिमानम् अवाप्नोति भूतानां च पृथक् पृथक् ॥ ११॥
परमाणुमये चित्तं भूतानां मयि रञ्जयन् ।
कालसूक्ष्मात्मतां योगी लघिमानम् अवाप्नुयात् ॥ १२॥
धारयन् मयि अहंतत्त्वे मनः वैकारिके अखिलम् ।
सर्वेन्द्रियाणाम् आत्मत्वं प्राप्तिं प्राप्नोति मन्मनाः ॥ १३॥
महति आत्मनि यः सूत्रे धारयेत् मयि मानसम् ।
प्राकाम्यं पारमेष्ठ्यं मे विन्दते अव्यक्तजन्मनः ॥ १४॥
विष्णौ त्र्यधि ईश्वरे चित्तं धारयेत् कालविग्रहे ।
सः ईशित्वम् अवाप्नोति क्षेत्रक्षेत्रज्ञचोदनाम् ॥ १५॥
नारायणे तुरीयाख्ये भगवत् शब्दशब्दिते ।
मनः मयि आदधत् योगी मत् धर्माः वहिताम् इयात् ॥ १६॥
निर्गुणे ब्रह्मणि मयि धारयन् विशदं मनः ।
परमानन्दम् आप्नोति यत्र कामः अवसीयते ॥ १७॥
श्वेतदीपपतौ चित्तं शुद्धे धर्ममये मयि ।
धारयन् श्वेततां याति षडूर्मिरहितः नरः ॥ १८॥
मयि आकाश आत्मनि प्राणे मनसा घोषम् उद्वहन् ।
तत्र उपलब्धा भूतानां हंसः वाचः श्रुणोति असौ ॥ १९॥
चक्षुः त्वष्टरि संयोज्य त्वष्टारम् अपि चक्षुषि ।
मां तत्र मनसा ध्यायन् विश्वं पश्यति सूक्ष्मदृक् ॥ २०॥
मनः मयि सुसंयोज्य देहं तदनु वायुना ।
मद्धारण अनुभावेन तत्र आत्मा यत्र वै मनः ॥ २१॥
यदा मनः उपादाय यत् यत् रूपं बुभूषति ।
तत् तत् भवेत् मनोरूपं मद्योगबलम् आश्रयः ॥ २२॥
परकायं विशन् सिद्धः आत्मानं तत्र भावयेत् ।
पिण्डं हित्वा विशेत् प्राणः वायुभूतः षडङ्घ्रिवत् ॥ २३॥
पार्ष्ण्या आपीड्य गुदं प्राणं हृत् उरः कण्ठ मूर्धसु ।
आरोप्य ब्रह्मरन्ध्रेण ब्रह्म नीत्वा उत्सृजेत् तनुम् ॥ २४॥
विहरिष्यन् सुराक्रीडे मत्स्थं सत्त्वं विभावयेत् ।
विमानेन उपतिष्ठन्ति सत्त्ववृत्तीः सुरस्त्रियः ॥ २५॥
यथा सङ्कल्पयेत् बुद्ध्या यदा वा मत्परः पुमान् ।
मयि सत्ये मनः युञ्जन् तथा तत् समुपाश्नुते ॥ २६॥
यः वै मद्भावम् आपन्नः ईशितुः वशितुः पुमान् ।
कुतश्चित् न विहन्येत तस्य च आज्ञा यथा मम ॥ २७॥
मद्भक्त्या शुद्धसत्त्वस्य योगिनः धारणाविदः ।
तस्य त्रैकालिकी बुद्धिः जन्म मृत्यु उपबृंहिता ॥ २८॥
अग्नि आदिभिः न हन्येत मुनेः योगम् अयं वपुः ।
मद्योगश्रान्तचित्तस्य यादसाम् उदकं यथा ॥ २९॥
मद्विभूतिः अभिध्यायन् श्रीवत्स अस्त्रबिभूषिताः ।
ध्वजातपत्रव्यजनैः सः भवेत् अपराजितः ॥ ३०॥
उपासकस्य माम् एवं योगधारणया मुनेः ।
सिद्धयः पूर्वकथिताः उपतिष्ठन्ति अशेषतः ॥ ३१॥
जितेन्द्रियस्य दान्तस्य जितश्वास आत्मनः मुनेः ।
मद्धारणां धारयतः का सा सिद्धिः सुदुर्लभा ॥ ३२॥
अन्तरायान् वदन्ति एताः युञ्जतः योगम् उत्तमम् ।
मया सम्पद्यमानस्य कालक्षेपणहेतवः ॥ ३३॥
जन्म ओषधि तपो मन्त्रैः यावतीः इह सिद्धयः ।
योगेन आप्नोति ताः सर्वाः न अन्यैः योगगतिं व्रजेत् ॥ ३४॥
सर्वासाम् अपि सिद्धीनां हेतुः पतिः अहं प्रभुः ।
अहं योगस्य साङ्ख्यस्य धर्मस्य ब्रह्मवादिनाम् ॥ ३५॥
अहम् आत्मा अन्तरः बाह्यः अनावृतः सर्वदेहिनाम् ।
यथा भूतानि भूतेषु बहिः अन्तः स्वयं तथा ॥ ३६॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे
सिद्धनिरूपणयोगो नाम पञ्चदशोऽध्यायः ॥ १५॥
अथ षोडशोऽध्यायः ।
उद्धवः उवाच ।
त्वं ब्रह्म परमं साक्षात् अनादि अनन्तम् अपावृतम् ।
सर्वेषाम् अपि भावानां त्राणस्थिति अप्यय उद्भवः ॥ १॥
उच्चावचेषु भूतेषु दुर्ज्ञेयम् अकृत आत्मभिः ।
उपासते त्वां भगवन् याथातथ्येन ब्राह्मणाः ॥ २॥
येषु येषु च भावेषु भक्त्या त्वां परमर्षयः ।
उपासीनाः प्रपद्यन्ते संसिद्धिं तत् वदस्व मे ॥ ३॥
गूढः चरसि भूतात्मा भूतानां भूतभावन ।
न त्वां पश्यन्ति भूतानि पश्यन्तं मोहितानि ते ॥ ४॥
याः काः च भूमौ दिवि वै रसायाम्
विभूतयः दिक्षु महाविभूते ।
ताः मह्यम् आख्याहि अनुभाविताः ते
नमामि ते तीर्थ पद अङ्घ्रिपद्मम् ॥ ५॥
श्रीभगवान् उवाच ।
एवम् एतत् अहं पृष्टः प्रश्नं प्रश्नविदां वर ।
युयुत्सुना विनशने सपत्नैः अर्जुनेन वै ॥ ६॥
ज्ञात्वा ज्ञातिवधं गर्ह्यम् अधर्मं राज्यहेतुकम् ।
ततः निवृत्तः हन्ता अहं हतः अयम् इति लौकिकः ॥ ७॥
सः तदा पुरुषव्याघ्रः युक्त्या मे प्रतिबोधितः ।
अभ्यभाषत माम् एवं यथा त्वं रणमूर्धनि ॥ ८॥
अहम् आत्मा उद्धव आमीषां भूतानां सुहृत् ईश्वरः ।
अहं सर्वाणि भूतानि तेषां स्थिति उद्भव अप्ययः ॥ ९॥
अहं गतिः गतिमतां कालः कलयताम् अहम् ।
गुणानां च अपि अहं साम्यं गुणिन्या उत्पत्तिकः गुणः ॥ १०॥
गुणिनाम् अपि अहं सूत्रं महतां च महान् अहम् ।
सूक्ष्माणाम् अपि अहं जीवः दुर्जयानाम् अहं मनः ॥ ११॥
हिरण्यगर्भः वेदानां मन्त्राणां प्रणवः त्रिवृत् ।
अक्षराणाम् अकारः अस्मि पदानि छन्दसाम् अहम् ॥ १२॥
इन्द्रः अहं सर्वदेवानां वसूनामस्मि हव्यवाट् ।
आदित्यानाम् अहं विष्णू रुद्राणां नीललोहितः ॥ १३॥
ब्रह्मर्षीणां भृगुः अहं राजर्षीणाम् अहं मनुः ।
देवर्षिणां नारदः अहं हविर्धानि अस्मि धेनुषु ॥ १४॥
सिद्धेश्वराणां कपिलः सुपर्णः अहं पतत्रिणाम् ।
प्रजापतीनां दक्षः अहं पितॄणाम् अहम् अर्यमा ॥ १५॥
मां विद्धि उद्धव दैत्यानां प्रह्लादम् असुरेश्वरम् ।
सोमं नक्षत्र ओषधीनां धनेशं यक्षरक्षसाम् ॥ १६॥
ऐरावतं गजेन्द्राणां यादसां वरुणं प्रभुम् ।
तपतां द्युमतां सूर्यं मनुष्याणां च भूपतिम् ॥ १७॥
उच्चैःश्रवाः तुरङ्गाणां धातूनाम् अस्मि काञ्चनम् ।
यमः संयमतां च अहं सर्पाणाम् अस्मि वासुकिः ॥ १८॥
नागेन्द्राणां अनन्तः अहं मृगेन्द्रः शृङ्गिदंष्ट्रिणाम् ।
आश्रमाणाम् अहं तुर्यः वर्णानां प्रथमः अनघ ॥ १९॥
तीर्थानां स्रोतसां गङ्गा समुद्रः सरसाम् अहम् ।
आयुधानां धनुः अहं त्रिपुरघ्नः धनुष्मताम् ॥ २०॥
धिष्ण्यानाम् अस्मि अहं मेरुः गहनानां हिमालयः ।
वनस्पतीनाम् अश्वत्थः ओषधीनाम् अहं यवः ॥ २१॥
पुरोधसां वसिष्ठः अहं ब्रह्मिष्ठानां बृहस्पतिः ।
स्कन्दः अहं सर्वसेनान्याम् अग्रण्यां भगवान् अजः ॥ २२॥
यज्ञानां ब्रह्मयज्ञः अहं व्रतानाम् अविहिंसनम् ।
वायु अग्नि अर्क अम्बु वाक् आत्मा शुचीनाम् अपि अहं शुचिः ॥ २३॥
योगानाम् आत्मसंरोधः मन्त्रः अस्मि विजिगीषताम् ।
आन्वीक्षिकी कौशलानां विकल्पः ख्यातिवादिनाम् ॥ २४॥
स्त्रीणां तु शतरूपा अहं पुंसां स्वायंभुवः मनुः ।
नारायणः मुनीनां च कुमारः ब्रह्मचारिणाम् ॥ २५॥
धर्माणाम् अस्मि संन्यासः क्षेमाणाम् अबहिः मतिः ।
गुह्यानां सूनृतं मौनं मिथुनानाम् अजः तु अहम् ॥ २६॥
संवत्सरः अस्मि अनिमिषाम् ऋतूनां मधुमाधवौ ।
मासानां मार्गशीर्षः अहं नक्षत्राणां तथा अभिजित्
॥ २७॥
अहं युगानां च कृतं धीराणां देवलः असितः ।
द्वैपायनः अस्मि व्यासानां कवीनां काव्यः आत्मवान् ॥ २८॥
वासुदेवः भगवतां त्वं भागवतेषु अहम् ।
किम्पुरुषाणां हनुमान् विद्याघ्राणां सुदर्शनः ॥ २९॥
रत्नानां पद्मरागः अस्मि पद्मकोशः सुपेशसाम् ।
कुशः अस्मि दर्भजातीनां गव्यम् आज्यं हविष्षु अहम् ॥
३०॥
व्यवसायिनाम् अहं लक्ष्मीः कितवानां छलग्रहः ।
तितिक्षा अस्मि तितिक्षणां सत्त्वं सत्त्ववताम् अहम् ॥ ३१॥
ओजः सहोबलवतां कर्म अहं विद्धि सात्त्वताम् ।
सात्त्वतां नवमूर्तीनाम् आदिमूर्तिः अहं परा ॥ ३२॥
विश्वावसुः पूर्वचित्तिः गन्धर्व अप्सरसाम् अहम् ।
भूधराणाम् अहं स्थैर्यं गन्धमात्रम् अहं भुवः ॥ ३३॥
अपां रसः च परमः तेजिष्ठानां विभावसुः ।
प्रभा सूर्य इन्दु ताराणां शब्दः अहं नभसः परः ॥ ३४॥
ब्रह्मण्यानां बलिः अहं विराणाम् अहम् अर्जुनः ।
भूतानां स्थितिः उत्पत्तिः अहं वै प्रतिसङ्क्रमः ॥ ३५॥
गति उक्ति उत्सर्ग उपादानम् आनन्द स्पर्श लक्षणम् ।
आस्वाद श्रुति अवघ्राणम् अहं सर्वेन्द्रिय इन्द्रियम् ॥ ३६॥
पृथिवी वायुः आकाशः आपः ज्योतिः अहं महान् ।
विकारः पुरुषः अव्यक्तं रजः सत्त्वं तमः परम् ।
अहम् एतत् प्रसङ्ख्यानं ज्ञानं सत्त्वविनिश्चयः ॥ ३७॥
मया ईश्वरेण जीवेन गुणेन गुणिना विना ।
सर्वात्मना अपि सर्वेण न भावः विद्यते क्वचित् ॥ ३८॥
सङ्ख्यानं परमाणूनां कालेन क्रियते मया ।
न तथा मे विभूतीनां सृजतः अण्डानि कोटिशः ॥ ३९॥
तेजः श्रीः कीर्तिः ऐश्वर्यं ह्रीः त्यागः सौभगं भगः ।
वीर्यं तितिक्षा विज्ञानं यत्र यत्र स मे अंशकः ॥ ४०॥
एताः ते कीर्तिताः सर्वाः संक्षेपेण विभूतयः ।
मनोविकाराः एव एते यथा वाचा अभिधीयते ॥ ४१॥
वाचं यच्छ मनः यच्छ प्राणानि यच्छ इन्द्रियाणि च ।
आत्मानम् आत्मना यच्छ न भूयः कल्पसे अध्वने ॥ ४२॥
यः वै वाक् मनसि सम्यक् असंयच्छन् धिया यतिः ।
तस्य व्रतं तपः दानं स्रवत्यामघटाम्बुवत् ॥ ४३॥
तस्मात् मनः वचः प्राणान् नियच्छेत् मत् परायणः ।
मत् भक्ति युक्तया बुद्ध्या ततः परिसमाप्यते ॥ ४४॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे
विभूतियोगो नाम षोडशोऽध्यायः ॥ १६॥
अथ सप्तदशोऽध्यायः ।
उद्धवः उवाच ।
यः त्वया अभितः पूर्वं धर्मः त्वत् भक्तिलक्षणः ।
वर्णाश्रम आचारवतां सर्वेषां द्विपदाम् अपि ॥ १॥
यथा अनुष्ठीयमानेन त्वयि भक्तिः नृणां भवेत् ।
स्वधर्मेण अरविन्दाक्ष तत् समाख्यातुम् अर्हसि ॥ २॥
पुरा किल महाबाहो धर्मं परमकं प्रभो ।
यत् तेन हंसरूपेण ब्रह्मणे अभ्यात्थ माधव ॥ ३॥
सः इदानीं सुमहता कालेन अमित्रकर्शन ।
न प्रायः भविता मर्त्यलोके प्राक् अनुशासितः ॥ ४॥
वक्ता कर्ता अविता न अन्यः धर्मस्य अच्युत ते भुवि ।
सभायाम् अपि वैरिञ्च्यां यत्र मूर्तिधराः कलाः ॥ ५॥
कर्त्रा अवित्रा प्रवक्त्रा च भवता मधुसूदन ।
त्यक्ते महीतले देव विनष्टं कः प्रवक्ष्यति ॥ ६॥
तत्त्वं नः सर्वधर्मज्ञ धर्मः त्वत् भक्तिलक्षणः ।
यथा यस्य विधीयेत तथा वर्णय मे प्रभो ॥ ७॥
श्रीशुकः उवाच ।
इत्थं स्वभृत्यमुख्येन पृष्टः सः भगवान् हरिः ।
प्रीतः क्षेमाय मर्त्यानां धर्मान् आह सनातनान् ॥ ८॥
श्रीभगवान् उवाच ।
धर्म्यः एष तव प्रश्नः नैःश्रेयसकरः नृणाम् ।
वर्णाश्रम आचारवतां तम् उद्धव निबोध मे ॥ ९॥
आदौ कृतयुगे वर्णः नृणां हंसः इति स्मृतः ।
कृतकृत्याः प्रजाः जात्याः तस्मात् कृतयुगं विदुः ॥ १०॥
वेदः प्रणवः एव अग्रे धर्मः अहं वृषरूपधृक् ।
उपासते तपोनिष्ठां हंसं मां मुक्तकिल्बिषाः ॥ ११॥
त्रेतामुखे महाभाग प्राणात् मे हृदयात् त्रयी ।
विद्या प्रादुः अभूत् तस्याः अहम् आसं त्रिवृन्मखः ॥ १२॥
विप्र क्षत्रिय विट् शूद्राः मुख बाहु उरु पादजाः ।
वैराजात् पुरुषात् जाताः यः आत्माचारलक्षणाः ॥ १३॥
गृहाश्रमः जघनतः ब्रह्मचर्यं हृदः मम ।
वक्षःस्थानात् वने वासः न्यासः शीर्षणि संस्थितः ॥ १४॥
वर्णानाम् आश्रमाणां च जन्मभूमि अनुसारिणीः ।
आसन् प्रकृतयः नॄणां नीचैः नीच उत्तम उत्तमाः ॥ १५॥
शमः दमः तपः शौचं सन्तोषः क्षान्तिः आर्जवम् ।
मद्भक्तिः च दया सत्यं ब्रह्मप्रकृतयः तु इमाः ॥ १६॥
तेजः बलं धृतिः शौर्यं तितिक्षा औदार्यम् उद्यमः ।
स्थैर्यं ब्रह्मणि अत ऐश्वर्यं क्षत्रप्रकृतयः तु इमाः ॥
१७॥
आस्तिक्यं दाननिष्ठा च अदम्भः ब्रह्मसेवनम् ।
अतुष्टिः अर्थ उपचयैः वैश्यप्रकृतयः तु इमाः ॥ १८॥
शुश्रूषणं द्विजगवां देवानां च अपि अमायया ।
तत्र लब्धेन सन्तोषः शूद्रप्रकृतयः तु इमाः ॥ १९॥
अशौचम् अनृतं स्तेयं नास्तिक्यं शुष्कविग्रहः ।
कामः क्रोधः च तर्षः च स्वभावः अन्तेवसायिनाम् ॥ २०॥
अहिंसा सत्यम् अस्तेयम् अकामक्रोधलोभता ।
भूतप्रियहितेहा च धर्मः अयं सार्ववर्णिकः ॥ २१॥
द्वितीयं प्राप्य अनुपूर्व्यात् जन्म उपनयनं द्विजः ।
वसन् गुरुकुले दान्तः ब्रह्म अधीयीत च आहुतः ॥ २२॥
मेखला अजिन दण्ड अक्ष ब्रह्मसूत्र कमण्डलून् ।
जटिलः अधौतदद्वासः अरक्तपीठः कुशान् दधत् ॥ २३॥
स्नान भोजन होमेषु जप उच्चारे च वाग्यतः ।
न च्छिन्द्यात् नख रोमाणि कक्ष उपस्थगतानि अपि ॥ २४॥
रेतः न अवरिकेत् जातु ब्रह्मव्रतधरः स्वयम् ।
अवकीर्णे अवगाह्य अप्सु यतासुः त्रिपदीं जपेत् ॥ २५॥
अग्नि अर्क आचार्य गो विप्र गुरु वृद्ध सुरान् शुचिः ।
समाहितः उपासीत सन्ध्ये च यतवाक् जपन् ॥ २६॥
आचार्यं मां विजानीयात् न अवमन्येत कर्हिचित् ।
न मर्त्यबुद्धि आसूयेत सर्वदेवमयः गुरुः ॥ २७॥
सायं प्रातः उपानीय भैक्ष्यं तस्मै निवेदयेत् ।
यत् च अन्यत् अपि अनुज्ञातम् उपयुञ्जीत संयतः ॥ २८॥
शुश्रूषमाणः आचार्यं सदा उपासीत नीचवत् ।
यान शय्या आसन स्थानैः न अतिदूरे कृताञ्जलिः ॥ २९॥
एवंवृत्तः गुरुकुले वसेत् भोगविवर्जितः ।
विद्या समाप्यते यावत् बिभ्रत् व्रतम् अखण्डितम् ॥ ३०॥
यदि असौ छन्दसां लोकम् आरोक्ष्यन् ब्रह्मविष्टपम् ।
गुरवे विन्यसेत् देहं स्वाध्यायार्थं वृहत् व्रतः ॥ ३१॥
अग्नौ गुरौ आत्मनि च सर्वभूतेषु मां परम् ।
अपृथक् धीः उपासीत ब्रह्मवर्चस्वी अकल्मषः ॥ ३२॥
स्त्रीणां निरीक्षण स्पर्श संलाप क्ष्वेलन आदिकम् ।
प्राणिनः मिथुनीभूतान् अगृहस्थः अग्रतः त्यजेत् ॥ ३३॥
शौचम् आचमनं स्नानं सन्ध्या उपासनम् आर्जवम् ।
तीर्थसेवा जपः अस्पृश्य अभक्ष्य असंभाष्य वर्जनम् ॥
३४॥
सर्व आश्रम प्रयुक्तः अयं नियमः कुलनन्दन।
मद्भावः सर्बभूतेषु मनोवाक्काय संयमः ॥ ३५॥
एवं बृहत् व्रतधरः ब्राह्मणः अग्निः इव ज्वलन् ।
मद्भक्तः तीव्रतपसा दग्धकर्म आशयः अमलः ॥ ३६॥
अथ अनन्तरम् आवेक्ष्यन् यथा जिज्ञासित आगमः ।
गुरवे दक्षिणां दत्त्वा स्नायत् गुरु अनुमोदितः ॥ ३७॥
गृहं वनं वा उपविशेत् प्रव्रजेत् वा द्विज उत्तमः ।
आश्रमात् आश्रमं गच्छेत् न अन्यथा मत्परः चरेत् ॥ ३८॥
गृहार्थी सदृशीं भार्याम् उद्वहेत् अजुगुप्सिताम् ।
यवीयसीं तु वयसा यां सवर्णाम् अनुक्रमात् ॥ ३९॥
इज्य अध्ययन दानानि सर्वेषां च द्विजन्मनाम् ।
प्रतिग्रहः अध्यापनं च ब्राह्मणस्य एव याजनम् ॥ ४०॥
प्रतिग्रहं मन्यमानः तपः तेजोयशोनुदम् ।
अन्याभ्याम् एव जीवेत शिलैः वा दोषदृक् तयोः ॥ ४१॥
ब्राह्मणस्य हि देहः अयं क्षुद्रकामाय न इष्यते ।
कृच्छ्राय तपसे च इह प्रेत्य अनन्तसुखाय च ॥ ४२॥
शिलोञ्छवृत्त्या परितुष्टचित्तः
धर्मं महान्तं विरजं जुषाणः ।
मयि अर्पितात्मा गृहः एव तिष्ठन्
न अतिप्रसक्तः समुपैति शान्तिम् ॥ ४३॥
समुद्धरन्ति ये विप्रं सीदन्तं मत्परायणम् ।
तान् उद्धरिष्ये न चिरात् आपद्भ्यः नौः इव अर्णवात् ॥ ४४॥
सर्वाः समुद्धरेत् राजा पिता इव व्यसनात् प्रजाः ।
आत्मानम् आत्मना धीरः यथा गजपतिः गजान् ॥ ४५॥
एवंविधः नरपतिः विमानेन अर्कवचसा ।
विधूय इह अशुभं कृत्स्नम् इन्द्रेण सह मोदते ॥ ४६॥
सीदन् विप्रः वणिक् वृत्त्या पण्यैः एव आपदं तरेत् ।
खड्गेन वा आपदाक्रान्तः न श्ववृत्त्या कथञ्चन ॥ ४७॥
वैश्यवृत्त्या तु राजन् यः जीवेत् मृगयया आपदि ।
चरेत् वा विप्ररूपेण न श्ववृत्त्या कथञ्चन ॥ ४८॥
शूद्रवृत्तिं भजेत् वैश्यः शूद्रः कारुकटप्रियाम् ।
कृच्छ्रात् मुक्तः न गर्ह्येण वृत्तिं लिप्सेत कर्मणा ॥ ४९॥
वेद अध्याय स्वधा स्वाहा बलि अन्न आद्यैः यथा उदयम् ।
देवर्षि पितृभूतानि मद्रूपाणि अन्वहं यजेत् ॥ ५०॥
यदृच्छया उपपन्नेन शुक्लेन उपार्जितेन वा ।
धनेन अपीडयन् भृत्यान् न्यायेन एव आहरेत् क्रतून् ॥ ५१॥
कुटुंबेषु न सज्जेत न प्रमाद्येत् कुटुंबि अपि ।
विपश्चित् नश्वरं पश्येत् अदृष्टम् अपि दृष्टवत् ॥ ५२॥
पुत्र दारा आप्त बन्धूनां सङ्गमः पान्थसङ्गमः ।
अनुदेहं वियन्ति एते स्वप्नः निद्रानुगः यथा ॥ ५३॥
इत्थं परिमृशन् मुक्तः गृहेषु अतिथिवत् वसन् ।
न गृहैः अनुबध्येत निर्ममः निरहङ्कृतः ॥ ५४॥
कर्मभिः गृहम् एधीयैः इष्ट्वा माम् एव भक्तिमान् ।
तिष्ठेत् वनं वा उपविशेत् प्रजावान् वा परिव्रजेत् ॥ ५५॥
यः तु आसक्तम् अतिः गेहे पुत्र वित्तैषण आतुरः ।
स्त्रैणः कृपणधीः मूढः मम अहम् इति बध्यते ॥ ५६॥
अहो मे पितरौ वृद्धौ भार्या बालात्मजा आत्मजाः ।
अनाथाः माम् ऋते दीनाः कथं जीवन्ति दुःखिताः ॥ ५७॥
एवं गृह आशय आक्षिप्त हृदयः मूढधीः अयम् ।
अतृप्तः तान् अनुध्यायन् मृतः अन्धं विशते तमः ॥ ५८॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे
ब्रह्मचर्यगृहस्थकर्मधर्मनिरूपणे सप्तदशोऽध्यायः ॥
१७॥
अथ अष्टादशोऽध्यायः ।
श्रीभगवान् उवाच ।
वनं विविक्षुः पुत्रेषु भार्यां न्यस्य सह एव वा ।
वनः एव वसेत् शान्तः तृतीयं भागम् आयुषः ॥ १॥
कन्दमूलफलैः वन्यैः मेध्यैः वृत्तिं प्रकल्पयेत् ।
वसीत वल्कलं वासः तृणपर्ण अजिनानि च ॥ २॥
केशरोमनखश्मश्रुमलानि बिभृयात् अतः ।
न धावेत् अप्सु मज्जेत त्रिकालं स्थण्डिलेशयः ॥ ३॥
ग्रीष्मे तप्येत पञ्चाग्नीन् वर्षास्वासारषाड् जले ।
आकण्ठमग्नः शिशिरः एवंवृत्तः तपश्चरेत् ॥ ४॥
अग्निपक्वं समश्नीयात् कालपक्वम् अथ अपि वा ।
उलूखल अश्मकुट्टः वा दन्त उलूखलः एव वा ॥ ५॥
स्वयं सञ्चिनुयात् सर्वम् आत्मनः वृत्तिकारणम् ।
देशकालबल अभिज्ञः न आददीत अन्यदा आहृतम् ॥ ६॥
वन्यैः चरुपुरोडाशैः निर्वपेत् कालचोदितान् ।
न तु श्रौतेन पशुना मां यजेत वनाश्रमी ॥ ७॥
अग्निहोत्रं च दर्शः च पूर्णमासः च पूर्ववत् ।
चातुर्मास्यानि च मुनेः आम्नातानि च नैगमैः ॥ ८॥
एवं चीर्णेन तपसा मुनिः धमनिसन्ततः ।
मां तपोमयम् आराध्य ऋषिलोकात् उपैति माम् ॥ ९॥
यः तु एतत् कृच्छ्रतः चीर्णं तपः निःश्रेयसं महत् ।
कामाय अल्पीयसे युञ्ज्यात् वालिशः कः अपरः ततः ॥ १०॥
यदा असौ नियमे अकल्पः जरया जातवेपथुः ।
आत्मनि अग्नीन् समारोप्य मच्चित्तः अग्निं समाविशेत् ॥ ११॥
यदा कर्मविपाकेषु लोकेषु निरय आत्मसु ।
विरागः जायते सम्यक् न्यस्त अग्निः प्रव्रजेत् ततः ॥ १२॥
इष्ट्वा यथा उपदेशं मां दत्त्वा सर्वस्वम् ऋत्विजे ।
अग्नीन् स्वप्राणः आवेश्य निरपेक्षः परिव्रजेत् ॥ १३॥
विप्रस्य वै संन्यसतः देवाः दारादिरूपिणः ।
विघ्नान् कुर्वन्ति अयं हि अस्मान् आक्रम्य समियात् परम् ॥ १४॥
बिभृयात् चेत् मुनिः वासः कौपीन आच्छादनं परम् ।
त्यक्तं न दण्डपात्राभ्याम् अन्यत् किञ्चित् अनापदि ॥ १५॥
दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं पिबेत् जलम् ।
सत्यपूतां वदेत् वाचं मनःपूतं समाचरेत् ॥ १६॥
मौन अनीहा अनिल आयामाः दण्डाः वाक् देह चेतसाम् ।
नहि एते यस्य सन्ति अङ्गः वेणुभिः न भवेत् यतिः ॥ १७॥
भिक्षां चतुषु वर्णेषु विगर्ह्यान् वर्जयन् चरेत् ।
सप्तागारान् असंक्लृप्तान् तुष्येत् लब्धेन तावता ॥ १८॥
बहिः जलाशयं गत्वा तत्र उपस्पृश्य वाग्यतः ।
विभज्य पावितं शेषं भुञ्जीत अशेषम् आहृतम् ॥ १९॥
एकः चरेत् महीम् एतां निःसङ्गः संयतेन्द्रियः ।
आत्मक्रीडः आत्मरतः आत्मवान् समदर्शनः ॥ २०॥
विविक्तक्षेमशरणः मद्भावविमलाशयः ।
आत्मानं चिन्तयेत् एकम् अभेदेन मया मुनिः ॥ २१॥
अन्वीक्षेत आत्मनः बन्धं मोक्षं च ज्ञाननिष्ठया ।
बन्धः इन्द्रियविक्षेपः मोक्षः एषां च संयमः ॥ २२॥
तस्मात् नियम्य षड्वर्गं मद्भावेन चरेत् मुनिः ।
विरक्तः क्षुल्लकामेभ्यः लब्ध्वा आत्मनि सुखं महत् ॥ २३॥
पुरग्रामव्रजान् सार्थान् भिक्षार्थं प्रविशन् चरेत् ।
पुण्यदेशसरित् शैलवन आश्रमवतीं महीम् ॥ २४॥
वानप्रस्थ आश्रम पदेषु अभीक्ष्णं भैक्ष्यम् आचरेत् ।
संसिध्यत्याश्वसंमोहः शुद्धसत्त्वः शिलान्धसा ॥ २५॥
न एतत् वस्तुतया पश्येत् दृश्यमानं विनश्यति ।
असक्तचित्तः विरमेत् इह अमुत्र चिकीर्षितात् ॥ २६॥
यत् एतत् आत्मनि जगत् मनोवाक्प्राणसंहतम् ।
सर्वं माया इति तर्केण स्वस्थः त्यक्त्वा न तत् स्मरेत् ॥ २७॥
ज्ञाननिष्ठः विरक्तः वा मद्भक्तः वा अनपेक्षकः ।
सलिङ्गान् आश्रमां त्यक्त्वा चरेत् अविधिगोचरः ॥ २८॥
बुधः बालकवत् क्रीडेत् कुशलः जडवत् चरेत् ।
वदेत् उन्मत्तवत् विद्वान् गोचर्यां नैगमः चरेत् ॥ २९॥
वेदवादरतः न स्यात् न पाखण्डी न हैतुकः ।
शुष्कवादविवादे न कञ्चित् पक्षं समाश्रयेत् ॥ ३०॥
न उद्विजेत जनात् धीरः जनं च उद्वेजयेत् न तु ।
अतिवादान् तितिक्षेत न अवमन्येत कञ्चन ।
देहम् उद्दिश्य पशुवत् वैरं कुर्यात् न केनचित् ॥ ३१॥
एकः एव परः हि आत्मा भूतेषु आत्मनि अवस्थितः ।
यथा इन्दुः उदपात्रेषु भूतानि एकात्मकानि च ॥ ३२॥
अलब्ध्वा न विषीदेत काले काले अशनं क्वचित् ।
लब्ध्वा न हृष्येत् धृतिम् आनुभयं दैवतन्त्रितम् ॥ ३३॥
आहारार्थं समीहेत युक्तं तत् प्राणधारणम् ।
तत्त्वं विमृश्यते तेन तत् विज्ञाय विमुच्यते ॥ ३४॥
यत् ऋच्छया उपपन्नात् अन्नम् अद्यात् श्रेष्ठम् उत अपरम् ।
तथा वासः तथा शय्यां प्राप्तं प्राप्तं भजेत् मुनिः ॥ ३५॥
शौचम् आचमनं स्नानं न तु चोदनया चरेत् ।
अन्यान् च नियमान् ज्ञानी यथा अहं लीलया ईश्वरः ॥ ३६॥
नहि तस्य विकल्पाख्या या च मद्वीक्षया हता ।
आदेहान्तात् क्वचित् ख्यातिः ततः सम्पद्यते मया ॥ ३७॥
दुःख उदर्केषु कामेषु जातनिर्वेदः आत्मवान् ।
अजिज्ञासित मद्धर्मः गुरुं मुनिम् उपाव्रजेत् ॥ ३८॥
तावत् परिचरेत् भक्तः श्रद्धावान् अनसूयकः ।
यावत् ब्रह्म विजानीयात् माम् एव गुरुम् आदृतः ॥ ३९॥
यः तु असंयत षड्वर्गः प्रचण्ड इन्द्रिय सारथिः ।
ज्ञान वैराग्य रहितः त्रिदण्डम् उपजीवति ॥ ४०॥
सुरान् आत्मानम् आत्मस्थं निह्नुते मां च धर्महा ।
अविपक्व कषायः अस्मात् उष्मात् च विहीयते ॥ ४१॥
भिक्षोः धर्मः शमः अहिंसा तपः ईक्षा वनौकसः ।
गृहिणः भूतरक्ष इज्याः द्विजस्य आचार्यसेवनम् ॥ ४२॥
ब्रह्मचर्यं तपः शौचं सन्तोषः भूतसौहृदम् ।
गृहस्थस्य अपि ऋतौ गन्तुः सर्वेषां मदुपासनम् ॥ ४३॥
इति मां यः स्वधर्मेण भजन् नित्यम् अनन्यभाक् ।
सर्वभूतेषु मद्भावः मद्भक्तिं विन्दते अचिरात् ॥ ४४॥
भक्त्या उद्धव अनपायिन्या सर्वलोकमहेश्वरम् ।
सर्व उत्पत्ति अपि अयं ब्रह्म कारणं मा उपयाति सः ॥ ४५॥
इति स्वधर्म निर्णिक्त सत्त्वः निर्ज्ञात् मद्गतिः ।
ज्ञान विज्ञान सम्पन्नः न चिरात् समुपैति माम् ॥ ४६॥
वर्णाश्रमवतां धर्मः एषः आचारलक्षणः ।
सः एव मद्भक्तियुतः निःश्रेयसकरः परः ॥ ४७॥
एतत् ते अभिहितं साधो भवान् पृच्छति यत् च माम् ।
यथा स्वधर्मसंयुक्तः भक्तः मां समियात् परम् ॥ ४८॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे
वानप्रस्थसंन्यासधर्मनिरूपणं नामाष्टादशोऽध्यायः
॥ १८॥
अथ एकोनविंशः अध्यायः ।
श्रीभगवान् उवाच ।
यः विद्याश्रुतसम्पन्नः आत्मवान् न अनुमानिकः ।
मायामात्रम् इदं ज्ञात्वा ज्ञानं च मयि संन्यसेत् ॥ १॥
ज्ञानिनः तु अहम् एव इष्टः स्वार्थः हेतुः च संमतः ।
स्वर्गः च एव अपवर्गः च न अन्यः अर्थः मदृते प्रियः ॥ २॥
ज्ञानविज्ञानसंसिद्धाः पदं श्रेष्ठं विदुः मम ।
ज्ञानी प्रियतमः अतः मे ज्ञानेन असौ बिभर्ति माम् ॥ ३॥
तपः तीर्थं जपः दानं पवित्राणि इतराणि च ।
न अलं कुर्वन्ति तां सिद्धिं या ज्ञानकलया कृता ॥ ४॥
तस्मात् ज्ञानेन सहितं ज्ञात्वा स्वात्मानम् उद्धव ।
ज्ञानविज्ञानसम्पन्नः भज मां भक्तिभावतः ॥ ५॥
ज्ञानविज्ञानयज्ञेन माम् इष्ट्वा आत्मानम् आत्मनि ।
सर्वयज्ञपतिं मां वै संसिद्धिं मुनयः अगमन्॥ ६॥
त्वयि उद्धव आश्रयति यः त्रिविधः विकारः
मायान्तरा आपतति न आदि अपवर्गयोः यत् ।
जन्मादयः अस्य यत् अमी तव तस्य किं स्युः
आदि अन्तयोः यत् असतः अस्ति तत् एव मध्ये ॥ ७॥
उद्धवः उवाच ।
ज्ञानं विशुद्धं विपुलं यथा एतत्
वैराग्यविज्ञानयुतं पुराणम् ।
आख्याहि विश्वेश्वर विश्वमूर्ते
त्वत् भक्तियोगं च महत् विमृग्यम् ॥ ८॥
तापत्रयेण अभिहतस्य घोरे
सन्तप्यमानस्य भवाध्वनीश ।
पश्यामि न अन्यत् शरणं तवाङ्घ्रि
द्वन्द्व आतपत्रात् अमृत अभिवर्षात् ॥ ९॥
दष्टं जनं सम्पतितं बिले अस्मिन्
कालाहिना क्षुद्रसुखोः उतर्षम् ।
समुद्धर एनं कृपया अपवर्ग्यैः
वचोभिः आसिञ्च महानुभाव ॥ १०॥
श्रीभगवान् उवाच ।
इत्थम् एतत् पुरा राजा भीष्मं धर्मभृतां वरम् ।
अजातशत्रुः पप्रच्छ सर्वेषां नः अनुश्रुण्वताम् ॥ ११॥
निवृत्ते भारते युद्धे सुहृत् निधनविह्वलः ।
श्रुत्वा धर्मान् बहून् पश्चात् मोक्षधर्मान् अपृच्छत ॥
१२॥
तान् अहं ते अभिधास्यामि देवव्रतमुखात् श्रुतान् ।
ज्ञानवैराग्यविज्ञानश्रद्धाभक्ति उपबृंहितान् ॥ १३॥
नव एकादश पञ्च त्रीन् भावान् भूतेषु येन वै ।
ईक्षेत अथ एकम् अपि एषु तत् ज्ञानं मम निश्चितम् ॥ १४॥
एतत् एव हि विज्ञानं न तथा एकेन येन यत् ।
स्थिति उत्पत्ति अपि अयान् पश्येत् भावानां त्रिगुण आत्मनाम् ॥
१५॥
आदौ अन्ते च मध्ये च सृज्यात् सृज्यं यत् अन्वियात् ।
पुनः तत् प्रतिसङ्क्रामे यत् शिष्येत तत् एव सत् ॥ १६॥
श्रुतिः प्रत्यक्षम् ऐतिह्यम् अनुमानं चतुष्टयम् ।
प्रमाणेषु अनवस्थानात् विकल्पात् सः विरज्यते ॥ १७॥
कर्मणां परिणामित्वात् आविरिञ्चात् अमङ्गलम् ।
विपश्चित् नश्वरं पश्येत् अदृष्टम् अपि दृष्टवत् ॥ १८॥
भक्तियोगः पुरा एव उक्तः प्रीयमाणाय ते अनघ ।
पुनः च कथयिष्यामि मद्भक्तेः कारणं परम् ॥ १९॥
श्रद्धा अमृतकथायां मे शश्वत् मत् अनुकीर्तनम् ।
परिनिष्ठा च पूजायां स्तुतिभिः स्तवनं मम ॥ २०॥
आदरः परिचर्यायां सर्वाङ्गैः अभिवन्दनम् ।
मद्भक्तपूजाभ्यधिका सर्वभूतेषु मन्मतिः ॥ २१॥
मदर्थेषु अङ्गचेष्टा च वचसा मद्गुणेरणम् ।
मय्यर्पणं च मनसः सर्वकामविवर्जनम् ॥ २२॥
मदर्थे अर्थ परित्यागः भोगस्य च सुखस्य च ।
इष्टं दत्तं हुतं जप्तं मदर्थं यत् व्रतं तपः ॥ २३॥
एवं धर्मैः मनुष्याणाम् उद्धव आत्मनिवेदिनाम् ।
मयि सञ्जायते भक्तिः कः अन्यः अर्थः अस्य अवशिष्यते ॥ २४॥
यदा आत्मनि अर्पितं चित्तं शान्तं सत्त्व उपबृंहितम् ।
धर्मं ज्ञानं सवैराग्यम् ऐश्वर्यं च अभिपद्यते ॥ २५॥
यत् अर्पितं तत् विकल्पे इन्द्रियैः परिधावति ।
रजस्वलं च आसन् निष्ठं चित्तं विद्धि विपर्ययम् ॥ २६॥
धर्मः मद्भक्तिकृत् प्रोक्तः ज्ञानं च एकात्म्यदर्शनम् ।
गुणेषु असङ्गः वैराग्यम् ऐश्वर्यं च अणिम् आदयः ॥ २७॥
उद्धवः उवाच ।
यमः कतिविधः प्रोक्तः नियमः वा अरिकर्शन ।
कः शमः कः दमः कृष्ण का तितिक्षा धृतिः प्रभो ॥ २८॥
किं दानं किं तपः शौर्यं किं सत्यम् ऋतम् उच्यते ।
कः त्यागः किं धनं चेष्टं कः यज्ञः का च दक्षिणा ॥
२९॥
पुंसः किंस्वित् बलं श्रीमन् भगः लाभः च केशव ।
का विद्या ह्रीः परा का श्रीः किं सुखं दुःखम् एव च ॥
३०॥
कः पण्डितः कः च मूर्खः कः पन्थाः उत्पथः च कः ।
कः स्वर्गः नरकः कः स्वित् कः बन्धुः उत किं गृहम् ॥ ३१॥
कः आढ्यः कः दरिद्रः वा कृपणः कः ईश्वरः ।
एतान् प्रश्नान् मम ब्रूहि विपरीतान् च सत्पते ॥ ३२॥
श्रीभगवान् उवाच ।
अहिंसा सत्यम् अस्तेयम् असङ्गः ह्रीः असञ्चयः ।
आस्तिक्यं ब्रह्मचर्यं च मौनं स्थैर्यं क्षमा अभयम् ॥
३३।
शौचं जपः तपः होमः श्रद्धा आतिथ्यं मत् अर्चनम् ।
तीर्थाटनं परार्थेहा तुष्टिः आचार्यसेवनम् ॥ ३४॥
एते यमाः सनियमाः उभयोः द्वादश स्मृताः ।
पुंसाम् उपासिताः तात यथाकामं दुहन्ति हि ॥ ३५॥
शमः मत् निष्ठता बुद्धेः दमः इन्द्रियसंयमः ।
तितिक्षा दुःखसंमर्षः जिह्वा उपस्थजयः धृतिः ॥ ३६॥
दण्डन्यासः परं दानं कामत्यागः तपः स्मृतम् ।
स्वभावविजयः शौर्यं सत्यं च समदर्शनम् ॥ ३७॥
ऋतं च सूनृता वाणी कविभिः परिकीर्तिता ।
कर्मस्वसङ्गमः शौचं त्यागः संन्यासः उच्यते ॥ ३८॥
धर्मः इष्टं धनं नॄणां यज्ञः अहं भगवत्तमः ।
दक्षिणा ज्ञानसन्देशः प्राणायामः परं बलम् ॥ ३९॥
भगः मे ऐश्वरः भावः लाभः मद्भक्तिः उत्तमः ।
विद्या आत्मनि भिद अबाधः जुगुप्सा ह्रीः अकर्मसु ॥ ४०॥
श्रीः गुणाः नैरपेक्ष्य आद्याः सुखं दुःखसुख अत्ययः ।
दुःखं कामसुख अपेक्षा पण्डितः बन्धमोक्षवित् ॥ ४१॥
मूर्खः देह आदि अहं बुद्धिः पन्थाः मत् निगमः स्मृतः ।
उत्पथः चित्तविक्षेपः स्वर्गः सत्त्वगुण उअदयः ॥ ४२॥
नरकः तमः उन्नहः बन्धुः गुरुः अहं सखे ।
गृहं शरीरं मानुष्यं गुणाढ्यः हि आढ्यः उच्यते ॥ ४३॥
दरिद्रः यः तु असन्तुष्टः कृपणः यः अजितेन्द्रियः ।
गुणेषु असक्तधीः ईशः गुणसङ्गः विपर्ययः ॥ ४४॥
एतः उद्धव ते प्रश्नाः सर्वे साधु निरूपिताः ।
किं वर्णितेन बहुना लक्षणं गुणदोषयोः ।
गुणदोष दृशिः दोषः गुणः तु उभयवर्जितः ॥ ४५॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे भगवदुधवसंवादे
एकोनविंशोऽध्यायः ॥ १९॥
अथ विंशः अध्यायः ।
उद्धवः उवाच ।
विधिः च प्रतिषेधः च निगमः हि ईश्वरस्य ते ।
अवेक्षते अरविन्दाक्ष गुणं दोषं च कर्मणाम् ॥ १॥
वर्णाश्रम विकल्पं च प्रतिलोम अनुलोमजम् ।
द्रव्य देश वयः कालान् स्वर्गं नरकम् एव च ॥ २॥
गुण दोष भिदा दृष्टिम् अन्तरेण वचः तव ।
निःश्रेयसं कथं नॄणां निषेध विधि लक्षणम् ॥ ३॥
पितृदेवमनुष्याणां वेदः चक्षुः तव ईश्वर ।
श्रेयः तु अनुपलब्धे अर्थे साध्यसाधनयोः अपि ॥ ४॥
गुणदोषभिदादृष्टिः निगमात् ते न हि स्वतः ।
निगमेन अपवादः च भिदायाः इति हि भ्रमः ॥ ५॥
श्रीभगवान् उवाच ।
योगाः त्रयः मया प्रोक्ता नॄणां श्रेयोविधित्सया ।
ज्ञानं कर्म च भक्तिः च न उपायः अन्यः अस्ति कुत्रचित् ॥
६॥
निर्विण्णानां ज्ञानयोगः न्यासिनाम् इह कर्मसु ।
तेषु अनिर्विण्णचित्तानां कर्मयोगः ति कामिनाम् ॥ ७॥
यदृच्छया मत् कथा आदौ जातश्रद्धः तु यः पुमान् ।
न निर्विण्णः न अतिसक्तः भक्तियोगः अस्य सिद्धिदः ॥ ८॥
तावत् कर्माणि कुर्वीत न निर्विद्येत यावता ।
मत् कथाश्रवण आदौ वा श्रद्धा यावत् न जायते ॥ ९॥
स्वधर्मस्थः यजन्यज्ञैः अनाशीः कामः उद्धव ।
न याति स्वर्गनरकौ यदि अन्यत्र समाचरेत् ॥ १०॥
अस्मिन् लोके वर्तमानः स्वधर्मस्थः अनघः शुचिः ।
ज्ञानं विशुद्धम् आप्नोति मद्भक्तिं वा यदृच्छया ॥ ११॥
स्वर्गिणः अपि एतम् इच्छन्ति लोकं निरयिणः तथा ।
साधकं ज्ञानभक्तिभ्याम् उभयं तत् असाधकम् ॥ १२॥
न नरः स्वर्गतिं काङ्क्षेत् नारकीं वा विचक्षणः ।
न इमं लोकं च काङ्क्षेत देह आवेशात् प्रमाद्यति ॥ १३॥
एतत् विद्वान् पुरा मृत्योः अभवाय घटेत सः ।
अप्रमत्तः इदं ज्ञात्वा मर्त्यम् अपि अर्थसिद्धिदम् ॥ १४॥
छिद्यमानं यमैः एतैः कृतनीडं वनस्पतिम् ।
खगः स्वकेतम् उत्सृज्य क्षेमं याति हि अलम्पटः ॥ १५॥
अहोरात्रैः छिद्यमानं बुद्ध्वायुः भयवेपथुः ।
मुक्तसङ्गः परं बुद्ध्वा निरीह उपशाम्यति ॥ १६॥
नृदेहम् आद्यं सुलभं सुदुर्लभम्
प्लवं सुकल्पं गुरुकर्णधारम् ।
मया अनुकूलेन नभस्वतेरितम्
पुमान् भवाब्धिं न तरेत् सः आत्महा ॥ १७॥
यदा आरम्भेषु निर्विण्णः विरक्तः संयतेन्द्रियः ।
अभ्यासेन आत्मनः योगी धारयेत् अचलं मनः ॥ १८॥
धार्यमाणं मनः यः हि भ्राम्यदाशु अनवस्थितम् ।
अतन्द्रितः अनुरोधेन मार्गेण आत्मवशं नयेत् ॥ १९॥
मनोगतिं न विसृजेत् जितप्राणः जितेन्द्रियः ।
सत्त्वसम्पन्नया बुद्ध्या मनः आत्मवशं नयेत् ॥ २०॥
एषः वै परमः योगः मनसः सङ्ग्रहः स्मृतः ।
हृदयज्ञत्वम् अन्विच्छन् दम्यस्य एव अर्वतः मुहुः ॥ २१॥
साङ्ख्येन सर्वभावानां प्रतिलोम अनुलोमतः ।
भव अपि अयौ अनुध्ययेत् मनः यावत् प्रसीदति ॥ २२॥
निर्विण्णस्य विरक्तस्य पुरुषस्य उक्तवेदिनः ।
मनः त्यजति दौरात्म्यं चिन्तितस्य अनुचिन्तया ॥ २३॥
यम आदिभिः योगपथैः आन्वीक्षिक्या च विद्यया ।
मम अर्चोपासनाभिः वा न अन्यैः योग्यं स्मरेत् मनः ॥ २४॥
यदि कुर्यात् प्रमादेन योगी कर्म विगर्हितम् ।
योगेन एव दहेत् अंहः न अन्यत् तत्र कदाचन ॥ २५॥
स्वे स्वे अधिकारे या निष्ठा सः गुणः परिकीर्तितः ।
कर्मणां जाति अशुद्धानाम् अनेन नियमः कृतः ।
गुणदोषविधानेन सङ्गानां त्याजनेच्छया ॥ २६॥
जातश्रद्दः मत्कथासु निर्विण्णः सर्वकर्मसु ।
वेद दुःखात्मकान् कामान् परित्यागे अपि अनीश्वरः ॥ २७॥
ततः भजेत मां प्रीतः श्रद्धालुः दृढनिश्चयः ।
जुषमाणः च तान् कामान् दुःख उदर्कान् च गर्हयन् ॥ २८॥
प्रोक्तेन भक्तियोगेन भजतः मा असकृत् मुनेः ।
कामाः हृदय्याः नश्यन्ति सर्वे मयि हृदि स्थिते ॥ २९॥
भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते च अस्य कर्माणि मयि दृष्टे अखिल आत्मनि ॥ ३०॥
तस्मात् मद्भक्तियुक्तस्य योगिनः वै मत् आत्मनः ।
न ज्ञानं न च वैराग्यं प्रायः श्रेयः भवेत् इह ॥ ३१॥
यत् कर्मभिः यत् तपसा ज्ञानवैराग्यतः च यत् ।
योगेन दानधर्मेण श्रेयोभिः इतरैः अपि ॥ ३२॥
सर्वं मद्भक्तियोगेन मद्भक्तः लभते अञ्जसा ।
स्वर्ग अपवर्गं मत् धाम कथञ्चित् यदि वाञ्छति ॥ ३३॥
न किञ्चित् साधवः धीराः भक्ताः हि एकान्तिनः मम ।
वाञ्छति अपि मया दत्तं कैवल्यम् अपुनर्भवम् ॥ ३४॥
नैरपेक्ष्यं परं प्राहुः निःश्रेयसम् अनल्पकम् ।
तस्मात् निराशिषः भक्तिः निरपेक्षस्य मे भवेत् ॥ ३५॥
न मयि एकान्तभक्तानां गुणदोष उद्भवाः गुणाः ।
साधूनां समचित्तानां बुद्धेः परम् उपेयुषाम् ॥ ३६॥
एवम् एतत् मया आदिष्टान् अनुतिष्ठन्ति मे पथः ।
क्षेमं विन्दन्ति मत् स्थानं यत् ब्रह्म परमं विदुः ॥ ३७॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे भगवदुद्धवसंवादे
वेदत्रयीविभागयोगो नाम विंशोऽध्यायः ॥ २०॥
अथ एकविंशः अध्यायः ।
श्रीभगवान् उवाच ।
यः एतान् मत्पथः हित्वा भक्तिज्ञानक्रियात्मकान् ।
क्षुद्रान् कामान् चलैः प्राणैः जुषन्तः संसरन्ति ते ॥ १॥
स्वे स्वे अधिकारे या निष्ठा सः गुणः परिकीर्तितः ।
विपर्ययः तु दोषः स्यात् उभयोः एषः निश्चयः ॥ २॥
शुद्धि अशुद्धी विधीयेते समानेषु अपि वस्तुषु ।
द्रव्यस्य विचिकित्सार्थं गुणदोषौ शुभ अशुभौ ॥ ३॥
धर्मार्थं व्यवहारार्थं यात्रार्थम् इति च अनघ ।
दर्शितः अयं मया आचारः धर्मम् उद्वहतां धुरम् ॥ ४॥
भूमि अम्बु अग्नि अनिल आकाशाः भूतानां पञ्च धातवः ।
आब्रह्म स्थावर आदीनां शरीराः आत्मसंयुताः ॥ ५॥
वेदेन नामरूपाणि विषमाणि समेषु अपि ।
धातुषु उद्धव कल्प्यन्तः एतेषां स्वार्थसिद्धये ॥ ६॥
देश काल आदि भावानां वस्तूनां मम सत्तम ।
गुणदोषौ विधीयेते नियमार्थं हि कर्मणाम् ॥ ७॥
अकृष्णसारः देशानाम् अब्रह्मण्यः अशुचिः भवेत् ।
कृष्णसारः अपि असौवीर कीकट असंस्कृतेरिणम् ॥ ८॥
कर्मण्यः गुणवान् कालः द्रव्यतः स्वतः एव वा ।
यतः निवर्तते कर्म सः दोषः अकर्मकः स्मृतः ॥ ९॥
द्रव्यस्य शुद्धि अशुद्धी च द्रव्येण वचनेन च ।
संस्कारेण अथ कालेन महत्त्व अल्पतया अथवा ॥ १०॥
शक्त्या अशक्त्या अथवा बुद्ध्या समृद्ध्या च यत् आत्मने ।
अघं कुर्वन्ति हि यथा देश अवस्था अनुसारतः ॥ ११॥
धान्य दारु अस्थि तन्तूनां रस तैजस चर्मणाम् ।
काल वायु अग्नि मृत्तोयैः पार्थिवानां युत अयुतैः ॥ १२॥
अमेध्यलिप्तं यत् येन गन्धं लेपं व्यपोहति ।
भजते प्रकृतिं तस्य तत् शौचं तावत् इष्यते ॥ १३॥
स्नान दान तपः अवस्था वीर्य संस्कार कर्मभिः ।
मत् स्मृत्या च आत्मनः शौचं शुद्धः कर्म आचरेत् द्विजः
॥ १४॥
मन्त्रस्य च परिज्ञानं कर्मशुद्धिः मदर्पणम् ।
धर्मः सम्पद्यते षड्भिः अधर्मः तु विपर्ययः ॥ १५॥
क्वचित् गुणः अपि दोषः स्यात् दोषः अपि विधिना गुणः ।
गुणदोषार्थनियमः तत् भिदाम् एव बाधते ॥ १६॥
समानकर्म आचरणं पतितानां न पातकम् ।
औत्पत्तिकः गुणः सङ्गः न शयानः पतति अधः ॥ १७॥
यतः यतः निवर्तेत विमुच्येत ततः ततः ।
एषः धर्मः नॄणां क्षेमः शोकमोहभय अपहः ॥ १८॥
विषयेषु गुणाध्यासात् पुंसः सङ्गः ततः भवेत् ।
सङ्गात् तत्र भवेत् कामः कामात् एव कलिः नॄणाम् ॥ १९॥
कलेः दुर्विषहः क्रोधः तमः तम् अनुवर्तते ।
तमसा ग्रस्यते पुंसः चेतना व्यापिनी द्रुतम् ॥ २०॥
तया विरहितः साधो जन्तुः शून्याय कल्पते ।
ततः अस्य स्वार्थविभ्रंशः मूर्च्छितस्य मृतस्य च ॥ २१॥
विषयाभिनिवेशेन न आत्मानं वेद न अपरम् ।
वृक्षजीविकया जीवन् व्यर्थं भस्त्र इव यः श्वसन् ॥ २२॥
फलश्रुतिः इयं नॄणां न श्रेयः रोचनं परम् ।
श्रेयोविवक्षया प्रोक्तं यथा भैषज्यरोचनम् ॥ २३॥
उत्पत्ति एव हि कामेषु प्राणेषु स्वजनेषु च ।
आसक्तमनसः मर्त्या आत्मनः अनर्थहेतुषु ॥ २४॥
न तान् अविदुषः स्वार्थं भ्राम्यतः वृजिनाध्वनि ।
कथं युञ्ज्यात् पुनः तेषु तान् तमः विशतः बुधः ॥ २५॥
एवं व्यवसितं केचित् अविज्ञाय कुबुद्धयः ।
फलश्रुतिं कुसुमितां न वेदज्ञाः वदन्ति हि ॥ २६॥
कामिनः कृपणाः लुब्धाः पुष्पेषु फलबुद्धयः ।
अग्निमुग्धा धुमतान्ताः स्वं लोकं न विन्दन्ति ते ॥ २७॥
न ते माम् अङ्गः जानन्ति हृदिस्थं यः इदं यतः ।
उक्थशस्त्राः हि असुतृपः यथा नीहारचक्षुषः ॥ २८॥
ते मे मतम् अविज्ञाय परोक्षं विषयात्मकाः ।
हिंसायां यदि रागः स्यात् यज्ञः एव न चोदना ॥ २९॥
हिंसाविहाराः हि अलब्धैः पशुभिः स्वसुखएच्छया ।
यजन्ते देवताः यज्ञैः पितृभूतपतीन् खलाः ॥ ३०॥
स्वप्न् उपमम् अमुं लोकम् असन्तं श्रवणप्रियम् ।
आशिषः हृदि सङ्कल्प्य त्यजन्ति अर्थान् यथा वणिक् ॥ ३१॥
रजःसत्त्वतमोनिष्ठाः रजःसत्त्वतमोजुषः ।
उपासतः इन्द्रमुख्यान् देवादीन् न तथा एव माम् ॥ ३२॥
इष्ट्वा इह देवताः यज्ञैः गत्वा रंस्यामहे दिवि ।
तस्य अन्तः इह भूयास्मः महाशाला महाकुलाः ॥ ३३॥
एवं पुष्पितया वाचा व्याक्षिप्तमनसां नॄणाम् ।
मानिनान् च अतिस्तब्धानां मद्वार्ता अपि न रोचते ॥ ३४॥
वेदाः ब्रह्मात्मविषयाः त्रिकाण्डविषयाः इमे ।
परोक्षवादाः ऋषयः परोक्षं मम च प्रियम् ॥ ३५॥
शब्दब्रह्म सुदुर्बोधं प्राण इन्द्रिय मनोमयम् ।
अनन्तपारं गम्भीरं दुर्विगाह्यं समुद्रवत् ॥ ३६॥
मया उपबृंहितं भूम्ना ब्रह्मणा अनन्तशक्तिना ।
भूतेषु घोषरूपेण बिसेषु ऊर्ण इव लक्ष्यते ॥ ३७॥
यथा ऊर्णनाभिः हृदयात् ऊर्णाम् उद्वमते मुखात् ।
आकाशात् घोषवान् प्राणः मनसा स्पर्शरूपिणा ॥ ३८॥
छन्दोमयः अमृतमयः सहस्रपदवीं प्रभुः ।
ओङ्कारात् व्यञ्जित स्पर्श स्वर उष्म अन्तस्थ भूषिताम् ॥
३९॥
विचित्रभाषाविततां छन्दोभिः चतुर उत्तरैः ।
अनन्तपारां बृहतीं सृजति आक्षिपते स्वयम् ॥ ४०॥
गायत्री उष्णिक् अनुष्टुप् च बृहती पङ्क्तिः एव च ।
त्रिष्टुप् जगती अतिच्छन्दः हि अत्यष्टि अतिजगत् विराट् ॥ ४१॥
किं विधत्ते किम् आचष्टे किम् अनूद्य विकल्पयेत् ।
इति अस्याः हृदयं लोके न अन्यः मत् वेद कश्चन ॥४२॥
मां विधत्ते अभिधत्ते मां विकल्प्य अपोह्यते तु अहम् ।
एतावान् सर्ववेदार्थः शब्दः आस्थाय मां भिदाम् ।
मायामात्रम् अनूद्य अन्ते प्रतिषिध्य प्रसीदति ॥ ४३॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे भगवद्द्धवसंवादे
वेदत्रयविभागनिरूपणं नाम एकविंशोऽध्यायः ॥ २१॥
अथ द्वाविंशः अध्यायः ।
उद्धवः उवाच ।
कति तत्त्वानि विश्वेश सङ्ख्यातानि ऋषिभिः प्रभो ।
नव एकादश पञ्च त्रीणि आत्थ त्वम् इह शुश्रुम ॥ १॥
केचित् षड्विंशतिं प्राहुः अपरे पञ्चविंशतिम् ।
सप्त एके नव षट् केचित् चत्वारि एकादश अपरे ।
केचित् सप्तदश प्राहुः षोडश एके त्रयोदश ॥ २॥
एतावत् त्वम् हि सङ्ख्यानाम् ऋषयः यत् विवक्षया ।
गायन्ति पृथक् आयुष्मन् इदं नः वक्तुम् अर्हसि ॥ ३॥
श्रीभगवान् उवाच ।
युक्तं च सन्ति सर्वत्र भाषन्ते ब्राह्मणाः यथा ।
मायां मदीयाम् उद्गृह्य वदतां किं नु दुर्घटम् ॥ ४॥
न एतत् एवं यथा आत्थ त्वं यत् अहं वच्मि तत् तथा ।
एवं विवदतां हेतुं शक्तयः मे दुरत्ययाः ॥ ५॥
यासां व्यतिकरात् आसीत् विकल्पः वदतां पदम् ।
प्राप्ते शमदमे अपि एति वादस्तमनु शाम्यति ॥ ६॥
परस्परान् अनुप्रवेशात् तत्त्वानां पुरुषर्षभ ।
पौर्व अपर्य प्रसङ्ख्यानं यथा वक्तुः विवक्षितम् ॥ ७॥
एकस्मिन् अपि दृश्यन्ते प्रविष्टानि इतराणि च ।
पूर्वस्मिन् वा परस्मिन् वा तत्त्वे तत्त्वानि सर्वशः ॥ ८॥
पौर्व अपर्यम् अतः अमीषां प्रसङ्ख्यानम् अभीप्सताम् ।
यथा विविक्तं यत् वक्त्रं गृह्णीमः युक्तिसंभवात् ॥ ९॥
अनादि अविद्यायुक्तस्य पुरुषस्य आत्मवेदनम् ।
स्वतः न संभवात् अन्यः तत्त्वज्ञः ज्ञानदः भवेत् ॥ १०॥
पुरुष ईश्वरयोः अत्र न वैलक्षण्यम् अणु अपि ।
तत् अन्यकल्पनापार्था ज्ञानं च प्रकृतेः गुणः ॥ ११॥
प्रकृतिः गुणसाम्यं वै प्रकृतेः न आत्मनः गुणाः ।
सत्त्वं रजः तमः इति स्थिति उत्पत्ति अन्तहेतवः ॥ १२॥
सत्त्वं ज्ञानं रजः कर्म तमः अज्ञानम् इह उच्यते ।
गुणव्यतिकरः कालः स्वभावः सूत्रम् एव च ॥ १३॥
पुरुषः प्रकृतिः व्यक्तम् अहङ्कारः नभः अनिलः ।
ज्योतिः आपः क्षितिः इति तत्त्वानि उक्तानि मे नव ॥ १४॥
श्रोत्रं त्वक् दर्शनं घ्राणः जिह्वा इति ज्ञानशक्तयः ।
वाक् पाणि उपस्थ पायु अङ्घ्रिः कर्माण्यङ्ग उभयं मनः ॥ १५॥
शब्दः स्पर्शः रसः गन्धः रूपं च इति अर्थजातयः ।
गति उक्ति उत्सर्ग शिल्पानि कर्म आयतन सिद्धयः ॥ १६॥
सर्ग आदौ प्रकृतिः हि अस्य कार्य कारण रूपिणी ।
सत्त्व आदिभिः गुणैः धत्ते पुरुषः अव्यक्तः ईक्षते ॥ १७॥
व्यक्त आदयः विकुर्वाणाः धातवः पुरुष ईक्षया ।
लब्धवीर्याः सृजन्ति अण्डं संहताः प्रकृतेः बलात् ॥ १८॥
सप्त एव धातवः इति तत्र अर्थाः पञ्च खादयः ।
ज्ञानम् आत्मा उभय आधारः ततः देह इन्द्रिय आसवः ॥ १९॥
षड् इति अत्र अपि भूतानि पञ्च षष्ठः परः पुमान् ।
तैः युक्तः आत्मसंभूतैः सृष्ट्वा इदं समुपाविशत् ॥ २०॥
चत्वारि एव इति तत्र अपि तेजः आपः अन्नम् आत्मनः ।
जातानि तैः इदं जातं जन्म अवयविनः खलु ॥ २१॥
सङ्ख्याने सप्तदशके भूतमात्र इन्द्रियाणि च ।
पञ्चपञ्च एक मनसा आत्मा सप्तदशः स्मृतः ॥ २२॥
तद्वत् षोडशसङ्ख्याने आत्मा एव मनः उच्यते ।
भूतेन्द्रियाणि पञ्च एव मनः आत्मा त्रयोदशः ॥ २३॥
एकादशत्वः आत्मा असौ महाभूतेन्द्रियाणि च ।
अष्टौ प्रकृतयः च एव पुरुषः च नव इति अथ ॥ २४॥
इति नाना प्रसङ्ख्यानं तत्त्वानाम् ऋषिभिः कृतम् ।
सर्वं न्याय्यं युक्तिमत्वात् विदुषां किम् अशोभनम् ॥ २५॥
उद्धवः उवाच ।
प्रकृतिः पुरुषः च उभौ यदि अपि आत्मविलक्षणौ ।
अन्योन्य अपाश्रयात् कृष्ण दृश्यते न भिदा तयोः ।
प्रकृतौ लक्ष्यते हि आत्मा प्रकृतिः च तथा आत्मनि ॥ २६॥
एवं मे पुण्डरीकाक्ष महान्तं संशयं हृदि ।
छेत्तुम् अर्हसि सर्वज्ञ वचोभिः नयनैपुणैः ॥ २७॥
त्वत्तः ज्ञानं हि जीवानां प्रमोषः ते अत्र शक्तितः ।
त्वम् एव हि आत्म मायाया गतिं वेत्थ न च अपरः ॥ २८॥
श्रीभगवान् उवाच ।
प्रकृतिः पुरुषः च इति विकल्पः पुरुषर्षभ ।
एषः वैकारिकः सर्गः गुणव्यतिकरात्मकः ॥ २९॥
मम अङ्ग माया गुणमयी अनेकधा
विकल्पबुद्धीः च गुणैः विधत्ते ।
वैकारिकः त्रिविधः अध्यात्मम् एकम्
अथ अधिदैवम् अधिभूतम् अन्यत् ॥ ३०॥
दृक् रूपम् आर्कं वपुः अत्र रन्ध्रे
परस्परं सिध्यति यः स्वतः खे ।
आत्मा यत् एषम् अपरः यः आद्यः
स्वया अनुभूत्य अखिलसिद्धसिद्धिः ।
एवं त्वक् आदि श्रवणादि चक्षुः
जिह्व आदि नास आदि च चित्तयुक्तम् ॥ ३१॥
यः असौ गुणक्षोभकृतौ विकारः
प्रधानमूलात् महतः प्रसूतः ।
अहं त्रिवृत् मोहविकल्पहेतुः
वैकारिकः तामसः ऐन्द्रियः च ॥ ३२॥
आत्मापरिज्ञानमयः विवादः
हि अस्ति इति न अस्ति इति भिदार्थनिष्ठः ।
व्यर्थः अपि न एव उपरमेत पुंसां
मत्तः परावृत्तधियां स्वलोकात् ॥ ३३॥
उद्धवः उवाच ।
त्वत्तः परावृत्तधियः स्वकृतैः कर्मभिः प्रभो ।
उच्च अवचान् यथा देहान् गृह्णन्ति विसृजन्ति च ॥ ३४॥
तत् मम आख्याहि गोविन्द दुर्विभाव्यम् अनात्मभिः ।
न हि एतत् प्रायशः लोके विद्वांसः सन्ति वञ्चिताः ॥ ३५॥
श्रीभगवान् उवाच ।
मनः कर्ममयं नृणाम् इन्द्रियैः पञ्चभिः युतम् ।
लोकात् लोकं प्रयाति अन्यः आत्मा तत् अनुवर्तते ॥ ३६॥
ध्यायन् मनः अनुविषयान् दृष्टान् वा अनुश्रुतान् अथ ।
उद्यत् सीदत् कर्मतन्त्रं स्मृतिः तत् अनुशाम्यति ॥ ३७॥
विषय अभिनिवेशेन न आत्मानं यत् स्मरेत् पुनः ।
जन्तोः वै कस्यचित् हेतोः मृत्युः अत्यन्तविस्मृतिः ॥ ३८॥
जन्म तु आत्मतया पुंसः सर्वभावेन भूरिद ।
विषय स्वीकृतिं प्राहुः यथा स्वप्नमनोरथः ॥ ३९॥
स्वप्नं मनोरथं च इत्थं प्राक्तनं न स्मरति असौ ।
तत्र पूर्वम् इव आत्मानम् अपूर्वं च अनुपश्यति ॥ ४०॥
इन्द्रिय आयन सृष्ट्या इदं त्रैविध्यं भाति वस्तुनि ।
बहिः अन्तः भिदाहेतुः जनः असत् जनकृत् यथा ॥ ४१॥
नित्यदा हि अङ्गः भूतानि भवन्ति न भवन्ति च ।
कालेन अल्क्ष्यवेगेन सूक्ष्मत्वात् तत् न दृश्यते ॥ ४२॥
यथा अर्चिषां स्रोतसां च फलानां वा वनस्पतेः ।
तथा एव सर्वभूतानां वयः अवस्था आदयः कृताः ॥ ४३॥
सः अयं दीपः अर्चिषां यद्वत् स्रोतसां तत् इदं जलम् ।
सः अयं पुमान् इति नृणां मृषाः गीः धीः मृषा
आयुषाम् ॥ ४४॥
मा स्वस्य कर्मबीजेन जायते सः अपि अयं पुमान् ।
म्रियते वामरः भ्रान्त्या यथा अग्निः दारु संयुतः ॥ ४५॥
निषेकगर्भजन्मानि बाल्यकौमारयौवनम् ।
वयोमध्यं जरा मृत्युः इति अवस्थाः तनोः नव ॥ ४६॥
एताः मनोरथमयीः हि अन्यस्य उच्चावचाः तनूः ।
गुणसङ्गात् उपादत्ते क्वचित् कश्चित् जहाति च ॥ ४७॥
आत्मनः पितृपुत्राभ्याम् अनुमेयौ भवाप्ययौ ।
न भवाप्ययवस्तूनाम् अभिज्ञः द्वयलक्षणः ॥ ४८॥
तरोः बीजविपाकाभ्यां यः विद्वात् जन्मसंयमौ ।
तरोः विलक्षणः द्रष्टा एवं द्रष्टा तनोः पृथक् ॥ ४९॥
प्रकृतेः एवम् आत्मानम् अविविच्य अबुधः पुमान् ।
तत्त्वेन स्पर्शसंमूढः संसारं प्रतिपद्यते ॥ ५०॥
सत्त्वसङ्गात् ऋषीन् देवान् रजसा असुरमानुषान् ।
तमसा भूततिर्यक्त्वं भ्रामितः याति कर्मभिः ॥ ५१॥
नृत्यतः गायतः पश्यन् यथा एव अनुकरोति तान् ।
एवं बुद्धिगुणान् पश्यन् अनीहः अपि अनुकार्यते ॥ ५२॥
यथा अम्भसा प्रचलता तरवः अपि चलाः इव ।
चक्षुषा भ्राम्यमाणेन दृश्यते भ्रमति इव भूः ॥ ५३॥
यथा मनोरथधियः विषयानुभवः मृषा ।
स्वप्नदृष्टाः च दाशार्ह तथा संसारः आत्मनः ॥ ५४॥
अर्थे हि अविद्यमाने अपि संसृतिः न निवर्तते ।
ध्यायतः विषयान् अस्य स्वप्ने अनर्थ आगमः यथा ॥ ५५॥
तस्मात् उद्धव मा भुङ्क्ष्व विषयान् असत् इन्द्रियैः ।
आत्मा अग्रहणनिर्भातं पश्य वैकल्पिकं भ्रमम् ॥ ५६॥
क्षिप्तः अवमानितः असद्भिः प्रलब्धः असूयितः अथवा ।
ताडितः संनिबद्धः वा वृत्त्या वा परिहापितः ॥ ५७॥
निष्ठितः मूत्रितः बहुधा एवं प्रकम्पितः ।
श्रेयस्कामः कृच्छ्रगतः आत्मना आत्मानम् उद्धरेत् ॥ ५८॥
उद्धवः उवाच ।
यथा एवम् अनुबुद्ध्येयं वद नः वदतां वर ।
सुदुःसहम् इमं मन्यः आत्मनि असत् अतिक्रमम् ॥ ५९॥
विदुषम् अपि विश्वात्मन् प्रकृतिः हि बलीयसी ।
ऋते त्वत् धर्मनिरतान् शान्ताः ते चरणालयान् ॥ ६०॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे भगवदुद्धवसंवादे
द्वाविंशोऽध्यायः ॥ २२॥
अथ त्रयोविंशः अध्यायः ।
बादरायणिः उवाच ।
सः एवम् आशंसितः उद्धवेन
भागवतमुख्येन दाशार्हमुख्यः ।
सभाजयन् बृत्यवचः मुकुन्दः
तम् आबभाषे श्रवणीयवीर्यः ॥ १॥
श्रीभगवान् उवाच ।
बर्हस्पत्य सः वै न अत्र साधुः वै दुर्जन् ईरितैः ।
दुरुक्तैः भिन्नम् आत्मानं यः समाधातुम् ईश्वरः ॥ २॥
न तथा तप्यते विद्धः पुमान् बाणैः सुमर्मगैः ।
यथा तुदन्ति मर्मस्थाः हि असतां परुषेषवः ॥ ३॥
कथयन्ति महत्पुण्यम् इतिहासम् इह उद्धव ।
तम् अहं वर्णयिष्यामि निबोध सुसमाहितः ॥ ४॥
केनचित् भिक्षुणा गीतं परिभूतेन दुर्जनैः ।
स्मरताः धृतियुक्तेन विपाकं निजकर्मणाम् ॥ ५॥
अवनिषु द्विजः कश्चित् आसीत् आढ्यतमः श्रिया ।
वार्तावृत्तिः कदर्यः तु कामी लुब्धः अतिकोपनः ॥ ६॥
ज्ञातयः अतिथयः तस्य वाङ्मात्रेण अपि न अर्चिताः ।
शून्य अवसथः आत्मा अपि काले कामैः अनर्चितः ॥ ७॥
दुःशीलस्य कदर्यस्य द्रुह्यन्ते पुत्रबान्धवाः ।
दारा दुहितरः भृत्याः विषण्णाः न आचरन् प्रियम् ॥ ८॥
तस्य एवं यक्षवित्तस्य च्युतस्य उभयलोकतः ।
धर्मकामविहीनस्य चुक्रुधुः पञ्चभागिनः ॥ ९॥
तत् अवध्यान विस्रस्त पुण्य स्कन्धस्य भूरिद ।
अर्थः अपि अगच्छन् निधनं बहु आयास परिश्रमः ॥ १०॥
ज्ञातयः जगृहुः किञ्चित् किञ्चित् अस्यवः उद्धव ।
दैवतः कालतः किञ्चित् ब्रह्मबन्धोः नृपार्थिवात् ॥ ११॥
सः एवं द्रविणे नष्टे धर्मकामविवर्जितः ।
उपेक्षितः च स्वजनैः चिन्ताम् आप दुरत्ययाम् ॥ १२॥
तस्य एवं ध्यायतः दीर्घं नष्टरायः तपस्विनः ।
खिद्यतः बाष्पकण्ठस्य निर्वेदः सुमहान् अभूत् ॥ १३॥
सः च आह इदम् अहो कष्टं वृथा आत्मा मे अनुतापितः ।
न धर्माय न कामाय यस्य अर्थ आयासः ईदृशः ॥ १४॥
प्रायेण अर्थाः कदर्याणां न सुखाय कदाचन ।
इह च आत्मोपतापाय मृतस्य नरकाय च ॥ १५॥
यशः यशस्विनां शुद्धं श्लाघ्याः ये गुणिनां गुणाः ।
लोभः स्वल्पः अपि तान् हन्ति श्वित्रः रूपम् इव इप्सितम् ॥ १६॥
अर्थस्य साधने सिद्धः उत्कर्षे रक्षणे व्यये ।
नाश उपभोगः आयासः त्रासः चिन्ता भ्रमः नृणाम् ॥ १७॥
स्तेयं हिंसा अनृतं दम्भः कामः क्रोधः स्मयः मदः ।
भेदः वैरम् अविश्वासः संस्पर्धा व्यसनानि च ॥ १८॥
एते पञ्चदशान् अर्थाः हि अर्थमूलाः मताः नृणाम् ।
तस्मात् अनर्थम् अर्थाख्यं श्रेयः अर्थी दूरतः त्यजेत् ॥ १९॥
भिद्यन्ते भ्रातरः दाराः पितरः सुहृदः तथा ।
एकास्निग्धाः काकिणिना सद्यः सर्वे अरयः कृताः ॥ २०॥
अर्थेन अल्पीयसा हि एते संरब्धा दीप्तम् अन्यवः ।
त्यजन्ति आशु स्पृधः घ्नन्ति सहसा उत्सृज्य सौहृदम् ॥
२१॥
लब्ध्वा जन्म अमरप्रार्थ्यं मानुष्यं तत् द्विज अग्र्यताम् ।
तत् अनादृत्य ये स्वार्थं घ्नन्ति यान्ति अशुभां गतिम् ॥
२२॥
स्वर्ग अपवर्गयोः द्वारं प्राप्य लोकम् इमं पुमान् ।
द्रविणे कः अनूषज्जेत मर्त्यः अनर्थस्य धामनि ॥ २३॥
देवर्षि पितृ भूतानि ज्ञातीन् बन्धून् च भागिनः ।
असंविभज्य च आत्मानं यक्षवित्तः पतति अधः ॥ २४॥
व्यर्थया अर्थेहया वित्तं प्रमत्तस्य वयः बलम् ।
कुशलाः येन सिध्यन्ति जरठः किं नु साधये ॥ २५॥
कस्मात् सङ्क्लिश्यते विद्वान् व्यर्थया अर्थेहया असकृत् ।
कस्यचित् मायया नूनं लोकः अयं सुविमोहितः ॥ २६॥
किं धनैः धनदैः वा किं कामैः वा कामदैः उत ।
मृत्युना ग्रस्यमानस्य कर्मभिः वा उत जन्मदैः ॥ २७॥
नूनं मे भगवान् तुष्टः सर्वदेवमयः हरिः ।
येन नीतः दशाम् एतां निर्वेदः च आत्मनः प्लवः ॥ २८॥
सः अहं कलौ अशेषेण शोषयिह्ह्ये अङ्गम् आत्मनः ।
अप्रमत्तः अखिलस्वार्थे यदि स्यात् सिद्धः आत्मनि ॥ २९॥
तत्र माम् अनुमोदेरन् देवाः त्रिभुवनेश्वराः ।
मुहूर्तेन ब्रह्मलोकं खट्वाङ्गः समसाधयत् ॥ ३०॥
श्रीभगवान् उवाच ।
इति अभिप्रेत्य मनसा हि आवन्त्यः द्विजसत्तमः ।
उन्मुच्य हृदयग्रन्थीन् शान्तः भिक्षुः अभूत् मुनिः ॥ ३१॥
सः चचार महीम् एतां संयत आत्मेन्द्रिय अनिलः ।
भिक्षार्थं नगर ग्रामान् असङ्गः अलक्षितः अविशत् ॥ ३२॥
तं वै प्रवयसं भिक्षुम् अवधूतम् असज्जनाः ।
दृष्ट्वा पर्यभवन् भद्रः बह्वीभिः परिभूतिभिः ॥ ३३॥
केचित् त्रिवेणुं जगृहुः एके पात्रं कमण्डलुम् ।
पीठं च एके अक्षसूत्रं च कन्थां चीराणि केचन ॥ ३४॥
प्रदाय च पुनः तानि दर्शितानि आददुः मुनेः ।
अन्नं च भैक्ष्यसम्पन्नं भुञ्जानस्य सरित् तटे ॥ ३५॥
मूत्रयन्ति च पापिष्ठाः ष्ठीवन्ति अस्य च मूर्धनि ।
यतवाचं वाचयन्ति ताडयन्ति न वक्ति चेत् ॥ ३६॥
तर्जयन्ति अपरे वाग्भिः स्तेनः अयम् इति वादिनः ।
बध्नन्ति रज्ज्वा तं केचित् बध्यतां बध्यताम् इति ॥ ३७॥
क्षिपन्ति एके अवजानन्तः एषः धर्मध्वजः शठः ।
क्षीणवित्तः इमां वृत्तिम् अग्रहीत् स्वजन उज्झितः ॥ ३८॥
अहो एषः महासारः धृतिमान् गिरिः आडिव ।
मौनेन साधयति अर्थं बकवत् दृढनिश्चयः ॥ ३९॥
इति एके विहसन्ति एनम् एके दुर्वातयन्ति च ।
तं बबन्धुः निरुरुधुः यथा क्रीडनकं द्विजम् ॥ ४०॥
एवं सः भौतिकं दुःखं दैविकं दैहिकं च यत् ।
भोक्तव्यम् आत्मनः दिष्टं प्राप्तं प्राप्तम् अबुध्यत ॥ ४१॥
परिभूतः इमां गाथाम् अगायत नराधमैः ।
पातयद्भिः स्वधर्मस्थः धृतिम् आस्थाय सात्विकीम् ॥ ४२॥
द्विजः उवाच ।
न अयं जनः मे सुखदुःखहेतुः
न देवतात्मा ग्रहकर्मकालाः ।
मनः परं कारणम् आमनन्ति
संसारचक्रं परिवर्तयेत् यत् ॥ ४३॥
मनः गुणान् वै सृजते बलीयः
ततः च कर्माणि विलक्षणानि ।
शुक्लानि कृष्णानि अथ लोहितानि
तेभ्यः सवर्णाः सृतयः भवन्ति ॥ ४४॥
अनीहः आत्मा मनसा समीहता
हिरण्मयः मत्सखः उद्विचष्टे ।
मनः स्वलिङ्गं परिगृह्य कामान्
जुषन् निबद्धः गुणसङ्गतः असौ ॥ ४५॥
दानं स्वधर्मः नियमः यमः च
श्रुतं च कर्माणि च सद्व्रतानि ।
सर्वे मनोनिग्रहलक्षणान्ताः
परः हि योगः मनसः समाधि ॥ ४६॥
समाहितं यस्य मनः प्रशान्तम्
दानादिभिः किं वद तस्य कृत्यम् ।
असंयतं यस्य मनः विनश्यत्
दानादिभिः चेत् अपरं किमेभिः ॥ ४७॥
मनोवशे अन्ये हि अभवन् स्म देवाः
मनः च न अन्यस्य वशं समेति ।
भीष्मः हि देवः सहसः सहीयान्
युञ्ज्यात् वशे तं सः हि देवदेवः ॥ ४८॥
तं दुर्जयं शत्रुम् असह्यवेगं
मरुन्तुदं तत् न विजित्य केचित् ।
कुर्वन्ति असत् विग्रहम् अत्र मर्त्यैः
मित्राणि उदासीन रिपून् विमूढाः ॥ ४९॥
देहं मनोमात्रम् इमं गृहीत्वा
मम अहम् इति अन्ध धियः मनुष्याः ।
एषः अहम् अन्यः अयम् इति भ्रमेण
दुरन्तपारे तमसि भ्रमन्ति ॥ ५०॥
जनः तु हेतुः सुखदुःखयोः चेत्
किम् आत्मनः च अत्र ह भौमयोः तत् ।
जिह्वां क्वचित् सन्दशति स्वदद्भिः
तत् वेदनायां कतमाय कुप्येत् ॥ ५१॥
दुःखस्य हेतुः यदि देवताः तु
किम् आत्मनः तत्र विकारयोः तत् ।
यत् अङ्गम् अङ्गेन निहन्यते क्वचित्
क्रुध्येत कस्मै पुरुषः स्वदेहे ॥ ५२॥
आत्मा यदि स्यात् सुखदुःखहेतुः
किम् अन्यतः तत्र निजस्वभावः ।
न हि आत्मनः अन्यत् यदि तत् मृषा स्यात्
क्रुध्येत कस्मात् न सुखं न दुःखम् ॥ ५३॥
ग्रहाः निमित्तं सुखदुःखयोः चेत्
किम् आत्मनः अजस्य जनस्य ते वै ।
ग्रहैः ग्रहस्य एव वदन्ति पीडाम्
क्रुध्येत कस्मै पुरुषः ततः अन्यः ॥ ५४॥
कर्माः तु हेतुः सुखदुःखयोः चेत्
किम् आत्मनः तत् हि जडाजडत्वे ।
देहः तु अचित्पुरुषः अयं सुपर्णः
क्रुध्येत कस्मै न हि कर्ममूलम् ॥ ५५॥
कालः तु हेतुः सुखदुःखयोः चेत्
किम् आत्मनः तत्र तत् आत्मकः असौ ।
न अग्नेः हि तापः न हिमस्य तत् स्यात्
क्रुध्येत कस्मै न परस्य द्वन्द्वम् ॥ ५६॥
न केनचित् क्व अपि कथञ्चन अस्य
द्वन्द्व उपरागः परतः परस्य ।
यथाहमः संसृतिरूपिणः स्यात्
एवं प्रबुद्धः न बिभेति भूतैः ॥ ५७॥
एतां सः आस्थाय परात्मनिष्ठाम्
अध्यासितां पूर्वतमैः महर्षिभिः ।
अहं तरिष्यामि दुरन्तपारम्
तमः मुकुन्द अङ्घ्रिनिषेवया एव ॥ ५८॥
श्रीभगवान् उवाच ।
निर्विद्य नष्टद्रविणः गतक्लमः
प्रव्रज्य गां पर्यटमानः इत्थम् ।
निराकृतः असद्भिः अपि स्वधर्मात्
अकम्पितः अमुं मुनिः आह गाथाम् ॥ ५९॥
सुखदुःखप्रदः न अन्यः पुरुषस्य आत्मविभ्रमः ।
मित्र उदासीनरिपवः संसारः तमसः कृतः ॥ ६०॥
तस्मात् सर्वात्मना तात निगृहाण मनो धिया ।
मयि आवेशितया युक्तः एतावान् योगसङ्ग्रहः ॥ ६१॥
यः एतां भिक्षुणा गीतां ब्रह्मनिष्ठां समाहितः ।
धारयन् श्रावयन् श्रुण्वन् द्वन्द्वैः न एव अभिभूयते ॥ ६२॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे भगवदुद्धवसंवादे
बिक्षुगीतनिरूपणं नाम त्रयोविंशोऽध्यायः ॥ २३॥
अथ चतुर्विंशोऽध्याः ।
श्रीभगवान् उवाच ।
अथ ते सम्प्रवक्ष्यामि साङ्ख्यं पूर्वैः विनिश्चितम् ।
यत् विज्ञाय पुमान् सद्यः जह्यात् वैकल्पिकं भ्रमम् ॥ १॥
आसीत् ज्ञानम् अथः हि अर्थः एकम् एव अविकल्पितम् ।
यदा विवेकनिपुणाः आदौ कृतयुगे अयुगे ॥ २॥
तत् मायाफलरूपेण केवलं निर्विकल्पितम् ।
वाङ्मनः अगोचरं सत्यं द्विधा समभवत् बृहत् ॥ ३॥
तयोः एकतरः हि अर्थः प्रकृतिः सोभयात्मिका ।
ज्ञानं तु अन्यतरः भावः पुरुषः सः अभिधीयते ॥ ४॥
तमः रजः सत्त्वम् इति प्रकृतेः अभवन् गुणाः ।
मया प्रक्षोभ्यमाणायाः पुरुष अनुमतेन च ॥ ५॥
तेभ्यः समभवत् सूत्रं महान् सूत्रेण संयुतः ।
ततः विकुर्वतः जातः यः अहङ्कारः विमोहनः ॥ ६॥
वैकारिकः तैजसः च तामसः च इति अहं त्रिवृत् ।
तन्मात्र इन्द्रिय मनसां कारणं चित् अचित् मयः ॥ ७॥
अर्थः तन्मात्रिकात् जज्ञे तामसात् इन्द्रियाणि च ।
तैजसात् देवताः आसन् एकादश च वैकृतात् ॥ ८॥
मया सञ्चोदिताः भावाः सर्वे संहति अकारिणः ।
अण्डम् उत्पादयामासुः मम आयतनम् उत्तमम् ॥ ९॥
तस्मिन् अहं समभवम् अण्डे सलिलसंस्थितौ ।
मम नाभ्याम् अभूत् पद्मं विश्वाख्यं तत्र च आत्मभूः ॥
१०॥
सः असृजत् तपसा युक्तः रजसा मत् अनुग्रहात् ।
लोकान् सपालान् विश्वात्मा भूः भुवः स्वः इति त्रिधा ॥ ११॥
देवानाम् ओकः आसीत् स्वः भूतानां च भुवः पदम् ।
मर्त्य आदीनां च भूः लोकः सिद्धानां त्रितयात् परम् ॥
१२॥
अधः असुराणां नागानां भूमेः ओकः असृजत् प्रभुः ।
त्रिलोक्यां गतयः सर्वाः कर्मणां त्रिगुण आत्मनाम् ॥ १३॥
योगस्य तपसः च एव न्यासस्य गतयः अमलाः ।
महः जनः तपः सत्यं भक्तियोगस्य मद्गतिः ॥ १४॥
मया कालात्मना धात्रा कर्मयुक्तम् इदं जगत् ।
गुणप्रवाहः एतस्मिन् उन्मज्जति निमज्जति ॥ १५॥
अणुः बृहत् कृशः स्थूलः यः यः भावः प्रसिध्यति ।
सर्वः अपि उभयसंयुक्तः प्रकृत्या पुरुषेण च ॥ १६॥
यः तु यस्य आदिः अन्तः च सः वै मध्यं च तस्य सन् ।
विकारः व्यवहारार्थः यथा तैजस पार्थिवाः ॥ १७॥
यत् उपादाय पूर्वः तु भावः विकुरुते अपरम् ।
आदिः अन्तः यदा यस्य तत् सत्यम् अभिधीयते ॥ १८॥
प्रकृतिः हि अस्य उपादानम् आधारः पुरुषः परः ।
सतः अभिव्यञ्जकः कालः ब्रह्म तत् त्रितयं तु अहम् ॥ १९॥
सर्गः प्रवर्तते तावत् पौर्व अपर्येण नित्यशः ।
महान् गुणविसर्ग अर्थः स्थिति अन्तः यावत् ईक्षणम् ॥ २०॥
विराट् मया आसाद्यमानः लोककल्पविकल्पकः ।
पञ्चत्वाय विशेषाय कल्पते भुवनैः सह ॥ २१॥
अन्ने प्रलीयते मर्त्यम् अन्नं धानासु लीयते ।
धानाः भूमौ प्रलीयन्ते भूमिः गन्धे प्रलीयते ॥ २२॥
अप्सु प्रलीयन्ते गन्धः आपः च स्वगुणे रसे ।
लीयते ज्योतिषि रसः ज्योती रूपे प्रलीयते ॥ २३॥
रूपं वायौ सः च स्पर्शे लीयते सः अपि च अम्बरे ।
अम्बरं शब्दतन्मात्रः इन्द्रियाणि स्वयोनिषु ॥ २४॥
योनिः वैकारिके सौम्य लीयते मनसि ईश्वरे ।
शब्दः भूतादिम् अपि एति भूतादिः महति प्रभुः ॥ २५॥
सः लीयते महान् स्वेषु गुणेषु गुणवत्तमः ।
ते अव्यक्ते सम्प्रलीयन्ते तत्कले लीयते अव्यये ॥ २६॥
कालः मायामये जीवे जीवः आत्मनि मयि अजे ।
आत्मा केवलः आत्मस्थः विकल्प अपाय लक्षणः ॥ २७॥
एवम् अन्वीक्षमाणस्य कथं वैकल्पिकः भ्रमः ।
मनसः हृदि तिष्ठेत व्योम्नि इव अर्क उदये तमः ॥ २८॥
एषः साङ्ख्यविधिः प्रोक्तः संशयग्रन्थिभेदनः ।
प्रतिलोम अनुलोमाभ्यां परावरदृशा मया ॥ २९॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे
प्रकृतिपुरुषसाङ्ख्ययोगो नाम चतुर्विंशोऽध्यायः ॥ २४॥
अथ पञ्चविंशोऽध्यायः ।
श्रीभगवानुवाच ।
गुणानाम् असमिश्राणां पुमान्येन यथा भवेत् ।
तन्मे पुरुषवर्य इअदम् उपधारय शंसतः ॥ १॥
समः दमः तितिक्षा ईक्षा तपः सत्यं दया स्मृतिः ।
तुष्टिः त्यागः अस्पृहा श्रद्धा ह्रीः दया आदिः स्वनिर्वृतिः
॥ २॥
कामः ईहा मदः तृष्णा स्तम्भः आशीः भिदा सुखम् ।
मद उत्साहः यशः प्रीतिः हास्यं वीर्यं बल उद्यमः ॥ ३॥
क्रोधः लोभः अनृतं हिंसा याञ्चा दम्भः क्लमः कलिः ।
शोकमोहौ विषादार्ती निद्रा आशा भीः अनुद्यमः ॥ ४॥
सत्त्वस्य रजसः च एताः तमसः च अनुमूर्वशः ।
वृत्तयः वर्णितप्रायाः संनिपातम् अथः श्रुणु ॥ ५॥
संनिपातः तु अहम् इति मम इति उद्धव या मतिः ।
व्यवहारः संनिपातः मनोमात्र इन्द्रियासुभिः ॥ ६॥
धर्मे च अर्थे च कामे च यदा असौ परिनिष्ठितः ।
गुणानां संनिकर्षः अयं श्रद्धाः अतिधनावहः ॥ ७॥
प्रवृत्तिलक्षणे निष्ठा पुमान् यः हि गृहाश्रमे ।
स्वधर्मे च अनुतिष्ठेत गुणानां समितिः हि सा ॥ ८॥
पुरुषं सत्त्वसंयुक्तम् अनुमीयात् शम आदिभिः ।
कामादिभी रजोयुक्तं क्रोधाद्यैः तमसा युतम् ॥ ९॥
यदा भजति मां भक्त्या निरपेक्षः स्वकर्मभिः ।
तं सत्त्वप्रकृतिं विद्यात् पुरुषं स्त्रियम् एव वा ॥ १०॥
यदा आशिषः आशास्य मां भजेत स्वकर्मभिः ।
तं रजःप्रकृतिं विद्यात् हिंसाम् आशास्य तामसम् ॥ ११॥
सत्त्वं रजः तमः इति गुणाः जीवस्य न एव मे ।
चित्तजा यैः तु भूतानां सज्जमानः निबध्यते ॥ १२॥
यदेतरौ जयेत् सत्त्वं भास्वरं विशदं शिवम् ।
तदा सुखेन युज्येत धर्मज्ञान आदिभिः पुमान् ॥ १३॥
यदा जयेत् तमः सत्त्वं रजः सङ्गं भिदा चलम् ।
तदा दुःखेन युज्येत कर्मणा यशसा श्रिया ॥ १४॥
यदा जयेत् रजः सत्त्वं तमः मूढः लयं जडम् ।
युज्येत शोकमोहाभ्यां निद्रया हिंसया आशया ॥ १५॥
यदा चित्तं प्रसीदेत इन्द्रियाणां च निर्वृतिः ।
देहे अभयं मनोसङ्गं तत् सत्त्वं विद्धि मत्पदम् ॥ १६॥
विकुर्वन् क्रियया च अधीर निर्वृतिः च चेतसाम् ।
गात्रास्वास्थ्यं मनः भ्रान्तं रजः एतैः निशामय ॥ १७॥
सीदत् चित्तं विलीयेत चेतसः ग्रहणे अक्षमम् ।
मनः नष्टं तमः ग्लानिः तमः तत् उपधारय ॥ १८॥
एधमाने गुणे सत्त्वे देवानां बलम् एधते ।
असुराणां च रजसि तमसि उद्धव रक्षसाम् ॥ १९॥
सत्त्वात् जगरणं विद्यात् रजसा स्वप्नम् आदिशेत् ।
प्रस्वापं तमसा जन्तोः तुरीयं त्रिषु सन्ततम् ॥ २०॥
उपर्युपरि गच्छन्ति सत्त्वेन आब्रह्मणः जनाः ।
तमसा अधः अधः आमुख्यात् रजसा अन्तरचारिणः ॥ २१॥
सत्त्वे प्रलीनाः स्वः यान्ति नरलोकं रजोलयाः ।
तमोलयाः तु निरयं यान्ति माम् एव निर्गुणाः ॥ २२॥
मदर्पणं निष्फलं वा सात्विकं निजकर्म तत् ।
राजसं फलसङ्कल्पं हिंसाप्रायादि तामसम् ॥ २३॥
कैवल्यं सात्विकं ज्ञानं रजः वैकल्पिकं च यत् ।
प्राकृतं तामसं ज्ञानं मन्निष्ठं निर्गुणं स्मृतम्
॥ २४॥
वनं तु सात्विकः वासः ग्रामः राजसः उच्यते ।
तामसं द्यूतसदनं मन्निकेतनं तु निर्गुणम् ॥ २५॥
सात्विकः कारकः असङ्गी रागान्धः राजसः स्मृतः ।
तामसः स्मृतिविभ्रष्टः निर्गुणः मदपाश्रयः ॥ २६॥
सात्त्विकी आध्यात्मिकी श्रद्धा कर्मश्रद्धा तु राजसी ।
तामस्यधर्मे या श्रद्धा मत्सेवायां तु निर्गुणा ॥ २७॥
पथ्यं पूतम् अनायः तम् आहार्यं सात्त्विकं स्मृतम् ।
राजसं च इन्द्रियप्रेष्ठं तामसं च आर्तिद अशुचि ॥ २८॥
सात्त्विकं सुखम् आत्मोत्थं विषयोत्थं तु राजसम् ।
तामसं मोहदैनोत्थं निर्गुणं मदपाश्रयम् ॥ २९॥
द्रव्यं देशः फलं कालः ज्ञानं कर्म च कारकाः ।
श्रद्धा अवस्था आकृतिः निष्ठा त्रैगुण्यः सर्वः एव हि ॥
३०॥
सर्वे गुणमयाः भावाः पुरुष अव्यक्त धिष्ठिताः ॥ ३१॥
एताः संसृतयः पुंसः गुणकर्मनिबन्धनाः ।
येन इमे निर्जिताः सौम्य गुणाः जीवेन चित्तजाः ।
भक्तियोगेन मन्निष्ठः मद्भावाय प्रपद्यते ॥ ३२॥
तस्मात् अहम् इमं लब्ध्वा ज्ञानविज्ञानसंभवम् ।
गुणसङ्गं विनिर्धूय मां भजन्तु विचक्षणाः ॥ ३३॥
निःसङ्गः मां भजेत् विद्वान् अप्रमत्तः जितेन्द्रियः ।
रजः तमः च अभिजयेत् सत्त्वसंसेवया मुनिः ॥ ३४॥
सत्त्वं च अभिजयेत् युक्तः नैरपेक्ष्येण शान्तधीः ।
सम्पद्यते गुणैः मुक्तः जीवः जीवं विहाय माम् ॥ ३५॥
जीवः जीवविनिर्मुक्तः गुणैः च आशयसंभवैः ।
मया एव ब्रह्मणा पूर्णः न बहिः न अन्तरः चरेत् ॥ ३६॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे
गुणनिर्गुणनिरूपणं नाम पञ्चविंशोऽध्यायः ॥ २५॥
अथ षड्विंशोऽध्यायः ।
श्रीभगवान् उवाच ।
मत् लक्षणम् इमं कायं लब्ध्वा मद्धर्मः आस्थितः ।
आनन्दं परमात्मानम् आत्मस्थं समुपैति माम् ॥१॥
गुणमय्याः जीवयोन्याः विमुक्तः ज्ञाननिष्ठया ।
गुणेषु मायामात्रेषु दृश्यमानेषु अवस्तुतः ।
वर्तमानः अपि न पुमान् युज्यते अवस्तुभिः गुणैः ॥ २॥
सङ्गं न कुर्यात् असतां शिश्न उदर तृपां क्वचित् ।
तस्य अनुगतः तमसि अन्धे पतति अन्ध अनुगान्धवत् ॥ ३॥
ऐलः सम्राट् इमां गाथाम् अगायत बृहच्छ्रवाः ।
उर्वशी विरहात् मुह्यन् निर्विण्णः शोकसंयमे ॥ ४॥
त्यक्त्वा आत्मानं व्रजन्तीं तां नग्नः उन्मत्तवत् नृपः ।
विलपन् अन्वगात् जाये घोरे तिष्ठ इति विक्लवः ॥ ५॥
कामान् अतृप्तः अनुजुषन् क्षुल्लकान् वर्षयामिनीः ।
न वेद यान्तीः न अयान्तीः उर्वशी आकृष्टचेअतनः ॥ ६॥
ऐलः उवाच ।
अहो मे मोहविस्तारः कामकष्मलचेतसः ।
देव्याः गृहीतकण्ठस्य न आयुःखण्डाः इमे स्मृताः ॥ ७॥
न अहं वेद अभिनिर्मुक्तः सूर्यः वा अभ्युदितः अमुया ।
मुषितः वर्षपूगानां बत अहानि गतानि उत ॥ ८॥
अहो मे आत्मसंमोहः येन आत्मा योषितां कृतः ।
क्रीडामृगः चक्रवर्ती नरदेवशिखामणिः ॥ ९॥
सपरिच्छदम् आत्मानं हित्वा तृणम् इव ईश्वरम् ।
यान्तीं स्त्रियं च अन्वगमं नग्नः उन्मत्तवत् रुदन् ॥ १०॥
कुतः तस्य अनुभावः स्यात् तेजः ईशत्वम् एव वा ।
यः अन्वगच्छं स्त्रियं यान्तीं खरवत् पादताडितः ॥ ११॥
किं विद्यया किं तपसा किं त्यागेन श्रुतेन वा ।
किं विविक्तेन मौनेन स्त्रीभिः यस्य मनः हृतम् ॥ १२॥
स्वार्थस्य अकोविदं धिङ् मां मूर्खं पण्डित मानिनम् ।
यः अहम् ईश्वरतां प्राप्य स्त्रीभिः गो खरवत् जितः ॥ १३॥
सेवतः वर्षपूगात् मे उर्वश्यः अधरासवम् ।
न तृप्यति आत्मभूः कामः वह्निः आहुतिभिः यथा ॥ १४॥
पुंश्चल्या अपहृतं चित्तं कोन्वन्यः मोचितुं प्रभुः ।
आत्मारामेश्वरम् ऋते भगवन्तम् अधोक्षजम् ॥ १५॥
बोधितस्य अपि देव्या मे सूक्तवाक्येन दुर्मतेः ।
मनोगतः महामोहः न अपयाति अजितात्मनः ॥ १६॥
किम् एतया नः अपकृतं रज्ज्वा वा सर्पचेतसः ।
रज्जुस्वरूप अविदुषः यः अहं यत् अजितेन्द्रियः ॥ १७॥
क्व अयं मलोमसः कायः दौर्गन्धि आदि आत्मकः अशुचिः ।
क्व गुणाः सौमनस्य आद्याः हि अध्यासः अविद्यया कृतः ॥ १८॥
पित्रोः किं स्वं नु भार्यायाः स्वामिनः अग्नेः श्वगृध्रयोः ।
किम् आत्मनः किं सुहृदाम् इति यः न अवसीयते ॥ १९॥
तस्मिन् कलेवरे अमेध्ये तुच्छनिष्ठे विषज्जते ।
अहो सुभद्रं सुनसं सुस्मितं च मुखं स्त्रियः ॥ २०॥
त्वङ् मांस रुधिर स्नायु मेदो मज्जा अस्थि संहतौ ।
विण्मूत्रपूये रमतां कृमीणां कियत् अन्तरम् ॥ २१॥
अथ अपि न उपसज्जेत स्त्रीषु स्त्रैणेषु च अर्थवित् ।
विषय इन्द्रिय संयोगात् मनः क्षुभ्यति न अन्यथा ॥ २२॥
अदृष्टात् अश्रुतात् भावात् न भावः उपजायते ।
असम्प्रयुञ्जतः प्राणान् शाम्यति स्तिमितं मनः ॥ २३॥
तस्मात् सङ्गः न कर्तव्यः स्त्रीषु स्त्रैणेषु च इन्द्रियैः ।
विदुषां च अपि अविश्रब्धः षड्वर्गः किमु मादृशाम् ॥
२४॥
श्रीभगवान् उवाच ।
एवं प्रगायन् नृपदेवदेवः
सः उर्वशीलोकम् अथः विहाय ।
आत्मानम् आत्मनि अवगम्य मां वै
उपारमत् ज्ञानविधूतमोहः ॥ २५॥
ततः दुःसङ्गम् उत्सृज्य सत्सु सज्जेत बुद्धिमान् ।
सन्तः एतस्य छिन्दन्ति मनोव्यासङ्गमुक्तिभिः ॥ २६॥
सन्तः अनपेक्षाः मच्चित्ताः प्रशान्ताः समदर्शिनः ।
निर्ममाः निरहङ्काराः निर्द्वन्द्वाः निष्परिग्रहाः ॥ २७॥
तेषु नित्यं महाभागः महाभागेषु मत्कथाः ।
संभवन्ति हिता नॄणां जुषतां प्रपुनन्ति अघम् ॥ २८॥
ताः ये श्रुण्वन्ति गायन्ति हि अनुमोदन्ति च अदृताः ।
मत्पराः श्रद्दधानाः च भक्तिं विन्दन्ति ते मयि ॥ २९॥
भक्तिं लब्धवतः साधोः किम् अन्यत् अवशिष्यते ।
मयि अनन्तगुणे ब्रह्मणि आनन्द अनुभव आत्मनि ॥ ३०॥
यथा उपश्रयमाणस्य भगवन्तं विभावसुम् ।
शीतं भयं तमः अपि एति साधून् संसेवतः तथा ॥ ३१॥
निमज्ज्य उन्मज्ज्यतां घोरे भवाब्धौ परम अयनम् ।
सन्तः ब्रह्मविदः शान्ताः नौः दृढ इव अप्सु मज्जताम् ॥ ३२॥
अन्नं हि प्राणिनां प्राणः आर्तानां शरणं तु अहम् ।
धर्मः वित्तं नृणां प्रेत्य सन्तः अर्वाक् बिभ्यतः अरणम् ॥
३३॥
सन्तः दिशन्ति चक्षूंषि बहिः अर्कः समुत्थितः ।
देवताः बान्धवाः सन्तः सन्तः आत्मा अहम् एव च ॥ ३४॥
वैतसेनः ततः अपि एवम् उर्वश्या लोकनिःस्पृहः ।
मुक्तसङ्गः महीम् एताम् आत्मारामः चचार ह ॥ ३५॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे
ऐलगीतं नाम षड्विंशोऽध्यायः ॥ २६॥
अथ सप्तविंशोऽध्यायः ।
उद्धवः उवाच ।
क्रियायोगं समाचक्ष्व भवत् आराधनं प्रभो ।
यस्मात् त्वां ये यथा अर्चन्ति सात्वताः सात्वतर्षभ ॥ १॥
एतत् वदन्ति मुनयः मुहुः निःश्रेयसं नृणाम् ।
नारदः भगवान् व्यासः आचार्यः अङ्गिरसः सुतः ॥ २॥
निःसृतं ते मुखाम्भोजाद्यत् आह भगवान् अजः ।
पुत्रेभ्यः भृगुमुख्येभ्यः देव्यै च भगवान् भवः ॥ ३॥
एतत् वै सर्ववर्णानाम् आश्रमाणां च संमतम् ।
श्रेयसाम् उत्तमं मन्ये स्त्रीशूद्राणां च मानद ॥ ४॥
एतत् कमलपत्राक्ष कर्मबन्धविमोचनम् ।
भक्ताय च अनुरक्ताय ब्रूहि विश्वेश्वर ईश्वर ॥ ५॥
श्रीभगवान् उवाच ।
नहि अन्तः अनन्तपारस्य कर्मकाण्डस्य च उद्धव ।
संक्षिप्तं वर्णयिष्यामि यथावत् अनुपूर्वशः ॥ ६॥
वैदिकः तान्त्रिकः मिश्रः इति मे त्रिविधः मखः ।
त्रयाणाम् ईप्सितेन एव विधिना मां समर्चयेत् ॥ ७॥
यदा स्वनिगमेन उक्तं द्विजत्वं प्राप्य पूरुषः ।
यथा यजेत मां भक्त्या श्रद्धया तत् निबोध मे ॥ ८॥
अर्चायां स्थण्डिले अग्नौ वा सूर्ये वा अप्सु हृदि द्विजः ।
द्रव्येण भक्तियुक्तः अर्चेत् स्वगुरुं माम् अमायया ॥ ९॥
पूर्वं स्नानं प्रकुर्वीत धौतदन्तः अङ्गशुद्धये ।
उभयैः अपि च स्नानं मन्त्रैः मृद्ग्रहणादिना ॥ १०॥
सन्ध्या उपास्ति आदि कर्माणि वेदेन अचोदितानि मे ।
पूजां तैः कल्पयेत् सम्यक् सङ्कल्पः कर्मपावनीम् ॥ ११॥
शैली दारुमयी लौही लेप्या लेख्या च सैकती ।
मनोमयी मणिमयी प्रतिमा अष्टविधा स्मृता ॥ १२॥
चल अचल इति द्विविधा प्रतिष्ठा जीवमन्दिरम् ।
उद्वास आवाहने न स्तः स्थिरायाम् उद्धव अर्चने ॥ १३॥
अस्थिरायां विकल्पः स्यात् स्थण्डिले तु भवेत् द्वयम् ।
स्नपनं तु अविलेप्यायाम् अन्यत्र परिमार्जनम् ॥ १४॥
द्रव्यैः प्रसिद्ध्यैः मत् यागः प्रतिमादिषु अमायिनः ।
भक्तस्य च यथालब्धैः हृदि भावेन च एव हि ॥ १५॥
स्नान अलङ्करणं प्रेष्ठम् अर्चायाम् एव तु उद्धव ।
स्थण्डिले तत्त्वविन्यासः वह्नौ आज्यप्लुतं हविः ॥ १६॥
सूर्ये च अभ्यर्हणं प्रेष्ठं सलिले सलिल आदिभिः ।
श्रद्धया उपाहृतं प्रेष्ठं भक्तेन मम वारि अपि ॥ १७॥
भूर्यपि अभक्त उपहृतं न मे तोषाय कल्पते ।
गन्धः धूपः सुमनसः दीपः अन्न आद्य च किं पुनः ॥ १८॥
शुचिः संभृतसंभारः प्राक् दर्भैः कल्पित आसनः ।
आसीनः प्राक् उदक् वा अर्चेत् अर्चायाम् अथ संमुखः ॥ १९॥
कृतन्यासः कृतन्यासां मदर्चां पाणिना मृजेत् ।
कलशं प्रोक्षणीयं च यथावत् उपसाधयेत् ॥ २०॥
तत् अद्भिः देवयजनं द्रव्याणि आत्मानम् एव च ।
प्रोक्ष्य पात्राणि त्रीणि अद्भिः तैः तैः द्रव्यैः च साधयेत्
॥ २१॥
पाद्य अर्घ आचमनीयार्थं त्रीणि पात्राणि दैशिकः ।
हृदा शीर्ष्णा अथ शिखया गायत्र्या च अभिमन्त्रयेत् ॥
२२॥
पिण्डे वायु अग्नि संशुद्धे हृत्पद्मस्थां परां मम ।
अण्वीं जीवकलां ध्यायेत् नाद अन्ते सिद्धभाविताम् ॥ २३॥
तया आत्मभूतया पिण्डे व्याप्ते सम्पूज्य तन्मयः ।
आवाह्य अर्च आदिषु स्थाप्य न्यस्त अङ्गं मां प्रपूजयेत् ॥
२४॥
पाद्य उपस्पर्श अर्हण आदीन् उपचारान् प्रकल्पयेत् ।
धर्मादिभिः च नवभिः कल्पयित्वा आसनं मम ॥ २५॥
पद्मम् अष्टदलं तत्र कर्णिकाकेसर उज्ज्वलम् ।
उभाभ्यां वेदतन्त्राभ्यां मह्यं तु उभयसिद्धये ॥ २६॥
सुदर्शनं पाञ्चजन्यं गदासीषुधनुः हलान् ।
मुसलं कौस्तुभं मालां श्रीवत्सं च अनुपूजयेत् ॥ २७॥
नन्दं सुनन्दं गरुडं प्रचण्डं चण्डम् एव च ।
महाबलं बलं च एव कुमुदं कुमुदेक्षणम् ॥ २८॥
दुर्गां विनायकं व्यासं विष्वक्सेनं गुरून् सुरान् ।
स्वे स्वे स्थाने तु अभिमुखान् पूजयेत् प्रोक्षण आदिभिः ॥ २९॥
चन्दन उशीर कर्पूर कुङ्कुम अगरु वासितैः ।
सलिलैः स्नापयेत् मन्त्रैः नित्यदा विभवे सति ॥ ३०॥
स्वर्णघर्म अनुवाकेन महापुरुषविद्यया ।
पौरुषेण अपि सूक्तेन सामभीः राजनादिभिः ॥ ३१॥
वस्त्र उपवीत आभरण पत्र स्रक् गन्ध लेपनैः ।
अलङ्कुर्वीत सप्रेम मद्भक्तः मां यथा उचितम् ॥ ३२॥
पाद्यम् आचमनीयं च गन्धं सुमनसः अक्षतान् ।
धूप दीप उपहार्याणि दद्यात् मे श्रद्धया अर्चकः ॥ ३३॥
गुडपायससर्पींषि शष्कुलि आपूप मोदकान् ।
संयाव दधि सूपां च नैवेद्यं सति कल्पयेत् ॥ ३४॥
अभ्यङ्ग उन्मर्दन आदर्श दन्तधौ अभिषेचनम् ।
अन्नद्य गीत नृत्यादि पर्वणि स्युः उतान्वहम् ॥ ३५॥
विधिना विहिते कुण्डे मेखलागर्तवेदिभिः ।
अग्निम् आधाय परितः समूहेत् पाणिना उदितम् ॥ ३६॥
परिस्तीर्य अथ पर्युक्षेत् अन्वाधाय यथाविधि ।
प्रोक्षण्या आसाद्य द्रव्याणि प्रोक्ष्याग्नौ भावयेत माम् ॥ ३७॥
तप्तजाम्बूनदप्रख्यं शङ्खचक्रगदाम्बुजैः ।
लसत् चतुर्भुजं शान्तं पद्मकिञ्जल्कवाससम् ॥ ३८॥
स्फुरत् किरीट कटक कटिसूत्रवर अङ्गदम् ।
श्रीवत्सवक्षसं भ्राजत् कौस्तुभं वनमालिनम् ॥ ३९॥
ध्यायन् अभ्यर्च्य दारूणि हविषा अभिघृतानि च ।
प्रास्य आज्यभागौ आघारौ दत्त्वा च आज्यप्लुतं हविः ॥ ४०॥
जुहुयात् मूलमन्त्रेण षोडशर्च अवदानतः ।
धर्मादिभ्यः यथान्यायं मन्त्रैः स्विष्टिकृतं बुधः ॥ ४१॥
अभ्यर्च्य अथ नमस्कृत्य पार्षदेभ्यः बलिं हरेत् ।
मूलमन्त्रं जपेत् ब्रह्म स्मरन् नारायण आत्मकम् ॥ ४२॥
दत्त्वा आचमनम् उच्छेषं विष्वक्सेनाय कल्पयेत् ।
मुखवासं सुरभिमत् ताम्बूलाद्यम् अथ अर्हयेत् ॥ ४२॥
उपगायन् गृणन् नृत्यन् कर्माणि अभिनयन् मम ।
मत्कथाः श्रावयन् श्रुण्वन् मुहूर्तं क्षणिकः भवेत् ॥ ४४।
स्तवैः उच्चावचैः स्तोत्रैः पौराणैः प्रकृतैः अपि ।
स्तुत्वा प्रसीद भगवन् इति वन्देत दण्डवत् ॥ ४५॥
शिरः मत् पादयोः कृत्वा बाहुभ्यां च परस्परम् ।
प्रपन्नं पाहि माम् ईश भीतं मृत्युग्रह अर्णवात् ॥ ४६॥
इति शेषां मया दत्तां शिरसि आधाय सादरम् ।
उद्वासयेत् चेत् उद्वास्यं ज्योतिः ज्योतिषि तत् पुनः ॥ ४७॥
अर्चादिषु यदा यत्र श्रद्धा मां तत्र च अर्चयेत् ।
सर्वभूतेषु आत्मनि च सर्व आत्मा अहम् अवस्थितः ॥ ४८॥
एवं क्रियायोगपथैः पुमान् वैदिकतान्त्रिकैः ।
अर्चन् उभयतः सिद्धिं मत्तः विन्दति अभीप्सिताम् ॥ ४९॥
मदर्चां सम्प्रतिष्ठाप्य मन्दिरं कारयेत् दृढम् ।
पुष्प उद्यानानि रम्याणि पूजा यात्रा उत्सव आश्रितान् ॥ ५०॥
पूजादीनां प्रवाहार्थं महापर्वसु अथ अन्वहम् ।
क्षेत्रापणपुरग्रामान् दत्त्वा मत् सार्ष्टिताम् इयात् ॥ ५१॥
प्रतिष्ठया सार्वभौमंसद्मना भुवनत्रयम् ।
पूजादिना ब्रह्मलोकं त्रिभिः मत् साम्यताम् इयात् ॥ ५२॥
माम् एव नैरपेक्ष्येण भक्तियोगेन विन्दति ।
भक्तियोगं सः लभते एवं यः पूजयेत माम् ॥ ५३॥
यः स्वदत्तां परैः दत्तं हरेत सुरविप्रयोः ।
वृत्तिं सः जायते विड्भुक् वर्षाणाम् अयुतायुतम् ॥ ५४॥
कर्तुः च सारथेः हेतोः अनुमोदितुः एव च ।
कर्मणां भागिनः प्रेत्य भूयः भूयसि तत्फलम् ॥ ५५॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे
सप्तविंशोऽध्यायः ॥ २७॥
अथ अष्टविंशः अध्यायः ।
श्रीभगवान् उवाच ।
परस्वभावकर्माणि न प्रशंसेत् न गर्हयेत् ।
विश्वम् एकात्मकं पश्यन् प्रकृत्या पुरुषेण च ॥ १॥
परस्वभावकर्माणि यः प्रशंसति निन्दति ।
सः आशु भ्रश्यते स्वार्थात् असत्य अभिनिवेशतः ॥ २॥
तैजसे निद्रया आपन्ने पिण्डस्थः नष्टचेतनः ।
मायां प्राप्नोति मृत्युं वा तद्वत् नानार्थदृक् पुमान् ॥ ३॥
किं भद्रं किम् अभद्रं वा द्वैतस्य अवस्तुनः कियत् ।
वाचा उदितं तत् अनृतं मनसा ध्यातम् एव च ॥ ४॥
छायाप्रत्याह्वयाभासा हि असन्तः अपि अर्थकारिणः ।
एवं देहादयः भावाः यच्छन्ति आमृत्युतः भयम् ॥ ५॥
आत्मा एव तत् इदं विश्वं सृज्यते सृजति प्रभुः ।
त्रायते त्राति विश्वात्मा ह्रियते हरति ईश्वरः ॥ ६॥
तस्मात् नहि आत्मनः अन्यस्मात् अन्यः भावः निरूपितः ।
निरूपितेयं त्रिविधा निर्मूला भातिः आत्मनि ।
इदं गुणमयं विद्धि त्रिविधं मायया कृतम् ॥ ७॥
एतत् विद्वान् मदुदितं ज्ञानविज्ञाननैपुणम् ।
न निन्दति न च स्तौति लोके चरति सूर्यवत् ॥ ८॥
प्रत्यक्षेण अनुमानेन निगमेन आत्मसंविदा ।
आदि अन्तवत् असत् ज्ञात्वा निःसङ्गः विचरेत् इह ॥ ९॥
उद्धवः उवाच ।
न एव आत्मनः न देहस्य संसृतिः द्रष्टृदृश्ययोः ।
अनात्मस्वदृशोः ईश कस्य स्यात् उपलभ्यते ॥ १०॥
आत्मा अव्ययः अगुणः शुद्धः स्वयञ्ज्योतिः अनावृतः ।
अग्निवत् दारुवत् देहः कस्य इह संसृतिः ॥ ११॥
श्रीभगवान् उवाच ।
यावत् देह इन्द्रिय प्राणैः आत्मनः संनिकर्षणम् ।
संसारः फलवान् तावत् अपार्थः अपि अविवेकिनः ॥ १२॥
अर्थे हि अविद्यमाने अपि संसृतिः न निवर्तते ।
ध्यायतः विषयान् अस्य स्वप्ने अनर्थ आगमः यथा ॥ १३॥
यथा हि अप्रतिबुद्धस्य प्रस्वापः बहु अनर्थभृत् ।
सः एव प्रतिबुद्धस्य न वै मोहाय कल्पते ॥ १४॥
शोक हर्ष भय क्रोध लोभ मोह स्पृहादयः ।
अहङ्कारस्य दृश्यन्ते जन्म मृत्युः च न आत्मनः ॥ १५॥
देह इन्द्रिय प्राण मनः अभिमानः
जीवः अन्तरात्मा गुणकर्म मूर्तिः ।
सूत्रं महान् इति उरुधा इव गीतः
संसारः आधावति कालतन्त्रः ॥ १६॥
अमूलम् एतत् बहुरूप रूपितं
मनोवचःप्राणशरीरकर्म ।
ज्ञानासिना उपासनया शितेन
छित्त्वा मुनिः गां विचरति अतृष्णः ॥ १७॥
ज्ञानं विवेकः निगमः तपः च
प्रत्यक्षम् ऐतिह्यम् अथ अनुमानम् ।
आदि अन्तयोः अस्य यत् एव केवलम्
कालः च हेतुः च तत् एव मध्ये ॥ १८॥
यथा हिरण्यं स्वकृतं पुरस्तात्
पश्चात् च सर्वस्य हिरण्मयस्य ।
तत् एव मध्ये व्यवहार्यमाणम्
नानापदेशैः अहम् अस्य तद्वत् ॥ १९॥
विज्ञानम् एतत् त्रियवस्तम् अङ्ग
गुणत्रयं कारण कार्य कर्तृ ।
समन्वयेन व्यतिरेकतः च
येन एव तुर्येण तत् एव सत्यम् ॥ २०॥
न यत् पुरस्तात् उत यत् न पश्चात्
मध्ये च तत् न व्यपदेशमात्रम् ।
भूतं प्रसिद्धं च परेण यद्यत्
तत् एव तत् स्यात् इति मे मनीषा ॥ २१॥
अविद्यमानः अपि अवभासते यः
वैकारिकः राजससर्गः एषः ।
ब्रह्म स्वयञ्ज्योतिः अतः विभाति
ब्रह्म इन्द्रिय अर्थ आत्म विकार चित्रम् ॥ २२॥
एवं स्फुटं ब्रह्मविवेकहेतुभिः
परापवादेन विशारदेन ।
छित्त्वा आत्मसन्देहम् उपारमेत
स्वानन्दतुष्टः अखिल कामुकेभ्यः ॥ २३॥
न आत्मा वपुः पार्थिवम् इन्द्रियाणि
देवाः हि असुः वायुजलं हुताशः ।
मनः अन्नमात्रं धिषणा च सत्त्वम्
अहंकृतिः खं क्षितिः अर्थसाम्यम् ॥ २४॥
समाहितैः कः करणैः गुणात्मभिः
गुणः भवेत् मत्सुविविक्तधाम्नः ।
विक्षिप्यमाणैः उत किं न दूषणम्
घनैः उपेतैः विगतैः रवेः किम् ॥ २५॥
यथा नभः वायु अनल अम्बु भू गुणैः
गतागतैः वर्तुगुणैः न सज्जते ।
तथा अक्षरं सत्त्व रजः तमः मलैः
अहंमतेः संसृतिहेतुभिः परम् ॥ २६॥
तथापि सङ्गः परिवर्जनीयः
गुणेषु मायारचितेषु तावत् ।
मद्भक्तियोगेन दृढेन यावत्
रजः निरस्येत मनःकषायः ॥ २७॥
यथा आमयः असाधु चिकित्सितः नृणाम्
पुनः पुनः सन्तुदति प्ररोहन् ।
एवं मनः अपक्व कषय कर्म
कुयोगिनं विध्यति सर्वसङ्गम् ॥ २८॥
कुयोगिनः ये विहित अन्तरायैः
मनुष्यभूतैः त्रिदश उपसृष्टैः ।
ते प्राक्तन अभ्यासबलेन भूयः
युञ्जन्ति योगं न तु कर्मतन्त्रम् ॥ २९॥
करोति कर्म क्रियते च जन्तुः
केनापि असौ चोदितः आनिपातात् ।
न तत्र विद्वान्प्रकृतौ स्थितः अपि
निवृत्त तृष्णः स्वसुख अनुभूत्या ॥ ३०॥
तिष्ठन्तम् आसीनम् उत व्रजन्तम्
शयानम् उक्षन्तम् अदन्तम् अन्नम् ।
स्वभावम् अन्यत् किम् अपि इहमानम्
आत्मानम् आत्मस्थमतिः न वेद ॥ ३१॥
यदि स्म पश्यति असत् इन्द्रिय अथ
नाना अनुमानेन विरुद्धम् अन्यत् ।
न मन्यते वस्तुतया मनीषी
स्वाप्नं यथा उत्थाय तिरोदधानम् ॥ ३२॥
पूर्वं गृहीतं गुणकर्मचित्रम्
अज्ञानम् आत्मनि अविविक्तम् अङ्ग ।
निवर्तते तत् पुनः ईक्षया एव
न गृह्यते न अपि विसृज्य आत्मा ॥ ३३॥
यथा हि भानोः उदयः नृचक्षुषाम्
तमः निहन्यात् न तु सद्विधत्ते ।
एवं समीक्षा निपुणा सती मे
हन्यात् तमिस्रं पुरुषस्य बुद्धेः ॥ ३४॥
एषः स्वयञ्ज्योतिः अजः अप्रमेयः
महानुभूतिः सकलानुभूतिः ।
एकः अद्वितीयः वचसां विरामे
येन ईशिता वाक् असवः चरन्ति ॥ ३५॥
एतावान् आत्मसंमोहः यत् विकल्पः तु केवले ।
आत्मन् नृते स्वमात्मानम् अवलम्बः न यस्य हि ॥३६॥
यत् नाम आकृतिभिः ग्राह्यं पञ्चवर्णम् अबाधितम् ।
व्यर्थेन अपि अर्थवादः अयं द्वयं पण्डितमानिनाम् ॥ ३७॥
योगिनः अपक्वयोगस्य युञ्जतः कायः उत्थितैः ।
उपसर्गैः विहन्येत तत्र अयं विहितः विधिः ॥ ३८॥
योगधारणया कांश्चित् आसनैः धारण अन्वितैः ।
तपोमन्त्रौषधैः कांश्चित् उपसर्गान् विनिर्दहेत् ॥ ३९॥
कांश्चित् मम अनुध्यानेन नामसङ्कीर्तन आदिभिः ।
योगेश्वर अनुवृत्त्या वा हन्यात् अशुभदान् शनैः ॥ ४०॥
केचित् देहम् इमं धीराः सुकल्पं वयसि स्थिरम् ।
विधाय विविध उपायैः अथ युञ्जन्ति सिद्धये ॥ ४१॥
न हि तत् कुशलात् दृत्यं तत् आयासः हि अपार्थकः ।
अन्तवत्त्वात् शरीरस्य फलस्य इव वनस्पतेः ॥ ४२॥
योगं निषेवतः नित्यं कायः चेत् कल्पताम् इयात् ।
तत् श्रद्दध्यात् न मतिमान् योगम् उत्सृज्य मत्परः ॥ ४३॥
योगचर्याम् इमां योगी विचरन् मत् व्यपाश्रयः ।
न अन्तरायैः विहन्येत निःस्पृहः स्वसुखानुभूः ॥ ४४॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे भगवदुद्धवसंवादे
परमार्थनिर्णयो नाम अष्टाविंशोऽध्यायः ॥ २८॥
अथ एकोनत्रिंशः अध्यायः ।
सुदुस्तराम् इमां मन्ये योगचर्याम् अनात्मनः ।
यथा अञ्जसा पुमान् सिह्येत् तत् मे ब्रूहि अञ्जसा अच्युत ॥ १॥
प्रायशः पुण्डरीकाक्ष युञ्जन्तः योगिनः मनः ।
विषीदन्ति असमाधानात् मनोनिग्रहकर्शिताः ॥ २॥
अथ अतः आनन्ददुघं पदाम्बुजम्
हंसाः श्रयेरन् अरविन्दलोचन ।
सुखं नु विश्वेश्वर योगकर्मभिः
त्वत् मायया अमी विहताः न मानिनः ॥ ३॥
किं चित्रम् अच्युत तव एतत् अशेषबन्धः
दासेषु अनन्यशरणेषु यत् आत्म सात्त्वम् ।
यः अरोचयत्सह मृगैः स्वयम् ईश्वराणाम्
श्रीमत् किरीट तट पीडित पाद पीठः ॥ ४॥
तं त्वा अखिल आत्मदयित ईश्वरम् आश्रितानाम्
सर्व अर्थदं स्वकृतवित् विसृजेत कः नु ।
कः वा भजेत् किम् अपि विस्मृतये अनु भूत्यै
किं वा भवेत् न तव पादरजोजुषां नः ॥ ५॥
न एव उपयन्ति अपचितिं कवयः तव ईश
ब्रह्मायुषा अपि कृतम् ऋधमुदः स्मरन्तः ।
यः अन्तर्बहिः तनुभृताम् अशुभं विधुन्वन्
आचार्यचैत्यवपुषा स्वगत्ं व्यनक्ति ॥ ६॥
श्रीशुकः उवाच ।
इति उद्धवेन अति अनुरक्त चेतसा
पृष्टः जगत्क्रीडनकः स्वशक्तिभिः ।
गृहीत मूर्तित्रयः ईश्वर ईश्वरः
जगाद सप्रेम मनोहरस्मितः ॥ ७॥
श्रीभगवान् उवाच ।
हन्त ते कथयिष्यामि मम धर्मान् सुमङ्गलाम् ।
यान् श्रद्धया आचरन् मर्त्यः मृत्युं जयति दुर्जयम् ॥ ८॥
कुर्यात् सर्वाणि कर्माणि मदर्थं शनकैः स्मरन् ।
मयि अर्पित मनः चित्तः मत् धर्म आत्ममनोरतिः ॥ ९॥
देशान् पुण्यान् आश्रयेत मद्भक्तैः साधुभिः श्रितान् ।
देव आसुर मनुष्येषु मद्भक्त आचरितानि च ॥ १०॥
पृथक् सत्रेण वा मह्यं पर्वयात्रा महोत्सवान् ।
कारयेत् गीतनृत्य आद्यैः महाराज विभूतिभिः ॥ ११॥
माम् एव सर्वभूतेषु बहिः अन्तः अपावृतम् ।
ईक्षेत आत्मनि च आत्मानं यथा खम् अमल आशयः ॥ १२॥
इति सर्वाणि भूतानि मद्भावेन महाद्युते ।
सभाजयन् मन्यमानः ज्ञानं केवलम् आश्रितः ॥ १३॥
ब्राह्मणे पुल्कसे स्तेने ब्रह्मण्ये अर्के स्फुलिङ्गके ।
अक्रूरे क्रूरके च एव समदृक् पण्डितः मतः ॥ १४॥
नरेषु अभीक्ष्णं मद्भावं पुंसः भावयतः अचिरात् ।
स्पर्धा असूया तिरस्काराः साहङ्काराः वियन्ति हि ॥ १५॥
विसृज्य स्मयमानान् स्वान् दृशं व्रीडां च दैहिकीम् ।
प्रणमेत् दण्डवत् भूमौ आश्व चाण्डाल गो खरम् ॥ १६॥
यावत् सर्वेषु भूतेषु मद्भावः न उपजायते ।
तावत् एवम् उपासीत वाङ् मन काय वृत्तिभिः ॥ १७॥
सर्वं ब्रह्मात्मकं तस्य विद्यया आत्म मनीषया ।
परिपश्यन् उपरमेत् सर्वतः मुक्त संशयः ॥ १८॥
अयं हि सर्वकल्पानां सध्रीचीनः मतः मम ।
मद्भावः सर्वभूतेषु मनोवाक्कायवृत्तिभिः ॥ १९॥
न हि अङ्ग उपक्रमे ध्वंसः मद्धर्मस्य उद्धव अणु अपि ।
मया व्यवसितः सम्यक् निर्गुणत्वात् अनाशिषः ॥ २०॥
यः यः मयि परे धर्मः कल्प्यते निष्फलाय चेत् ।
तत् आयासः निरर्थः स्यात् भयादेः इव सत्त्म ॥ २१॥
एषा बुद्धिमतां बुद्धिः मनीषा च मनीषिणाम् ।
यत् सत्यम् अनृतेन इह मर्त्येन आप्नोति मा अमृतम् ॥ २२॥
एष ते अभिहितः कृत्स्नः ब्रह्मवादस्य सङ्ग्रहः ।
समासव्यासविधिना देवानाम् अपि दुर्गमः ॥ २३॥
अभीक्ष्णशः ते गदितं ज्ञानं विस्पष्टयुक्तिमत् ।
एतत् विज्ञाय मुच्येत पुरुषः नष्टसंशयः ॥ २४॥
सुविविक्तं तव प्रश्नं मया एतत् अपि धारयेत् ।
सनातनं ब्रह्मगुह्यं परं ब्रह्म अधिगच्छति ॥ २५॥
यः एतत् मम भक्तेषु सम्प्रदद्यात् सुपुष्कलम् ।
तस्य अहं ब्रह्मदायस्य ददामि आत्मानम् आत्मना ॥ २६॥
यः एतत् समधीयीत पवित्रं परमं शुचि ।
सः पूयेत अहः अहः मां ज्ञानदीपेन दर्शयन् ॥ २७॥
यः एतत् श्रद्धया नित्यम् अव्यग्रः श्रुणुयात् नरः ।
मयि भक्तिं परां कुर्वन् कर्मभिः न सः बध्यते ॥ २८॥
अपि उद्धव त्वया ब्रह्म सखे समवधारितम् ।
अपि ते विगतः मोहः शोकः च असौ मनोभवः ॥ २९॥
न एतत् त्वया दाम्भिकाय नास्तिकाय शठाय च ।
अशुश्रूषोः अभक्ताय दुर्विनीताय दीयताम् ॥ ३०॥
एतैः दोषैः विहीनाय ब्रह्मण्याय प्रियाय च ।
साधवे शुचये ब्रूयात् भक्तिः स्यात् शूद्र योषिताम् ॥ ३१॥
न एतत् विज्ञाय जिज्ञासोः ज्ञातव्यम् अवशिष्यते ।
पीत्वा पीयूषम् अमृतं पातव्यं न अवशिष्यते ॥ ३२॥
ज्ञाने कर्मणि योगे च वार्तायां दण्डधारणे ।
यावान् अर्थः नृणां तात तावान् ते अहं चतुर्विधः ॥ ३३॥
मर्त्यः यदा त्यक्त समस्तकर्मा
निवेदितात्मा विचिकीर्षितः मे ।
तदा अमृतत्वं प्रतिपद्यमानः
मया आत्मभूयाय च कल्पते वै ॥ ३४॥
श्रीशुकः उवाच ।
सः एवम् आदर्शित योगमार्गः
तदा उत्तम श्लोकवचः निशम्य ।
बद्ध अञ्जलिः प्रीति उपरुद्ध कण्ठः
न किञ्चित् ऊचेः अश्रु परिप्लुत अक्षः ॥ ३५॥
विष्टभ्य चित्तं प्रणय अवघूर्णम्
धैर्येण राजन् बहु मन्यमानः ।
कृताञ्जलिः प्राह यदुप्रवीरम्
शीर्ष्णा स्पृशन् तत् चरण अरविन्दम् ॥ ३६॥
उद्धवः उवाच ।
विद्रावितः मोह महा अन्धकारः
यः आश्रितः मे तव सन्निधानात् ।
विभावसोः किं नु समीपगस्य
शीतं तमः भीः प्रभवन्ति अज अद्य ॥ ३७॥
प्रत्यर्पितः मे भवता अनुकम्पिना
भृत्याय विज्ञानमयः प्रदीपः ।
हित्वा कृतज्ञः तव पादमूलम्
कः अन्यत् समीयात् शरणं त्वदीयम् ॥ ३८॥
वृक्णः च मे सुदृढः स्नेहपाशः
दाशार्ह वृष्णि अन्धक सात्वतेषु ।
प्रसारितः सृष्टिविवृद्धये त्वया
स्वमायया हि आत्म सुबोध हेतिना ॥ ३९॥
नमः अस्तु ते महायोगिन् प्रपन्नम् अनुशाधि माम् ।
यथा त्वत् चरण अम्भोजे रतिः स्यात् अनपायिनी ॥ ४०॥
श्रीभगवान् उवाच ।
गच्छ उद्धव मया आदिष्टः बदरि आख्यं मम आश्रमम् ।
तत्र मत् पाद तीर्थोदे स्नान उपस्पर्शनैः शुचिः ॥ ४१॥
ईक्षया अलकनन्दाया विधूत अशेष कल्मषः ।
वसानः वल्कलानि अङ्ग वन्यभुक् सुख निःस्पृहः ॥ ४२॥
तितिक्षौः द्वन्द्वमात्राणां सुशीलः संयतेन्द्रियः ।
शान्तः समाहितधिया ज्ञानविज्ञानसंयुतः ॥ ४३॥
मत्तः अनुशिक्षितं यत् ते विविक्तमनुभावयन् ।
मयि आवेशित वाक् चित्तः मद्धर्म निरतः भव ।
अतिव्रज्य गतीः तिस्रः माम् एष्यसि ततः परम् ॥ ४४॥
श्रीशुकः उवाच ।
सः एवम् उक्तः हरिमेधसा उद्धवः
प्रदक्षिणं तं परिसृत्य पादयोः ।
शिरः निधाय अश्रुकलाभिः आर्द्रधीः
न्यषिञ्चत् अद्वन्द्वपरः अपि उपक्रमे ॥ ४५॥
सुदुस्त्यज स्नेह वियोग कातरः
न शक्नुवन् तं परिहातुम् आतुरः ।
कृच्छ्रं ययौ मूर्धनि भर्तृपादुके
बिभ्रन् नमस्कृत्य ययौ पुनः पुनः ॥ ४६॥
ततः तम् अन्तर्हृदि संनिवेश्य
गतः महाभागवतः विशालाम् ।
यथा उपदिष्टां जगत् एकबन्धुना
ततः समास्थाय हरेः अगात् गतिम् ॥ ४७॥
यः एअतत् आनन्द समुद्र संभृतम्
ज्ञानामृतं भागवताय भाषितम् ।
कृष्णेण योगेश्वर सेविताङ्घ्रिणा
सच्छ्रद्धया आसेव्य जगत् विमुच्यते ॥ ४८॥
भवभय अपहन्तुं ज्ञानविज्ञानसारम्
निगमकृत् उपजहे भृङ्गवत् वेदसारम् ।
अमृतम् उदधितः च अपाययत् भृत्यवर्गान्
पुरुषम् ऋषभम् आद्यं कृष्णसञ्ज्ञं नतः अस्मि
॥ ४९॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे भगवदुद्धवसंवादे
परमार्थप्राप्तिसुगमोपायकथनोद्धवबदरिकाश्रमप्रवेशो
नाम एकोनत्रिंशोऽध्यायः ॥ २९॥
अथ त्रिंशः अध्यायः ।
राजा उवाच ।
ततः महाभागवते उद्धवे निर्गते वनम् ।
द्वारवत्यां किम् अकरोत् भगवान् भूतभावनः ॥ १॥
ब्रह्मशाप उपसंसृष्टे स्वकुले यादवर्षभः ।
प्रेयसीं सर्वनेत्राणां तनुं सः कथम् अत्यजत् ॥ २॥
प्रत्याक्रष्टुं नयनम् अबला यत्र लग्नं न शेकुः
कर्णाविष्टं न सरति ततः यत् सताम् आत्मलग्नम् ।
यत् श्रीः वाचां जनयति रतिं किं नु मानं कवीनाम्
दृष्ट्वा जिष्णोः युधि रथगतं यत् च तत् साम्यम्
ईयुः ॥ ३॥
ऋषिः उवाच ।
दिवि भुवि अन्तरिक्षे च महोत्पातान् समुत्थितान् ।
दृष्ट्वा आसीनान् सुधर्मायां कृष्णः प्राह यदून् इदम्
॥ ४॥
श्रीभगवान् उवाच ।
एते घोराः महोत्पाताः द्वार्वत्यां यमकेतवः ।
मुहूर्तम् अपि न स्थेयम् अत्र नः यदुपुङ्गवाः ॥ ५॥
स्त्रियः बालाः च वृद्धाः च शङ्खोद्धारं व्रजन्त्वितः ।
वयं प्रभासं यास्यामः यत्र प्रत्यक् सरस्वती ॥ ६॥
तत्र अभिषिच्य शुचय उपोष्य सुसमाहिताः ।
देवताः पूजयिष्यामः स्नपन आलेपन अर्हणैः ॥७॥
ब्राह्मणान् तु महाभागान् कृतस्वस्त्ययना वयम् ।
गो भू हिरण्य वासोभिः गज अश्वरथ वेश्मभिः ॥ ८॥
विधिः एषः हि अरिष्टघ्नः मङ्गल आयनम् उत्तमम् ।
देव द्विज गवां पूजा भूतेषु परमः भवः ॥ ९॥
इति सर्वे समाकर्ण्य यदुवृद्धाः मधुद्विषः ।
तथा इति नौभिः उत्तीर्य प्रभासं प्रययू रथैः ॥ १०॥
तस्मिन् भगवता आदिष्टं यदुदेवेन यादवा ।
चक्रुः परभया भक्त्या सर्वश्रेय उपबृंहितम् ॥ ११॥
ततः तस्मिन् महापानं पपुः मैरेयकं मधु ।
दिष्ट विभ्रंशित धियः यत् द्रवैः भ्रश्यते मतिः ॥ १२॥
महापान अभिमत्तानां वीराणां दृप्तचेतसाम् ।
कृष्णमाया विमूढानां सङ्घर्षः सुमहान् अभूत् ॥ १३॥
युयुधुः क्रोधसंरब्धा वेलायाम् आततायिनः ।
धनुभिः असिभिः मल्लैः गदाभिः ताम् अरर्ष्टिभिः ॥ १४॥
पतत्पताकै रथकुञ्जरादिभिः
खर उष्ट्र गोभिः महिषैः नरैः अपि ।
मिथः समेत्य अश्वतरैः सुदुर्मदा
न्यहन् शरर्दद्भिः इव द्विपा वने ॥ १५॥
प्रद्युम्न साम्बौ युधि रूढमत्सरौ
अक्रूर भोजौ अनिरुद्ध सात्यकी ।
सुभद्र सङ्ग्रामजितौ सुदारुणौ
गदौ सुमित्रा सुरथौ समीयतुः ॥ १६॥
अन्ये च ये वै निशठ उल्मुक आदयः
सहस्रजित् शतजित् भानु मुख्याः ।
अन्योन्यम् आसाद्य मदान्धकारिता
जघ्नुः मुकुन्देन विमोहिता भृशम् ॥ १७॥
दाशार्ह वृष्णि अन्धक भोज सात्वता
मधु अर्बुदा माथुरशूरसेनाः ।
विसर्जनाः कुकुराः कुन्तयः च
मिथः ततः ते अथ विसृज्य सौहृदम् ॥ १८॥
पुत्राः अयुध्यन् पितृभिः भ्रातृभिः च
स्वस्त्रीय दौहित्र पितृव्यमातुलैः ।
मित्राणि मित्रैः सुहृदः सुहृद्भिः
ज्ञातींस्त्वहन् ज्ञातयः एव मूढाः ॥ १९॥
शरेषु क्षीयमाणेषु भज्यमानेषु धन्वसु ।
शस्त्रेषु क्षीयमाणेषु मुष्टिभिः जह्रुः एरकाः ॥ २०॥
ताः वज्रकल्पाः हि अभवन् परिघाः मुष्टिनाः भृताः ।
जघ्नुः द्विषः तैः कृष्णेन वार्यमाणाः तु तं च ते ॥ २१॥
प्रत्यनीकं मन्यमानाः बलभद्रं च मोहिताः ।
हन्तुं कृतधियः राजन् आपन्नाः आततायिनः ॥ २२॥
अथ तौ अपि सङ्क्रुद्धौ उद्यम्य कुरुनन्दन ।
एरका मुष्टि परिघौ जरन्तौ जघ्नतुः युधि ॥ २३॥
ब्रह्मशाप उपसृष्टानां कृष्णमायावृत आत्मनाम् ।
स्पर्धाक्रोधः क्षयं निन्ये वैणवः अग्निः यथा वनम् ॥ २४॥
एवं नष्टेषु सर्वेषु कुलेषु स्वेषु केशवः ।
अवतारितः भुवः भारः इति मेने अवशेषितः ॥ २५॥
रामः समुद्रवेलायां योगम् आस्थाय पौरुषम् ।
तत् त्याज लोकं मानुष्यं संयोज्य आत्मानम् आत्मनि ॥ २६॥
रामनिर्याणम् आलोक्य भगवान् देवकीसुतः ।
निषसाद धरोपस्थे तूष्णीम् आसाद्य पिप्पलम् ॥ २७॥
बिभ्रत् चतुर्भुजं रूपं भ्राजिष्णु प्रभया स्वया ।
दिशः वितिमाराः कुर्वन् विधूमः इव पावकः ॥ २८॥
श्रीवत्साङ्कं घनश्यामं तप्त हाटक वर्चसम् ।
कौशेय अम्बर युग्मेन परिवीतं सुमङ्गलम् ॥ २९॥
सुन्दर स्मित वक्त्र अब्जं नील कुन्तल मण्डितम् ।
पुण्डरीक अभिरामाक्षं स्फुरन् मकर कुण्डलम् ॥ ३०॥
कटिसूत्र ब्रह्मसूत्र किरीट कटक अङ्गदैः ।
हार नूपुर मुद्राभिः कौस्तुभेन विराजितम् ॥ ३१॥
वनमाला परीताङ्गं मूर्तिमद्भिः निज आयुधैः ।
कृत्वा उरौ दक्षिणे पादम् आसीनं पङ्कज अरुणम् ॥ ३२॥
मुसलौ अशेषायः खण्डकृतेषुः लुब्धकः जराः ।
मृगास्य आकारं तत् चरणं विव्याध मृगशङ्कया ॥ ३३॥
चतुर्भुजं तं पुरुषं दृष्ट्वा सः कृत किल्बिषः ।
भीतः पपात शिरसा पादयोः असुरद्विषः ॥ ३४॥
अजानता कृतम् इदं पापेन मधुसूदन ।
क्षन्तुम् अर्हसि पापस्य उत्तमश्लोकः मे अनघ ॥ ३५॥
यस्य अनुस्मरणं नॄणाम् अज्ञान ध्वान्त नाशनम् ।
वदन्ति तस्य ते विष्णो मया असाधु कृतं प्रभो ॥ ३६॥
तत् मा आशु जहि वैकुण्ठ पाप्मानं मृग लुब्धकम् ।
यथा पुनः अहं तु एवं न कुर्यां सत् अतिक्रमम् ॥ ३७॥
यस्य आत्म योग रचितं न विदुः विरिञ्चः
रुद्र आदयः अस्य तनयाः पतयः गिरां ये ।
त्वत् मायया पिहित दृष्टयः एतत् अञ्जः
किं तस्य ते वयम् असत् गतयः गृणीमः ॥ ३८॥
श्रीभगवान् उवाच ।
मा भैः जरे त्वम् उत्तिष्ठ कामः एषः कृतः हि मे ।
याहि त्वं मत् अनुज्ञातः स्वर्गं सुकृतिनां पदम् ॥ ३९॥
इति आदिष्टः भगवता कृष्णेन इच्छा शरीरिणा ।
त्रिः परिक्रम्य तं नत्वा विमानेन दिवं ययौ ॥ ४०॥
दारुकः कृष्णपदवीम् अन्विच्छन् अधिगम्यताम् ।
वायुं तुलसिकामोदम् आघ्राय अभिमुखं ययौ ॥ ४१॥
तं तत्र तिग्मद्युभिः आयुधैः वृतम्
हि अश्वत्थमूले कृतकेतनं पतिम् ।
स्नेहप्लुतात्मा निपपात पादयो
रथात् अवप्लुत्य सबाष्पलोचनः ॥ ४२॥
अपश्यतः त्वत् चरण अम्बुजं प्रभो
दृष्टिः प्रणष्टा तमसि प्रविष्टा ।
दिशः न जाने न लभे च शान्तिम्
यथा निशायम् उडुपे प्रणष्टे ॥ ४३॥
इति ब्रुवते सूते वै रथः गरुडलाञ्छनः ।
खम् उत्पपात राजेन्द्र साश्वध्वजः उदीक्षतः ॥ ४४॥
तम् अन्वगच्छन् दिव्यानि विष्णुप्रहरणानि च ।
तेन अति विस्मित आत्मानं सूतम् आह जनार्दनः ॥ ४५॥
गच्छ द्वारवतीं सूत ज्ञातीनां निधनं मिथः ।
सङ्कर्षणस्य निर्याणं बन्धुभ्यः ब्रूहि मत् दशाम् ॥ ४६॥
द्वारकायां च न स्थेयं भवद्भिः च स्वबन्धुभिः ।
मया त्यक्तां यदुपुरीं समुद्रः प्लावयिष्यति ॥ ४७॥
स्वं स्वं परिग्रहं सर्वे आदाय पितरौ च नः ।
अर्जुनेन आविताः सर्व इन्द्रप्रस्थं गमिष्यथ ॥ ४८॥
त्वं तु मत् धर्मम् आस्थाय ज्ञाननिष्ठः उपेक्षकः ।
मन्माया रचनाम् एतां विज्ञाय उपशमं व्रज ॥ ४९॥
इति उक्तः तं परिक्रम्य नमस्कृत्य पुनः पुनः ।
तत् पादौ शीर्ष्णि उपाधाय दुर्मनाः प्रययौ पुरीम् ॥ ५०॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे यदुकुलसङ्क्षयो नाम
त्रिंशोऽध्यायः ॥ ३०॥
अथ एकत्रिंशः अध्यायः ।
श्रीशुकः उवाच ।
अथ तत्र आगमत् ब्रह्मा भवान्या च समं भवः ।
महेन्द्रप्रमुखाः देवाः मुनयः सप्रजेश्वराः ॥ १॥
पितरः सिद्धगन्धर्वाः विद्याधर महोरगाः ।
चारणाः यक्षरक्षांसि किंनर अप्सरसः द्विजाः ॥ २॥
द्रष्टुकामाः भगवतः निर्वाणं परम उत्सुकाः ।
गायन्तः च गृणन्तः च शौरेः कर्माणि जन्म च ॥ ३॥
ववर्षुः पुष्पवर्षाणि विमान आवलिभिः नभः ।
कुर्वन्तः सङ्कुलं राजन् भक्त्या परमया युताः ॥ ४॥
भगवान् पितामहं वीक्ष्य विभूतिः आत्मनः विभुः ।
संयोज्य आत्मनि च आत्मानं पद्मनेत्रे न्यमीलयत् ॥ ५॥
लोकाभिरामां स्वतनुं धारणा ध्यान मङ्गलम् ।
योगधारणया आग्नेय्या अदग्ध्वा धाम आविशत् स्वकम् ॥ ६॥
दिवि दुन्दुभयः नेदुः पेतुः सुमनः च खात् ।
सत्यं धर्मः धृतिः भूमेः कीर्तिः श्रीः च अनु तं वयुः
॥ ७॥
देव आदयः ब्रह्ममुख्याः न विशन्तं स्वधामनि ।
अविज्ञातगतिं कृष्णं ददृशुः च अतिविस्मिताः ॥ ८॥
सौदामन्याः यथा आकाशे यान्त्याः हित्वा अभ्रमण्डलम् ।
गतिः न लक्ष्यते मर्त्यैः तथा कृष्णस्य दैवतैः ॥ ९॥
ब्रह्म रुद्र आदयः ते तु दृष्ट्वा योगगतिं हरेः ।
विस्मिताः तां प्रशंसन्तः स्वं स्वं लोकं ययुः तदा ॥ १०॥
राजन् परस्य तनुभृत् जननाप्ययेहा
मायाविडम्बनम् अवेहि यथा नटस्य ।
सृष्ट्वा आत्मना इदम् अनुविश्य विहृत्य च अन्ते
संहृत्य च आत्म महिना उपरतः सः आस्ते ॥ ११॥
मर्त्येन यः गुरुसुतं यमलोकनीतम्
त्वां च आनयत् शरणदः परम अस्त्र दग्धम् ।
जिग्ये अन्तक अन्तकम् अपि ईशम् असौ अवनीशः
किं स्वावने स्वरनयन् मृगयुं सदेहम् ॥ १२॥
तथा अपि अशेशा स्थिति सम्भव अपि
अयेषु अनन्य हेतुः यत् अशेष शक्तिधृक् ।
न इच्छत् प्रणेतुं वपुः अत्र शेषितम्
मर्त्येन किं स्वस्थगतिं प्रदर्शयन् ॥ १३॥
यः एतां प्रातः उत्थाय कृष्णस्य पदवीं पराम् ।
प्रयतः कीर्तयेत् भक्त्या ताम् एव आप्नोति अनुत्तमाम् ॥ १४॥
दारुकः द्वारकाम् एत्य वसुदेव उग्रसेनयोः ।
पतित्वा चरणावस्रैः न्यषिञ्चत् कृष्णविच्युतः ॥ १५॥
कथयामास निधनं वृष्णीनां कृत्स्नशः नृप ।
तत् श्रुत्वा उद्विग्न हृदयाः जनाः शोक विमूर्च्छिताः ॥ १६॥
तत्र स्म त्वरिता जग्मुः कृष्ण विश्लेष विह्वलाः ।
व्यसवाः शेरते यत्र ज्ञातयः घ्नन्तः आननम् ॥ १७॥
देवकी रोहिणी च एव वसुदेवः तथा सुतौ ।
कृष्ण राम अवपश्यन्तः शोक आर्ताः विजहुः स्मृतिम् ॥ १८॥
प्राणान् च विजहुः तत्र भगवत् विरह आतुराः ।
उपगुह्य पतीन् तात चिताम् आरुरुहुः स्त्रियः ॥ १९॥
रामपत्न्यः च तत् देहम् उपगुह्य अग्निम् आविशन् ।
वसुदेवपत्न्यः तत् गात्रं प्रद्युम्न आदीन् हरेः स्नुषाः ।
कृष्णपत्न्यः आविशन् अग्निं रुक्मिणि आद्याः तदात्मिकाः ॥ २०॥
अर्जुनः प्रेयसः सख्युः कृष्णस्य विरह आतुरः ।
आत्मानं सान्त्वयामास कृष्णगीतैः सदुक्तिभिः ॥ २१॥
बन्धूनां नष्टगोत्राणाम् अर्जुनः साम्परायिकम् ।
हतानां कारयामास यथावत् अनुपूर्वशः ॥ २२॥
द्वारकां हरिणा त्यक्ता समुद्रः अप्लावयत् क्षणात् ।
वर्जयित्वा महाराज श्रीमत् भगवत् आलयम् ॥ २३॥
नित्यं संनिहितः तत्र भगवान् मधुसूदनः ।
स्मृत्या अशेषा अशुभहरं सर्व मङ्गलम् अमङ्गलम् ॥ २४॥
स्त्री बाल वृद्धान् आदाय हतशेषान् धनञ्जयः ।
इन्द्रप्रस्थं समावेश्य वज्र तत्र अभ्यषेचयत् ॥ २५॥
श्रुत्वा सुहृत् वधं राजन् अर्जुनात् ते पितामहाः ।
त्वां तु वंशधरं कृत्वा जग्मुः सर्वे महापथम् ॥ २६॥
यः एतत् देवदेवस्य विष्णोः कर्माणि जन्म च ।
कीर्तयेत् श्रद्धया मर्त्यः सर्वपापैः प्रमुच्यते ॥ २७॥
इत्थं हरेः भगवतः रुचिर अवतार
वीर्याणि बालचरितानि च शन्तमानि ।
अन्यत्र च इह च श्रुतानि गृणन् मनुष्यः
भक्तिं परां परमहंसगतौ लभेत ॥ २८॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे मौसलोपाख्यानं नाम
एकत्रिंशोऽध्यायः ॥ ३१॥
॥ इति उद्धवगीता नाम एकादशस्कन्धः समाप्तः ॥
॥ ऋभुगीता गुरुज्ञानवासिष्ठे ॥
प्रथमोऽध्यायः ।
श्री गुरुमूर्तिः ।
पुनर्ज्ञानं प्रवक्ष्यामि यथावत्पद्मसम्भव ।
येनैव सर्वे मुच्यन्ते जनास्संसारबन्धनात् ॥ १.०१॥
विधे पुरा निदाघाख्यो मुनिः पप्रच्छ सद्गुरुम् ।
ऋभुसंज्ञं महाप्राज्ञं तद्वदामि तवाधुना ॥ १.०२॥
निदाघः ।
आत्मानात्मविवेकं मे कृपया ब्रूहि सद्गुरो ।
येन संसारपादोधिं तरिष्यामि सुखेन वै ॥ १.०३॥
ऋभुरेवं तदा पृष्ट उवाच सकलार्थवित् ।
सर्ववेदान्तसारज्ञस्सर्वपूज्यो महत्तमः ॥ १.०४॥
ऋभुः ।
सर्ववाचोऽवधिर्ब्रह्म सर्वचिन्ताऽवधिर्गुरुः ।
सर्वकारणकार्यात्मा कार्यकारणवर्जितः ॥ १.०५॥
सर्वसंकल्परहितस्सर्वनादमयश्शिवः ।
सर्ववर्जितचिन्मात्रस्सर्वानन्दमयः परः ॥ १.०६॥
सर्वतेजः प्रकाशात्मा नादानन्दमयात्मकः ।
सर्वानुभवनिर्मुक्तः सर्वध्यानविवर्जितः ॥ १.०७॥
सर्वनादकलातीत एष आत्माऽहमव्ययः ।
आत्मानात्मविवेकादि भेदाभेदविवर्जितः ॥ १.०८॥
शान्ताशान्तादिहीनात्मा नादान्तर्ज्योतिरात्मकः ।
महावाक्यार्थतो दूरो ब्रह्मास्मीत्यति दूरगः ॥ १.०९॥
तच्छब्दवर्ज्यस्त्वंशब्दहीनो वाक्यार्थवर्जितः ।
क्षराक्षरविहीनो यो नादान्तर्ज्योतिरेव सः ॥ १.१०॥
अखण्डैकरसो वाऽहमानन्दोस्मीति वर्जितः ।
सर्वातीतस्वभावात्मा नादान्तर्ज्योतिरेव सः ॥ १.११॥
आत्मेति शब्दहीनो य आत्मशब्दार्थवर्जितः ।
सच्चिदानन्दहीनो य एषैवात्मा सनातनः ॥ १.१२॥
ननिर्देष्टुं च शक्नो यो वेदवाक्यैरगम्यकः ।
यस्य किञ्चिद्बहिर्नास्ति किञ्चिदन्तः कियन्नच ॥ १.१३॥
यस्य लिङ्गं प्रपंचं वा ब्रह्मैवात्मा न संशयः ।
नास्ति यस्य शरीरं वा जीवो वा भूतभौतिकः ॥ १.१४॥
नामरूपाऽदिकं नास्ति भोज्यं वा भोगभुक्च वा ।
सद्वाऽसद्वा स्थितिर्वाऽपि यस्य नास्ति क्षराक्षरम् ॥ १.१५॥
गुणं वा विगुणं वाऽपि सम आसीन् न संशयः ।
यस्य वाच्यं वाचकं वा श्रवणं मननं च वा ॥ १.१६॥
गुरुशिष्याऽदि भेदं वा देवलोकास्सुरासुराः ।
यत्र धर्ममधर्मं वा शुद्धं वाऽशुद्धमण्वपि ॥ १.१७॥
यत्र कालमकालं वा निश्चयं संशयं नहि ।
यत्र मन्त्रममन्त्रं वा विद्याऽविद्ये न विद्यते ॥ १.१८॥
द्रष्टृदर्शनदृश्यं वा ईषण्मात्रं कलादिकम् ।
अनात्मेति प्रसंगो वा ह्यनात्मेति मनोपि वा ॥ १.१९॥
अनात्मेति जगद्वाऽपि नास्ति नास्तीति निश्चिनु ।
सर्वसंकल्पशून्यत्वात् सर्वकार्यविवर्जनात् ॥ १.२०॥
केवलं ब्रह्ममात्रत्वात् नास्त्यनात्मेति निश्चिनु ।
देहत्रयविहीनत्वात् कालत्रयविवर्जनात् ॥ १.२१॥
लोकत्रयविहीनत्वात् सर्वमात्मेति शासनात् ।
चित्ताभावान्नचिन्तास्ति देहाभावाज्जरा न च ॥ १.२२॥
पादाभावाद्गतिर्नास्ति हस्ताभावात् क्रिया न च ।
मृत्युर्नास्ति जराऽभावात् बुद्ध्यभावात् सुखादिकम् ॥ १.२३॥
धर्मो नास्ति शुचिर्नास्ति सत्यं नास्ति भयं न च ।
अक्षरोच्चारणम् नास्ति गुरुशिष्यादि नास्त्यपि ॥ १.२४॥
एकाभावे द्वितीयं न न द्वितीये नचैकता ।
सत्यत्वमस्तिचेत् किंचिदसत्यं न च संभवेत् ॥ १.२५॥
असत्यत्वं यदि भवेत् सत्यत्वं न वदिष्यति ।
शुभं यद्यशुभं विद्धि अशुभाच्चुभमिष्यते ॥ १.२६॥
भयं यद्यभयं विद्धि अभयाद्भयमापतेत् ।
बन्धत्वमपिचेन्मोक्षो बन्धाभावे न मोक्षता ॥ १.२७॥
मरणम् यदि चेज्जन्म जन्माभावे मृतिर्नच ।
त्वमित्यपि भवेच्चाहं त्वं नो चेदहमेव न ॥ १.२८॥
इदं यदि तदेवास्ति तदभावादिदं न च ।
अस्तीति चेन्नास्ति तदा नास्तिचेदस्ति किञ्चन ॥ १.२९॥
कार्यं चेत्कारणम् किंचित् कार्याभावे न कारणम् ।
द्वैतं यदि तदाऽद्वैतं द्वैताभावेऽद्वयं न च ॥ १.३०॥
दृश्यं यदि दृगप्यस्ति दृश्याभावे दृगेव न ।
अन्तर्यदि बहिस्सत्यमन्ताभावे बहिर्नच ॥ १.३१॥
पूर्णत्वमस्ति चेद्किंचिदपूर्णत्वं प्रसज्यते ।
तस्मादेतद्क्वचिन्नास्ति त्वं चाहं वा इमे इदम् ॥ १.३२॥
नास्ति दृष्टान्तकस्सत्ये नास्तिदार्ष्टान्तिकं ह्यजे ।
परं ब्रह्माहमस्मीति स्मरणस्य मनो नहि ॥ १.३३॥
ब्रह्ममात्रं जगदिदं ब्रह्ममात्रं त्वमप्यहम् ।
चिन्मात्रं केवलं चाहं नास्त्यनात्मेति निश्चिनु ॥ १.३४॥
इदं प्रपंचं नास्त्येव नोत्पन्नं नोस्थितं क्वचित् ।
चित्तं प्रपंचमित्याहुर्नास्ति नास्त्येव सर्वदा ॥ १.३५॥
न प्रपंचं न चित्तदि नाहंकारो न जीवकः ।
मायाकार्यादिकं नास्ति माया नास्ति भयं न च ॥ १.३६॥
कर्ता नास्ति क्रिया नास्ति श्रवणं मननं न हि ।
समाधि द्वितयं नास्ति मातृमानादि नास्ति हि ॥ १.३७॥
अज्ञानं चापि नास्त्येव ह्यविवेकः कदा च न ।
अनुबन्धचतुष्कं न संबन्धत्रयमेव न ॥ १.३८॥
न गंगा न गया सेतुर्न भूतं नान्यदस्ति हि ।
न भूमिर्न जलं नाग्निर्न वायुर्न च खं क्वचित् ॥ १.३९॥
न देवो न च दिक्पाला न वेदा न गुरुः क्वचित् ।
न दूरं नातिकं नान्तं न मध्यं न क्वचित् स्थितम् ॥ १.४०॥
नाद्वैतद्वैतसत्यं वा ह्यसत्यं वा इदं च न ।
बन्धमोक्षादिकं नास्ति सद्वाऽसद्वा सुखादि वा ॥ १.४१॥
जातिर्नास्ति गतिर्नास्ति वर्णो नास्ति न लौकिकम् ।
सर्वं ब्रह्मेति नास्त्येव ब्रह्म इत्येव नास्ति हि ॥ १.४२॥
चिदित्येवेति नास्त्येव चिदहं भाषणं नहि ।
अहं ब्रह्मास्मि नास्त्येव नित्यशुद्धोस्मि न क्वचित् ॥ १.४३॥
वाचा यदुच्यते किंचिन् मनसा मनुते क्वचित् ।
बुद्ध्या निश्चिनुते नास्ति चित्तेन ज्ञायते नहि ॥ १.४४॥
योगियोगादिकं नास्ति सदा सर्वं सदा न च ।
अहोरात्रादिकं नास्ति स्नानध्यानादिकं नहि ॥ १.४५॥
भ्रान्त्यभ्रान्त्यादिकं नास्ति नास्त्यनात्मेति निश्चिनु ।
वेदश्शास्त्रं पुराणं च कार्यं कारणमीश्वरः ॥ १.४६॥
लोको भूतं जनस्त्वैक्यं सर्वं मिथ्या न संशयः ।
वाचा वदति यत्किंचित्संकल्पैः कल्प्यते च यत् ॥ १.४७॥
मनसा चिन्त्यते यद्यत् सर्वं मिथ्या न संशयः ।
बुद्ध्या निश्चीयते किंचिच्चित्ते निश्चीयते क्वचित् ॥ १.४८॥
शास्त्रैः प्रपंच्यते यद्यत् नेत्रेणैव निरीक्ष्यते ।
श्रोत्राभ्यां श्रूयते यद्यदन्यत्सद्भावमेव च ॥ १.४९॥
त्वमहं तदिदं सोऽहमन्यत् सद्भावमेव च ।
नेत्रं श्रोत्रं गात्रमेव मिथ्येति च सुनिश्चितम् ॥ १.५०॥
इदं मिध्यैवनिर्दिष्टमयमित्येव कल्प्यते ।
यद्यत्संभाव्यते लोके सर्वं संकल्पसंभ्रमः ॥ १.५१॥
सर्वाध्यासं सर्वगोप्यं सर्वभोगप्रभेदकम् ।
सर्वदोषप्रभेदं च नास्त्यनात्मेति निश्चिनु ॥ १.५२॥
मदीयं च त्वदीयं च ममेति च तवेति च ।
मह्यं तुभ्यं मयेत्यादि तत्सर्वं वितथं भवेत् ॥ १.५३॥
रक्षको विष्णुरित्यादि ब्रह्मा सृष्टेस्तु कारणम् ।
संहारे रुद्र इत्येवं सर्वं मिथ्येति निश्चिनु ॥ १.५४॥
स्नानं जपस्तपो होमस्स्वाध्यायो देवपूजनम् ।
मन्त्रं तन्त्रं च सत्सङ्गो गुणदोषविजृभणम् ॥ १.५५॥
अन्तःकरण सद्भावोऽविद्यायाश्च संभवः ।
अनेककोटिब्रह्माण्डं सर्वं मिथ्येति निश्चिनु ॥ १.५६॥
सर्वदेशिकवाक्योक्तिर्येनकेनापि निश्चिता ।
दृश्यते जगति यद्यत् यद्यज्जगति वीक्ष्यते ॥ १.५७॥
वर्तते जगति यद्यत् सर्वं मिथ्येति निश्चिनु ।
येनेकेनाक्षरेणोक्तं येनेकेन विवर्णितम् ॥ १.५८॥
येनेकेनापि गदितं येनेकेनापि मोदितम् ।
येनेकेनापि यद्दत्तं येनकेनापि यत्कृतम् ॥ १.५९॥
यत्रयत्र शुभं कर्म यत्रयत्र च दुष्कृतम् ।
यद्यत्करोति सत्येन सर्वं मिथ्येति निश्चिनु ॥ १.६०॥
इदं प्रपंचं यत्किंचित् यद्यज्जगति विद्यते ।
दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत् ॥ १.६१॥
श्री गुरुमूर्तिः ।
एवं श्रुत्वा निदाघस्स ब्रह्मन् संशयवेष्टितः ।
ऋभुं पप्रच्छ पुनरप्यात्मविज्ञानसिद्धये ॥ १.६२॥
निदाघः ।
स्वामिन् मुमुक्षोस्संसारान् ममारूपेण वस्तुना ।
प्रपंचितेन न फलं भवेदिति मे मतिः ॥ १.६३॥
यतस्त्वद्कथितं ब्रह्म तत्त्वमस्याद्यगोचरम् ।
अखण्डैकरसातीतं मोक्षातीतं च सद्गुरो ॥ १.६४॥
ज्ञेयत्वादिविहीनं तत् कथं ज्ञास्याम्यहं नु वा ।
तज्ज्ञानेन फलं किं वा मोक्षस्यैव फलत्वतः ॥ १.६५॥
फलमास्तिक्यबुद्ध्या स्यान् न चैवंभूतवस्तुनः ।
त्वदुक्त निश्चये सर्वसांकर्यं च प्रसज्यते ॥ १.६६॥
यद्युक्त व्यतिरिक्तानां सर्वेषां स्यादनात्मता ।
हेयत्वान्नैव जिज्ञास्यं किंचिदप्यत्र सिद्ध्यति ॥ १.६७॥
शशशृंग समानत्वं यथाप्रोक्तमनात्मनाम् ।
अत्यन्तारूपवत्त्वेन तथा तत्सिद्धिरात्मनः ॥ १.६८॥
अथवा तत् तथैवास्ताम् अन्यथावापि मे गुरो ।
यज्ज्ञानेन भवान्मुक्तिर्भवेत् तद् ब्रूहि वेदितुम् ॥ १.६९॥
एवम् उक्तो निदाघेन कुशाग्रमतिना परम् ।
ऋभुस्सन्तुष्टहृदयः पुनरेवाब्रवीदिदम् ॥ १.७०॥
ऋभुः ।
निदाघ सत्यमेवैतत्त्वदुक्तं युक्तिगर्भितम् ।
तथापि युक्तं मद्वाक्यं त्रैविद्ध्याज्ज्ञेयवस्तुनः ॥ १.७१॥
सगुणं निर्गुणं ताभ्याम् अन्यन्निष्प्रतियोगिकम् ।
ब्रह्मैवं त्रिविधं लिन्गैर्वेदान्तेषु हि विश्रुतम् ॥ १.७२॥
तत्राद्यं हेयगुणकं सोपाधित्वान्मुमुक्षुभिः ।
तत्त्वमस्यादिवाच्यत्वाज्ज्ञेयं हेयतयाग्रतः ॥ १.७३॥
जीवेश्वरविभागेन सगुणं द्विविधं भवेत् ।
जीवश्च त्रिविधस्तद्वद् ईशश्चास्ताम् इदं तथा ॥ १.७४॥
उपादेयं द्वितीयं स्यान्निर्गुणं मोक्षकांक्षिभिः ।
तत्त्वमस्यादिलक्ष्यत्वाज्ज्ञेयं चात्मतया ततः ॥ १.७५॥
हेयोपादेयशून्यं तत्तृतीयं प्रकृतं यतः ।
मुक्तैः प्राप्यम् अतश्शब्दमपि ज्ञेयं मुमुक्षुभिः ॥ १.७६॥
इदन्त्वेनाप्यहन्त्वेन स्वत्वेनापि नवेद्यता ।
तथाप्यस्यास्ति वेद्यत्वं श्रुत्युक्तत्वान्न नास्तिता ॥ १.७७॥
मुक्तस्य स्वगतो भेदो यदनाप्तौ न नश्यति ।
तज्ज्ञाने फलमेतत्स्यात् सर्वभेदनिबर्हणम् ॥ १.७८॥
अतोऽस्यालक्षणत्वेन सदसद्परतास्त्यपि ।
शशशृंगसमानत्वं निदाघाशक्यमीरितुम् ॥ १.७९॥
विशेषसत्ताऽभावेपि सत्तासामान्यता यतः ।
निर्द्वन्द्वत्वेन संसिद्धा ततस्सत्त्वादिकं भवेत् ॥ १.८०॥
अथवा शशशृंगादि सादृश्यं भवतु स्वतः ।
सिद्धान्तता श्रुतिप्रोक्ता नैराश्यस्य हि सुव्रत ॥ १.८१॥
न तावता विरोधोस्ति कश्चिदप्यधुना तव ।
संसारमोक्षसिद्ध्यर्थम् अस्यानुक्ततया मया ॥ १.८२॥
॥ इति श्री गुरुज्ञानवासिष्ठे तत्त्वनारायणे
ज्ञानकाण्डस्य प्रथमपादे तृतीयोऽध्यायः एवं
श्री ऋभुगीता प्रथमोऽध्यायः समाप्तः ॥
द्वितीयोऽध्यायः ।
अथातस्सम्प्रवक्ष्यामि निदाघ शृणु सादरम् ।
संसारमोक्षसिद्ध्यर्थं सरूपं ब्रह्म निर्गुणम् ॥ २.०१ ॥
तत्त्वमस्यादिवाक्यैर्यल्लक्ष्यं जीवादिकारणम् ।
नित्यशुद्धविबुद्धं च नित्यमुक्तं च शाश्वतम् ॥ २.०२ ॥
यत्सर्ववेदसिद्धान्तं यज्ज्ञानेनैव मुक्तता ।
जीवस्य यच्च सम्पूर्णं तत्त्वमेवासि निर्मलम् ॥ २.०३ ॥
त्वमेव परमात्मासि त्वमेव परमोगुरुः ।
त्वमेवाकाशरूपोसि साक्षिहीनोसि सर्वदा ॥ २.०४ ॥
त्वमेव सर्वभावोसि त्वं ब्रह्मासि नसंशयः ।
कालहीनोसि कालोसि सदा ब्रह्मासि चिद्घनः ॥ २.०५ ॥
सर्वतस्सर्वरूपोसि चैतन्यघनवानसि ।
सर्वभूतान्तरस्थोसि कर्माध्यक्षोसि निर्गुणः ॥ २.०६ ॥
सत्योसि सिद्धोसि सनातनोसि मुक्तोसि मोक्षोसि मुदाऽमृतोसि ।
देवोसि शान्तोसि निरामयोसि ब्रह्मासि पूर्णोसि परात्परोसि ॥ २.०७ ॥
समोसि सच्चसि चिरन्तनोसि सत्यादिवक्यैः प्रतिबोधितोसि ।
सर्वाङ्गहीनोसि सदास्थितोसि ब्रह्मेन्द्ररुद्रादिविभावितोसि ॥ २.०८ ॥
सर्वप्रपंचभ्रमवर्जितोसि सर्वेषु भूतेषु च भावितोसि ।
सर्वत्र सङ्कल्पविवर्जितोसि सर्वागमान्तार्थविभावितोसि ॥ २.०९ ॥
सर्वत्र सन्तोषसुखासनोसि सर्वत्र गत्यादिविवर्जितोसि ।
सर्वत्र लक्ष्यादि विवर्जितोसि ध्यातोसि विष्ण्वादिसुरैरजस्रम् ॥ २.१० ॥
चिदाकार स्वरूपोसि चिन्मात्रोसि निरङ्कुशः ।
आत्मन्येव स्थितोसि त्वं सर्वशून्योसि निश्चलः ॥ २.११ ॥
आनन्दोसि परोसि त्वमेकमेवाद्वितीयकः ।
चिद्घनानन्दरूपोसि परिपूर्णस्वरूपकः ॥ २.१२ ॥
सदसि त्वमभिज्ञोसि सोसि जानासि वीक्ष्यसि ।
सच्चिदानन्दरूपोसि वासुदेवोसि वै प्रभुः ॥ २.१३ ॥
अमृतोसि विभुश्चसि चञ्चलोस्यचलोह्यसि ।
सर्वोसि सर्वहीनोसि शान्ताशान्तविवर्जितः ॥ २.१४ ॥
सत्तामात्रप्रकाशोसि सत्तासामान्यकोह्यसि ।
नित्यसिद्धस्वरूपोसि सर्वसिद्धिविवर्जितः ॥ २.१५ ॥
ईषण्मात्रविशून्योसि ह्यणुमात्रविवर्जितः ।
अस्तित्ववर्जितोसि त्वं नास्तित्वादिविवर्जितः ॥ २.१६ ॥
लक्ष्यलक्षणहीनोसि निर्विकारो निरामयः ।
सर्वनादान्तरोसि त्वं कलाकाष्ठादिवर्जितः ॥ २.१७ ॥
ब्रह्मविष्ण्वीशहीनोसि स्वस्वरूपं प्रपश्यसि ।
स्वस्वरूपावशेषोसि स्वानन्दाब्धौ निमज्जसि ॥ २.१८ ॥
स्वात्मराज्ये स्वमेवासि स्वयंभावविवर्जितः ।
शिष्टपूर्णस्वरूपोसि स्वस्मात्किञ्चिन्नपश्यसि ॥ २.१९ ॥
स्वस्वरूपान्नचलसि स्वस्वरूपेण जृंभसि ।
स्वस्वरूपादनन्योसि ह्यहमेवासि निश्चिनु ॥ २.२० ॥
इदं प्रपञ्चं यत्किञ्चिद्यद्यज्जगति विद्यते ।
दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत् ॥ २.२१ ॥
लक्ष्यलक्षणहीनत्वाद्युक्त्यानिष्प्रतियोगिकम् ।
न मन्तव्यं यथायोग्यं लौकिकैस्त्वं विनिश्चिनु ॥ २.२२ ॥
निर्गुणं निर्मलं शान्तं ब्रह्मसप्रतियोगिकम् ।
शुद्धान्तःकरणज्ञेयं वेदोक्तं प्रकृतं खलु ॥ २.२३ ॥
आत्मस्त्वं सच्चिदानन्दलक्ष्णैर्लक्ष्यमद्वयम् ।
ब्रह्मैवास्मि न देहोऽयमिति चित्तेऽवधारय ॥ २.२४ ॥
देहोऽहमिति सङ्कल्पस्तदन्तःकरणं स्मृतम् ।
देहोऽहमिति सङ्कल्पो महान् संसार उच्यते ॥ २.२५ ॥
देहोऽहमिति सङ्कल्पस्तद्बन्ध इति चोच्यते ।
देहोऽहमिति सङ्कल्पस्तद्दुःखमिति चोचय्ते ॥ २.२६ ॥
देहोऽहमिति यज्ज्ञानं तदेव नरकं स्मृतम् ।
देहोऽहमिति सङ्कल्पो जगत्सर्वं समीर्यते ॥ २.२७ ॥
देहोऽहमिति सङ्कल्पो हृदयग्रन्धिरीरितः ।
देहोऽहमिति यज्ज्ञानं तदसज्ज्ञानमेवच ॥ २.२८ ॥
देहोऽहमिति यद्बुद्धिः सा चाविद्येति भण्यते ।
देहोऽहमिति यज्ज्ञानं तदेव द्वैतमुच्यते ॥ २.२९ ॥
देहोऽहमिति सङ्कल्पस्सत्यजीवस्स एव च ।
देहोऽहमिति यज्ज्ञानं परिच्छिन्नमितीरितम् ॥ २.३० ॥
देहोऽहमिति सङ्कल्पो महापापमिति स्फुटम् ।
देहोऽहमिति या बुद्धिस्तृष्णादोषाऽऽमयः किल ॥ २.३१ ॥
यत्किञ्चिदपि सङ्कल्पस्तापत्रयमितीरितम् ।
तच्च सर्वं मनुष्याणां मानसं हि निगद्यते ॥ २.३२ ॥
कामं क्रोधं बन्धनं सर्वदुःखं विश्वं दोषं कालनानास्वरूपम् ।
यत्किञ्चेदं सर्वसङ्कल्पजातं तत्किञ्चेदं मानसं सोम्य विद्धि ॥ २.३३ ॥
मन एव जगत्सर्वं मन एव महारिपुः ।
मन एव हि संसारो मन एव जगत्त्रयम् ॥ २.३४ ॥
मन एव महद्दुःखं मन एव जरादिकम् ।
मन एव हि कालश्च मन एव मलं तथा ॥ २.३५ ॥
मन एव हि सङ्कल्पो मन एव च जीवकः ।
मन एव हि चित्तं च मनोऽहङ्कार एव च ॥ २.३६ ॥
मन एव महान् बन्धो मनोऽन्तःकरणं च तत् ।
मन एव हि भूमिश्च मन एव हि तज्जलम् ॥ २.३७ ॥
मन एव हि तेजश्च मन एव मरुन्महान् ।
मन एव हि चकाशो मन एव हि शब्दकः ॥ २.३८ ॥
स्पर्शरूपरसा गन्धः कोशाः पञ्च मनोभवाः ।
जाग्रत्स्वप्नसुषुप्त्यादि मनोमयमितीरितम् ॥ २.३९ ॥
दिक्पाला वसवो रुद्रा आदित्याश्च मनोमयाः ।
दृश्यं बन्धं द्वन्द्वजातमज्ञानं मानसं स्मृतम् ॥ २.४० ॥
सङ्कल्पमेव यत्किञ्चित्तत्तन्नास्तीति निश्चिनु ।
नास्ति नास्ति जगत्सर्वं गुरुशिष्यादिकं निहि ॥ २.४१ ॥
व्यवहारदशायां हि गुरुशिष्यादिकं भवेत् ।
परमार्थदशायां तत् कथं मुक्तौ प्रसिद्ध्यति ॥ २.४२ ॥
मुक्त्यतीत दशायां च प्रोच्यते परमार्थता ।
तथाप्यसत्यहंतृत्वान्मुक्तेरेवास्ति मुख्ययाः ॥ २.४३ ॥
मनसा कल्पितं सर्वं मनसा परिपालितम् ।
मनसा संस्मृतं तस्मान्मन एवास्ति कारणम् ॥ २.४४ ॥
मनसा संस्मृतं सर्वं मनसैव च विस्मृतम् ।
मनसा भावितं सर्वं मनसैव ह्यभावितं ॥ २.४५ ॥
मनसा दूषितं सर्वं मनसैव च भूषितम् ।
मनसा सुखवृत्तिस्स्यान्मनसा दुःखसञ्चयः ॥ २.४६ ॥
तस्मात्सर्वनिदानं तन्मनस्सूक्ष्मं परात्मनि ।
त्वयि सच्चित्सुखांबोधौ कल्पितं विद्धि मायया ॥ २.४७ ॥
त्वदन्यस्य च सर्वस्य कल्पितत्वादबोधतः ।
त्वमेव सर्वसाक्षी सन् स्वयं भासि निरन्तरम् ॥ २.४८ ॥
तव बोधस्वरूपत्वात् त्वय्यबोधस्य का गतिः ।
मन्दबुद्ध्या गतौ सत्यामपि नाशस्स्वयं भवेत् ॥ २.४९ ॥
नित्यबोधस्वरूपस्त्वं ह्यबोधप्रतियोगिकः ।
त्वयि तत्सन्निवर्तेत तमस्सूर्योदये यथा ॥ २.५० ॥
ज्ञातृज्ञानेप्रकल्प्येते यत्र ज्ञेयेऽद्वये त्वयि ।
तस्याखण्डस्वरूपत्वात् सर्वाधिष्ठानतोचिता ॥ २.५१ ॥
मुमुक्षुभिश्च विज्ञेयास्स्वधर्मास्सच्चिदादयः ।
सन्मयश्चिन्मयश्चत्मा तथानन्दमयो यतः ॥ २.५२ ॥
चिद्रूपस्य तवात्मत्वादनात्मानस्त्वचिन्मयाः ।
अनात्मनां विकारित्वान्निर्विकारस्त्वमिष्यसे ॥ २.५३ ॥
विकारस्य समस्तस्याप्यविद्याकल्पितत्वतः ।
विलये निर्विकारस्त्वं विद्यावानवशिष्यसे ॥ २.५४ ॥
बृहद् ब्रह्मावशेषो हि नाशः कल्पितवस्तुनः ।
यच्छेषास्स्युरिमे सर्वे स शेषी नित्यतां व्रजेत् ॥ २.५५ ॥
शेषस्य शेष्यनन्यत्वं वास्तवं सर्वसम्मतम् ।
शेषिणस्तु तवान्यत्वान्न शेषस्यास्ति नित्यता ॥ २.५६ ॥
शेषिणश्शेषसापेक्ष्यान्न स्वातन्त्र्येण शेषिता ।
इति वक्तुं न शक्यं हि स्वमहिम्नि स्थितत्वतः ॥ २.५७ ॥
स्वस्यैष महिमा सर्वव्यापकत्वादिलक्षणः ।
सर्वशृत्यादि संसिद्धः काभीर्हीयेत युक्तिभिः ॥ २.५८ ॥
व्याप्यसापेक्षता तस्य व्यापकस्येतिचेच्छृणु ।
व्याप्यानपेक्षं सिद्धिर्हि व्यापकस्य निजाश्रयात् ॥ २.५९ ॥
व्याप्यस्यैव हि जीवस्य विकारापेक्षया तथा ।
व्यापकापेक्षया च स्यात् स्थितिर्न व्यापकस्यतु ॥ २.६० ॥
विकारालंबनाभावात्स्वालंबनतयापि च ।
सर्वालंबनता सिद्धा न स्वहानेश्च सङ्गतिः ॥ २.६१ ॥
सर्वाधारस्य नाधारोऽपेक्ष्यतेपि क्वचिद्विभोः ।
स चेदाधारसापेक्षो न सर्वाधारतां व्रजेत् ॥ २.६२ ॥
सर्वाधारस्य च व्योम्नो यथात्माधार इष्यते ।
तथात्मनोपि कश्चित्स्यादिति चेद्बाढमुच्यते ॥ २.६३ ॥
आत्मैवात्मन आधार आत्मन्येवात्मनस्स्थितेः ।
अनात्मनो यथाऽनात्मा कश्चिदेवास्ति चश्रयः ॥ २.६४ ॥
आत्मनोऽपि तु नानात्वे स्यादनात्माविशेषता ।
इति चेन्नैष भेदो हि विकारावाश्रयो भवेत् ॥ २.६५ ॥
यथा भवति देहस्य प्राण एवाश्रयः पुनः ।
प्राणस्य चश्रयो देहस्तथात्माऽनात्मनोरपि ॥ २.६६ ॥
अन्योन्याश्रयता प्राप्ता तथा नाशो द्वयोरपि ।
इति चेदुक्तमेवैतदात्मा हि स्वाश्रयो मतः ॥ २.६७ ॥
आश्रयाश्रयि वार्ता च व्यवहारे निगद्यते ।
परमार्थदशायां तु स्वस्मादन्यन्नविद्यते ॥ २.६८ ॥
आत्मनस्स्वगतो भेदो योस्मिन्नभ्युपगम्यते ।
स किं नित्योस्त्यनित्योवेत्येवं प्रश्ने तु कथ्यते ॥ २.६९ ॥
लब्धात्मसम्यग्बोधस्य तव यावदिहस्थितिः ।
तावत्तस्याविनाशित्वान्नित्य एवेति निर्णयः ॥ २.७० ॥
पश्चदनित्यतायाश्च तव प्रष्टुरभावतः ।
स्वभेदानित्यवार्ताया नावकाशोऽत्र विद्यते ॥ २.७१ ॥
आत्मा स किं भवेद्द्रष्टा दृश्यो वा किन्नु दर्शनम् ।
द्रष्टृत्वे सति जीवत्वात्संसारित्वं प्रसज्यते ॥ २.७२ ॥
दृश्यत्वे तु घटादीनामिवस्याद्विषयात्मता ।
दर्शनत्वे तु वृत्तित्वाज्जाड्यमेव प्रसज्यते ॥ २.७३ ॥
असंसारी परात्माऽसौ स्वयं निर्विषयस्तथा ।
चैतन्यरूप इत्येतद्व्यर्थमेवेति चेच्छृणु ॥ २.७४ ॥
द्रष्टृत्वं तस्य विद्ध्येवं जीवेशादीक्षितृत्वतः ।
दृश्यत्वं च तथा विद्धि मुक्तैर्द्रष्टृत्वतस्स्वतः ॥ २.७५ ॥
दर्शनत्वं च साक्षित्वाद्दृग्रूपत्वाच्च तस्य वै ।
संसारित्वादयो दोषाः प्रसज्यन्ते न तत्र वै ॥ २.७६ ॥
असंसारिणमात्मानं संसार्यात्मा यदि स्वयं ।
पश्येत्तदाक्षिरोगी सम्प्रपश्येच्च निरङ्कुशम् ॥ २.७७ ॥
असम्भवानि सर्वाणि संभवेयुश्च वैदिकाः ।
सिद्धान्तानियमापेतास्स्वेच्छाव्याहार संभवात् ॥ २.७८ ॥
इति चेन्नैव दोषोऽस्ति संसारस्यापवादतः ।
विशुद्धसत्वसम्पन्नस्संसारी निर्मलो हि सः ॥ २.७९ ॥
यदि जीवस्य संसारस्स्वतस्सिद्धस्तथाऽखिलाः ।
उक्त दोषाः प्रसज्येरन्नज्ञानाद्ध्यागतो न ते ॥ २.८० ॥
जीवस्य यदि संसारो ब्रह्मणस्तदभावतः ।
ब्रह्मात्मत्वोपदेशोऽयमयुक्त इति चेच्छृणु ॥ २.८१ ॥
उक्तजीवैकदेशस्य ह्यसंसारित्वमन्वहम् ।
ततस्तत्त्वोपदेशेस्मिन् निदाघास्त्यनवद्यता ॥ २.८२ ॥
तस्मात्सर्वगतं सत्यसुखबोधैकलक्षणम् ।
ब्रह्मास्मीति विजानीहि केवलं त्वमसंशयम् ॥ २.८३ ॥
मुक्त्यै ज्ञेयं च तद् ब्रह्म सच्चिदानन्दलक्षणम् ।
नत्वलक्षणमन्यत्स्यादिति चोक्तं न विस्मर ॥ २.८४ ॥
॥ इति श्री गुरुज्ञानवासिष्ठे तत्त्वनारायणे
ज्ञानकाण्डस्य प्रथमपादे चतुर्थोऽध्यायः एवं
श्री ऋभुगीता द्वितीयोऽध्यायः समाप्तः ॥
तृतीयोऽध्यायः ।
पुनर्ज्ञानं प्रवक्ष्यामि निदाघ शृणु सादरम् ।
ब्रह्मणोऽति दुरूहत्वादसकृच्छ्राव्यमेव तत् ॥ ३.०१ ॥
सर्वं चिन्मयं विद्धि सर्वं सच्चिन्मयं ततम् ।
सच्चिदानन्दमद्वैतं सच्चिदानन्दमव्ययम् ॥ ३.०२ ॥
सच्चिदानन्दमात्रं हि सच्चिदानन्दमन्यकम् ।
सच्चिदानन्दरूपोऽहं सच्चिदानन्दमेव खम् ॥ ३.०३ ॥
सच्चिदानन्दमेव त्वं सच्चिदानन्दकोऽस्म्यहम् ।
मनोबुद्धिरहङ्कारचित्तसङ्घातका अमी ॥ ३.०४ ॥
न त्वं नाहं नचन्यद्वा सर्वं ब्रह्मैव केवलम् ।
न वाक्यं न पदं वेदं नाक्षरं न जडं क्वचित् ॥ ३.०५ ॥
न मध्यं नादि नान्तं वा न सत्यं न निबन्धनम् ।
न दुःखं न सुखं भावं न माया प्रकृतिस्तथा ॥ ३.०६ ॥
न देहं न मुखं घ्राणं न जिह्वा न च तालुनी ।
न दन्तोष्ठौ ललाटं च निश्वासोच्छ्वास एव च ॥ ३.०७ ॥
न स्वेदमस्थिमासं च न रक्तं न च मूत्रकम् ।
न दूरं नान्तिकं नाहं नोदरं न किरीटकम् ॥ ३.०८ ॥
न हस्तपादचलनं न शास्त्रं न च शासनम् ।
न वेत्ता वेदनं वेद्यं न जाग्रत्स्वप्नसुप्तयः ॥ ३.०९ ॥
तुर्यातीतं न मे किञ्चित्सर्वं सच्चिन्मयं ततम् ।
नाध्यात्मिकं नाधिभूतं नाधिदैवं न मायिकम् ॥ ३.१० ॥
न विश्वस्तैजसः प्राज्ञः विराट्सूत्रात्मकेश्वराः ।
न गमागमचेष्टा च न नष्ष्टं न प्रयोजनम् ॥ ३.११ ॥
त्याज्यं ग्राह्यं न दूष्यं वा ह्यमेध्यं मेध्यकं तथा ।
न पीनं न कृशं क्लेदं न कालं देशभाषणम् ॥ ३.१२ ॥
न सर्वं न भयं चैतन्न वृक्षतृणपर्वताः ।
न ध्यानं योगसंसिद्धिर्नब्रह्मक्षत्रवैश्यकम् ॥ ३.१३ ॥
न पक्षी न मृगो नागी न लोभो मोह एव च ।
न मदो न च मात्सर्यं कामक्रोधादयस्तथा ॥ ३.१४ ॥
न स्त्रीशूद्रबिडालादि भक्ष्यभोज्यादिकं च यत् ।
न प्रौढहीननास्तिक्यं न वार्तावसरोस्ति हि ॥ ३.१५ ॥
न लौकिको न लोकोवा न व्यापारो न मूढता ।
न भोक्ता भोजनं भोज्यं मातृमानं न मेयकम् ॥ ३.१६॥
न शत्रुमित्रपुत्रादि न माता न पिता स्वसा।
न जन्म न मृतिर्वृद्धिर्न देहोऽहमिति भ्रमः ॥ ३.१७ ॥
न शून्यं नापि चशून्यं नान्तःकरणसंस्मृतिः ।
न रात्रिर्नदिवा नक्तं न ब्रह्मा न हरिश्शिवः ॥ ३.१८ ॥
न वारपक्षमासादि वत्सरं न च चञ्चलम् ।
न ब्रह्मलोको वैकुण्ठो न कैलासो न चन्यकः ॥ ३.१९ ॥
न स्वर्गो न च देवेन्द्रो नाग्निलोको न चग्निकः ।
न यमो न यमलोको वा न लोका लोकपालकाः ॥ ३.२० ॥
न भूर्भुवस्स्वस्त्रैलोक्यं न पाताळं न भूतलं ।
नाविद्या न च विद्या च न माया प्रकृतिर्न च ॥ ३.२१ ॥
न स्थिरं क्षणिकं नाशो न गतिर्न च धावनम् ।
न ध्यातव्यं न मे स्नानं न मन्त्रो न जपः क्वचित् ॥ ३.२२ ॥
न पदार्थं न पूजार्हं नाभिषेकं न चर्चनं ।
न पुष्पं न फलं पत्रं गन्धपुष्पादिधूपकम् ॥ ३.२३ ॥
न स्तोत्रं न नमस्कारो न प्रदक्षिणमण्वपि ।
न प्रार्थना पृथग्भावो न हविर्नास्ति वन्दनम् ॥ ३.२४ ॥
न होमो न च कर्माणि न दुर्वाक्यं सुभाषणम् ।
न गायत्री न वा सन्धिर्न मनस्यं न दुःस्थितिः ॥ ३.२५ ॥
न दुराशा न दुष्टात्मा न चण्डालो न पौल्कसः ।
न दुस्सहं दुरालापं न किरातो न कैतवम् ॥ ३.२६ ॥
न पक्षपातं पक्षं वा न विभूषणतस्करौ ।
न च डंभो डांभिको वा न हीनो नाधिको नरः ॥ ३.२७ ॥
नैकं द्वयं त्रयं तुर्यं न महत्वं न चल्पता ।
न पूर्णं न परिच्छिन्नं न काशी न व्रतं तपः ॥ ३.२८ ॥
न गोत्रं न कुलं सूत्रं न विभुत्वं न शून्यता ।
न स्त्रीर्न योषिन्नो वृद्धा न कन्या न वितन्तुका ॥ ३.२९ ॥
न सूतकं न जातं वा नान्तर्मुखसुविभ्रमः ।
न महावाक्यमैक्यं वा नाणिमादिविभूतयः ॥ ३.३० ॥
एवं सलक्षणं ब्रह्म व्यतिरेकमुखेन वै ।
निदाघ त्वं विजानीहि ब्रह्मेतरनिषेधतः ॥ ३.३१ ॥
ब्रह्मणः प्रकृतस्यात्र द्विविधं प्रतिपादनं ।
असन्निषेधरूपं सद्विधिरूपं च तत्र तु ॥ ३.३२ ॥
आत्मा निषेधरूपेण तुभ्यं सम्प्रतिपादितः ।
अथाद्य विधिरूपेण शृणु सम्प्रतिपाद्यते ॥ ३.३३ ॥
सर्वं चैतन्यमात्रत्वात्सर्वदोषस्सदानहि ।
सर्वं सन्मात्ररूपत्वात्सच्चिदानन्दरूपकम् ॥ ३.३४ ॥
ब्रह्मैव सर्वं नान्योऽस्मि तदहं तदहं तथा ।
तदेवाहं तदेवाहं ब्रह्मैवाहं सनातनम् ॥ ३.३५ ॥
ब्रह्मैवाहं न संसारी ब्रह्मैवाहं न मे मनः ।
ब्रह्मैवाहं न मे सिद्धिर्ब्रह्मैवाहं न चेन्द्रियम् ॥ ३.३६ ॥
ब्रह्मैवाहं न देहोऽहं ब्रह्मैवाहं न गोचरः ।
ब्रह्मैवाहं न जीवोऽहं ब्रह्मैवाहं न भेद भूः ॥ ३.३७ ॥
ब्रह्मैवाहं जडो नाहमहं ब्रह्म न मे मृतिः ।
ब्रह्मैवाहं न च प्राणो ब्रह्मैवाहं परात्परम् ॥ ३.३८ ॥
इदं ब्रह्म परं ब्रह्म सत्यं ब्रह्म प्रभुर्हि सः ।
कालो ब्रह्म कला ब्रह्म सुखं ब्रह्म स्वयंप्रभम् ॥ ३.३९ ॥
एकं ब्रह्म द्वयं ब्रह्म मोहो ब्रह्म शमादिकम् ।
दोषो ब्रह्म गुणो ब्रह्म दिशश्शान्तर्विभुः प्रभुः ॥ ३.४० ॥
लोका ब्रह्म गुरुर्ब्रह्म शिष्यो ब्रह्म सदाशिवः ।
पूर्वं ब्रह्म परं ब्रह्म शुद्धं ब्रह्म शुभाशुभम् ॥ ३.४१ ॥
जीव एव सदा ब्रह्म सच्चिदानन्दमस्म्यहम् ।
सर्वं ब्रह्ममयं प्रोक्तं सर्वं ब्रह्ममयं जगत् ॥ ३.४२ ॥
स्वयं ब्रह्म न सन्देहः स्वस्मादन्यन्न किञ्चन ।
सर्वमात्मैव शुद्धात्मा सर्वं चिन्मात्रमव्ययम् ॥ ३.४३ ॥
नित्यनिर्मलरूपात्मा ह्यात्मनोन्यन्न किञ्चन ।
अणुमात्रलसद्रूपमणुमात्रमिदं जगत् ॥ ३.४४ ॥
अणुमात्रं शरीरं वा ह्यणुमात्रमसत्यकम् ।
अणुमात्रं मनश्चित्तमणुमत्राप्यहङ्कृतिः ॥ ३.४५ ॥
अणुमात्रा च बुद्धिश्च ह्यणुमात्रोऽपि जीवकम् ।
अणुमात्रमिदं चित्तं सर्वमप्यणुमात्रकम् ॥ ३.४६ ॥
ब्रह्मैव सर्वं चिन्मात्रं ब्रह्ममात्रं जगत्त्रयम् ।
आनन्दं परमानन्दमन्यत्किञ्चिन्नकिञ्चन ॥ ३.४७ ॥
चैतन्यमात्रमोङ्कारं ब्रह्मैव भवति स्वयम् ।
अहमेव जगत्सर्वमहमेव परंपदम् ॥ ३.४८ ॥
अहमेव गुणातीतोस्म्यहमेव परात्परः ।
अहमेव परंब्रह्म ह्यहमेव गुरोर्गुरुः ॥ ३.४९ ॥
अहमेवाखिलाधारोस्म्यहमेव सुखात्सुखम् ।
आत्मनोन्यज्जगन्नास्ति ह्यात्मनोन्यत्सुखं न च ॥ ३.५० ॥
आत्मनोन्या गतिर्नास्ति सर्वमात्ममयं जगत् ।
आत्मनोन्यन्नहि क्वापि आतमनोन्यत्तृणं न हि ॥ ३.५१ ॥
आत्मनोन्यत्तुषं नास्ति सर्वमात्ममयं जगत् ।
ब्रह्ममात्रमिदं सर्वं ब्रह्ममात्रमसन्न हि ॥ ३.५२ ॥
ब्रह्ममात्रमिदं सर्वं स्वयं ब्रह्मैव केवलम् ।
ब्रह्ममात्रं व्रतं सर्वं ब्रह्ममात्रं रसं सुखम् ॥ ३.५३ ॥
ब्रह्ममात्रं चिदाकाशं सच्चिदानन्दमद्वयंम् ।
ब्रह्मणोन्यतरं नास्ति ब्रह्मणोन्यन्न किञ्चन ॥ ३.५४ ॥
ब्रह्मणोन्यदहं नास्ति ब्रह्मणोन्यत्फलं नहि ।
ब्रह्मणोन्यत्पदं नास्ति ब्रह्मणोन्यत्पदं नहि ॥ ३.५५ ॥
ब्रह्मणोन्यद्गुरुर्नास्ति ब्रह्मणोन्यदसद्वपुः ।
ब्रह्मणोन्यन्नचहन्ता त्वत्तेदं तेन हि क्वचित् ॥ ३.५६ ॥
स्वयं ब्रह्मात्मकं विद्धि स्वस्मादन्यन्नकिञ्चन ।
यत्किञ्चिद्दृश्यते लोके यत्किञ्चिद्भाष्यते जनैः ॥ ३.५७ ॥
यत्किञ्चित्क्रियते नित्यं यत्किञ्चिद्गम्यते जनैः ।
यत्किञ्चिद्भुज्यते क्वापि तत्सर्वमसदेव हि ॥ ३.५८ ॥
कर्तृभेदं क्रियाभेदं गुणभेदं रसादिकम् ।
लिङ्गभेदमिदं सर्वमसदेव सदा सुखम् ॥ ३.५९ ॥
कालभेदं देशभेदं वस्तुभेदं जयाजयम् ।
यद्यद्भेदं च तत्सर्वमसदेवहि केवलम् ॥ ३.६० ॥
असदन्तःकरणमसदेवेन्द्रियादिकम् ।
असत्प्राणादिकं सर्वं सङ्घातमसदात्मकम् ॥ ३.६१ ॥
असत्यं पञ्चकोशाख्यमसत्याः पञ्चदेवताः ।
असत्यं षड्विकारादि ह्यसत्यमरिवर्गकम् ॥३.६२ ॥
असत्यष्षदृतुश्चैव ह्यसत्यष्षड्रसस्सदा ।
सप्तर्षयोप्यसत्यास्तेप्यसत्यास्सप्तसागराः ॥ ३.६३ ॥
सच्चिदानन्दमात्रोहमनुत्पन्नमिदं जगत् ।
आत्मैवाहं परंसत्यो नान्यास्संसारदृष्टयः ॥ ३.६४ ॥
सत्यमानन्दरूपोहं चिद्घनानन्दविग्रहः ।
अहमेव परानन्दोऽस्म्यहमेव परात्परः ॥ ३.६५ ॥
ज्ञानाकारमिदं सर्वं ज्ञानानन्दोहमद्वयः ।
ज्ञानप्रकाशरूपोहं ज्ञानानन्दैकविग्रहः ॥ ३.६६ ॥
येन ज्ञातमिदं ज्ञानमज्ञानध्वान्तनाशकः ।
ज्ञानेनाज्ञाननाशेन स हि ज्ञानी समीर्यते ॥३.६७ ॥
ज्ञानं यथा द्विधा प्रोक्तं स्वरूपं वृत्तिरित्यपि ।
अज्ञानं च तथा विद्धि मूलं च प्रतिबन्ध्कम् ॥ ३.६८ ॥
यथा ज्ञानं विना लोके किञ्चिदेव न सिद्ध्यति ।
तथा ज्ञानं विना लोके क्वचिन्मुक्तिर्न सिद्ध्यति ॥ ३.६९ ॥
ज्ञानद्वयं तथाऽज्ञानद्वयमप्यत्रवर्ष्मणि ।
सर्वदा भान्ति जीवानं ज्ञानाज्ञानोक्तिदर्शनात् ॥ ३.७० ॥
ज्ञानस्य क्व तिरोभावो ज्ञानस्याविर्भवस्तथा ।
दृष्टस्सर्वत्र लोकेस्मिन् दुर्लभोहि विपर्ययः ॥ ३.७१ ॥
ज्ञानं सर्वान्तरं भाति कूटस्थात्मस्वरूपकम् ।
प्रज्ञामात्रमिदं सूक्ष्मं कोऽपि जानाति पुण्यकृत् ॥ ३.७२ ॥
प्रज्ञायां कल्पितां प्रज्ञां प्रज्ञयैव विहाय यः ।
प्रज्ञामात्रेण सन्तिष्टेत् स प्रज्ञावानितीर्यते ॥ ३.७३ ॥
बहिः प्रज्ञां सदोत्सृज्याप्यन्तः प्रज्ञां च यो बुधः ।
कयापि प्रज्ञयोपेतः प्रज्ञावानिति कथ्यते ॥ ३.७४ ॥
प्रज्ञैव यस्य नेत्रं स्यत् प्रज्ञैव श्रोत्रमिन्द्रियम् ।
अन्यच्च सर्वं प्रज्ञैव स प्राज्ञः पुरुषोत्तमः ॥ ३.७५ ॥
प्रज्ञया जायते सर्वं प्रज्ञया पाल्यतेऽखिलम् ।
प्रज्ञया क्षीयते सर्वं तस्मात्प्रज्ञां समाश्रय ॥ ३.७६ ॥
प्रज्ञाहीनमसत्सर्वं प्रज्ञाहीनं जडं खलु ।
प्रज्ञाहीनं सदा दुःखं तस्मात्प्रज्ञां समाश्रय ॥ ३.७७ ॥
न विना प्रज्ञया पुण्यं न लोकः प्रज्ञया विना ।
विना न प्रज्ञयाऽभीष्टं तस्मात्प्रज्ञां समाश्रय ॥ ३.७८ ॥
सुसूक्ष्मया धिया प्रज्ञामिमां तां ज्ञप्तिसञ्ज्ञिकाम् ।
ज्ञात्वा भवभवान्मुक्तो निर्गुणब्रह्मरूपिणीम् ॥ ३.७९ ॥
जाग्रदाद्यास्ववस्थासु या ज्ञप्तिस्त्रिसृषु स्वयम् ।
आभासतोप्यनुस्यूता ज्ञप्तिस्सा निर्मला स्वतः ॥ ३.८० ॥
ज्ञप्तिस्सा साक्षिणी नित्या तुर्या सर्वश्रुतीरिता ।
विषयज्ञप्तिसन्त्यागात् ज्ञायते विबुधैस्स्वतः ॥ ३.८१ ॥
ज्ञप्तिरेव परंब्रह्म ज्ञप्तिरेव परं पदम् ।
ज्ञप्तिरेव परो मोक्षो ज्ञप्तिरेव परं सुखम् ॥ ३.८२ ॥
ज्ञप्तिरेव पराचार्यो ज्ञप्तिरेव परामृतम् ।
ज्ञप्तिरेव परातृप्तिर्ज्ञप्तिरेव परागतिः ॥ ३.८३ ॥
तस्मात्ज्ञप्तिं समाश्रित्य विज्ञप्तिधिषणां त्यज ।
अज्ञप्तेर्दुःखहेतुत्वात्सुखार्थीज्ञप्तिमाश्रय ॥ ३.८४ ॥
अज्ञप्ति वोषयो जीवः कूटस्थो ज्ञप्ति गोचरः ।
हेयोपादेयता सिद्धा धर्मधर्मित्वतस्तयोः ॥ ३.८५ ॥
अहंप्रत्ययशब्दाभ्यां विज्ञेयो जीवसञ्ज्ञकः ।
अस्मत्प्रत्ययशब्दाभ्यां ज्ञेयो कूटस्थसञ्ज्ञकः ॥ ३.८६ ॥
यदहं प्रत्ययी जीवस्तद्युष्मत्प्रत्ययी च सः ।
त्वमहं शब्दयोरैक्यात्तत्साक्षी प्रत्यगाह्वयः ॥ ३.८७ ॥
अस्मत्प्रत्ययिनं साक्षिचैतन्यात्मकमद्वयम् ।
कूटस्थं प्रत्यगात्मानं साक्षाद्विषयिणं परम् ॥ ३.८८ ॥
जहि ज्ञात्वा तदन्यं त्वमहंप्रत्ययिनं बहिः ।
साक्ष्यं जीवं चिदाभासं पराञ्चं विषयं स्वतः ॥ ३.८९ ॥
दृग्दृश्यभूतयोरत्र जीवात्मप्रत्यगात्मनोः ।
विवेकेन परं सौख्यं निदाघ व्रज सन्ततम् ॥ ३.९० ॥
॥ इति श्री गुरुज्ञानवासिष्ठे तत्त्वनारायणे
ज्ञानकाण्डस्य प्रथमपादे पञ्चमोऽध्यायः एवं
श्री ऋभुगीता तृतीयोऽध्यायः समाप्तः ॥
चतुर्थोऽध्यायः ।
पुनर्ज्ञानं प्रवक्ष्यामि जाग्रदादि विलक्षणम् ।
तुरीयब्रह्मरूपं तद्यद्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ ४.०१ ॥
ऊर्णनाभिर्यथातन्तून् सृजते संहरत्यपि ।
जाग्रत्स्वप्ने तथा जीवो गच्छत्यागच्छते पुनः ॥ ४.०२ ॥
नेत्रे जागरितं विद्यात्कण्ठे स्वप्नं समाविशेत् ।
सुषुप्तं हृदयस्थं तु तुरीयं मूर्ध्नि संस्थितम् ॥ ४.०३ ॥
यतो वचो निवर्तन्ते अप्राप्य मनसा सह ।
आनन्दमेतज्जीवस्य यज्ज्ञात्वा मुच्यते बुधः ॥ ४.०४ ॥
सर्वव्यापिनमात्मानं क्षीरेसर्पिरिवार्पितम् ।
आत्मविद्या तपोमूलं तद् ब्रह्मोपनिषत्पदं ॥ ४.०५ ॥
श्री गुरुमूर्तिः ।
ऋभुणोक्तमिदं श्रुत्वा निदाघस्संशयाकुलः ।
पप्रच्छ सद्गुरुं शान्तं सावधानेन चेतसा ॥ ४.०६ ॥
निदाघः ।
भगवन् भवता पूर्वं यतोवाच इति श्रुतेः ।
आनन्दो ब्रह्मणः प्रोक्तो जीवस्यत्वधुनोच्यते ॥ ४.०७ ॥
आनन्दमयसंज्ञस्य जीवस्योक्तश्च यद्यपि ।
श्रुतौ तथापि हेयत्वान्नतदीयो भवेद्धि सः ॥ ४.०८ ॥
नावाङ्मनसगम्यत्वं जीवस्य खलु युज्यते ।
नानन्दस्य च वेद्यत्ववचनाद् ब्रह्मणोहि तत् ॥ ४.०९ ॥
एवं पृष्टो मुनिश्रेष्टो निदाघेन महात्मना ।
ऋभुः प्रोवाच सर्वज्ञो ब्रह्मन् सस्मितमादरात् ॥ ४.१० ॥
ब्रह्मोक्तं जीवशब्देन ह्यवाङ्मनसगोचरम् ।
मोक्षातीतदशायां यज्जीवस्तद् ब्रह्मतां व्रजेत् ॥ ४.११ ॥
पूर्वोत्तरविरोधो वा मद्वाक्येषु न तद्भवेत् ।
श्रुत्यर्थस्योपरोधो वा सम्यगालोच्य निश्चिनु ॥ ४.१२ ॥
उपसंक्रमितव्यो यदानन्दमय उच्यते ।
वेद्यत्वं तस्यचसिद्धं पुच्छस्याविषयत्वतः ॥ ४.१३ ॥
तस्मात्स्वयं सदापूर्णः पञ्चमस्य विकारिणः ।
आत्मस्थानीय आनन्द इह वेद्य इति स्थितिः ॥ ४.१४ ॥
भृगवे वरुणेनैवं तैत्तिरीयाभिदश्रुतौ ।
पञ्चमस्य विकारित्वं न प्रोक्तमितिचेच्छृणु ॥ ४.१५ ॥
मयट्प्रयोगाभावेन हेतुना निर्विकारता ।
न शङ्क्या पूर्वपर्यायेष्वन्नादिष्वप्यदर्शनात् ॥ ४.१६ ॥
अतष्षष्टं परंब्रह्म पञ्चमेनोपलक्षितम् ।
निर्गुणं भृगवे पित्रा प्रोक्तमित्यवधारय ॥ ४.१७ ॥
प्राचुर्यार्थकतायां तु मयटो निर्विकारिणः ।
सच्चिदानन्दरूपस्य ब्रह्मणो वेद्यता भवेत् ॥ ४.१८ ॥
शारीरत्वाभिदानेन पूर्वानन्दमयस्य तु ।
विकारित्वं पुनस्स्पष्टमुपसंक्रमणेन च ॥ ४.१९ ॥
नानुकर्षश्च पुच्छस्य पूर्वपूर्वस्य दृश्यते ।
उत्तरोत्तरकोशे प्राक्तत्तदात्मानुकर्षणात् ॥ ४.२० ॥
उपसंक्रमणं चोक्तं मयडन्तस्य केवलम् ।
आनन्दस्य ततोन्यस्य न परात्मतया खलु ॥ ४.२१ ॥
ब्रह्मवित्परमाप्नोतीत्यादौ द्वैविध्यमीरितम् ।
यत्तत्सरूपारूपाभ्यां ब्रह्मणोन्ते च निश्चिनु ॥ ४.२२ ॥
आत्मस्थानीयचिद्रूपानन्दब्रह्मविदोमुने ।
प्रारब्धान्ते पुच्छभूताऽरूपब्रह्माप्तिरिष्यते ॥ ४.२३ ॥
प्रतिष्ठाशब्दगम्यत्वात्सर्वशेषित्वतोपि च ।
शास्त्रस्यारूपवद् ब्रह्मप्राधान्यं यद्यपि स्थितम् ॥ ४.२४ ॥
तथापिवेद्यताऽभावादरूपस्य मुमुक्षुभिः ।
आनन्दरूपवद् ब्रह्मप्राधान्यं मुख्यमिष्यते ॥ ४.२५ ॥
मोदप्रमोदयोश्चैवं सति वेद्यत्वमापतेत् ।
इतिचेन्नैष दोषोस्ति तयोर्ब्रह्मांशता यतः ॥ ४.२६ ॥
ब्रह्मणस्स्वगते भेदे नित्यसिद्धे मुमुक्षुवः ।
उपेक्षितुं समर्थास्स्युर्निदाघ कथमत्र ते ॥ ४.२७ ॥
स्थूलार्थदर्शिनो ये वै शुष्काद्वैतसमाश्रयाः ।
तेषां सावयवत्वादि दोषस्स्फुरतु चेतसि ॥ ४.२८ ॥
न तावता त्रिपाच्छ्रुत्याद्यनुरोधेन निश्चितम् ।
स्वभेदं विदुषां किञ्चिच्छिद्यते मुक्तजन्मनाम् ॥ ४.२९ ॥
सूक्ष्मबुद्ध्या विचरे हि स्वात्मभेदः प्रकाशते ।
अत्यन्ताभेदवार्तायां पुच्छगायां फलं किमु ॥ ४.३० ॥
एते कोशा हि पञ्चैव तिस्रोऽवस्थास्समीरिताः ।
जाग्रदाद्याः क्रमेणैतद्भेदं च शृणु सादरम् ॥ ४.३१ ॥
आद्या जागरिताऽवस्था द्वितीया स्वप्नसंज्ञिका ।
तृतीया सुप्तिरूपान्या तुरीया चित्सुखात्मिका ॥ ४.३२ ॥
आद्याभिमानी विश्वाख्यो द्वितीयस्तैजसस्स्मृतः ।
तृतीयः प्राज्ञ एतेभ्यो कूटस्थ इतरः प्रभुः ॥ ४.३३ ॥
बहिःप्रज्ञो विभुर्विश्वो ह्यन्तःप्रज्ञस्तु तैजसः ।
घनप्रज्ञस्तथा प्राज्ञ एक एव त्रिथा स्थितः ॥ ४.३४ ॥
दक्षिणाक्षिमुखे विश्वो मनस्यतन्तस्तु तैजसः ।
आकाशे च हृदि प्राज्ञस्त्रिथा देहे व्यवस्थितः ॥ ४.३५ ॥
विश्वो हि स्थूलभुङ्नित्यं तैजसः प्रविविक्तभुक् ।
आनन्दभुक्तथा प्राज्ञस्त्रिथा भोगं निबोध च ॥ ४.३६ ॥
स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम् ।
आनन्दश्च तथा प्राज्ञं त्रिथा तृप्तिं निबोध च ॥ ४.३७ ॥
त्रिषु धामसु यद्भोज्यं भोक्ता यश्च प्रकीर्तितः ।
वेदैतदुभयं यस्तु स भुञ्जानो न लिप्यते ॥ ४.३८ ॥
प्रभवस्सर्वभावानां सतामिति विनिश्चयः ।
सर्वं जनयति प्राणश्चेतोंशून्पुरुषः पृथक् ॥ ४.३९ ॥
विभूतिं प्रसवन्त्वन्ये मन्यन्ते सृष्टिचिन्तकाः ।
स्वप्नमायास्वरूपेति सृष्टिरन्यैर्विकल्पिता ॥ ४.४० ॥
इच्छामात्रं प्रभोस्सृष्टिरिति सृष्टौ विनिश्चिताः ।
कालात्प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः ॥ ४.४१ ॥
भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमितिचपरे ।
देवस्यैष स्वभावोयमाप्तकामस्य का स्पृहा ॥ ४.४२ ॥
आप्तकामस्य देवस्य तुर्यस्योक्तस्य सुव्रत ।
स्वरूपं प्रोच्यते सम्यङ्निदाघ शृणु तत्त्वतः ॥ ४.४३ ॥
नान्तःप्रज्ञं बहिःप्रज्ञं न प्रज्ञं नोभयात्मकं ।
न प्रज्ञानघनं प्रज्ञं नाप्रज्ञं न च केवलम् ॥ ४.४४ ॥
इदंत्वे नतद्ग्राह्यमदृश्यं चप्यलक्षणम् ।
अचिन्त्याव्यवहार्यं चव्यपदेशं पृथक्तया ॥ ४.४५ ॥
एकात्मप्रत्ययं सारं प्रपञ्चोपशमं शिवं ।
शान्तं चतुर्थमद्वैतं मन्यन्ते ब्रह्मवादिनः ॥ ४.४६ ॥
स आत्मा स हि विज्ञेयः सर्वैरपि मुमुक्षुभिः ।
तुर्यात्मज्ञानहीनानां न मुक्तिस्याद्कदाचन ॥ ४.४७ ॥
निवृत्तेस्सर्वदुःखानामीशानः प्रभुरव्ययः ।
अद्वैतस्सर्वभावानां देवस्तुर्यो विभुस्स्मृतः ॥ ४.४८ ॥
कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ ।
प्राज्ञः कारणबद्धस्तु द्वौ तौ तुर्ये न सिद्ध्यतः ॥ ४.४९ ॥
नात्मानं न परं चैव न सत्यं नापिचनृतं ।
प्राज्ञः किंच न संवेत्ति तुर्यं तत्सर्वदृक्सदा ॥ ४.५० ॥
द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः ।
बीजनिद्रायुतः प्राज्ञस्सा च तुर्ये न विद्यते ॥ ४.५१ ॥
स्वप्ननिद्रायुतावाद्यौ प्राज्ञस्त्वस्वप्ननिद्रया ।
न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चिताः ॥ ४.५२ ॥
अन्यथागृह्णतस्स्वप्नो निद्रा तत्त्वमजानतः ।
विपर्यासे तयोः क्षीणे तुरीयं पदमश्नुते ॥ ४.५३ ॥
अनादिमायया सुप्तो यदा जीवः प्रबुध्यते ।
अजमद्वैतमस्वप्नमनिद्रं बुध्यते तदा ॥ ४.५४ ॥
प्रपञ्चो यदि विद्येत निवर्तेत न संशयः ।
मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥ ४.५५ ॥
विकल्पो विनिवर्तेत कल्पितो यदि केनचित् ।
उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते ॥ ४.५६ ॥
निदाघः ।
भगवन् कथमद्वैतं ब्रह्मद्वैविध्यवादिनः ।
भवतोभिमतं तत्र संशयो मे भवत्यलम् ॥ ४.५७ ॥
ऋभुः ।
द्वैतप्रपञ्चशून्येस्मिन् निर्गुणे पूर्णचिद्घने ।
ब्रह्मण्यद्वैतसंसिद्धिर्यतो नान्यत्र सर्वधा ॥ ४.५८ ॥
अतस्सरूपारूपाभ्यां ब्रह्मद्वैविध्यवादिनः ।
ममैवाद्वैतवादित्वन्नारूपाद्वैतवादिनः ॥ ४.५९ ॥
द्वैताद्वैतोभयातीते व्य्वहाराद्यगोचरे ।
नीरूपे ब्रह्मणि प्राज्ञाऽद्वैतवादः कथं भवेत् ॥ ४.६० ॥
द्वैताचिद्रूपकार्यस्याद्वैतचिद्रूपकारणात् ।
निवृत्तिस्याद्यथादीपात्तमसो नत्वरूपतः ॥ ४.६१ ॥
अतो नाद्वैतसिद्धिस्यात्कथञ्चिदपि सत्तम ।
अरूपागोचरब्रह्मवादिनां तादृशे मते ॥ ४.६२ ॥
चिद्रूपब्रह्मतादात्म्यं जीवस्य हि विवक्षितम् ।
नारूपवाक्यदूरत्वात्तन्नाद्वैतमरूपिणाम् ॥ ४.६३ ॥
यद्यप्यरूपब्रह्मत्वं जीवस्यान्ते प्रसिद्ध्यति ।
तथाप्यद्वैतितां वक्तुं न शक्यं द्वन्द्वहानितः ॥ ४.६४ ॥
वाच्यवाचकहीने च लक्ष्यलक्षणवर्जिते ।
कथमद्वैतशब्दोयं सावकाशो भवेन्मुने ॥ ४.६५ ॥
निदाघः ।
देवतापुरुषाद्यैर्हि वेदशब्दैस्समीर्यते ।
तस्यौपनिषदत्वस्याव्यभिचरोस्त्यरूपिणः ॥ ४.६६ ॥
ततोस्य शब्दगम्यत्वात् प्रष्टव्यत्वं मया भवेत् ।
वाच्यत्वं च त्वयेत्यद्य मन्ये श्रीगुरुनायक ॥ ४.६७ ॥
ऋभुः ।
अरूपब्रह्मविषयाश्श्ब्दास्सन्त्येव यद्यपि ।
तेनौपनिषदत्वं च कथञ्चित्तस्य सिद्ध्यति ॥ ४.६८ ॥
तथापि प्रश्नयोग्यत्वं वाच्यत्वं वा न सिद्ध्यति ।
रूढ्यर्थमात्रवत्त्वेनालक्षकत्वादयोगतः ॥ ४.६९ ॥
योगार्थवद्भिश्शब्दैर्हि लक्षकैर्वाचकैश्च वा ।
शिष्येभ्यः प्रोच्यते सत्यंवस्तु श्रीगुरुमूर्तिभिः ॥ ४.७० ॥
अरूपवस्तुनः प्रश्नः प्रतिषिद्धश्श्रुतौ यतः ।
याज्ञवल्क्येन गार्ग्यै तन्नत्वं प्रष्टुमिहार्हसि ॥ ४.७१ ॥
तस्मात् तुरीयं सद् ब्रह्म योगवृत्त्यैव लक्षणैः ।
सच्चिदानन्दपूर्वैस्त्वं मदुक्तं विद्धि मुक्तये ॥ ४.७२ ॥
जाग्रत्यन्नमयं कोशं स्थूलदेहं च विद्धि वै ।
स्वप्ने प्रणमनोज्ञानमयास्सूक्ष्मवपुस्ततः ॥ ४.७३ ॥
सुषुप्तौ कारणं देहमानन्दमयकोशकम् ।
तुरीये त्वशरीरं तच्चिद्रूपं कोशवर्जितम् ॥ ४.७४ ॥
स एव मायापरिमोहितात्मा शरीरमास्थाय करोति सर्वम् ।
स्त्र्यन्नपानादि विचित्रभोगैस्स एव जाग्रत्परितृप्तिमेति ॥ ४.७५ ॥
स्वप्नेऽपि जीवस्सुखदुःखभोक्ता स्वमायया कल्पितविश्वलोके ।
सुषुप्तिकाले सकले विलीने तमोभिभूतस्सुखरूपमेति ॥ ४.७६ ॥
पुनश्च जन्मान्तरकर्मयोगात्स एव जीवस्स्वपितिप्रबुद्धः ।
पुरत्रये क्रीडति यस्तु जीवस्ततस्तु जातं सकलं विचित्रम् ॥ ४.७७ ॥
आधारमानन्दमखण्डबोधं यस्मिन् लयं याति पुरत्रयं च ।
यत्सर्ववेदान्तरहस्यतत्त्वं यत्पूर्णचैतन्यनिजस्वरूपं ॥ ४.७८ ॥
एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापः पृथ्वी सर्वस्य धारिणी ॥ ४.७९ ॥
यत्परंब्रह्म सर्वात्मा विश्वस्यायतनं महत् ।
सूक्ष्मात्सूक्ष्मतरं नित्यं तत्त्वमेव त्वमेव तत् ॥ ४.८० ॥
जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चं यत्प्रकाशते ।
तद् ब्रह्माहमितिज्ञात्वा सर्वबन्धैः प्रमुच्यते ॥ ४.८१ ॥
त्रिषु धामसु यद्भोज्यं भोक्ता भोगश्च यद्भवेत् ।
तेभ्यो विलक्षणस्साक्षि चिन्मात्रोहं सदाशिवः ॥ ४.८२ ॥
मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् ।
मयि सर्वं लयं याति तद् ब्रह्माद्वयमस्म्यहम् ॥ ४.८३ ॥
अणोरणीयानहमेव तद्वन्महानहं विश्वमिदं विचित्रम् ।
पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि ॥ ४.८४ ॥
अपाणिपादोऽहमचिन्त्यशक्तिः पश्याम्यचक्षुस्सश्रुणोम्यकर्णः ।
अहं विजानामि विविक्तरूपो न चस्ति वेत्ता मम चित्सदाऽहं ॥ ४.८५ ॥
वेदैरनेकैरहमेव वेद्यो वेदान्तकृद्वेदविदेवचहम् ।
न पुण्यपापे मम नास्ति नाशो न जन्मदेहेन्द्रियबुद्धिरस्ति ॥ ४.८६ ॥
न भूमिरापो मम वह्निरस्ति न चनिलोमेऽस्ति न चम्बरं च ।
एवं विदित्वा परमार्थरूपं गुहाशयं निष्कळमद्वितीयम् ॥ ४.८७ ॥
अखण्डमाद्यन्तविहीनमेकं तेजोमयानन्दघनस्वरूपम् ।
समस्तसाक्षिं सदसद्विहीनं प्रयाति शुद्धं परमार्थतत्त्वम् ॥ ४.८८ ॥
श्री गुरुमूर्तिः ।
एवं श्रुत्वा निदाघस्स ऋभुवक्त्राद्यदार्थतः ।
ब्रह्मैवाहमिति ज्ञात्वा कृतकृत्योऽभवद्विधे ॥ ४.८९ ॥
यतस्त्वं च परात्मानं श्रुतवानसि मन्मुखात् ।
त्वं च धन्यः पुनः पृच्छ श्रोतव्यान्तरमस्तिचेत् ॥ ४.९० ॥
॥ इति श्री गुरुज्ञानवासिष्ठे तत्त्वनारायणे
ज्ञानकाण्डस्य प्रथमपादे षष्ठोऽध्यायः एवं
श्री ऋभुगीताख्योऽयं ग्रन्थस्समाप्तः ॥
॥ ॐ तत्सत् ॥
॥ श्रीशिवरहस्यान्तर्गता ऋभुगीता ॥
१ ॥ प्रथमोऽध्यायः ॥
हेमाद्रिं किल मातुलुङ्गफलमित्यादाय मोदाधिको
मौढ्यान्नाकनिवासिनां भयपरैर्वाक्यैरिव प्रार्थितः ।
नीलीशाम्बरनीलमम्बरतलं जम्बूफलं भावयन्
तं मुञ्चन् गिरिमम्बरं परिमृशन् लम्बोदरः पातु माम् ॥ १.१॥
वामं यस्य वपुः समस्तजगतां माता पिता चेतरत्
यत्पादाम्बुजनूपुरोद्भवरवः शब्दार्थवाक्यास्पदम् ।
यन्नेत्रत्रितयं समस्तजगतामालोकहेतुः सदा
पायाद्दैवतसार्वभौमगिरिजालङ्कारमूर्तिः शिवः ॥ १.२॥
सूतः -
जैगीषव्यः पुनर्नत्वा षण्मुखं शिवसंभवम् ।
पप्रच्छ हृष्टस्तं तत्र मुनिभिर्गणपुङ्गवैः ॥ १.३॥
जैगीषव्यः -
करुणाकर सर्वज्ञ शरणागतपालक ।
अरुणाधिपनेत्राब्ज चरणस्मरणोन्मुख ॥ १.४॥
करुणावरुणाम्भोधे तरणिद्युतिभास्कर ।
दिव्यद्वादशलिङ्गानां महिमा संश्रुतो मया ॥ १.५॥
त्वत्तोऽन्यत् श्रोतुमिच्छामि शिवाख्यानमनुत्तमम् ।
त्वद्वाक्यकञ्जपीयूषधाराभिः पावयाशु माम् ॥ १.६॥
सूतः -
इति तस्य गिरा तुष्टः षण्मुखः प्राह तं मुनिम् ॥ १.७॥
श्रीषण्मुखः -
शृणु त्वमगजाकान्तेनोक्तं ज्ञानमहार्णवम् ।
ऋभवे यत्पुरा प्राह कैलासे शङ्करः स्वयम् ॥ १.८॥
ब्रह्मसूनुः पुरा विप्रो गत्वा नत्वा महेश्वरम् ।
ऋभुर्विभुं तदा शंभुं तुष्टाव प्रणतो मुदा ॥ १.९॥
ऋभुः -
दिवामणिनिशापतिस्फुटकृपीटयोनिस्फुर-
ल्ललाटभसितोल्लसद्वरत्रिपुण्ड्रभागोज्वलम् ।var was त्रिपुण्ट्र
भजामि भुजगाङ्गदं विधृतसामिसोमप्रभा-
विराजितकपर्दकं करटिकृत्तिभूष्यत्कटिम् ॥ १.१०॥
फालाक्षाध्वरदक्षशिक्षकवलक्षोक्षेशवाहोत्तम-
त्र्यक्षाक्षय्य फलप्रदावभसितालङ्काररुद्राक्षधृक् ।
चक्षुःश्रोत्रवराङ्गहारसुमहावक्षःस्थलाध्यक्ष मां
भक्ष्यीभूतगरप्रभक्ष भगवन् भिक्ष्वर्च्यपादाम्बुज ॥ १.११॥
गङ्गाचन्द्रकलाललाम भगवन् भूभृत्कुमारीसख
स्वामिंस्ते पदपद्मभावमतुलं कष्टापहं देहि मे ।
तुष्टोऽहं शिपिविष्टहृष्टमनसा भ्रष्टान्न मन्ये हरि-
ब्रह्मेन्द्रानमरान् त्रिविष्टपगतान् निष्ठा हि मे तादृशी ॥ १.१२॥
नृत्ताडंबरसज्जटापटलिकाभ्राम्यन्महोडुच्छटा
त्रुट्यत्सोमकलाललामकलिका शम्याकमौलीनतम् ।
उग्रानुग्रभवोग्रदुर्गजगदुद्धाराग्रपादाम्बुजं
रक्षोवक्षकुठारभूतमुमया वीक्षे सुकामप्रदम् ॥ १.१३॥
फालं मे भसितत्रिपुण्ड्ररचितं त्वत्पादपद्मानतं ??
पाहीशान दयानिधान भगवन् फालानलाक्ष प्रभो ।
कण्ठो मे शितिकण्ठनाम भवतो रुद्राक्षधृक् पाहि मां
कर्णौ मे भुजगाधिपोरुसुमहाकर्ण प्रभो पाहि माम् ॥ १.१४॥
नित्यं शङ्करनामबोधितकथासारादरं शङ्करं
वाचं रुद्रजपादरां सुमहतीं पञ्चाक्षरीमिन्दुधृक् ।
बाहू मे शशिभूषणोत्तम महालिङ्गार्चनायोद्यतौ
पाहि प्रेमरसार्द्रयाऽद्य सुदृशा शम्भो हिरण्यप्रभ ॥ १.१५॥
भास्वद्बाहुचतुष्टयोज्ज्वल सदा नेत्रे त्रिनेत्रे प्रभो
त्वल्लिङ्गोत्तमदर्शनेन सुतरां तृप्तैः सदा पाहि मे ।
पादौ मे हरिनेत्रपूजितपदद्वन्द्वाव नित्यं प्रभो
त्वल्लिङ्गालयप्रक्रमप्रणतिभिर्मान्यौ च धन्यौ विभो ॥ १.१६॥
धन्यस्त्वल्लिङ्गसङ्गेप्यनुदिनगलितानङ्गसङ्गान्तरङ्गः
पुंसामर्थैकशक्त्या यमनियमवरैर्विश्ववन्द्य प्रभो यः ।
दत्वा बिल्वदलं सदम्बुजवरं किञ्चिज्जलं वा मुहुः
प्राप्नोतीश्वरपादपङ्कजमुमानाथाद्य मुक्तिप्रदम् ॥ १.१७॥
उमारमण शङ्कर त्रिदशवन्द्य वेदेड्य हृत्
त्वदीयपरभावतो मम सदैव निर्वाणकृत् ।
भवार्णवनिवासिनां किमु भवत्पदाम्भोरुह-
प्रभावभजनादरं भवति मानसं मुक्तिदम् ॥ १.१८॥
संसारार्गलपादबद्धजनतासंमोचनं भर्ग ते
पादद्वन्द्वमुमासनाथ भजतां संसारसंभर्जकम् ।
त्वन्नामोत्तमगर्जनादघकुलं सन्तर्जितं वै भवेद्
दुःखानां परिमार्जकं तवकृपावीक्षावतां जायते ॥ १.१९॥
विधिमुण्डकरोत्तमोरुमेरुकोदण्डखण्डितपुराण्डजवाहबाण
पाहि क्षमारथविकर्षसुवेदवाजिहेषान्तहर्षितपदाम्बुज विश्वनाथ ॥ १.२०॥
विभूतीनामन्तो न हि खलु भवानीरमण ते
भवे भावं कश्चित् त्वयि भवह भाग्येन लभते ।
अभावं चाज्ञानं भवति जननाद्यैश्च रहितः
उमाकान्त स्वान्ते भवदभयपादं कलयतः ॥ १.२१॥
वरं शंभो भावैर्भवभजनभावेन नितरां
भवाम्भोधिर्नित्यं भवति विततः पांसुबहुलः ।
विमुक्तिं भुक्तिं च श्रुतिकथितभस्माक्षवरधृक्
भवे भर्तुः सर्वो भवति च सदानन्दमधुरः ॥ १.२२॥
सोमसामजसुकृत्तिमौलिधृक् सामसीमशिरसि स्तुतपाद ।
सामिकायगिरिजेश्वर शम्भो पाहि मामखिलदुःखसमूहात् ॥ १.२३॥
भस्माङ्गराग भुजगाङ्ग महोक्षसङ्ग
गङ्गाम्बुसङ्ग सुजटा निटिल स्फुलिङ्ग ।
लिङ्गाङ्ग भङ्गितमनङ्ग विहङ्गवाह-
सम्पूज्यपाद सदसङ्ग जनान्तरङ्ग ॥ १.२४॥
वात्सल्यं मयि तादृशं तवनचेच्चन्द्रार्ध चूडामणे
धिक्कृत्यापि विमुच्य वा त्वयि यतो धन्यो धरण्यामहम् ।
सक्षारं लवणार्णवस्य सलिलं धारा धरेण क्षणात्
आदायोज्झितमाक्षितौ हि जगतां आस्वादनीयां दृशाम् ॥ १.२५॥
त्वत् कैलासवरे विशोकहृदयाः क्रोधोज्झिताच्चाण्डजाः
तस्मान्मामपि भेदबुद्धिरहितं कुर्वीश तेऽनुग्रहात् ।
त्वद्वक्त्रामल निर्जरोज्झित महासंसार संतापहं
विज्ञानं करुणाऽदिशाद्य भगवन् लोकावनाय प्रभो ॥ १.२६॥
सारङ्गी सिंहशाबं स्पृशति सुतधिया नन्दिनी व्याघ्रपोतं
मार्जारी हंसबालं प्रणयपरवशा केकिकान्ता भुजङ्गम् ।
वैराण्याजन्मजातान्यपि गलितमदा जन्तवोऽन्ये त्यजन्ति
भक्तास्त्वत्पादपद्मे किमु भजनवतः सर्वसिद्धिं लभन्ते ॥ १.२७॥
स्कन्दः -
इत्थं ऋभुस्तुतिमुमावरजानिरीशः
श्रुत्वा तमाह गणनाथवरो महेशः ।
ज्ञानं भवामयविनाशकरं तदेव
तस्मै तदेव कथये शृणु पाशमुक्त्यै ॥ १.२८॥
॥ इति श्रीशिवरहस्ये शंकराख्ये षष्ठांशे
ऋभुस्तुतिर्नाम प्रथमोऽध्यायः ॥
२ ॥ द्वितीयोऽध्यायः ॥
ईश्वरः -
श्रुणु पद्मजसंभूत मत्तः सूत्रविधिक्रमम् ।
ज्ञानोत्पादकहेतूनि श्रुतिसाराणि तत्त्वतः ॥ २.१॥
व्यासा मन्वन्तरेषु प्रतियुगजनिताः शांभवज्ञानसिद्ध्यै
भस्माभ्यक्तसमस्तगात्रनिवहा रुद्राक्षमालाधराः ।
कैलासं समवाप्य शङ्करपदध्यानेन सूत्राण्युमा-
कान्तात् प्राप्य वितन्वते स्वकधिया प्रामाण्यवादानहो ॥ २.२॥
जिज्ञास्यं ब्रह्म एवेत्यथपदविदितैः साधनप्राप्त्युपायै-
र्योगैर्योगाद्युपायैर्यमनियममहासांख्यवेदान्तवाक्यैः ।
श्रोतव्यो भगवान् न रूपगुणतो मन्तव्य इत्याह हि
वेदोद्बोधदवाक्यहेतुकरणैर्ध्येयः स साक्षात्कृतेः ॥ २.३॥
जन्माद्यस्य यतोऽस्य चित्रजगतो मिथ्यैव तत्कारणं
ब्रह्म ब्रह्मात्मनैव प्रकृतिपरमदो वर्तमानं विवर्तेत् ।
श्रुत्या युक्त्या यतो वा इतिपदघटितो बोधतो वक्ति शंभुं
नाणुः कालविपाककर्मजनितेत्याचोदना वै मृषा ॥ २.४॥
योनिः शास्त्रस्य वेदस्तदुभयमननाद्ब्रह्मणः प्रत्यभिज्ञा
निःश्वासाद्वेदजालं शिववरवदनाद्वेधसा प्राप्तमेतत् ।
तस्मात् तर्कवितर्ककर्कशधिया नातिक्रमेत् तां धियं
स्वाम्नायक्रियया तदप्रकरणे योनिर्महेशो ध्रुवम् ॥ २.५॥
तत्त्वस्यापि समन्वयात् श्रुतिगिरां विश्वेश्वरे चोदना
सा चानिर्वचनीयतामुपगता वाचो निवृत्ता इति ।
आत्मैवैष इतीव वाक्यसुवृतिर्वृत्तिं विधत्ते धिया
वेदान्तादिषु एक एव भगवानुक्तो महेशो ध्रुवम् ॥ २.६॥
नासद्वा वीक्षते यज्जडमिति करणैर्गन्धरूपादिहीनं
शब्दस्पर्शादिहीनं जगदनुगतमपि तद्ब्रह्म किंरूपमीष्टे ।
गौणं चेदपि शब्दतो जगदिदं यन्नामरूपात्मकं
तच्चात्राविशदीश्वरोऽर्थवचसा मोक्षस्य निष्ठाक्रमः ॥ २.७॥
हेयत्वावचनाच्च तच्छ्रुतिगिरां स्थूलं प्रदृष्टं भवे-
द्रूपं नारूपतोऽपि प्रकरणवचनं वा विकारः किलेदम् ।
स्वाप्यायादपि तद्वदापि परमानन्दो यदीत्थं परः
सामान्याच्च गतेरथाप्यनुभवे विद्योतते शङ्करः ॥ २.८॥
श्रुतत्वाद्वेदान्तप्रतिपदवचः कारणमुमा-
सनाथो नाथानां स च किल न कश्चिज्जनिभवः ।
स एवानन्दात्मा श्रुतिकथितकोशादिरहितो
विकारप्राचुर्यान्न हि भवति कार्यं च करणम् ॥ २.९॥
तद्धेतुव्यपदेशतोऽपि शिव एवेति चानन्दकृत्
मन्त्रैर्वर्णकृतक्रमेण भगवान् सत्याद्यनन्तोच्यते ।
नैरन्तर्यानुपपत्तितोऽपि सुखिता चानन्दभेदोऽर्थतः
कामाच्चाननुभावतो हृदि भिदा जायेद्भयं संसृतेः ॥ २.१०॥
पुच्छं ब्रह्म प्रतिष्ठितेति वचनाच्छेषी महेशोऽव्ययः ।
आकाशान्तरतोऽपि भौतिकहृदाकाशात्मता वाक्यतो
ब्रह्मैव प्रतिभाति भेदकलने चाकल्पना कल्पतः ॥ २.११॥
सुषुप्त्युत्क्रान्त्योर्वा न हि खलु न भेदः परशिवे
अतोत्थानं द्वैते न भवति परे वै विलयने ।
तदर्हं यत्सूक्ष्मं जगदिदमनाकारमरसं
न गन्धं न स्पर्शं भवति परमेशे विलसितम् ॥ २.१२॥
अधीनं चार्थं तद्भवति पुनरेवेक्षणपरं
स्वतन्त्रेच्छा शंभोर्न खलु करणं कार्यमपि न ॥ २.१३॥
ज्ञेयत्वावचनाच्च शङ्कर परानन्दे प्रमोदास्पदे
प्रज्ञानं न हि कारणं प्रकृतिकं प्रश्नत्रयस्यार्थवत् ।
न विज्ञेयं देहप्रविलयशतोत्थानगणना
स मृत्योर्मृत्युस्तद्भवति किल भेदेन जगतः ॥ २.१४॥
महद्वच्चाणीयो भवति च समो लोकसदृशा
तथा ज्योतिस्त्वेकं प्रकरणपरं कल्पितवतः ।
न संख्याभेदेन त्रिभुवनविभवादतिकरं
स्वभावोऽयं शश्वन्मुखरयति मोदाय जगताम् ॥ २.१५॥
प्राणादुद्गतपञ्चसंख्यजनिता तद्वस्त्रिवच्च श्रुतं
तच्छ्रोत्रं मनसो न सिद्धपरमानन्दैकजन्यं महः ।
ज्योतिष्कारणदर्शिते च करणे सत्ता सदित्यन्वहं
चाकर्षा भवति प्रकर्षजनिते त्वत्तीति वाक्योत्तरम् ॥ २.१६॥
जाग्रत्त्वावचनेन जीवजगतोर्भेदः कथं कथ्यते
लिङ्गं प्राणगतं न चेश्वरपरं ज्योतिः किलैक्यप्रदम् ।
अन्यार्थत्वविवेकतोऽर्थगतिकं चाकल्पयद्वाक्यतः ।
प्रज्ञामित्यपरः क्रमस्थितिरसावन्यो वदन्तं मृषा ॥ २.१७॥
प्रकृत्यैवं सिद्धं भवति परमानन्दविधुरं
अभिध्योपादेशाद् भवति उभयाम्नायवचनैः ।
भवत्यात्मा कर्ता कृतिविरहितो योनिरपि च
प्रतिष्ठा निष्ठा च त्रिभुवनगुरुः प्रेमसदनः ॥ २.१८॥
अभिध्योपादेशात् स बहु भवदीक्षादिवशतः
समासाचोभाभ्यां प्रकृतिजसमाम्नायवचनात् ।
अतो ह्यात्मा शुद्धः प्रकृतिपरिणामेन जगतां
मृदीव व्यापारो भवति परिणामेषु च शिवः ॥ २.१९॥
आनन्दाभ्यासयोगाद्विकृतजगदानन्दजगतो
अतो हेतोर्धर्मो न भवति शिवः कारणपरः ।
हिरण्यात्माऽऽदित्येऽक्षिणि उदेतीह भगवान्
नतेश्चाधाराणां श्रवणवचनैर्गोपितधियः ॥ २.२०॥
भेदादिव्यपदेशतोऽस्ति भगवानन्यो भवेत् किं ततः
आकाशादिशरीरलिङ्गनियमाद्व्याप्यं हि सर्वं ततः ।
तज्ज्योतिः परमं महेश्वरमुमाकान्ताख्यशान्तं महो
वेदान्तेषु नितान्तवाक्यकलने छन्दोऽभिधानादपि ॥ २.२१॥
भूतादिव्यपदेशतोऽपि भगवत्यस्मिन् महेशे ध्रुवं
यस्माद्भूतवराणि जायत इति श्रुत्याऽस्य लेशांशतः ।
विश्वं विश्वपतेरभूत् तदुभयं प्रामाण्यतो दर्शनात्
प्राणस्यानुगमात् स एव भगवान् नान्यः पथा विद्यते ॥ २.२२॥
न वक्तुश्चात्मा वै स खलु शिवभूमादिविहितः
तथैवायुर्देहे अरणिवहवत् चक्रगमहो ।
अदृश्यो ह्यात्मा वै स हि सुदृशतः शास्त्रनिवहैः
शिवो देवो वामो मुनिरपि च सार्वात्म्यमभजत् ॥ २.२३॥
प्रसिद्धिः सर्वत्र श्रुतिषु विधिवाक्यैर्भगवतो
महाभूतैर्जातं जगदिति च तज्जादिवचनैः ।
अतोऽणीयान् ज्यायानपि द्विविधभेदव्यपगता
विवक्षा नोऽस्तीति प्रथयति गुणैरेव हि शिवः ॥ २.२४॥
संभोगप्राप्तिरेव प्रकटजगतः कारणतया
सदा व्योमैवेत्थं भवति हृदये सर्वजगताम् ।
अतोऽत्ता वै शर्वश्चरमचरभूतं जगदिदं
महामृत्युर्देशो भवति शिखरन्नाद इति च ॥ २.२५॥
प्रकरणवचनेन वेदजाते
भगवति भवनाशने महेशे ।
प्रविशति शिव एव भोगभोक्तृ-
नियमनदर्शनतो हि वाक्यजातम् ॥ २.२६॥
विशेषणैः शङ्करमेव नित्यं
द्विधा वदत्येवमुपाधियोगात् ।
अतोऽन्तरा वाक्यपदैः समर्थितः
स्थानादियोगैर्भगवानुमापतिः ॥ २.२७॥
सुखाभिधानात् सुखमेव शंभुः
कं ब्रह्म खं ब्रह्म इति श्रुतीरितः ।
श्रुतोपवाक्योपनिषत्प्रचोदितः
गतिं प्रपद्येत बुधोऽपि विद्यया ॥ २.२८॥
अनवस्थितितोऽपि नेतरो भगवानेव स चक्षुषि प्रबुध्येत् ।
भयभीताः खलु यस्य सोमसूर्यानलवाय्वंबुजसंभवा भ्रमन्ति ॥ २.२९॥
अन्तर्यामितयैव लोकमखिलं जानात्युमायाः पतिः ।
भूतेष्वन्तरगोऽपि भूतनिवहा नो जानते शङ्करम् ॥ २.३०॥
न तत्स्मृत्या धर्मैरभिलषणतो भेदविधुरं
न शारीरं भेदे भवति अगजानायकवरे ।
अदृश्यत्वाद्धर्मैर्न खलु भगवानन्यदिति च
परादादित्यं चामतिरपि च भेदप्रकलने ॥ २.३१॥
भेदादेश्च विशेषणं परशिवे रूपं न नाम प्रभा ।
भावो वा भवति प्रभाविरहितं ब्रह्मात्मना चाह तत् ॥ २.३२॥
स्मृतं मानं शंभौ भगवति च तत्साधनतया-
प्यतो दैवं भूतं न भवति च साक्षात् परशिवे ।
अभिव्यक्ती चान्यः स्मृतिमपि तथाऽन्योऽपि मनुते
तथा सम्पत्तिर्वै भुवि भवति किं शंभुकलने ॥ २.३३॥
यं मुक्तिव्यपदेशतः श्रुतिशिखाशाखाशतैः कल्पिते
भिद्येद्ग्रन्थिरपि प्रकीर्णवचनात् साक्ष्येव बाह्यान्तरा ।
शब्दो ब्रह्मतयैव न प्रभवते प्राणप्रभेदेन च
तच्चाप्युत्क्रमणस्थितिश्च विलये भुंक्त्येऽप्यसौ शङ्करः ॥ २.३४॥
तं भूमा सम्प्रसादाच्छिवमजरमात्मानमधुना
शृणोतीक्षेद्वापि क्षणमपि तथान्यं न मनुते ।
तथा धर्मापत्तिर्भवति परमाकाशजनितं
प्रशस्तं व्यावृत्तं दहरमपि दध्याद्यपदिशत् ॥ २.३५॥
अलिङ्गं लिङ्गस्थं वदति विधिवाक्यैः श्रुतिरियं
धृतेराकाशाख्यं महिमनि प्रसिद्धेर्विमृशता ।
अतो मर्शान्नायं भवति भवभावात्मकतया
शिवाविर्भावो वा भवति च निरूपे गतधियाम् ॥ २.३६॥
परामर्शे चान्यद्भवति दहरं किं श्रुतिवचो
निरुक्तं चाल्पं यत् त्वनुकृति तदीयेऽह्नि महसा ।
विभातीदं शश्वत् प्रमतिवरशब्दैः श्रुतिभवैः ॥ २.३७॥
यो व्यापकोऽपि भगवान् पुरुषोऽन्तरात्मा ।
वालाग्रमात्रहृदये किमु सन्निविष्टः ॥ २.३८॥
प्रत्यक्षानुभवप्रमाणपरमं वाक्यं किलैकार्थदं
मानेनापि च संभवाभ्रमपरो वर्णं तथैवाह हि ।
शब्दं चापि तथैव नित्यमपि तत् साम्यानुपत्तिक्रिया
मध्वादिष्वनधीकृतोऽपि पुरुषो ज्योतिष्यभावो भवेत् ॥ २.३९॥
भावं चापि शुगस्य तच्छ्रवणतो जात्यन्तरासंभवात्
संस्काराधिकृतोऽपि शङ्करपदं ये वक्तुकामा मनाक् ।
ज्योतिर्दर्शनतः प्रसादपरमादस्माच्छरीरात् परं
ज्योतिश्चाभिनिविश्य व्योम परमानन्दं परं विन्दति ॥ २.४०॥
स्मृतीनां वादोऽत्र श्रुतिविभवदोषान्यवचसा
स एवात्मा दोषैर्विगतमतिकायः परशिवः ।
स विश्वं विश्वात्मा भवति स हि विश्वाधिकतया
समस्तेषु प्रोतो भवति स हि कार्येषु करणम् ॥ २.४१॥
प्रधानानां तेषां भवति इतरेषामनुपमो-
प्यलब्धोऽप्यात्मायं श्रुतिशिरसि चोक्तोऽणुरहितः ।
स दृश्योऽचिन्त्यात्मा भवति वरकार्येषु करणं
असद्वा सद्वा सोऽप्यसदिति न दृष्टान्तवशगम् ॥ २.४२॥
असङ्गो लक्षण्यः स भवति हि पञ्चस्वपि मुधा
अभीमानोद्देशादनुगतिरथाक्षादिरहितः ।
स्वपक्षादौ दोषाश्रुतिरपि न ईष्टे परमतं
त्वनिर्मोक्षो भूयादनुमितिकुतर्कैर्न हि भवेत् ॥ २.४३॥
भोक्त्रापत्तेरपि विषयतो लोकवेदार्थवादो
नैनं शास्ति प्रभुमतिपरं वाचि वारंभणेभ्यः ।
भोक्ता भोगविलक्षणो हि भगवान् भावोऽपि लब्धो भवेत्
सत्त्वाच्चापि परस्य कार्यविवशं सद्वाक्यवादान्वयात् ॥ २.४४॥
युक्तेः शब्दान्तराच्चासदिति न हि कार्यं च करणं
प्रमाणैर्युक्त्या वा न भवति विशेषेण मनसा ।
परः प्राणोद्देशाद्धितकरणदोषाभिधधिया
तथाश्माद्या दिव्या ??? द्योतन्ति देवा दिवि ॥ २.४५॥
प्रसक्तिर्वा कृत्स्ना श्रुतिवरबलादात्मनि चिरं
स्वपक्षे दोषाणां प्रभवति च सर्वादिसुदृशा ।
विकाराणां भेदो न भवति वियोज्यो गुणधियां
अतो लोके लीलापरविषमनैर्घृण्यविधुरम् ॥ २.४६॥
स कर्मारंभाद्वा उपलभति यद्येति च परं
सर्वैर्धर्मपदैरयुक्तवचनापत्तेः प्रवृत्तेर्भवेत् ।
भूतानां गतिशोपयुज्यपयसि क्षारं यथा नोपयुक्
अवस्थानं नैव प्रभवति तृणेषूद्यतमते-
स्तथाभावात् पुंसि प्रकटयति कार्यं च करणम् ॥ २.४७॥
अङ्गित्वानुपपत्तितोऽप्यनुमितो शक्तिज्ञहीनं जगत्
प्रतिषिद्धे सिद्धे प्रसभमिति मौनं हि शरणम् ।
महद्दीर्घं हस्वं उभयमपि कर्मैव करणे
तथा साम्ये स्थित्या प्रभवति स्वभावाच्च नियतम् ॥ २.४८॥
न स्थानतोऽपि श्रुतिलिङ्गसमन्वयेन
प्रकाशवैयर्थ्यमतो हि मात्रा ।
सूर्योपमा प्रमवतित्वतथा उदत्वा-
त्तद्दर्शनाच्च नियतं प्रतिबिम्बरूपम् ॥ २.४९॥
तदव्यक्तं न ततो लिङ्गमेतत्
तथोभयव्यपदेशाच्च तेजः ।
प्रतिषेधाच्च परमः सेतुरीशः
सामान्यतः स्थानविशेषबुद्ध्या ॥ २.५०॥
विशेषतश्चोपपत्तेस्तथान्यदतः फलं चोपपद्येत यस्मात् ।
महेश्वराच्छ्रुतिभिश्चोदितं यत् धर्मं परे चेश्वरं चेति चान्ये ।
न कर्मवच्चेश्वरे भेदधीर्नः ॥ २.५१॥
भेदान्न चेति परतः परमार्थदृष्ट्या
स्वाध्यायभेदादुपसंहारभेदः ।
अथान्यथात्वं वचसोऽसौ वरीयान्
संज्ञातश्चेद्व्याप्तिरेव प्रमाणम् ॥ २.५२॥
सर्वत्राभेदादनयोस्तथान्यत्
प्राधान्यमानन्दमयः शिरस्त्वम् ।
तथेतरे त्वर्थसामान्ययोगात्
प्रयोजनाभावतयाऽप्ययाय ते ॥ २.५३॥
शब्दात्तथा ह्यात्मगृहीतिरुत्तरात्
तथान्वयादितराख्यानपूर्वम् ।
अशब्दत्वादेवमेतत् समान-
मेवं च संविद्वचनाविशेषात् ॥ २.५४॥
तद्दर्शनात् संभृतं चैवमेषोऽनाम्नायाद्वेद्यभेदात् परेति ।
गतेरर्थादुपपन्नार्थलोके शब्दानुमानैः सगुणोऽव्ययात्मा ॥ २.५५॥
यथाधिकारं स्थितिरेव चान्तरा
तत्रैव भेदाद्विशिषन्हीतरवत् ।
अन्यत्तथा सत्यकृत्या तथैके
कामादिरत्रायतनेषु चादरात् ॥ २.५६॥
उपस्थिते तद्वचनात् तथाग्नेः
संलोप एवाग्निभवः प्रदाने ।
अतोऽन्यचिन्तार्थभेदलिङ्गं बलीयः
क्रिया परं चासमानाच्च दृष्टेः ॥ २.५७॥
श्रुतेर्बलादनुबन्धेमखे वै
भावापत्तिश्चात्मनश्चैक एव ।
तद्भावभावदुपलब्धिरीशे
सद्भावभावादनुभावतश्च ॥ २.५८॥
अङ्गावबद्धा हि तथैव मन्त्रतो
भूम्नः क्रतोर्जायते दर्शनेन ॥ २.५९॥
रूपादेश्च विपर्ययेण तु दृशा दोषोभयत्राप्ययं
अग्राह्याः सकलानपेक्ष्यकरणं प्राधान्यवादेन हि ।
तत्प्राप्तिः समुदायकेऽपि इतरे प्रत्यायिकेनापि यत्
विद्याऽविद्या असति बलतो धुर्यमार्याभिशंसी ॥ २.६०॥
दोषोभयोरपि तदा स्वगमोऽभ्युपेया ।
स्मृत्या सतो दृशि उदासीनवद्भजेत ॥ २.६१॥
नाभावादुपलब्धितोऽपि भगवद्वैधर्म्यस्वन्यादिवत्
भावेनाप्युपलब्धिरीशितुरहो सा वै क्षणं कल्प्यते ।
सर्वार्थानुपपत्तितोऽपि भगवत्येकाद्वितीये पुनः ।
कार्त्स्न्येनात्मनि नो विकारकलनं नित्यं पतेर्धर्मतः ॥ २.६२॥
संबन्धानुअपपत्तितोऽपि समधिष्ठानोपपत्तेरपि
तच्चैवाकरणं च भोगविधुरं त्वं तत्त्वसर्वज्ञता ।
उत्पत्तेरपि कर्तुरेव कारणतया विज्ञानभावो यदि
??? निषेधप्रतिपत्तितोऽपि मरुतश्चाकाशतः प्राणतः ॥ २.६३॥
अस्तित्वं तदपीति गौणपरता वाक्येषु भिन्ना क्रिया
कार्यद्रव्यसमन्वयायकरणं शब्दाच्च ब्रह्मैव तत् ।
शब्देभ्योऽप्यमतं श्रुतं भवति तद् ज्ञानं परं शांभवं
यावल्लोकविभागकल्पनवशात् भूतक्रमात् सर्जति ॥ २.६४॥
तस्यासंभवतो भवेज्जगदिदं तेजःप्रसूतं श्रुतिः
चापः क्ष्मा मरुदेव खात्मकथयन्तल्लिङ्गसंज्ञानतः ॥ २.६५॥
विपर्ययेण क्रमतोऽन्तरा हि विज्ञानमानक्रमतो विशेषात् ।
न चात्मनः कारणताविपर्यश्चराचरव्यापकतो हि भावैः ॥ २.६६॥
नात्मा श्रुतो नित्यताशक्तियोगान्नानेव भासत्यविकल्पको हि ।
संज्ञान एवात्र गतागतानां स्वात्मानं चोत्तरणेनाणुरेव ॥ २.६७॥
स्वशब्दोन्मानाभ्यां सुखयति सदानन्दनतनुं
विरोधश्चान्द्रोपद्रव इव सदात्मा निखिलगः ।
गुणादालोकेषु व्यतिकरवतो गन्धवहतः
परो दृष्टो ह्यात्मा व्यपदिशति प्रज्ञानुभवतः ॥ २.६८॥
यावच्चात्मा नैवा दृश्येत दोषैः
पुंस्त्वादिवत्त्वसतो व्यक्तियोगात् ।
मनोऽन्यत्रायदि कार्येषु गौणं विमुखः
कर्ता शाश्वतो विहरति उपादानवशतः ॥ २.६९॥
अस्यात्मव्यपदेशतः श्रुतिरियं कर्तृत्ववादं वदत्
उपालब्धुं शक्तेर्विपरति समाध्या क्षुभितया ।
परात्तत्तु श्रुत्याप्यनुकृति सुरत्वक्षुभितया
परो मन्त्रो वर्णैर्भगवति अनुज्ञापरिहरौ ।
तनोः संबन्धेन प्रविशति परं ज्योतिकलने ॥ २.७०॥
आसन्नतेव्यतिकरं पररूपभेदे
आभास एव सुदृशा नियतो नियम्यात् ।
आकाशवत् सर्वगतोऽव्ययात्मा
आसन्धिभेदात् प्रतिदेशभावात् ॥ २.७१॥
तथा प्राणो गौणः प्रकृतिविधिपूर्वार्थकलना-
दघस्तोये सृत्यः प्रथितगतिशेषेण कथितः ।
हस्तादयस्त्वणवः प्राणवायोः
चक्षुस्तथा करणत्वान्न दोषः ॥ २.७२॥
यः पञ्चवृत्तिर्मनवच्च दृश्यते तथाणुतो ज्योतिरसुश्च खानि ।
भेदश्रुतेर्लक्षणविप्रयोगादात्मादिभेदे तु विशेष वादः ॥ २.७३॥
आत्मैकत्वात् प्राणगतेश्च वह्नेः ते जागतीवाश्रुतत्त्वान्न चेष्टा ।
भोक्तुर्न चात्मन्यविदीकृता ये ते धूममार्गेण किल प्रयान्ति ॥ २.७४॥
चरणादिति चान्यकल्पनां स्मरन्ति सप्तैव गतिप्ररोहात् ।
व्यापारवैधुर्यसमूहविद्या ते कर्मणैवेह तृतीयलब्धाम् ॥ २.७५॥
तद्दर्शनं तद्गदतोऽप्यविद्या सव्योपपत्तेरुत दौविशेषात् ।
चिरन्तपः शुद्धिरतो विशेषात् ते स्थावरे चाविशेषार्थवादः ॥ २.७६॥
सन्ध्यांशसृष्ट्या किल निर्ममे जगत् पुत्रेषु मायामयतोऽव्ययात्मा ।
कृत्स्नं मायामयं तज्जगदिदमसतो नामरूपं तु जातम् ।
जाग्रत्स्वप्नसुषुप्तितोऽपि परमानन्दं तिरोधानकृत् ॥ २.७७॥
देहयोगात् ह्रसते वर्धते यः
तत्रैवान्यत् पश्यते सोऽथ बोधात् ।
स शोशुचानस्मृतिशब्दबोधः ॥ २.७८॥
नानाशब्दादिभेदात् फलविविधमहाकर्मवैचित्र्ययोगात्
ईष्टे तां गुणधारणां श्रुतिहितां तद्दर्शनोद्बोधतः ।
तद्दर्शनात् सिद्धित एव सिद्ध्यते आचारयोगादृततच्छ्रुतेश्च ॥ २.७९॥
वाचा समारंभणतो नियामतः
तस्याधिकाप्रात्वकस्योपदेशात् ।
तुल्यं दृशा सर्वतः स्याद्विभागः
अध्यापयात्रान्नविशेषतस्तु ते ॥ २.८०॥
कामोपमर्देन तदूर्ध्वरेतसा
विमर्शतो याति स्वतत्त्वतोऽन्यः ।
अनुष्ठेयं चान्यत् श्रुतिशिरसि निष्ठाभ्रमवशात् ।
विधिस्तुत्या भावं प्रवदति
रथाग्नेराधानमनुवदति ज्ञानाङ्गमपि च ॥ २.८१॥
प्राणात्यये वापि समं तथान्नं
अबाधतः स्मृतितः कामकारे ।
विहिताश्रमकर्मतः सहैव कार्यात्
तथोभयोर्लिङ्गभङ्गं च दर्शयेत् ॥ २.८२॥
तथान्तरा चापि स्मृतेर्विशेषतः
ज्यायोऽपि लिङ्गाभयभावनाधिका ।
सैवाधिकारादर्शनात् तदुक्तं
आचारतः स्वामिन ईज्यवृत्त्या ॥ २.८३॥
स्मृते ऋत्विक्सहकार्यं च कृत्स्नम् ।
तन्मौनवाचा वचनेन कुर्वन् ।
तदैहिकं तदवस्थाधृतेश्च ॥ २.८४॥
आवृत्त्याप्यसकृत्तथोपदिशति ह्यात्मन्नुपागच्छति
ग्राहं याति च शास्त्रतो प्रतीककलनात् सा ब्रह्मदृष्टिः प्रभोः ।
आदित्यादिकृतीषु तथा सतीरपि कर्माङ्गताध्यानतः
तस्माच्चास्थिरतां स्मरन्ति च पुनर्यत्रैव तत्र श्रुता ॥ २.८५॥
आप्रायणात् तत्र दृष्टं हि यत्र तत्रागमात् पूर्वयोऽश्लेषनाशौ ।
तथेतरस्यापि पतेदसंसृतौ अनारब्धाग्निहोत्रादिकार्ये ॥ २.८६॥
अतोऽन्येषामुभयोर्यत्र योगात्
विद्याभोगेन वाङ्मनसी दर्शनाच्च ।
सर्वाण्यनुमनसा प्राण एव
सोऽध्यक्षेत उपदर्शेन कच्चित् ॥ २.८७॥
समानवृत्त्या क्रमते चासु वृत्त्या
संसारतो व्यपदेशोपपत्तेः ।
सूक्ष्मप्रमाणोपमर्दोपलब्धस्थितिश्च
तथोपपत्तेरेष ऊष्मा रसैके ॥ २.८८॥
अत्र स्मर्यनानुपरताविधिवाक्यसिद्धे-
र्वैयासकिर्मुनिरेषोव्ययात्मा ।
अविभागो वचनाद्धार्द एव
रश्म्यनुसारी निशितो दक्षिणायने ।
योगिनः प्रतिसृतैस्तथार्चिरात्
वायुमद्घटितो वरुणेन ॥ २.८९॥
अतिवाहिकविधेस्तदलिङ्गात् तद्वदत्र उभयोरपि सिद्धिः ।
तद्वैतेन गतिरप्युपावृतो विशेषसामीप्यसकार्यहेतौ ॥ २.९०॥
स्मृतिस्तथाऽन्योऽपि च दर्शनेन काये तथा प्रतिपत्तिप्रतीकः ।
विशेषदृष्ट्या सम्पदाविर्भवेन स्वेनांशत्वान्मुक्तिविज्ञानतो हि ॥ २.९१॥
आत्मप्रकाशादविभागेन दृष्टः तद्ब्रह्मणोऽन्यद्द्युतितन्मात्रतोऽन्यः ।
उपन्यासादन्यसंकल्पभूत्या रथवान्योऽप्युथाह ॥ २.९२॥
भावमन्यो उभयं न स्वभावा
भावे सम्पत्तिरेवं जगत् स्यात् ।
प्रत्यक्षेणोपदेशात् स्थितिरपि
जगतो व्यक्तिभावादुपासा
भेदाभासस्थितिरविकारावर्तिरिति च ॥ २.९३॥
तथा दृष्टेर्द्रष्टुर्विपरीतदृष्टेः श्रुतिवशात्
तथा बुद्धेर्बोद्धा भवति अनुमानेन हि बुधः ।
भोगे सामान्यलिङ्गात् शिवभजनभवे मान्यमनसा
अनावृत्तिः शब्दो भवति विधिवाक्येन नियतम् ॥ २.९४॥
तवोक्तः सूत्राणां विधिरपि च सामान्यमुभय-
प्रकृष्ट श्रुत्यैव प्रभवति महानन्दसदने ॥ २.९५॥
स्कन्दः -
त्रिनेत्रवक्त्रसुचरित्ररूपं मन्त्रार्थवादाम्बुजमित्ररूपाः ।
प्रहृष्टरूपा मुनयो वितेनिरे मतानुसारीण्यथ सूत्रितानि ॥ २.९६॥
न तानि बुद्ध्युद्भवबोधदानि विश्वेशपादाम्बुजभक्तिदानि ॥ २.९७॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे शिवेन
ऋभुं प्रति सूत्रोपदेशो नाम द्वितीयोऽध्यायः ॥
३ ॥ तृतीयोऽध्यायः ॥
सूतः -
ततो महेशात् संश्रुत्य सूत्राणि ऋभुरेव हि ।
कैलासेशं महादेवं तुष्टाव विनयाञ्जलिः ॥ ३.१॥
लब्धज्ञानो महादेवान् मुनिभ्योऽकथयच्च तत् ।
तत् स्तुतिं च शृणुष्वेति जगाद गिरिजासुतः ॥ ३.२॥
जैगीषव्यं महात्मानं जितषड्वर्गमुत्तमम् ।
स्कन्दः -
संस्तुत्य सांबमीशानमृभुर्ज्ञानमविन्दत ।
शांभवः स महायोगी तुष्टावाष्टतनुं हरम् ॥ ३.३॥
ऋभुः -
गन्धद्विपवरवृन्दत्वचिरुचिबन्धोद्यतपट
गन्धप्रमुख मदान्धव्रजदलि हरिमुखनखरोद्यत्
स्कन्धोद्यन्मुख बन्धक्षुरनिभ निर्यद्रसदसृभिन्दन्नगधर
विन्ध्यप्रभशिव मेध्यप्रभुवर ।
मेध्योत्तमशिव भेद्याखिलजगदुद्यद्भवगत
वेद्यागमशिव गद्यस्तुतपद पद्यप्रकटहृ -
दुद्यद्भवगद वैद्योत्तम पाहि शम्भो ॥ ३.४॥
चण्डद्विपकर काण्डप्रभभुज दण्डोद्यतनग
खण्डत्रिपुर महाण्डस्फुटदुडुपशिखण्ड ।
द्युतिवर गण्डद्वय कोदण्डान्तक दण्डितपाद पाहि शंभो ॥ ३.५॥
किञ्चिज्जललव सिञ्चद्द्विजकुल मुञ्चद्वृजिन
कुलुंचद्विजपति चञ्चच्छविजट कुञ्चत्पदनख
मुञ्चन्नतवर करुणा पाहि शंभो ॥ ३.६॥
देव शङ्कर हरमहेश्वर पापतस्कर अमरमयस्कर ।
शिवदशंकर पुरमहेश्वर भवहरेश्वर पाहि शंभो ॥ ३.७॥
अङ्गजभङ्ग तुरङ्गरथाङ्ग जलधिनिषङ्ग
धृतभुजङ्गाङ्ग दृशि सुपतङ्ग
करसुकुरङ्ग जटधृतगङ्ग
यमिहृदिसङ्ग भजशिवलिङ्ग भवभयभङ्ग ॥ ३.८॥
शंबरकरशर दम्बरवरचर डंबरघोषण दुंबरफलजग
निकुरुंबभरहर बिंबितहृदिचिर लंबितपदयुग
लंबोदरजनकान्तकहर शिव बिन्दुवरासन
बिन्दुगहन शरदिन्दुवदनवर कुन्दधवल गणवृन्दविनत
भवभयहर परवर करुणाकर फणिवरभूषण
स्मर हर गरधर परिपाहि ॥ ३.९॥
रासभवृषभेभ शरभाननगणगुणनन्दित-
त्रिगुणपथातिग शरवणभवनुत तरणिस्थित वरुणालय
कृतपारण मुनिशरणायित पदपद्मारुण पिङ्गजटाधर
कुरु करुणां शङ्कर शं कुरु मे ॥ ३.१०॥
जम्भप्रहरण कुम्भोद्भवनुत कुम्भप्रमथ निशुम्भद्युतिहर
भिन्दद्रणगण डिम्भायितसुर तारकहरसुत
कुंभ्युद्यतपद विन्ध्यस्थितदितिमान्द्यप्रहर मदान्धद्विपवर
कृत्तिप्रवर सुधान्धोनुतपद बुद्ध्यागमशिव
मेध्यातिथिवरद ममावन्ध्यं कुरु दिवसं
तव पूजनतः परिपाहि शंभो ॥ ३.११॥
कुन्दसदृश मकरन्दनिभसुरवृन्दविनुत कुरुविन्दमणिगण
वृन्दनिभाङ्घ्रिजमन्दर वसदिन्दुमकुट शरदंबुजकृश
गरनिन्दनगल सुन्दरगिरितनयाकृति
देहवराङ्गबिन्दुकलित शिवलिङ्गगहन सुतसिन्दुरवरमुख
बन्धुरवरसिन्धुनदीतट लिङ्गनिवहवरदिग्वस पाहि शंभो ॥ ३.१२॥
पन्नगाभरण मारमारण विभूतिभूषण शैलजारमण ।
आपदुद्धरण यामिनीरमणशेखर सुखद पाहि शंभो ॥ ३.१३॥
दक्षाध्वरवरशिक्ष प्रभुवर त्र्यक्ष प्रबलमहोक्षस्थित
सितवक्षस्स्थलकुलचक्षुःश्रवस वराक्षस्रज हर ।
वीक्षानिहताधोक्षजात्मज वरकक्षाश्रय पुरपक्षविदारण
लीक्षायितसुर भिक्षाशन हर पद्माक्षार्चनतुष्ट
भगाक्षिहराव्यय शङ्कर मोक्षप्रद परिपाहि महेश्वर ॥ ३.१४॥
अक्षयफलद शुभाक्ष हराक्षततक्षककर
गरभक्ष परिस्फुरदक्ष क्षितिरथ सुरपक्षाव्यय ।
पुरहर भव हर हरिशर शिव शिव
शङ्कर कुरु कुरु करुणां शशिमौले ॥ ३.१५॥
भजाम्यगसुताधवं पशुपतिं महोक्षध्वजं
वलक्षभसितोज्ज्वलं प्रकटदक्षदाहाक्षिकम् ।
भगाक्षिहरणं शिवं प्रमथितोरुदक्षाध्वरं
प्रपक्षसुरतामुनिप्रमथशिक्षिताधोक्षजम् ॥ ३.१६॥
श्रीनाथाक्षिसरोजराजितपदांभोजैकपूजोत्सवै-
र्नित्यं मानसमेतदस्तु भगवन् सद्राजमौले हर ।
भूषाभूतभुजङ्गसङ्गत महाभस्माङ्गनेत्रोज्वल-
ज्ज्वालादग्धमनङ्गपतङ्गदृगुमाकान्ताव गङ्गाधर ॥ ३.१७॥
स्वात्मानन्दपरायणांबुजभवस्तुत्याऽधुना पाहि माम्
MISSING .
गिरिजामुखसख षण्मुख पञ्चमुखोद्यतदुर्मुखमुख-
हर आखुवहोन्मुख लेखगणोन्मुख शङ्कर खगगमपरिपूज्य ॥ ३.१८॥
कोटिजन्मविप्रकर्मशुद्धचित्तवर्त्मनां
श्रौतसिद्धशुद्धभस्मदग्धसर्ववर्ष्मणाम् ।
रुद्रभुक्तमेध्यभुक्तिदग्धसर्वपाप्मनां
रुद्रसूक्ति उक्तिभक्तिभुक्तिमुक्तिदायिकाम् ।
पुरहर इष्टतुष्टिमुक्तिलास्यवासना
भक्तिभासकैलासमीश आशु लभ्यते ॥ ३.१९॥
स्कन्दः -
तत्स्तुत्या तोषितः शंभुस्तमाह ऋभुमीश्वरः ।
प्रसन्नः करुणाम्भोधिरम्भोजसुतमोदनः ॥ ३.२०॥
ईश्वरः -
वेदान्तपाठपठनेन हठादियोगैः
श्रीनीलकण्ठपदभक्तिविकुण्ठभावाः ।
ये कर्मठा यतिवरा हरिसौरिगेहे
सालावृकैर्वरकठोरकुठारघातैः ॥ ३.२१॥
भिन्नोत्तमाङ्गहृदयाश्च भुसुण्डिभिस्ते ।
भिक्षाशना जरठरासभवद्भ्रमन्ति ॥ ३.२२॥
विद्युच्चञ्चलजीवितेऽपि न मनागुत्पद्यते शांभवी
भक्तिर्भीमपदाम्बुजोत्तमपदे भस्मत्रिपुण्ड्रेऽपि च ।
रुद्राक्षामलरुद्रसूक्तिजपने निष्ठा कनिष्ठात्मनां
विष्ठाविष्टकुनिष्ठकष्टकुधियां दुष्टात्मनां सर्वदा ॥ ३.२३॥
भ्रष्टानां दुरदृष्टतो जनिजरानाशेन नष्टात्मनां
ज्येष्ठश्रीशिपिविष्टचारुचरणांभोजार्चनानादरः ।
तेनानिष्टपरंपरासमुदयैरष्टाकृतेर्न स्मृतिः
विष्ठापूरितदुर्मुखेषु नरके भ्रष्टे चिरं संस्थितिः ॥ ३.२४॥
अज्ञायत्तेष्वभिज्ञाः सुरवरनिकरं स्तोत्रशास्त्रादितुष्टं
सत्राशं मन्त्रमात्रैर्विधिविहितधिया सामभागैर्यजन्ति ।
श्राद्धे श्रद्धाभरणहरणभ्रान्तरूपान्पितॄंस्ते
तत्तच्छ्रद्धासमुदितमनः स्वान्तरा शम्भुमीशम् ॥
नाभ्यर्चन्ति प्रणतशरणं मोक्षदं मां महेशम् ॥ ३.२५॥
आर्याः शर्वसमर्चनेन सततं दूर्वादलैः कोमलैः
बिल्वाखर्वदलैश्च शङ्करमहाभागं हृदन्तः सदा ।
पर्वस्वप्यविशेषितेन मनसा गर्वं विहायादरात्
दुर्गाण्याशु तरन्ति शङ्करकृपापीयूषधारारसैः ॥ ३.२६ ॥
श्रीचन्द्रचूडचरणांबुज पूजनेन
कालं नयन्ति पशुपाशविमुक्तिहेतोः ।
भावाः परं भसितफाललसत्त्रिपुण्ड्र-
रुद्राक्षकङ्कणलसत्करदण्डयुग्माः ॥ ३.२७॥
पञ्चाक्षरप्रणवसूक्तधिया वदन्ति
नामानि शांभवमनोहरदानि शंभो ।
मुक्तिप्रदानि सततं शिवभक्तवर्याः
ये बिल्वमूलशिवलिङ्गसमर्चनेन ॥ ३.२८॥
कालं नयेद्विमलकोमलबिल्वपत्रैः
नो तस्य कालजभयं भवतापपापम् ।
सन्तापभूपजनितं भजतां महेशम् ॥ ३.२९॥
शश्वद्विश्वेशपादौ यमशमनियमैर्भूतिरुद्राक्षगात्रो
विश्वत्रस्तो भुजङ्गाङ्गदवरगिरिजानायके लब्धभक्तिः ।
मुग्धोऽप्यध्यात्मविद् यो भवति भवहरस्यार्चया प्राप्तकामः ॥ ३.३०॥
शब्दैरब्दशतेऽपि नैव स लभेत् ज्ञानं न तर्कभ्रमैः
मीमांसा द्वयतस्तथाद्वयपदं किं सांख्यसंख्या वद ।
योगायासपरंपरादिविहितैर्वेदान्तकान्तारके
श्राम्यन् भक्तिविवर्जितेन मनसा शम्भोः पदे मुक्तये ॥ ३.३१॥
किं गङ्गया वा मकरे प्रयाग-
स्नानेन वा योगमखक्रियाद्यैः ।
यत्रार्चितं लिङ्गवरं शिवस्य
तत्रैव सर्वार्थपरंपरा स्यात् ॥ ३.३२॥
श्रीशैलो हिमभूधरोऽरुणगिरिर्वृद्धाद्रिगोपर्वतौ
श्रीमद्धेमसभाविहार भगवन् नृत्तं त्रिनेत्रो गिरिः ।
कैलासोत्तरदक्षिणौ च भगवान् यत्रार्चने शङ्करो
लिङ्गे सन्निहितो वसत्यनुदिनं शाङ्गस्य हृत्पङ्कजे ॥ ३.३३॥
तत्राविमुक्तं शशिचूडवासं
ॐकारकालञ्जर रुद्रकोटिम् ।
गङ्गाबुधेः सङ्गममम्बिकापति-
प्रियं तु गोकर्णकसह्यजातटम् ॥ ३.३४॥
यत्राभ्यर्णगतं महेशकरुणापूर्णं तु तूर्णं हृदा
लिङ्गं पूजितमप्यपास्तदुरितं तीर्थानि गङ्गादयः ।
पुण्याश्चाश्रमसंघका गिरिवरक्षेत्राणि शंभोः पदं
भक्तियुक्तभजनेन महेशे शक्तिवज्जगदिदं परिभाति ॥ ३.३५॥
कर्मन्दिवृन्दा अपि वेदमौलि-
सिद्धान्तवाक्यकलनेऽपि भवन्ति मन्दाः ।
कामादिबद्धहृदयाः सितभस्मपुण्ड्र-
रुद्राक्ष शङ्करसमर्चनतो विहीनाः ॥ ३.३६॥
हीना भवन्ति बहुधाप्यबुधा भवन्ति
मत्प्रेमवासभवनेषु विहीनवासाः ॥ ३.३७॥
अष्टम्यामष्टमूर्तिर्निशि शशिदिवसे सोमचूडं तु मुक्त्यै
भूतायां भूतनाथं धृतभसिततनुर्वीतदोषे प्रदोषे ।
गव्यैः पञ्चामृताद्यैः फलवरजरसैर्बिल्वपत्रैश्च लिङ्गे
तुङ्गे शाङ्गेऽप्यसङ्गो भजति यतहृदा नक्तभुक्त्यैकभक्तः ॥ ३.३८॥
ज्ञानानुत्पत्तये तद्धरिविधिसमताबुद्धिरीशानमूर्तौ
भस्माक्षाधृतिरीशलिङ्गभजनाशून्यं तु दुर्मानसम् ।
शंभोस्तीर्थमहत्सुतीर्थवरके निन्दावरे शाङ्करे
श्रीमद्रुद्रजपाद्यद्रोहकरणात् ज्ञानं न चोत्पद्यते ॥ ३.३९॥
ईशोत्कर्षधियैकलिङ्गनियमादभ्यर्चनं भस्मधृक्
रुद्राक्षामल सारमन्त्र सुमहापञ्चाक्षरे जापिनाम् ।
ईशस्थाननिवासशांभवकथा भक्तिश्च संकीर्तनं
भक्तस्यार्चनतो भवेत् सुमहाज्ञानं परं मुक्तिदम् ॥ ३.४०॥
आद्यन्तयोर्यः प्रणवेन युक्तं
श्रीरुद्रमन्त्रं प्रजपत्यघघ्नम् ।
तस्यांघ्रिरेणुं शिरसा वहन्ति
ब्रह्मादयः स्वाघनिवृत्तिकामाः ॥ ३.४१॥
अपूर्वाथर्वोक्त श्रुतिशिरसि विज्ञानमनघं
महाखर्वाज्ञानप्रशमनकरं यो विरचयेत् ।
मुने हृत्पर्वाणां विशसनकरं सप्तमनुभि-
र्व्रतं शीर्षण्यं यो विरचयति तस्येदमुदितम् ॥ ३.४२॥
गुरौ यस्य प्रेम श्रुतिशिरसि सूत्रार्थपदगं
मयि श्रद्धा वृद्धा भवति किल तस्यैष सुलभः ।
अनन्यो मार्गोऽयम् अकथितमिदं त्वय्यपि मुदा
यदा गोप्यो मुग्धे सुविहितमुनिष्वेव दिश वै ॥ ३.४३॥
स्कन्दः -
इति स्तुत्वा शंभोः प्रमुदितमनास्त्वेष स ऋभुः
मुनिर्नत्वा देवं नगमगपदीशस्य निलयम् ।
यतो गङ्गा तुङ्गा प्रपतति हिमाद्रेः शिखरतो
मुनीन्द्रेष्वाहेदं तदपि शृणु विप्रोत्तम हृदा ॥ ३.४४॥
ऋभुः -
पतन्त्वशनयो मुहुर्गिरिवरैः समुद्रोर्वरा
भवत्वधरसम्प्लवा ग्रहगणाः सुरा यान्त्वघः ।
भवज्जनिम पूजनान्मम मनो न यात्यन्यतः
शपामि प्रपदे प्रभोस्तव सरोरुहाभे हर ॥ ३.४५॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे
शिवऋभुसंवादो नाम तृतीयोऽध्यायः ॥
४ ॥ चतुर्थोऽध्यायः ॥
स्कन्दः -
हिमाद्रिशिखरे तत्र केदारे संस्थितं ऋभुम् ।
केदारेशं पूजयन्तं शांभवं मुनिसत्तमम् ।
भस्मरुद्राक्षसम्पन्नं निःस्पृहं मुनयोऽब्रुवन् ॥ ४.१॥
मुनयः -
पद्मोद्भवसुतश्रेष्ठ त्वया कैलासपर्वते ।
आराध्य देवमीशानं तस्मात् सूत्रश्रुतीरितम् ॥ ४.२॥
ज्ञानं लब्धं मुनिश्रेष्ठ त्वं नो ब्रूहि विमुक्तये ।
येन संसारवाराशेः समुत्तीर्णा भवामहे ॥ ४.३॥
सूतः -
ऋभुर्मुनीनां वचसा तुष्टः शिष्टान् समीक्ष्य तान् ।
अष्टमूर्तिपदध्याननिष्ठांस्तानभ्युवाच ह ॥ ४.४॥
ऋभुः -
नागोप्यं भवतामस्ति शांभवेषु महात्मसु ।var was अस्मि
त्रिनेत्रप्रेमसदनान् युष्मान् प्रेक्ष्य वदामि तत् ॥ ४.५॥
शाङ्करं सूत्रविज्ञानं श्रुतिशीर्षमहोदयम् ।
शृणुध्वं ब्रह्मविच्छ्रेष्ठाः शिवज्ञानमहोदयम् ॥ ४.६॥
येन तीर्णाः स्थ संसारात् शिवभक्त्या जितेन्द्रियाः ।var was तीर्णास्थ
नमस्कृत्वा महादेवं वक्ष्ये विज्ञानमैश्वरम् ॥ ४.७॥
ऋभुः -
विश्वस्य कारणमुमापतिरेव देवो
विद्योतको जडजगत्प्रमदैकहेतुः ।
न तस्य कार्यं करणं महेशितुः
स एव तत्कारणमीश्वरो हरः ॥ ४.८॥
सूतः सायकसंभवः समुदिताः सूताननेभ्यो हयाः
नेत्रे ते रथिनो रथाङ्गयुगली युग्यान्तमृग्यो रथी ।
मौवीमूर्ध्नि रथः स्थितो रथवहश्चापं शरव्यं पुरः
योद्धुं केशचराः स एव निखिलस्थाणोरणुः पातु वः ॥ ४.९॥var was नः
निदाघमथ संबोध्य ततो ऋभुरुवाच ह ।
अध्यात्मनिर्णयं वक्ष्ये नास्ति कालत्रयेष्वपि ॥ ४.१०॥
शिवोपदिष्टं संक्षिप्य गुह्यात् गुह्यतरं सदा ।
अनात्मेति प्रसङ्गात्मा अनात्मेति मनोऽपि वा ।
अनात्मेति जगद्वापि नास्त्यनात्मेति निश्चिनु ॥ ४.११॥
सर्वसंकल्पशून्यत्वात् सर्वाकारविवर्जनात्
केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.१२॥
चित्ताभावे चिन्तनीयो देहाभावे जरा च न ।
केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.१३॥var was ब्रह्ममात्रत्वात्
पादाभावाद्गतिर्नास्ति हस्ताभावात् क्रिया च न ।
केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.१४॥var was ब्रह्ममात्रत्वात्
ब्रह्माभावाज्जगन्नास्ति तदभावे हरिर्न च ।
केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.१५॥var was ब्रह्ममात्रत्वात्
मृत्युर्नास्ति जराभावे लोकवेददुराधिकम् ।
केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.१६॥var was ब्रह्ममात्रत्वात्
धर्मो नास्ति शुचिर्नास्ति सत्यं नास्ति भयं न च ।
केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.१७॥var was ब्रह्ममात्रत्वात्
अक्षरोच्चारणं नास्ति अक्षरत्यजडं मम ।
केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.१८॥var was ब्रह्ममात्रत्वात्
गुरुरित्यपि नास्त्येव शिष्यो नास्तीति तत्त्वतः ।
केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.१९॥var was ब्रह्ममात्रत्वात्
एकाभावान्न द्वितीयं न द्वितीयान्न चैकता ।
सत्यत्वमस्ति चेत् किञ्चिदसत्यत्वं च संभवेत् ॥ ४.२०॥
असत्यत्वं यदि भवेत् सत्यत्वं च घटिष्यति ।
शुभं यद्यशुभं विद्धि अशुभं शुभमस्ति चेत् ॥ ४.२१॥
भयं यद्यभयं विद्धि अभयाद्भयमापतेत् ।
केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.२२॥var was ब्रह्ममात्रत्वात्
बद्धत्वमस्ति चेन्मोक्षो बन्धाभावे न मोक्षता ।
मरणं यदि चेज्जन्म जन्माभावे मृतिर्न च ॥ ४.२३॥
त्वमित्यपि भवेच्चाहं त्वं नो चेदहमेव न ।
इदं यदि तदेवापि तदभावे इदं न च ॥ ४.२४॥
अस्ति चेदिति तन्नास्ति नास्ति चेदस्ति किंच न ।
कार्यं चेत् कारणं किञ्चित् कार्याभावे न कारणम् ॥ ४.२५॥
द्वैतं यदि तदाऽद्वैतं द्वैताभावेऽद्वयं च न ।
दृश्यं यदि दृगप्यस्ति दृश्याभावे दृगेव न ॥ ४.२६॥
अन्तर्यदि बहिः सत्यमन्ताभावे बहिर्न च ।
पूर्णत्वमस्ति चेत् किंचिदपूर्णत्वं प्रसज्यते ॥ ४.२७॥
किञ्चिदस्तीति चेच्चित्ते सर्वं भवति शीघ्रतः ।
यत्किंचित् किमपि क्वापि नास्ति चेन्न प्रसज्यति ॥ ४.२८॥
तस्मादेतत् क्वचिन्नास्ति त्वं नाहं वा इमे इदम् ।
केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.२९॥var was ब्रह्ममात्रत्वात्
नास्ति दृष्टान्तकं लोके नास्ति दार्ष्टान्तिकं क्वचित् ।
केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.३०॥var was ब्रह्ममात्रत्वात्
परं ब्रह्माहमस्मीति स्मरणस्य मनो न हि ।
ब्रह्ममात्रं जगदिदं ब्रह्ममात्रत्वमप्य हि ॥ ४.३१॥
चिन्मात्रं केवलं चाहं नास्त्यनात्मेति निश्चिनु ।
इत्यात्मनिर्णयं प्रोक्तं भवते सर्वसङ्ग्रहम् ॥ ४.३२॥var was निर्ण्यः प्रोक्तः
सकृच्छ्रवणमात्रेण ब्रह्मैव भवति स्वयम् ॥ ४.३३॥
निदाघः-var was ऋभुः-
भगवन् को भवान् को नु वद मे वदतां वर ।var was निदाघ
यच्छ्रुत्वा तत्क्षणान्मुच्येन्महासंसारसंकटात् ॥ ४.३४॥
ऋभुः-
अहमेव परं ब्रह्म अहमेव परं सुखम् ।
अहमेवाहमेवाहमहं ब्रह्मास्मि केवलम् ॥ ४.३५॥
अहं चैतन्यमेवास्मि दिव्यज्ञानात्मको ह्यहम् ।
सर्वाक्षरविहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.३६॥
अहमर्थविहीनोऽस्मि इदमर्थविवर्जितः ।
सर्वानर्थविमुक्तोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.३७॥
नित्यशुद्धोऽस्मि बुद्धोऽस्मि नित्योऽस्म्यत्यन्तनिर्मलः ।
नित्यानदस्वरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.३८॥
नित्यपूर्णस्वरूपोऽस्मि सच्चिदानन्दमस्म्यहम् ।
केवलाद्वैतरूपोऽहमहं ब्रह्मास्मि केवलम् ॥ ४.३९॥
अनिर्देश्यस्वरूपोऽस्मि आदिहीनोऽस्म्यनन्तकः ।
अप्राकृतस्वरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४०॥
स्वस्वसंकल्पहीनोऽहं सर्वाविद्याविवर्जितः ।
सर्वमस्मि तदेवास्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४१॥
सर्वनामादिहीनोऽहं सर्वरूपविवर्जितः ।
सर्वसङ्गविहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४२॥
सर्ववाचां विधिश्चास्मि सर्ववेदावधिः परः ।
सर्वकालावधिश्चास्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४३॥
सर्वरूपावधिश्चाहं सर्वनामावधिः सुखम् ।
सर्वकल्पावधिश्चास्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४४॥
अहमेव सुखं नान्यदहमेव चिदव्ययः ।
अहमेवास्मि सर्वत्र अहं ब्रह्मास्मि केवलम् ॥ ४.४५॥
केवलं ब्रह्ममात्रात्मा केवलं शुद्धचिद्घनः ।
केवलाखण्डोसारोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४६॥
केवलं ज्ञानरूपोऽस्मि केवलाकाररूपवान् ।
केवलात्यन्तसारोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४७॥
सत्स्वरूपोऽस्मि कैवल्यस्वरूपोऽस्म्यहमेव हि ।
अर्थानर्थविहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४८॥
अप्रमेयस्वरूपोऽस्मि अप्रतर्क्यस्वरूपवान् ।
अप्रगृह्यस्वरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४९॥
अरसस्युतरूपोऽस्मि अनुतापविवर्जितः ।
अनुस्यूतप्रकाशोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.५०॥
सर्वकर्मविहीनोऽहं सर्वभेदविवर्जितः ।
सर्वसन्देहहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.५१॥
अहंभावविहीनोऽस्मि विहीनोऽस्मीति मे न च ।
सर्वदा ब्रह्मरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.५२॥
ब्रह्म ब्रह्मादिहीनोऽस्मि केशवत्वादि न क्वचित् ।
शङ्करादिविहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.५३॥
तूष्णीमेवावभासोऽस्मि अहं ब्रह्मास्मि केवलम् ।
किञ्चिन्नास्ति परो नास्ति किंचिदस्मि परोऽस्मि च ॥ ४.५४॥
न शरीरप्रकाशोऽस्मि जगद्भासकरो न च ।
चिद्घनोऽस्मि चिदंशोऽस्मि सत्स्वरूपोऽस्मि सर्वदा ॥ ४.५५॥
मुदा मुदितरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ।
न बालोऽस्मि न वृद्धोऽस्मि न युवाऽस्मि परात् परः ॥ ४.५६॥
न च नानास्वरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ।
इमं स्वानुभवं प्रोक्तं सर्वोपनिषदां परं रसम् ॥ ४.५७॥
यो वा को वा शृणोतीदं ब्रह्मैव भवति स्वयम् ॥ ४.५८॥
न स्थूलोऽप्यनणुर्न तेजमरुतामाकाशनीरक्षमा
भूतान्तर्गतकोशकाशहृदयाद्याकाशमात्राक्रमैः ।
उद्ग्रन्थश्रुतिशास्त्रसूत्रकरणैः किञ्चिज्ज्ञ सर्वज्ञता
बुद्ध्या मोहितमायया श्रुतिशतैर्भो जानते शङ्करम् ॥ ४.५९॥
॥ इति श्री शिवरहस्ये शङ्कराख्ये षष्ठांशे
ऋभुनिदाघसंवादो नाम चतुर्थोऽध्यायः ॥
५ ॥ पञ्चमोऽध्यायः ॥
निदाघः -
एवं स्थिते ऋभो को वै ब्रह्मभावाय कल्पते ।
तन्मे वद विशेषेण ज्ञानं शङ्करवाक्यजम् ॥ ५.१॥
ऋभुः -
त्वमेव ब्रह्म एवासि त्वमेव परमो गुरुः ।
त्वमेवाकाशरूपोऽसि त्वं ब्रह्मासि न संशयः ॥ ५.२॥
त्वमेव सर्वभावोऽसि त्वमेवार्थस्त्वमव्ययः ।
त्वं सर्वहीनस्त्वं साक्षी साक्षिहीनोऽसि सर्वदा ॥ ५.३॥
कालस्त्वं सर्वहीनस्त्वं साक्षिहीनोऽसि सर्वदा ।
कालहीनोऽसि कालोऽसि सदा ब्रह्मासि चिद्घनः ।
सर्वतत्त्वस्वरूपोऽसि त्वं ब्रह्मासि न संशयः ॥ ५.४॥
सत्योऽसि सिद्धोऽसि सनातनोऽसि
मुक्तोऽसि मोक्षोऽसि सदाऽमृतोऽसि ।
देवोऽसि शान्तोऽसि निरामयोऽसि
ब्रह्मासि पूर्णोऽसि परावरोऽसि ॥ ५.५॥
समोऽसि सच्चासि सनातनोऽसि
सत्यादिवाक्यैः प्रतिपादितोऽसि ।
सर्वाङ्गहीनोऽसि सदास्थितोऽसि
ब्रह्मासि पूर्णोऽसि परावरोऽसि ॥ ५.६॥var was परापरोऽसि
सर्वप्रपञ्चभ्रमवर्जितोऽसि सर्वेषु भूतेषु सदोदितोऽसि ।
सर्वत्र संकल्पविवर्जितोऽसि ब्रह्मासि पूर्णोऽसि परावरोऽसि ॥ ५.७॥
सर्वत्र सन्तोषसुखासनोऽसि सर्वत्र विद्वेषविवर्जितोऽसि ।
सर्वत्र कार्यादिविवर्जितोऽसि ब्रह्मासि पूर्णोऽसि परावरोऽसि ॥ ५.८॥
चिदाकारस्वरूपोऽसि चिन्मात्रोऽसि निरङ्कुशः ।
आत्मन्येवावस्थितोऽसि त्वं ब्रह्मासि न संशयः ॥ ५.९॥
आनन्दोऽसि परोऽसि त्वं सर्वशून्योऽसि निर्गुणः ।
एक एवाद्वितीयोऽसि त्वं ब्रह्मासि न संशयः ॥ ५.१०॥
चिद्घनानन्दरूपोऽसि चिदानन्दोऽसि सर्वदा ।
परिपूर्णस्वरूपोऽसि त्वं ब्रह्मासि न संशयः ॥ ५.११॥
तदसि त्वमसि ज्ञोऽसि सोऽसि जानासि वीक्ष्यसि ।
चिदसि ब्रह्मभूतोऽसि त्वं ब्रह्मासि न संशयः ॥ ५.१२॥
अमृतोऽसि विभुश्चासि देवोऽसि त्वं महानसि ।
चञ्चलोष्ठकलङ्कोऽसि त्वं ब्रह्मासि न संशयः ॥ ५.१३॥
सर्वोऽसि सर्वहीनोऽसि शान्तोऽसि परमो ह्यसि ।
कारणं त्वं प्रशान्तोऽसि त्वं ब्रह्मासि न संशयः ॥ ५.१४॥
सत्तामात्रस्वरूपोऽसि सत्तासामान्यको ह्यसि ।
नित्यशुद्धस्वरूपोऽसि त्वं ब्रह्मासि न संशयः ॥ ५.१५॥
ईषण्मात्रविहीनोऽसि अणुमात्रविवर्जितः ।
अस्तित्ववर्जितोऽसि त्वं नास्तित्वादिविवर्जितः ॥ ५.१६॥
योऽसि सोऽसि महान्तोऽसि त्वं ब्रह्मासि न संशयः ॥ ५.१७॥
लक्ष्यलक्षणहीनोऽसि चिन्मात्रोऽसि निरामयः ।
अखण्डैकरसो नित्यं त्वं ब्रह्मासि न संशयः ॥ ५.१८॥
सर्वाधारस्वरूपोऽसि सर्वतेजः स्वरूपकः ।
सर्वार्थभेदहीनोऽसि त्वं ब्रह्मासि न संशयः ॥ ५.१९॥
ब्रह्मैव भेदशून्योऽसि विप्लुत्यादिविवर्जितः ।
शिवोऽसि भेदहीनोऽसि त्वं ब्रह्मासि न संशयः ॥ ५.२०॥
प्रज्ञानवाक्यहीनोऽसि स्वस्वरूपं प्रपश्यसि ।
स्वस्वरूपस्थितोऽसि त्वं त्वं ब्रह्मासि न संशयः ॥ ५.२१॥
स्वस्वरूपावशेषोऽसि स्वस्वरूपो मतो ह्यसि ।
स्वानन्दसिन्धुमग्नोऽसि त्वं ब्रह्मासि न संशयः ॥ ५.२२॥
स्वात्मराज्ये त्वमेवासि स्वयमात्मानमो ह्यसि ।
स्वयं पूर्णस्वरूपोऽसि त्वं ब्रह्मासि न संशयः ॥ ५.२३॥
स्वस्मिन् सुखे स्वयं चासि स्वस्मात् किञ्चिन्न पश्यसि ।
स्वात्मन्याकाशवद्भासि त्वं ब्रह्मासि न संशयः ॥ ५.२४॥
स्वस्वरूपान्न चलसि स्वस्वरूपान्न पश्यसि ।
स्वस्वरूपामृतोऽसि त्वं त्वं ब्रह्मासि न संशयः ॥ ५.२५॥
स्वस्वरूपेण भासि त्वं स्वस्वरूपेण जृंभसि ।
स्वस्वरूपादनन्योऽसि त्वं ब्रह्मासि न संशयः ॥ ५.२६॥
स्वयं स्वयं सदाऽसि त्वं स्वयं सर्वत्र पश्यसि ।
स्वस्मिन् स्वयं स्वयं भुङ्क्षे त्वं ब्रह्मासि न संशयः ॥ ५.२७॥
सूतः -
तदा निधाघवचसा तुष्टो ऋभुरुवाच तम् ।
शिवप्रेमरसे पात्रं तं वीक्ष्याब्जजनन्दनः ॥ ५.२८॥
ऋभुः -
कैलासे शङ्करः पुत्रं कदाचिदुपदिष्टवान् ।
तदेव ते प्रवक्ष्यामि सावधानमनाः शृणु ॥ ५.२९॥
अयं प्रपञ्चो नास्त्येव नोत्पन्नो न स्वतः क्वचित् ।
चित्रप्रपञ्च इत्याहुर्नास्ति नास्त्येव सर्वदा ॥ ५.३०॥
न प्रपञ्चो न चित्तादि नाहंकारो न जीवकः ।
केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.३१॥
मायकार्यादिकं नास्ति मायाकार्यभयं नहि ।
केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.३२॥
कर्ता नास्ति क्रिया नास्ति करणं नास्ति पुत्रक ।
केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.३३॥
एकं नास्ति द्वयं नास्ति मन्त्रतन्त्रादिकं च न ।
केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.३४॥
श्रवणं मननं नास्ति निदिध्यासनविभ्रमः ।
केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.३५॥
समाधिद्विविधं नास्ति मातृमानादि नास्ति हि ।
केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.३६॥
अज्ञानं चापि नास्त्येव अविवेककथा न च ।
केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.३७॥
अनुबन्धचतुष्कं च संबन्धत्रयमेव न ।
केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.३८॥
भूतं भविष्यन्न क्वापि वर्तमानं न वै क्वचित् ।
केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.३९॥
गङ्गा गया तथा सेतुव्रतं वा नान्यदस्ति हि ।
केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.४०॥
न भूमिर्न जलं वह्निर्न वायुर्न च खं क्वचित् ।
केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.४१॥
नैव देवा न दिक्पाला न पिता न गुरुः क्वचित् ।
केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.४२॥
न दूरं नान्तिकं नान्तं न मध्यं न क्वचित् स्थितिः ।
नाद्वैतद्वैतसत्यत्वमसत्यं वा इदं न च ॥ ५.४३॥
न मोक्षोऽस्ति न बन्धोऽस्ति न वार्तावसरोऽस्ति हि ।
क्वचिद्वा किञ्चिदेवं वा सदसद्वा सुखानि च ॥ ५.४४॥
द्वन्द्वं वा तीर्थधर्मादि आत्मानात्मेति न क्वचित् ।
न वृद्धिर्नोदयो मृन्युर्न गमागमविभ्रमः ॥ ५.४५॥
इह नास्ति परं नास्ति न गुरुर्न च शिष्यकः ।
सदसन्नास्ति भूर्नास्ति कार्यं नास्ति कृतं च न ॥ ५.४६॥
जातिर्नास्ति गतिर्नास्ति वर्णो नास्ति न लौकिकम् ।
शमादिषट्कं नास्त्येव नियमो वा यमोऽपि वा ॥ ५.४७॥
सर्वं मिथ्येति नास्त्येव ब्रह्म इत्येव नास्ति हि ।
चिदित्येव हि नास्त्येव चिदहं भाषणं न हि ॥ ५.४८॥
अहमित्येव नास्त्येव नित्योऽस्मीति च न क्वचित् ।
केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वथा ॥ ५.४९॥
वाचा यदुच्यते किञ्चिन्मनसा मनुते च यत् ।
बुद्ध्या निश्चीयते यच्च चित्तेन ज्ञायते हि यत् ॥ ५.५०॥
योगेन युज्यते यच्च इन्द्रियाद्यैश्च यत् कृतम् ।
जाग्रत्स्वप्नसुषुप्तिं च स्वप्नं वा न तुरीयकम् ॥ ५.५१॥
सर्वं नास्तीति विज्ञेयं यदुपाधिविनिश्चितम् ।
स्नानाच्छुद्धिर्न हि क्वापि ध्यानात् शुद्धिर्न हि क्वचित् ॥ ५.५२॥
गुणत्रयं नास्ति किञ्चिद्गुणत्रयमथापि वा ।
एकद्वित्वपदं नास्ति न बहुभ्रमविभ्रमः ॥ ५.५३॥
भ्रान्त्यभ्रान्ति च नास्त्येव किञ्चिन्नास्तीति निश्चिनु ।
केवलं ब्रह्ममात्रत्वात् न किञ्चिदवशिष्यते ॥ ५.५४॥
इदं शृणोति यः सम्यक् स ब्रह्म भवति स्वयम् ॥ ५.५५॥
ईश्वरः -
वाराश्यम्बुनि बुद्बुदा इव घनानन्दाम्बुधावप्युमा-
कान्तेऽनन्तजगद्गतं सुरनरं जातं च तिर्यङ् मुहुः ।
भूतं चापि भविष्यति प्रतिभवं मायामयं चोर्मिजं
सम्यङ् मामनुपश्यतामनुभवैर्नास्त्येव तेषां भवः ॥ ५.५६॥
हरं विज्ञातारं निखिलतनुकार्येषु करणं
न जानन्ते मोहाद्यमितकरणा अप्यतितराम् ।
उमानाथाकारं हृदयदहरान्तर्गतसरा
पयोजाते भास्वद्भवभुजगनाशाण्डजवरम् ॥ ५.५७॥
॥इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
शिवेन कुमारोपदेशवर्णनं नाम पञ्चमोऽध्यायः ॥
६ ॥ षष्ठोऽध्यायः ॥
ईश्वरः -
व्रतानि मिथ्या भुवनानि मिथ्या
भावादि मिथ्या भवनानि मिथ्या ।
भयं च मिथ्या भरणादि मिथ्या
भुक्तं च मिथ्या बहुबन्धमिथ्या ॥ ६.१॥
वेदाश्च मिथ्या वचनानि मिथ्या
वाक्यानि मिथ्या विविधानि मिथ्या ।
वित्तानि मिथ्या वियदादि मिथ्या
विधुश्च मिथ्या विषयादि मिथ्या ॥ ६.२॥
गुरुश्च मिथ्या गुणदोषमिथ्या
गुह्यं च मिथ्या गणना च मिथ्या ।
गतिश्च मिथ्या गमनं च मिथ्या
सर्वं च मिथ्या गदितं च मिथ्या ॥ ६.३॥
वेदशास्त्रपुराणं च कार्यं कारणमीश्वरः ।
लोको भूतं जनं चैव सर्वं मिथ्या न संशयः ॥ ६.४॥
बन्धो मोक्षः सुखं दुःखं ध्यानं चित्तं सुरासुराः ।
गौणं मुख्यं परं चान्यत् सर्वं मिथ्या न संशयः ॥ ६.५॥
वाचा वदति यत्किञ्चित् सर्वं मिथ्या न संशयः ।
सङ्कल्पात् कल्प्यते यद्यत् मनसा चिन्त्यते च यत् ॥ ६.६॥
बुद्ध्या निश्चीयते किञ्चित् चित्तेन नीयते क्वचित् ।
प्रपञ्चे पञ्चते यद्यत् सर्वं मिथ्येति निश्चयः ॥ ६.७॥
श्रोत्रेण श्रूयते यद्यन्नेत्रेण च निरीक्ष्यते ।
नेत्रं श्रोत्रं गात्रमेव सर्वं मिथ्या न संशयः ॥ ६.८॥
इदमित्येव निर्दिष्टमिदमित्येव कल्पितम् ।
यद्यद्वस्तु परिज्ञातं सर्वं मिथ्या न संशयः ॥ ६.९॥
कोऽहं किन्तदिदं सोऽहं अन्यो वाचयते नहि ।
यद्यत् संभाव्यते लोके सर्वं मिथ्येति निश्चयः ॥ ६.१०॥
सर्वाभ्यास्यं सर्वगोप्यं सर्वकारणविभ्रमः ।
सर्वभूतेति वार्ता च मिथ्येति च विनिश्चयः ॥ ६.११॥
सर्वभेदप्रभेदो वा सर्वसंकल्पविभ्रमः ।
सर्वदोषप्रभेदश्च सर्वं मिथ्या न संशयः ॥ ६.१२॥
रक्षको विष्णुरित्यादि ब्रह्मसृष्टेस्तु कारणम् ।
संहारे शिव इत्येवं सर्वं मिथ्या न संशयः ॥ ६.१३॥
स्नानं जपस्तपो होमः स्वाध्यायो देवपूजनम् ।
मन्त्रो गोत्रं च सत्सङ्गः सर्वं मिथ्या न संशयः ॥ ६.१४॥
सर्वं मिथ्या जगन्मिथ्या भूतं भव्यं भवत्तथा ।
नास्ति नास्ति विभावेन सर्वं मिथ्या न संशयः ॥ ६.१५॥
चित्तभेदो जगद्भेदः अविद्यायाश्च संभवः ।
अनेककोटिब्रह्माण्डाः सर्वं ब्रह्मेति निश्चिनु ॥ ६.१६॥
लोकत्रयेषु सद्भावो गुणदोषादिजृंभणम् ।
सर्वदेशिकवार्तोक्तिः सर्वं ब्रह्मेति निश्चिनु ॥ ६.१७॥
उत्कृष्टं च निकृष्टं च उत्तमं मध्यमं च तत् ।
ॐकारं चाप्यकारं च सर्वं ब्रह्मेति निश्चिनु ॥ ६.१८॥
यद्यज्जगति दृश्येत यद्यज्जगति वीक्ष्यते ।
यद्यज्जगति वर्तेत सर्वं ब्रह्मेति निश्चिनु ॥ ६.१९॥
येन केनाक्षरेणोक्तं येन केनापि सङ्गतम् ।
येन केनापि नीतं तत् सर्वं ब्रह्मेति निश्चिनु ॥ ६.२०॥
येन केनापि गदितं येन केनापि मोदितम् ।
येन केनापि च प्रोक्तं सर्वं ब्रह्मेति निश्चिनु ॥ ६.२१॥
येन केनापि यद्दत्तं येन केनापि यत् कृतम् ।
यत्र कुत्र जलस्नानं सर्वं ब्रह्मेति निश्चिनु ॥ ६.२२॥
यत्र यत्र शुभं कर्म यत्र यत्र च दुष्कृतम् ।
यद्यत् करोषि सत्येन सर्वं मिथ्येति निश्चिनु ॥ ६.२३॥
इदं सर्वमहं सर्वं सर्वं ब्रह्मेति निश्चिनु ।
यत् किञ्चित् प्रतिभातं च सर्वं मिथ्येति निश्चिनु ॥ ६.२४॥
ऋभुः -
पुनर्वक्ष्ये रहस्यानां रहस्यं परमाद्भुतम् ।
शङ्करेण कुमाराय प्रोक्तं कैलास पर्वते ॥ ६.२५॥
तन्मात्रं सर्वचिन्मात्रमखण्डैकरसं सदा ।
एकवर्जितचिन्मात्रं सर्वं चिन्मयमेव हि ॥ ६.२६॥
इदं च सर्वं चिन्मात्रं सर्वं चिन्मयमेव हि ।
आत्माभासं च चिन्मात्रं सर्वं चिन्मयमेव हि ॥ ६.२७॥
सर्वलोकं च चिन्मात्रं सर्वं चिन्मयमेव हि ।
त्वत्ता मत्ता च चिन्मात्रं चिन्मात्रान्नास्ति किञ्चन ॥ ६.२८॥
आकाशो भूर्जलं वायुरग्निर्ब्रह्मा हरिः शिवः ।
यत्किञ्चिदन्यत् किञ्चिच्च सर्वं चिन्मयमेव हि ॥ ६.२९॥
अखण्डैकरसं सर्वं यद्यच्चिन्मात्रमेव हि ।
भूतं भव्यं च चिन्मात्रं सर्वं चिन्मयमेव हि ॥ ६.३०॥
द्रव्यं कालश्च चिन्मात्रं ज्ञानं चिन्मयमेव च ।
ज्ञेयं ज्ञानं च चिन्मात्रं सर्वं चिन्मयमेव हि ॥ ६.३१॥
संभाषणं च चिन्मात्रं वाक् च चिन्मात्रमेव हि ।
असच्च सच्च चिन्मात्रं सर्वं चिन्मयमेव हि ॥ ६.३२॥
आदिरन्तं च चिन्मात्रं अस्ति चेच्चिन्मयं सदा ।
ब्रह्मा यद्यपि चिन्मात्रं विष्णुश्चिन्मात्रमेव हि ॥ ६.३३॥
रुद्रोऽपि देवाश्चिन्मात्रं अस्ति नरतिर्यक्सुरासुरम् ।
गुरुशिष्यादि सन्मात्रं ज्ञानं चिन्मात्रमेव हि ॥ ६.३४॥
दृग्दृश्यं चापि चिन्मात्रं ज्ञाता ज्ञेयं ध्रुवाध्रुवम् ।
सर्वाश्चर्यं च चिन्मात्रं देहं चिन्मात्रमेव हि ॥ ६.३५॥
लिङ्गं चापि च चिन्मात्रं कारणं कार्यमेव च ।
मूर्तामूर्तं च चिन्मात्रं पापपुण्यमथापि च ॥ ६.३६॥
द्वैताद्वैतं च चिन्मात्रं वेदवेदान्तमेव च ।
दिशोऽपि विदिशश्चैव चिन्मात्रं तस्य पालकाः ॥ ६.३७॥
चिन्मात्रं व्यवहारादि भूतं भव्यं भवत्तथा ।
चिन्मात्रं नामरूपं च भूतानि भुवनानि च ॥ ६.३८॥
चिन्मात्रं प्राण एवेह चिन्मात्रं सर्वमिन्द्रियम् ।
चिन्मात्रं पञ्चकोशादि चिन्मात्रानन्दमुच्यते ॥ ६.३९॥
नित्यानित्यं च चिन्मात्रं सर्वं चिन्मात्रमेव हि ।
चिन्मात्रं नास्ति नित्यं च चिन्मात्रं नास्ति सत्यकम् ॥ ६.४०॥
चिन्मात्रमपि वैराग्यं चिन्मात्रकमिदं किल ।
आधारादि हि चिन्मात्रं आधेयं च मुनीश्वर ॥ ६.४१॥
यच्च यावच्च चिन्मात्रं यच्च यावच्च दृश्यते ।
यच्च यावच्च दूरस्थं सर्वं चिन्मात्रमेव हि ॥ ६.४२॥
यच्च यावच्च भूतानि यच्च यावच्च वक्ष्यते ।
यच्च यावच्च वेदोक्तं सर्वं चिन्मात्रमेव हि ॥ ६.४३॥
चिन्मात्रं नास्ति बन्धं च चिन्मात्रं नास्ति मोक्षकम् ।
चिन्मात्रमेव सन्मात्रं सत्यं सत्यं शिवं स्पृशे ॥ ६.४४॥
सर्वं वेदत्रयप्रोक्तं सर्वं चिन्मात्रमेव हि ।
शिवप्रोक्तं कुमाराय तदेतत् कथितं त्वयि ।
यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥ ६.४५॥
सूतः -
ईशावास्यादिमन्त्रैर्वरगगनतनोः क्षेत्रवासार्थवादैः
तल्लिङ्गागारमध्यस्थितसुमहदीशान लिङ्गेषु पूजा ।
अक्लेद्ये चाभिषेको ??? ??? ??? दिग्वाससे वासदानं
नो गन्धघ्राणहीने रूपदृश्याद्विहीने गन्धपुष्पार्पणानि ॥ ६.४६॥
स्वभासे दीपदानं ??? सर्वभक्षे महेशे
नैवेद्यं नित्यतृप्ते सकलभुवनगे प्रक्रमो वा नमस्या ।
कुर्यां केनापि भावैर्मम निगमशिरोभाव एव प्रमाणम् ॥ ६.४७॥
अविच्छिन्नैश्छिन्नैः परिकरवरैः पूजनधिया
भजन्त्यज्ञास्तद्ज्ञाः विधिविहितबुद्ध्यागतधियः ।var was तदज्ञाः
तथापीशं भावैर्भजति भजतामात्मपदवीं
ददातीशो विश्वं भ्रमयति गतज्ञांश्च कुरुते ॥ ६.४८॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
प्रपञ्चस्य सच्चिन्मयत्वकथनं नाम षष्ठोऽध्यायः ॥
७ ॥ सप्तमोऽध्यायः ॥
ऋभुः -
अत्यद्भुतं प्रवक्ष्यामि सर्वलोकेषु दुर्लभम् ।
वेदशास्त्रमहासारं दुर्लभं दुर्लभं सदा ॥ ७.१॥
अखण्डैकरसो मन्त्रमखण्डैकरसं फलम् ।
अखण्डैकरसो जीव अखण्डैकरसा क्रिया ॥ ७.२॥
अखण्डैकरसा भूमिरखण्डैकरसं जलम् ।
अखण्डैकरसो गन्ध अखण्डैकरसं वियत् ॥ ७.३॥
अखण्डैकरसं शास्त्रं अखण्डैकरसं श्रुतिः ।
अखण्डैकरसं ब्रह्म अखण्डैकरसं व्रतम् ॥ ७.४॥
अखण्डैकरसो विष्णुरखण्डैकरसः शिवः ।
अखण्डैकरसो ब्रह्मा अखण्डैकरसाः सुराः ॥ ७.५॥
अखण्डैकरसं सर्वमखण्डैकरसः स्वयम् ।
अखण्डैकरसश्चात्मा अखण्डैकरसो गुरुः ॥ ७.६॥
अखण्डैकरसं वाच्यमखण्डैकरसं महः ।
अखण्डैकरसं देह अखण्डैकरसं मनः ॥ ७.७॥
अखण्डैकरसं चित्तं अखण्डैकरसं सुखम् ।
अखण्डैकरसा विद्या अखण्डैकरसोऽव्ययः ॥ ७.८॥
अखण्डैकरसं नित्यमखण्डैकरसः परः ।
अखण्डैकरसात् किञ्चिदखण्डैकरसादहम् ॥ ७.९॥
अखण्डैकरसं वास्ति अखण्डैकरसं न हि ।
अखण्डैकरसादन्यत् अखण्डैकरसात् परः ॥ ७.१०॥
अखण्डैकरसात् स्थूलं अखण्डैकरसं जनः ।
अखण्डैकरसं सूक्ष्ममखण्डैकरसं द्वयम् ॥ ७.११॥
अखण्डैकरसं नास्ति अखण्डैकरसं बलम् ।
अखण्डैकरसाद्विष्णुरखण्डैकरसादणुः ॥ ७.१२॥
अखण्डैकरसं नास्ति अखण्डैकरसाद्भवान् ।
अखण्डैकरसो ह्येव अखण्डैकरसादितम् ॥ ७.१३॥
अखण्डितरसाद् ज्ञानं अखण्डितरसाद् स्थितम् ।
अखण्डैकरसा लीला अखण्डैकरसः पिता ॥ ७.१४॥var was लीना
अखण्डैकरसा भक्ता अखण्डैकरसः पतिः ।
अखण्डैकरसा माता अखण्डैकरसो विराट् ॥ ७.१५॥
अखण्डैकरसं गात्रं अखण्डैकरसं शिरः ।
अखण्डैकरसं घ्राणं अखण्डैकरसं बहिः ॥ ७.१६॥
अखण्डैकरसं पूर्णमखण्डैकरसामृतम् ।
अखण्डैकरसं श्रोत्रमखण्डैकरसं गृहम् ॥ ७.१७॥
अखण्डैकरसं गोप्यमखण्डैकरसः शिवः ।
अखण्डैकरसं नाम अखण्डैकरसो रविः ॥ ७.१८॥
अखण्डैकरसः सोमः अखण्डैकरसो गुरुः ।
अखण्डैकरसः साक्षी अखण्डैकरसः सुहृत् ॥ ७.१९॥
अखण्डैकरसो बन्धुरखण्डैकरसोऽस्म्यहम् ।
अखण्डैकरसो राजा अखण्डैकरसं पुरम् ॥ ७.२०॥
अखण्डैकरसैश्वर्यं अखण्डैकरसं प्रभुः ।
अखण्डैकरसो मन्त्र अखण्डैकरसो जपः ॥ ७.२१॥
अखण्डैकरसं ध्यानमखण्डैकरसं पदम् ।
अखण्डैकरसं ग्राह्यमखण्डैकरसं महान् ॥ ७.२२॥
अखण्डैकरसं ज्योतिरखण्डैकरसं परम् ।
अखण्डैकरसं भोज्यमखण्डैकरसं हविः ॥ ७.२३॥
अखण्डैकरसो होमः अखण्डैकरसो जयः ।
अखण्डैकरसः स्वर्गः अखण्डैकरसः स्वयम् ॥ ७.२४॥
अखण्डैकरसाकारादन्यन्नास्ति नहि क्वचित् ।
शृणु भूयो महाश्चर्यं नित्यानुभवसम्पदम् ॥ ७.२५॥
दुर्लभं दुर्लभं लोके सर्वलोकेषु दुर्लभम् ।
अहमस्मि परं चास्मि प्रभास्मि प्रभवोऽस्म्यहम् ॥ ७.२६॥
सर्वरूपगुरुश्चास्मि सर्वरूपोऽस्मि सोऽस्म्यहम् ।
अहमेवास्मि शुद्धोऽस्मि ऋद्धोऽस्मि परमोऽस्म्यहम् ॥ ७.२७॥
अहमस्मि सदा ज्ञोऽस्मि सत्योऽस्मि विमलोऽस्म्यहम् ।
विज्ञानोऽस्मि विशेषोऽस्मि साम्योऽस्मि सकलोऽस्म्यहम् ॥ ७.२८॥
शुद्धोऽस्मि शोकहीनोऽस्मि चैतन्योऽस्मि समोऽस्म्यहम् ।
मानावमानहीनोऽस्मि निर्गुणोऽस्मि शिवोऽस्म्यहम् ॥ ७.२९॥
द्वैताद्वैतविहीनोऽस्मि द्वन्द्वहीनोऽस्मि सोऽस्म्यहम् ।
भावाभावविहीनोऽस्मि भाषाहीनोऽस्मि सोऽस्म्यहम् ॥ ७.३०॥
शून्याशून्यप्रभावोऽस्मि शोभनोऽस्मि मनोऽस्म्यहम् ।
तुल्यातुल्यविहीनोऽस्मि तुच्छभावोऽस्मि नास्म्यहम् ॥ ७.३१॥
सदा सर्वविहीनोऽस्मि सात्विकोऽस्मि सदास्म्यहम् ।
एकसंख्याविहीनोऽस्मि द्विसंख्या नास्ति नास्म्यहम् ॥ ७.३२॥
सदसद्भेदहीनोऽस्मि संकल्परहितोऽस्म्यहम् ।
नानात्मभेदहीनोऽस्मि यत् किञ्चिन्नास्ति सोऽस्म्यहम् ॥ ७.३३॥
नाहमस्मि न चान्योऽस्मि देहादिरहितोऽस्म्यहम् ।
आश्रयाश्रयहीनोऽस्मि आधाररहितोऽस्म्यहम् ॥ ७.३४॥
बन्धमोक्षादिहीनोऽस्मि शुद्धब्रह्मादि सोऽस्म्यहम् ।
चित्तादिसर्वहीनोऽस्मि परमोऽस्मि परोऽस्म्यहम् ॥ ७.३५॥
सदा विचाररूपोऽस्मि निर्विचारोऽस्मि सोऽस्म्यहम् ।
आकारादिस्वरूपोऽस्मि उकारोऽस्मि मुदोऽस्म्यहम् ॥ ७.३६॥
ध्यानाध्यानविहीनोऽस्मि ध्येयहीनोऽस्मि सोऽस्म्यहम् ।
पूर्णात् पूर्णोऽस्मि पूर्णोऽस्मि सर्वपूर्णोऽस्मि सोऽस्म्यहम् ॥ ७.३७॥
सर्वातीतस्वरूपोऽस्मि परं ब्रह्मास्मि सोऽस्म्यहम् ।
लक्ष्यलक्षणहीनोऽस्मि लयहीनोऽस्मि सोऽस्म्यहम् ॥ ७.३८॥
मातृमानविहीनोऽस्मि मेयहीनोऽस्मि सोऽस्म्यहम् ।
अगत् सर्वं च द्रष्टास्मि नेत्रादिरहितोऽस्म्यहम् ॥ ७.३९॥
प्रवृद्धोऽस्मि प्रबुद्धोऽस्मि प्रसन्नोऽस्मि परोऽस्म्यहम् ।
सर्वेन्द्रियविहीनोऽस्मि सर्वकर्महितोऽस्म्यहम् ॥ ७.४०॥
सर्ववेदान्ततृप्तोऽस्मि सर्वदा सुलभोऽस्म्यहम् ।
मुदा मुदितशून्योऽस्मि सर्वमौनफलोऽस्म्यहम् ॥ ७.४१॥
नित्यचिन्मात्ररूपोऽस्मि सदसच्चिन्मयोऽस्म्यहम् ।
यत् किञ्चिदपि हीनोऽस्मि स्वल्पमप्यति नाहितम् ॥ ७.४२॥
हृदयग्रन्थिहीनोऽस्मि हृदयाद्व्यापकोऽस्म्यहम् ।
षड्विकारविहीनोऽस्मि षट्कोशरहितोऽस्म्यहम् ॥ ७.४३॥
अरिषड्वर्गमुक्तोऽस्मि अन्तरादन्तरोऽस्म्यहम् ।
देशकालविहीनोऽस्मि दिगम्बरमुखोऽस्म्यहम् ॥ ७.४४॥
नास्ति हास्ति विमुक्तोऽस्मि नकाररहितोऽस्म्यहम् ।
सर्वचिन्मात्ररूपोऽस्मि सच्चिदानन्दमस्म्यहम् ॥ ७.४५॥
अखण्डाकाररूपोऽस्मि अखण्डाकारमस्म्यहम् ।
प्रपञ्चचित्तरूपोऽस्मि प्रपञ्चरहितोऽस्म्यहम् ॥ ७.४६॥
सर्वप्रकाररूपोऽस्मि सद्भावावर्जितोऽस्म्यहम् ।
कालत्रयविहीनोऽस्मि कामादिरहितोऽस्म्यहम् ॥ ७.४७॥
कायकायिविमुक्तोऽस्मि निर्गुणप्रभवोऽस्म्यहम् ।
मुक्तिहीनोऽस्मि मुक्तोऽस्मि मोक्षहीनोऽस्म्यहं सदा ॥ ७.४८॥
सत्यासत्यविहीनोऽस्मि सदा सन्मात्रमस्म्यहम् ।
गन्तव्यदेशहीनोऽस्मि गमनारहितोऽस्म्यहम् ॥ ७.४९॥
सर्वदा स्मररूपोऽस्मि शान्तोऽस्मि सुहितोऽस्म्यहम् ।
एवं स्वानुभवं प्रोक्तं एतत् प्रकरणं महत् ॥ ७.५०॥
यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ।
पिण्डाण्डसंभवजगद्गतखण्डनोद्य-
द्वेतण्डशुण्डनिभपीवरबाहुदण्ड ।
ब्रह्मोरुमुण्डकलिताण्डजवाहबाण
कोदण्डभूधरधरं भजतामखण्डम् ॥ ७.५१॥
विश्वात्मन्यद्वितीये भगवति गिरिजानायके काशरूपे
नीरूपे विश्वरूपे गतदुरितधियः प्राप्नुवन्त्यात्मभावम् ।
अन्ये भेदधियः श्रुतिप्रकथितैर्वर्णाश्रमोत्थश्रमैः
तान्ताः शान्तिविवर्जिता विषयिणो दुःखं भजन्त्यन्वहम् ॥ ७.५२॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
स्वात्मनिरूपणं नाम सप्तमोऽध्यायः ॥
८ ॥ अष्टमोऽध्यायः ॥
ऋभुः -
वक्ष्ये प्रपञ्चशून्यत्वं शशशृङ्गेण संमितम् ।
दुर्लभं सर्वलोकेषु सावधानमनाः शृणु ॥ ८.१॥
इदं प्रपञ्चं यत् किञ्चिद्यः शृणोति च पश्यति ।
दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत् ॥ ८.२॥
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
अहंकारश्च तेजश्च सर्वं शशविषाणवत् ॥ ८.३॥
नाश जन्म च सत्यं च लोकं भुवनमण्डलम् ।
पुण्यं पापं जयो मोहः सर्वं शशविषाणवत् ॥ ८.४॥
कामक्रोधौ लोभमोहौ मदमोहौ रतिर्धृतिः ।
गुरुशिष्योपदेशादि सर्वं शशविषाणवत् ॥ ८.५॥
अहं त्वं जगदित्यादि आदिरन्तिममध्यमम् ।
भूतं भव्यं वर्तमानं सर्वं शशविषाणवत् ॥ ८.६॥
स्थूलदेहं सूक्ष्मदेहं कारणं कार्यमप्ययम् ।
दृश्यं च दर्शनं किञ्चित् सर्वं शशविषाणवत् ॥ ८.७॥
भोक्ता भोज्यं भोगरूपं लक्ष्यलक्षणमद्वयम् ।
शमो विचारः सन्तोषः सर्वं शशविषाणवत् ॥ ८.८॥
यमं च नियमं चैव प्राणायामादिभाषणम् ।
गमनं चलनं चित्तं सर्वं शशविषाणवत् ॥ ८.९॥
श्रोत्रं नेत्रं गात्रगोत्रं गुह्यं जाड्यं हरिः शिवः ।
आदिरन्तो मुमुक्षा च सर्वं शशविषाणवत् ॥ ८.१०॥
ज्ञानेन्द्रियं च तन्मात्रं कर्मेन्द्रियगणं च यत् ।
जाग्रत्स्वप्नसुषुप्त्यादि सर्वं शशविषाणवत् ॥ ८.११॥
चतुर्विंशतितत्त्वं च साधनानां चतुष्टयम् ।
सजातीयं विजातीयं सर्वं शशविषाणवत् ॥ ८.१२॥
सर्वलोकं सर्वभूतं सर्वधर्मं सतत्वकम् ।
सर्वाविद्या सर्वविद्या सर्वं शशविषाणवत् ॥ ८.१३॥
सर्ववर्णः सर्वजातिः सर्वक्षेत्रं च तीर्थकम् ।
सर्ववेदं सर्वशास्त्रं सर्वं शशविषाणवत् ॥ ८.१४॥
सर्वबन्धं सर्वमोक्षं सर्वविज्ञानमीश्वरः ।
सर्वकालं सर्वबोध सर्वं शशविषाणवत् ॥ ८.१५॥
सर्वास्तित्वं सर्वकर्म सर्वसङ्गयुतिर्महान् ।
सर्वद्वैतमसद्भावं सर्वं शशविषाणवत् ॥ ८.१६॥
सर्ववेदान्तसिद्धान्तः सर्वशास्त्रार्थनिर्णयः ।
सर्वजीवत्वसद्भावं सर्वं शशविषाणवत् ॥ ८.१७॥
यद्यत् संवेद्यते किञ्चित् यद्यज्जगति दृश्यते ।
यद्यच्छृणोति गुरुणा सर्वं शशविषाणवत् ॥ ८.१८॥
यद्यद्ध्यायति चित्ते च यद्यत् संकल्प्यते क्वचित् ।
बुद्ध्या निश्चीयते यच्च सर्वं शशविषाणवत् ॥ ८.१९॥
यद्यद् वाचा व्याकरोति यद्वाचा चार्थभाषणम् ।
यद्यत् सर्वेन्द्रियैर्भाव्यं सर्वं शशविषाणवत् ॥ ८.२०॥
यद्यत् सन्त्यज्यते वस्तु यच्छृणोति च पश्यति ।
स्वकीयमन्यदीयं च सर्वं शशविषाणवत् ॥ ८.२१॥
सत्यत्वेन च यद्भाति वस्तुत्वेन रसेन च ।
यद्यत् सङ्कल्प्यते चित्ते सर्वं शशविषाणवत् ॥ ८.२२॥
यद्यदात्मेति निर्णीतं यद्यन्नित्यमितं वचः ।
यद्यद्विचार्यते चित्ते सर्वं शशविषाणवत् ॥ ८.२३॥
शिवः संहरते नित्यं विष्णुः पाति जगत्त्रयम् ।
स्रष्टा सृजति लोकान् वै सर्वं शशविषाणवत् ॥ ८.२४॥
जीव इत्यपि यद्यस्ति भाषयत्यपि भाषणम् ।
संसार इति या वार्ता सर्वं शशविषाणवत् ॥ ८.२५॥
यद्यदस्ति पुराणेषु यद्यद्वेदेषु निर्णयः ।
सर्वोपनिषदां भावं सर्वं शशविषाणवत् ॥ ८.२६॥
शशशृङ्गवदेवेदमुक्तं प्रकरणं तव ।
यः शृणोति रहस्यं वै ब्रह्मैव भवति स्वयम् ॥ ८.२७॥
भूयः शृणु निदाघ त्वं सर्वं ब्रह्मेति निश्चयम् ।
सुदुर्लभमिदं नॄणां देवानामपि सत्तम ॥ ८.२८॥
इदमित्यपि यद्रूपमहमित्यपि यत्पुनः ।
दृश्यते यत्तदेवेदं सर्वं ब्रह्मेति केवलम् ॥ ८.२९॥
देहोऽयमिति सङ्कल्पस्तदेव भयमुच्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३०॥
देहोऽहमिति सङ्कल्पस्तदन्तःकरणं स्मृतम् ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३१॥
देहोऽहमिति सङ्कल्पः स हि संसार उच्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३२॥
देहोऽहमिति सङ्कल्पस्तद्बन्धनमिहोच्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३३॥
देहोऽहमिति यद् ज्ञानं तदेव नरकं स्मृतम् ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३४॥
देहोऽहमिति सङ्कल्पो जगत् सर्वमितीर्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३५॥
देहोऽहमिति सङ्कल्पो हृदयग्रन्थिरीरितः ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३६॥
देहत्रयेऽपि भावं यत् तद्देहज्ञानमुच्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३७॥
देहोऽहमिति यद्भावं सदसद्भावमेव च ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३८॥
देहोऽहमिति सङ्कल्पस्तत्प्रपञ्चमिहोच्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३९॥
देहोऽहमिति सङ्कल्पस्तदेवाज्ञानमुच्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४०॥
देहोऽहमिति या बुद्धिर्मलिना वासनोच्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४१॥
देहोऽहमिति या बुद्धिः सत्यं जीवः स एव सः ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४२॥
देहोऽहमिति सङ्कल्पो महानरकमीरितम् ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४३॥
देहोऽहमिति या बुद्धिर्मन एवेति निश्चितम् ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४४॥
देहोऽहमिति या बुद्धिः परिच्छिन्नमितीर्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४५॥
देहोऽहमिति यद् ज्ञानं सर्वं शोक इतीरितम् ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४६॥
देहोऽहमिति यद् ज्ञानं संस्पर्शमिति कथ्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४७॥
देहोऽहमिति या बुद्धिस्तदेव मरणं स्मृतम् ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४८॥
देहोऽहमिति या बुद्धिस्तदेवाशोभनं स्मृतम् ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४९॥
देहोऽहमिति या बुद्धिर्महापापमिति स्मृतम् ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.५०॥
देहोऽहमिति या बुद्धिः तुष्टा सैव हि चोच्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.५१॥
देहोऽहमिति सङ्कल्पः सर्वदोषमिति स्मृतम् ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.५२॥
देहोऽहमिति सङ्कल्पस्तदेव मलमुच्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.५३॥
देहोऽहमिति सङ्कल्पो महत्संशयमुच्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.५४॥
यत्किञ्चित्स्मरणं दुःखं यत्किञ्चित् स्मरणं जगत् ।
यत्किञ्चित्स्मरणं कामो यत्किञ्चित्स्मरणं मलम् ॥ ८.५५॥
यत्किञ्चित्स्मरणं पापं यत्किञ्चित्स्मरणं मनः ।
यत्किञ्चिदपि सङ्कल्पं महारोगेति कथ्यते ॥ ८.५६॥
यत्किञ्चिदपि सङ्कल्पं महामोहेति कथ्यते ।
यत्किञ्चिदपि सङ्कल्पं तापत्रयमुदाहृतम् ॥ ८.५७॥
यत्किञ्चिदपि सङ्कल्पं कामक्रोधं च कथ्यते ।
यत्किञ्चिदपि सङ्कल्पं संबन्धो नेतरत् क्वचित् ॥ ८.५८॥
यत्किञ्चिदपि सङ्कल्पं सर्वदुःखेति नेतरत् ।
यत्किञ्चिदपि सङ्कल्पं जगत्सत्यत्वविभ्रमम् ॥ ८.५९॥
यत्किञ्चिदपि सङ्कल्पं महादोषं च नेतरत् ।
यत्किञ्चिदपि सङ्कल्पं कालत्रयमुदीरितम् ॥ ८.६०॥
यत्किञ्चिदपि सङ्कल्पं नानारूपमुदीरितम् ।
यत्र यत्र च सङ्कल्पं तत्र तत्र महज्जगत् ॥ ८.६१॥
यत्र यत्र च सङ्कल्पं तदेवासत्यमेव हि ।
यत्किञ्चिदपि सङ्कल्पं तज्जगन्नास्ति संशयः ॥ ८.६२॥
यत्किञ्चिदपि सङ्कल्पं तत्सर्वं नेति निश्चयः ।
मन एव जगत्सर्वं मन एव महारिपुः ॥ ८.६३॥
मन एव हि संसारो मन एव जगत्त्रयम् ।
मन एव महादुःखं मन एव जरादिकम् ॥ ८.६४॥
मन एव हि कालं च मन एव मलं सदा ।
मन एव हि सङ्कल्पो मन एव हि जीवकः ॥ ८.६५॥
मन एवाशुचिर्नित्यं मन एवेन्द्रजालकम् ।
मन एव सदा मिथ्या मनो वन्ध्याकुमारवत् ॥ ८.६६॥
मन एव सदा नास्ति मन एव जडं सदा ।
मन एव हि चित्तं च मनोऽहंकारमेव च ॥ ८.६७॥
मन एव महद्बन्धं मनोऽन्तःकरणं क्वचित् ।
मन एव हि भूमिश्च मन एव हि तोयकम् ॥ ८.६८॥
मन एव हि तेजश्च मन एव मरुन्महान् ।
मन एव हि चाकाशो मन एव हि शब्दकः ॥ ८.६९॥
मन एव स्पर्शरूपं मन एव हि रूपकम् ।
मन एव रसाकारं मनो गन्धः प्रकीर्तितः ॥ ८.७०॥
अन्नकोशं मनोरूपं प्राणकोशं मनोमयम् ।
मनोकोशं मनोरूपं विज्ञानं च मनोमयः ॥ ८.७१॥
मन एवानन्दकोशं मनो जाग्रदवस्थितम् ।
मन एव हि स्वप्नं च मन एव सुषुप्तिकम् ॥ ८.७२॥
मन एव हि देवादि मन एव यमादयः ।
मन एव हि यत्किञ्चिन्मन एव मनोमयः ॥ ८.७३॥
मनोमयमिदं विश्वं मनोमयमिदं पुरम् ।
मनोमयमिदं भूतं मनोमयमिदं द्वयम् ॥ ८.७४॥
मनोमयमियं जातिर्मनोमयमयं गुणः ।
मनोमयमिदं दृश्यं मनोमयमिदं जडम् ॥ ८.७५॥
मनोमयमिदं यद्यन्मनो जीव इति स्थितम् ।
सङ्कल्पमात्रमज्ञानं भेदः सङ्कल्प एव हि ॥ ८.७६॥
सङ्कल्पमात्रं विज्ञानं द्वन्द्वं सङ्कल्प एव हि ।
सङ्कल्पमात्रकालं च देशं सङ्कल्पमेव हि ॥ ८.७७॥
सङ्कल्पमात्रो देहश्च प्राणः सङ्कल्पमात्रकः ।
सङ्कल्पमात्रं मननं सङ्कल्पं श्रवणं सदा ॥ ८.७८॥
सङ्कल्पमात्रं नरकं सङ्कल्पं स्वर्ग इत्यपि ।
सङ्कल्पमेव चिन्मात्रं सङ्कल्पं चात्मचिन्तनम् ॥ ८.७९॥
सङ्कल्पं वा मनाक्तत्त्वं ब्रह्मसङ्कल्पमेव हि ।
सङ्कल्प एव यत्किञ्चित् तन्नास्त्येव कदाचन ॥ ८.८०॥
नास्ति नास्त्येव सङ्कल्पं नास्ति नास्ति जगत्त्रयम् ।
नास्ति नास्ति गुरुर्नास्ति नास्ति शिष्योऽपि वस्तुतः ॥ ८.८१॥
नास्ति नास्ति शरीरं च नास्ति नास्ति मनः क्वचित् ।
नास्ति नास्त्येव किञ्चिद्वा नास्ति नास्त्यखिलं जगत् ॥ ८.८२॥
नास्ति नास्त्येव भूतं वा सर्वं नास्ति न संशयः ।
᳚सर्वं नास्ति᳚ प्रकरणं मयोक्तं च निदाघ ते ।
यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥ ८.८३॥
वेदान्तैरपि चन्द्रशेखरपदाम्भोजानुरागादरा-
दारोदारकुमारदारनिकरैः प्राणैर्वनैरुज्झितः ।
त्यागाद्यो मनसा सकृत् शिवपदध्यानेन यत्प्राप्यते
तन्नैवाप्यति शब्दतर्कनिवहैः शान्तं मनस्तद्भवेत् ॥ ८.८४॥
अशेषदृश्योज्झितदृङ्मयानां
सङ्कल्पवर्जेन सदास्थितानाम् ।
न जाग्रतः स्वप्नसुषुप्तिभावो
न जीवनं नो मरणं च चित्रम् ॥ ८.८५॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
प्रपञ्चशून्यत्व-सर्वनास्तित्वनिरूपणं नाम अष्टमोऽध्यायः ॥
९ ॥ नवमोऽध्यायः ॥
निदाघः-
कुत्र वा भवता स्नानं क्रियते नितरां गुरो ।
स्नानमन्त्रं स्नानकालं तर्पणं च वदस्व मे ॥ ९.१॥
ऋभुः -
आत्मस्नानं महास्नानं नित्यस्नानं न चान्यतः ।
इदमेव महास्नानं अहं ब्रह्मास्मि निश्चयः ॥ ९.२॥
परब्रह्मस्वरूपोऽहं परमानन्दमस्म्यहम् ।
इदमेव महास्नानं अहं ब्रह्मेति निश्चयः ॥ ९.३॥
केवलं ज्ञानरूपोऽहं केवलं परमोऽस्म्यहम् ।
केवलं शान्तरूपोऽहं केवलं निर्मलोऽस्म्यहम् ॥ ९.४॥
केवलं नित्यरूपोऽहं केवलं शाश्वतोऽस्म्यहम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.५॥
केवलं सर्वरूपोऽहं अहंत्यक्तोऽहमस्म्यहम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.६॥
सर्वहीनस्वरूपोऽहं चिदाकाशोऽहमस्म्यहम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.७॥
केवलं तुर्यरूपोऽस्मि तुर्यातीतोऽस्मि केवलम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.८॥
सदा चैतन्यरूपोऽस्मि सच्चिदानन्दमस्म्यहम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.९॥
केवलाकाररूपोऽस्मि शुद्धरूपोऽस्म्यहं सदा ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१०॥
केवलं ज्ञानशुद्धोऽस्मि केवलोऽस्मि प्रियोऽस्म्यहम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.११॥
केवलं निर्विकल्पोऽस्मि स्वस्वरूपोऽहमस्मि ह ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१२॥
सदा सत्सङ्गरूपोऽस्मि सर्वदा परमोऽस्म्यहम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१३॥
सदा ह्येकस्वरूपोऽस्मि सदाऽनन्योऽस्म्यहं सुखम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१४॥
अपरिच्छिन्नरूपोऽहम् अनन्तानन्दमस्म्यहम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१५॥
सत्यानन्दस्वरूपोऽहं चित्परानन्दमस्म्यहम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१६॥
अनन्तानन्दरूपोऽहमवाङ्मानसगोचरः ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१७॥
ब्रह्मानदस्वरूपोऽहं सत्यानन्दोऽस्म्यहं सदा ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१८॥
आत्ममात्रस्वरूपोऽस्मि आत्मानन्दमयोऽस्म्यहम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१९॥
आत्मप्रकाशरूपोऽस्मि आत्मज्योतिरसोऽस्म्यहम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२०॥
आदिमध्यान्तहीनोऽस्मि आकाशसदृशोऽस्म्यहम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२१॥
नित्यसत्तास्वरूपोऽस्मि नित्यमुक्तोऽस्म्यहं सदा ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२२॥
नित्यसम्पूर्णरूपोऽस्मि नित्यं निर्मनसोऽस्म्यहम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२३॥
नित्यसत्तास्वरूपोऽस्मि नित्यमुक्तोऽस्म्यहं सदा ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२४॥
नित्यशब्दस्वरूपोऽस्मि सर्वातीतोऽस्म्यहं सदा ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२५॥
रूपातीतस्वरूपोऽस्मि व्योमरूपोऽस्म्यहं सदा ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२६॥
भूतानन्दस्वरूपोऽस्मि भाषानन्दोऽस्म्यहं सदा ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२७॥
सर्वाधिष्ठानरूपोऽस्मि सर्वदा चिद्घनोऽस्म्यहम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२८॥
देहभावविहीनोऽहं चित्तहीनोऽहमेव हि ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२९॥
देहवृत्तिविहीनोऽहं मन्त्रैवाहमहं सदा ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३०॥
सर्वदृश्यविहीनोऽस्मि दृश्यरूपोऽहमेव हि ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३१॥
सर्वदा पूर्णरूपोऽस्मि नित्यतृप्तोऽस्म्यहं सदा ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३२॥
इदं ब्रह्मैव सर्वस्य अहं चैतन्यमेव हि ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३३॥
अहमेवाहमेवास्मि नान्यत् किञ्चिच्च विद्यते ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३४॥
अहमेव महानात्मा अहमेव परायणम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३५॥
अहमेव महाशून्यमित्येवं मन्त्रमुत्तमम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३६॥
अहमेवान्यवद्भामि अहमेव शरीरवत् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३७॥
अहं च शिष्यवद्भामि अहं लोकत्रयादिवत् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३८॥
अहं कालत्रयातीतः अहं वेदैरुपासितः ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३९॥
अहं शास्त्रेषु निर्णीत अहं चित्ते व्यवस्थितः ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.४०॥
मत्त्यक्तं नास्ति किञ्चिद्वा मत्त्यक्तं पृथिवी च या ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.४१॥
मयातिरिक्तं तोयं वा इत्येवं मन्त्रमुत्तमम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.४२॥
अहं ब्रह्मास्मि शुद्धोऽस्मि नित्यशुद्धोऽस्म्यहं सदा ।
निर्गुणोऽस्मि निरीहोऽस्मि इत्येवं मन्त्रमुत्तमम् ॥ ९.४३॥
हरिब्रह्मादिरूपोऽस्मि एतद्भेदोऽपि नास्म्यहम् ।
केवलं ब्रह्ममात्रोऽस्मि केवलोऽस्म्यजयोऽस्म्यहम् ॥ ९.४४॥
स्वयमेव स्वयंभास्यं स्वयमेव हि नान्यतः ।
स्वयमेवात्मनि स्वस्थः इत्येवं मन्त्रमुत्तमम् ॥ ९.४५॥
स्वयमेव स्वयं भुङ्क्ष्व स्वयमेव स्वयं रमे ।
स्वयमेव स्वयंज्योतिः स्वयमेव स्वयं रमे ॥ ९.४६॥
स्वस्यात्मनि स्वयं रंस्ये स्वात्मन्येवावलोकये ।
स्वात्मन्येव सुखेनासि इत्येवं मन्त्रमुत्तमम् ॥ ९.४७॥
स्वचैतन्ये स्वयं स्थास्ये स्वात्मराज्ये सुखं रमे ।
स्वात्मसिंहासने तिष्ठे इत्येवं मन्त्रमुत्तमम् ॥ ९.४८॥
स्वात्ममन्त्रं सदा पश्यन् स्वात्मज्ञानं सदाऽभ्यसन् ।
अहं ब्रह्मास्म्यहं मन्त्रः स्वात्मपापं विनाशयेत् ॥ ९.४९॥
अहं ब्रह्मास्म्यहं मन्त्रो द्वैतदोषं विनाशयेत् ।
अहं ब्रह्मास्म्यहं मन्त्रो भेददुःखं विनाशयेत् ॥ ९.५०॥
अहं ब्रह्मास्म्यहं मन्त्रश्चिन्तारोगं विनाशयेत् ।
अहं ब्रह्मास्म्यहं मन्त्रो बुद्धिव्याधिं विनाशयेत् ॥ ९.५१॥
अहं ब्रह्मास्म्यहं मन्त्र आधिव्याधिं विनाशयेत् ।
अहं ब्रह्मास्म्यहं मन्त्रः सर्वलोकं विनाशयेत् ॥ ९.५२॥
अहं ब्रह्मास्म्यहं मन्त्रः कामदोषं विनाशयेत् ।
अहं ब्रह्मास्म्यहं मन्त्रः क्रोधदोषं विनाशयेत् ॥ ९.५३॥
अहं ब्रह्मास्म्यहं मन्त्रश्चिन्तादोषं विनाशयेत् ।
अहं ब्रह्मास्म्यहं मन्त्रः सङ्कल्पं च विनाशयेत् ॥ ९.५४॥
अहं ब्रह्मास्म्यहं मन्त्रः इदं दुःखं विनाशयेत् ।
अहं ब्रह्मास्म्यहं मन्त्रः अविवेकमलं दहेत् ॥ ९.५५॥
अहं ब्रह्मास्म्यहं मन्त्रः अज्ञानध्वंसमाचरेत् ।
अहं ब्रह्मास्म्यहं मन्त्रः कोटिदोषं विनाशयेत् ॥ ९.५६॥
अहं ब्रह्मास्म्यहं मन्त्रः सर्वतन्त्रं विनाशयेत् ।
अहं ब्रह्मास्म्यहं मन्त्रो देहदोषं विनाशयेत् ॥ ९.५७॥
अहं ब्रह्मास्म्यहं मन्त्रः दृष्टादृष्टं विनाशयेत् ।
अहं ब्रह्मास्म्यहं मन्त्र आत्मज्ञानप्रकाशकम् ॥ ९.५८॥
अहं ब्रह्मास्म्यहं मन्त्र आत्मलोकजयप्रदम् ।
अहं ब्रह्मास्म्यहं मन्त्र असत्यादि विनाशकम् ॥ ९.५९॥
अहं ब्रह्मास्म्यहं मन्त्रः अन्यत् सर्वं विनाशयेत् ।
अहं ब्रह्मास्म्यहं मन्त्र अप्रतर्क्यसुखप्रदम् ॥ ९.६०॥
अहं ब्रह्मास्म्यहं मन्त्रः अनात्मज्ञानमाहरेत् ।
अहं ब्रह्मास्म्यहं मन्त्रो ज्ञानानन्दं प्रयच्छति ॥ ९.६१॥
सप्तकोटि महामन्त्रा जन्मकोटिशतप्रदाः ।
सर्वमन्त्रान् समुत्सृज्य जपमेनं समभ्यसेत् ॥ ९.६२॥
सद्यो मोक्षमवाप्नोति नात्र सन्देहमस्ति मे ।
मन्त्रप्रकरणे प्रोक्तं रहस्यं वेदकोटिषु ॥ ९.६३॥
यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ।
नित्यानन्दमयः स एव परमानन्दोदयः शाश्वतो
यस्मान्नान्यदतोऽन्यदार्तमखिलं तज्जं जगत् सर्वदः ।
यो वाचा मनसा तथेन्द्रियगणैर्देहोऽपि वेद्यो न चे-
दच्छेद्यो भववैद्य ईश इति या सा धीः परं मुक्तये ॥ ९.६४॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
अहंब्रह्मास्मिप्रकरणनिरूपणं नाम नवमोऽध्यायः ॥
१० ॥ दशमोऽध्यायः ॥
ऋभुः -
नित्यतर्पणमाचक्ष्ये निदाघ शृणु मे वचः ।
वेदशास्त्रेषु सर्वेषु अत्यन्तं दुर्लभं नृणाम् ॥ १०.१॥
सदा प्रपञ्चं नास्त्येव इदमित्यपि नास्ति हि ।
ब्रह्ममात्रं सदापूर्णं इत्येवं ब्रह्मतर्पणम् ॥ १०.२॥
सरूपमात्रं ब्रह्मैव सच्चिदानन्दमप्यहम् ।
आनन्दघन एवाहं इत्येवं ब्रह्मतर्पणम् ॥ १०.३॥
सर्वदा सर्वशून्योऽहं सदात्मानन्दवानहम् ।
नित्यानित्यस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.४॥
अहमेव चिदाकाश आत्माकाशोऽस्मि नित्यदा ।
आत्मनाऽऽत्मनि तृप्तोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.५॥
एकत्वसंख्याहीनोऽस्मि अरूपोऽस्म्यहमद्वयः ।
नित्यशुद्धस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.६॥
आकाशादपि सूक्ष्मोऽहं अत्यन्ताभावकोऽस्म्यहम् ।
सर्वप्रकाशरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.७॥
परब्रह्मस्वरूपोऽहं परावरसुखोऽस्म्यहम् ।
सत्रामात्रस्वरूपोऽहं दृग्दृश्यादिविवर्जितः ॥ १०.८॥
यत् किञ्चिदप्यहं नास्ति तूष्णीं तूष्णीमिहास्म्यहम् ।
शुद्धमोक्षस्वरूपोऽहम् इत्येवं ब्रह्मतर्पणम् ॥ १०.९॥
सर्वानन्दस्वरूपोऽहं ज्ञानानन्दमहं सदा ।
विज्ञानमात्ररूपोऽहम् इत्येवं ब्रह्मतर्पणम् ॥ १०.१०॥
ब्रह्ममात्रमिदं सर्वं नास्ति नान्यत्र ते शपे ।
तदेवाहं न सन्देहः इत्येवं ब्रह्मतर्पणम् ॥ १०.११॥
त्वमित्येतत् तदित्येतन्नास्ति नास्तीह किञ्चन ।
शुद्धचैतन्यमात्रोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.१२॥
अत्यन्ताभावरूपोऽहमहमेव परात्परः ।
अहमेव सुखं नान्यत् इत्येवं ब्रह्मतर्पणम् ॥ १०.१३॥
इदं हेममयं किञ्चिन्नास्ति नास्त्येव ते शपे ।
निर्गुणानन्दरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.१४॥
साक्षिवस्तुविहीनत्वात् साक्षित्वं नास्ति मे सदा ।
केवलं ब्रह्मभावत्वात् इत्येवं ब्रह्मतर्पणम् ॥ १०.१५॥
अहमेवाविशेषोऽहमहमेव हि नामकम् ।
अहमेव विमोहं वै इत्येवं ब्रह्मतर्पणम् ॥ १०.१६॥
इन्द्रियाभावरूपोऽहं सर्वाभावस्वरूपकम् ।
बन्धमुक्तिविहीनोऽस्मि इत्येवं ब्रह्मतर्पणम् ॥ १०.१७॥
सर्वानन्दस्वरूपोऽहं सर्वानन्दघनोऽस्म्यहम् ।
नित्यचैतन्यमात्रोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.१८॥
वाचामगोचरश्चाहं वाङ्मनो नास्ति किञ्चन ।
चिदानन्दमयश्चाहं इत्येवं ब्रह्मतर्पणम् ॥ १०.१९॥
सर्वत्र पूर्णरूपोऽहं सर्वत्र सुखमस्म्यहम् ।
सर्वत्राचिन्त्यरूपोऽहम् इत्येवं ब्रह्मतर्पणम् ॥ १०.२०॥
सर्वत्र तृप्तिरूपोऽहं सर्वानन्दमयोऽस्म्यहम् ।
सर्वशून्यस्वरूपोऽहम् इत्येवं ब्रह्मतर्पणम् ॥ १०.२१॥
सर्वदा मत्स्वरूपोऽहं परमानन्दवानहम् ।
एक एवाहमेवाहं इत्येवं ब्रह्मतर्पणम् ॥ १०.२२॥
मुक्तोऽहं मोक्षरूपोऽहं सर्वमौनपरोऽस्म्यहम् ।
सर्वनिर्वाणरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.२३॥
सर्वदा सत्स्वरूपोऽहं सर्वदा तुर्यवानहम् ।
तुर्यातीतस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.२४॥
सत्यविज्ञानमात्रोऽहं सन्मात्रानन्दवानहम् ।
निर्विकल्पस्वरूपोऽहम् इत्येवं ब्रह्मतर्पणम् ॥ १०.२५॥
सर्वदा ह्यजरूपोऽहं निरीहोऽहं निरञ्जनः ।
ब्रह्मविज्ञानरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.२६॥
ब्रह्मतर्पणमेवोक्तं एतत्प्रकरणं मया ।
यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥ १०.२७॥
नित्यहोमं प्रवक्ष्यामि सर्ववेदेषु दुर्लभम् ।
सर्वशास्त्रार्थमद्वैतं सावधानमनाः शृणु ॥ १०.२८॥
अहं ब्रह्मास्मि शुद्धोऽस्मि नित्योऽस्मि प्रभुरस्म्यहम् ।
ॐकारार्थस्वरूपोऽस्मि एवं होमं सुदुर्लभम् ॥ १०.२९॥
परमात्मस्वरूपोऽस्मि परानन्दपरोऽस्म्यहम् ।
चिदानन्दस्वरूपोऽस्मि एवं होमं सुदुर्लभम् ॥ १०.३०॥
नित्यानन्दस्वरूपोऽस्मि निष्कलङ्कमयो ह्यहम् ।
चिदाकारस्वरूपोऽहं एवं होमं सुदुर्लभम् ॥ १०.३१॥
न हि किञ्चित् स्वरूपोऽस्मि नाहमस्मि न सोऽस्म्यहम् ।
निर्व्यापारस्वरूपोऽस्मि एवं होमं सुदुर्लभम् ॥ १०.३२॥
निरंशोऽस्मि निराभासो न मनो नेन्द्रियोऽस्म्यहम् ।
न बुद्धिर्न विकल्पोऽहं एवं होमं सुदुर्लभम् ॥ १०.३३॥
न देहादिस्वारूपोऽस्मि त्रयादिपरिवर्जितः ।
न जाग्रत्स्वप्नरूपोऽस्मि एवं होमं सुदुर्लभम् ॥ १०.३४॥
श्रवणं मननं नास्ति निदिध्यासनमेव हि ।
स्वगतं च न मे किञ्चिद् एवं होमं सुदुर्लभम् ॥ १०.३५॥
असत्यं हि मनःसत्ता असत्यं बुद्धिरूपकम् ।
अहङ्कारमसद्विद्धि कालत्रयमसत् सदा ॥ १०.३६॥
गुणत्रयमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.३७॥
श्रुतं सर्वमसद्विद्धि वेदं सर्वमसत् सदा ।
सर्वतत्त्वमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.३८॥
नानारूपमसद्विद्धि नानावर्णमसत् सदा ।
नानाजातिमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.३९॥
शास्त्रज्ञानमसद्विद्धि वेदज्ञानं तपोऽप्यसत् ।
सर्वतीर्थमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४०॥
गुरुशिष्यमसद्विद्धि गुरोर्मन्त्रमसत् ततः ।
यद् दृश्यं तदसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४१॥
सर्वान् भोगानसद्विद्धि यच्चिन्त्यं तदसत् सदा ।
यद् दृश्यं तदसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४२॥
सर्वेन्द्रियमसद्विद्धि सर्वमन्त्रमसत् त्विति ।
सर्वप्राणानसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४३॥
जीवं देहमसद्विद्धि परे ब्रह्मणि नैव हि ।
मयि सर्वमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४४॥
दृष्टं श्रुतमसद्विद्धि ओतं प्रोतमसन्मयि ।
कार्याकार्यमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४५॥
दृष्टप्राप्तिमसद्विद्धि सन्तोषमसदेव हि ।
सर्वकर्माण्यसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४६॥
सर्वासर्वमसद्विद्धि पूर्णापूर्णमसत् परे ।
सुखं दुःखमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४७॥
यथाधर्ममसद्विद्धि पुण्यापुण्यमसत् सदा ।
लाभालाभमसद्विद्धि सदा देहमसत् सदा ॥ १०.४८॥
सदा जयमसद्विद्धि सदा गर्वमसत् सदा ।
मनोमयमसद्विद्धि संशयं निश्चयं तथा ॥ १०.४९॥
शब्दं सर्वमसद्विद्धि स्पर्शं सर्वमसत् सदा ।
रूपं सर्वमसद्विद्धि रसं सर्वमसत् सदा ॥ १०.५०॥
गन्धं सर्वमसद्विद्धि ज्ञानं सर्वमसत् सदा ।
भूतं भव्यमसद्विद्धि असत् प्रकृतिरुच्यते ॥ १०.५१॥
असदेव सदा सर्वमसदेव भवोद्भवम् ।
असदेव गुणं सर्वं एवं होमं सुदुर्लभम् ॥ १०.५२॥
शशशृङ्गवदेव त्वं शशशृङ्गवदस्म्यहम् ।
शशशृङ्गवदेवेदं शशशृङ्गवदन्तरम् ॥ १०.५३॥
इत्येवमात्महोमाख्यमुक्तं प्रकरणं मया ।
यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥ १०.५४॥
स्कन्दः -
यस्मिन् संच विचैति विश्वमखिलं द्योतन्ति सूर्येन्दवो
विद्युद्वह्निमरुद्गणाः सवरुणा भीता भजन्तीश्वरम् ।
भूतं चापि भवत्यदृश्यमखिलं शम्भोः सुखांशं जगत्
जातं चापि जनिष्यति प्रतिभवं देवासुरैर्निर्यपि ।
तन्नेहास्ति न किञ्चिदत्र भगवद्ध्यानान्न किञ्चित् प्रियम् ॥ १०.५५॥
यः प्राणापानभेदैर्मननधिया धारणापञ्चकाद्यैः
मध्ये विश्वजनस्य सन्नपि शिवो नो दृश्यते सूक्ष्मया ।
बुद्धयादध्यातयापि श्रुतिवचनशतैर्देशिकोक्त्यैकसूक्त्या
योगैर्भक्तिसमन्वितैः शिवतरो दृश्यो न चान्यत् तथा ॥ १०.५६॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
ब्रह्मतर्पणात्महोमाख्य प्रकरणद्वयवर्णनं नाम दशमोऽध्यायः ॥
११ ॥ एकादशोऽध्यायः ॥
ऋभुः -
ब्रह्मज्ञानं प्रवक्ष्यामि जीवन्मुक्तस्य लक्षणम् ।
आत्ममात्रेण यस्तिष्ठेत् स जीवन्मुक्त उच्यते ॥ ११.१॥
अहं ब्रह्मवदेवेदमहमात्मा न संशयः ।
चैतन्यात्मेति यस्तिष्ठेत् स जीवन्मुक्त उच्यते ॥ ११.२॥
चिदात्माहं परात्माहं निर्गुणोऽहं परात्परः ।
इत्येवं निश्चयो यस्य स जीवन्मुक्त उच्यते ॥ ११.३॥
देहत्रयातिरिक्तोऽहं ब्रह्म चैतन्यमस्म्यहम् ।
ब्रह्माहमिति यस्यान्तः स जीवन्मुक्त उच्यते ॥ ११.४॥
आनन्दघनरूपोऽस्मि परानन्दपरोऽस्म्यहम् ।
यश्चिदेवं परानन्दं स जीवन्मुक्त उच्यते ॥ ११.५॥
यस्य देहादिकं नास्ति यस्य ब्रह्मेति निश्चयः ।
परमानन्दपूर्णो यः स जीवन्मुक्त उच्यते ॥ ११.६॥
यस्य किञ्चिदहं नास्ति चिन्मात्रेणावतिष्ठते ।
परानन्दो मुदानन्दः स जीवन्मुक्त उच्यते ॥ ११.७॥
चैतन्यमात्रं यस्यान्तश्चिन्मात्रैकस्वरूपवान् ।
न स्मरत्यन्यकलनं स जीवन्मुक्त उच्यते ॥ ११.८॥var was कललं
सर्वत्र परिपूर्णात्मा सर्वत्र कलनात्मकः ।
सर्वत्र नित्यपूर्णात्मा स जीवन्मुक्त उच्यते ॥ ११.९॥
परमात्मपरा नित्यं परमात्मेति निश्चितः ।
आनन्दाकृतिरव्यक्तः स जीवन्मुक्त उच्यते ॥ ११.१०॥
शुद्धकैवल्यजीवात्मा सर्वसङ्गविवर्जितः ।
नित्यानन्दप्रसन्नात्मा स जीवन्मुक्त उच्यते ॥ ११.११॥
एकरूपः प्रशान्तात्मा अन्यचिन्ताविवर्जितः ।
किञ्चिदस्तित्वहीनो यः स जीवन्मुक्त उच्यते ॥ ११.१२॥
न मे चित्तं न मे बुद्धिर्नाहङ्कारो न चेन्द्रियः ।
केवलं ब्रह्ममात्रत्वात् स जीवन्मुक्त उच्यते ॥ ११.१३॥
न मे दोषो न मे देहो ने मे प्राणो न मे क्वचित् ।
दृढनिश्चयवान् योऽन्तः स जीवन्मुक्त उच्यते ॥ ११.१४॥
न मे माया न मे कामो न मे क्रोधोऽपरोऽस्म्यहम् ।
न मे किञ्चिदिदं वाऽपि स जीवन्मुक्त उच्यते ॥ ११.१५॥
न मे दोषो न मे लिङ्गं न मे बन्धः क्वचिज्जगत् ।
यस्तु नित्यं सदानन्दः स जीवन्मुक्त उच्यते ॥ ११.१६॥
न मे श्रोत्रं न मे नासा न मे चक्षुर्न मे मनः ।
न मे जिह्वेति यस्यान्तः स जीवन्मुक्त उच्यते ॥ ११.१७॥
न मे देहो न मे लिङ्गं न मे कारणमेव च ।
न मे तुर्यमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ११.१८॥
इदं सर्वं न मे किञ्चिदयं सर्वं न मे क्वचित् ।
ब्रह्ममात्रेण यस्तिष्ठेत् स जीवन्मुक्त उच्यते ॥ ११.१९॥
न मे किञ्चिन्न मे कश्चिन्न मे कश्चित् क्वचिज्जगत् ।
अहमेवेति यस्तिष्ठेत् स जीवन्मुक्त उच्यते ॥ ११.२०॥
न मे कालो न मे देशो न मे वस्तु न मे स्थितिः ।
न मे स्नानं न मे प्रासः स जीवन्मुक्त उच्यते ॥ ११.२१॥
न मे तीर्थं न मे सेवा न मे देवो न मे स्थलम् ।
न क्वचिद्भेदहीनोऽयं स जीवन्मुक्त उच्यते ॥ ११.२२॥
न मे बन्धं न मे जन्म न मे ज्ञानं न मे पदम् ।
न मे वाक्यमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ११.२३॥
न मे पुण्यं न मे पापं न मे कायं न मे शुभम् ।
न मे दृश्यमिति ज्ञानी स जीवन्मुक्त उच्यते ॥ ११.२४॥
न मे शब्दो न मे स्पर्शो न मे रूपं न मे रसः ।
न मे जीव इति ज्ञात्वा स जीवन्मुक्त उच्यते ॥ ११.२५॥
न मे सर्वं न मे किञ्चित् न मे जीवं न मे क्वचित् ।
न मे भावं न मे वस्तु स जीवन्मुक्त उच्यते ॥ ११.२६॥
न मे मोक्ष्ये न मे द्वैतं न मे वेदो न मे विधिः ।
न मे दूरमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ११.२७॥
न मे गुरुर्न मे शिष्यो न मे बोधो न मे परः ।
न मे श्रेष्ठं क्वचिद्वस्तु स जीवन्मुक्त उच्यते ॥ ११.२८॥
न मे ब्रह्मा न मे विष्णुर्न मे रुद्रो न मे रविः ।
न मे कर्म क्वचिद्वस्तु स जीवन्मुक्त उच्यते ॥ ११.२९॥
न मे पृथ्वी न मे तोयं न मे तेजो न मे वियत् ।
न मे कार्यमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ११.३०॥
न मे वार्ता न मे वाक्यं न मे गोत्रं न मे कुलम् ।
न मे विद्येति यः स्वस्थः स जीवन्मुक्त उच्यते ॥ ११.३१॥
न मे नादो न मे शब्दो न मे लक्ष्यं न मे भवः ।
न मे ध्यानमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ११.३२॥
न मे शीतं न मे चोष्णं न मे मोहो न मे जपः ।
न मे सन्ध्येति यः स्वस्थः स जीवन्मुक्त उच्यते ॥ ११.३३॥
न मे जपो न मे मन्त्रो न मे होमो न मे निशा ।
न मे सर्वमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ११.३४॥
न मे भयं न मे चान्नं न मे तृष्णा न मे क्षुधा ।
न मे चात्मेति यः स्वस्थः स जीवन्मुक्त उच्यते ॥ ११.३५॥
न मे पूर्वं न मे पश्चात् न मे चोर्ध्वं न मे दिशः ।
न चित्तमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ११.३६॥
न मे वक्तव्यमल्पं वा न मे श्रोतव्यमण्वपि ।
न मे मन्तव्यमीषद्वा स जीवन्मुक्त उच्यते ॥ ११.३७॥
न मे भोक्तव्यमीषद्वा न मे ध्यातव्यमण्वपि ।
न मे स्मर्तव्यमेवायं स जीवन्मुक्त उच्यते ॥ ११.३८॥
न मे भोगो न मे रोगो न मे योगो न मे लयः ।
न मे सर्वमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ११.३९॥
न मेऽस्तित्वं न मे जातं न मे वृद्धं न मे क्षयः ।
अध्यारोपो न मे स्वस्थः स जीवन्मुक्त उच्यते ॥ ११.४०॥
अध्यारोप्यं न मे किञ्चिदपवादो न मे क्वचित् ।
न मे किञ्चिदहं यत्तु स जीवन्मुक्त उच्यते ॥ ११.४१॥
न मे शुद्धिर्न मे शुभ्रो न मे चैकं न मे बहु ।
न मे भूतं न मे कार्यं स जीवन्मुक्त उच्यते ॥ ११.४२॥
न मे कोऽहं न मे चेदं न मे नान्यं न मे स्वयम् ।
न मे कश्चिन्न मे स्वस्थः स जीवन्मुक्त उच्यते ॥ ११.४३॥
न मे मांसं न मे रक्तं न मे मेदो न मे शकृत् ।
न मे कृपा न मेऽस्तीति स जीवन्मुक्त उच्यते ॥ ११.४४॥
न मे सर्वं न मे शुक्लं न मे नीलं न मे पृथक् ।
न मे स्वस्थः स्वयं यो वा स जीवन्मुक्त उच्यते ॥ ११.४५॥
न मे तापं न मे लोभो न मे गौण न मे यशः ।
ने मे तत्त्वमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ११.४६॥
न मे भ्रान्तिर्न मे ज्ञानं न मे गुह्यं न मे कुलम् ।
न मे किञ्चिदिति ध्यायन् स जीवन्मुक्त उच्यते ॥ ११.४७॥
न मे त्याज्यं न मे ग्राह्यं न मे हास्यं न मे लयः ।
न मे दैवमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ११.४८॥
न मे व्रतं न मे ग्लानिः न मे शोच्यं न मे सुखम् ।
न मे न्यूनं क्वचिद्वस्तु स जीवन्मुक्त उच्यते ॥ ११.४९॥
न मे ज्ञाता न मे ज्ञानं न मे ज्ञेयं न मे स्वयम् ।
न मे सर्वमिति ज्ञानी स जीवन्मुक्त उच्यते ॥ ११.५०॥
न मे तुभ्यं न मे मह्यं न मे त्वत्तो न मे त्वहम् ।
न मे गुरुर्न मे यस्तु स जीवन्मुक्त उच्यते ॥ ११.५१॥
न मे जडं न मे चैत्यं न मे ग्लानं न मे शुभम् ।
न मे न मेति यस्तिष्ठेत् स जीवन्मुक्त उच्यते ॥ ११.५२॥
न मे गोत्रं न मे सूत्रं न मे पात्रं न मे कृपा ।
न मे किञ्चिदिति ध्यायी स जीवन्मुक्त उच्यते ॥ ११.५३॥
न मे चात्मा न मे नात्मा न मे स्वर्गं न मे फलम् ।
न मे दूष्यं क्वचिद्वस्तु स जीवन्मुक्त उच्यते ॥ ११.५४॥
न मेऽभ्यासो न मे विद्या न मे शान्तिर्न मे दमः ।
न मे पुरमिति ज्ञानी स जीवन्मुक्त उच्यते ॥ ११.५५॥
न मे शल्यं न मे शङ्का न मे सुप्तिर्न मे मनः ।
न मे विकल्प इत्याप्तः स जीवन्मुक्त उच्यते ॥ ११.५६॥
न मे जरा न मे बाल्यं न मे यौवनमण्वपि ।
न मे मृतिर्न मे ध्वान्तं स जीवन्मुक्त उच्यते ॥ ११.५७॥
न मे लोकं न मे भोगं न मे सर्वमिति स्मृतः ।
न मे मौनमिति प्राप्तं स जीवन्मुक्त उच्यते ॥ ११.५८॥
अहं ब्रह्म ह्यहं ब्रह्म ह्यहं ब्रह्मेति निश्चयः ।
चिदहं चिदहं चेति स जीवन्मुक्त उच्यते ॥ ११.५९॥
ब्रह्मैवाहं चिदेवाहं परैवाहं न संशयः ।
स्वयमेव स्वयं ज्योतिः स जीवन्मुक्त उच्यते ॥ ११.६०॥
स्वयमेव स्वयं पश्येत् स्वयमेव स्वयं स्थितः ।
स्वात्मन्येव स्वयं भूतः स जीवन्मुक्त उच्यते ॥ ११.६१॥
स्वात्मानन्दं स्वयं भुंक्ष्वे स्वात्मराज्ये स्वयं वसे ।
स्वात्मराज्ये स्वयं पश्ये स जीवन्मुक्त उच्यते ॥ ११.६२॥
स्वयमेवाहमेकाग्रः स्वयमेव स्वयं प्रभुः ।
स्वस्वरूपः स्वयं पश्ये स जीवन्मुक्त उच्यते ॥ ११.६३॥
जीवन्मुक्तिप्रकरणं सर्ववेदेषु दुर्लभम् ।
यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥ ११.६४॥
ये वेदवादविधिकल्पितभेदबुद्ध्या
पुण्याभिसन्धितधिया परिकर्शयन्तः ।
देहं स्वकीयमतिदुःखपरं पराभि-
स्तेषां सुखाय न तु जातु तवेश पादात् ॥ ११.६५॥
कः सन्तरेत भवसागरमेतदुत्य-
त्तरङ्गसदृशं जनिमृत्युरूपम् ।
ईशार्चनाविधिसुबोधितभेदहीन-
ज्ञानोडुपेन प्रतरेद्भवभावयुक्तः ॥ ११.६६॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
जीवन्मुक्तप्रकरणं नाम एकादशोऽध्यायः ॥
१२ ॥ द्वादशोऽध्यायः ॥
ऋभुः -
देहमुक्तिप्रकरणं निदाघ शृणु दुर्लभम् ।
त्यक्तात्यक्तं न स्मरति विदेहान्मुक्त एव सः ॥ १२.१॥
ब्रह्मरूपः प्रशान्तात्मा नान्यरूपः सदा सुखी ।
स्वस्थरूपो महामौनी विदेहान्मुक्त एव सः ॥ १२.२॥
सर्वात्मा सर्वभूतात्मा शान्तात्मा मुक्तिवर्जितः ।
एकात्मवर्जितः साक्षी विदेहान्मुक्त एव सः ॥ १२.३॥
लक्ष्यात्मा लालितात्माहं लीलात्मा स्वात्ममात्रकः ।
तूष्णीमात्मा स्वभावात्मा विदेहान्मुक्त एव सः ॥ १२.४॥
शुभ्रात्मा स्वयमात्माहं सर्वात्मा स्वात्ममात्रकः ।
अजात्मा चामृतात्मा हि विदेहान्मुक्त एव सः ॥ १२.५॥
आनन्दात्मा प्रियः स्वात्मा मोक्षात्मा कोऽपि निर्णयः ।
इत्येवमिति निध्यायी विदेहान्मुक्त एव सः ॥ १२.६॥
ब्रह्मैवाहं चिदेवाहं एकं वापि न चिन्त्यते ।
चिन्मात्रेणैव यस्तिष्ठेद्विदेहान्मुक्त एव सः ॥ १२.७॥
निश्चयं च परित्यज्य अहं ब्रह्मेति निश्चयः ।
आनन्दभूरिदेहस्तु विदेहान्मुक्त एव सः ॥ १२.८॥
सर्वमस्तीति नास्तीति निश्चयं त्यज्य तिष्ठति ।
अहं ब्रह्मास्मि नान्योऽस्मि विदेहान्मुक्त एव सः ॥ १२.९॥
किञ्चित् क्वचित् कदाचिच्च आत्मानं न स्मरत्यसौ ।
स्वस्वभावेन यस्तिष्ठेत् विदेहान्मुक्त एव सः ॥ १२.१०॥
अहमात्मा परो ह्यात्मा चिदात्माहं न चिन्त्यते ।
स्थास्यामीत्यपि यो युक्तो विदेहान्मुक्त एव सः ॥ १२.११॥
तूष्णीमेव स्थितस्तूष्णीं सर्वं तूष्णीं न किञ्चन ।
अहमर्थपरित्यक्तो विदेहान्मुक्त एव सः ॥ १२.१२॥
परमात्मा गुणातीतः सर्वात्मापि न संमतः ।
सर्वभावान्महात्मा यो विदेहान्मुक्त एव सः ॥ १२.१३॥
कालभेदं देशभेदं वस्तुभेदं स्वभेदकम् ।
किञ्चिद्भेदं न यस्यास्ति विदेहान्मुक्त एव सः ॥ १२.१४॥
अहं त्वं तदिदं सोऽयं किञ्चिद्वापि न विद्यते ।
अत्यन्तसुखमात्रोऽहं विदेहान्मुक्त एव सः ॥ १२.१५॥
निर्गुणात्मा निरात्मा हि नित्यात्मा नित्यनिर्णयः ।
शून्यात्मा सूक्ष्मरूपो यो विदेहान्मुक्त एव सः ॥ १२.१६॥
विश्वात्मा विश्वहीनात्मा कालात्मा कालहेतुकः ।
देवात्मा देवहीनो यो विदेहान्मुक्त एव सः ॥ १२.१७॥
मात्रात्मा मेयहीनात्मा मूढात्माऽनात्मवर्जितः ।
केवलात्मा परात्मा च विदेहान्मुक्त एव सः ॥ १२.१८॥
सर्वत्र जडहीनात्मा सर्वेषामन्तरात्मकः ।
सर्वेषामिति यस्तूक्तो विदेहान्मुक्त एव सः ॥ १२.१९॥
सर्वसङ्कल्पहीनेति सच्चिदानन्दमात्रकः ।
स्थास्यामीति न यस्यान्तो विदेहान्मुक्त एव सः ॥ १२.२०॥
सर्वं नास्ति तदस्तीति चिन्मात्रोऽस्तीति सर्वदा ।
प्रबुद्धो नास्ति यस्यान्तो विदेहान्मुक्त एव सः ॥ १२.२१॥
केवलं परमात्मा यः केवलं ज्ञानविग्रहः ।
सत्तामात्रस्वरूपो यो विदेहान्मुक्त एव सः ॥ १२.२२॥
जीवेश्वरेति चैत्येति वेदशास्त्रे त्वहं त्विति ।
ब्रह्मैवेति न यस्यान्तो विदेहान्मुक्त एव सः ॥ १२.२३॥
ब्रह्मैव सर्वमेवाहं नान्यत् किञ्चिज्जगद्भवेत् ।
इत्येवं निश्चयो भावः विदेहान्मुक्त एव सः ॥ १२.२४॥
इदं चैतन्यमेवेति अहं चैतन्यमेव हि ।
इति निश्चयशून्यो यो विदेहान्मुक्त एव सः ॥ १२.२५॥
चैतन्यमात्रः संसिद्धः स्वात्मारामः सुखासनः ।
सुखमात्रान्तरङ्गो यो विदेहान्मुक्त एव सः ॥ १२.२६॥
अपरिच्छिन्नरूपात्मा अणोरणुविनिर्मलः ।
तुर्यातीतः परानन्दो विदेहान्मुक्त एव सः ॥ १२.२७॥
नामापि नास्ति सर्वात्मा न रूपो न च नास्तिकः ।
परब्रह्मस्वरूपात्मा विदेहान्मुक्त एव सः ॥ १२.२८॥
तुर्यातीतः स्वतोऽतीतः अतोऽतीतः स सन्मयः ।
अशुभाशुभशान्तात्मा विदेहान्मुक्त एव सः ॥ १२.२९॥
बन्धमुक्तिप्रशान्तात्मा सर्वात्मा चान्तरात्मकः ।
प्रपञ्चात्मा परो ह्यात्मा विदेहान्मुक्त एव सः ॥ १२.३०॥
सर्वत्र परिपूर्णात्मा सर्वदा च परात्परः ।
अन्तरात्मा ह्यनन्तात्मा विदेहान्मुक्त एव सः ॥ १२.३१॥
अबोधबोधहीनात्मा अजडो जडवर्जितः ।
अतत्त्वातत्त्वसर्वात्मा विदेहान्मुक्त एव सः ॥ १२.३२॥
असमाधिसमाध्यन्तः अलक्ष्यालक्ष्यवर्जितः ।
अभूतो भूत एवात्मा विदेहान्मुक्त एव सः ॥ १२.३३॥
चिन्मयात्मा चिदाकाशश्चिदानन्दश्चिदंबरः ।
चिन्मात्ररूप एवात्मा विदेहान्मुक्त एव सः ॥ १२.३४॥
सच्चिदानन्दरूपात्मा सच्चिदानन्दविग्रहः ।
सच्चिदानन्दपूर्णात्मा विदेहान्मुक्त एव सः ॥ १२.३५॥
सदा ब्रह्ममयो नित्यं सदा स्वात्मनि निष्ठितः ।
सदाऽखण्डैकरूपात्मा विदेहान्मुक्त एव सः ॥ १२.३६॥
प्रज्ञानघन एवात्मा प्रज्ञानघनविग्रहः ।
नित्यज्ञानपरानन्दो विदेहान्मुक्त एव सः ॥ १२.३७॥
यस्य देहः क्वचिन्नास्ति यस्य किञ्चित् स्मृतिश्च न ।
सदात्मा ह्यात्मनि स्वस्थो विदेहान्मुक्त एव सः ॥ १२.३८॥
यस्य निर्वासनं चित्तं यस्य ब्रह्मात्मना स्थितिः ।
योगात्मा योगयुक्तात्मा विदेहान्मुक्त एव सः ॥ १२.३९॥
चैतन्यमात्र एवेति त्यक्तं सर्वमतिर्न हि ।
गुणागुणविकारान्तो विदेहान्मुक्त एव सः ॥ १२.४०॥
कालदेशादि नास्त्यन्तो न ग्राह्यो नास्मृतिः परः ।
निश्चयं च परित्यक्तो विदेहान्मुक्त एव सः ॥ १२.४१॥
भूमानन्दापरानन्दो भोगानन्दविवर्जितः ।
साक्षी च साक्षिहीनश्च विदेहान्मुक्त एव सः ॥ १२.४२॥
सोऽपि कोऽपि न सो कोऽपि किञ्चित् किञ्चिन्न किञ्चन ।
आत्मानात्मा चिदात्मा च चिदचिच्चाहमेव च ॥ १२.४३॥
यस्य प्रपञ्चश्चानात्मा ब्रह्माकारमपीह न ।
स्वस्वरूपः स्वयंज्योतिर्विदेहान्मुक्त एव सः ॥ १२.४४॥
वाचामगोचरानन्दः सर्वेन्द्रियविवर्जितः ।
अतीतातीतभावो यो विदेहान्मुक्त एव सः ॥ १२.४५॥
चित्तवृत्तेरतीतो यश्चित्तवृत्तिर्न भासकः ।
सर्ववृत्तिविहीनो यो विदेहान्मुक्त एव सः ॥ १२.४६॥
तस्मिन् काले विदेहो यो देहस्मरणवर्जितः ।
न स्थूलो न कृशो वापि विदेहान्मुक्त एव सः ॥ १२.४७॥
ईषण्मात्रस्थितो यो वै सदा सर्वविवर्जितः ।
ब्रह्ममात्रेण यस्तिष्ठेत् विदेहान्मुक्त एव सः ॥ १२.४८॥
परं ब्रह्म परानन्दः परमात्मा परात्परः ।
परैरदृष्टबाह्यान्तो विदेहान्मुक्त एव सः ॥ १२.४९॥
शुद्धवेदान्तसारोऽयं शुद्धसत्त्वात्मनि स्थितः ।
तद्भेदमपि यस्त्यक्तो विदेहान्मुक्त एव सः ॥ १२.५०॥
ब्रह्मामृतरसास्वादो ब्रह्मामृतरसायनम् ।
ब्रह्मामृतरसे मग्नो विदेहान्मुक्त एव सः ॥ १२.५१॥
ब्रह्मामृतरसाधारो ब्रह्मामृतरसः स्वयम् ।
ब्रह्मामृतरसे तृप्तो विदेहान्मुक्त एव सः ॥ १२.५२॥
ब्रह्मानन्दपरानन्दो ब्रह्मानन्दरसप्रभः ।
ब्रह्मानन्दपरंज्योतिर्विदेहान्मुक्त एव सः ॥ १२.५३॥
ब्रह्मानन्दरसानन्दो ब्रह्मामृतनिरन्तरम् ।
ब्रह्मानन्दः सदानन्दो विदेहान्मुक्त एव सः ॥ १२.५४॥
ब्रह्मानन्दानुभावो यो ब्रह्मामृतशिवार्चनम् ।
ब्रह्मानन्दरसप्रीतो विदेहान्मुक्त एव सः ॥ १२.५५॥
ब्रह्मानन्दरसोद्वाहो ब्रह्मामृतकुटुम्बकः ।
ब्रह्मानन्दजनैर्युक्तो विदेहान्मुक्त एव सः ॥ १२.५६॥
ब्रह्मामृतवरे वासो ब्रह्मानन्दालये स्थितः ।
ब्रह्मामृतजपो यस्य विदेहान्मुक्त एव सः ॥ १२.५७॥
ब्रह्मानन्दशरीरान्तो ब्रह्मानन्देन्द्रियः क्वचित् ।
ब्रह्मामृतमयी विद्या विदेहान्मुक्त एव सः ॥ १२.५८॥
ब्रह्मानदमदोन्मत्तो ब्रह्मामृतरसंभरः ।
ब्रह्मात्मनि सदा स्वस्थो विदेहान्मुक्त एव सः ॥ १२.५९॥
देहमुक्तिप्रकरणं सर्ववेदेषु दुर्लभम् ।
मयोक्तं ते महायोगिन् विदेहः श्रवणाद्भवेत् ॥ १२.६०॥
स्कन्दः -
अनाथ नाथ ते पदं भजाम्युमासनाथ स-
न्निशीथनाथमौलिसंस्फुटल्ललाटसङ्गज-
स्फुलिङ्गदग्धमन्मथं प्रमाथनाथ पाहि माम् ॥ १२.६१॥
विभूतिभूषगात्र ते त्रिनेत्रमित्रतामियात्
मनःसरोरुहं क्षणं तथेक्षणेन मे सदा ।
प्रबन्धसंसृतिभ्रमद्भ्रमज्जनौघसन्ततौ
न वेद वेदमौलिरप्यपास्तदुःखसन्ततिम् ॥ १२.६२॥
॥इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
देहमुक्तिप्रकरणवर्णनं नाम द्वादशोऽध्यायः ॥
१३ ॥ त्रयोदशोऽध्यायः ॥
ऋभुः -
शृणुष्व दुर्लभं लोके सारात् सारतरं परम् ।
आत्मरूपमिदं सर्वमात्मनोऽन्यन्न किञ्चन ॥ १३.१॥
सर्वमात्मास्ति परमा परमात्मा परात्मकः ।
नित्यानन्दस्वरूपात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.२॥
पूर्णरूपो महानात्मा पूतात्मा शाश्वतात्मकः ।
निर्विकारस्वरूपात्मा निर्मलात्मा निरात्मकः ॥ १३.३॥
शान्ताशान्तस्वरूपात्मा ह्यात्मनोऽन्यन्न किञ्चन ।
जीवात्मा परमात्मा हि चित्ताचित्तात्मचिन्मयः ।
एकात्मा एकरूपात्मा नैकात्मात्मविवर्जितः ॥ १३.४॥
मुक्तामुक्तस्वरूपात्मा मुक्तामुक्तविवर्जितः ।
मोक्षरूपस्वरूपात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.५॥
द्वैताद्वैतस्वरूपात्मा द्वैताद्वैतविवर्जितः ।
सर्ववर्जितसर्वात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.६॥
मुदामुदस्वरूपात्मा मोक्षात्मा देवतात्मकः ।
सङ्कल्पहीनसारात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.७॥
निष्कलात्मा निर्मलात्मा बुद्ध्यात्मा पुरुषात्मकः ।
आनन्दात्मा ह्यजात्मा च ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.८॥
अगण्यात्मा गणात्मा च अमृतात्मामृतान्तरः ।
भूतभव्यभविष्यात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.९॥
अखिलात्माऽनुमन्यात्मा मानात्मा भावभावनः ।
तुर्यरूपप्रसन्नात्मा आत्मनोऽन्यन्न किञ्चन ॥ १३.१०॥
नित्यं प्रत्यक्षरूपात्मा नित्यप्रत्यक्षनिर्णयः ।
अन्यहीनस्वभावात्मा आत्मनोऽन्यन्न किञ्चन ॥ १३.११॥
असद्धीनस्वभावात्मा अन्यहीनः स्वयं प्रभुः ।
विद्याविद्यान्यशुद्धात्मा मानामानविहीनकः ॥ १३.१२॥
नित्यानित्यविहीनात्मा इहामुत्रफलान्तरः ।
शमादिषट्कशून्यात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.१३॥
मुमुक्षुत्वं च हीनात्मा शब्दात्मा दमनात्मकः ।
नित्योपरतरूपात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.१४॥
सर्वकालतितिक्षात्मा समाधानात्मनि स्थितः ।
शुद्धात्मा स्वात्मनि स्वात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.१५॥
अन्नकोशविहीनात्मा प्राणकोशविवर्जितः ।
मनःकोशविहीनात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.१६॥
विज्ञानकोशहीनात्मा आनन्दादिविवर्जितः ।
पञ्चकोशविहीनात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.१७॥
निर्विकल्पस्वरूपात्मा सविकल्पविवर्जितः ।
शब्दानुविद्धहीनात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.१८॥var was शब्दानुविध्यहीनात्मा
स्थूलदेहविहीनात्मा सूक्ष्मदेहविवर्जितः ।
कारणादिविहीनात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.१९॥
दृश्यानुविद्धशून्यात्मा ह्यादिमध्यान्तवर्जितः ।
शान्ता समाधिशून्यात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.२०॥
प्रज्ञानवाक्यहीनात्मा अहं ब्रह्मास्मिवर्जितः ।
तत्त्वमस्यादिवाक्यात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.२१॥
अयमात्मेत्यभावात्मा सर्वात्मा वाक्यवर्जितः ।
ओंकारात्मा गुणात्मा च ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.२२॥
जाग्रद्धीनस्वरूपात्मा स्वप्नावस्थाविवर्जितः ।
आनन्दरूपपूर्णात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.२३॥
भूतात्मा च भविष्यात्मा ह्यक्षरात्मा चिदात्मकः ।
अनादिमध्यरूपात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.२४॥
सर्वसङ्कल्पहीनात्मा स्वच्छचिन्मात्रमक्षयः ।
ज्ञातृज्ञेयादिहीनात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.२५॥
एकात्मा एकहीनात्मा द्वैताद्वैतविवर्जितः ।
स्वयमात्मा स्वभावात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.२६॥
तुर्यात्मा नित्यमात्मा च यत्किञ्चिदिदमात्मकः ।
भानात्मा मानहीनात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.२७॥var was मानात्मा
वाचावधिरनेकात्मा वाच्यानन्दात्मनन्दकः ।
सर्वहीनात्मसर्वात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.२८॥
आत्मानमेव वीक्षस्व आत्मानं भावय स्वकम् ।
स्वस्वात्मानं स्वयं भुंक्ष्व ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.२९॥
स्वात्मानमेव सन्तुष्य आत्मानं स्वयमेव हि ।
स्वस्वात्मानं स्वयं पश्येत् स्वमात्मानं स्वयं श्रुतम् ॥ १३.३०॥
स्वमात्मनि स्वयं तृप्तः स्वमात्मानं स्वयंभरः ।
स्वमात्मानं स्वयं भस्म ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.३१॥
स्वमात्मानं स्वयं मोदं स्वमात्मानं स्वयं प्रियम् ।
स्वमात्मानमेव मन्तव्यं ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.३२॥
आत्मानमेव श्रोतव्यं आत्मानं श्रवणं भव ।
आत्मानं कामयेन्नित्यम् आत्मानं नित्यमर्चय ॥ १३.३३॥
आत्मानं श्लाघयेन्नित्यमात्मानं परिपालय ।
आत्मानं कामयेन्नित्यम् आत्मनोऽन्यन्न किञ्चन ॥ १३.३४॥
आत्मैवेयमियं भूमिः आत्मैवेदमिदं जलम् ।
आत्मैवेदमिदं ज्योतिरात्मनोऽन्यन्न किञ्चन ॥ १३.३५॥
आत्मैवायमयं वायुरात्मैवेदमिदम् वियत् ।
आत्मैवायमहङ्कारः आत्मनोऽन्यन्न किञ्चन ॥ १३.३६॥
आत्मैवेदमिदं चित्तं आत्मैवेदमिदं मनः ।
आत्मैवेयमियं बुद्धिरात्मनोऽन्यन्न किञ्चन ॥ १३.३७॥
आत्मैवायमयं देहः आत्मैवायमयं गुणः ।
आत्मैवेदमिदं तत्त्वम् आत्मनोऽन्यन्न किञ्चन ॥ १३.३८॥
आत्मैवायमयं मन्त्रः आत्मैवायमयं जपः ।
आत्मैवायमयं लोकः आत्मनोऽन्यन्न किञ्चन ॥ १३.३९॥
आत्मैवायमयं शब्दः आत्मैवायमयं रसः ।
आत्मैवायमयं स्पर्शः आत्मनोऽन्यन्न किञ्चन ॥ १३.४०॥
आत्मैवायमयं गन्धः आत्मैवायमयं शमः ।
आत्मैवेदमिदं दुःखं आत्मैवेदमिदं सुखम् ॥ १३.४१॥
आत्मीयमेवेदं जगत् आत्मीयः स्वप्न एव हि ।
सुषुप्तं चाप्यथात्मीयं आत्मनोऽन्यन्न किञ्चन ॥ १३.४२॥
आत्मैव कार्यमात्मैव प्रायो ह्यात्मैवमद्वयम् ।
आत्मीयमेवमद्वैतं आत्मनोऽन्यन्न किञ्चन ॥ १३.४३॥
आत्मीयमेवायं कोऽपि आत्मैवेदमिदं क्वचित् ।
आत्मैवायमयं लोकः आत्मनोऽन्यन्न किञ्चन ॥ १३.४४॥
आत्मैवेदमिदं दृश्यं आत्मैवायमयं जनः ।
आत्मैवेदमिदं सर्वं आत्मनोऽन्यन्न किञ्चन ॥ १३.४५॥
आत्मैवायमयं शंभुः आत्मैवेदमिदं जगत् ।
आत्मैवायमयं ब्रह्मा आत्मनोऽन्यन्न किञ्चन ॥ १३.४६॥
आत्मैवायमयं सूर्य आत्मैवेदमिदं जडम् ।
आत्मैवेदमिदं ध्यानम् आत्मैवेदमिदम् फलम् ॥ १३.४७॥
आत्मैवायमयं योगः सर्वमात्ममयं जगत् ।
सर्वमात्ममयं भूतं आत्मनोऽन्यन्न किञ्चन ॥ १३.४८॥
सर्वमात्ममयं भावि सर्वमात्ममयं गुरुः ।
सर्वमात्ममयं शिष्य आत्मनोऽन्यन्न किञ्चन ॥ १३.४९॥
सर्वमात्ममयं देवः सर्वमात्ममयं फलम् ।
सर्वमात्ममयं लक्ष्यं आत्मनोऽन्यन्न किञ्चन ॥ १३.५०॥
सर्वमात्ममयं तीर्थं सर्वमात्ममयं स्वयम् ।
सर्वमात्ममयं मोक्षं आत्मनोऽन्यन्न किञ्चन ॥ १३.५१॥
सर्वमात्ममयं कामं सर्वमात्ममयं क्रिया ।
सर्वमात्ममयं क्रोधः आत्मनोऽन्यन्न किञ्चन ॥ १३.५२॥
सर्वमात्ममयं विद्या सर्वमात्ममयं दिशः ।
सर्वमात्ममयं लोभः आत्मनोऽन्यन्न किञ्चन ॥ १३.५३॥
सर्वमात्ममयं मोहः सर्वमात्ममयं भयम् ।
सर्वमात्ममयं चिन्ता आत्मनोऽन्यन्न किञ्चन ॥ १३.५४॥
सर्वमात्ममयं धैर्यं सर्वमात्ममयं ध्रुवम् ।
सर्वमात्ममयं सत्यं आत्मनोऽन्यन्न किञ्चन ॥ १३.५५॥
सर्वमात्ममयं बोधं सर्वमात्ममयं दृढम् ।
सर्वमात्ममयं मेयं आत्मनोऽन्यन्न किञ्चन ॥ १३.५६॥
सर्वमात्ममयं गुह्यं सर्वमात्ममयं शुभम् ।
सर्वमात्ममयं शुद्धं आत्मनोऽन्यन्न किञ्चन ॥ १३.५७॥
सर्वमात्ममयं सर्वं सत्यमात्मा सदात्मकः ।
पूर्णमात्मा क्षयं चात्मा परमात्मा परात्परः ॥ १३.५८॥
इतोऽप्यात्मा ततोऽप्यात्मा ह्यात्मैवात्मा ततस्ततः ।
सर्वमात्ममयं सत्यं आत्मनोऽन्यन्न किञ्चन ॥ १३.५९॥
सर्वमात्मस्वरूपं हि दृश्यादृश्यं चराचरम् ।
सर्वमात्ममयं श्रुत्वा मुक्तिमाप्नोति मानवः ॥ १३.६०॥
स्वतन्त्रशक्तिर्भगवानुमाधवो
विचित्रकायात्मकजाग्रतस्य ।
सुकारणं कार्यपरंपराभिः
स एव मायाविततोऽव्ययात्मा ॥ १३.६१॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
सर्वमात्मप्रकरणं नाम त्रयोदशोऽध्यायः ॥
१४ ॥ चतुर्दशोऽध्यायः ॥
ऋभुः -
शृणुष्व सर्वं ब्रह्मैव सत्यं सत्यं शिवं शपे ।
निश्चयेनात्मयोगीन्द्र अन्यत् किञ्चिन्न किञ्चन ॥ १४.१॥
अणुमात्रमसद्रूपं अणुमात्रमिदं ध्रुवम् ।
अणुमात्रशरीरं च अन्यत् किञ्चिन्न किञ्चन ॥ १४.२॥
सर्वमात्मैव शुद्धात्मा सर्वं चिन्मात्रमद्वयम् ।
नित्यनिर्मलशुद्धात्मा अन्यत् किञ्चिन्न किञ्चन ॥ १४.३॥
अणुमात्रे विचिन्त्यात्मा सर्वं न ह्यणुमात्रकम् ।
अणुमात्रमसंकल्पो अन्यत् किञ्चिन्न किञ्चन ॥ १४.४॥
चैतन्यमात्रं सङ्कल्पं चैतन्यं परमं पदम् ।
आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.५॥
चैतन्यमात्रमोंकारः चैतन्यं सकलं स्वयम् ।
आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.६॥
आनन्दश्चाहमेवास्मि अहमेव चिदव्ययः ।
आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.७॥
अहमेव हि गुप्तात्मा अहमेव निरन्तरम् ।
आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.८॥
अहमेव परं ब्रह्म अहमेव गुरोर्गुरुः ।
आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.९॥
अहमेवाखिलाधार अहमेव सुखात् सुखम् ।
आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.१०॥
अहमेव परं ज्योतिरहमेवाखिलात्मकः ।
आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.११॥
अहमेव हि तृप्तात्मा अहमेव हि निर्गुणः ।
आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.१२॥
अहमेव हि पूर्णात्मा अहमेव पुरातनः ।
आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.१३॥
अहमेव हि शान्तात्मा अहमेव हि शाश्वतः ।
आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.१४॥
अहमेव हि सर्वत्र अहमेव हि सुस्थिरः ।
आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.१५॥
अहमेव हि जीवात्मा अहमेव परात्परः ।
आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.१६॥
अहमेव हि वाक्यार्थो अहमेव हि शङ्करः ।
आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.१७॥
अहमेव हि दुर्लक्ष्य अहमेव प्रकाशकः ।
आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.१८॥
अहमेवाहमेवाहं अहमेव स्वयं स्वयम् ।
अहमेव परानन्दोऽहमेव हि चिन्मयः ॥ १४.१९॥
अहमेव हि शुद्धात्मा अहमेव हि सन्मयः ।
अहमेव हि शून्यात्मा अहमेव हि सर्वगः ॥ १४.२०॥
अहमेव हि वेदान्तः अहमेव हि चित्परः ॥ १४.२१॥
अहमेव हि चिन्मात्रं अहमेव हि चिन्मयः ।
अन्यन्न किञ्चित् चिद्रूपादहं बाह्यविवर्जितः ॥ १४.२२॥
अहं न किञ्चिद् ब्रह्मात्मा अहं नान्यदहं परम् ।
नित्यशुद्धविमुक्तोऽहं नित्यतृप्तो निरञ्जनः ॥ १४.२३॥
आनन्दं परमानन्दमन्यत् किञ्चिन्न किञ्चन ।
नास्ति किञ्चिन्नास्ति किञ्चित् नास्ति किञ्चित् परात्परात् ॥ १४.२४॥
आत्मैवेदं जगत् सर्वमात्मैवेदं मनोभवम् ।
आत्मैवेदं सुखं सर्वं आत्मैवेदमिदं जगत् ॥ १४.२५॥
ब्रह्मैव सर्वं चिन्मात्रं अहं ब्रह्मैव केवलम् ।
आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.२६॥
दृश्यं सर्वं परं ब्रह्म दृश्यं नास्त्येव सर्वदा ।
ब्रह्मैव सर्वसङ्कल्पो ब्रह्मैव न परं क्वचित् ।
आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.२७॥
ब्रह्मैव ब्रह्म चिद्रूपं चिदेवं चिन्मयं जगत् ।
असदेव जगत्सर्वं असदेव प्रपञ्चकम् ॥ १४.२८॥
असदेवाहमेवास्मि असदेव त्वमेव हि ।
असदेव मनोवृत्तिरसदेव गुणागुणौ ॥ १४.२९॥
असदेव मही सर्वा असदेव जलं सदा ।
असदेव जगत्खानि असदेव च तेजकम् ॥ १४.३०॥
असदेव सदा वायुरसदेवेदमित्यपि ।
अहङ्कारमसद्बुद्धिर्ब्रह्मैव जगतां गणः ॥ १४.३१॥
असदेव सदा चित्तमात्मैवेदं न संशयः ।
असदेवासुराः सर्वे असदेवेदश्वराकृतिः ॥ १४.३२॥
असदेव सदा विश्वं असदेव सदा हरिः ।
असदेव सदा ब्रह्मा तत्सृष्टिरसदेव हि ॥ १४.३३॥
असदेव महादेवः असदेव गणेश्वरः ।
असदेव सदा चोमा असत् स्कन्दो गणेश्वराः ॥ १४.३४॥
असदेव सदा जीव असदेव हि देहकम् ।
असदेव सदा वेदा असद्देहान्तमेव च ॥ १४.३५॥
धर्मशास्त्रं पुराणं च असत्ये सत्यविभ्रमः ।
असदेव हि सर्वं च असदेव परंपरा ॥ १४.३६॥
असदेवेदमाद्यन्तमसदेव मुनीश्वराः ।
असदेव सदा लोका लोक्या अप्यसदेव हि ॥ १४.३७॥
असदेव सुखं दुःखं असदेव जयाजयौ ।
असदेव परं बन्धमसन्मुक्तिरपि ध्रुवम् ॥ १४.३८॥
असदेव मृतिर्जन्म असदेव जडाजडम् ।
असदेव जगत् सर्वमसदेवात्मभावना ॥ १४.३९॥
असदेव च रूपाणि असदेव पदं शुभम् ।
असदेव सदा चाहमसदेव त्वमेव हि ॥ १४.४०॥
असदेव हि सर्वत्र असदेव चलाचलम् ।
असच्च सकलं भूतमसत्यं सकलं फलम् ॥ १४.४१॥
असत्यमखिलं विश्वमसत्यमखिलो गुणः ।
असत्यमखिलं शेषमसत्यमखिलं जगत् ॥ १४.४२॥
असत्यमखिलं पापं असत्यं श्रवणत्रयम् ।
असत्यं च सजातीयविजातीयमसत् सदा ॥ १४.४३॥
असत्यमधिकाराश्च अनित्या विषयाः सदा ।
असदेव हि देवाद्या असदेव प्रयोजनम् ॥ १४.४४॥
असदेव शमं नित्यं असदेव शमोऽनिशम् ।
असदेव ससन्देहं असद्युद्धं सुरासुरम् ॥ १४.४५॥var was असदेव च सन्देहं
असदेवेशभावं चासदेवोपास्यमेव हि ।
असच्च कालदेशादि असत् क्षेत्रादिभावनम् ॥ १४.४६॥
तज्जन्यधर्माधर्मौ च असदेव विनिर्णयः ।
असच्च सर्वकर्माणि असदस्वपरभ्रमः ॥ १४.४७॥
असच्च चित्तसद्भाव असच्च स्थूलदेहकम् ।
असच्च लिङ्गदेहं च सत्यं सत्यं शिवं शपे ॥ १४.४८॥
असत्यं स्वर्गनरकं असत्यं तद्भवं सुखम् ।
असच्च ग्राहकं सर्वं असत्यं ग्राह्यरूपकम् ॥ १४.४९॥
असत्यं सत्यवद्भावं असत्यं ते शिवे शपे ।var was सत्यवद्भानं
असत्यं वर्तमानाख्यं असत्यं भूतरूपकम् ॥ १४.५०॥
असत्यं हि भविष्याख्यं सत्यं सत्यं शिवे शपे ।
असत् पूर्वमसन्मध्यमसदन्तमिदं जगत् ॥ १४.५१॥
असदेव सदा प्रायं असदेव न संशयः ।
असदेव सदा ज्ञानमज्ञानज्ञेयमेव च ॥ १४.५२॥
असत्यं सर्वदा विश्वमसत्यं सर्वदा जडम् ।
असत्यं सर्वदा दृश्यं भाति तौ रङ्गशृङ्गवत् ॥ १४.५३॥
असत्यं सर्वदा भावः असत्यं कोशसंभवम् ।
असत्यं सकलं मन्त्रं सत्यं सत्यं न संशयः ॥ १४.५४॥
आत्मनोऽन्यज्जगन्नास्ति नास्त्यनात्ममिदं सदा ।
आत्मनोऽन्यन्मृषैवेदं सत्यं सत्यं न संशयः ॥ १४.५५॥
आत्मनोऽन्यत्सुखं नास्ति आत्मनोऽन्यन्न किञ्चन ।
आत्मनोऽन्या गतिर्नास्ति स्थितमात्मनि सर्वदा ॥ १४.५६॥
आत्मनोऽन्यन्न हि क्वापि आत्मनोऽन्यत् तृणं न हि ।
आत्मनोऽन्यन्न किञ्चिच्च क्वचिदप्यात्मनो न हि ॥ १४.५७॥
आत्मानन्दप्रकरणमेतत्तेऽभिहितं मया ।
यः शृणोति सकृद्विद्वान् ब्रह्मैव भवति स्वयम् ॥ १४.५८॥
सकृच्छ्रवणमात्रेण सद्योबन्धविमुक्तिदम् ।
एतद्ग्रन्थार्थमात्रं वै गृणन् सर्वैर्विमुच्यते ॥ १४.५९॥
सूतः -
पूर्णं सत्यं महेशं भज नियतहृदा योऽन्तरायैर्विहीनः
सो नित्यो निर्विकल्पो भवति भुवि सदा ब्रह्मभूतो ऋतात्मा ।
विच्छिन्नग्रन्थिरीशे शिवविमलपदे विद्यते भासतेऽन्तः
आरामोऽन्तर्भवति नियतं विश्वभूतो मृतश्च ॥ १४.६०॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
आत्मानन्दप्रकरणवर्णनं नाम चतुर्दशोऽध्यायः ॥
१५ ॥ पञ्चदशोऽध्यायः ॥
ऋभुः -
महारहस्यं वक्ष्यामि गुह्यात् गुह्यतरं पुनः ।
अत्यन्तदुर्लभं लोके सर्वं ब्रह्मैव केवलम् ॥ १५.१॥
ब्रह्ममात्रमिदं सर्वं ब्रह्ममात्रमसन्न हि ।
ब्रह्ममात्रं श्रुतं सर्वं सर्वं ब्रह्मैव केवलम् ॥ १५.२॥
ब्रह्ममात्रं महायन्त्रं ब्रह्ममात्रं क्रियाफलम् ।
ब्रह्ममात्रं महावाक्यं सर्वं ब्रह्मैव केवलम् ॥ १५.३॥
ब्रह्ममात्रं जगत्सर्वं ब्रह्ममात्रं जडाजडम् ।
ब्रह्ममात्रं परं देहं सर्वं ब्रह्मैव केवलम् ॥ १५.४॥
ब्रह्ममात्रं गुणं प्रोक्तं ब्रह्ममात्रमहं महत् ।
ब्रह्ममात्रं परं ब्रह्म सर्वं ब्रह्मैव केवलम् ॥ १५.५॥
ब्रह्ममात्रमिदं वस्तु ब्रह्ममात्रं स च पुमान् ।
ब्रह्ममात्रं च यत् किञ्चित् सर्वं ब्रह्मैव केवलम् ॥ १५.६॥
ब्रह्ममात्रमनन्तात्मा ब्रह्ममात्रं परं सुखम् ।
ब्रह्ममात्रं परं ज्ञानं सर्वं ब्रह्मैव केवलम् ॥ १५.७॥
ब्रह्ममात्रं परं पारं ब्रह्ममात्रं पुरत्रयम् ।
ब्रह्ममात्रमनेकत्वं सर्वं ब्रह्मैव केवलम् ॥ १५.८॥
ब्रह्मैव केवलं गन्धं ब्रह्मैव परमं पदम् ।
ब्रह्मैव केवलं घ्राणं सर्वं ब्रह्मैव केवलम् ॥ १५.९॥
ब्रह्मैव केवलं स्पर्शं शब्दं ब्रह्मैव केवलम् ।
ब्रह्मैव केवलं रूपं सर्वं ब्रह्मैव केवलम् ॥ १५.१०॥
ब्रह्मैव केवलं लोकं रसो ब्रह्मैव केवलम् ।
ब्रह्मैव केवलं चित्तं सर्वं ब्रह्मैव केवलम् ॥ १५.११॥
तत्पदं च सदा ब्रह्म त्वं पदं ब्रह्म एव हि ।
असीत्येव पदं ब्रह्म ब्रह्मैक्यं केवलम् सदा ॥ १५.१२॥
ब्रह्मैव केवलं गुह्यं ब्रह्म बाह्यं च केवलम् ।
ब्रह्मैव केवलं नित्यं सर्वं ब्रह्मैव केवलम् ॥ १५.१३॥
ब्रह्मैव तज्जलानीति जगदाद्यन्तयोः स्थितिः ।
ब्रह्मैव जगदाद्यन्तं सर्वं ब्रह्मैव केवलम् ॥ १५.१४॥
ब्रह्मैव चास्ति नास्तीति ब्रह्मैवाहं न संशयः ।
ब्रह्मैव सर्वं यत् किञ्चित् सर्वं ब्रह्मैव केवलम् ॥ १५.१५॥
ब्रह्मैव जाग्रत् सर्वं हि ब्रह्ममात्रमहं परम् ।
ब्रह्मैव सत्यमस्तित्वं ब्रह्मैव तुर्यमुच्यते ॥ १५.१६॥
ब्रह्मैव सत्ता ब्रह्मैव ब्रह्मैव गुरुभावनम् ।
ब्रह्मैव शिष्यसद्भावं मोक्षं ब्रह्मैव केवलम् ॥ १५.१७॥
पूर्वापरं च ब्रह्मैव पूर्णं ब्रह्म सनातनम् ।
ब्रह्मैव केवलं साक्षात् सर्वं ब्रह्मैव केवलम् ॥ १५.१८॥
ब्रह्म सच्चित्सुखं ब्रह्म पूर्णं ब्रह्म सनातनम् ।
ब्रह्मैव केवलं साक्षात् सर्वं ब्रह्मैव केवलम् ॥ १५.१९॥
ब्रह्मैव केवलं सच्चित् सुखं ब्रह्मैव केवलम् ।
आनन्दं ब्रह्म सर्वत्र प्रियरूपमवस्थितम् ॥ १५.२०॥
शुभवासनया जीवं शिववद्भाति सर्वदा ।
पापवासनया जीवो नरकं भोज्यवत् स्थितम् ॥ १५.२१॥
ब्रह्मैवेन्द्रियवद्भानं ब्रह्मैव विषयादिवत् ।
ब्रह्मैव व्यवहारश्च सर्वं ब्रह्मैव केवलम् ॥ १५.२२॥
ब्रह्मैव सर्वमानन्दं ब्रह्मैव ज्ञानविग्रहम् ।
ब्रह्मैव मायाकार्याख्यं सर्वं ब्रह्मैव केवलम् ॥ १५.२३॥
ब्रह्मैव यज्ञसन्धानं ब्रह्मैव हृदयाम्बरम् ।
ब्रह्मैव मोक्षसाराख्यं सर्वं ब्रह्मैव केवलम् ॥ १५.२४॥
ब्रह्मैव शुद्धाशुद्धं च सर्वं ब्रह्मैव कारणम् ।
ब्रह्मैव कार्यं भूलोकं सर्वं ब्रह्मैव केवलम् ॥ १५.२५॥
ब्रह्मैव नित्यतृप्तात्मा ब्रह्मैव सकलं दिनम् ।
ब्रह्मैव तूष्णीं भूतात्मा सर्वं ब्रह्मैव केवलम् ॥ १५.२६॥
ब्रह्मैव वेदसारार्थः ब्रह्मैव ध्यानगोचरम् ।
ब्रह्मैव योगयोगाख्यं सर्वं ब्रह्मैव केवलम् ॥ १५.२७॥
नानारूपत्वाद् ब्रह्म उपाधित्वेन दृश्यते ।
मायामात्रमिति ज्ञात्वा वस्तुतो नास्ति तत्त्वतः ॥ १५.२८॥
ब्रह्मैव लोकवद्भाति ब्रह्मैव जनवत्तथा ।
ब्रह्मैव रूपवद्भाति वस्तुतो नास्ति किञ्चन ॥ १५.२९॥
ब्रह्मैव देवताकारं ब्रह्मैव मुनिमण्डलम् ।
ब्रह्मैव ध्यानरूपं च सर्वं ब्रह्मैव केवलम् ॥ १५.३०॥
ब्रह्मैव ज्ञानविज्ञानं ब्रह्मैव परमेश्वरः ।
ब्रह्मैव शुद्धबुद्धात्मा सर्वं ब्रह्मैव केवलम् ॥ १५.३१॥
ब्रह्मैव परमानदं ब्रह्मैव व्यापकं महत् ।
ब्रह्मैव परमार्थं च सर्वं ब्रह्मैव केवलम् ॥ १५.३२॥
ब्रह्मैव यज्ञरूपं च ब्रह्म हव्यं च केवलम् ।
ब्रह्मैव जीवभूतात्मा सर्वं ब्रह्मैव केवलम् ॥ १५.३३॥
ब्रह्मैव सकलं लोकं ब्रह्मैव गुरुशिष्यकम् ।
ब्रह्मैव सर्वसिद्धिं च सर्वं ब्रह्मैव केवलम् ॥ १५.३४॥
ब्रह्मैव सर्वमन्त्रं च ब्रह्मैव सकलं जपम् ।
ब्रह्मैव सर्वकार्यं च सर्वं ब्रह्मैव केवलम् ॥ १५.३५॥
ब्रह्मैव सर्वशान्तत्वं ब्रह्मैव हृदयान्तरम् ।
ब्रह्मैव सर्वकैवल्यं सर्वं ब्रह्मैव केवलम् ॥ १५.३६॥
ब्रह्मैवाक्षरभावञ्च ब्रह्मैवाक्षरलक्षणम् ।
ब्रह्मैव ब्रह्मरूपञ्च सर्वं ब्रह्मैव केवलम् ॥ १५.३७॥
ब्रह्मैव सत्यभवनं ब्रह्मैवाहं न संशयः ।
ब्रह्मैव तत्पदार्थञ्च सर्वं ब्रह्मैव केवलम् ॥ १५.३८॥
ब्रह्मैवाहंपदार्थञ्च ब्रह्मैव परमेश्वरः ।
ब्रह्मैव त्वंपदार्थञ्च सर्वं ब्रह्मैव केवलम् ॥ १५.३९॥
ब्रह्मैव यद्यत् परमं ब्रह्मैवेति परायणम् ।
ब्रह्मैव कलनाभावं सर्वं ब्रह्मैव केवलम् ॥ १५.४०॥
ब्रह्म सर्वं न सन्देहो ब्रह्मैव त्वं सदाशिवः ।
ब्रह्मैवेदं जगत् सर्वं सर्वं ब्रह्मैव केवलम् ॥ १५.४१॥
ब्रह्मैव सर्वसुलभं ब्रह्मैवात्मा स्वयं स्वयम् ।
ब्रह्मैव सुखमात्रत्वात् सर्वं ब्रह्मैव केवलम् ॥ १५.४२॥
ब्रह्मैव सर्वं ब्रह्मैव ब्रह्मणोऽन्यदसत् सदा ।
ब्रह्मैव ब्रह्ममात्रात्मा सर्वं ब्रह्मैव केवलम् ॥ १५.४३॥
ब्रह्मैव सर्ववाक्यार्थः ब्रह्मैव परमं पदम् ।
ब्रह्मैव सत्यासत्यं च सर्वं ब्रह्मैव केवलम् ॥ १५.४४॥
ब्रह्मैवैकमनाद्यन्तं ब्रह्मैवैकं न संशयः ।
ब्रह्मैवैकं चिदानन्दः सर्वं ब्रह्मैव केवलम् ॥ १५.४५॥
ब्रह्मैवैकं सुखं नित्यं ब्रह्मैवैकं परायणम् ।
ब्रह्मैवैकं परं ब्रह्म सर्वं ब्रह्मैव केवलम् ॥ १५.४६॥
ब्रह्मैव चित् स्वयं स्वस्थं ब्रह्मैव गुणवर्जितम् ।
ब्रह्मैवात्यन्तिकं सर्वं सर्वं ब्रह्मैव केवलम् ॥ १५.४७॥
ब्रह्मैव निर्मलं सर्वं ब्रह्मैव सुलभं सदा ।
ब्रह्मैव सत्यं सत्यानां सर्वं ब्रह्मैव केवलम् ॥ १५.४८॥
ब्रह्मैव सौख्यं सौख्यं च ब्रह्मैवाहं सुखात्मकम् ।
ब्रह्मैव सर्वदा प्रोक्तं सर्वं ब्रह्मैव केवलम् ॥ १५.४९॥
ब्रह्मैवमखिलं ब्रह्म ब्रह्मैकं सर्वसाक्षिकम् ।
ब्रह्मैव भूरिभवनं सर्वं ब्रह्मैव केवलम् ॥ १५.५०॥
ब्रह्मैव परिपूर्णात्मा ब्रह्मैवं सारमव्ययम् ।
ब्रह्मैव कारणं मूलं ब्रह्मैवैकं परायणम् ॥ १५.५१॥
ब्रह्मैव सर्वभूतात्मा ब्रह्मैव सुखविग्रहम् ।
ब्रह्मैव नित्यतृप्तात्मा सर्वं ब्रह्मैव केवलम् ॥ १५.५२॥
ब्रह्मैवाद्वैतमात्रात्मा ब्रह्मैवाकाशवत् प्रभुः ।
ब्रह्मैव हृदयानन्दः सर्वं ब्रह्मैव केवलम् ॥ १५.५३॥
ब्रह्मणोऽन्यत् परं नास्ति ब्रह्मणोऽन्यज्जगन्न च ।
ब्रह्मणोऽन्यदहं नाहं सर्वं ब्रह्मैव केवलम् ॥ १५.५४॥
ब्रह्मैवान्यसुखं नास्ति ब्रह्मणोऽन्यत् फलं न हि ।
ब्रह्मणोऽन्यत् तृणं नास्ति सर्वं ब्रह्मैव केवलम् ॥ १५.५५॥
ब्रह्मणोऽन्यत् पदं मिथ्या ब्रह्मणोऽन्यन्न किञ्चन ।
ब्रह्मणोऽन्यज्जगन्मिथ्या सर्वं ब्रह्मैव केवलम् ॥ १५.५६॥
ब्रह्मणोऽन्यदहं मिथ्या ब्रह्ममात्रोहमेव हि ।
ब्रह्मणोऽन्यो गुरुर्नास्ति सर्वं ब्रह्मैव केवलम् ॥ १५.५७॥
ब्रह्मणोऽन्यदसत् कार्यं ब्रह्मणोऽन्यदसद्वपुः ।
ब्रह्मणोऽन्यन्मनो नास्ति सर्वं ब्रह्मैव केवलम् ॥ १५.५८॥
ब्रह्मणोऽन्यज्जगन्मिथ्या ब्रह्मणोऽन्यन्न किञ्चन ।
ब्रह्मणोऽन्यन्न चाहन्ता सर्वं ब्रह्मैव केवलम् ॥ १५.५९॥
ब्रह्मैव सर्वमित्येवं प्रोक्तं प्रकरणं मया ।
यः पठेत् श्रावयेत् सद्यो ब्रह्मैव भवति स्वयम् ॥ १५.६०॥
अस्ति ब्रह्मेति वेदे इदमिदमखिलं वेद सो सद्भवेत् ।
सच्चासच्च जगत्तथा श्रुतिवचो ब्रह्मैव तज्जादिकम् ॥
यतो विद्यैवेदं परिलुठति मोहेन जगति ।
अतो विद्यापादो परिभवति ब्रह्मैव हि सदा ॥ १५.६१॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
ब्रह्मैव सर्वं प्रकरणनिरूपणं नाम पञ्चदशोऽध्यायः ॥
१६ ॥ षोडशोऽध्यायः ॥
ऋभुः -
अत्यन्तं दुर्लभं वक्ष्ये वेदशास्त्रागमादिषु ।
शृण्वन्तु सावधानेन असदेव हि केवलम् ॥ १६.१॥
यत्किञ्चिद् दृश्यते लोके यत्किञ्चिद्भाषते सदा ।
यत्किञ्चिद् भुज्यते क्वापि तत्सर्वमसदेव हि ॥ १६.२॥
यद्यत् किञ्चिज्जपं वापि स्नानं वा जलमेव वा ।
आत्मनोऽन्यत् परं यद्यत् असत् सर्वं न संशयः ॥ १६.३॥
चित्तकार्यं बुद्धिकार्यं मायाकार्यं तथैव हि ।
आत्मनोऽन्यत् परं किञ्चित् तत्सर्वमसदेव हि ॥ १६.४॥
अहन्तायाः परं रूपं इदंत्वं सत्यमित्यपि ।
आत्मनोऽन्यत् परं किञ्चित् तत्सर्वमसदेव हि ॥ १६.५॥
नानात्वमेव रूपत्वं व्यवहारः क्वचित् क्वचित् ।
आत्मीय एव सर्वत्र तत्सर्वमसदेव हि ॥ १६.६॥
तत्त्वभेदं जगद्भेदं सर्वभेदमसत्यकम् ।
इच्छाभेदं जगद्भेदं तत्सर्वमसदेव हि ॥ १६.७॥
द्वैतभेदं चित्रभेदं जाग्रद्भेदं मनोमयम् ।
अहंभेदमिदंभेदमसदेव हि केवलम् ॥ १६.८॥
स्वप्नभेदं सुप्तिभेदं तुर्यभेदमभेदकम् ।
कर्तृभेदं कार्यभेदं गुणभेदं रसात्मकम् ।
लिङ्गभेदमिदंभेदमसदेव हि केवलम् ॥ १६.९॥
आत्मभेदमसद्भेदं सद्भेदमसदण्वपि ।
अत्यन्ताभावसद्भेदम् असदेव हि केवलम् ॥ १६.१०॥
अस्तिभेदं नास्तिभेदमभेदं भेदविभ्रमः ।
भ्रान्तिभेदं भूतिभेदमसदेव हि केवलम् ॥ १६.११॥
पुनरन्यत्र सद्भेदमिदमन्यत्र वा भयम् ।
पुण्यभेदं पापभेदं असदेव हि केवलम् ॥ १६.१२॥
सङ्कल्पभेदं तद्भेदं सदा सर्वत्र भेदकम् ।
ज्ञानाज्ञानमयं सर्वं असदेव हि केवलम् ॥ १६.१३॥
ब्रह्मभेदं क्षत्रभेदं भूतभौतिकभेदकम् ।
इदंभेदमहंभेदं असदेव हि केवलम् ॥ १६.१४॥
वेदभेदं देवभेदं लोकानां भेदमीदृशम् ।
पञ्चाक्षरमसन्नित्यम् असदेव हि केवलम् ॥ १६.१५॥
ज्ञानेन्द्रियमसन्नित्यं कर्मेन्द्रियमसत्सदा ।
असदेव च शब्दाख्यं असत्यं तत्फलं तथा ॥ १६.१६॥
असत्यं पञ्चभूताख्यमसत्यं पञ्चदेवताः ।
असत्यं पञ्चकोशाख्यम् असदेव हि केवलम् ॥ १६.१७॥
असत्यं षड्विकारादि असत्यं षट्कमूर्मिणाम् ।
असत्यमरिषड्वर्गमसत्यं षडृतुस्तदा ॥ १६.१८॥var was तथा
असत्यं द्वादशमासाः असत्यं वत्सरस्तथा ।
असत्यं षडवस्थाख्यं षट्कालमसदेव हि ॥ १६.१९॥
असत्यमेव षट्शास्त्रं असदेव हि केवलम् ।
असदेव सदा ज्ञानं असदेव हि केवलम् ॥ १६.२०॥
अनुक्तमुक्तं नोक्तं च असदेव हि केवलम् ।
असत्प्रकरणं प्रोक्तं सर्ववेदेषु दुर्लभम् ॥ १६.२१॥
भूयः शृणु त्वं योगीन्द्र साक्षान्मोक्षं ब्रवीम्यहम् ।
सन्मात्रमहमेवात्मा सच्चिदानन्द केवलम् ॥ १६.२२॥
सन्मयानन्दभूतात्मा चिन्मयानन्दसद्घनः ।
चिन्मयानन्दसन्दोहचिदानन्दो हि केवलम् ॥ १६.२३॥
चिन्मात्रज्योतिरान्दश्चिन्मात्रज्योतिविग्रहः ।
चिन्मात्रज्योतिरीशानः सर्वदानन्दकेवलम् ॥ १६.२४॥
चिन्मात्रज्योतिरखिलं चिन्मात्रज्योतिरस्म्यहम् ।
चिन्मात्रं सर्वमेवाहं सर्वं चिन्मात्रमेव हि ॥ १६.२५॥
चिन्मात्रमेव चित्तं च चिन्मात्रं मोक्ष एव च ।
चिन्मात्रमेव मननं चिन्मात्रं श्रवणं तथा ॥ १६.२६॥
चिन्मात्रमहमेवास्मि सर्वं चिन्मात्रमेव हि ।
चिन्मात्रं निर्गुणं ब्रह्म चिन्मात्रं सगुणं परम् ॥ १६.२७॥
चिन्मात्रमहमेव त्वं सर्वं चिन्मात्रमेव हि ।
चिन्मात्रमेव हृदयं चिन्मात्रं चिन्मयं सदा ॥ १६.२८॥
चिदेव त्वं चिदेवाहं सर्वं चिन्मात्रमेव हि ।
चिन्मात्रमेव शान्तत्वं चिन्मात्रं शान्तिलक्षणम् ॥ १६.२९॥
चिन्मात्रमेव विज्ञानं चिन्मात्रं ब्रह्म केवलम् ।
चिन्मात्रमेव संकल्पं चिन्मात्रं भुवनत्रयम् ॥ १६.३०॥
चिन्मात्रमेव सर्वत्र चिन्मात्रं व्यापको गुरुः ।
चिन्मात्रमेव शुद्धत्वं चिन्मात्रं ब्रह्म केवलम् ॥ १६.३१॥
चिन्मात्रमेव चैतन्यं चिन्मात्रं भास्करादिकम् ।
चिन्मात्रमेव सन्मात्रं चिन्मात्रं जगदेव हि ॥ १६.३२॥
चिन्मात्रमेव सत्कर्म चिन्मात्रं नित्यमङ्गलम् ।
चिन्मात्रमेव हि ब्रह्म चिन्मात्रं हरिरेव हि ॥ १६.३३॥
चिन्मात्रमेव मौनात्मा चिन्मात्रं सिद्धिरेव हि ।
चिन्मात्रमेव जनितं चिन्मात्रं सुखमेव हि ॥ १६.३४॥
चिन्मात्रमेव गगनं चिन्मात्रं पर्वतं जलम् ।
चिन्मात्रमेव नक्षत्रं चिन्मात्रं मेघमेव हि ॥ १६.३५॥
चिदेव देवताकारं चिदेव शिवपूजनम् ।
चिन्मात्रमेव काठिन्यं चिन्मात्रं शीतलं जलम् ॥ १६.३६॥
चिन्मात्रमेव मन्तव्यं चिन्मात्रं दृश्यभावनम् ।
चिन्मात्रमेव सकलं चिन्मात्रं भुवनं पिता ॥ १६.३७॥
चिन्मात्रमेव जननी चिन्मात्रान्नास्ति किञ्चन ।
चिन्मात्रमेव नयनं चिन्मात्रं श्रवणं सुखम् ॥ १६.३८॥
चिन्मात्रमेव करणं चिन्मात्रं कार्यमीश्वरम् ।
चिन्मात्रं चिन्मयं सत्यं चिन्मात्रं नास्ति नास्ति हि ॥ १६.३९॥
चिन्मात्रमेव वेदान्तं चिन्मात्रं ब्रह्म निश्चयम् ।
चिन्मात्रमेव सद्भावि चिन्मात्रं भाति नित्यशः ॥ १६.४०॥
चिदेव जगदाकारं चिदेव परमं पदम् ।
चिदेव हि चिदाकारं चिदेव हि चिदव्ययः ॥ १६.४१॥
चिदेव हि शिवाकारं चिदेव हि शिवविग्रहः ।
चिदाकारमिदं सर्वं चिदाकारं सुखासुखम् ॥ १६.४२॥
चिदेव हि जडाकारं चिदेव हि निरन्तरम् ।
चिदेवकलनाकारं जीवाकारं चिदेव हि ॥ १६.४३॥
चिदेव देवताकारं चिदेव शिवपूजनम् ।
चिदेव त्वं चिदेवाहं सर्वं चिन्मात्रमेव हि ॥ १६.४४॥
चिदेव परमाकारं चिदेव हि निरामयम् ।
चिन्मात्रमेव सततं चिन्मात्रं हि परायणम् ॥ १६.४५॥
चिन्मात्रमेव वैराग्यं चिन्मात्रं निर्गुणं सदा ।
चिन्मात्रमेव सञ्चारं चिन्मात्रं मन्त्रतन्त्रकम् ॥ १६.४६॥
चिदाकारमिदं विश्वं चिदाकारं जगत्त्रयम् ।
चिदाकारमहङ्कारं चिदाकारं परात् परम् ॥ १६.४७॥
चिदाकारमिदं भेदं चिदाकारं तृणादिकम् ।
चिदाकारं चिदाकाशं चिदाकारमरूपकम् ॥ १६.४८॥
चिदाकारं महानन्दं चिदाकारं सुखात् सुखम् ।
चिदाकारं सुखं भोज्यं चिदाकारं परं गुरुम् ॥ १६.४९॥
चिदाकारमिदं विश्वं चिदाकारमिदं पुमान् ।
चिदाकारमजं शान्तं चिदाकारमनामयम् ॥ १६.५०॥
चिदाकारं परातीतं चिदाकारं चिदेव हि ।
चिदाकारं चिदाकाशं चिदाकाशं शिवायते ॥ १६.५१॥
चिदाकारं सदा चित्तं चिदाकारं सदाऽमृतम् ।
चिदाकारं चिदाकाशं तदा सर्वान्तरान्तरम् ॥ १६.५२॥
चिदाकारमिदं पूर्णं चिदाकारमिदं प्रियम् ।
चिदाकारमिदं सर्वं चिदाकारमहं सदा ॥ १६.५३॥
चिदाकारमिदं स्थानं चिदाकारं हृदम्बरम् ।
चिदाबोधं चिदाकारं चिदाकाशं ततं सदा ॥ १६.५४॥
चिदाकारं सदा पूर्णं चिदाकारं महत्फलम् ।
चिदाकारं परं तत्त्वं चिदाकारं परं भवान् ॥ १६.५५॥
चिदाकारं सदामोदं चिदाकारं सदा मृतम् ।
चिदाकारं परं ब्रह्म चिदहं चिदहं सदा ॥ १६.५६॥
चिदहं चिदहं चित्तं चित्तं स्वस्य न संशयः ।
चिदेव जगदाकारं चिदेव शिवशङ्करः ॥ १६.५७॥
चिदेव गगनाकारं चिदेव गणनायकम् ।
चिदेव भुवनाकारं चिदेव भवभावनम् ॥ १६.५८॥
चिदेव हृदयाकारं चिदेव हृदयेश्वरः ।
चिदेव अमृताकारं चिदेव चलनास्पदम् ॥ १६.५९॥
चिदेवाहं चिदेवाहं चिन्मयं चिन्मयं सदा ।
चिदेव सत्यविश्वासं चिदेव ब्रह्मभावनम् ॥ १६.६०॥
चिदेव परमं देवं चिदेव हृदयालयम् ।
चिदेव सकलाकारं चिदेव जनमण्डलम् ॥ १६.६१॥
चिदेव सर्वमानन्दं चिदेव प्रियभाषणम् ।
चिदेव त्वं चिदेवाहं सर्वं चिन्मात्रमेव हि ॥ १६.६२॥
चिदेव परमं ध्यानं चिदेव परमर्हणम् ।
चिदेव त्वं चिदेवाहं सर्वं चिन्मयमेव हि ॥ १६.६३॥
चिदेव त्वं प्रकरणं सर्ववेदेषु दुर्लभम् ।
सकृच्छ्रवणमात्रेण ब्रह्मैव भवति ध्रुवम् ॥ १६.६४॥
यस्याभिध्यानयोगाज्जनिमृतिविवशाः शाश्वतं वृत्तिभिर्ये
मायामोहैर्विहीना हृदुदरभयजं छिद्यते ग्रन्थिजातम् ।
विश्वं विश्वाधिकरसं भवति भवतो दर्शनादाप्तकामः
सो नित्यो निर्विकल्पो भवति भुवि सदा ब्रह्मभूतोऽन्तरात्मा ॥ १६.६५॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
चिदेवत्वंप्रकरणवर्णनं नाम षोडशोऽध्यायः ॥
१७ ॥ सप्तदशोऽध्यायः ॥
ऋभुः -
निदाघ शृणु गुह्यं मे सर्वसिद्धान्तसङ्ग्रहम् ।
द्वैताद्वैतमिदं शून्यं शान्तं ब्रह्मैव सर्वदा ॥ १७.१॥
अहमेव परं ब्रह्म अहमेव परात् परम् ।
द्वैताद्वैतमिदं शून्यं शान्तं ब्रह्मैव केवलम् ॥ १७.२॥
अहमेव हि शान्तात्मा अहमेव हि सर्वगः ।
अहमेव हि शुद्धात्मा अहमेव हि नित्यशः ॥ १७.३॥
अहमेव हि नानात्मा अहमेव हि निर्गुणः ।
अहमेव हि नित्यात्मा अहमेव हि कारणम् ॥ १७.४॥
अहमेव हि जगत् सर्वं इदं चैवाहमेव हि ।
अहमेव हि मोदात्मा अहमेव हि मुक्तिदः ॥ १७.५॥
अहमेव हि चैतन्यं अहमेव हि चिन्मयः ।
अहमेव हि चैतन्यमहं सर्वान्तरः सदा ॥ १७.६॥
अहमेव हि भूतात्मा भौतिकं त्वहमेव हि ।
अहमेव त्वमेवाहमहमेवाहमेव हि ॥ १७.७॥
जीवात्मा त्वहमेवाहमहमेव परेश्वरः ।
अहमेव विभुर्नित्यमहमेव स्वयं सदा ॥ १७.८॥
अहमेवाक्षरं साक्षात् अहमेव हि मे प्रियम् ।
अहमेव सदा ब्रह्म अहमेव सदाऽव्ययः ॥ १७.९॥
अहमेवाहमेवाग्रे अहमेवान्तरान्तरः ।
अहमेव चिदाकाशमहमेवावभासकः ॥ १७.१०॥
अहमेव सदा स्रष्टा अहमेव हि रक्षकः ।
अहमेव हि लीलात्मा अहमेव हि निश्चयः ॥ १७.११॥
अहमेव सदा साक्षी त्वमेव त्वं पुरातनः ।
त्वमेव हि परं ब्रह्म त्वमेव हि निरन्तरम् ॥ १७.१२॥
अहमेवाहमेवाहमहमेव त्वमेव हि ।
अहमेवाद्वयाकारः अहमेव विदेहकः ॥ १७.१३॥
अहमेव ममाधारः अहमेव सदात्मकः ।
अहमेवोपशान्तात्मा अहमेव तितिक्षकः ॥ १७.१४॥
अहमेव समाधानं श्रद्धा चाप्यहमेव हि ।
अहमेव महाव्योम अहमेव कलात्मकः ॥ १७.१५॥
अहमेव हि कामान्तः अहमेव सदान्तरः ।
अहमेव पुरस्ताच्च अहं पश्चादहं सदा ॥ १७.१६॥
अहमेव हि विश्वात्मा अहमेव हि केवलम् ।
अहमेव परं ब्रह्म अहमेव परात्परः ॥ १७.१७॥
अहमेव चिदानन्दः अहमेव सुखासुखम् ।
अहमेव गुरुत्वं च अहमेवाच्युतः सदा ॥ १७.१८॥
अहमेव हि वेदान्तः अहमेव हि चिन्तनः ।
देहोऽहं शुद्धचैतन्यः अहं संशयवर्जितः ॥ १७.१९॥
अहमेव परं ज्योतिरहमेव परं पदम् ।
अहमेवाविनाश्यात्मा अहमेव पुरातनः ॥ १७.२०॥
अहं ब्रह्म न सन्देहः अहमेव हि निष्कलः ।
अहं तुर्यो न सन्देहः अहमात्मा न संशयः ॥ १७.२१॥
अहमित्यपि हीनोऽहमहं भावनवर्जितः ।
अहमेव हि भावान्ता अहमेव हि शोभनम् ॥ १७.२२॥
अहमेव क्षणातीतः अहमेव हि मङ्गलम् ।
अहमेवाच्युतानन्दः अहमेव निरन्तरम् ॥ १७.२३॥
अहमेवाप्रमेयात्मा अहं संकल्पवर्जितः ।
अहं बुद्धः परंधाम अहं बुद्धिविवर्जितः ॥ १७.२४॥
अहमेव सदा सत्यं अहमेव सदासुखम् ।
अहमेव सदा लभ्यं अहं सुलभकारणम् ॥ १७.२५॥
अहं सुलभविज्ञानं दुर्लभो ज्ञानिनां सदा ।
अहं चिन्मात्र एवात्मा अहमेव हि चिद्घनः ॥ १७.२६॥
अहमेव त्वमेवाहं ब्रह्मैवाहं न संशयः ।
अहमात्मा न सन्देहः सर्वव्यापी न संशयः ॥ १७.२७॥
अहमात्मा प्रियं सत्यं सत्यं सत्यं पुनः पुनः ।
अहमात्माऽजरो व्यापी अहमेवात्मनो गुरुः ॥ १७.२८॥
अहमेवामृतो मोक्षो अहमेव हि निश्चलः ।
अहमेव हि नित्यात्मा अहं मुक्तो न संशयः ॥ १७.२९॥
अहमेव सदा शुद्धः अहमेव हि निर्गुणः ।
अहं प्रपञ्चहीनोऽहं अहं देहविवर्जितः ॥ १७.३०॥
अहं कामविहीनात्मा अहं मायाविवर्जितः ।
अहं दोषप्रवृत्तात्मा अहं संसारवर्जितः ॥ १७.३१॥
अहं सङ्कल्परहितो विकल्परहितः शिवः ।
अहमेव हि तुर्यात्मा अहमेव हि निर्मलः ॥ १७.३२॥
अहमेव सदा ज्योतिरहमेव सदा प्रभुः ।
अहमेव सदा ब्रह्म अहमेव सदा परः ॥ १७.३३॥
अहमेव सदा ज्ञानमहमेव सदा मृदुः ।
अहमेव हि चित्तं च अहं मानविवर्जितः ॥ १७.३४॥
अहंकारश्च संसारमहङ्कारमसत्सदा ।
अहमेव हि चिन्मात्रं मत्तोऽन्यन्नास्ति नास्ति हि ॥ १७.३५॥
अहमेव हि मे सत्यं मत्तोऽन्यन्नास्ति किञ्चन ।
मत्तोऽन्यत्तत्पदं नास्ति मत्तोऽन्यत् त्वत्पदं नहि ॥ १७.३६॥
पुण्यमित्यपि न क्वापि पापमित्यपि नास्ति हि ।
इदं भेदमयं भेदं सदसद्भेदमित्यपि ॥ १७.३७॥
नास्ति नास्ति त्वया सत्यं सत्यं सत्यं पुनः पुनः ।
नास्ति नास्ति सदा नास्ति सर्वं नास्तीति निश्चयः ॥ १७.३८॥
इदमेव परं ब्रह्म अहं ब्रह्म त्वमेव हि ।
कालो ब्रह्म कला ब्रह्म कार्यं ब्रह्म क्षणं तदा ॥ १७.३९॥
सर्वं ब्रह्माप्यहं ब्रह्म ब्रह्मास्मीति न संशयः ।
चित्तं ब्रह्म मनो ब्रह्म सत्यं ब्रह्म सदाऽस्म्यहम् ॥ १७.४०॥
निर्गुणं ब्रह्म नित्यं च निरन्तरमहं परः ।
आद्यन्तं ब्रह्म एवाहं आद्यन्तं च नहि क्वचित् ॥ १७.४१॥
अहमित्यपि वार्ताऽपि स्मरणं भाषणं न च ।
सर्वं ब्रह्मैव सन्देहस्त्वमित्यपि न हि क्वचित् ॥ १७.४२॥
वक्ता नास्ति न सन्देहः एषा गीता सुदुर्लभः ।
सद्यो मोक्षप्रदं ह्येतत् सद्यो मुक्तिं प्रयच्छति ॥ १७.४३॥
सद्य एव परं ब्रह्म पदं प्राप्नोति निश्चयः ।
सकृच्छ्रवणमात्रेण सद्यो मुक्तिं प्रयच्छति ॥ १७.४४॥
एतत्तु दुर्लभं लोके त्रैलोक्येऽपि च दुर्लभम् ।
अहं ब्रह्म न सन्देह इत्येवं भावयेत् दृढम् ।
ततः सर्वं परित्यज्य तूष्णीं तिष्ठ यथा सुखम् ॥ १७.४५॥
सूतः -
भुवनगगनमध्यध्यानयोगाङ्गसङ्गे
यमनियमविशेषैर्भस्मरागाङ्गसङ्गैः ।
सुखमुखभरिताशाः कोशपाशाद्विहीना
हृदि मुदितपराशाः शांभवाः शंभुवच्च ॥ १७.४६॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
सर्वसिद्धान्तसंग्रहप्रकरणं नाम सप्तदशोऽध्यायः ॥
१८ ॥ अष्टादशोऽध्यायः ॥
ऋभुः -
शृणु भूयः परं तत्त्वं सद्यो मोक्षप्रदायकम् ।
सर्वं ब्रह्मैव सततं सर्वं शान्तं न संशयः ॥ १८.१॥
ब्रह्माक्षरमिदं सर्वं पराकारमिदं नहि ।
इदमित्यपि यद्दोषं वयमित्यपि भाषणम् ॥ १८.२॥
यत्किञ्चित्स्मरणं नास्ति यत्किञ्चिद् ध्यानमेव हि ।
यत्किञ्चिद् ज्ञानरूपं वा तत्सर्वं ब्रह्म एव हि ॥ १८.३॥
यत्किञ्चिद् ब्रह्मवाक्यं वा यत्किञ्चिद्वेदवाक्यकम् ।
यत्किञ्चिद्गुरुवाक्यं वा तत्सर्वं ब्रह्म एव हि ॥ १८.४॥
यत्किञ्चित्कल्मषं सत्यं यत्किञ्चित् प्रियभाषणम् ।
यत्किञ्चिन्मननं सत्ता तत्सर्वं ब्रह्म एव हि ॥ १८.५॥
यत्किञ्चित् श्रवणं नित्यं यत् किञ्चिद्ध्यानमश्नुते ।
यत्किञ्चिन्निश्चयं श्रद्धा तत्सर्वं ब्रह्म एव हि ॥ १८.६॥
यत्किञ्चिद् गुरूपदेशं यत्किञ्चिद्गुरुचिन्तनम् ।
यत्किञ्चिद्योगभेदं वा तत्सर्वं ब्रह्म एव हि ॥ १८.७॥
सर्वं त्यज्य गुरुं त्यज्य सर्वं सन्त्यज्य नित्यशः ।
तूष्णीमेवासनं ब्रह्म सुखमेव हि केवलम् ॥ १८.८॥
सर्वं त्यक्त्वा सुखं नित्यं सर्वत्यागं सुखं महत् ।
सर्वत्यागं परानन्दं सर्वत्यागं परं सुखम् ॥ १८.९॥
सर्वत्यागं मनस्त्यागः सर्वत्यागमहंकृतेः ।
सर्वत्यागं महायागः सर्वत्यागं सुखं परम् ॥ १८.१०॥
सर्वत्यागं महामोक्षं चित्तत्यागं तदेव हि ।
चित्तमेव जगन्नित्यं चित्तमेव हि संसृतिः ॥ १८.११॥
चित्तमेव महामाया चित्तमेव शरीरकम् ।
चित्तमेव भयं देहः चित्तमेव मनोमयम् ॥ १८.१२॥
चित्तमेव प्रपञ्चाख्यं चित्तमेव हि कल्मषम् ।
चित्तमेव जडं सर्वं चित्तमेवेन्द्रियादिकम् ॥ १८.१३॥
चित्तमेव सदा सत्यं चित्तमेव नहि क्वचित् ।
चित्तमेव महाशास्त्रं चित्तमेव मनःप्रदम् ॥ १८.१४॥
चित्तमेव सदा पापं चित्तमेव सदा मतम् ।
चित्तमेव हि सर्वाख्यं चित्तमेव सदा जहि ॥ १८.१५॥
चित्तं नास्तीति चिन्ता स्यात् आत्ममात्रं प्रकाशते ।
चित्तमस्तीति चिन्ता चेत् चित्तत्वं स्वयमेव हि ॥ १८.१६॥
स्वयमेव हि चित्ताख्यं स्वयं ब्रह्म न संशयः ।
चित्तमेव हि सर्वाख्यं चित्तं सर्वमिति स्मृतम् ॥ १८.१७॥
ब्रह्मैवाहं स्वयंज्योतिर्ब्रह्मैवाहं न संशयः ।
सर्वं ब्रह्म न सन्देहः सर्वं चिज्ज्योतिरेव हि ॥ १८.१८॥
अहं ब्रह्मैव नित्यात्मा पूर्णात् पूर्णतरं सदा ।
अहं पृथ्व्यादिसहितं अहमेव विलक्षणम् ॥ १८.१९॥
अहं सूक्ष्मशरीरान्तमहमेव पुरातनम् ।
अहमेव हि मानात्मा सर्वं ब्रह्मैव केवलम् ॥ १८.२०॥
चिदाकारो ह्यहं पूर्णश्चिदाकारमिदं जगत् ।
चिदाकारं चिदाकाशं चिदाकाशमहं सदा ॥ १८.२१॥
चिदाकाशं त्वमेवासि चिदाकाशमहं सदा ।
चिदाकाशं चिदेवेदं चिदाकाशान्न किञ्चन ॥ १८.२२॥
चिदाकाशततं सर्वं चिदाकाशं प्रकाशकम् ।
चिदाकारं मनो रूपं चिदाकाशं हि चिद्घनम् ॥ १८.२३॥
चिदाकाशं परं ब्रह्म चिदाकाशं च चिन्मयः ।
चिदाकाशं शिवं साक्षाच्चिदाकाशमहं सदा ॥ १८.२४॥
सच्चिदानन्दरूपोऽहं सच्चिदानन्दशाश्वतः ।
सच्चिदानन्द सन्मात्रं सच्चिदानन्दभावनः ॥ १८.२५॥
सच्चिदानन्दपूर्णोऽहं सच्चिदानन्दकारणम् ।
सच्चिदानन्दसन्दोहः सच्चिदानन्द ईश्वरः ॥ १८.२६॥var was हीनकः
सच्चिदानन्दनित्योऽहं सच्चिदानन्दलक्षणम् ।
सच्चिदानन्दमात्रोऽहं सच्चिदानन्दरूपकः ॥ १८.२७॥
आत्मैवेदमिदं सर्वमात्मैवाहं न संशयः ।
आत्मैवास्मि परं सत्यमात्मैव परमं पदम् ॥ १८.२८॥
आत्मैव जगदाकारं आत्मैव भुवनत्रयम् ।
आत्मैव जगतां श्रेष्ठः आत्मैव हि मनोमयः ॥ १८.२९॥
आत्मैव जगतां त्राता आत्मैव गुरुरात्मनः ।
आत्मैव बहुधा भाति आत्मैवैकं परात्मनः ॥ १८.३०॥
आत्मैव परमं ब्रह्म आत्मैवाहं न संशयः ।
आत्मैव परमं लोकं आत्मैव परमात्मनः ॥ १८.३१॥
आत्मैव जीवरूपात्मा आत्मैवेश्वरविग्रहः ।
आत्मैव हरिरानन्दः आत्मैव स्वयमात्मनः ॥ १८.३२॥
आत्मैवानन्दसन्दोह आत्मैवेदं सदा सुखम् ।
आत्मैव नित्यशुद्धात्मा आत्मैव जगतः परः ॥ १८.३३॥
आत्मैव पञ्चभूतात्मा आत्मैव ज्योतिरात्मनः ।
आत्मैव सर्वदा नान्यदात्मैव परमोऽव्ययः ॥ १८.३४॥
आत्मैव ह्यात्मभासात्मा आत्मैव विभुरव्ययः ।
आत्मैव ब्रह्मविज्ञानं आत्मैवाहं त्वमेव हि ॥ १८.३५॥
आत्मैव परमानन्द आत्मैवाहं जगन्मयः ।
आत्मैवाहं जगद्भानं आत्मैवाहं न किञ्चन ॥ १८.३६॥
आत्मैव ह्यात्मनः स्नानमात्मैव ह्यात्मनो जपः ।
आत्मैव ह्यात्मनो मोदमात्मैवात्मप्रियः सदा ॥ १८.३७॥
आत्मैव ह्यात्मनो नित्यो ह्यात्मैव गुणभासकः ।
आत्मैव तुर्यरूपात्मा आत्मातीतस्ततः परः ॥ १८.३८॥
आत्मैव नित्यपूर्णात्मा आत्मैवाहं न संशयः ।
आत्मैव त्वमहं चात्मा सर्वमात्मैव केवलम् ॥ १८.३९॥
नित्योऽहं नित्यपूर्णोऽहं नित्योऽहं सर्वदा सदा ।
आत्मैवाहं जगन्नान्यद् अमृतात्मा पुरातनः ॥ १८.४०॥
पुरातनोऽहं पुरुषोऽहमीशः परात् परोऽहं परमेश्वरोऽहम् ।
भवप्रदोऽहं भवनाशनोऽहं सुखप्रदोऽहं सुखरूपमद्वयम् ॥ १८.४१॥
आनन्दोऽहमशेषोऽहममृतोहं न संशयः ।
अजोऽहमात्मरूपोऽहमन्यन्नास्ति सदा प्रियः ॥ १८.४२॥
ब्रह्मैवाहमिदं ब्रह्म सर्वं ब्रह्म सदाऽव्ययः ।
सदा सर्वपदं नास्ति सर्वमेव सदा न हि ॥ १८.४३॥
निर्गुणोऽहं निराधार अहं नास्तीति सर्वदा ।
अनर्थमूलं नास्त्येव मायाकार्यं न किञ्चन ॥ १८.४४॥
अविद्याविभवो नास्ति अहं ब्रह्म न संशयः ।
सर्वं ब्रह्म चिदाकाशं तदेवाहं न संशयः ॥ १८.४५॥
तदेवाहं स्वयं चाहं परं चाहं परेश्वरः ।
विद्याधरोऽहमेवात्र विद्याविद्ये न किञ्चन ॥ १८.४६॥
चिदहं चिदहं नित्यं तुर्योऽहं तुर्यकः परः ।
ब्रह्मैव सर्वं ब्रह्मैव सर्वं ब्रह्म सदाऽस्म्यहम् ॥ १८.४७॥
मत्तोऽन्यन्नापरं किञ्चिन्मत्तोऽन्यद्ब्रह्म च क्वचित् ।
मत्तोऽन्यत् परमं नास्ति मत्तोऽन्यच्चित्पदं नहि ॥ १८.४८॥
मत्तोऽन्यत् सत्पदं नास्ति मत्तोऽन्यच्चित्पदं न मे ।
मत्तोऽन्यत् भवनं नास्ति मत्तोऽन्यद् ब्रह्म एव न ॥ १८.४९॥
मत्तोऽन्यत् कारणं नास्ति मत्तोऽन्यत् किञ्चिदप्यणु ।
मत्तोऽन्यत् सत्त्वरूपं च मत्तोऽन्यत् शुद्धमेव न ॥ १८.५०॥
मत्तोऽन्यत् पावनं नास्ति मत्तोऽन्यत् तत्पदं न हि ।
मत्तोऽन्यत् धर्मरूपं वा मत्तोऽन्यदखिलं न च ॥ १८.५१॥
मत्तोऽन्यदसदेवात्र मत्तोऽन्यन्मिथ्या एव हि ।
मत्तोऽन्यद्भाति सर्वस्वं मत्तोऽन्यच्छशशृङ्गवत् ॥ १८.५२॥
मत्तोऽन्यद्भाति चेन्मिथ्या मत्तोऽन्यच्चेन्द्रजालकम् ।
मत्तोऽन्यत् संशयो नास्ति मत्तोऽन्यत् कार्य कारणम् ॥ १८.५३॥
ब्रह्ममात्रमिदं सर्वं सोऽहमस्मीति भावनम् ।
सर्वमुक्तं भगवता एवमेवेति निश्चिनु ॥ १८.५४॥
बहुनोक्तेन किं योगिन् निश्चयं कुरु सर्वदा ।
सकृन्निश्चयमात्रेण ब्रह्मैव भवति स्वयम् ॥ १८.५५॥
वननगभुवनं यच्छङ्करान्नान्यदस्ति
जगदिदमसुराद्यं देवदेवः स एव ।
तनुमनगमनाद्यैः कोशकाशावकाशे
स खलु परशिवात्मा दृश्यते सूक्ष्मबुद्ध्या ॥ १८.५६॥
चक्षुःश्रोत्रमनोऽसवश्च हृदि खादुद्भासितध्यान्तरात्
तस्मिन्नेव विलीयते गतिपरं यद्वासना वासिनी ।
चित्तं चेतयते हृदिन्द्रियगणं वाचां मनोदूरगं
तं ब्रह्मामृतमेतदेव गिरिजाकान्तात्मना संज्ञितम् ॥ १८.५७॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे
ऋभुनिदाघसंवादे अष्टादशोऽध्यायः ॥
१९ ॥ एकोनविंशोऽध्यायः ॥
ऋभुः -
ब्रह्मानन्दं प्रवक्ष्यामि त्रिषु लोकेषु दुर्लभम् ।
यस्य श्रवणमात्रेण सदा मुक्तिमवाप्नुयात् ॥ १९.१॥var was युक्तिमाप्नुयात्
परमानन्दोऽहमेवात्मा सर्वदानन्दमेव हि ।
पूर्णानन्दस्वरूपोऽहं चिदानन्दमयं जगत् ॥ १९.२॥
सदानन्तमनन्तोऽहं बोधानन्दमिदं जगत् ।
बुद्धानन्दस्वरूपोऽहं नित्यानन्दमिदं मनः ॥ १९.३॥
केवलानन्दमात्रोऽहं केवलज्ञानवानहम् ।
इति भावय यत्नेन प्रपञ्चोपशमाय वै ॥ १९.४॥
सदा सत्यं परं ज्योतिः सदा सत्यादिलक्षणः ।
सदा सत्यादिहीनात्मा सदा ज्योतिः प्रियो ह्यहम् ॥ १९.५॥
नास्ति मिथ्याप्रपञ्चात्मा नास्ति मिथ्या मनोमयः ।
नास्ति मिथ्याभिधानात्मा नास्ति चित्तं दुरात्मवान् ॥ १९.६॥
नास्ति मूढतरो लोके नास्ति मूढतमो नरः ।
अहमेव परं ब्रह्म अहमेव स्वयं सदा ॥ १९.७॥
इदं परं च नास्त्येव अहमेव हि केवलम् ।
अहं ब्रह्मास्मि शुद्धोऽस्मि सर्वं ब्रह्मैव केवलम् ॥ १९.८॥
जगत्सर्वं सदा नास्ति चित्तमेव जगन्मयम् ।
चित्तमेव प्रपञ्चाख्यं चित्तमेव शरीरकम् ॥ १९.९॥
चित्तमेव महादोषं चित्तमेव हि बालकः ।
चित्तमेव महात्माऽयं चित्तमेव महानसत् ॥ १९.१०॥
चित्तमेव हि मिथ्यात्मा चित्तं शशविषाणवत् ।
चित्तं नास्ति सदा सत्यं चित्तं वन्ध्याकुमारवत् ॥ १९.११॥
चित्तं शून्यं न सन्देहो ब्रह्मैव सकलं जगत् ।
अहमेव हि चैतन्यं अहमेव हि निर्गुणम् ॥ १९.१२॥
मन एव हि संसारं मन एव हि मण्डलम् ।
मन एव हि बन्धत्वं मन एव हि पातकम् ॥ १९.१३॥
मन एव महद्दुःखं मन एव शरीरकम् ।
मन एव प्रपञ्चाख्यं मन एव कलेवरम् ॥ १९.१४॥
मन एव महासत्त्वं मन एव चतुर्मुखः ।
मन एव हरिः साक्षात् मन एव शिवः स्मृतः ॥ १९.१५॥
मन एवेन्द्रजालाख्यं मनः सङ्कल्पमात्रकम् ।
मन एव महापापं मन एव दुरात्मवान् ॥ १९.१६॥
मन एव हि सर्वाख्यं मन एव महद्भयम् ।
मन एव परं ब्रह्म मन एव हि केवलम् ॥ १९.१७॥
मन एव चिदाकारं मन एव मनायते ।
चिदेव हि परं रूपं चिदेव हि परं पदम् ॥ १९.१८॥
परं ब्रह्माहमेवाद्य परं ब्रह्माहमेव हि ।
अहमेव हि तृप्तात्मा अहमानन्दविग्रहः ॥ १९.१९॥
अहं बुद्धिः प्रवृद्धात्मा नित्यं निश्चलनिर्मलः ।
अहमेव हि शान्तात्मा अहमाद्यन्तवर्जितः ॥ १९.२०॥
अहमेव प्रकाशात्मा अहं ब्रह्मैव केवलम् ।
अहं नित्यो न सन्देह अहं बुद्धिः प्रियः सदा ॥ १९.२१॥var was बुद्धिप्रियः सदा
अहमेवाहमेवैकः अहमेवाखिलामृतः ।
अहमेव स्वयं सिद्धः अहमेवानुमोदकः ॥ १९.२२॥
अहमेव त्वमेवाहं सर्वात्मा सर्ववर्जितः ।
अहमेव परं ब्रह्म अहमेव परात्परः ॥ १९.२३॥
अहङ्कारं न मे दुःखं न मे दोषं न मे सुखम् ।
न मे बुद्धिर्न मे चित्तं न मे देहो न मेन्द्रियम् ॥ १९.२४॥
न मे गोत्रं न मे नेत्रं न मे पात्रं न मे तृणम् ।
न मे जपो न मे मन्त्रो न मे लोको न मे सुहृत् ॥ १९.२५॥
न मे बन्धुर्न मे शत्रुर्न मे माता न मे पिता ।
न मे भोज्यं न मे भोक्ता न मे वृत्तिर्न मे कुलम् ॥ १९.२६॥
न मे जातिर्न मे वर्णः न मे श्रोत्रं न मे क्वचित् ।
न मे बाह्यं न मे बुद्धिः स्थानं वापि न मे वयः ॥ १९.२७॥
न मे तत्त्वं न मे लोको न मे शान्तिर्न मे कुलम् ।
न मे कोपो न मे कामः केवलं ब्रह्ममात्रतः ॥ १९.२८॥
केवलं ब्रह्ममात्रत्वात् केवलं स्वयमेव हि ।
न मे रागो न मे लोभो न मे स्तोत्रं न मे स्मृतिः ॥ १९.२९॥
न मे मोहो न मे तृष्णा न मे स्नेहो न मे गुणः ।
न मे कोशं न मे बाल्यं न मे यौवनवार्धकम् ॥ १९.३०॥
सर्वं ब्रह्मैकरूपत्वादेकं ब्रह्मेति निश्चितम् ।
ब्रह्मणोऽन्यत् परं नास्ति ब्रह्मणोऽन्यन्न किञ्चन ॥ १९.३१॥
ब्रह्मणोऽन्यदिदं नास्ति ब्रह्मणोऽन्यदिदं न हि ।
आत्मनोऽन्यत् सदा नास्ति आत्मैवाहं न संशयः ॥ १९.३२॥
आत्मनोऽन्यत् सुखं नास्ति आत्मनोऽन्यदहं न च ।
ग्राह्यग्राहकहीनोऽहं त्यागत्याज्यविवर्जितः ॥ १९.३३॥
न त्याज्यं न च मे ग्राह्यं न बन्धो न च भुक्तिदम् ।var was मुक्तिदम्
न मे लोकं न मे हीनं न श्रेष्ठं नापि दूषणम् ॥ १९.३४॥
न मे बलं न चण्डालो न मे विप्रादिवर्णकम् ।
न मे पानं न मे ह्रस्वं न मे क्षीणं न मे बलम् ॥ १९.३५॥
न मे शक्तिर्न मे भुक्तिर्न मे दैवं न मे पृथक् ।
अहं ब्रह्मैकमात्रत्वात् नित्यत्वान्यन्न किञ्चन ॥ १९.३६॥
न मतं न च मे मिथ्या न मे सत्यं वपुः क्वचित् ।
अहमित्यपि नास्त्येव ब्रह्म इत्यपि नाम वा ॥ १९.३७॥
यद्यद्यद्यत्प्रपञ्चोऽस्ति यद्यद्यद्यद्गुरोर्वचः ।
तत्सर्वं ब्रह्म एवाहं तत्सर्वं चिन्मयं मतम् ॥ १९.३८॥
चिन्मयं चिन्मयं ब्रह्म सन्मयं सन्मयं सदा ।
स्वयमेव स्वयं ब्रह्म स्वयमेव स्वयं परः ॥ १९.३९॥
स्वयमेव स्वयं मोक्षः स्वयमेव निरन्तरः ।
स्वयमेव हि विज्ञानं स्वयमेव हि नास्त्यकम् ॥ १९.४०॥
स्वयमेव सदासारः स्वयमेव स्वयं परः ।
स्वयमेव हि शून्यात्मा स्वयमेव मनोहरः ॥ १९.४१॥
तूष्णीमेवासनं स्नानं तूष्णीमेवासनं जपः ।
तूष्णीमेवासनं पूजा तूष्णीमेवासनं परः ॥ १९.४२॥
विचार्य मनसा नित्यमहं ब्रह्मेति निश्चिनु ।
अहं ब्रह्म न सन्देहः एवं तूष्णींस्थितिर्जपः ॥ १९.४३॥
सर्वं ब्रह्मैव नास्त्यन्यत् सर्वं ज्ञानमयं तपः ।
स्वयमेव हि नास्त्येव सर्वातीतस्वरूपवान् ॥ १९.४४॥
वाचातीतस्वरूपोऽहं वाचा जप्यमनर्थकम् ।
मानसः परमार्थोऽयं एतद्भेदमहं न मे ॥ १९.४५॥
कुणपं सर्वभूतादि कुणपं सर्वसङ्ग्रहम् ।
असत्यं सर्वदा लोकमसत्यं सकलं जगत् ॥ १९.४६॥
असत्यमन्यदस्तित्वमसत्यं नास्ति भाषणम् ।
असत्याकारमस्तित्वं ब्रह्ममात्रं सदा स्वयम् ॥ १९.४७॥
असत्यं वेदवेदाङ्गं असत्यं शास्त्रनिश्चयः ।
असत्यं श्रवणं ह्येतदसत्यं मननं च तत् ॥ १९.४८॥
असत्यं च निदिध्यासः सजातीयमसत्यकम् ।
विजातीयमसत् प्रोक्तं सत्यं सत्यं न संशयः ।
सर्वं ब्रह्म सदा ब्रह्म एकं ब्रह्म चिदव्ययम् ॥ १९.४९॥
चेतोविलासजनितं किल विश्वमेत-
द्विश्वाधिकस्य कृपया परिपूर्णभास्यात् ।
नास्त्यन्यतः श्रुतिशिरोत्थितवाक्यमोघ-
शास्त्रानुसारिकरणैर्भवते विमुक्त्यै ॥ १९.५०॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
ब्रह्मानन्दप्रकरणं नाम एकोनविंशोऽध्यायः ॥
२० ॥ विंशोऽध्यायः ॥
ऋभुः -
शृणु केवलमत्यन्तं रहस्यं परमाद्भुतम् ।
इति गुह्यतरं सद्यो मोक्षप्रदमिदं सदा ॥ २०.१॥
सुलभं ब्रह्मविज्ञानं सुलभं शुभमुत्तमम् ।
सुलभं ब्रह्मनिष्ठानां सुलभं सर्वबोधकम् ॥ २०.२॥
सुलभं कृतकृत्यानां सुलभं स्वयमात्मनः ।
सुलभं कारणाभावं सुलभं ब्रह्मणि स्थितम् ॥ २०.३॥
सुलभं चित्तहीनानां स्वयं तच्च स्वयं स्वयम् ।
स्वयं संसारहीनानां चित्तं संसारमुच्यते ॥ २०.४॥
सृष्ट्वैदं न संसारः ब्रह्मैवेदं मनो न च ।
ब्रह्मैवेदं भयं नास्ति ब्रह्मैवेदं न किञ्चन ॥ २०.५॥
ब्रह्मैवेदमसत् सर्वं ब्रह्मैवेदं परायणम् ।
ब्रह्मैवेदं शरीराणां ब्रह्मैवेदं तृणं न च ॥ २०.६॥
ब्रह्मैवास्मि न चान्योऽस्मि ब्रह्मैवेदं जगन्न च ।
ब्रह्मैवेदं वियन्नास्ति ब्रह्मैवेदं क्रिया न च ॥ २०.७॥
ब्रह्मैवेदं महात्मानं ब्रह्मैवेदं प्रियं सदा ।
ब्रह्मैवेदं जगन्नान्तो ब्रह्मैवाहं भयं न हि ॥ २०.८॥
ब्रह्मैवाहं सदाचित्तं ब्रह्मैवाहमिदं न हि ।
ब्रह्मैवाहं तु यन्मिथ्या ब्रह्मैवाहमियं भ्रमा ॥ २०.९॥
ब्रह्मैव सर्वसिद्धान्तो ब्रह्मैव मनसास्पदम् ।
ब्रह्मैव सर्वभवनं ब्रह्मैव मुनिमण्डलम् ॥ २०.१०॥
ब्रह्मैवाहं तु नास्त्यन्यद् ब्रह्मैव गुरुपूजनम् ।
ब्रह्मैव नान्यत् किञ्चित्तु ब्रह्मैव सकलं सदा ॥ २०.११॥
ब्रह्मैव त्रिगुणाकारं ब्रह्मैव हरिरूपकम् ।
ब्रह्मणोऽन्यत् पदं नास्ति ब्रह्मणोऽन्यत् क्षणं न मे ॥ २०.१२॥
ब्रह्मैवाहं नान्यवार्ता ब्रह्मैवाहं न च श्रुतम् ।
ब्रह्मैवाहं समं नास्ति सर्वं ब्रह्मैव केवलम् ॥ २०.१३॥
ब्रह्मैवाहं न मे भोगो ब्रह्मैवाहं न मे पृथक् ।
ब्रह्मैवाहं सतं नास्ति ब्रह्मैव ब्रह्मरूपकः ॥ २०.१४॥
ब्रह्मैव सर्वदा भाति ब्रह्मैव सुखमुत्तमम् ।
ब्रह्मैव नानाकारत्वात् ब्रह्मैवाहं प्रियं महत् ॥ २०.१५॥
ब्रह्मैव ब्रह्मणः पूज्यं ब्रह्मैव ब्रह्मणो गुरुः ।
ब्रह्मैव ब्रह्ममाता तु ब्रह्मैवाहं पिता सुतः ॥ २०.१६॥
ब्रह्मैव ब्रह्म देवं च ब्रह्मैव ब्रह्म तज्जयः ।
ब्रह्मैव ध्यानरूपात्मा ब्रह्मैव ब्रह्मणो गुणः ॥ २०.१७॥
आत्मैव सर्वनित्यात्मा आत्मनोऽन्यन्न किञ्चन ।
आत्मैव सततं ह्यात्मा आत्मैव गुरुरात्मनः ॥ २०.१८॥
आत्मज्योतिरहंभूतमात्मैवास्ति सदा स्वयम् ।
स्वयं तत्त्वमसि ब्रह्म स्वयं भामि प्रकाशकः ॥ २०.१९॥
स्वयं जीवत्वसंशान्तिः स्वयमीश्वररूपवान् ।
स्वयं ब्रह्म परं ब्रह्म स्वयं केवलमव्ययम् ॥ २०.२०॥
स्वयं नाशं च सिद्धान्तं स्वयमात्मा प्रकाशकः ।
स्वयं प्रकाशरूपात्मा स्वयमत्यन्तनिर्मलः ॥ २०.२१॥
स्वयमेव हि नित्यात्मा स्वयं शुद्धः प्रियाप्रियः ।
स्वयमेव स्वयं छन्दः स्वयं देहादिवर्जितः ॥ २०.२२॥
स्वयं दोषविहीनात्मा स्वयमाकाशवत् स्थितः ।
अयं चेदं च नास्त्येव अयं भेदविवर्जितः ॥ २०.२३॥
ब्रह्मैव चित्तवद्भाति ब्रह्मैव शिववत् सदा ।
ब्रह्मैव बुद्धिवद्भाति ब्रह्मैव शिववत् सदा ॥ २०.२४॥
ब्रह्मैव शशवद्भाति ब्रह्मैव स्थूलवत् स्वयम् ।
ब्रह्मैव सततं नान्यत् ब्रह्मैव गुरुरात्मनः ॥ २०.२५॥
आत्मज्योतिरहं भूतमहं नास्ति सदा स्वयम् ।
स्वयमेव परं ब्रह्म स्वयमेव चिदव्ययः ॥ २०.२६॥
स्वयमेव स्वयं ज्योतिः स्वयं सर्वत्र भासते ।
स्वयं ब्रह्म स्वयं देहः स्वयं पूर्णः परः पुमान् ॥ २०.२७॥
स्वयं तत्त्वमसि ब्रह्म स्वयं भाति प्रकाशकः ।
स्वयं जीवत्वसंशान्तः स्वयमीश्वररूपवान् ॥ २०.२८॥
स्वयमेव परं ब्रह्म स्वयं केवलमव्ययः ।
स्वयं राद्धान्तसिद्धान्तः स्वयमात्मा प्रकाशकः ॥ २०.२९॥
स्वयं प्रकाशरूपात्मा स्वयमत्यन्तनिर्मलः ।
स्वयमेव हि नित्यात्मा स्वयं शुद्धः प्रियाप्रियः ॥ २०.३०॥
स्वयमेव स्वयं स्वस्थः स्वयं देहविवर्जितः ।
स्वयं दोषविहीनात्मा स्वयमाकाशवत् स्थितः ॥ २०.३१॥
अखण्डः परिपूर्णोऽहमखण्डरसपूरणः ।
अखण्डानन्द एवाहमपरिच्छिन्नविग्रहः ॥ २०.३२॥
इति निश्चित्य पूर्णात्मा ब्रह्मैव न पृथक् स्वयम् ।
अहमेव हि नित्यात्मा अहमेव हि शाश्वतः ॥ २०.३३॥
अहमेव हि तद्ब्रह्म ब्रह्मैवाहं जगत्प्रभुः ।
ब्रह्मैवाहं निराभासो ब्रह्मैवाहं निरामयः ॥ २०.३४॥
ब्रह्मैवाहं चिदाकाशो ब्रह्मैवाहं निरन्तरः ।
ब्रह्मैवाहं महानन्दो ब्रह्मैवाहं सदात्मवान् ॥ २०.३५॥
ब्रह्मैवाहमनन्तात्मा ब्रह्मैवाहं सुखं परम् ।
ब्रह्मैवाहं महामौनी सर्ववृत्तान्तवर्जितः ॥ २०.३६॥
ब्रह्मैवाहमिदं मिथ्या ब्रह्मैवाहं जगन्न हि ।
ब्रह्मैवाहं न देहोऽस्मि ब्रह्मैवाहं महाद्वयः ॥ २०.३७॥
ब्रह्मैव चित्तवद्भाति ब्रह्मैव शिववत् सदा ।
ब्रह्मैव बुद्धिवद्भाति ब्रह्मैव फलवत् स्वयम् ॥ २०.३८॥
ब्रह्मैव मूर्तिवद्भाति तद्ब्रह्मासि न संशयः ।
ब्रह्मैव कालवद्भाति ब्रह्मैव सकलादिवत् ॥ २०.३९॥
ब्रह्मैव भूतिवद्भाति ब्रह्मैव जडवत् स्वयम् ।
ब्रह्मैवौंकारवत् सर्वं ब्रह्मैवौंकाररूपवत् ॥ २०.४०॥
ब्रह्मैव नादवद्ब्रह्म नास्ति भेदो न चाद्वयम् ।
सत्यं सत्यं पुनः सत्यं ब्रह्मणोऽन्यन्न किञ्चन ॥ २०.४१॥
ब्रह्मैव सर्वमात्मैव ब्रह्मणोऽन्यन्न किञ्चन ।
सर्वं मिथ्या जगन्मिथ्या दृश्यत्वाद्घटवत् सदा ॥ २०.४२॥
ब्रह्मैवाहं न सन्देहश्चिन्मात्रत्वादहं सदा ।
ब्रह्मैव शुद्धरूपत्वात् दृग्रूपत्वात् स्वयं महत् ॥ २०.४३॥
अहमेव परं ब्रह्म अहमेव परात् परः ।
अहमेव मनोतीत अहमेव जगत्परः ॥ २०.४४॥
अहमेव हि नित्यात्मा अहं मिथ्या स्वभावतः ।
आनन्दोऽहं निराधारो ब्रह्मैव न च किञ्चन ॥ २०.४५॥
नान्यत् किञ्चिदहं ब्रह्म नान्यत् किञ्चिच्चिदव्ययः ।
आत्मनोऽन्यत् परं तुच्छमात्मनोऽन्यदहं नहि ॥ २०.४६॥
आत्मनोऽन्यन्न मे देहः आत्मैवाहं न मे मलम् ।
आत्मन्येवात्मना चित्तमात्मैवाहं न तत् पृथक् ॥ २०.४७॥
आत्मैवाहमहं शून्यमात्मैवाहं सदा न मे ।
आत्मैवाहं गुणो नास्ति आत्मैव न पृथक् क्वचित् ॥ २०.४८॥
अत्यन्ताभाव एव त्वं अत्यन्ताभावमीदृशम् ।
अत्यन्ताभाव एवेदमत्यन्ताभावमण्वपि ॥ २०.४९॥
आत्मैवाहं परं ब्रह्म सर्वं मिथ्या जगत्त्रयम् ।
अहमेव परं ब्रह्म अहमेव परो गुरुः ॥ २०.५०॥
जीवभावं सदासत्यं शिवसद्भावमीदृशम् ।
विष्णुवद्भावनाभ्रान्तिः सर्वं शशविषाणवत् ॥ २०.५१॥
अहमेव सदा पूर्णं अहमेव निरन्तरम् ।
नित्यतृप्तो निराकारो ब्रह्मैवाहं न संशयः ॥ २०.५२॥
अहमेव परानन्द अहमेव क्षणान्तिकः ।
अहमेव त्वमेवाहं त्वं चाहं नास्ति नास्ति हि ॥ २०.५३॥
वाचामगोचरोऽहं वै वाङ्मनो नास्ति कल्पितम् ।
अहं ब्रह्मैव सर्वात्मा अहं ब्रह्मैव निर्मलः ॥ २०.५४॥
अहं ब्रह्मैव चिन्मात्रं अहं ब्रह्मैव नित्यशः ।
इदं च सर्वदा नास्ति अहमेव सदा स्थिरः ॥ २०.५५॥
इदं सुखमहं ब्रह्म इदं सुखमहं जडम् ।
इदं ब्रह्म न सन्देहः सत्यं सत्यं पुनः पुनः ॥ २०.५६॥
इत्यात्मवैभवं प्रोक्तं सर्वलोकेषु दुर्लभम् ।
सकृच्छ्रवणमात्रेण ब्रह्मैव भवति स्वयम् ॥ २०.५७॥
शान्तिदान्तिपरमा भवतान्ताः
स्वान्तभान्तमनिशं शशिकान्तम् ।
अन्तकान्तकमहो कलयन्तः
वेदमौलिवचनैः किल शान्ताः ॥ २०.५८॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
आत्मवैभवप्रकरणं नाम विंशोऽध्यायः ॥
२१ ॥ एकविंशोऽध्यायः ॥
ऋभुः -
महारहस्यं वक्ष्यामि वेदान्तेषु च गोपितम् ।
यस्य श्रवणमात्रेण ब्रह्मैव भवति स्वयम् ॥ २१.१॥
सच्चिदानन्दमात्रोऽहं सर्वं सच्चिन्मयं ततम् ।
तदेव ब्रह्म सम्पश्यत् ब्रह्मैव भवति स्वयम् ॥ २१.२॥
अहं ब्रह्म इदं ब्रह्म नाना ब्रह्म न संशयः ।
सत्यं ब्रह्म सदा ब्रह्माप्यहं ब्रह्मैव केवलम् ॥ २१.३॥
गुरुर्ब्रह्म गुणो ब्रह्म सर्वं ब्रह्मपरोऽस्म्यहम् ।
नान्तं ब्रह्म अहं ब्रह्म सर्वं ब्रह्मापरोऽस्म्यहम् ॥ २१.४॥
वेदवेद्यं परं ब्रह्म विद्या ब्रह्म विशेषतः ।
आत्मा ब्रह्म अहं ब्रह्म आद्यन्तं ब्रह्म सोऽस्म्यहम् ॥ २१.५॥
सत्यं ब्रह्म सदा ब्रह्म अन्यन्नास्ति सदा परम् ।
अहं ब्रह्म त्वहं नास्ति अहंकारपरं नहि ॥ २१.६॥
अहं ब्रह्म इदं नास्ति अयमात्मा महान् सदा ।
वेदान्तवेद्यो ब्रह्मात्मा अपरं शशशृङ्गवत् ॥ २१.७॥
भूतं नास्ति भविष्यं न ब्रह्मैव स्थिरतां गतः ।
चिन्मयोऽहं जडं तुच्छं चिन्मात्रं देहनाशनम् ॥ २१.८॥
चित्तं किञ्चित् क्वचिच्चापि चित्तं दूरोऽहमात्मकः ।var was हरोऽहमात्मकः
सत्यं ज्ञानमनन्तं यन्नानृतं जडदुःखकम् ॥ २१.९॥
आत्मा सत्यमनन्तात्मा देहमेव न संशयः ।
वार्ताप्यसच्छ्रुतं तन्न अहमेव महोमहः ॥ २१.१०॥
एकसंख्याप्यसद्ब्रह्म सत्यमेव सदाऽप्यहम् ।
सर्वमेवमसत्यं च उत्पन्नत्वात् परात् सदा ॥ २१.११॥
सर्वावयवहीनोऽपि नित्यत्वात् परमो ह्यहम् ।
सर्वं दृश्यं न मे किञ्चित् चिन्मयत्वाद्वदाम्यहम् ॥ २१.१२॥
आग्रहं च न मे किञ्चित् चिन्मयत्वाद्वदाम्यहम् ।
इदमित्यपि निर्देशो न क्वचिन्न क्वचित् सदा ॥ २१.१३॥
निर्गुणब्रह्म एवाहं सुगुरोरुपदेशतः ।
विज्ञानं सगुणो ब्रह्म अहं विज्ञानविग्रहः ॥ २१.१४॥
निर्गुणोऽस्मि निरंशोऽस्मि भवोऽस्मि भरणोऽस्म्यहम् ।
देवोऽस्मि द्रव्यपूर्णोऽस्मि शुद्धोऽस्मि रहितोऽस्म्यहम् ॥ २१.१५॥
रसोऽस्मि रसहीनोऽस्मि तुर्योऽस्मि शुभभावनः ।
कामोऽस्मि कार्यहीनोऽस्मि नित्यनिर्मलविग्रहः ॥ २१.१६॥
आचारफलहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ।
इदं सर्वं परं ब्रह्म अयमात्मा न विस्मयः ॥ २१.१७॥
पूर्णापूर्णस्वरूपात्मा नित्यं सर्वात्मविग्रहः ।
परमानन्दतत्त्वात्मा परिच्छिन्नं न हि क्वचित् ॥ २१.१८॥
एकात्मा निर्मलाकार अहमेवेति भावय ।
अहंभावनया युक्त अहंभावेन संयुतः ॥ २१.१९॥
शान्तं भावय सर्वात्मा शाम्यतत्त्वं मनोमलः ।
देहोऽहमिति सन्त्यज्य ब्रह्माहमिति निश्चिनु ॥ २१.२०॥
ब्रह्मैवाहं ब्रह्ममात्रं ब्रह्मणोऽन्यन्न किञ्चन ।
इदं नाहमिदं नाहमिदं नाहं सदा स्मर ॥ २१.२१॥
अहं सोऽहमहं सोऽहमहं ब्रह्मेति भावय ।
चिदहं चिदहं ब्रह्म चिदहं चिदहं वद ॥ २१.२२॥
नेदं नेदं सदा नेदं न त्वं नाहं च भावय ।
सर्वं ब्रह्म न सन्देहः सर्वं वेदं न किञ्चन ॥ २१.२३॥
सर्वं शब्दार्थभवनं सर्वलोकभयं न च ।
सर्वतीर्थं न सत्यं हि सर्वदेवालयं न हि ॥ २१.२४॥
सर्वचैतन्यमात्रत्वात् सर्वं नाम सदा न हि ।
सर्वरूपं परित्यज्य सर्वं ब्रह्मेति निश्चिनु ॥ २१.२५॥
ब्रह्मैव सर्वं तत्सत्यं प्रपञ्चं प्रकृतिर्नहि ।
प्राकृतं स्मरणं त्यज्य ब्रह्मस्मरणमाहर ॥ २१.२६॥
ततस्तदपि सन्त्यज्य निजरूपे स्थिरो भव ।
स्थिररूपं परित्यज्य आत्ममात्रं भवत्यसौ ॥ २१.२७॥
त्यागत्वमपि सन्त्यज्य भेदमात्रं सदा त्यज ।
स्वयं निजं समावृत्य स्वयमेव स्वयं भज ॥ २१.२८॥
इदमित्यङ्गुलीदृष्टमिदमस्तमचेतनम् ।
इदं वाक्यं च वाक्येन वाचाऽपि परिवेदनम् ॥ २१.२९॥
सर्वभावं न सन्देहः सर्वं नास्ति न संशयः ।
सर्वं तुच्छं न सन्देहः सर्वं माया न संशयः ॥ २१.३०॥
त्वं ब्रह्माहं न सन्देहो ब्रह्मैवेदं न संशयः ।
सर्वं चित्तं न सन्देहः सर्वं ब्रह्म न संशयः ॥ २१.३१॥
ब्रह्मान्यद्भाति चेन्मिथ्या सर्वं मिथ्या परावरा ।
न देहं पञ्चभूतं वा न चित्तं भ्रान्तिमात्रकम् ॥ २१.३२॥
न च बुद्धीन्द्रियाभावो न मुक्तिर्ब्रह्ममात्रकम् ।
निमिषं च न शङ्कापि न सङ्कल्पं तदस्ति चेत् ॥ २१.३३॥
अहङ्कारमसद्विद्धि अभिमानं तदस्ति चेत् ।
न चित्तस्मरणं तच्चेन्न सन्देहो जरा यदि ॥ २१.३४॥
प्राणो???दीयते शास्ति घ्राणो यदिह गन्धकम् ।
चक्षुर्यदिह भूतस्य श्रोत्रं श्रवणभावनम् ॥ २१.३५॥
त्वगस्ति चेत् स्पर्शसत्ता जिह्वा चेद्रससङ्ग्रहः ।
जीवोऽस्ति चेज्जीवनं च पादश्चेत् पादचारणम् ॥ २१.३६॥
हस्तौ यदि क्रियासत्ता स्रष्टा चेत् सृष्टिसंभवः ।
रक्ष्यं चेद्रक्षको विष्णुर्भक्ष्यं चेद्भक्षकः शिवः ॥ २१.३७॥
सर्वं ब्रह्म न सन्देहः सर्वं ब्रह्मैव केवलम् ।
पूज्यं चेत् पूजनं चास्ति भास्यं चेद्भासकः शिवः ॥ २१.३८॥
सर्वं मिथ्या न सन्देहः सर्वं चिन्मात्रमेव हि ।
अस्ति चेत् कारणं सत्यं कार्यं चैव भविष्यति ॥ २१.३९॥
नास्ति चेन्नास्ति हीनोऽहं ब्रह्मैवाहं परायणम् ।
अत्यन्तदुःखमेतद्धि अत्यन्तसुखमव्ययम् ॥ २१.४०॥
अत्यन्तं जन्ममात्रं च अत्यन्तं रणसंभवम् ।
अत्यन्तं मलिनं सर्वमत्यन्तं निर्मलं परम् ॥ २१.४१॥
अत्यन्तं कल्पनं दुष्टं अत्यन्तं निर्मलं त्वहम् ।
अत्यन्तं सर्वदा दोषमत्यन्तं सर्वदा गुणम् ॥ २१.४२॥
अत्यन्तं सर्वदा शुभ्रमत्यन्तं सर्वदा मलम् ।
अत्यन्तं सर्वदा चाहमत्यन्तं सर्वदा इदम् ॥ २१.४३॥
अत्यन्तं सर्वदा ब्रह्म अत्यन्तं सर्वदा जगत् ।
एतावदुक्तमभयमहं भेदं न किञ्चन ॥ २१.४४॥
सदसद्वापि नास्त्येव सदसद्वापि वाक्यकम् ।
नास्ति नास्ति न सन्देहो ब्रह्मैवाहं न संशयः ॥ २१.४५॥
कारणं कार्यरूपं वा सर्वं नास्ति न संशयः ।
कर्ता भोक्ता क्रिया वापि न भोज्यं भोगतृप्तता ॥ २१.४६॥
सर्वं ब्रह्म न सन्देहः सर्व शब्दो न वास्तवम् ।
भूतं भविष्यं वार्तं तु कार्यं वा नास्ति सर्वदा ॥ २१.४७॥
सदसद्भेद्यभेदं वा न गुणा गुणभागिनः ।
निर्मलं वा मलं वापि नास्ति नास्ति न किञ्चन ॥ २१.४८॥
भाष्यं वा भाषणं वाऽपि नास्ति नास्ति न किञ्चन ।
प्रबलं दुर्बलं वापि अहं च त्वं च वा क्वचित् ॥ २१.४९॥
ग्राह्यं च ग्राहकं वापि उपेक्ष्यं नात्मनः क्वचित् ।
तीर्थं वा स्नानरूपं वा देवो वा देव पूजनम् ॥ २१.५०॥
जन्म वा मरणं हेतुर्नास्ति नास्ति न किञ्चन ।
सत्यं वा सत्यरूपं वा नास्ति नास्ति न किञ्चन ॥ २१.५१॥
मातरः पितरो वापि देहो वा नास्ति किञ्चन ।
दृग्रूपं दृश्यरूपं वा नास्ति नास्तीह किञ्चन ॥ २१.५२॥
मायाकार्यं च माया वा नास्ति नास्तीह किञ्चन ।
ज्ञानं वा ज्ञानभेदो वा नास्ति नास्तीह किञ्चन ॥ २१.५३॥
सर्वप्रपञ्चहेयत्वं प्रोक्तं प्रकरणं च ते ।
यः शृणोति सकृद्वापि आत्माकारं प्रपद्यते ॥ २१.५४॥
स्कन्दः -
माया सा त्रिगुणा गणाधिपगुरोरेणाङ्कचूडामणेः
पादाम्भोजसमर्चनेन विलयं यात्येव नास्त्यन्यथा ।
विद्या हृद्यतमा सुविद्युदिव सा भात्येव हृत्पङ्कजे
यस्यानल्पतपोभिरुग्रकरणादृक् तस्य मुक्तिः स्थिरा ॥ २१.५५॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
सर्वप्रपञ्चहेयत्वप्रकरणवर्णनं नाम एकविंशोऽध्यायः ॥
२२ ॥ द्वाविंशोऽध्यायः ॥
ऋभुः -
वक्ष्ये ब्रह्ममयं सर्वं नास्ति सर्वं जगन्मृषा ।
अहं ब्रह्म न मे चिन्ता अहं ब्रह्म न मे जडम् ॥ २२.१॥
अहं ब्रह्म न मे दोषः अहं ब्रह्म न मे फलम् ।
अहं ब्रह्म न मे वार्ता अहं ब्रह्म न मे द्वयम् ॥ २२.२॥
अहं ब्रह्म न मे नित्यमहं ब्रह्म न मे गतिः ।
अहं ब्रह्म न मे माता अहं ब्रह्म न मे पिता ॥ २२.३॥
अहं ब्रह्म न मे सोऽयमहं वैश्वानरो न हि ।
अहं ब्रह्म चिदाकाशमहं ब्रह्म न संशयः ॥ २२.४॥
सर्वान्तरोऽहं पूर्णात्मा सर्वान्तरमनोऽन्तरः ।
अहमेव शरीरान्तरहमेव स्थिरः सदा ॥ २२.५॥
एवं विज्ञानवान् मुक्त एवं ज्ञानं सुदुर्लभम् ।
अनेकशतसाहस्त्रेष्वेक एव विवेकवान् ॥ २२.६॥
तस्य दर्शनमात्रेण पितरस्तृप्तिमागताः ।
ज्ञानिनो दर्शनं पुण्यं सर्वतीर्थावगाहनम् ॥ २२.७॥
ज्ञानिनः चार्चनेनैव जीवन्मुक्तो भवेन्नरः ।
ज्ञानिनो भोजने दाने सद्यो मुक्तो भवेन्नरः ॥ २२.८॥
अहं ब्रह्म न सन्देहः अहमेव गुरुः परः ।
अहं शान्तोऽस्मि शुद्धोऽस्मि अहमेव गुणान्तरः ॥ २२.९॥
गुणातीतो जनातीतः परातीतो मनः परः ।
परतः परतोऽतीतो बुद्ध्यातीतो रसात् परः ॥ २२.१०॥
भावातीतो मनातीतो वेदातीतो विदः परः ।
शरीरादेश्च परतो जाग्रत्स्वप्नसुषुप्तितः ॥ २२.११॥
अव्यक्तात् परतोऽतीत इत्येवं ज्ञाननिश्चयः ।
क्वचिदेतत्परित्यज्य सर्वं संत्यज्य मूकवत् ॥ २२.१२॥
तूष्णीं ब्रह्म परं ब्रह्म शाश्वतब्रह्मवान् स्वयम् ।
ज्ञानिनो महिमा किञ्चिदणुमात्रमपि स्फुटम् ॥ २२.१३॥
हरिणापि हरेणापि ब्रह्मणापि सुरैरपि ।
न शक्यते वर्णयितुं कल्पकोटिशतैरपि ॥ २२.१४॥
अहं ब्रह्मेति विज्ञानं त्रिषु लोकेषु दुर्लभम् ।
विवेकिनं महात्मानं ब्रह्ममात्रेणावस्थितम् ॥ २२.१५॥
द्रष्टुं च भाषितुं वापि दुर्लभं पादसेवनम् ।
कदाचित् पादतीर्थेन स्नातश्चेत् ब्रह्म एव सः ॥ २२.१६॥
सर्वं मिथ्या न सन्देहः सर्वं ब्रह्मैव केवलम् ।
एतत् प्रकरणं प्रोक्तं सर्वसिद्धान्तसंग्रहः ॥ २२.१७॥
दुर्लभं यः पठेद्भक्त्या ब्रह्म सम्पद्यते नरः ।
वक्ष्ये ब्रह्ममयं सर्वं नान्यत् सर्वं जगन्मृषा ॥ २२.१८॥
ब्रह्मैव जगदाकारं ब्रह्मैव परमं पदम् ।
अहमेव परं ब्रह्म अहमित्यपि वर्जितः ॥ २२.१९॥
सर्ववर्जितचिन्मात्रं सर्ववर्जितचेतनः ।
सर्ववर्जितशान्तात्मा सर्वमङ्गलविग्रहः ॥ २२.२०॥
अहं ब्रह्म परं ब्रह्म असन्नेदं न मे न मे ।
न मे भूतं भविष्यच्च न मे वर्णं न संशयः ॥ २२.२१॥
ब्रह्मैवाहं न मे तुच्छं अहं ब्रह्म परं तपः ।
ब्रह्मरूपमिदं सर्वं ब्रह्मरूपमनामयम् ॥ २२.२२॥
ब्रह्मैव भाति भेदेन ब्रह्मैव न परः परः ।
आत्मैव द्वैतवद्भाति आत्मैव परमं पदम् ॥ २२.२३॥
ब्रह्मैवं भेदरहितं भेदमेव महद्भयम् ।
आत्मैवाहं निर्मलोऽहमात्मैव भुवनत्रयम् ॥ २२.२४॥
आत्मैव नान्यत् सर्वत्र सर्वं ब्रह्मैव नान्यकः ।
अहमेव सदा भामि ब्रह्मैवास्मि परोऽस्म्यहम् ॥ २२.२५॥
निर्मलोऽस्मि परं ब्रह्म कार्याकार्यविवर्जितः ।
सदा शुद्धैकरूपोऽस्मि सदा चैतन्यमात्रकः ॥ २२.२६॥
निश्चयोऽस्मि परं ब्रह्म सत्योऽस्मि सकलोऽस्म्यहम् ।
अक्षरोऽस्मि परं ब्रह्म शिवोऽस्मि शिखरोऽस्म्यहम् ॥ २२.२७॥
समरूपोऽस्मि शान्तोऽस्मि तत्परोऽस्मि चिदव्ययः ।
सदा ब्रह्म हि नित्योऽस्मि सदा चिन्मात्रलक्षणः ॥ २२.२८॥
सदाऽखण्डैकरूपोऽस्मि सदामानविवर्जितः ।
सदा शुद्धैकरूपोऽस्मि सदा चैतन्यमात्रकः ॥ २२.२९॥
सदा सन्मानरूपोऽस्मि सदा सत्ताप्रकाशकः ।
सदा सिद्धान्तरूपोऽस्मि सदा पावनमङ्गलः ॥ २२.३०॥
एवं निश्चितवान् मुक्तः एवं नित्यपरो वरः ।
एवं भावनया युक्तः परं ब्रह्मैव सर्वदा ॥ २२.३१॥
एवं ब्रह्मात्मवान् ज्ञानी ब्रह्माहमिति निश्चयः ।
स एव पुरुषो लोके ब्रह्माहमिति निश्चितः ॥ २२.३२॥
स एव पुरुषो ज्ञानी जीवन्मुक्तः स आत्मवान् ।
ब्रह्मैवाहं महानात्मा सच्चिदानन्दविग्रहः ॥ २२.३३॥
नाहं जीवो न मे भेदो नाहं चिन्ता न मे मनः ।
नाहं मांसं न मेऽस्थीनि नाहंकारकलेवरः ॥ २२.३४॥
न प्रमाता न मेयं वा नाहं सर्वं परोऽस्म्यहम् ।
सर्वविज्ञानरूपोऽस्मि नाहं सर्वं कदाचन ॥ २२.३५॥
नाहं मृतो जन्मनान्यो न चिन्मात्रोऽस्मि नास्म्यहम् ।
न वाच्योऽहं न मुक्तोऽहं न बुद्धोऽहं कदाचन ॥ २२.३६॥
न शून्योऽहं न मूढोऽहं न सर्वोऽहं परोऽस्म्यहम् ।
सर्वदा ब्रह्ममात्रोऽहं न रसोऽहं सदाशिवः ॥ २२.३७॥
न घ्राणोऽहं न गन्धोऽहं न चिह्नोऽयं न मे प्रियः ।
नाहं जीवो रसो नाहं वरुणो न च गोलकः ॥ २२.३८॥
ब्रह्मैवाहं न सन्देहो नामरूपं न किञ्चन ।
न श्रोत्रोऽहं न शब्दोऽहं न दिशोऽहं न साक्षिकः ॥ २२.३९॥
नाहं न त्वं न च स्वर्गो नाहं वायुर्न साक्षिकः ।
पायुर्नाहं विसर्गो न न मृत्युर्न च साक्षिकः ॥ २२.४०॥
गुह्यं नाहं न चानन्दो न प्रजापतिदेवता ।
सर्वं ब्रह्म न सन्देहः सर्वं ब्रह्मैव केवलम् ॥ २२.४१॥
नाहं मनो न सङ्कल्पो न चन्द्रो न च साक्षिकः ।
नाहं बुद्धीन्द्रियो ब्रह्मा नाहं निश्चयरूपवान् ॥ २२.४२॥
नाहंकारमहं रुद्रो नाभिमानो न साक्षिकः ।
चित्तं नाहं वासुदेवो धारणा नायमीश्वरः ॥ २२.४३॥
नाहं विश्वो न जाग्रद्वा स्थूलदेहो न मे क्वचित् ।
न प्रातिभासिको जीवो न चाहं व्यावहारिकः ॥ २२.४४॥
न पारमार्थिको देवो नाहमन्नमयो जडः ।
न प्राणमयकोशोऽहं न मनोमयकोशवान् ॥ २२.४५॥
न विज्ञानमयः कोशो नानन्दमयकोशवान् ।
ब्रह्मैवाहं न सन्देहो नामरूपे न किञ्चन ॥ २२.४६॥
एतावदुक्त्वा सकलं नामरूपद्वयात्मकम् ।
सर्वं क्षणेन विस्मृत्य काष्ठलोष्टादिवत् त्यजेत् ॥ २२.४७॥
एतत्सर्वमसन्नित्यं सदा वन्ध्याकुमारवत् ।
शशशृङ्गवदेवेदं नरशृङ्गवदेव तत् ॥ २२.४८॥
आकाशपुष्पसदृशं यथा मरुमरीचिका ।
गन्धर्वनगरं यद्वदिन्द्रजालवदेव हि ॥ २२.४९॥
असत्यमेव सततं पञ्चरूपकमिष्यते ।
शिष्योपदेशकालो हि द्वैतं न परमार्थतः ॥ २२.५०॥
माता मृते रोदनाय द्रव्यं दत्वाऽऽह्वयेज्जनान् ।
तेषां रोदनमात्रं यत् केवलं द्रव्यपञ्चकम् ॥ २२.५१॥
तदद्वैतं मया प्रोक्तं सर्वं विस्मृत्य कुड्यवत् ।
अहं ब्रह्मेति निश्चित्य अहमेवेति भावय ॥ २२.५२॥
अहमेव सुखं चेति अहमेव न चापरः ।
अहं चिन्मात्रमेवेति ब्रह्मैवेति विनिश्चिनु ॥ २२.५३॥
अहं निर्मलशुद्धेति अहं जीवविलक्षणः ।
अहं ब्रह्मैव सर्वात्मा अहमित्यवभासकः ॥ २२.५४॥
अहमेव हि चिन्मात्रमहमेव हि निर्गुणः ।
सर्वान्तर्याम्यहं ब्रह्म चिन्मात्रोऽहं सदाशिवः ॥ २२.५५॥
नित्यमङ्गलरूपात्मा नित्यमोक्षमयः पुमान् ।
एवं निश्चित्य सततं स्वात्मानं स्वयमास्थितः ॥ २२.५६॥
ब्रह्मैवाहं न सन्देहो नामरूपे न किञ्चन ।
एतद्रूपप्रकरणं सर्ववेदेषु दुर्लभम् ।
यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥ २२.५७॥
तं वेदादिवचोभिरीडितमहायागैश्च भोगैर्व्रतै-
र्दानैश्चानशनैर्यमादिनियमैस्तं विद्विषन्ते द्विजाः ।
तस्यानङ्गरिपोरतीव सुमहाहृद्यं हि लिङ्गार्चनं
तेनैवाशु विनाश्य मोहमखिलं ज्ञानं ददातीश्वरः ॥ २२.५८॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
नामरूपनिषेधप्रकरणं नाम द्वाविंशोऽध्यायः ॥
२३ ॥ त्रयोविंशोऽध्यायः ॥
ऋभुः -
निदाघ शृणु वक्ष्यामि सर्वलोकेषु दुर्लभम् ।
इदं ब्रह्म परं ब्रह्म सच्चिदानन्द एव हि ॥ २३.१॥
नानाविधजनं लोकं नाना कारणकार्यकम् ।
ब्रह्मैवान्यदसत् सर्वं सच्चिदानन्द एव हि ॥ २३.२॥
अहं ब्रह्म सदा ब्रह्म अस्मि ब्रह्माहमेव हि ।
कालो ब्रह्म क्षणो ब्रह्म अहं ब्रह्म न संशयः ॥ २३.३॥
वेदो ब्रह्म परं ब्रह्म सत्यं ब्रह्म परात् परः ।
हंसो ब्रह्म हरिर्ब्रह्म शिवो ब्रह्म चिदव्ययः ॥ २३.४॥
सर्वोपनिषदो ब्रह्म साम्यं ब्रह्म समोऽस्म्यहम् ।
अजो ब्रह्म रसो ब्रह्म वियद्ब्रह्म परात्परः ॥ २३.५॥
त्रुटिर्ब्रह्म मनो ब्रह्म व्यष्टिर्ब्रह्म सदामुदः ।
इदं ब्रह्म परं ब्रह्म तत्त्वं ब्रह्म सदा जपः ॥ २३.६॥
अकारो ब्रह्म एवाहमुकारोऽहं न संशयः ।
मकारब्रह्ममात्रोऽहं मन्त्रब्रह्ममनुः परम् ॥ २३.७॥
शिकारब्रह्ममात्रोऽहं वाकारं ब्रह्म केवलम् ।
यकारं ब्रह्म नित्यं च पञ्चाक्षरमहं परम् ॥ २३.८॥
रेचकं ब्रह्म सद्ब्रह्म पूरकं ब्रह्म सर्वतः ।
कुंभकं ब्रह्म सर्वोऽहं धारणं ब्रह्म सर्वतः ॥ २३.९॥
ब्रह्मैव नान्यत् तत्सर्वं सच्चिदानन्द एव हि ।
एवं च निश्चितो मुक्तः सद्य एव न संशयः ॥ २३.१०॥
केचिदेव महामूढाः द्वैतमेवं वदन्ति हि ।
न संभाष्याः सदानर्हा नमस्कारे न योग्यता ॥ २३.११॥
मूढा मूढतरास्तुच्छास्तथा मूढतमाः परे ।
एते न सन्ति मे नित्यं अहंविज्ञानमात्रतः ॥ २३.१२॥
सर्वं चिन्मात्ररूपत्वादानन्दत्वान्न मे भयम् ।
अहमित्यपि नास्त्येव परमित्यपि न क्वचित् ॥ २३.१३॥
ब्रह्मैव नान्यत् तत्सर्वं सच्चिदानन्द एव हि ।
कालातीतं सुखातीतं सर्वातीतमतीतकम् ॥ २३.१४॥
नित्यातीतमनित्यानाममितं ब्रह्म केवलम् ।
ब्रह्मैव नान्यद्यत्सर्वं सच्चिदानन्दमात्रकम् ॥ २३.१५॥
द्वैतसत्यत्वबुद्धिश्च द्वैतबुद्ध्या न तत् स्मर ।
सर्वं ब्रह्मैव नान्योऽस्ति सर्वं ब्रह्मैव केवलम् ॥ २३.१६॥
बुद्ध्यातीतं मनोऽतीतं वेदातीतमतः परम् ।
आत्मातीतं जनातीतं जीवातीतं च निर्गुणम् ॥ २३.१७॥
काष्ठातीतं कलातीतं नाट्यातीतं परं सुखम् ।
ब्रह्ममात्रेण सम्पश्यन् ब्रह्ममात्रपरो भव ॥ २३.१८॥
ब्रह्ममात्रपरो नित्यं चिन्मात्रोऽहं न संशयः ।
ज्योतिरानन्दमात्रोऽहं निजानन्दात्ममात्रकः ॥ २३.१९॥
शून्यानन्दात्ममात्रोऽहं चिन्मात्रोऽहमिति स्मर ।
सत्तामात्रोऽहमेवात्र सदा कालगुणान्तरः ॥ २३.२०॥
नित्यसन्मात्ररूपोऽहं शुद्धानन्दात्ममात्रकम् ।
प्रपञ्चहीनरूपोऽहं सच्चिदानन्दमात्रकः ॥ २३.२१॥
निश्चयानन्दमात्रोऽहं केवलानन्दमात्रकः ।
परमानन्दमात्रोऽहं पूर्णानन्दोऽहमेव हि ॥ २३.२२॥
द्वैतस्यमात्रसिद्धोऽहं साम्राज्यपदलक्षणम् ।
इत्येवं निश्चयं कुर्वन् सदा त्रिषु यथासुखम् ॥ २३.२३॥
दृढनिश्चयरूपात्मा दृढनिश्चयसन्मयः ।
दृढनिश्चयशान्तात्मा दृढनिश्चयमानसः ॥ २३.२४॥
दृढनिश्चयपूर्णात्मा दृढनिश्चयनिर्मलः ।
दृढनिश्चयजीवात्मा दृढनिश्चयमङ्गलः ॥ २३.२५॥
दृढनिश्चयजीवात्मा संशयं नाशमेष्यति ।
दृढनिश्चयमेवात्र ब्रह्मज्ञानस्य लक्षणम् ॥ २३.२६॥
दृढनिश्चयमेवात्र वाक्यज्ञानस्य लक्षणम् ।
दृढनिश्चयमेवात्र कारणं मोक्षसम्पदः ॥ २३.२७॥
एवमेव सदा कार्यं ब्रह्मैवाहमिति स्थिरम् ।
ब्रह्मैवाहं न सन्देहः सच्चिदानन्द एव हि ॥ २३.२८॥
आत्मानन्दस्वरूपोऽहं नान्यदस्तीति भावय ।
ततस्तदपि सन्त्यज्य एक एव स्थिरो भव ॥ २३.२९॥
ततस्तदपि सन्त्यज्य निर्गुणो भव सर्वदा ।
निर्गुणत्वं च सन्त्यज्य वाचातीतो भवेत् ततः ॥ २३.३०॥
वाचातीतं च सन्त्यज्य चिन्मात्रत्वपरो भव ।
आत्मातीतं च सन्त्यज्य ब्रह्ममात्रपरो भव ॥ २३.३१॥
चिन्मात्रत्वं च सन्त्यज्य सर्वतूष्णींपरो भव ।
सर्वतूष्णीं च सन्त्यज्य महातूष्णींपरो भव ॥ २३.३२॥
महातूष्णीं च सन्त्यज्य चित्ततूष्णीं समाश्रय ।
चित्ततूष्णीं च सन्त्यज्य जीवतूष्णीं समाहर ॥ २३.३३॥
जीवतूष्णीं परित्यज्य जीवशून्यपरो भव ।
शून्यत्यागं परित्यज्य यथा तिष्ठ तथासि भो ॥ २३.३४॥
तिष्ठत्वमपि सन्त्यज्य अवाङ्मानसगोचरः ।
ततः परं न वक्तव्यं ततः पश्येन्न किञ्चन ॥ २३.३५॥
नो चेत् सर्वपरित्यागो ब्रह्मैवाहमितीरय ।
सदा स्मरन् सदा चिन्त्यं सदा भावय निर्गुणम् ॥ २३.३६॥
सदा तिष्ठस्व तत्त्वज्ञ सदा ज्ञानी सदा परः ।
सदानन्दः सदातीतः सदादोषविवर्जितः ॥ २३.३७॥
सदा शान्तः सदा तृप्तः सदा ज्योतिः सदा रसः ।
सदा नित्यः सदा शुद्धः सदा बुद्धः सदा लयः ॥ २३.३८॥
सदा ब्रह्म सदा मोदः सदानन्दः सदा परः ।
सदा स्वयं सदा शून्यः सदा मौनी सदा शिवः ॥ २३.३९॥
सदा सर्वं सदा मित्रः सदा स्नानं सदा जपः ।
सदा सर्वं च विस्मृत्य सदा मौनं परित्यज ॥ २३.४०॥
देहाभिमानं सन्त्यज्य चित्तसत्तां परित्यज ।
आत्मैवाहं स्वयं चाहं इत्येवं सर्वदा भव ॥ २३.४१॥
एवं स्थिते त्वं मुक्तोऽसि न तु कार्या विचारणा ।
ब्रह्मैव सर्वं यत्किञ्चित् सच्चिदानन्द एव हि ॥ २३.४२॥
अहं ब्रह्म इदं ब्रह्म त्वं ब्रह्मासि निरन्तरः ।
प्रज्ञानं ब्रह्म एवासि त्वं ब्रह्मासि न संशयः ॥ २३.४३॥
दृढनिश्चयमेव त्वं कुरु कल्याणमात्मनः ।
मनसो भूषणं ब्रह्म मनसो भूषणं परः ॥ २३.४४॥
मनसो भूषणं कर्ता ब्रह्मैवाहमवेक्षतः ।
ब्रह्मैव सच्चिदानदः सच्चिदानन्दविग्रहः ॥ २३.४५॥
सच्चिदानन्दमखिलं सच्चिदानन्द एव हि ।
सच्चिदानन्दजीवात्मा सच्चिदानन्दविग्रहः ॥ २३.४६॥
सच्चिदानन्दमद्वैतं सच्चिदानन्दशङ्करः ।
सच्चिदानन्दविज्ञानं सच्चिदानन्दभोजनः ॥ २३.४७॥
सच्चिदानन्दपूर्णात्मा सच्चिदानन्दकारणः ।
सच्चिदानन्दलीलात्मा सच्चिदानन्दशेवधिः ॥ २३.४८॥
सच्चिदानन्दसर्वाङ्गः सच्चिदानन्दचन्दनः ।
सच्चिदानन्दसिद्धान्तः सच्चिदानन्दवेदकः ॥ २३.४९॥
सच्चिदानन्दशास्त्रार्थः सच्चिदानन्दवाचकः ।
सच्चिदानन्दहोमश्च सच्चिदानन्दराज्यकः ॥ २३.५०॥
सच्चिदानन्दपूर्णात्मा सच्चिदानन्दपूर्णकः ।
सच्चिदानन्दसन्मात्रं मूढेषु पठितं च यत् ॥ २३.५१॥
शुद्धं मूढेषु यद्दत्तं सुबद्धं मार्गचारिणा ।
विषयासक्तचित्तेषु न संभाष्यं विवेकिना ॥ २३.५२॥
सकृच्छ्रवणमात्रेण ब्रह्मैव भवति स्वयम् ।
इच्छा चेद्यदि नारीणां मुखं ब्राह्मण एव हि ॥ २३.५३॥
सर्वं चैतन्यमात्रत्वात् स्त्रीभेदं च न विद्यते ।
वेदशास्त्रेण युक्तोऽपि ज्ञानाभावाद् द्विजोऽद्विजः ॥ २३.५४॥
ब्रह्मैव तन्तुना तेन बद्धास्ते मुक्तिचिन्तकाः ।
सर्वमुक्तं भगवता रहस्यं शङ्करेण हि ॥ २३.५५॥
सोमापीडपदांबुजार्चनफलैर्भुक्त्यै भवान् मानसं
नान्यद्योगपथा श्रुतिश्रवणतः किं कर्मभिर्भूयते ।
युक्त्या शिक्षितमानसानुभवतोऽप्यश्माप्यसङ्गो वचां
किं ग्राह्यं भवतीन्द्रियार्थरहितानन्दैकसान्द्रः शिवः ॥ २३.५६॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
रहस्योपदेशप्रकरणं नाम त्रयोविंशोऽध्यायः ॥
२४ ॥ चतुर्विंशोऽध्यायः ॥
ऋभुः -
पुनः पुनः परं वक्ष्ये आत्मनोऽन्यदसत् स्वतः ।
असतो वचनं नास्ति सतो नास्ति सदा स्थिते ॥ २४.१॥
ब्रह्माभ्यास परस्याहं वक्ष्ये निर्णयमात्मनः ।
तस्यापि सकृदेवाहं वक्ष्ये मङ्गलपूर्वकम् ॥ २४.२॥
सर्वं ब्रह्माहमेवास्मि चिन्मात्रो नास्ति किञ्चन ।
अहमेव परं ब्रह्म अहमेव चिदात्मकम् ॥ २४.३॥
अहं ममेति नास्त्येव अहं ज्ञानीति नास्ति च ।
शुद्धोऽहं ब्रह्मरूपोऽहमानन्दोऽहमजो नरः ॥ २४.४॥var was नजः
देवोऽहं दिव्यभानोऽहं तुर्योऽहं भवभाव्यहम् ।
अण्डजोऽहमशेषोऽहमन्तरादन्तरोऽस्म्यहम् ॥ २४.५॥
अमरोऽहमजस्रोऽहमत्यन्तपरमोऽस्म्यहम् ।
परापरस्वरूपोऽहं नित्यानित्यरसोऽस्म्यहम् ॥ २४.६॥
गुणागुणविहीनोऽहं तुर्यातुर्यरसोऽस्म्यहम् ।
शान्ताशान्तविहीनोऽहं ज्ञानाज्ञानरसोऽस्म्यहम् ॥ २४.७॥
कालाकालविहीनोऽहमात्मानात्मविवर्जितः ।
लब्धालब्धादिहीनोऽहं सर्वशून्योऽहमव्ययः ॥ २४.८॥
अहमेवाहमेवाहमनन्तरनिरन्तरम् ।
शाश्वतोऽहमलक्ष्योऽहमात्मा न परिपूर्णतः ॥ २४.९॥
इत्यादिशब्दमुक्तोऽहं इत्याद्यं च न चास्म्यहम् ।
इत्यादिवाक्यमुक्तोऽहं सर्ववर्जितदुर्जयः ॥ २४.१०॥
निरन्तरोऽहं भूतोऽहं भव्योऽहं भववर्जितः ।
लक्ष्यलक्षणहीनोऽहं कार्यहीनोऽहमाशुगः ॥ २४.११॥
व्योमादिरूपहीनोऽहं व्योमरूपोऽहमच्युतः ।
अन्तरान्तरभावोऽहमन्तरान्तरवर्जितः ॥ २४.१२॥
सर्वसिद्धान्तरूपोऽहं सर्वदोषविवर्जितः ।
न कदाचन मुक्तोऽहं न बद्धोऽहं कदाचन ॥ २४.१३॥
एवमेव सदा कृत्वा ब्रह्मैवाहमिति स्मर ।
एतावदेव मात्रं तु मुक्तो भवतु निश्चयः ॥ २४.१४॥
चिन्मात्रोऽहं शिवोऽहं वै शुभमात्रमहं सदा ।
सदाकारोऽहं मुक्तोऽहं सदा वाचामगोचरः ॥ २४.१५॥
सर्वदा परिपूर्णोऽहं वेदोपाधिविवर्जितः ।
चित्तकार्यविहीनोऽहं चित्तमस्तीति मे न हि ॥ २४.१६॥
यत् किञ्चिदपि नास्त्येव नास्त्येव प्रियभाषणम् ।
आत्मप्रियमनात्मा हि इदं मे वस्तुतो न हि ॥ २४.१७॥
इदं दुःखमिदं सौख्यमिदं भाति अहं न हि ।
सर्ववर्जितरूपोऽहं सर्ववर्जितचेतनः ॥ २४.१८॥
अनिर्वाच्यमनिर्वाच्यं परं ब्रह्म रसोऽस्म्यहम् ।
अहं ब्रह्म न सन्देह अहमेव परात् परः ॥ २४.१९॥
अहं चैतन्यभूतात्मा देहो नास्ति कदाचन ।
लिङ्गदेहं च नास्त्येव कारणं देहमेव न ॥ २४.२०॥
अहं त्यक्त्वा परं चाहं अहं ब्रह्मस्वरूपतः ।
कामादिवर्जितोऽतीतः कालभेदपरात्परः ॥ २४.२१॥
ब्रह्मैवेदं न संवेद्यं नाहं भावं न वा नहि ।
सर्वसंशयसंशान्तो ब्रह्मैवाहमिति स्थितिः ॥ २४.२२॥
निश्चयं च न मे किञ्चित् चिन्ताभावात् सदाऽक्षरः ।
चिदहं चिदहं ब्रह्म चिदहं चिदहं सदा ॥ २४.२३॥
एवं भावनया युक्तस्त्यक्तशङ्कः सुखीभव ।
सर्वसङ्गं परित्यज्य आत्मैक्यैवं भवान्वहम् ॥ २४.२४॥
सङ्गं नाम प्रवक्ष्येऽहं ब्रह्माहमिति निश्चयः ।
सत्योऽहं परमात्माऽहं स्वयमेव स्वयं स्वयम् ॥ २४.२५॥
नाहं देहो न च प्राणो न द्वन्द्वो न च निर्मलः ।
एष एव हि सत्सङ्गः एष एव हि निर्मलः ॥ २४.२६॥
महत्सङ्गे महद्ब्रह्मभावनं परमं पदम् ।
अहं शान्तप्रभावोऽहं अहं ब्रह्म न संशयः ॥ २४.२७॥
अहं त्यक्तस्वरूपोऽहं अहं चिन्तादिवर्जितः ।
एष एव हि सत्सङ्गः एष नित्यं भवानहम् ॥ २४.२८॥
सर्वसङ्कल्पहीनोऽहं सर्ववृत्तिविवर्जितः ।
अमृतोऽहमजो नित्यं मृतिभीतिरतीतिकः ॥ २४.२९॥
सर्वकल्याणरूपोऽहं सर्वदा प्रियरूपवान् ।
समलाङ्गो मलातीतः सर्वदाहं सदानुगः ॥ २४.३०॥
अपरिच्छिन्नसन्मात्रं सत्यज्ञानस्वरूपवान् ।
नादान्तरोऽहं नादोऽहं नामरूपविवर्जितः ॥ २४.३१॥
अत्यन्ताभिन्नहीनोऽहमादिमध्यान्तवर्जितः ।
एवं नित्यं दृढाभ्यास एवं स्वानुभवेन च ॥ २४.३२॥
एवमेव हि नित्यात्मभावनेन सुखी भव ।
एवमात्मा सुखं प्राप्तः पुनर्जन्म न संभवेत् ॥ २४.३३॥
सद्यो मुक्तो भवेद्ब्रह्माकारेण परितिष्ठति ।
आत्माकारमिदं विश्वमात्माकारमहं महत् ॥ २४.३४॥
आत्मैव नान्यद्भूतं वा आत्मैव मन एव हि ।
आत्मैव चित्तवद्भाति आत्मैव स्मृतिवत् क्वचित् ॥ २४.३५॥
आत्मैव वृत्तिवद्भाति आत्मैव क्रोधवत् सदा ।var was वृत्तिमद्भाति
आत्मैव श्रवणं तद्वदात्मैव मननं च तत् ॥ २४.३६॥
आत्मैवोपक्रमं नित्यमुपसंहारमात्मवत् ।
आत्मैवाभ्यां समं नित्यमात्मैवापूर्वताफलम् ॥ २४.३७॥
अर्थवादवदात्मा हि परमात्मोपपत्ति हि ।
इच्छा प्रारभ्यवद्ब्रह्म इच्छामारभ्यवत् परः ॥ २४.३८॥var was प्रारब्धवद्
परेच्छारब्धवद्ब्रह्मा इच्छाशक्तिश्चिदेव हि ।
अनिच्छाशक्तिरात्मैव परेच्छाशक्तिरव्ययः ॥ २४.३९॥
परमात्मैवाधिकारो विषयं परमात्मनः ।
संबन्धं परमात्मैव प्रयोजनं परात्मकम् ॥ २४.४०॥
ब्रह्मैव परमं सङ्गं कर्मजं ब्रह्म सङ्गमम् ।
ब्रह्मैव भ्रान्तिजं भाति द्वन्द्वं ब्रह्मैव नान्यतः ॥ २४.४१॥
सर्वं ब्रह्मेति निश्चित्य सद्य एव विमोक्षदम् ।
सविकल्पसमाधिस्थं निर्विकल्पसमाधि हि ॥ २४.४२॥
शब्दानुविद्धं ब्रह्मैव ब्रह्म दृश्यानुविद्धकम् ।
ब्रह्मैवादिसमाधिश्च तन्मध्यमसमाधिकम् ॥ २४.४३॥
ब्रह्मैव निश्चयं शून्यं तदुक्तमसमाधिकम् ।
देहाभिमानरहितं तद्वैराग्यसमाधिकम् ॥ २४.४४॥
एतद्भावनया शान्तं जीवन्मुक्तसमाधिकः ।
अत्यन्तं सर्वशान्तत्वं देहो मुक्तसमाधिकम् ॥ २४.४५॥
एतदभ्यासिनां प्रोक्तं सर्वं चैतत्समन्वितम् ।
सर्वं विस्मृत्य विस्मृत्य त्यक्त्वा त्यक्त्वा पुनः पुनः ॥ २४.४६॥
सर्ववृत्तिं च शून्येन स्थास्यामीति विमुच्य हि ।
न स्थास्यामीति विस्मृत्य भास्यामीति च विस्मर ॥ २४.४७॥
चैतन्योऽहमिति त्यक्त्वा सन्मात्रोऽहमिति त्यज ।
त्यजनं च परित्यज्य भावनं च परित्यज ॥ २४.४८॥
सर्वं त्यक्त्वा मनः क्षिप्रं स्मरणं च परित्यज ।
स्मरणं किञ्चिदेवात्र महासंसारसागरम् ॥ २४.४९॥
स्मरणं किञ्चिदेवात्र महादुःखं भवेत् तदा ।
महादोषं भवं बन्धं चित्तजन्म शतं मनः ॥ २४.५०॥
प्रारब्धं हृदयग्रन्थि ब्रह्महत्यादि पातकम् ।
स्मरणं चैवमेवेह बन्धमोक्षस्य कारणम् ॥ २४.५१॥
अहं ब्रह्मप्रकरणं सर्वदुःखविनाशकम् ।
सर्वप्रपञ्चशमनं सद्यो मोक्षप्रदं सदा ।
एतच्छ्रवणमात्रेण ब्रह्मैव भवति स्वयम् ॥ २४.५२॥
भक्त्या पद्मदलाक्षपूजितपदध्यानानुवृत्त्या मनः
स्वान्तानन्तपथप्रचारविधुरं मुक्त्यै भवेन्मानसम् ।
सङ्कल्पोज्झितमेतदल्पसुमहाशीलो दयाम्भोनिधौ
कश्चित् स्याच्छिवभक्तधुर्यसुमहाशान्तः शिवप्रेमतः ॥ २४.५३॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
अहं ब्रह्मप्रकरणनिरूपणं नाम चतुर्विंशोऽध्यायः ॥
२५ ॥ पञ्चविंशोऽध्यायः ॥
ऋभुः -
वक्ष्ये प्रसिद्धमात्मानं सर्वलोकप्रकाशकम् ।
सर्वाकारं सदा सिद्धं सर्वत्र निबिडं महत् ॥ २५.१॥
तद्ब्रह्माहं न सन्देह इति निश्चित्य तिष्ठ भोः ।
चिदेवाहं चिदेवाहं चित्रं चेदहमेव हि ॥ २५.२॥
वाचावधिश्च देवोऽहं चिदेव मनसः परः ।
चिदेवाहं परं ब्रह्म चिदेव सकलं पदम् ॥ २५.३॥
स्थूलदेहं चिदेवेदं सूक्ष्मदेहं चिदेव हि ।
चिदेव करणं सोऽहं कायमेव चिदेव हि ॥ २५.४॥
अखण्डाकारवृत्तिश्च उत्तमाधममध्यमाः ।
देहहीनश्चिदेवाहं सूक्ष्मदेहश्चिदेव हि ॥ २५.५॥
चिदेव कारणं सोऽहं बुद्धिहीनश्चिदेव हि ।
भावहीनश्चिदेवाहं दोषहीनश्चिदेव हि ॥ २५.६॥
अस्तित्वं ब्रह्म नास्त्येव नास्ति ब्रह्मेति नास्ति हि ।
अस्ति नास्तीति नास्त्येव अहमेव चिदेव हि ॥ २५.७॥
सर्वं नास्त्येव नास्त्येव साकारं नास्ति नास्ति हि ।
यत्किञ्चिदपि नास्त्येव अहमेव चिदेव हि ॥ २५.८॥
अन्वयव्यतिरेकं च आदिमध्यान्तदूषणम् ।
सर्वं चिन्मात्ररूपत्वादहमेव चिदेव हि ॥ २५.९॥
सर्वापरं च सदसत् कार्यकारणकर्तृकम् ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१०॥
अशुद्धं शुद्धमद्वैतं द्वैतमेकमनेककम् ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.११॥
असत्यसत्यमद्वन्द्वं द्वन्द्वं च परतः परम् ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१२॥
भूतं भविष्यं वर्तं च मोहामोहौ समासमौ ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१३॥
क्षणं लवं त्रुटिर्ब्रह्म त्वंपदं तत्पदं तथा ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१४॥
त्वंपदं तत्पदं वापि ऐक्यं च ह्यहमेव हि ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१५॥
आनन्दं परमानन्दं सर्वानन्दं निजं महत् ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१६॥
अहं ब्रह्म इदं ब्रह्म कं ब्रह्म ह्यक्षरं परम् ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१७॥
विष्णुरेव परं ब्रह्म शिवो ब्रह्माहमेव हि ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१८॥
श्रोत्रं ब्रह्म परं ब्रह्म शब्दं ब्रह्म पदं शुभम् ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१९॥
स्पर्शो ब्रह्म पदं त्वक्च त्वक्च ब्रह्म परस्परम् ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२०॥
परं रूपं चक्षुभिः एव तत्रैव योज्यताम् ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२१॥
ब्रह्मैव सर्वं सततं सच्चिदानन्दमात्रकम् ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२२॥
चिन्मयानन्दमात्रोऽहं इदं विश्वमिदं सदा ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२३॥
ब्रह्मैव सर्वं यत्किञ्चित् तद्ब्रह्माहं न संशयः ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२४॥
वाचा यत् प्रोच्यते नाम मनसा मनुते तु यत् ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२५॥
कारणे कल्पिते यद्यत् तूष्णीं वा स्थीयते सदा ।
शरीरेण तु यद् भुङ्क्ते इन्द्रियैर्यत्तु भाव्यते ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२६॥
वेदे यत् कर्म वेदोक्तं शास्त्रं शास्त्रोक्तनिर्णयम् ।
गुरूपदेशसिद्धान्तं शुद्धाशुद्धविभासकम् ॥ २५.२७॥
कामादिकलनं ब्रह्म देवादि कलनं पृथक् ।
जीवयुक्तेति कलनं विदेहो मुक्तिकल्पनम् ॥ २५.२८॥
ब्रह्म इत्यपि सङ्कल्पं ब्रह्मविद्वरकल्पनम् ।
वरीयानिति सङ्कल्पं वरिष्ठ इति कल्पनम् ॥ २५.२९॥
ब्रह्माहमिति सङ्कल्पं चिदहं चेति कल्पनम् ।
महाविद्येति सङ्कल्पं महामायेति कल्पनम् ॥ २५.३०॥
महाशून्येति सङ्कल्पं महाचिन्तेति कल्पनम् ।
महालोकेति सङ्कल्पं महासत्येति कल्पनम् ॥ २५.३१॥
महारूपेति सङ्कल्पं महारूपं च कल्पनम् ।
सर्वसङ्कल्पकं चित्तं सर्वसङ्कल्पकं मनः ॥ २५.३२॥
सर्वं नास्त्येव नास्त्येव सर्वं ब्रह्मैव केवलम् ।
सर्वं द्वैतं मनोरूपं सर्वं दुःखं मनोमयम् ॥ २५.३३॥
चिदेवाहं न सन्देहः चिदेवेदं जगत्त्रयम् ।
यत्किञ्चिद्भाषणं वापि यत्किञ्चिन्मनसो जपम् ।
यत्किञ्चिन्मानसं कर्म सर्वं ब्रह्मैव केवलम् ॥ २५.३४॥
सर्वं नास्तीति सन्मन्त्रं जीवब्रह्मस्वरूपकम् ।
ब्रह्मैव सर्वमित्येवं मन्त्रञ्चैवोत्तमोत्तमम् ॥ २५.३५॥
अनुक्तमन्त्रं सन्मन्त्रं वृत्तिशून्यं परं महत् ।
सर्वं ब्रह्मेति सङ्कल्पं तदेव परमं पदम् ॥ २५.३६॥
सर्वं ब्रह्मेति सङ्कल्पं महादेवेति कीर्तनम् ।
सर्वं ब्रह्मेति सङ्कल्पं शिवपूजासमं महत् ॥ २५.३७॥
सर्वं ब्रह्मेत्यनुभवः सर्वाकारो न संशयः ।
सर्वं ब्रह्मेति सङ्कल्पं सर्वत्यागमितीरितम् ॥ २५.३८॥
सर्वं ब्रह्मेति सङ्कल्पं भावाभावविनाशनम् ।
सर्वं ब्रह्मेति सङ्कल्पं महादेवेति निश्चयः ॥ २५.३९॥
सर्वं ब्रह्मेति सङ्कल्पं कालसत्ताविनिर्मुक्तः ।
सर्वं ब्रह्मेति सङ्कल्पः देहसत्ता विमुक्तिकः ॥ २५.४०॥
सर्वं ब्रह्मेति सङ्कल्पः सच्चिदानन्दरूपकः ।
सर्वोऽहं ब्रह्ममात्रैव सर्वं ब्रह्मैव केवलम् ॥ २५.४१॥
इदमित्येव यत्किञ्चित् तद्ब्रह्मैव न संशयः ।
भ्रान्तिश्च नरकं दुःखं स्वर्गभ्रान्तिरितीरिता ॥ २५.४२॥
ब्रह्मा विष्णुरिति भ्रान्तिर्भ्रान्तिश्च शिवरूपकम् ।
विराट् स्वराट् तथा सम्राट् सूत्रात्मा भ्रान्तिरेव च ॥ २५.४३॥
देवाश्च देवकार्याणि सूर्याचन्द्रमसोर्गतिः ।
मुनयो मनवः सिद्धा भ्रान्तिरेव न संशयः ॥ २५.४४॥
सर्वदेवासुरा भ्रान्तिस्तेषां युद्धादि जन्म च ।
विष्णोर्जन्मावताराणि चरितं शान्तिरेव हि ॥ २५.४५॥
ब्रह्मणः सृष्टिकृत्यानि रुद्रस्य चरितानि च ।
सर्वभ्रान्तिसमायुक्तं भ्रान्त्या लोकाश्चतुर्दश ॥ २५.४६॥
वर्णाश्रमविभागश्च भ्रान्तिरेव न संशयः ।
ब्रह्मविष्ण्वीशरुद्राणामुपासा भ्रान्तिरेव च ॥ २५.४७॥
तत्रापि यन्त्रमन्त्राभ्यां भ्रान्तिरेव न संशयः ।
वाचामगोचरं ब्रह्म सर्वं ब्रह्ममयं च हि ॥ २५.४८॥
सर्वं नास्त्येव नास्त्येव अहमेव चिदेव हि ।
एवं वद त्वं तिष्ठ त्वं सद्यो मुक्तो भविष्यसि ॥ २५.४९॥
एतावदुक्तं यत्किञ्चित् तन्नास्त्येव न संशयः ।
एवं यदान्तरं क्षिप्रं ब्रह्मैव दृढनिश्चयम् ॥ २५.५०॥
दृढनिश्चयमेवात्र प्रथमं कारणं भवेत् ।
निश्चयः खल्वयं पश्चात् स्वयमेव भविष्यति ॥ २५.५१॥
आर्तं यच्छिवपादतोऽन्यदितरं तज्जादिशब्दात्मकं
चेतोवृत्तिपरं पराप्रमुदितं षड्भावसिद्धं जगत् ।
भूताक्षादिमनोवचोभिरनघे सान्द्रे महेशे घने
सिन्धौ सैन्धवखण्डवज्जगदिदं लीयेत वृत्त्युज्झितम् ॥ २५.५२॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
ब्रह्मणस्सर्वरूपत्वनिरूपणप्रकरणं नाम पञ्चविंशोऽध्यायः ॥
२६ ॥ षड्विंशोऽध्यायः ॥
ऋभुः -
वक्ष्ये सच्चित्परानन्दं स्वभावं सर्वदा सुखम् ।
सर्ववेदपुराणानां सारात् सारतरं स्वयम् ॥ २६.१॥
न भेदं च द्वयं द्वन्द्वं न भेदं भेदवर्जितम् ।
इदमेव परं ब्रह्म ज्ञानाश्रयमनामयम् ॥ २६.२॥
न क्वचिन्नात एवाहं नाक्षरं न परात्परम् ।
इदमेव परं ब्रह्म ज्ञानाश्रयमनामयम् ॥ २६.३॥
न बहिर्नान्तरं नाहं न सङ्कल्पो न विग्रहः ।
इदमेव परं ब्रह्म ज्ञानाश्रयमनामयम् ॥ २६.४॥
न सत्यं च परित्यज्य न वार्ता नार्थदूषणम् ।
इदमेव परं ब्रह्म ज्ञानाश्रयमनामयम् ॥ २६.५॥
न गुणो गुणिवाक्यं वा न मनोवृत्तिनिश्चयः ।
न जपं न परिच्छिन्नं न व्यापकमसत् फलम् ॥ २६.६॥
न गुरुर्न च शिष्यो वा न स्थिरं न शुभाशुभम् ।
नैकरूपं नान्यरूपं न मोक्षो न च बन्धकम् ॥ २६.७॥
अहं पदार्थस्तत्पदं वा नेन्द्रियं विषयादिकम् ।
न संशयं न तुच्छं वा न निश्चयं न वा कृतम् ॥ २६.८॥
न शान्तिरूपमद्वैतं न चोर्ध्वं न च नीचकम् ।
न लक्षणं न दुःखाङ्गं न सुखं न च चञ्चलम् ॥ २६.९॥
न शरीरं न लिङ्गं वा न कारणमकारणम् ।
न दुःखं नान्तिकं नाहं न गूढं न परं पदम् ॥ २६.१०॥
न सञ्चितं च नागामि न सत्यं च त्वमाहकम् ।
नाज्ञानं न च विज्ञानं न मूढो न च विज्ञवान् ॥ २६.११॥
न नीचं नरकं नान्तं न मुक्तिर्न च पावनम् ।
न तृष्णा न च विद्यात्वं नाहं तत्त्वं न देवता ॥ २६.१२॥
न शुभाशुभसङ्केतो न मृत्युर्न च जीवनम् ।
न तृप्तिर्न च भोज्यं वा न खण्डैकरसोऽद्वयम् ॥ २६.१३॥
न सङ्कल्पं न प्रपञ्चं न जागरणराजकम् ।
न किञ्चित्समतादोषो न तुर्यगणना भ्रमः ॥ २६.१४॥
न सर्वं समलं नेष्टं न नीतिर्न च पूजनम् ।
न प्रपञ्चं न बहुना नान्यभाषणसङ्गमः ॥ २६.१५॥
न सत्सङ्गमसत्सङ्गः न ब्रह्म न विचारणम् ।
नाभ्यासं न च वक्ता च न स्नानं न च तीर्थकम् ॥ २६.१६॥
न पुण्यं न च वा पापं न क्रिया दोषकारणम् ।
न चाध्यात्मं नाधिभूतं न दैवतमसम्भवम् ॥ २६.१७॥
न जन्ममरणे क्वापि जाग्रत्स्वप्नसुषुप्तिकम् ।
न भूलोकं न पातालं न जयापजयाजयौ ॥ २६.१८॥
न हीनं न च वा भीतिर्न रतिर्न मृतिस्त्वरा ।
अचिन्त्यं नापराध्यात्मा निगमागमविभ्रमः ॥ २६.१९॥
न सात्त्विकं राजसं च न तामसगुणाधिकम् ।
न शैवं न च वेदान्तं न स्वाद्यं तन्न मानसम् ॥ २६.२०॥
न बन्धो न च मोक्षो वा न वाक्यं ऐक्यलक्षणम् ।
न स्त्रीरूपं न पुंभावः न षण्डो न स्थिरः पदम् ॥ २६.२१॥
न भूषणं न दूषणं न स्तोत्रं न स्तुतिर्न हि ।
न लौकिकं वैदिकं न शास्त्रं न च शासनम् ॥ २६.२२॥
न पानं न कृशं नेदं न मोदं न मदामदम् ।
न भावनमभावो वा न कुलं नामरूपकम् ॥ २६.२३॥
नोत्कृष्टं च निकृष्टं च न श्रेयोऽश्रेय एव हि ।
निर्मलत्वं मलोत्सर्गो न जीवो न मनोदमः ॥ २६.२४॥
न शान्तिकलना नागं न शान्तिर्न शमो दमः ।
न क्रीडा न च भावाङ्गं न विकारं न दोषकम् ॥ २६.२५॥
न यत्किञ्चिन्न यत्राहं न मायाख्या न मायिका ।
यत्किञ्चिन्न च धर्मादि न धर्मपरिपीडनम् ॥ २६.२६॥
न यौवनं न बाल्यं वा न जरामरणादिकम् ।
न बन्धुर्न च वाऽबन्धुर्न मित्रं न च सोदरः ॥ २६.२७॥
नापि सर्वं न चाकिञ्चिन्न विरिञ्चो न केशवः ।
न शिवो नाष्टदिक्पालो न विश्वो न च तैजसः ॥ २६.२८॥
न प्राज्ञो हि न तुर्यो वा न ब्रह्मक्षत्रविड्वरः ।
इदमेव परं ब्रह्म ज्ञानामृतमनामयम् ॥ २६.२९॥
न पुनर्भावि पश्चाद्वा न पुनर्भवसंभवः ।
न कालकलना नाहं न संभाषणकारणम् ॥ २६.३०॥
न चोर्ध्वमन्तःकरणं न च चिन्मात्रभाषणम् ।
न ब्रह्माहमिति द्वैतं न चिन्मात्रमिति द्वयम् ॥ २६.३१॥
नान्नकोशं न च प्राणमनोमयमकोशकम् ।
न विज्ञानमयः कोशः न चानन्दमयः पृथक् ॥ २६.३२॥
न बोधरूपं बोध्यं वा बोधकं नात्र यद्भ्रमः ।
न बाध्यं बाधकं मिथ्या त्रिपुटीज्ञाननिर्णयः ॥ २६.३३॥
न प्रमाता प्रमाणं वा न प्रमेयं फलोदयम् ।
इदमेव परं ब्रह्म ज्ञानामृतमनोमयम् ॥ २६.३४॥
न गुह्यं न प्रकाशं वा न महत्वं न चाणुता ।
न प्रपञ्चो विद्यमानं न प्रपञ्चः कदाचन ॥ २६.३५॥
नान्तःकरणसंसारो न मनो जगतां भ्रमः ।
न चित्तरूपसंसारो बुद्धिपूर्वं प्रपञ्चकम् ॥ २६.३६॥
न जीवरूपसंसारो वासनारूपसंसृतिः ।
न लिङ्गभेदसंसारो नाज्ञानमयसंस्मृतिः ॥ २६.३७॥var was संसृतिः
न वेदरूपसंसारो न शास्त्रागमसंसृतिः ।
नान्यदस्तीति संसारमन्यदस्तीति भेदकम् ॥ २६.३८॥
न भेदाभेदकलनं न दोषादोषकल्पनम् ।
न शान्ताशान्तसंसारं न गुणागुणसंसृतिः ॥ २६.३९॥
न स्त्रीलिङ्गं न पुंलिङ्गं न नपुंसकसंसृतिः ।
न स्थावरं न जङ्गमं च न दुःखं न सुखं क्वचित् ॥ २६.४०॥
न शिष्टाशिष्टरूपं वा न योग्यायोग्यनिश्चयः ।
न द्वैतवृत्तिरूपं वा साक्षिवृत्तित्वलक्षणम् ॥ २६.४१॥
अखण्डाकारवृत्तित्वमखण्डैकरसं सुखम् ।
देहोऽहमिति या वृत्तिर्ब्रह्माहमिति शब्दकम् ॥ २६.४२॥
अखण्डनिश्चया वृत्तिर्नाखण्डैकरसं महत् ।
न सर्ववृत्तिभवनं सर्ववृत्तिविनाशकम् ॥ २६.४३॥
सर्ववृत्त्यनुसन्धानं सर्ववृत्तिविमोचनम् ।
सर्ववृत्तिविनाशान्तं सर्ववृत्तिविशून्यकम् ॥ २६.४४॥
न सर्ववृत्तिसाहस्रं क्षणक्षणविनाशनम् ।
न सर्ववृत्तिसाक्षित्वं न च ब्रह्मात्मभावनम् ॥ २६.४५॥
न जगन्न मनो नान्तो न कार्यकलनं क्वचित् ।
न दूषणं भूषणं वा न निरङ्कुशलक्षणम् ॥ २६.४६॥
न च धर्मात्मनो लिङ्गं गुणशालित्वलक्षणम् ।
न समाधिकलिङ्गं वा न प्रारब्धं प्रबन्धकम् ॥ २६.४७॥
ब्रह्मवित्तं आत्मसत्यो न परः स्वप्नलक्षणम् ।
न च वर्यपरो रोधो वरिष्ठो नार्थतत्परः ॥ २६.४८॥
आत्मज्ञानविहीनो यो महापातकिरेव सः ।
एतावद् ज्ञानहीनो यो महारोगी स एव हि ॥ २६.४९॥
अहं ब्रह्म न सन्देह अखण्डैकरसात्मकः ।
ब्रह्मैव सर्वमेवेति निश्चयानुभवात्मकः ॥ २६.५०॥
सद्यो मुक्तो न सन्देहः सद्यः प्रज्ञानविग्रहः ।
स एव ज्ञानवान् लोके स एव परमेश्वरः ॥ २६.५१॥
इदमेव परं ब्रह्म ज्ञानामृतमनोमयम् ।
एतत्प्रकरणं यस्तु शृणुते ब्रह्म एव सः ॥ २६.५२॥
एकत्वं न बहुत्वमप्यणुमहत् कार्यं न वै कारणं
विश्वं विश्वपतित्वमप्यरसकं नो गन्धरूपं सदा ।
बद्धं मुक्तमनुत्तमोत्तममहानन्दैकमोदं सदा
भूमानन्दसदाशिवं जनिजरारोगाद्यसङ्गं महः ॥ २६.५३॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
ज्ञानामृतमनोमयप्रकरणवर्णनं नाम षड्विंशोऽध्यायः ॥
२७ ॥ सप्तविंशोऽध्यायः ॥
ऋभुः -
वक्ष्ये प्रकरणं सत्यं ब्रह्मानन्दमनोमयम् ।
कार्यकारणनिर्मुक्तं नित्यानन्दमयं त्विदम् ॥ २७.१॥
अक्षयानन्द एवाहमात्मानन्दप्रकाशकम् ।
ज्ञानानन्दस्वरूपोऽहं लक्ष्यानन्दमयं सदा ॥ २७.२॥
विषयानन्दशून्योऽहं मिथ्यानन्दप्रकाशकः ।
वृत्तिशून्यसुखात्माहं वृत्तिशून्यसुखात्परम् ॥ २७.३॥
जडानन्दप्रकाशात्मा आत्मानन्दरसोऽस्म्यहम् ।
आत्मानन्दविहीनोऽहं नास्त्यानन्दात्मविग्रहः ॥ २७.४॥
कार्यानन्दविहीनोऽहं कार्यानन्दकलात्मकः ।
गुणानन्दविहीनोऽहं गुह्यानन्दस्वरूपवान् ॥ २७.५॥
गुप्तानन्दस्वरूपोऽहं कृत्यानन्दमहानहम् ।
ज्ञेयानन्दविहीनोऽहं गोप्यानन्दविवर्जितः ॥ २७.६॥
सदानन्दस्वरूपोऽहं मुदानन्दनिजात्मकः ।
लोकानन्दो महानन्दो लोकातीतमहानयम् ॥ २७.७॥
भेदानन्दश्चिदानन्दः सुखानन्दोऽहमद्वयः ।
क्रियानन्दोऽक्षयानन्दो वृत्त्यानन्दविवर्जितः ॥ २७.८॥
सर्वानन्दोऽक्षयानन्दश्चिदानन्दोऽहमव्ययः ।
सत्यानन्दः परानन्दः सद्योनन्दः परात्परः ॥ २७.९॥
वाक्यानन्दमहानन्दः शिवानन्दोऽहमद्वयः ।
शिवानन्दोत्तरानन्द आद्यानन्दविवर्जितः ॥ २७.१०॥
अमलात्मा परानन्दश्चिदानन्दोऽहमद्वयः ।
वृत्त्यानन्दपरानन्दो विद्यातीतो हि निर्मलः ॥ २७.११॥
कारणातीत आनन्दश्चिदानन्दोऽहमद्वयः ।
सर्वानन्दः परानन्दो ब्रह्मानन्दात्मभावनः ॥ २७.१२॥
जीवानन्दो लयानन्दश्चिदानन्दस्वरूपवान् ।
शुद्धानन्दस्वरूपात्मा बुद्ध्यानन्दो मनोमयः ॥ २७.१३॥
शब्दानन्दो महानन्दश्चिदानन्दोऽहमद्वयः ।
आनन्दानन्दशून्यात्मा भेदानन्दविशून्यकः ॥ २७.१४॥
द्वैतानन्दप्रभावात्मा चिदानन्दोऽहमद्वयः ।
एवमादिमहानन्द अहमेवेति भावय ॥ २७.१५॥
शान्तानन्दोऽहमेवेति चिदानन्दप्रभास्वरः ।
एकानन्दपरानन्द एक एव चिदव्ययः ॥ २७.१६॥
एक एव महानात्मा एकसंख्याविवर्जितः ।
एकतत्त्वमहानन्दस्तत्त्वभेदविवर्जितः ॥ २७.१७॥
विजितानन्दहीनोऽहं निर्जितानन्दहीनकः ।
हीनानन्दप्रशान्तोऽहं शान्तोऽहमिति शान्तकः ॥ २७.१८॥
ममतानन्दशान्तोऽहमहमादिप्रकाशकम् ।
सर्वदा देहशान्तोऽहं शान्तोऽहमिति वर्जितः ॥ २७.१९॥
ब्रह्मैवाहं न संसारी इत्येवमिति शान्तकः ।
अन्तरादन्तरोऽहं वै अन्तरादन्तरान्तरः ॥ २७.२०॥
एक एव महानन्द एक एवाहमक्षरः ।
एक एवाक्षरं ब्रह्म एक एवाक्षरोऽक्षरः ॥ २७.२१॥
एक एव महानात्मा एक एव मनोहरः ।
एक एवाद्वयोऽहं वै एक एव न चापरः ॥ २७.२२॥
एक एव न भूरादि एक एव न बुद्धयः ।
एक एव प्रशान्तोऽहं एक एव सुखात्मकः ॥ २७.२३॥
एक एव न कामात्मा एक एव न कोपकम् ।
एक एव न लोभात्मा एक एव न मोहकः ॥ २७.२४॥
एक एव मदो नाहं एक एव न मे रसः ।
एक एव न चित्तात्मा एक एव न चान्यकः ॥ २७.२५॥
एक एव न सत्तात्मा एक एव जरामरः ।
एक एव हि पूर्णात्मा एक एव हि निश्चलः ॥ २७.२६॥
एक एव महानन्द एक एवाहमेकवान् ।
देहोऽहमिति हीनोऽहं शान्तोऽहमिति शाश्वतः ॥ २७.२७॥
शिवोऽहमिति शान्तोऽहं आत्मैवाहमिति क्रमः ।
जीवोऽहमिति शान्तोऽहं नित्यशुद्धहृदन्तरः ॥ २७.२८॥
एवं भावय निःशङ्कं सद्यो मुक्तस्त्वमद्वये ।
एवमादि सुशब्दं वा नित्यं पठतु निश्चलः ॥ २७.२९॥
कालस्वभावो नियतैश्च भूतैः
जगद्विजायेत इति श्रुतीरितम् ।
तद्वै मृषा स्याज्जगतो जडत्वतः
इच्छाभवं चैतदथेस्वरस्य ॥ २७.३०॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
आनन्दरूपत्वनिरूपणप्रकरणं नाम सप्तविंशोऽध्यायः ॥
२८ ॥ अष्टाविंशोऽध्यायः ॥
ऋभुः -
ब्रह्मैवाहं चिदेवाहं निर्मलोऽहं निरन्तरः ।
शुद्धस्वरूप एवाहं नित्यरूपः परोऽस्म्यहम् ॥ २८.१॥
नित्यनिर्मलरूपोऽहं नित्यचैतन्यविग्रहः ।
आद्यन्तरूपहीनोऽहमाद्यन्तद्वैतहीनकः ॥ २८.२॥
अजस्रसुखरूपोऽहं अजस्रानन्दरूपवान् ।
अहमेवादिनिर्मुक्तः अहं कारणवर्जितः ॥ २८.३॥
अहमेव परं ब्रह्म अहमेवाहमेव हि ।
इत्येवं भावयन्नित्यं सुखमात्मनि निर्मलः ॥ २८.४॥
सुखं तिष्ठ सुखं तिष्ठ सुचिरं सुखमावह ।
सर्ववेदमनन्यस्त्वं सर्वदा नास्ति कल्पनम् ॥ २८.५॥
सर्वदा नास्ति चित्ताख्यं सर्वदा नास्ति संसृतिः ।
सर्वदा नास्ति नास्त्येव सर्वदा जगदेव न ॥ २८.६॥
जगत्प्रसङ्गो नास्त्येव देहवार्ता कुतस्ततः ।
ब्रह्मैव सर्वचिन्मात्रमहमेव हि केवलम् ॥ २८.७॥
चित्तमित्यपि नास्त्येव चित्तमस्ति हि नास्ति हि ।
अस्तित्वभावना निष्ठा जगदस्तित्ववाङ्मृषा ॥ २८.८॥
अस्तित्ववक्ता वार्ता हि जगदस्तीति भावना ।
स्वात्मनोऽन्यज्जगद्रक्षा देहोऽहमिति निश्चितः ॥ २८.९॥
महाचण्डाल एवासौ महाविप्रोऽपि निश्चयः ।
तस्मादिति जगन्नेति चित्तं वा बुद्धिरेव च ॥ २८.१०॥
नास्ति नास्तीति सहसा निश्चयं कुरु निर्मलः ।
दृश्यं नास्त्येव नास्त्येव नास्ति नास्तीति भावय ॥ २८.११॥
अहमेव परं ब्रह्म अहमेव हि निष्कलः ।
अहमेव न सन्देहः अहमेव सुखात् सुखम् ॥ २८.१२॥
अहमेव हि दिव्यात्मा अहमेव हि केवलः ।
वाचामगोचरोऽहं वै अहमेव न चापरः ॥ २८.१३॥
अहमेव हि सर्वात्मा अहमेव सदा प्रियः ।
अहमेव हि भावात्मा अहं वृत्तिविवर्जितः ॥ २८.१४॥
अहमेवापरिच्छिन्न अहमेव निरन्तरः ।
अहमेव हि निश्चिन्त अहमेव हि सद्गुरुः ॥ २८.१५॥
अहमेव सदा साक्षी अहमेवाहमेव हि ।
नाहं गुप्तो न वाऽगुप्तो न प्रकाशात्मकः सदा ॥ २८.१६॥
नाहं जडो न चिन्मात्रः क्वचित् किञ्चित् तदस्ति हि ।
नाहं प्राणो जडत्वं तदत्यन्तं सर्वदा भ्रमः ॥ २८.१७॥
अहमत्यन्तमानन्द अहमत्यन्तनिर्मलः ।
अहमत्यन्तवेदात्मा अहमत्यन्तशाङ्करः ॥ २८.१८॥
अहमित्यपि मे किञ्चिदहमित्यपि न स्मृतिः ।
सर्वहीनोऽहमेवाग्रे सर्वहीनः सुखाच्छुभात् ॥ २८.१९॥
परात् परतरं ब्रह्म परात् परतरः पुमान् ।
परात् परतरोऽहं वै सर्वस्यात् परतः परः ॥ २८.२०॥
सर्वदेहविहीनोऽहं सर्वकर्मविवर्जितः ।
सर्वमन्त्रः प्रशान्तात्मा सर्वान्तःकरणात् परः ॥ २८.२१॥
सर्वस्तोत्रविहीनोऽहं सर्वदेवप्रकाशकः ।
सर्वस्नानविहीनात्मा एकमग्नोऽहमद्वयः ॥ २८.२२॥
आत्मतीर्थे ह्यात्मजले आत्मानन्दमनोहरे ।
आत्मैवाहमिति ज्ञात्वा आत्मारामोवसाम्यहम् ॥ २८.२३॥
आत्मैव भोजनं ह्यात्मा तृप्तिरात्मसुखात्मकः ।
आत्मैव ह्यात्मनो ह्यात्मा आत्मैव परमो ह्यहम् ॥ २८.२४॥
अहमात्माऽहमात्माहमहमात्मा न लौकिकः ।
सर्वात्माहं सदात्माहं नित्यात्माहं गुणान्तरः ॥ २८.२५॥
एवं नित्यं भावयित्वा सदा भावय सिद्धये ।
सिद्धं तिष्ठति चिन्मात्रो निश्चयं मात्रमेव सा ।
निश्चयं च लयं याति स्वयमेव सुखी भव ॥ २८.२६॥
शाखादिभिश्च श्रुतयो ह्यनन्ता-
स्त्वामेकमेव भगवन् बहुधा वदन्ति ।
विष्ण्विन्द्रधातृरविसून्वनलानिलादि
भूतात्मनाथ गणनाथललाम शम्भो ॥ २८.२७॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
आत्मवैलक्षण्यप्रकरणं नाम अष्टाविंशोऽध्यायः ॥
२९ ॥ एकोनत्रिंशोऽध्यायः ॥
ऋभुः -
अत्यन्तं तन्मयं वक्ष्ये दुर्लभं योगिनामपि ।
वेदशास्त्रेषु देवेषु रहस्यमतिदुर्लभम् ॥ २९.१॥
यः परं ब्रह्म सर्वात्मा सच्चिदानन्दविग्रहः ।
सर्वात्मा परमात्मा हि तन्मयो भव सर्वदा ॥ २९.२॥
आत्मरूपमिदं सर्वमाद्यन्तरहितोऽजयः ।
कार्याकार्यमिदं नास्ति तन्मयो भव सर्वदा ॥ २९.३॥
यत्र द्वैतभयं नास्ति यत्राद्वैतप्रबोधनम् ।
शान्ताशान्तद्वयं नास्ति तन्मयो भव सर्वदा ॥ २९.४॥
यत्र सङ्कल्पकं नास्ति यत्र भ्रान्तिर्न विद्यते ।
तदेव हि मतिर्नास्ति तन्मयो भव सर्वदा ॥ २९.५॥
यत्र ब्रह्मणि नास्त्येव यत्र भावि विकल्पनम् ।
यत्र सर्वं जगन्नास्ति तन्मयो भव सर्वदा ॥ २९.६॥
यत्र भावमभावं वा मनोभ्रान्ति विकल्पनम् ।
यत्र भ्रान्तेर्न वार्ता वा तन्मयो भव सर्वदा ॥ २९.७॥
यत्र नास्ति सुखं नास्ति देहोऽहमिति रूपकम् ।
सर्वसङ्कल्पनिर्मुक्तं तन्मयो भव सर्वदा ॥ २९.८॥
यत्र ब्रह्म विना भावो यत्र दोषो न विद्यते ।
यत्र द्वन्द्वभयं नास्ति तन्मयो भव सर्वदा ॥ २९.९॥
यत्र वाक्कायकार्यं वा यत्र कल्पो लयं गतः ।
यत्र प्रपञ्चं नोत्पन्नं तन्मयो भव सर्वदा ॥ २९.१०॥
यत्र माया प्रकाशो न माया कार्यं न किञ्चन ।
यत्र दृश्यमदृश्यं वा तन्मयो भव सर्वदा ॥ २९.११॥
विद्वान् विद्यापि नास्त्येव यत्र पक्षविपक्षकौ ।
न यत्र दोषादोषौ वा तन्मयो भव सर्वदा ॥ २९.१२॥
यत्र विष्णुत्वभेदो न यत्र ब्रह्मा न विद्यते ।
यत्र शङ्करभेदो न तन्मयो भव सर्वदा ॥ २९.१३॥
न यत्र सदसद्भेदो न यत्र कलनापदम् ।
न यत्र जीवकलना तन्मयो भव सर्वदा ॥ २९.१४॥
न यत्र शङ्करध्यानं न यत्र परमं पदम् ।
न यत्र कलनाकारं तन्मयो भव सर्वदा ॥ २९.१५॥
न यत्राणुर्महत्त्वं च यत्र सन्तोषकल्पनम् ।
यत्र प्रपञ्चमाभासं तन्मयो भव सर्वदा ॥ २९.१६॥
न यत्र देहकलनं न यत्र हि कुतूहलम् ।
न यत्र चित्तकलनं तन्मयो भव सर्वदा ॥ २९.१७॥
न यत्र बुद्धिविज्ञानं न यत्रात्मा मनोमयः ।
न यत्र कामकलनं तन्मयो भव सर्वदा ॥ २९.१८॥
न यत्र मोक्षविश्रान्तिर्यत्र बन्धत्वविग्रहः ।
न यत्र शाश्वतं ज्ञानं तन्मयो भव सर्वदा ॥ २९.१९॥
न यत्र कालकलनं यत्र दुःखत्वभावनम् ।
न यत्र देहकलनं तन्मयो भव सर्वदा ॥ २९.२०॥
न यत्र जीववैराग्यं यत्र शास्त्रविकल्पनम् ।
यत्राहमहमात्मत्वं तन्मयो भव सर्वदा ॥ २९.२१॥
न यत्र जीवन्मुक्तिर्वा यत्र देहविमोचनम् ।
यत्र सङ्कल्पितं कार्यं तन्मयो भव सर्वदा ॥ २९.२२॥
न यत्र भूतकलनं यत्रान्यत्वप्रभावनम् ।
न यत्र जीवभेदो वा तन्मयो भव सर्वदा ॥ २९.२३॥
यत्रानन्दपदं ब्रह्म यत्रानन्दपदं सुखम् ।
यत्रानन्दगुणं नित्यं तन्मयो भव सर्वदा ॥ २९.२४॥
न यत्र वस्तुप्रभवं न यत्रापजयोजयः ।
न यत्र वाक्यकथनं तन्मयो भव सर्वदा ॥ २९.२५॥
न यत्रात्मविचाराङ्गं न यत्र श्रवणाकुलम् ।
न यत्र च महानन्दं तन्मयो भव सर्वदा ॥ २९.२६॥
न यत्र हि सजातीयं विजातीयं न यत्र हि ।
न यत्र स्वगतं भेदं तन्मयो भव सर्वदा ॥ २९.२७॥
न यत्र नरको घोरो न यत्र स्वर्गसम्पदः ।
न यत्र ब्रह्मलोको वा तन्मयो भव सर्वदा ॥ २९.२८॥
न यत्र विष्णुसायुज्यं यत्र कैलासपर्वतः ।
ब्रह्माण्डमण्डलं यत्र तन्मयो भव सर्वदा ॥ २९.२९॥
न यत्र भूषणं यत्र दूषणं वा न विद्यते ।
न यत्र समता दोषं तन्मयो भव सर्वदा ॥ २९.३०॥
न यत्र मनसा भावो न यत्र सविकल्पनम् ।
न यत्रानुभवं दुःखं तन्मयो भव सर्वदा ॥ २९.३१॥
यत्र पापभयं नास्ति पञ्चपापादपि क्वचित् ।
न यत्र सङ्गदोषं वा तन्मयो भव सर्वदा ॥ २९.३२॥
यत्र तापत्रयं नास्ति यत्र जीवत्रयं क्वचित् ।
यत्र विश्वविकल्पाख्यं तन्मयो भव सर्वदा ॥ २९.३३॥
न यत्र बोधमुत्पन्नं न यत्र जगतां भ्रमः ।
न यत्र करणाकारं तन्मयो भव सर्वदा ॥ २९.३४॥
न यत्र हि मनो राज्यं यत्रैव परमं सुखम् ।
यत्र वै शाश्वतं स्थानं तन्मयो भव सर्वदा ॥ २९.३५॥
यत्र वै कारणं शान्तं यत्रैव सकलं सुखम् ।
यद्गत्वा न निवर्तन्ते तन्मयो भव सर्वदा ॥ २९.३६॥
यद् ज्ञात्वा मुच्यते सर्वं यद् ज्ञात्वाऽन्यन्न विद्यते ।
यद् ज्ञात्वा नान्यविज्ञानं तन्मयो भव सर्वदा ॥ २९.३७॥
यत्रैव दोषं नोत्पन्नं यत्रैव स्थाननिश्चलः ।
यत्रैव जीवसङ्घातः तन्मयो भव सर्वदा ॥ २९.३८॥
यत्रैव नित्यतृप्तात्मा यत्रैवानन्दनिश्चलम् ।
यत्रैव निश्चलं शान्तं तन्मयो भव सर्वदा ॥ २९.३९॥
यत्रैव सर्वसौख्यं वा यत्रैव सन्निरूपणम् ।
यत्रैव निश्चयाकारं तन्मयो भव सर्वदा ॥ २९.४०॥
न यत्राहं न यत्र त्वं न यत्र त्वं स्वयं स्वयम् ।
यत्रैव निश्चयं शान्तं तन्मयो भव सर्वदा ॥ २९.४१॥
यत्रैव मोदते नित्यं यत्रैव सुखमेधते ।
यत्र दुःखभयं नास्ति तन्मयो भव सर्वदा ॥ २९.४२॥
यत्रैव चिन्मयाकारं यत्रैवानन्दसागरः ।
यत्रैव परमं साक्षात् तन्मयो भव सर्वदा ॥ २९.४३॥
यत्रैव स्वयमेवात्र स्वयमेव तदेव हि ।
स्वस्वात्मनोक्तभेदोऽस्ति तन्मयो भव सर्वदा ॥ २९.४४॥
यत्रैव परमानन्दं स्वयमेव सुखं परम् ।
यत्रैवाभेदकलनं तन्मयो भव सर्वदा ॥ २९.४५॥
न यत्र चाणुमात्रं वा न यत्र मनसो मलम् ।
न यत्र च ददाम्येव तन्मयो भव सर्वदा ॥ २९.४६॥
यत्र चित्तं मृतं देहं मनो मरणमात्मनः ।
यत्र स्मृतिर्लयं याति तन्मयो भव सर्वदा ॥ २९.४७॥
यत्रैवाहं मृतो नूनं यत्र कामो लयं गतः ।
यत्रैव परमानन्दं तन्मयो भव सर्वदा ॥ २९.४८॥
यत्र देवास्त्रयो लीनं यत्र देहादयो मृताः ।
न यत्र व्यवहारोऽस्ति तन्मयो भव सर्वदा ॥ २९.४९॥
यत्र मग्नो निरायासो यत्र मग्नो न पश्यति ।
यत्र मग्नो न जन्मादिस्तन्मयो भव सर्वदा ॥ २९.५०॥
यत्र मग्नो न चाभाति यत्र जाग्रन्न विद्यते ।
यत्रैव मोहमरणं तन्मयो भव सर्वदा ॥ २९.५१॥
यत्रैव कालमरणं यत्र योगो लयं गतः ।
यत्र सत्सङ्गतिर्नष्टा तन्मयो भव सर्वदा ॥ २९.५२॥
यत्रैव ब्रह्मणो रूपं यत्रैवानन्दमात्रकम् ।
यत्रैव परमानन्दं तन्मयो भव सर्वदा ॥ २९.५३॥
यत्र विश्वं क्वचिन्नास्ति यत्र नास्ति ततो जगत् ।
यत्रान्तःकरणं नास्ति तन्मयो भव सर्वदा ॥ २९.५४॥
यत्रैव सुखमात्रं च यत्रैवानन्दमात्रकम् ।
यत्रैव परमानन्दं तन्मयो भव सर्वदा ॥ २९.५५॥
यत्र सन्मात्रचैतन्यं यत्र चिन्मात्रमात्रकम् ।
यत्रानन्दमयं भाति तन्मयो भव सर्वदा ॥ २९.५६॥
यत्र साक्षात् परं ब्रह्म यत्र साक्षात् स्वयं परम् ।
यत्र शान्तं परं लक्ष्यं तन्मयो भव सर्वदा ॥ २९.५७॥
यत्र साक्षादखण्डार्थं यत्र साक्षात् परायणम् ।
यत्र नाशादिकं नास्ति तन्मयो भव सर्वदा ॥ २९.५८॥
यत्र साक्षात् स्वयं मात्रं यत्र साक्षात्स्वयं जयम् ।
यत्र साक्षान्महानात्मा तन्मयो भव सर्वदा ॥ २९.५९॥
यत्र साक्षात् परं तत्त्वं यत्र साक्षात् स्वयं महत् ।
यत्र साक्षात्तु विज्ञानं तन्मयो भव सर्वदा ॥ २९.६०॥
यत्र साक्षाद्गुणातीतं यत्र साक्षाद्धि निर्मलम् ।
यत्र साक्षात् सदाशुद्धं तन्मयो भव सर्वदा ॥ २९.६१॥
यत्र साक्षान्महानात्मा यत्र साक्षात् सुखात् सुखम् ।
यत्रैव ज्ञानविज्ञानं तन्मयो भव सर्वदा ॥ २९.६२॥
यत्रैव हि स्वयं ज्योतिर्यत्रैव स्वयमद्वयम् ।
यत्रैव परमानन्दं तन्मयो भव सर्वदा ॥ २९.६३॥
एवं तन्मयभावोक्तं एवं नित्यशनित्यशः ।
ब्रह्माहं सच्चिदानन्दं अखण्डोऽहं सदा सुखम् ॥ २९.६४॥
विज्ञानं ब्रह्ममात्रोऽहं स शान्तं परमोऽस्म्यहम् ।
चिदहं चित्तहीनोऽहं नाहं सोऽहं भवाम्यहम् ॥ २९.६५॥
तदहं चिदहं सोऽहं निर्मलोऽहमहं परम् ।
परोऽहं परमोऽहं वै सर्वं त्यज्य सुखीभव ॥ २९.६६॥
इदं सर्वं चित्तशेषं शुद्धत्वकमलीकृतम् ।
एवं सर्वं परित्यज्य विस्मृत्वा शुद्धकाष्ठवत् ॥ २९.६७॥
प्रेतवद्देहं संत्यज्य काष्ठवल्लोष्ठवत् सदा ।
स्मरणं च परित्यज्य ब्रह्ममात्रपरो भव ॥ २९.६८॥
एतत् प्रकरणं यस्तु शृणोति सकृदस्ति वा ।
महापातकयुक्तोऽपि सर्वं त्यक्त्वा परं गतः ॥ २९.६९॥
अङ्गावबद्धाभिरुपासनाभि-
र्वदन्ति वेदाः किल त्वामसङ्गम् ।
समस्तहृत्कोशविशेषसङ्गं
भूमानमात्मानमखण्डरूपम् ॥ २९.७०॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
तन्मयभावोपदेशप्रकरणं नाम एकोनत्रिंशोऽध्यायः ॥
३० ॥ त्रिंशोऽध्यायः ॥
ऋभुः -
वक्ष्ये परं ब्रह्ममात्रं जगत्सन्त्यागपूर्वकम् ।
सकृच्छ्रवणमात्रेण ब्रह्मभावं परं लभेत् ॥ ३०.१॥
ब्रह्म ब्रह्मपरं मात्रं निर्गुणं नित्यनिर्मलम् ।
शाश्वतं सममत्यन्तं ब्रह्मणोऽन्यन्न विद्यते ॥ ३०.२॥
अहं सत्यः परानन्दः शुद्धो नित्यो निरञ्जनः ।
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.३॥
अखण्डैकरसैवास्मि परिपूर्णोऽस्मि सर्वदा ।
ब्रह्मैव सर्वं नान्योऽस्ति सर्वं ब्रह्म न संशयः ॥ ३०.४॥
सर्वदा केवलात्माहं सर्वं ब्रह्मेति नित्यशः ।
आनन्दरूपमेवाहं नान्यत् किञ्चिन्न शाश्वतम् ॥ ३०.५॥
शुद्धानन्दस्वरूपोऽहं शुद्धविज्ञानमात्मनः ।
एकाकारस्वरूपोऽहं नैकसत्ताविवर्जितः ॥ ३०.६॥
अन्तरज्ञानशुद्धोऽहमहमेव परायणम् ।
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.७॥
अनेकतत्त्वहीनोऽहं एकत्वं च न विद्यते ।
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.८॥
सर्वप्रकाररूपोऽस्मि सर्वं इत्यपि वर्जितः ।
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.९॥
निर्मलज्ञानरूपोऽहमहमेव न विद्यते ।
शुद्धब्रह्मस्वरूपोऽहं विशुद्धपदवर्जितः ॥ ३०.१०॥
नित्यानन्दस्वरूपोऽहं ज्ञानानन्दमहं सदा ।
सूक्ष्मात् सूक्ष्मतरोऽहं वै सूक्ष्म इत्यादिवर्जितः ॥ ३०.११॥
अखण्डानन्दमात्रोऽहं अखण्डानन्दविग्रहः ।
सदाऽमृतस्वरूपोऽहं सदा कैवल्यविग्रहः ॥ ३०.१२॥
ब्रह्मानन्दमिदं सर्वं नास्ति नास्ति कदाचन ।
जीवत्वधर्महीनोऽहमीश्वरत्वविवर्जितः ॥ ३०.१३॥
वेदशास्त्रस्वरूपोऽहं शास्त्रस्मरणकारणम् ।
जगत्कारणकार्यं च ब्रह्मविष्णुमहेश्वराः ॥ ३०.१४॥
वाच्यवाचकभेदं च स्थूलसूक्ष्मशरीरकम् ।
जाग्रत्स्वप्नसुषुप्ताद्यप्राज्ञतैजसविश्वकाः ॥ ३०.१५॥
सर्वशास्त्रस्वरूपोऽहं सर्वानन्दमहं सदा ।
अतीतनामरूपार्थ अतीतः सर्वकल्पनात् ॥ ३०.१६॥
द्वैताद्वैतं सुखं दुःखं लाभालाभौ जयाजयौ ।
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.१७॥
सात्त्विकं राजसं भेदं संशयं हृदयं फलम् ।
दृक् दृष्टं सर्वद्रष्टा च भूतभौतिकदैवतम् ॥ ३०.१८॥
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ।
तुर्यरूपमहं साक्षात् ज्ञानरूपमहं सदा ॥ ३०.१९॥
अज्ञानं चैव नास्त्येव तत्कार्यं कुत्र विद्यते ।
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.२०॥
चित्तवृत्तिविलासं च बुद्धीनामपि नास्ति हि ।
देहसङ्कल्पहीनोऽहं बुद्धिसङ्कल्पकल्पना ॥ ३०.२१॥
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ।
बुद्धिनिश्चयरूपोऽहं निश्चयं च गलत्यहो ॥ ३०.२२॥
अहंकारं बहुविधं देहोऽहमिति भावनम् ।
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.२३॥
ब्रह्माहमपि काणोऽहं बधिरोऽहं परोऽस्म्यहम् ।
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.२४॥
देहोऽहमिति तादात्म्यं देहस्य परमात्मनः ।
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.२५॥
सर्वोऽहमिति तादात्म्यं सर्वस्य परमात्मनः ।
इति भावय यत्नेन ब्रह्मैवाहमिति प्रभो ॥ ३०.२६॥
दृढनिश्चयमेवेदं सत्यं सत्यमहं परम् ।
दृढनिश्चयमेवात्र सद्गुरोर्वाक्यनिश्चयम् ॥ ३०.२७॥
दृढनिश्चयसाम्राज्ये तिष्ठ तिष्ठ सदा परः ।
अहमेव परं ब्रह्म आत्मानन्दप्रकाशकः ॥ ३०.२८॥
शिवपूजा शिवश्चाहं विष्णुर्विष्णुप्रपूजनम् ।
यद्यत् संवेद्यते किञ्चित् यद्यन्निश्चीयते क्वचित् ॥ ३०.२९॥
तदेव त्वं त्वमेवाहं इत्येवं नास्ति किञ्चन ।
इदं चित्तमिदं दृश्यं इत्येवमिति नास्ति हि ॥ ३०.३०॥
सदसद्भावशेषोऽपि तत्तद्भेदं न विद्यते ।
सुखरूपमिदं सर्वं सुखरूपमिदं न च ॥ ३०.३१॥
लक्षभेदं सकृद्भेदं सर्वभेदं न विद्यते ।
ब्रह्मानन्दो न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.३२॥
ब्रह्मभेदं तुर्यभेदं जीवभेदमभेदकम् ।
इदमेव हि नोत्पन्नं सर्वदा नास्ति किञ्चन ॥ ३०.३३॥
स देवमिति निर्देशो नास्ति नास्त्येव सर्वदा ।
अस्ति चेत् किल वक्तव्यं नास्ति चेत् कथमुच्यते ॥ ३०.३४॥
परं विशेषमेवेति नास्ति किञ्चित् सदा मयि ।
चञ्चलं मनश्चैव नास्ति नास्ति न संशयः ॥ ३०.३५॥
एवमेव सदा पूर्णो निरीहस्तिष्ठ शान्तधीः ।
सर्वं ब्रह्मास्मि पूर्णोऽस्मि एवं च न कदाचन ॥ ३०.३६॥
आनन्दोऽहं वरिष्ठोऽहं ब्रह्मास्मीत्यपि नास्ति हि ।
ब्रह्मानन्दमहानन्दमात्मानन्दमखण्डितम् ॥ ३०.३७॥
इदं परमहन्ता च सर्वदा नास्ति किञ्चन ।
इदं सर्वमिति ख्याति आनन्दं नेति नो भ्रमः ॥ ३०.३८॥
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ।
लक्ष्यलक्षणभावं च दृश्यदर्शनदृश्यता ॥ ३०.३९॥
अत्यन्ताभावमेवेति सर्वदानुभवं महत् ।
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.४०॥
गुह्यं मन्त्रं गुणं शास्त्रं सत्यं श्रोत्रं कलेवरम् ।
मरणं जननं कार्यं कारणं पावनं शुभम् ॥ ३०.४१॥
कामक्रोधौ लोभमोहौ मदो मात्सर्यमेव हि ।
द्वैतदोषं भयं शोकं सर्वं नास्त्येव सर्वदा ॥ ३०.४२॥
इदं नास्त्येव नास्त्येव नास्त्येव सकलं सुखम् ।
इदं ब्रह्मेति मननमहं ब्रह्मेति चिन्तनम् ॥ ३०.४३॥
अहं ब्रह्मेति मननं त्वं ब्रह्मत्वविनाशनम् ।
सत्यत्वं ब्रह्मविज्ञानं असत्यत्वं न बाध्यते ॥ ३०.४४॥
एक एव परो ह्यात्मा एकत्वश्रान्तिवर्जितः ।
सर्वं ब्रह्म सदा ब्रह्म तद्ब्रह्माहं न संशयः ॥ ३०.४५॥
जीवरूपा जीवभावा जीवशब्दत्रयं न हि ।
ईशरूपं चेशभावं ईशशब्दं च कल्पितम् ॥ ३०.४६॥
नाक्षरं न च सर्वं वा न पदं वाच्यवाचकम् ।
हृदयं मन्त्रतन्त्रं च चित्तं बुद्धिर्न किञ्चन ॥ ३०.४७॥
मूढो ज्ञानी विवेकी वा शुद्ध इत्यपि नास्ति हि ।
निश्चयं प्रणवं तारं आत्मायं गुरुशिष्यकम् ॥ ३०.४८॥
तूष्णीं तूष्णीं महातूष्णीं मौनं वा मौनभावनम् ।
प्रकाशनं प्रकाशं च आत्मानात्मविवेचनम् ॥ ३०.४९॥
ध्यानयोगं राजयोगं भोगमष्टाङ्गलक्षणम् ।
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.५०॥
अस्तित्वभाषणं चापि नास्तित्वस्य च भाषणम् ।
पञ्चाशद्वर्णरूपोऽहं चतुःषष्टिकलात्मकः ॥ ३०.५१॥
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ।
ब्रह्मैवाहं प्रसन्नात्मा ब्रह्मैवाहं चिदव्ययः ॥ ३०.५२॥
शास्त्रज्ञानविदूरोऽहं वेदज्ञानविदूरकः ।
उक्तं सर्वं परं ब्रह्म नास्ति सन्देहलेशतः ॥ ३०.५३॥
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ।
ब्रह्मैवाहं प्रसन्नात्मा ब्रह्मैवाहं चिदव्ययः ॥ ३०.५४॥
इत्येवं ब्रह्मतन्मात्रं तत्र तुभ्यं प्रियं ततः ।
यस्तु बुद्ध्येत सततं सर्वं ब्रह्म न संशयः ।
नित्यं शृण्वन्ति ये मर्त्यास्ते चिन्मात्रमयामलाः ॥ ३०.५५॥
सन्देहसन्देहकरोऽर्यकास्वकैः
करादिसन्दोहजगद्विकारिभिः ।
यो वीतमोहं न करोति दुर्हृदं
विदेहमुक्तिं शिवदृक्प्रभावतः ॥ ३०.५६॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
ब्रह्मैकरूपत्वनिरूपणप्रकरणं नाम त्रिंशोऽध्यायः ॥
३१ ॥ एकत्रिंशोऽध्यायः ॥
ऋभुः -
वक्ष्ये रहस्यमत्यन्तं साक्षाद्ब्रह्मप्रकाशकम् ।
सर्वोपनिषदामर्थं सर्वलोकेषु दुर्लभम् ॥ ३१.१॥
प्रज्ञानं ब्रह्म निश्चित्य पदद्वयसमन्वितम् ।
महावाक्यं चतुर्वाक्यं ऋग्यजुःसामसंभवम् ॥ ३१.२॥
मम प्रज्ञैव ब्रह्माहं ज्ञानमात्रमिदं जगत् ।
ज्ञानमेव जगत् सर्वं ज्ञानादन्यन्न विद्यते ॥ ३१.३॥
ज्ञानस्यानन्तरं सर्वं दृश्यते ज्ञानरूपतः ।
ज्ञानस्य ब्रह्मणश्चापि ममेव पृथङ् न हि ॥ ३१.४॥
जीवः प्रज्ञानशब्दस्य ब्रह्मशब्दस्य चेश्वरः ।
ऐक्यमस्मीत्यखण्डार्थमखण्डैकरसं ततम् ॥ ३१.५॥
अखण्डाकारवृत्तिस्तु जीवन्मुक्तिरितीरितम् ।
अखण्डैकरसं वस्तु विदेहो मुक्तिरुच्यते ॥ ३१.६॥
ब्रह्मैवाहं न संसारी सच्चिदानन्दमस्म्यहम् ।
निर्गुणोऽहं निरंशोऽहं परमानन्दवानहम् ॥ ३१.७॥
नित्योऽहं निर्विकल्पोऽहं चिदहं चिदहं सदा ।
अखण्डाकारवृत्त्याख्यं चित्तं ब्रह्मात्मना स्थितम् ॥ ३१.८॥
लवणं तोयमात्रेण यथैकत्वमखण्डितम् ।
अखण्डैकरसं वक्ष्ये विदेहो मुक्तिलक्षणम् ॥ ३१.९॥
प्रज्ञापदं परित्यज्य ब्रह्मैव पदमेव हि ।
अहमस्मि महानस्मि सिद्धोऽस्मीति परित्यजन् ॥ ३१.१०॥
स्मरणं च परित्यज्य भावनं चित्तकर्तृकम् ।
सर्वमन्तः परित्यज्य सर्वशून्यं परिस्थितिः ॥ ३१.११॥
तूष्णीं स्थितिं च सन्त्यज्य ततो मौनविकल्पनम् ।
यत्तच्चित्तं विकल्पांशं मनसा कल्पितं जगत् ॥ ३१.१२॥
देहोऽहमित्यहङ्कारं द्वैतवृत्तिरितीरितम् ।
सर्वं साक्षिरहं ब्रह्म इत्येवं दृढनिश्चयम् ॥ ३१.१३॥
सर्वदाऽसंशयं ब्रह्म साक्षिवृत्तिरितीरितम् ।
द्वैतवृत्तिः साक्षवृत्तिरखण्डाकारवृत्तिकम् ॥ ३१.१४॥
अखण्डैकरसं चेति लोके वृत्तित्रयं भवेत् ।
प्रथमे निश्चिते द्वैते द्वितीये साक्षिसंशयः ॥ ३१.१५॥
तृतीये पदभागे हि दृढनिश्चयमीरितम् ।
एतत्त्रयार्थं संशोध्य तं परित्यज्य निश्चिनु ॥ ३१.१६॥
अखण्डैकरसाकारो नित्यं तन्मयतां व्रज ।
अभ्यासवाक्यमेतत्तु सदाऽभ्यासस्य कारणम् ॥ ३१.१७॥
मननस्य परं वाक्यं योऽयं चन्दनवृक्षवत् ।
युक्तिभिश्चिन्तनं वृत्तं पदत्रयमुदाहृतम् ॥ ३१.१८॥
अहं पदस्य जीवोऽर्थ ईशो ब्रह्मपदस्य हि ।
अस्मीति पदभागस्य अखण्डाकारवृत्तिकम् ॥ ३१.१९॥
पदत्रयं परित्यज्य विचार्य मनसा सह ।
अखण्डैकरसं प्राप्य विदेहो मुक्तिलक्षणम् ॥ ३१.२०॥
अहं ब्रह्मास्मि चिन्मात्रं सच्चिदानन्दविग्रहः ।
अहं ब्रह्मास्मि वाक्यस्य श्रवणानन्तरं सदा ॥ ३१.२१॥
अहं ब्रह्मास्मि नित्योऽस्मि शान्तोऽस्मि परमोऽस्म्यहम् ।
निर्गुणोऽहं निरीहोऽहं निरंशोऽस्मि सदा स्मृतः ॥ ३१.२२॥var was निर्यशोऽस्मि
आत्मैवास्मि न सन्देहः अखण्डैकरसोऽस्म्यहम् ।
एवं निरन्तरं तज्ज्ञो भावयेत् परमात्मनि ॥ ३१.२३॥
यथा चानुभवं वाक्यं तस्मादनुभवेत् सदा ।
आरंभाच्च द्वितीयात्तु स्मृतमभ्यासवाक्यतः ॥ ३१.२४॥
तृतीयान्तत्त्वमस्येति वाक्यसामान्यनिर्णयम् ।
तत्पदं त्वंपदं त्वस्य पदत्रयमुदाहृतम् ॥ ३१.२५॥
तत्पदस्येश्वरो ह्यर्थो जीवोऽर्थस्त्वंपदस्य हि ।
ऐक्यस्यापि पदस्यार्थमखण्डैकरसं पदम् ॥ ३१.२६॥
द्वैतवृत्तिः साक्षवृत्तिरखण्डाकारवृत्तिकः ।
अखण्डं सच्चिदानन्दं तत्त्वमेवासि निश्चयः ॥ ३१.२७॥
त्वं ब्रह्मासि न सन्देहस्त्वमेवासि चिदव्ययः ।
त्वमेव सच्चिदानन्दस्त्वमेवाखण्डनिश्चयः ॥ ३१.२८॥
इत्येवमुक्तो गुरुणा स एव परमो गुरुः ।
अहं ब्रह्मेति निश्चित्य सच्छिष्यः परमात्मवान् ॥ ३१.२९॥
नान्यो गुरुर्नान्यशिष्यस्त्वं ब्रह्मासि गुरुः परः ।
सर्वमन्त्रोपदेष्टारो गुरवः स गुरुः परः ॥ ३१.३०॥
त्वं ब्रह्मासीति वक्तारं गुरुरेवेति निश्चिनु ।
तथा तत्त्वमसि ब्रह्म त्वमेवासि च सद्गुरुः ॥ ३१.३१॥
सद्गुरोर्वचने यस्तु निश्चयं तत्त्वनिश्चयम् ।
करोति सततं मुक्तेर्नात्र कार्या विचारणा ॥ ३१.३२॥
महावाक्यं गुरोर्वाक्यं तत्त्वमस्यादिवाक्यकम् ।
शृणोतु श्रवणं चित्तं नान्यत् श्रवणमुच्यते ॥ ३१.३३॥
सर्ववेदान्तवाक्यानामद्वैते ब्रह्मणि स्थितिः ।
इत्येवं च गुरोर्वक्त्रात् श्रुतं ब्रह्मेति तच्छ्रवः ॥ ३१.३४॥
गुरोर्नान्यो मन्त्रवादी एक एव हि सद्गुरुः ।
त्वं ब्रह्मासीति येनोक्तं एष एव हि सद्गुरुः ॥ ३१.३५॥
वेदान्तश्रवणं चैतन्नान्यच्छ्रवणमीरितम् ।
युक्तिभिश्चिन्तनं चैव मननं परिकथ्यते ॥ ३१.३६॥
एवं चन्दनवृक्षोऽपि श्रुतोऽपि परिशोध्यते ।
त्वं ब्रह्मासीति चोक्तोऽपि संशयं परिपश्यति ॥ ३१.३७॥
संशोध्य निश्चिनोत्येवमात्मानं परिशोध्यते ।
युक्तिर्नाम वदाम्यत्र देहोनाहं विनाशतः ॥ ३१.३८॥
स्थूलदेहं सूक्ष्मदेहं स्थूलसूक्ष्मं च कारणम् ।
त्रयं चथुर्थे नास्तीति सर्वं चिन्मात्रमेव हि ॥ ३१.३९॥
एतत्सर्वं जडत्वाच्च दृश्यत्वाद्घटवन्नहि ।
अहं चैतन्यमेवात्र दृग्रूपत्वाल्लयं न हि ॥ ३१.४०॥
सत्यं ज्ञानमनन्तं यदात्मनः सहजा गुणाः ।
अन्ततं जडदुःखादि जगतः प्रथितो गुणः ॥ ३१.४१॥
तस्मादहं ब्रह्म एव इदं सर्वमसत्यकम् ।
एवं च मननं नित्यं करोति ब्रह्मवित्तमः ॥ ३१.४२॥
वक्ष्ये निदिध्यासनं च उभयत्यागलक्षणम् ।
त्वं ब्रह्मासीति श्रवणं मननं चाहमेव हि ॥ ३१.४३॥
एतत्त्यागं निदिध्यासं सजातीयत्वभावनम् ।
विजातीयपरित्यागं स्वगतत्वविभावनम् ॥ ३१.४४॥
सर्वत्यागं परित्यज्य तुरीयत्वं च वर्जनम् ।
ब्रह्मचिन्मात्रसारत्वं साक्षात्कारं प्रचक्षते ॥ ३१.४५॥
उपदेशे महावाक्यमस्तित्वमिति निर्णयः ।
तथैवानुभवं वाक्यमहं ब्रह्मास्मि निर्णयः ॥ ३१.४६॥
प्रज्ञानं ब्रह्मवाक्योत्थमभ्यासार्थमितीरितम् ।
अयमात्मेति वाक्योत्थदर्शनं वाक्यमीरितम् ॥ ३१.४७॥
अयमेकपदं चैक आत्मेति ब्रह्म च त्रयम् ।
अयंपदस्य जीवोऽर्थ आत्मनो ईश्वरः परः ॥ ३१.४८॥
तथा ब्रह्मपदस्यार्थ अखण्डाकारवृत्तिकम् ।
अखण्डैकरसं सर्वं पदत्रयलयं गतम् ॥ ३१.४९॥
अखण्डैकरसो ह्यात्मा नित्यशुद्धविमुक्तकः ।
तदेव सर्वमुद्भूतं भविष्यति न संशयः ॥ ३१.५०॥
अखण्डैकरसो देव अयमेकमुदीरितम् ।
आत्मेति पदमेकस्य ब्रह्मेति पदमेककम् ॥ ३१.५१॥
अयं पदस्य जीवोऽर्थ आत्मेतीश्वर ईरितः ।
अस्यार्थोऽस्मीत्यखण्डार्थमखण्डैकरसं पदम् ॥ ३१.५२॥
द्वैतवृत्तिः साक्षिवृत्तिरखण्डाकारवृत्तिकम् ।
अखण्डैकरसं पश्चात् सोऽहमस्मीति भावय ॥ ३१.५३॥
इत्येवं च चतुर्वाक्यतात्पर्यार्थं समीरितम् ।
उपाधिसहितं वाक्यं केवलं लक्ष्यमीरितम् ॥ ३१.५४॥
किञ्चिज्ज्ञत्वादि जीवस्य सर्व ज्ञत्वादि चेश्वरः ।
जीवोऽपरो सचैतन्यमीश्वरोऽहं परोक्षकः ॥ ३१.५५॥
सर्वशून्यमिति त्याज्यं ब्रह्मास्मीति विनिश्चयः ।
अहं ब्रह्म न सन्देहः सच्चिदानन्दविग्रहः ॥ ३१.५६॥
अहमैक्यं परं गत्वा स्वस्वभावो भवोत्तम ।
एतत्सर्वं महामिथ्या नास्ति नास्ति न संशयः ॥ ३१.५७॥
सर्वं नास्ति न सन्देहः सर्वं ब्रह्म न संशयः ।
एकाकारमखण्डार्थं तदेवाहं न संशयः ।
ब्रह्मेदं वितताकारं तद्ब्रह्माहं न संशयः ॥ ३१.५८॥
सूतः -
भवोद्भवमुखोद्भवं भवहराद्यहृद्यं भुवि
प्रकृष्टरसभावतः प्रथितबोधबुद्धं भव ।
भजन्ति भसिताङ्गका भरितमोदभारादरा
भुजङ्गवरभूषणं भुवनमध्यवृन्दावनम् ॥ ३१.५९॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
महावाक्यार्थनिरूपणप्रकरणं नाम एकत्रिंशोऽध्यायः ॥
३२ ॥ द्वात्रिंशोऽध्यायः ॥
ऋभुः -
वक्ष्ये पुनरसत्त्यागं ब्रह्मनिश्चयमेव च ।
यस्य श्रवणमात्रेण सद्यो मुक्तो भवेन्नरः ॥ ३२.१॥
चित्तसत्ता मनःसत्ता ब्रह्मसत्ताऽन्यथा स्थिता ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२॥
देहसत्ता लिङ्गसत्ता भावसत्ताऽक्षरा स्थिता ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.३॥
दृश्यं च दर्शनं दृष्टा कर्ता कारयिता क्रिया ।var was द्रष्टा
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.४॥
एकं द्वित्वं पृथग्भावं अस्ति नास्तीति निर्णयः ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.५॥
शास्त्रभेदं वेदभेदं मुक्तीनां भेदभावनम् ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.६॥
जातिभेदं वर्णभेदं शुद्धाशुद्धविनिर्णयः ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.७॥
अखण्डाकारवृत्तिश्च अखण्डैकरसं परम् ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.८॥
परापरविकल्पश्च पुण्यपापविकल्पनम् ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.९॥
कल्पनाकल्पनाद्वैतं मनोकल्पनभावनम् ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१०॥
सिद्धं साध्यं साधनं च नाशनं ब्रह्मभावनम् ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.११॥
आत्मज्ञानं मनोधर्मं मनोऽभावे कुतो भवेत् ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१२॥
अज्ञानं च मनोधर्मस्तदभावे च तत्कुतः ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१३॥
शमो दमो मनोधर्मस्तदभावे च तत्कुतः ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१४॥
बन्धमोक्षौ मनोधर्मौ तदभावे कुतो भवेत् ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१५॥
सर्वं मिथ्या जगन्मिथ्या देहो मिथ्या जडत्वतः ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१६॥
ब्रह्मलोकः सदा मिथ्या बुद्धिरूपं तदेव हि ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१७॥
विष्णुलोकः सदा मिथ्या शिवमेव हि सर्वदा ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१८॥
रुद्रलोकः सदा मिथ्या अहंकारस्वरूपतः ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१९॥
चन्द्रलोकः सदा मिथ्या मनोरूपविकल्पनम् ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२०॥
दिशो लोकः सदा मिथ्या श्रोत्रशब्दसमन्वितः ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२१॥
सूर्यलोकः सदा मिथ्या नेत्ररूपसमन्वितः ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२२॥
वरुणस्य सदा लोको जिह्वारससमन्वितः ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२३॥
त्वचो लोकः सदा मिथ्या वायोः स्पर्शसमन्वितः ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२४॥
अश्विनोर्घ्राणलोकश्च गन्धद्वैतसमन्वितः ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२५॥
अग्नेर्लोकः सदा मिथ्या वागेव वचनेन तत् ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२६॥
इन्द्रलोकः सदा मिथ्या पाणिपादेन संयुतः ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२७॥
उपेन्द्रस्य महर्लोको गमनेन पदं युतम् ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२८॥
मृत्युरेव सदा नास्ति पायुरेव विसर्गकम् ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२९॥
प्रजापतेर्महर्लोको गुह्यमानन्दसंयुतम् ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.३०॥
सर्वं मिथ्या न सन्देहः सर्वमात्मेति निश्चितम् ।
तितिक्षोश्च समाधानं श्रद्धा चाचार्यभाषणे ॥ ३२.३१॥
मुमुक्षुत्वं च मोक्षश्च मोक्षार्थे मम जीवने ।
चतुःसाधनसम्पन्नः सोऽधिकारीति निश्चयः ॥ ३२.३२॥
जीवब्रह्मैक्यसद्भावं वियद्ब्रह्मेति निश्चयः ।
वेदान्तब्रह्मणो बोध्यं बोधकं बन्धमुच्यते ॥ ३२.३३॥
सर्वज्ञाननिर्वृत्तिश्चेदानन्दावाप्तिकं फलम् ।var was निवृत्ति
इत्येवमादिभिः शब्दैः प्रोक्तं सर्वमसत् सदा ॥ ३२.३४॥
सर्वशब्दार्थरूपं च निश्चयं भावनं तथा ।
ब्रह्ममात्रं परं सत्यमन्यत् सर्वमसत् सदा ॥ ३२.३५॥
अनेकशब्दश्रवणमनेकार्थविचारणम् ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.३६॥
नानुध्यायाद्ब्रह्मशब्दान् इत्युक्त्वा ह महानसि ।
ब्रह्मोपदेशकाले तु सर्वं चोक्तं न संशयः ॥ ३२.३७॥
ब्रह्मैवाहमिदं द्वैतं चित्तसत्ताविभावनम् ।
चिन्मात्रोऽहमिदं द्वैतं जीवब्रह्मेति भावनम् ॥ ३२.३८॥
अहं चिन्मात्रमन्त्रं वा कार्यकारणचिन्तनम् ।
अक्षयानन्दविज्ञानमखण्डैकरसाद्वयम् ॥ ३२.३९॥
परं ब्रह्म इदं ब्रह्म शान्तं ब्रह्म स्वयं जगत् ।
अन्तरिन्द्रियविज्ञानं बाह्येन्द्रियनिरोधनम् ॥ ३२.४०॥
सर्वोपदेशकालं च साम्यं शेषं महोदयम् ।
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ॥ ३२.४१॥
कारणं कार्यभेदं च शास्त्रमार्गैककल्पनम् ।
अहं ब्रह्म इदं ब्रह्म सर्वं ब्रह्मेति शब्दतः ॥ ३२.४२॥
सत्यरूपं क्वचिन्नास्ति सत्यं नाम कदा नहि ।
संशयं च विपर्यासं सङ्कल्पः कारणं भ्रमः ॥ ३२.४३॥
आत्मनोऽन्यत् क्वचिन्नास्ति सर्वं मिथ्या न संशयः ।
महतां ह्यद्यते मन्त्री मेधाशुद्धिशुभाशुभम् ॥ ३२.४४॥
देशभेदं वस्तुभेदं न च चैतन्यभेदकम् ।
आत्मनोऽन्यत् पृथग्भावमात्मनोऽन्यन्निरूपणम् ॥ ३२.४५॥
आत्मनोऽन्यन्नामरूपमात्मनोऽन्यच्छुभाशुभम् ।
आत्मनोऽन्यद्वस्तुसत्ता आत्मनोऽन्यज्जगत्त्रयम् ॥ ३२.४६॥
आत्मनोऽन्यत् सुःखं दुःखमात्मनोऽन्यद्विचिन्तनम् ।
आत्मनोऽन्यत्प्रपञ्चं वा आत्मनोऽन्यज्जयाजयौ ॥ ३२.४७॥
आत्मनोऽन्यद्देवपूजा आत्मनोऽन्यच्छिवार्चनम् ।
आत्मनोऽन्यन्महाध्यानमात्मनोऽन्यत् कलाक्रमम् ॥ ३२.४८॥
सर्वं मिथ्या न सन्देहो ब्रह्म सर्वं न संशयः ।
सर्वमुक्तं भगवता निदिध्यासस्तु सर्वदा ॥ ३२.४९॥
सकृच्छ्रवणमात्रेण हृदयग्रन्थिरन्तिमम् ।
कर्मनाशं च मूढानां महतां मुक्तिरेव हि ॥ ३२.५०॥
अनेककोटिजननपातकं भस्मसाद्भवेत् ।
सत्यं सत्यं पुनः सत्यं सत्यं सर्वं विनश्यति ।
सद्यो मुक्तिर्न सन्देहो नास्ति मङ्गलमङ्गलम् ॥ ३२.५१॥
क्व भेदभावदर्शनं न चैव शोकमोहहृत्
प्रपश्यतां श्रुते शिखाविशेषमैक्यभावनात् ।
यतो भवेज्जगाद तं महेश येन जीवितं
यदन्तराऽविशत् सदा यथोर्णनाभतन्तुवत् ॥ ३२.५२॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
सर्वमिथ्यात्वनिरूपणप्रकरणं नाम द्वात्रिंशोऽध्यायः ॥
३३ ॥ त्रयस्त्रिंशोऽध्यायः ॥
ऋभुः -
वक्ष्ये परं ब्रह्ममात्रमनुत्पन्नमिदं जगत् ।
सत्पदानन्दमात्रोऽहमनुत्पन्नमिदं जगत् ॥ ३३.१॥
आत्मैवाहं परं ब्रह्म नान्यत् संसारदृष्टयः ।
सत्पदानन्दमात्रोऽहमनुत्पन्नमिदं जगत् ॥ ३३.२॥
सत्पदानन्दमात्रोऽहं चित्पदानन्दविग्रहम् ।
अहमेवाहमेवैकमहमेव परात् परः ॥ ३३.३॥
सच्चिदानदमेवैकमहं ब्रह्मैव केवलम् ।
अहमस्मि सदा भामि एवं रूपं कुतोऽप्यसत् ॥ ३३.४॥
त्वमित्येवं परं ब्रह्म चिन्मयानन्दरूपवान् ।
चिदाकारं चिदाकाशं चिदेव परमं सुखम् ॥ ३३.५॥
आत्मैवाहमसन्नाहं कूटस्थोऽहं गुरुः परः ।
कालं नास्ति जगन्नास्ति कल्मषत्वानुभावनम् ॥ ३३.६॥
अहमेव परं ब्रह्म अहमेव सदा शिवः ।
शुद्धचैतन्य एवाहं शुद्धसत्वानुभावनः ॥ ३३.७॥
अद्वयानन्दमात्रोऽहमव्ययोऽहं महानहम् ।
सर्वं ब्रह्मैव सततं सर्वं ब्रह्मैव निर्मलः ॥ ३३.८॥
सर्वं ब्रह्मैव नान्योऽस्ति सर्वं ब्रह्मैव चेतनः ।
सर्वप्रकाशरूपोऽहं सर्वप्रियमनो ह्यहम् ॥ ३३.९॥
एकान्तैकप्रकाशोऽहं सिद्धासिद्धविवर्जितः ।
सर्वान्तर्यामिरूपोऽहं सर्वसाक्षित्वलक्षणम् ॥ ३३.१०॥
शमो विचारसन्तोषरूपोऽहमिति निश्चयः ।
परमात्मा परं ज्योतिः परं परविवर्जितः ॥ ३३.११॥
परिपूर्णस्वरूपोऽहं परमात्माऽहमच्युतः ।
सर्ववेदस्वरूपोऽहं सर्वशास्त्रस्य निर्णयः ॥ ३३.१२॥
लोकानन्दस्वरूपोऽहं मुख्यानन्दस्य निर्णयः ।
सर्वं ब्रह्मैव भूर्नास्ति सर्वं ब्रह्मैव कारणम् ॥ ३३.१३॥
सर्वं ब्रह्मैव नाकार्यं सर्वं ब्रह्म स्वयं वरः ।
नित्याक्षरोऽहं नित्योऽहं सर्वकल्याणकारकम् ॥ ३३.१४॥
सत्यज्ञानप्रकाशोऽहं मुख्यविज्ञानविग्रहः ।
तुर्यातुर्यप्रकाशोऽहं सिद्धासिद्धादिवर्जितः ॥ ३३.१५॥
सर्वं ब्रह्मैव सततं सर्वं ब्रह्म निरन्तरम् ।
सर्वं ब्रह्म चिदाकाशं नित्यब्रह्म निरञ्जनम् ॥ ३३.१६॥
सर्वं ब्रह्म गुणातीतं सर्वं ब्रह्मैव केवलम् ।
सर्वं ब्रह्मैव इत्येवं निश्चयं कुरु सर्वदा ॥ ३३.१७॥
ब्रह्मैव सर्वमित्येवं सर्वदा दृढनिश्चयः ।
सर्वं ब्रह्मैव इत्येवं निश्चयित्वा सुखी भव ॥ ३३.१८॥
सर्वं ब्रह्मैव सततं भावाभावौ चिदेव हि ।
द्वैताद्वैतविवादोऽयं नास्ति नास्ति न संशयः ॥ ३३.१९॥
सर्वविज्ञानमात्रोऽहं सर्वं ब्रह्मेति निश्चयः ।
गुह्याद्गुह्यतरं सोऽहं गुणातीतोऽहमद्वयः ॥ ३३.२०॥
अन्वयव्यतिरेकं च कार्याकार्यं विशोधय ।
सच्चिदानन्दरूपोऽहमनुत्पन्नमिदं जगत् ॥ ३३.२१॥
ब्रह्मैव सर्वमेवेदं चिदाकाशमिदं जगत् ।
ब्रह्मैव परमानन्दं आकाशसदृशं विभु ॥ ३३.२२॥
ब्रह्मैव सच्चिदानन्दं सदा वाचामगोचरम् ।
ब्रह्मैव सर्वमेवेदमस्ति नास्तीति केचन ॥ ३३.२३॥
आनन्दभावना किञ्चित् सदसन्मात्र एव हि ।
ब्रह्मैव सर्वमेवेदं सदा सन्मात्रमेव हि ॥ ३३.२४॥
ब्रह्मैव सर्वमेवदं चिद्घनानन्दविग्रहम् ।
ब्रह्मैव सच्च सत्यं च सनातनमहं महत् ॥ ३३.२५॥
ब्रह्मैव सच्चिदानन्दं ओतप्रोतेव तिष्ठति ।
ब्रह्मैव सच्चिदानन्दं सर्वाकारं सनातनम् ॥ ३३.२६॥
ब्रह्मैव सच्चिदानन्दं परमानदमव्ययम् ।
ब्रह्मैव सच्चिदानन्दं मायातीतं निरञ्जनम् ॥ ३३.२७॥
ब्रह्मैव सच्चिदानन्दं सत्तामात्रं सुखात् सुखम् ।
ब्रह्मैव सच्चिदानन्दं चिन्मात्रैकस्वरूपकम् ॥ ३३.२८॥
ब्रह्मैव सच्चिदानन्दं सर्वभेदविवर्जितम् ।
सच्चिदानन्दं ब्रह्मैव नानाकारमिव स्थितम् ॥ ३३.२९॥
ब्रह्मैव सच्चिदानन्दं कर्ता चावसरोऽस्ति हि ।
सच्चिदानदं ब्रह्मैव परं ज्योतिः स्वरूपकम् ॥ ३३.३०॥
ब्रह्मैव सच्चिदानन्दं नित्यनिश्चलमव्ययम् ।
ब्रह्मैव सच्चिदानन्दं वाचावधिरसावयम् ॥ ३३.३१॥
ब्रह्मैव सच्चिदानन्दं स्वयमेव स्वयं सदा ।
ब्रह्मैव सच्चिदानन्दं न करोति न तिष्ठति ॥ ३३.३२॥
ब्रह्मैव सच्चिदानन्दं न गच्छति न तिष्ठति ।
ब्रह्मैव सच्चिदानन्दं ब्रह्मणोऽन्यन्न किञ्चन ॥ ३३.३३॥
ब्रह्मैव सच्चिदानन्दं न शुक्लं न च कृष्णकम् ।
ब्रह्मैव सच्चिदानन्दं सर्वाधिष्ठानमव्ययम् ॥ ३३.३४॥
ब्रह्मैव सच्चिदानन्दं न तूष्णीं न विभाषणम् ।
ब्रह्मैव सच्चिदानन्दं सत्त्वं नाहं न किञ्चन ॥ ३३.३५॥
ब्रह्मैव सच्चिदानन्दं परात्परमनुद्भवम् ।
ब्रह्मैव सच्चिदानन्दं तत्त्वातीतं महोत्सवम् ॥ ३३.३६॥
ब्रह्मैव सच्चिदानन्दं परमाकाशमाततम् ।
ब्रह्मैव सच्चिदानन्दं सर्वदा गुरुरूपकम् ॥ ३३.३७॥
ब्रह्मैव सच्चिदानन्दं सदा निर्मलविग्रहम् ।
ब्रह्मैव सच्चिदानन्दं शुद्धचैतन्यमाततम् ॥ ३३.३८॥
ब्रह्मैव सच्चिदानन्दं स्वप्रकाशात्मरूपकम् ।
ब्रह्मैव सच्चिदानन्दं निश्चयं चात्मकारणम् ॥ ३३.३९॥
ब्रह्मैव सच्चिदानन्दं स्वयमेव प्रकाशते ।
ब्रह्मैव सच्चिदानन्दं नानाकार इति स्थितम् ॥ ३३.४०॥
ब्रह्मैव सच्चिदाकारं भ्रान्ताधिष्ठानरूपकम् ।
ब्रह्मैव सच्चिदानन्दं सर्वं नास्ति न मे स्थितम् ॥ ३३.४१॥
वाचामगोचरं ब्रह्म सच्चिदानदविग्रहम् ।
सच्चिदानन्दरूपोऽहमनुत्पन्नमिदम् जगत् ॥ ३३.४२॥
ब्रह्मैवेदं सदा सत्यं नित्यमुक्तं निरञ्जनम् ।
सच्चिदानन्दं ब्रह्मैव एकमेव सदा सुखम् ॥ ३३.४३॥
सच्चिदानन्दं ब्रह्मैव पूर्णात् पूर्णतरं महत् ।
सच्चिदानन्दं ब्रह्मैव सर्वव्यापकमीश्वरम् ॥ ३३.४४॥
सच्चिदानन्दं ब्रह्मैव नामरूपप्रभास्वरम् ।
सच्चिदानन्दं ब्रह्मैव अनन्तानन्दनिर्मलम् ॥ ३३.४५॥
सच्चिदानन्दं ब्रह्मैव परमानन्ददायकम् ।
सच्चिदानन्दं ब्रह्मैव सन्मात्रं सदसत्परम् ॥ ३३.४६॥
सच्चिदानन्दं ब्रह्मैव सर्वेषां परमव्ययम् ।
सच्चिदानन्दं ब्रह्मैव मोक्षरूपं शुभाशुभम् ॥ ३३.४७॥
सच्चिदानन्दं ब्रह्मैव परिच्छिन्नं न हि क्वचित् ।
ब्रह्मैव सर्वमेवेदं शुद्धबुद्धमलेपकम् ॥ ३३.४८॥
सच्चिदानन्दरूपोऽहमनुत्पन्नमिदं जगत् ।
एतत् प्रकरणं सत्यं सद्योमुक्तिप्रदायकम् ॥ ३३.४९॥
सर्वदुःखक्षयकरं सर्वविज्ञानदायकम् ।
नित्यानन्दकरं सत्यं शान्तिदान्तिप्रदायकम् ॥ ३३.५०॥
यस्त्वन्तकान्तकमहेश्वरपादपद्म-
लोलम्बसप्रभहृदा परिशीलकश्च ।
वृन्दारवृन्दविनतामलदिव्यपादो
भावो भवोद्भवकृपावशतो भवेच्च ॥ ३३.५१॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
सच्चिदानन्दरूपताप्रकरणं नाम त्रयस्त्रिंशोऽध्यायः ॥
३४ ॥ चतुस्त्रिंशोऽध्यायः ॥
ऋभुः -
शृणुष्व ब्रह्म विज्ञानमद्भुतं त्वतिदुर्लभम् ।
एकैकश्रवणेनैव कैवल्यं परमश्नुते ॥ ३४.१॥
सत्यं सत्यं जगन्नास्ति संकल्पकलनादिकम् ।
नित्यानन्दमयं ब्रह्मविज्ञानं सर्वदा स्वयम् ॥ ३४.२॥
आनन्दमव्ययं शान्तमेकरूपमनामयम् ।
चित्तप्रपञ्चं नैवास्ति नास्ति कार्यं च तत्त्वतः ॥ ३४.३॥
प्रपञ्चभावना नास्ति दृश्यरूपं न किञ्चन ।
असत्यरूपं सङ्कल्पं तत्कार्यं च जगन्न हि ॥ ३४.४॥
सर्वमित्येव नास्त्येव कालमित्येवमीश्वरः ।
वन्ध्याकुमारे भीतिश्च तदधीनमिदं जगत् ॥ ३४.५॥
गन्धर्वनगरे शृङ्गे मदग्रे दृश्यते जगत् ।
मृगतृष्णाजलं पीत्वा तृप्तिश्चेदस्त्विदं जगत् ॥ ३४.६॥
नगे शृङ्गे न बाणेन नष्टं पुरुषमस्त्विदम् ।
गन्धर्वनगरे सत्ये जगद्भवतु सर्वदा ॥ ३४.७॥
गगने नीलमासिन्धौ जगत् सत्यं भविष्यति ।
शुक्तिकारजतं सत्यं भूषणं चिज्जगद्भवेत् ॥ ३४.८॥
रज्जुसर्पेण नष्टश्चेत् नरो भवति संसृतिः ।
जातिरूपेण बाणेन ज्वालाग्नौ नाशिते सति ॥ ३४.९॥
रंभास्तम्भेन काष्ठेन पाकसिद्धिर्जगद्भवेत् ।
नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् ॥ ३४.१०॥
सद्यः कुमारिकारूपैः पाके सिद्धे जगद्भवेत् ।
नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् ॥ ३४.११॥
मित्याटव्यां वायसान्नं अस्ति चेज्जगदुद्भवम् ।
मूलारोपणमन्त्रस्य प्रीतिश्चेद्भाषणं जगत् ॥ ३४.१२॥
मासात् पूर्वं मृतो मर्त्य आगतश्चेज्जगद् भवेत् ।
तक्रं क्षीरस्वरूपं चेत् किञ्चित् किञ्चिज्जगद्भवेत् ॥ ३४.१३॥
गोस्तनादुद्भवं क्षीरं पुनरारोहणं जगत् ।
भूरजस्याअब्दमुत्पन्नं जगद्भवतु सर्वदा ॥ ३४.१४॥
कूर्मरोम्णा गजे बद्धे जगदस्तु मदोत्कटे ।
मृणालतन्तुना मेरुश्चलितश्चेज्जगद् भवेत् ॥ ३४.१५॥
तरङ्गमालया सिन्धुः बद्धश्चेदस्त्विदं जगत् ।
ज्वालाग्निमण्डले पद्मं वृद्धं चेत् तज्जगद्भवेत् ॥ ३४.१६॥
महच्छैलेन्द्रनिलयं संभवश्चेदिदं भवेत् ।
नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् ॥ ३४.१७॥
मीन आगत्य पद्माक्षे स्थितश्चेदस्त्विदं जगत् ।
निगीर्णश्चेद्भङ्गसूनुः मेरुपुच्छवदस्त्विदम् ॥ ३४.१८॥
मशकेनाशिते सिंहे हते भवतु कल्पनम् ।
अणुकोटरविस्तीर्णे त्रैलोक्ये चेज्जगद्भवेत् ॥ ३४.१९॥
स्वप्ने तिष्ठति यद्वस्तु जागरे चेज्जगद्भवेत् ।
नदीवेगो निश्चलश्चेत् जगद्भवतु सर्वदा ॥ ३४.२०॥
जात्यन्धै रत्नविषयः सुज्ञातश्चेज्जगद्भवेत् ।
चन्द्रसूर्यादिकं त्यक्त्वा राहुश्चेत् दृश्यते जगत् ॥ ३४.२१॥
भ्रष्टबीजेन उत्पन्ने वृद्धिश्चेच्चित्तसंभवः ।
महादरिद्रैराढ्यानां सुखे ज्ञाते जगद्भवेत् ॥ ३४.२२॥
दुग्धं दुग्धगतक्षीरं पुनरारोहणं पुनः ।
केवलं दर्पणे नास्ति प्रतिबिम्बं तदा जगत् ॥ ३४.२३॥
यथा शून्यगतं व्योम प्रतिबिम्बेन वै जगत् ।
अजकुक्षौ गजो नास्ति आत्मकुक्षौ जगन्न हि ॥ ३४.२४॥
यथा तान्त्रे समुत्पन्ने तथा ब्रह्ममयं जगत् ।
कार्पासकेऽग्निदग्धेन भस्म नास्ति तथा जगत् ॥ ३४.२५॥
परं ब्रह्म परं ज्योतिः परस्तात् परतः परः ।
सर्वदा भेदकलनं द्वैताद्वैतं न विद्यते ॥ ३४.२६॥
चित्तवृत्तिर्जगद्दुःखं अस्ति चेत् किल नाशनम् ।
मनःसंकल्पकं बन्ध अस्ति चेद्ब्रह्मभावना ॥ ३४.२७॥
अविद्या कार्यदेहादि अस्ति चेद्द्वैतभावनम् ।
चित्तमेव महारोगो व्याप्तश्चेद्ब्रह्मभेषजम् ॥ ३४.२८॥
अहं शत्रुर्यदि भवेदहं ब्रह्मैव भावनम् ।
देहोऽहमिति दुखं चेद्ब्रह्माहमिति निश्चिनु ॥ ३४.२९॥
संशयश्च पिशाचश्चेद्ब्रह्ममात्रेण नाशय ।
द्वैतभूताविष्टरेण अद्वैतं भस्म आश्रय ॥ ३४.३०॥
अनात्मत्वपिशाचश्चेदात्ममन्त्रेण बन्धय ।
नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् ॥ ३४.३१॥
चतुःषष्टिकदृष्टान्तैरेवं ब्रह्मैव साधितम् ।
यः शृणोति नरो नित्यं स मुक्तो नात्र संशयः ॥ ३४.३२॥
कृतार्थ एव सततं नात्र कार्या विचारणा ॥ ३४.३३॥
मनोवचोविदूरगं त्वरूपगन्धवर्जितं
हृदर्भकोकसन्ततं विजानतां मुदे सदा ।
सदाप्रकाशदुज्वलप्रभाविकाससद्युति
प्रकाशदं महेश्वर त्वदीयपादपङ्कजम् ॥ ३४.३४॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
दृष्टान्तैर्ब्रह्मसाधनप्रकरणं नाम चतुस्त्रिंशोऽध्यायः ॥
३५ ॥ पञ्चत्रिंशोऽध्यायः ॥
ऋभुः -
निदाघ शृणु गुह्यं मे सद्यो मुक्तिप्रदं नृणाम् ।
आत्मैव नान्यदेवेदं परमात्माहमक्षतः ॥ ३५.१॥
अहमेव परं ब्रह्म सच्चिदानन्दविग्रहः ।
अहमस्मि महानस्मि शिवोऽस्मि परमोऽस्म्यहम् ॥ ३५.२॥
अदृश्यं परमं ब्रह्म नान्यदस्ति स्वभावतः ।
सर्वं नास्त्येव नास्त्येव अहं ब्रह्मैव केवलम् ॥ ३५.३॥
शान्तं ब्रह्म परं चास्मि सर्वदा नित्यनिर्मलः ।
सर्वं नास्त्येव नास्त्येव अहं ब्रह्मैव केवलम् ॥ ३५.४॥
सर्वसङ्कल्पमुक्तोऽस्मि सर्वसन्तोषवर्जितः ।
कालकर्मजगद्द्वैतद्रष्टृदर्शनविग्रहः ॥ ३५.५॥
आनन्दोऽस्मि सदानन्दकेवलो जगतां प्रियम् ।
समरूपोऽस्मि नित्योऽस्मि भूतभव्यमजो जयः ॥ ३५.६॥
चिन्मात्रोऽस्मि सदा भुक्तो जीवो बन्धो न विद्यते ।var was मुक्तः
श्रवणं षड्विधं लिङ्गं नैवास्ति जगदीदृशम् ॥ ३५.७॥
चित्तसंसारहीनोऽस्मि चिन्मात्रत्वं जगत् सदा ।
चित्तमेव हितं देह अविचारः परो रिपुः ॥ ३५.८॥
अविचारो जगद्दुःखमविचारो महद्भयम् ।
सद्योऽस्मि सर्वदा तृप्तः परिपूर्णः परो महान् ॥ ३५.९॥
नित्यशुद्धोऽस्मि बुद्धोऽस्मि चिदाकाशोऽस्मि चेतनः ।
आत्मैव नान्यदेवेदं परमात्माऽहमक्षतः ॥ ३५.१०॥
सर्वदोषविहीनोऽस्मि सर्वत्र विततोऽस्म्यहम् ।
वाचातीतस्वरूपोऽस्मि परमात्माऽहमक्षतः ॥ ३५.११॥
चित्रातीतं परं द्वन्द्वं सन्तोषः समभावनम् ।
अन्तर्बहिरनाद्यन्तं सर्वभेदविनिर्णयम् ॥ ३५.१२॥
अहंकारं बलं सर्वं कामं क्रोधं परिग्रहम् ।
ब्रह्मेन्द्रोविष्णुर्वरुणो भावाभावविनिश्चयः ॥ ३५.१३॥
जीवसत्ता जगत्सत्ता मायासत्ता न किञ्चन ।
गुरुशिष्यादिभेदं च कार्याकार्यविनिश्चयः ॥ ३५.१४॥
त्वं ब्रह्मासीति वक्ता च अहं ब्रह्मास्मि संभवः ।
सर्ववेदान्तविज्ञानं सर्वाम्नायविचारणम् ॥ ३५.१५॥
इदं पदार्थसद्भावमहं रूपेण संभवम् ।
वेदवेदान्तसिद्धान्तजगद्भेदं न विद्यते ॥ ३५.१६॥
सर्वं ब्रह्म न सन्देहः सर्वमित्येव नास्ति हि ।
केवलं ब्रह्मशान्तात्मा अहमेव निरन्तरम् ॥ ३५.१७॥
शुभाशुभविभेदं च दोषादोषं च मे न हि ।
चित्तसत्ता जगत्सत्ता बुद्धिवृत्तिविजृम्भणम् ॥ ३५.१८॥
ब्रह्मैव सर्वदा नान्यत् सत्यं सत्यं निजं पदम् ।
आत्माकारमिदं द्वैतं मिथ्यैव न परः पुमान् ॥ ३५.१९॥
सच्चिदानन्दमात्रोऽहं सर्वं केवलमव्ययम् ।
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥ ३५.२०॥
मनो जगदहं भेदं चित्तवृत्तिजगद्भयम् ।
सर्वानन्दमहानन्दमात्मानन्दमनन्तकम् ॥ ३५.२१॥
अत्यन्तस्वल्पमल्पं वा प्रपञ्चं नास्ति किञ्चन ।
प्रपञ्चमिति शब्दो वा स्मरणं वा न विद्यते ॥ ३५.२२॥
अन्तरस्थप्रपञ्चं वा क्वचिन्नास्ति क्वचिद्बहिः ।
यत् किञ्चिदेवं तूष्णीं वा यच्च किञ्चित् सदा क्व वा ॥ ३५.२३॥
येन केन यदा किञ्चिद्यस्य कस्य न किञ्चन ।
शुद्धं मलिनरूपं वा ब्रह्मवाक्यमबोधकम् ॥ ३५.२४॥
ईदृषं तादृषं वेति न किञ्चित् वक्तुमर्हति ।
ब्रह्मैव सर्वं सततं ब्रह्मैव सकलं मनः ॥ ३५.२५॥
आनन्दं परमानदं नित्यानन्दं सदाऽद्वयम् ।
चिन्मात्रमेव सततं नास्ति नास्ति परोऽस्म्यहम् ॥ ३५.२६॥
प्रपञ्चं सर्वदा नास्ति प्रपञ्चं चित्रमेव च ।
चित्तमेव हि संसारं नान्यत् संसारमेव हि ॥ ३५.२७॥
मन एव हि संसारो देहोऽहमिति रूपकम् ।
सङ्कल्पमेव संसारं तन्नाशेऽसौ विनश्यति ॥ ३५.२८॥
सङ्कल्पमेव जननं तन्नाशेऽसौ विनश्यति ।
सङ्कल्पमेव दारिद्र्यं तन्नाशेऽसौ विनश्यति ॥ ३५.२९॥
सङ्कल्पमेव मननं तन्नाशेऽसौ विनश्यति ।
आत्मैव नान्यदेवेदं परमात्माऽहमक्षतः ॥ ३५.३०॥
नित्यमात्ममयं बोधमहमेव सदा महान् ।
आत्मैव नान्यदेवेदं परमात्माऽहमक्षतः ॥ ३५.३१॥
इत्येवं भावयेन्नित्यं क्षिप्रं मुक्तो भविष्यति ।
त्वमेव ब्रह्मरूपोऽसि त्वमेव ब्रह्मविग्रहः ॥ ३५.३२॥
एवं च परमानन्दं ध्यात्वा ध्यात्वा सुखीभव ।
सुखमात्रं जगत् सर्वं प्रियमात्रं प्रपञ्चकम् ॥ ३५.३३॥
जडमात्रमयं लोकं ब्रह्ममात्रमयं सदा ।
ब्रह्मैव नान्यदेवेदं परमात्माऽहमव्ययः ॥ ३५.३४॥
एक एव सदा एष एक एव निरन्तरम् ।
एक एव परं ब्रह्म एक एव चिदव्ययः ॥ ३५.३५॥
एक एव गुणातीत एक एव सुखावहः ।
एक एव महानात्मा एक एव निरन्तरम् ॥ ३५.३६॥
एक एव चिदाकार एक एवात्मनिर्णयः ।
ब्रह्मैव नान्यदेवेदं परमात्माऽहमक्षतः ॥ ३५.३७॥
परमात्माहमन्यन्न परमानन्दमन्दिरम् ।
इत्येवं भावयन्नित्यं सदा चिन्मय एव हि ॥ ३५.३८॥
सूतः -
विरिञ्चिवञ्चनाततप्रपञ्चपञ्चबाणभित्
सुकाञ्चनाद्रिधारिणं कुलुञ्चनां पतिं भजे ।
अकिञ्चनेऽपि सिञ्चके जलेन लिङ्गमस्तके
विमुञ्चति क्षणादघं न किञ्चिदत्र शिष्यते ॥ ३५.३९॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
ब्रह्मभावनोपदेशप्रकरणं नाम पञ्चत्रिंशोऽध्यायः ॥
३६ ॥ षट्त्रिंशोऽध्यायः ॥
ऋभुः -
शृणु वक्ष्यामि विप्रेन्द्र सर्वं ब्रह्मैव निर्णयम् ।
यस्य श्रवणमात्रेण सद्यो मुक्तिमवाप्नुयात् ॥ ३६.१॥
इदमेव सदा नास्ति ह्यहमेव हि केवलम् ।
आत्मैव सर्वदा नास्ति आत्मैव सुखलक्षणम् ॥ ३६.२॥
आत्मैव परमं तत्त्वमात्मैव जगतां गणः ।
आत्मैव गगनाकारमात्मैव च निरन्तरम् ॥ ३६.३॥
आत्मैव सत्यं ब्रह्मैव आत्मैव गुरुलक्षणम् ।
आत्मैव चिन्मयं नित्यमात्मैवाक्षरमव्ययम् ॥ ३६.४॥
आत्मैव सिद्धरूपं वा आत्मैवात्मा न संशयः ।
आत्मैवजगदाकारं आत्मैवात्मा स्वयं स्वयम् ॥ ३६.५॥
आत्मैव शान्तिकलनमात्मैव मनसा वियत् ।
आत्मैव सर्वं यत् किञ्चिदात्मैव परमं पदम् ॥ ३६.६॥
आत्मैव भुवनाकारमात्मैव प्रियमव्ययम् ।
आत्मैवान्यन्न च क्वापि आत्मैवान्यं मनोमयम् ॥ ३६.७॥
आत्मैव सर्वविज्ञानमात्मैव परमं धनम् ।
आत्मैव भूतरूपं वा आत्मैव भ्रमणं महत् ॥ ३६.८॥
आत्मैव नित्यशुद्धं वा आत्मैव गुरुरात्मनः ।
आत्मैव ह्यात्मनः शिष्य आत्मैव लयमात्मनि ॥ ३६.९॥
आत्मैव ह्यात्मनो ध्यानमात्मैव गतिरात्मनः ।
आत्मैव ह्यात्मनो होम आत्मैव ह्यात्मनो जपः ॥ ३६.१०॥
आत्मैव तृप्तिरात्मैव आत्मनोऽन्यन्न किञ्चन ।
आत्मैव ह्यात्मनो मूलमात्मैव ह्यात्मनो व्रतम् ॥ ३६.११॥
आत्मज्ञानं व्रतं नित्यमात्मज्ञानं परं सुखम् ।
आत्मज्ञानं परानन्दमात्मज्ञानं परायणम् ॥ ३६.१२॥
आत्मज्ञानं परं ब्रह्म आत्मज्ञानं महाव्रतम् ।
आत्मज्ञानं स्वयं वेद्यमात्मज्ञानं महाधनम् ॥ ३६.१३॥
आत्मज्ञानं परं ब्रह्म आत्मज्ञानं महत् सुखम् ।
आत्मज्ञानं महानात्मा आत्मज्ञानं जनास्पदम् ॥ ३६.१४॥
आत्मज्ञानं महातीर्थमात्मज्ञानं जयप्रदम् ।
आत्मज्ञानं परं ब्रह्म आत्मज्ञानं चराचरम् ॥ ३६.१५॥
आत्मज्ञानं परं शास्त्रमात्मज्ञानमनूपमम् ।
आत्मज्ञानं परो योग आत्मज्ञानं परा गतिः ॥ ३६.१६॥
आत्मज्ञानं परं ब्रह्म इत्येवं दृढनिश्चयः ।
आत्मज्ञानं मनोनाशः आत्मज्ञानं परो गुरुः ॥ ३६.१७॥
आत्मज्ञानं चित्तनाशः आत्मज्ञानं विमुक्तिदम् ।
आत्मज्ञानं भयनाशमात्मज्ञानं सुखावहम् ॥ ३६.१८॥
आत्मज्ञानं महातेज आत्मज्ञानं महाशुभम् ।
आत्मज्ञानं सतां रूपमात्मज्ञानं सतां प्रियम् ॥ ३६.१९॥
आत्मज्ञानं सतां मोक्षमात्मज्ञानं विवेकजम् ।
आत्मज्ञानं परो धर्म आत्मज्ञानं सदा जपः ॥ ३६.२०॥
आत्मज्ञानस्य सदृशमात्मविज्ञानमेव हि ।
आत्मज्ञानेन सदृशं न भूतं न भविष्यति ॥ ३६.२१॥
आत्मज्ञानं परो मन्त्र आत्मज्ञानं परं तपः ।
आत्मज्ञानं हरिः साक्षादात्मज्ञानं शिवः परः ॥ ३६.२२॥
आत्मज्ञानं परो धाता आत्मज्ञानं स्वसंमतम् ।
आत्मज्ञानं स्वयं पुण्यमात्मज्ञानं विशोधनम् ॥ ३६.२३॥
आत्मज्ञानं महातीर्थमात्मज्ञानं शमादिकम् ।
आत्मज्ञानं प्रियं मन्त्रमात्मज्ञानं स्वपावनम् ॥ ३६.२४॥
आत्मज्ञानं च किन्नाम अहं ब्रह्मेति निश्चयः ।
अहं ब्रह्मेति विश्वासमात्मज्ञानं महोदयम् ॥ ३६.२५॥
अहं ब्रह्मास्मि नित्योऽस्मि सिद्धोऽस्मीति विभावनम् ।
आनन्दोऽहं परानन्दं शुद्धोऽहं नित्यमव्ययः ॥ ३६.२६॥
चिदाकाशस्वरूपोऽस्मि सच्चिदानन्दशाश्वतम् ।
निर्विकारोऽस्मि शान्तोऽहं सर्वतोऽहं निरन्तरः ॥ ३६.२७॥
सर्वदा सुखरूपोऽस्मि सर्वदोषविवर्जितः ।
सर्वसङ्कल्पहीनोऽस्मि सर्वदा स्वयमस्म्यहम् ॥ ३६.२८॥
सर्वं ब्रह्मेत्यनुभवं विना शब्दं पठ स्वयम् ।
कोट्यश्वमेधे यत् पुण्यं क्षणात् तत्पुण्यमाप्नुयात् ॥ ३६.२९॥
अहं ब्रह्मेति निश्चित्य मेरुदानफलं लभेत् ।
ब्रह्मैवाहमिति स्थित्वा सर्वभूदानमप्यणु ॥ ३६.३०॥
ब्रह्मैवाहमिति स्थित्वा कोटिशो दानमप्यणु ।
ब्रह्मैवाहमिति स्थित्वा सर्वानन्दं तृणायते ॥ ३६.३१॥
ब्रह्मैव सर्वमित्येव भावितस्य फलं स्वयम् ।
ब्रह्मैवाहमिति स्थित्वा समानं ब्रह्म एव हि ॥ ३६.३२॥
तस्मात् स्वप्नेऽपि नित्यं च सर्वं सन्त्यज्य यत्नतः ।
अहं ब्रह्म न सन्देहः अहमेव गतिर्मम ॥ ३६.३३॥
अहमेव सदा नान्यदहमेव सदा गुरुः ।
अहमेव परो ह्यात्मा अहमेव न चापरः ॥ ३६.३४॥
अहमेव गुरुः शिष्यः अहमेवेति निश्चिनु ।
इदमित्येव निर्देशः परिच्छिन्नो जगन्न हि ॥ ३६.३५॥
न भूमिर्न जलं नाग्निर्न वायुर्न च खं तथा ।
सर्वं चैतन्यमात्रत्वात् नान्यत् किञ्चन विद्यते ॥ ३६.३६॥
इत्येवं भावनपरो देहमुक्तः सुखीभव ।
अहमात्मा इदं नास्ति सर्वं चैतन्यमात्रतः ॥ ३६.३७॥
अहमेव हि पूर्णात्मा आनन्दाब्धिरनामयः ।
इदमेव सदा नास्ति जडत्वादसदेव हि ।
इदं ब्रह्म सदा ब्रह्म इदं नेति सुखी भव ॥ ३६.३८॥
तुरङ्गशृङ्गसन्निभा श्रुतिपरोचना ???
विशेषकामवासना विनिश्चितात्मवृत्तितः ।
नराः सुरा मुनीश्वरा असङ्गसङ्गमप्युमा-
पतिं ??? न ते भजन्ति केचन ??? ॥ ३६.३९॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
ब्रह्मभावनोपदेशप्रकरणं नाम षट्त्रिंशोऽध्यायः ॥
३७ ॥ सप्तत्रिंशोऽध्यायः ॥
ऋभुः -
निदाघ शृणु वक्ष्यामि रहस्यं परमद्भुतम् ।
श्लोकैकश्रवणेनैव सद्यो मोक्षमवाप्नुयात् ॥ ३७.१॥
इदं दृष्टं परं ब्रह्म दृश्यवद्भाति चित्ततः ।
सर्वं चैतन्यमात्रत्वात् नान्यत् किञ्चिन्न विद्यते ॥ ३७.२॥
इदमेव हि नास्त्येव अयमित्यपि नास्ति हि ।
एक एवाप्यणुर्वापि नास्ति नास्ति न संशयः ॥ ३७.३॥
व्यवहारमिदं क्वापि वार्तामात्रमपि क्व वा ।
बन्धरूपं बन्धवार्ता बन्धकार्यं परं च वा ॥ ३७.४॥
सन्मात्रकार्यं सन्मात्रमहं ब्रह्मेति निश्चयम् ।
दुःखं सुखं वा बोधो वा साधकं साध्यनिर्णयः ॥ ३७.५॥
आत्मेति परमात्मेति जीवात्मेति पृथङ् न हि ।
देहोऽहमिति मूर्तोऽहं ज्ञानविज्ञानवानहम् ॥ ३७.६॥
कार्यकारणरूपोऽहमन्तःकरणकार्यकम् ।
एकमित्येकमात्रं वा नास्ति नास्तीति भावय ॥ ३७.७॥
सर्वसङ्कल्पमात्रेति सर्वं ब्रह्मेति वा जगत् ।
तत्त्वज्ञानं परं ब्रह्म ओङ्कारार्थं सुखं जपम् ॥ ३७.८॥
द्वैताद्वैतं सदाद्वैतं तथा मानावमानकम् ।
सर्वं चैतन्यमात्रत्वात् नान्यत् किञ्चिन्न विद्यते ॥ ३७.९॥
आत्मानन्दमहं ब्रह्म प्रज्ञानं ब्रह्म एव हि ।
इदं रूपमहं रूपं प्रियाप्रियविचारणम् ॥ ३७.१०॥
यद्यत् संभाव्यते लोके यद्यत् साधनकल्पनम् ।
यद्यन्तरहितं ब्रह्मभावनं चित्तनिर्मितम् ॥ ३७.११॥
स्थूलदेहोऽहमेवात्र सूक्ष्मदेहोऽहमेव हि ।
बुद्धेर्भेदं मनोभेदं अहंकारं जडं च तत् ॥ ३७.१२॥
सर्वं चैतन्यमात्रत्वात् नान्यत् किञ्चिन्न विद्यते ।
श्रवणं मननं चैव साक्षात्कारविचारणम् ॥ ३७.१३॥
आत्मैवाहं परं चैव नाहं मोहमयं स्वयम् ।
ब्रह्मैव सर्वमेवेदं ब्रह्मैव परमं पदम् ॥ ३७.१४॥
ब्रह्मैव कारणं कार्यं ब्रह्मैव जगतां जयः ।
ब्रह्मैव सर्वं चैतन्यं ब्रह्मैव मनसायते ॥ ३७.१५॥
ब्रह्मैव जीववद्भाति ब्रह्मैव च हरीयते ।
ब्रह्मैव शिववद्भाति ब्रह्मैव प्रियमात्मनः ॥ ३७.१६॥
ब्रह्मैव शान्तिवद्भाति ब्रह्मणोऽन्यन्न किञ्चन ।
नाहं न चायं नैवान्यन्नोत्पन्नं न परात् परम् ॥ ३७.१७॥
न चेदं न च शास्त्रार्थं न मीमांसं न चोद्भवम् ।
न लक्षणं न वेदादि नापि चित्तं न मे मनः ॥ ३७.१८॥
न मे नायं नेदमिदं न बुद्धिनिश्चयं सदा ।
कदाचिदपि नास्त्येव सत्यं सत्यं न किञ्चन ॥ ३७.१९॥
नैकमात्रं न चायं वा नान्तरं न बहिर्न हि ।
ईषण्मात्रं च न द्वैतं न जन्यं न च दृश्यकम् ॥ ३७.२०॥
न भावनं न स्मरणं न विस्मरणमण्वपि ।
न कालदेशकलनं न सङ्कल्पं न वेदनम् ॥ ३७.२१॥
न विज्ञानं न देहान्यं न वेदोऽहं न संसृतिः ।
न मे दुःखं न मे मोक्षं न गतिर्न च दुर्गतिः ॥ ३७.२२॥
नात्मा नाहं न जीवोऽहं न कूटस्थो न जायते ।
न देहोऽहं न च श्रोत्रं न त्वगिन्द्रियदेवता ॥ ३७.२३॥
सर्वं चैतन्यमात्रत्वात् सर्वं नास्त्येव सर्वदा ।
अखण्डाकाररूपत्वात् सर्वं नास्त्येव सर्वदा ॥ ३७.२४॥
हुंकारस्यावकाशो वा हुंकारजननं च वा ।
नास्त्येव नास्ति नास्त्येव नास्ति नास्ति कदाचन ॥ ३७.२५॥
अन्यत् पदार्थमल्पं वा अन्यदेवान्यभाषणम् ।
आत्मनोऽन्यदसत्यं वा सत्यं वा भ्रान्तिरेव च ॥ ३७.२६॥
नास्त्येव नास्ति नास्त्येव नास्ति शब्दोऽपि नास्ति हि ।
सर्वं चैतन्यमात्रत्वात् सर्वं नास्त्येव सर्वदा ॥ ३७.२७॥
सर्वं ब्रह्म न सन्देहो ब्रह्मैवाहं न संशयः ।
वाक्यं च वाचकं सर्वं वक्ता च त्रिपुटीद्वयम् ॥ ३७.२८॥
ज्ञाता ज्ञानं ज्ञेयभेदं मातृमानमिति प्रियम् ।
यद्यच्छास्त्रेषु निर्णीतं यद्यद्वेदेषु निश्चितम् ॥ ३७.२९॥
परापरमतीतं च अतीतोऽहमवेदनम् ।
गुरुर्गुरूपदेशश्च गुरुं वक्ष्ये न कस्यचित् ॥ ३७.३०॥
गुरुरूपा गुरुश्रद्धा सदा नास्ति गुरुः स्वयम् ।
आत्मैव गुरुरात्मैव अन्याभावान्न संशयः ॥ ३७.३१॥
आत्मनः शुभमात्मैव अन्याभावान्न संशयः ।
आत्मनो मोहमात्मैव आत्मनोऽस्ति न किञ्चन ॥ ३७.३२॥
आत्मनः सुखमात्मैव अन्यन्नास्ति न संशयः ।
आत्मन्येवात्मनः शक्तिः आत्मन्येवात्मनः प्रियम् ॥ ३७.३३॥
आत्मन्येवात्मनः स्नानं आत्मन्येवात्मनो रतिः ।
आत्मज्ञानं परं श्रेयः आत्मज्ञानं सुदुर्लभम् ॥ ३७.३४॥
आत्मज्ञानं परं ब्रह्म आत्मज्ञानं सुखात् सुखम् ।
आत्मज्ञानात् परं नास्ति आत्मज्ञानात् स्मृतिर्न हि ॥ ३७.३५॥
ब्रह्मैवात्मा न सन्देह आत्मैव ब्रह्मणः स्वयम् ।
स्वयमेव हि सर्वत्र स्वयमेव हि चिन्मयः ॥ ३७.३६॥
स्वयमेव चिदाकाशः स्वयमेव निरन्तरम् ।
स्वयमेव च नानात्मा स्वयमेव च नापरः ॥ ३७.३७॥
स्वयमेव गुणातीतः स्वयमेव महत् सुखम् ।
स्वयमेव हि शान्तात्मा स्वयमेव हि निष्कलः ॥ ३७.३८॥
स्वयमेव चिदानन्दः स्वयमेव महत्प्रभुः ।
स्वयमेव सदा साक्षी स्वयमेव सदाशिवः ॥ ३७.३९॥
स्वयमेव हरिः साक्षात् स्वयमेव प्रजापतिः ।
स्वयमेव परं ब्रह्म ब्रह्म एव स्वयं सदा ॥ ३७.४०॥
सर्वं ब्रह्म स्वयं ब्रह्म स्वयं ब्रह्म न संशयः ।
दृढनिश्चयमेव त्वं सर्वथा कुरु सर्वदा ॥ ३७.४१॥
विचारयन् स्वयं ब्रह्म ब्रह्ममात्रं स्वयं भवेत् ।
एतदेव परं ब्रह्म अहं ब्रह्मेति निश्चयः ॥ ३७.४२॥
एष एव परो मोक्ष अहं ब्रह्मेति निश्चयः ।
एष एव कृतार्थो हि एष एव सुखं सदा ॥ ३७.४३॥
एतदेव सदा ज्ञानं स्वयं ब्रह्म स्वयं महत् ।
अहं ब्रह्म एतदेव सदा ज्ञानं स्वयं महत् ॥ ३७.४४॥
अहं ब्रह्म एतदेव स्वभावं सततं निजम् ।
अहं ब्रह्म एतदेव सदा नित्यं स्वयं सदा ॥ ३७.४५॥
अहं ब्रह्म एतदेव बन्धनाशं न संशयः ।
अहं ब्रह्म एतदेव सर्वसिद्धान्तनिश्चयम् ॥ ३७.४६॥
एष वेदान्तसिद्धान्त अहं ब्रह्म न संशयः ।
सर्वोपनिषदामर्थः सर्वानन्दमयं जगत् ॥ ३७.४७॥
महावाक्यस्य सिद्धान्त अहं ब्रह्मेति निश्चयः ।
साक्षाच्छिवस्य सिद्धान्त अहं ब्रह्मेति निश्चयः ॥ ३७.४८॥
नारायणस्य सिद्धान्त अहं ब्रह्मेति निश्चयः ।
चतुर्मुखस्य सिद्धान्त अहं ब्रह्मेति निश्चयः ॥ ३७.४९॥
ऋषीणां हृदयं ह्येतत् देवानामुपदेशकम् ।
सर्वदेशिकसिद्धान्त अहं ब्रह्मेति निश्चयः ॥ ३७.५०॥
यच्च यावच्च भूतानां महोपदेश एव तत् ।
अहं ब्रह्म महामोक्षं परं चैतदहं स्वयम् ॥ ३७.५१॥
अहं चानुभवं चैतन्महागोप्यमिदं च तत् ।
अहं ब्रह्म एतदेव सदा ज्ञानं स्वयं महत् ॥ ३७.५२॥
महाप्रकाशमेवैतत् अहं ब्रह्म एव तत् ।
एतदेव महामन्त्रं एतदेव महाजपः ॥ ३७.५३॥
एतदेव महास्नानमहं ब्रह्मेति निश्चयः ।
एतदेव महातीर्थमहं ब्रह्मेति निश्चयः ॥ ३७.५४॥
एतदेव महागङ्गा अहं ब्रह्मेति निश्चयः ।
एष एव परो धर्म अहं ब्रह्मेति निश्चयः ॥ ३७.५५॥
एष एव महाकाश अहं ब्रह्मेति निश्चयः ।
एतदेव हि विज्ञानमहं ब्रह्मास्मि केवलम् ।
सर्वसिद्धान्तमेवैतदहं ब्रह्मेति निश्चयः ॥ ३७.५६॥
सव्यासव्यतयाद्यवज्ञहृदया गोपोदहार्यः स्रियः
पश्यन्त्यम्बुजमित्रमण्डलगतं शंभुं हिरण्यात्मकम् ।
सर्वत्र प्रसृतैः करैर्जगदिदं पुष्णाति मुष्णन् धनैः
घृष्टं चौषधिजालमम्बुनिकरैर्विश्वोत्थधूतं हरः ॥ ३७.५७॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
सर्वसिद्धान्तप्रकरणं नाम सप्तत्रिंशोऽध्यायः ॥
३८ ॥ अष्टत्रिंशोऽध्यायः ॥
ऋभुः -
वक्ष्ये अत्यद्भुतं व्यक्तं सच्चिदानन्दमात्रकम् ।
सर्वप्रपञ्चशून्यत्वं सर्वमात्मेति निश्चितम् ॥ ३८.१॥
आत्मरूपप्रपञ्चं वा आत्मरूपप्रपञ्चकम् ।
सर्वप्रपञ्चं नास्त्येव सर्वं ब्रह्मेति निश्चितम् ॥ ३८.२॥
नित्यानुभवमानन्दं नित्यं ब्रह्मेति भावनम् ।
चित्तरूपप्रपञ्चं वा चित्तसंसारमेव वा ॥ ३८.३॥
इदमस्तीति सत्तात्वमहमस्तीति वा जगत् ।
स्वान्तःकरणदोषं वा स्वान्तःकरणकार्यकम् ॥ ३८.४॥
स्वस्य जीवभ्रमः कश्चित् स्वस्य नाशं स्वजन्मना ।
ईश्वरः कश्चिदस्तीति जीवोऽहमिति वै जगत् ॥ ३८.५॥
माया सत्ता महा सत्ता चित्तसत्ता जगन्मयम् ।
यद्यच्च दृश्यते शास्त्रैर्यद्यद्वेदे च भाषणम् ॥ ३८.६॥
एकमित्येव निर्देशं द्वैतमित्येव भाषणम् ।
शिवोऽस्मीति भ्रमः कश्चित् ब्रह्मास्मीति विभ्रमः ॥ ३८.७॥
विष्णुरस्मीति विभ्रान्तिर्जगदस्तीति विभ्रमः ।var was जगदस्मीति
ईषदस्तीति वा भेदं ईषदस्तीति वा द्वयम् ॥ ३८.८॥
सर्वमस्तीति नास्तीति सर्वं ब्रह्मेति निश्चयम् ।
आत्मध्यानप्रपञ्चं वा स्मरणादिप्रपञ्चकम् ॥ ३८.९॥
दुःखरूपप्रपञ्चं वा सुखरूपप्रपञ्चकम् ।
द्वैताद्वैतप्रपञ्चं वा सत्यासत्यप्रपञ्चकम् ॥ ३८.१०॥
जाग्रत्प्रपञ्चमेवापि तथा स्वप्नप्रपञ्चकम् ।
सुप्तिज्ञानप्रपञ्चं वा तुर्यज्ञानप्रपञ्चकम् ॥ ३८.११॥
वेदज्ञानप्रपञ्चं वा शास्त्रज्ञानप्रपञ्चकम् ।
पापबुद्धिप्रपञ्चं वा पुण्यभेदप्रपञ्चकम् ॥ ३८.१२॥
ज्ञानरूपप्रपञ्चं वा निर्गुणज्ञानप्रपञ्चकम् ।
गुणागुणप्रपञ्चं वा दोषादोषविनिर्णयम् ॥ ३८.१३॥
सत्यासत्यविचारं वा चराचरविचारणम् ।
एक आत्मेति सद्भावं मुख्य आत्मेति भावनम् ॥ ३८.१४॥
सर्वप्रपञ्चं नास्त्येव सर्वं ब्रह्मेति निश्चयम् ।
द्वैताद्वैतसमुद्भेदं नास्ति नास्तीति भाषणम् ॥ ३८.१५॥
असत्यं जगदेवेति सत्यं ब्रह्मेति निश्चयम् ।
कार्यरूपं कारणं च नानाभेदविजृम्भणम् ॥ ३८.१६॥
सर्वमन्त्रप्रदातारं दूरे दूरं तथा तथा ।
सर्वं सन्त्यज्य सततं स्वात्मन्येव स्थिरो भव ॥ ३८.१७॥
मौनभावं मौनकार्यं मौनयोगं मनःप्रियम् ।
पञ्चाक्षरोपदेष्टारं तथा चाष्टाक्षरप्रदम् ॥ ३८.१८॥
यद्यद्यद्यद्वेदशास्त्रं यद्यद्भेदो गुरोऽपि वा ।
सर्वदा सर्वलोकेषु सर्वसङ्कल्पकल्पनम् ॥ ३८.१९॥
सर्ववाक्यप्रपञ्चं हि सर्वचित्तप्रपञ्चकम् ।
सर्वाकारविकल्पं च सर्वकारणकल्पनम् ॥ ३८.२०॥
सर्वदोषप्रपञ्चं च सुखदुःखप्रपञ्चकम् ।
सहादेयमुपादेयं ग्राह्यं त्याज्यं च भाषणम् ॥ ३८.२१॥
विचार्य जन्ममरणं वासनाचित्तरूपकम् ।
कामक्रोधं लोभमोहं सर्वडम्भं च हुंकृतिम् ॥ ३८.२२॥
त्रैलोक्यसंभवं द्वैतं ब्रह्मेन्द्रवरुणादिकम् ।
ज्ञानेन्द्रियं च शब्दादि दिग्वाय्वर्कादिदैवतम् ॥ ३८.२३॥
कर्मेन्द्रियादिसद्भावं विषयं देवतागणम् ।
अन्तःकरणवृत्तिं च विषयं चाधिदैवतम् ॥ ३८.२४॥
चित्तवृत्तिं विभेदं च बुद्धिवृत्तिनिरूपणम् ।
मायामात्रमिदं द्वैतं सदसत्तादिनिर्णयम् ॥ ३८.२५॥
किञ्चिद् द्वैतं बहुद्वैतं जीवद्वैतं सदा ह्यसत् ।
जगदुत्पत्तिमोहं च गुरुशिष्यत्वनिर्णयम् ॥ ३८.२६॥
गोपनं तत्पदार्थस्य त्वंपदार्थस्य मेलनम् ।
तथा चासिपदार्थस्य ऐक्यबुद्ध्यानुभावनम् ॥ ३८.२७॥
भेदेषु भेदाभेदं च नान्यत् किञ्चिच्च विद्यते ।
एतत् प्रपञ्चं नास्त्येव सर्वं ब्रह्मेति निश्चयः ॥ ३८.२८॥
सर्वं चैतन्यमात्रत्वात् केवलं ब्रह्म एव सः ।
आत्माकारमिदं सर्वमात्मनोऽन्यन्न किञ्चन ॥ ३८.२९॥
तुर्यातीतं ब्रह्मणोऽन्यत् सत्यासत्यं न विद्यते ।
सर्वं त्यक्त्वा तु सततं स्वात्मन्येव स्थिरो भव ॥ ३८.३०॥
चित्तं कालं वस्तुभेदं सङ्कल्पं भावनं स्वयम् ।
सर्वं संत्यज्य सततं सर्वं ब्रह्मैव भावय ॥ ३८.३१॥
यद्यद्भेदपरं शास्त्रं यद्यद् भेदपरं मनः ।
सर्वं संत्यज्य सततं स्वात्मन्येव स्थिरो भव ॥ ३८.३२॥
मनः कल्पितकल्पं वा आत्माकल्पनविभ्रमम् ।
अहंकारपरिच्छेदं देहोऽहं देहभावना ॥ ३८.३३॥
सर्वं संत्यज्य सततमात्मन्येव स्थिरो भव ।
प्रपञ्चस्य च सद्भावं प्रपञ्चोद्भवमन्यकम् ॥ ३८.३४॥
बन्धसद्भावकलनं मोक्षसद्भावभाषणम् ।
देवताभावसद्भावं देवपूजाविनिर्णयम् ॥ ३८.३५॥
पञ्चाक्षरेति यद्द्वैतमष्टाक्षरस्य दैवतम् ।
प्राणादिपञ्चकास्तित्वमुपप्राणादिपञ्चकम् ॥ ३८.३६॥
पृथिवीभूतभेदं च गुणा यत् कुण्ठनादिकम् ।
वेदान्तशास्त्रसिद्धान्तं शैवागमनमेव च ॥ ३८.३७॥
लौकिकं वास्तवं दोषं प्रवृत्तिं च निवृत्तिकम् ।
सर्वं संत्यज्य सततमात्मन्येव स्थिरो भव ॥ ३८.३८॥
आत्मज्ञानसुखं ब्रह्म अनात्मज्ञानदूषणम् ।
रेचकं पूरकं कुम्भं षडाधारविशोधनम् ॥ ३८.३९॥
द्वैतवृत्तिश्च देहोऽहं साक्षिवृत्तिश्चिदंशकम् ।
अखण्डाकारवृत्तिश्च अखण्डाकारसंमतम् ॥ ३८.४०॥
अनन्तानुभवं चापि अहं ब्रह्मेति निश्चयम् ।
उत्तमं मध्यमं चापि तथा चैवाधमाधमम् ॥ ३८.४१॥
दूषणं भूषणं चैव सर्ववस्तुविनिन्दनम् ।
अहं ब्रह्म इदं ब्रह्म सर्वं ब्रह्मैव तत्त्वतः ॥ ३८.४२॥
अहं ब्रह्मास्मि मुग्धोऽस्मि वृद्धोऽस्मि सदसत्परः ।
वैश्वानरो विराट् स्थूलप्रपञ्चमिति भावनम् ॥ ३८.४३॥
आनन्दस्फारणेनाहं परापरविवर्जितः ।
नित्यानन्दमयं ब्रह्म सच्चिदानन्दविग्रहः ॥ ३८.४४॥
दृग्रूपं दृश्यरूपं च महासत्तास्वरूपकम् ।
कैवल्यं सर्वनिधनं सर्वभूतान्तरं गतम् ॥ ३८.४५॥
भूतभव्यं भविष्यच्च वर्तमानमसत् सदा ।
कालभावं देहभावं सत्यासत्यविनिर्णयम् ॥ ३८.४६॥
प्रज्ञानघन एवाहं शान्ताशान्तं निरञ्जनम् ।
प्रपञ्चवार्तास्मरणं द्वैताद्वैतविभावनम् ॥ ३८.४७॥
शिवागमसमाचारं वेदान्तश्रवणं पदम् ।
अहं ब्रह्मास्मि शुद्धोऽस्मि चिन्मात्रोऽस्मि सदाशिवः ॥ ३८.४८॥
सर्वं ब्रह्मेति सन्त्यज्य स्वात्मन्येव स्थिरो भव ।
अहं ब्रह्म न सन्देह इदं ब्रह्म न संशयः ॥ ३८.४९॥
स्थूलदेहं सूक्ष्मदेहं कारणं देहमेव च ।
एवं ज्ञातुं च सततं ब्रह्मैवेदं क्षणे क्षणे ॥ ३८.५०॥
शिवो ह्यात्मा शिवो जीवः शिवो ब्रह्म न संशयः ।
एतत् प्रकरणं यस्तु सकृद्वा सर्वदापि वा ॥ ३८.५१॥
पठेद्वा शृणुयाद्वापि स च मुक्तो न संशयः ।
निमिषं निमिषार्धं वा श्रुत्वैतब्रह्मभाग्भवेत् ॥ ३८.५२॥
लोकालोकजगत्स्थितिप्रविलयप्रोद्भावसत्तात्मिका
भीतिः शङ्करनामरूपमस्कृद्व्याकुर्वते केवलम् ।
सत्यासत्यनिरङ्कुशश्रुतिवचोवीचीभिरामृश्यते
यस्त्वेतत् सदितीव तत्त्ववचनैर्मीमांस्यतेऽयं शिवः ॥ ३८.५३॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
प्रपञ्चशून्यत्वप्रकरणं नाम अष्टत्रिंशोऽध्यायः ॥
३९ ॥ एकोनचत्वारिंशोऽध्यायः ॥
ऋभुः -
परं ब्रह्म प्रवक्ष्यामि निर्विकल्पं निरामयम् ।
तदेवाहं न सन्देहः सर्वं ब्रह्मैव केवलम् ॥ ३९.१॥
चिन्मात्रममलं शान्तं सच्चिदानन्दविग्रहम् ।
आनन्दं परमानन्दं निर्विकल्पं निरञ्जनम् ॥ ३९.२॥
गुणातीतं जनातीतमवस्थातीतमव्ययम् ।
एवं भावय चैतन्यमहं ब्रह्मास्मि सोऽस्म्यहम् ॥ ३९.३॥
सर्वातीतस्वरूपोऽस्मि सर्वशब्दार्थवर्जितः ।
सत्योऽहं सर्वहन्ताहं शुद्धोऽहं परमोऽस्म्यहम् ॥ ३९.४॥
अजोऽहं शान्तरूपोऽहं अशरीरोऽहमान्तरः ।
सर्वहीनोऽहमेवाहं स्वयमेव स्वयं महः ॥ ३९.५॥
आत्मैवाहं परात्माहं ब्रह्मैवाहं शिवोऽस्म्यहम् ।
चित्तहीनस्वरूपोऽहं बुद्धिहीनोऽहमस्म्यहम् ॥ ३९.६॥
व्यापकोऽहमहं साक्षी ब्रह्माहमिति निश्चयः ।
निष्प्रपञ्चगजारूढो निष्प्रपञ्चाश्ववाहनः ॥ ३९.७॥
निष्प्रपञ्चमहाराज्यो निष्प्रपञ्चायुधादिमान् ।
निष्प्रपञ्चमहावेदो निष्प्रपञ्चात्मभावनः ॥ ३९.८॥
निष्प्रपञ्चमहानिद्रो निष्प्रपञ्चस्वभावकः ।
निष्प्रपञ्चस्तु जीवात्मा निष्प्रपञ्चकलेवरः ॥ ३९.९॥
निष्प्रपञ्चपरीवारो निष्प्रपञ्चोत्सवो भवः ।
निष्प्रपञ्चस्तु कल्याणो निष्प्रपञ्चस्तु दर्पणः ॥ ३९.१०॥
निष्प्रपञ्चरथारूढो निष्प्रपञ्चविचारणम् ।
निष्प्रपञ्चगुहान्तस्थो निष्प्रपञ्चप्रदीपकम् ॥ ३९.११॥
निष्प्रपञ्चप्रपूर्णात्मा निष्प्रपञ्चोऽरिमर्दनः ।
चित्तमेव प्रपञ्चो हि चित्तमेव जगत्त्रयम् ॥ ३९.१२॥
चित्तमेव महामोहश्चित्तमेव हि संसृतिः ।
चित्तमेव महापापं चित्तमेव हि पुण्यकम् ॥ ३९.१३॥
चित्तमेव महाबन्धश्चित्तमेव विमोक्षदम् ।
ब्रह्मभावनया चित्तं नाशमेति न संशयः ॥ ३९.१४॥
ब्रह्मभावनया दुःखं नाशमेति न संशयः ।
ब्रह्मभावनया द्वैतं नाशमेति न संशयः ॥ ३९.१५॥
ब्रह्मभावनया कामः नाशमेति न संशयः ।
ब्रह्मभावनया क्रोधः नाशमेति न संशयः ॥ ३९.१६॥
ब्रह्मभावनया लोभः नाशमेति न संशयः ।
ब्रह्मभावनया ग्रन्थिः नाशमेति न संशयः ॥ ३९.१७॥
ब्रह्मभावनया सर्वं ब्रह्मभावनया मदः ।
ब्रह्मभावनया पूजा नाशमेति न संशयः ॥ ३९.१८॥
ब्रह्मभावनया ध्यानं नाशमेति न संशयः ।
ब्रह्मभावनया स्नानं नाशमेति न संशयः ॥ ३९.१९॥
ब्रह्मभावनया मन्त्रो नाशमेति न संशयः ।
ब्रह्मभावनया पापं नाशमेति न संशयः ॥ ३९.२०॥
ब्रह्मभावनया पुण्यं नाशमेति न संशयः ।
ब्रह्मभावनया दोषो नाशमेति न संशयः ॥ ३९.२१॥
ब्रह्मभावनया भ्रान्तिः नाशमेति न संशयः ।
ब्रह्मभावनया दृश्यं नाशमेति न संशयः ॥ ३९.२२॥
ब्रह्मभावनया सङ्गो नाशमेति न संशयः ।
ब्रह्मभावनया तेजो नाशमेति न संशयः ॥ ३९.२३॥
ब्रह्मभावनया प्रज्ञा नाशमेति न संशयः ।
ब्रह्मभावनया सत्ता नाशमेति न संशयः ॥ ३९.२४॥
ब्रह्मभावनया भीतिः नाशमेति न संशयः ।
ब्रह्मभावनया वेदः नाशमेति न संशयः ॥ ३९.२५॥
ब्रह्मभावनया शास्त्रं नाशमेति न संशयः ।
ब्रह्मभावनया निद्रा नाशमेति न संशयः ॥ ३९.२६॥
ब्रह्मभावनया कर्म नाशमेति न संशयः ।
ब्रह्मभावनया तुर्यं नाशमेति न संशयः ॥ ३९.२७॥
ब्रह्मभावनया द्वन्द्वं नाशमेति न संशयः ।
ब्रह्मभावनया पृच्छेदहं ब्रह्मेति निश्चयम् ॥ ३९.२८॥
निश्चयं चापि सन्त्यज्य स्वस्वरूपान्तरासनम् ।
अहं ब्रह्म परं ब्रह्म चिद्ब्रह्म ब्रह्ममात्रकम् ॥ ३९.२९॥
ज्ञानमेव परं ब्रह्म ज्ञानमेव परं पदम् ।
दिवि ब्रह्म दिशो ब्रह्म मनो ब्रह्म अहं स्वयम् ॥ ३९.३०॥
किञ्चिद्ब्रह्म ब्रह्म तत्त्वं तत्त्वं ब्रह्म तदेव हि ।
अजो ब्रह्म शुभं ब्रह्म आदिब्रह्म ब्रवीमि तम् ॥ ३९.३१॥
अहं ब्रह्म हविर्ब्रह्म कार्यब्रह्म त्वहं सदा ।
नादो ब्रह्म नदं ब्रह्म तत्त्वं ब्रह्म च नित्यशः ॥ ३९.३२॥
एतद्ब्रह्म शिखा ब्रह्म तद्ब्रह्म ब्रह्म शाश्वतम् ।
निजं ब्रह्म स्वतो ब्रह्म नित्यं ब्रह्म त्वमेव हि ॥ ३९.३३॥
सुखं ब्रह्म प्रियं ब्रह्म मित्रं ब्रह्म सदामृतम् ।
गुह्यं ब्रह्म गुरुर्ब्रह्म ऋतं ब्रह्म प्रकाशकम् ॥ ३९.३४॥
सत्यं ब्रह्म समं ब्रह्म सारं ब्रह्म निरञ्जनम् ।
एकं ब्रह्म हरिर्ब्रह्म शिवो ब्रह्म न संशयः ॥ ३९.३५॥
इदं ब्रह्म स्वयं ब्रह्म लोकं ब्रह्म सदा परः ।
आत्मब्रह्म परं ब्रह्म आत्मब्रह्म निरन्तरः ॥ ३९.३६॥
एकं ब्रह्म चिरं ब्रह्म सर्वं ब्रह्मात्मकं जगत् ।
ब्रह्मैव ब्रह्म सद्ब्रह्म तत्परं ब्रह्म एव हि ॥ ३९.३७॥
चिद्ब्रह्म शाश्वतं ब्रह्म ज्ञेयं ब्रह्म न चापरः ।
अहमेव हि सद्ब्रह्म अहमेव हि निर्गुणम् ॥ ३९.३८॥
अहमेव हि नित्यात्मा एवं भावय सुव्रत ।
अहमेव हि शास्त्रार्थ इति निश्चित्य सर्वदा ॥ ३९.३९॥
आत्मैव नान्यद्भेदोऽस्ति सर्वं मिथ्येति निश्चिनु ।
आत्मैवाहमहं चात्मा अनात्मा नास्ति नास्ति हि ॥ ३९.४०॥
विश्वं वस्तुतया विभाति हृदये मूढात्मनां बोधतो-
ऽप्यज्ञानं न निवर्तते श्रुतिशिरोवार्तानुवृत्त्याऽपि च ।
विश्वेशस्य समर्चनेन सुमहालिङ्गार्चनाद्भस्मधृक्
रुद्राक्षामलधारणेन भगवद्ध्यानेन भात्यात्मवत् ॥ ३९.४१॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
सर्वलयप्रकरणं नाम एकोनचत्वारिंशोऽध्यायः ॥
४० ॥ चत्वारिंशोऽध्यायः ॥
ऋभुः -
सर्वसारात् सारतरं ततः सारतरान्तरम् ।
इदमन्तिमत्यन्तं शृणु प्रकरणं मुदा ॥ ४०.१॥
ब्रह्मैव सर्वमेवेदं ब्रह्मैवान्यन्न किञ्चन ।
निश्चयं दृढमाश्रित्य सर्वत्र सुखमास्व ह ॥ ४०.२॥
ब्रह्मैव सर्वभुवनं भुवनं नाम सन्त्यज ।
अहं ब्रह्मेति निश्चित्य अहं भावं परित्यज ॥ ४०.३॥
सर्वमेवं लयं याति स्वयमेव पतत्रिवत् ।
स्वयमेव लयं याति सुप्तहस्तस्थपद्मवत् ॥ ४०.४॥
न त्वं नाहं न प्रपञ्चः सर्वं ब्रह्मैव केवलम् ।
न भूतं न च कार्यं च सर्वं ब्रह्मैव केवलम् ॥ ४०.५॥
न दैवं न च कार्याणि न देहं नेन्द्रियाणि च ।
न जाग्रन्न च वा स्वप्नो न सुषुप्तिर्न तुर्यकम् ॥ ४०.६॥
इदं प्रपञ्चं नास्त्येव सर्वं ब्रह्मेति निश्चिनु ।
सर्वं मिथ्या सदा मिथ्या सर्वं ब्रह्मेति निश्चिनु ॥ ४०.७॥
सदा ब्रह्म विचारं च सर्वं ब्रह्मेति निश्चिनु ।
तथा द्वैतप्रतीतिश्च सर्वं ब्रह्मेति निश्चिनु ॥ ४०.८॥
सदाहं भावरूपं च सर्वं ब्रह्मेति निश्चिनु ।
नित्यानित्यविवेकं च सर्वं ब्रह्मेति निश्चिनु ॥ ४०.९॥
भावाभावप्रतीतिं च सर्वं ब्रह्मेति निश्चिनु ।
गुणदोषविभागं च सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१०॥
कालाकालविभागं च सर्वं ब्रह्मेति निश्चिनु ।
अहं जीवेत्यनुभवं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.११॥
अहं मुक्तोऽस्म्यनुभवं सर्वं ब्रह्मेति निश्चिनु ।
सर्वं ब्रह्मेति कलनं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१२॥
सर्वं नास्तीति वार्ता च सर्वं ब्रह्मेति निश्चिनु ।
देवतान्तरसत्ताकं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१३॥
देवतान्तरपूजा च सर्वं ब्रह्मेति निश्चिनु ।
देहोऽहमिति सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१४॥
ब्रह्माहमिति सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
गुरुशिष्यादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१५॥
तुल्यातुल्यादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
वेदशास्त्रादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१६॥
चित्तसत्तादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
बुद्धिनिश्चयसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१७॥
मनोविकल्पसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
अहंकारादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१८॥
पञ्चभूतादिसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
शब्दादिसत्तासङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१९॥
दृग्वार्तादिकसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
कर्मेन्द्रियादिसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२०॥
वचनादानसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
मुनीन्द्रोपेन्द्रसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२१॥
मनोबुद्ध्यादिसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
सङ्कल्पाध्यास इत्यादि सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२२॥
रुद्रक्षेत्रादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
प्राणादिदशसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२३॥
माया विद्या देहजीवाः सर्वं ब्रह्मेति निश्चिनु ।
स्थूलव्यष्टादिसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२४॥
सूक्ष्मव्यष्टिसमष्ट्यादि सर्वं ब्रह्मेति निश्चिनु ।
व्यष्ट्यज्ञानादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२५॥
विश्ववैश्वानरत्वं च सर्वं ब्रह्मेति निश्चिनु ।
तैजसप्राज्ञभेदं च सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२६॥
वाच्यार्थं चापि लक्ष्यार्थं सर्वं ब्रह्मेति निश्चिनु ।
जहल्लक्षणयानैक्यं अजहल्लक्षणा ध्रुवम् ॥ ४०.२७॥
भागत्यागेन नित्यैक्यं सर्वं ब्रह्म उपाधिकम् ।
लक्ष्यं च निरुपाध्यैक्यं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२८॥
एवमाहुर्महात्मानः सर्वं ब्रह्मेति केवलम् ।
सर्वमन्तः परित्यज्य अहं ब्रह्मेति भावय ॥ ४०.२९॥
असङ्कलितकापिलैर्मधुहराक्षिपूज्याम्बुज-
प्रभाङ्घ्रिजनिमोत्तमो परिषिचेद्यदिन्दुप्रभम् ।
तं डिण्डीरनिभोत्तमोत्तम महाखण्डाज्यदध्ना परं
क्षीराद्यैरभिषिच्य मुक्तिपरमानन्दं लभे शाम्भवम् ॥ ४०.३०॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
चित्तवृत्तिनिरोधप्रकरणं नाम चत्वारिंशोऽध्यायः ॥
४१ ॥ एकचत्वारिंशोऽध्यायः ॥
ऋभुः -
अहं ब्रह्म न सन्देहः अहं ब्रह्म न संशयः ।
अहं ब्रह्मैव नित्यात्मा अहमेव परात्परः ॥ ४१.१॥
चिन्मात्रोऽहं न सन्देह इति निश्चित्य तं त्यज ।
सत्यं सत्यं पुनः सत्यमात्मनोऽन्यन्न किञ्चन ॥ ४१.२॥
शिवपादद्वयं स्पृष्ट्वा वदामीदं न किञ्चन ।
गुरुपादद्वयं स्पृष्ट्वा वदामीदं न किञ्चन ॥ ४१.३॥
जिह्वया परशुं तप्तं धारयामि न संशयः ।
वेदशास्त्रादिकं स्पृष्ट्वा वदामीदं विनिश्चितम् ॥ ४१.४॥
निश्चयात्मन् निश्चयस्त्वं निश्चयेन सुखी भव ।
चिन्मयस्त्वं चिन्मयत्वं चिन्मयानन्द एव हि ॥ ४१.५॥
ब्रह्मैव ब्रह्मभूतात्मा ब्रह्मैव त्वं न संशयः ।
सर्वमुक्तं भगवता योगिनामपि दुर्लभम् ॥ ४१.६॥
देवानां च ऋषीणां च अत्यन्तं दुर्लभं सदा ।
ऐश्वरं परमं ज्ञानमुपदिष्टं शिवेन हि ॥ ४१.७॥
एतत् ज्ञानं समानीतं कैलासाच्छङ्करान्तिकात् ।
देवानां दक्षिणामूर्तिर्दशसाहस्रवत्सरान् ॥ ४१.८॥
विघ्नेशो बहुसाहस्रं वत्सरं चोपदिष्टवान् ।
साक्षाच्छिवोऽपि पार्वत्यै वत्सरं चोपदिष्टवान् ॥ ४१.९॥
क्षीराब्धौ च महाविष्णुर्ब्रह्मणे चोपदिष्टवान् ।
कदाचित्ब्रह्मलोके तु मत्पितुश्चोक्तवानहम् ॥ ४१.१०॥
नारदादि ऋषीणां च उपदिष्टं महद्बहु ।
अयातयामं विस्तारं गृहीत्वाऽहमिहागतः ॥ ४१.११॥
न समं पादमेकं च तीर्थकोटिफलं लभेत् ।
न समं ग्रन्थमेतस्य भूमिदानफलं लभेत् ॥ ४१.१२॥
एकानुभवमात्रस्य न सर्वं सर्वदानकम् ।
श्लोकार्धश्रवणस्यापि न समं किञ्चिदेव हि ॥ ४१.१३॥
तात्पर्यश्रवणाभावे पठंस्तूष्णीं स मुच्यते ।
सर्वं सन्त्यज्य सततमेतद्ग्रन्थं समभ्यसेत् ॥ ४१.१४॥
सर्वमन्त्रं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ।
सर्वदेवांश्च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१.१५॥
सर्वस्नानं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ।
सर्वभावं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१.१६॥
सर्वहोमं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ।
सर्वदानं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१.१७॥
सर्वपूजां च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ।
सर्वगुह्यं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१.१८॥
सर्वसेवां च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ।
सर्वास्तित्वं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१.१९॥
सर्वपाठं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ।
सर्वाभ्यासं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१.२०॥
देशिकं च परित्यज्य एतद्ग्रन्थं समभ्यसेत् ।
गुरुं वापि परित्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१.२१॥
सर्वलोकं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ।
सर्वैश्वर्यं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१.२२॥
सर्वसङ्कल्पकं त्यज्य एतद्ग्रन्थं समभ्यसेत् ।
सर्वपुण्यं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१.२३॥
एतद्ग्रन्थं परं ब्रह्म एतद्ग्रन्थं समभ्यसेत् ।
अत्रैव सर्वविज्ञानं अत्रैव परमं पदम् ॥ ४१.२४॥
अत्रैव परमो मोक्ष अत्रैव परमं सुखम् ।
अत्रैव चित्तविश्रान्तिरत्रैव ग्रन्थिभेदनम् ॥ ४१.२५॥
अत्रैव जीवन्मुक्तिश्च अत्रैव सकलो जपः ।
एतद्ग्रन्थं पठंस्तूष्णीं सद्यो मुक्तिमवाप्नुयात् ॥ ४१.२६॥
सर्वशास्त्रं च सन्त्यज्य एतन्मात्रं सदाभ्यसेत् ।
दिने दिने चैकवारं पठेच्चेन्मुक्त एव सः ॥ ४१.२७॥
जन्ममध्ये सकृद्वापि श्रुतं चेत् सोऽपि मुच्यते ।
सर्वशास्त्रस्य सिद्धान्तं सर्ववेदस्य संग्रहम् ॥ ४१.२८॥
सारात् सारतरं सारं सारात् सारतरं महत् ।
एतद्ग्रन्थस्य न समं त्रैलोक्येऽपि भविष्यति ॥ ४१.२९ ॥
न प्रसिद्धिं गते लोके न स्वर्गेऽपि च दुर्लभम् ।
ब्रह्मलोकेषु सर्वेषु शास्त्रेष्वपि च दुर्लभम् ॥ ४१.३०॥
एतद्ग्रन्थं कदाचित्तु चौर्यं कृत्वा पितामहः ।
क्षीराब्धौ च परित्यज्य सर्वे मुञ्चन्तु नो इति ॥ ४१.३१॥
ज्ञात्वा क्षीरसमुद्रस्य तीरे प्राप्तं गृहीतवान् ।
गृहीतं चाप्यसौ दृष्ट्वा शपथं च प्रदत्तवान् ॥ ४१.३२॥
तत् आरभ्य तल्लोकं त्यक्त्वाहमिममागतः ।
अत्यद्भुतमिदं ज्ञानं ग्रन्थं चैव महाद्भुतम् ॥ ४१.३३॥
तद् ज्ञो वक्ता च नास्त्येव ग्रन्थश्रोता च दुर्लभः ।
आत्मनिष्ठैकलभ्योऽसौ सद्गुरुर्नैष लभ्यते ॥ ४१.३४॥
ग्रन्थवन्तो न लभ्यन्ते तेन न ख्यातिरागता ।
भवते दर्शितं ह्येतद्गमिष्यामि यथागतम् ॥ ४१.३५॥
एतावदुक्तमात्रेण निदाघ ऋषिसत्तमः ।
पतित्वा पादयोस्तस्य आनन्दाश्रुपरिप्लुतः ॥ ४१.३६॥
उवाच वाक्यं सानन्दं साष्टाङ्गं प्रणिपत्य च ।
निदाघः -
अहो ब्रह्मन् कृतार्थोऽस्मि कृतार्थोऽस्मि न संशयः ।
भवतां दर्शनेनैव मज्जन्म सफलं कृतम् ॥ ४१.३७॥
एकवाक्यस्य मनने मुक्तोऽहं नात्र संशयः ।
नमस्करोमि ते पादौ सोपचारं न वास्तवौ ॥ ४१.३८॥
तस्यापि नावकाशोऽस्ति अहमेव न वास्तवम् ।
त्वमेव नास्ति मे नास्ति ब्रह्मेति वचनं न च ॥ ४१.३९॥
ब्रह्मेति वचनं नास्ति ब्रह्मभावं न किञ्चन ।
एतद्ग्रन्थं न मे नास्ति सर्वं ब्रह्मेति विद्यते ॥ ४१.४०॥
सर्वं ब्रह्मेति वाक्यं न सर्वं ब्रह्मेति तं न हि ।
तदिति द्वैतभिन्नं तु त्वमिति द्वैतमप्यलम् ॥ ४१.४१॥
एवं किञ्चित् क्वचिन्नास्ति सर्वं शान्तं निरामयम् ।
एकमेव द्वयं नास्ति एकत्वमपि नास्ति हि ॥ ४१.४२॥
भिन्नद्वन्द्वं जगद्दोषं संसारद्वैतवृत्तिकम् ।
साक्षिवृत्तिप्रपञ्चं वा अखण्डाकारवृत्तिकम् ॥ ४१.४३॥
अखण्डैकरसो नास्ति गुरुर्वा शिष्य एव वा ।
भवद्दर्शनमात्रेण सर्वमेवं न संशयः ॥ ४१.४४॥
ब्रह्मज्योतिरहं प्राप्तो ज्योतिषां ज्योतिरस्म्यहम् ।
नमस्ते सुगुरो ब्रह्मन् नमस्ते गुरुनन्दन ।
एवं कृत्य नमस्कारं तूष्णीमास्ते सुखी स्वयम् ॥ ४१.४५॥
किं चण्डभानुकरमण्डलदण्डितानि
काष्ठामुखेषु गलितानि नमस्ततीति ।
यादृक्च तादृगथ शङ्करलिङ्गसङ्ग-
भङ्गीनि पापकलशैलकुलानि सद्यः ।
श्रीमृत्युञ्जय रञ्जय त्रिभुवनाध्यक्ष प्रभो पाहि नः ॥ ४१.४६॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
ग्रन्थप्रशस्तिनिरूपणं नाम एकचत्वारिंशोऽध्यायः ॥
४२ ॥ द्विचत्वारिंशोऽध्यायः ॥
ऋभुः -
श्रुतं किञ्चिन्मया प्रोक्तं ब्रह्मज्ञानं सुदुर्लभम् ।
मनसा धारितं ब्रह्म चित्तं कीदृक् स्थितं वद ॥ ४२.१॥
निदाघः -
शृणु त्वं सुगुरो ब्रह्मंस्त्वत्प्रसादाद्वदाम्यहम् ।
ममाज्ञानं महादोषं महाज्ञाननिरोधकम् ॥ ४२.२॥
सदा कर्मणि विश्वासं प्रपञ्चे सत्यभावनम् ।
नष्टं सर्वं क्षणादेव त्वत्प्रसादान्महद्भयम् ॥ ४२.३॥
एतावन्तमिमं कालमज्ञानरिपुणा हृतम् ।
महद्भयं च नष्टं मे कर्मतत्त्वं च नाशितम् ॥ ४२.४॥
अज्ञानं मनसा पूर्वमिदानीं ब्रह्मतां गतम् ।
पुराहं चित्तवद्भूतः इदानीं सन्मयोऽभवम् ॥ ४२.५॥
पूर्वमज्ञानवद्भावं इदानीं सन्मयं गतम् ।
अज्ञानवत् स्थितोऽहं वै ब्रह्मैवाहं परं गतः ॥ ४२.६॥
पुराऽहं चित्तवद्भ्रान्तो ब्रह्मैवाहं परं गतः ।
सर्वो विगलितो दोषः सर्वो भेदो लयं गतः ॥ ४२.७॥
सर्वः प्रपञ्चो गलितश्चित्तमेव हि सर्वगम् ।
सर्वान्तःकरणं लीनं ब्रह्मसद्भावभावनात् ॥ ४२.८॥
अहमेव चिदाकाश अहमेव हि चिन्मयः ।
अहमेव हि पूर्णात्मा अहमेव हि निर्मलः ॥ ४२.९॥
अहमेवाहमेवेति भावनापि विनिर्गता ।
अहमेव चिदाकाशो ब्राह्मणत्वं न किञ्चन ॥ ४२.१०॥
शूद्रोऽहं श्वपचोऽहं वै वर्णी चापि गृहस्थकः ।
वानप्रस्थो यतिरहमित्ययं चित्तविभ्रमः ॥ ४२.११॥
तत्तदाश्रमकर्माणि चित्तेन परिकल्पितम् ।
अहमेव हि लक्ष्यात्मा अहमेव हि पूर्णकः ॥ ४२.१२॥
अहमेवान्तरात्मा हि अहमेव परायणम् ।
अहमेव सदाधार अहमेव सुखात्मकः ॥ ४२.१३॥
त्वत्प्रसादादहं ब्रह्मा त्वत्प्रसादाज्जनार्दनः ।
त्वत्प्रसादाच्चिदाकाशः शिवोऽहं नात्र संशयः ॥ ४२.१४॥
त्वत्प्रसादादहं चिद्वै त्वत्प्रसादान्न मे जगत् ।
त्वत्प्रसादाद्विमुक्तोऽस्मि त्वत्प्रसादात् परं गतः ॥ ४२.१५॥
त्वत्प्रसादाद्व्यापकोऽहं त्वत्प्रसादान्निरङ्कुशः ।
त्वत्प्रसादेन तीर्णोऽहं त्वत्प्रसादान्महत्सुखम् ॥ ४२.१६॥
त्वत्प्रसादादहं ब्रह्म त्वत्प्रसादात् त्वमेव न ।
त्वत्प्रसादादिदं नास्ति त्वत्प्रसादान्न किञ्चन ॥ ४२.१७॥
त्वत्प्रसादान्न मे किञ्चित् त्वत्प्रसादान्न मे विपत् ।
त्वत्प्रसादान्न मे भेदस्त्वत्प्रसादान्न मे भयम् ॥ ४२.१८॥
त्वत्प्रसादान्नमे रोगस्त्वत्प्रसादान्न मे क्षतिः ।
यत्पादाम्बुजपूजया हरिरभूदर्च्यो यदंघ्र्यर्चना-
दर्च्याऽभूत् कमला विधिप्रभृतयो ह्यर्च्या यदाज्ञावशात् ।
तं कालान्तकमन्तकान्तकमुमाकान्तं मुहुः सन्ततं
सन्तः स्वान्तसरोजराजचरणाम्भोजं भजन्त्यादरात् ॥ ४२.१९॥
किं वा धर्मशतायुतार्जितमहासौख्यैकसीमायुतं
नाकं पातमहोग्रदुःखनिकरं देवेषु तुष्टिप्रदम् ।
तस्माच्छङ्करलिङ्गपूजनमुमाकान्तप्रियं मुक्तिदं
भूमानन्दघनैकमुक्तिपरमानन्दैकमोदं महः ॥ ४२.२०॥
ये शांभवाः शिवरताः शिवनाममात्र-
शब्दाक्षरज्ञहृदया भसितत्रिपुण्ड्राः ।
यां प्राप्नुवन्ति गतिमीशपदांबुजोद्यद्-
ध्यानानुरक्तहृदया न हि योगसांख्यैः ॥ ४२.२१॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
निदाघानुभववर्णनप्रकरणं नाम द्विचत्वारिंशोऽध्यायः ॥
४३ ॥ त्रिचत्वारिंशोऽध्यायः ॥
निदाघः -
न पश्यामि शरीरं वा लिङ्गं करणमेव वा ।
न पश्यामि मनो वापि न पश्यामि जडं ततः ॥ ४३.१॥
न पश्यामि चिदाकाशं न पश्यामि जगत् क्वचित् ।
न पश्यामि हरिं वापि न पश्यामि शिवं च वा ॥ ४३.२॥
आनन्दस्यान्तरे लग्नं तन्मयत्वान्न चोत्थितः ।
न पश्यामि सदा भेदं न जडं न जगत् क्वचित् ॥ ४३.३॥
न द्वैतं न सुखं दुःखं न गुरुर्न परापरम् ।
न गुणं वा न तुर्यं वा न बुद्धिर्न च संशयः ॥ ४३.४॥
न च कालं न च भयं न च शोकं शुभाशुभम् ।
न पश्यामि सन्दीनं न बन्धं न च संभवम् ॥ ४३.५॥
न देहेन्द्रियसद्भावो न च सद्वस्तु सन्मनः ।
न पश्यामि सदा स्थूलं न कृशं न च कुब्जकम् ॥ ४३.६॥
न भूमिर्न जलं नाग्निर्न मोहो न च मन्त्रकम् ।
न गुरुर्न च वाक्यं वा न दृढं न च सर्वकम् ॥ ४३.७॥
न जगच्छ्रवणं चैव निदिध्यासं न चापरः ।
आनन्दसागरे मग्नस्तन्मयत्वान्न चोत्थितः ॥ ४३.८॥
आनन्दोऽहमशेषोऽहमजोऽहममृतोस्म्यहम् ।
नित्योऽहमिति निश्चित्य सदा पूर्णोऽस्मि नित्यधीः ॥ ४३.९॥
पूर्णोऽहं पूर्णचित्तोऽहं पुण्योऽहं ज्ञानवानहम् ।
शुद्धोऽहं सर्वमुक्तोऽहं सर्वाकारोऽहमव्ययः ॥ ४३.१०॥
चिन्मात्रोऽहं स्वयं सोऽहं तत्त्वरूपोऽहमीश्वरः ।
परापरोऽहं तुर्योऽहं प्रसन्नोऽहं रसोऽस्म्यहम् ॥ ४३.११॥
ब्रह्माऽहं सर्वलक्ष्योऽहं सदा पूर्णोऽहमक्षरः ।
ममानुभवरूपं यत् सर्वमुक्तं च सद्गुरो ॥ ४३.१२॥
नमस्करोमि ते नाहं सर्वं च गुरुदक्षिणा ।
मद्देहं त्वत्पदे दत्तं त्वया भस्मीकृतं क्षणात् ॥ ४३.१३॥
ममात्मा च मया दत्तः स्वयमात्मनि पूरितः ।
त्वमेवाहमहं च त्वमहमेव त्वमेव हि ॥ ४३.१४॥
ऐक्यार्णवनिमग्नोऽस्मि ऐक्यज्ञानं त्वमेव हि ।
एकं चैतन्यमेवाहं त्वया गन्तुं न शक्यते ॥ ४३.१५॥
गन्तव्यदेशो नास्त्येव एकाकारं न चान्यतः ।
त्वया गन्तव्यदेशो न मया गन्तव्यमस्ति न ॥ ४३.१६॥
एकं कारणमेकं च एकमेव द्वयं न हि ।
त्वया वक्तव्यकं नास्ति मया श्रोतव्यमप्यलम् ॥ ४३.१७॥
त्वमेव सद्गुरुर्नासि अहं नास्मि सशिष्यकः ।
ब्रह्ममात्रमिदं सर्वमस्मिन्मानोऽस्मि तन्मयः ॥ ४३.१८॥
भेदाभेदं न पश्यामि कार्याकार्यं न किञ्चन ।
ममैव चेन्नमस्कारो निष्प्रयोजन एव हि ॥ ४३.१९॥
तवैव चेन्नमस्कारो भिन्नत्वान्न फलं भवेत् ।
तव चेन्मम चेद्भेदः फलाभावो न संशयः ॥ ४३.२०॥
नमस्कृतोऽहं युष्माकं भवानज्ञीति वक्ष्यति ।
ममैवापकरिष्यामि परिच्छिन्नो भवाम्यहम् ॥ ४३.२१॥
ममैव चेन्नमस्कारः फलं नास्ति स्वतः स्थिते ।
कस्यापि च नमस्कारः कदाचिदपि नास्ति हि ॥ ४३.२२॥
सदा चैतन्यमात्रत्वात् नाहं न त्वं न हि द्वयम् ।
न बन्धं न परो नान्ये नाहं नेदं न किञ्चन ॥ ४३.२३॥
न द्वयं नैकमद्वैतं निश्चितं न मनो न तत् ।
न बीजं न सुखं दुःखं नाशं निष्ठा न सत्सदा ॥ ४३.२४॥
नास्ति नास्ति न सन्देहः केवलात् परमात्मनि ।
न जीवो नेश्वरो नैको न चन्द्रो नाग्निलक्षणः ॥ ४३.२५॥
न वार्ता नेन्द्रियो नाहं न महत्त्वं गुणान्तरम् ।
न कालो न जगन्नान्यो न वा कारणमद्वयम् ॥ ४३.२६॥
नोन्नतोऽत्यन्तहीनोऽहं न मुक्तस्त्वत्प्रसादतः ।
सर्वं नास्त्येव नास्त्येव सर्वं ब्रह्मैव केवलम् ॥ ४३.२७॥
अहं ब्रह्म इदं ब्रह्म आत्म ब्रह्माहमेव हि ।
सर्वं ब्रह्म न सन्देहस्त्वत्प्रसादान्महेश्वरः ॥ ४३.२८॥
त्वमेव सद्गुरुर्ब्रह्म न हि सद्गुरुरन्यतः ।
आत्मैव सद्गुरुर्ब्रह्म शिष्यो ह्यात्मैव सद्गुरुः ॥ ४३.२९॥
गुरुः प्रकल्पते शिष्यो गुरुहीनो न शिष्यकः ।
शिष्ये सति गुरुः कल्प्यः शिष्याभावे गुरुर्न हि ॥ ४३.३०॥
गुरुशिष्यविहीनात्मा सर्वत्र स्वयमेव हि ।
चिन्मात्रात्मनि कल्प्योऽहं चिन्मात्रात्मा न चापरः ॥ ४३.३१॥
चिन्मात्रात्माहमेवैको नान्यत् किञ्चिन्न विद्यते ।
सर्वस्थितोऽहं सततं नान्यं पश्यामि सद्गुरोः ॥ ४३.३२॥
नान्यत् पश्यामि चित्तेन नान्यत् पश्यामि किञ्चन ।
सर्वाभावान्न पश्यामि सर्वं चेद् दृश्यतां पृथक् ॥ ४३.३३॥
एवं ब्रह्म प्रपश्यामि नान्यदस्तीति सर्वदा ।
अहो भेदं प्रकुपितं अहो माया न विद्यते ॥ ४३.३४॥
अहो सद्गुरुमाहात्म्यमहो ब्रह्मसुखं महत् ।
अहो विज्ञानमाहात्म्यमहो सज्जनवैभवः ॥ ४३.३५॥
अहो मोहविनाशश्च अहो पश्यामि सत्सुखम् ।
अहो चित्तं न पश्यामि अहो सर्वं न किञ्चन ॥ ४३.३६॥
अहमेव हि नान्यत्र अहमानन्द एव हि ।
ममान्तःकरणे यद्यन्निश्चितं भवदीरितम् ॥ ४३.३७॥
सर्वं ब्रह्म परं ब्रह्म न किञ्चिदन्यदैवतम् ।
एवं पश्यामि सततं नान्यत् पश्यामि सद्गुरो ॥ ४३.३८॥
एवं निश्चित्य तिष्ठामि स्वस्वरूपे ममात्मनि ॥ ४३.३९॥
अगाधवेदवाक्यतो न चाधिभेषजं भवे-
दुमाधवाङ्घ्रिपङ्कजस्मृतिः प्रबोधमोक्षदा ।
प्रबुद्धभेदवासनानिरुद्धहृत्तमोभिदे
महारुजाघवैद्यमीश्वरं हृदम्बुजे भजे ॥ ४३.४०॥
द्यतत्प्रदग्धकामदेह दुग्धसन्निभं प्रमुग्धसामि ।
सोमधारिणं श्रुतीड्यगद्यसंस्तुतं त्वभेद्यमेकशङ्करम् ॥ ४३.४१॥
वरः कङ्कः काको भवदुभयजातेषु नियतं
महाशङ्कातङ्कैर्विधिविहितशान्तेन मनसा ।
यदि स्वैरं ध्यायन्नगपतिसुतानायकपदं
स एवायं धुर्यो भवति मुनिजातेषु नियतम् ॥ ४३.४२॥
कः कालान्तकपादपद्मभजनादन्यद्धृदा कष्टदां
धर्माभासपरंपरां प्रथयते मूर्खो खरीं तौरगीम् ।
कर्तुं यत्नशतैरशक्यकरणैर्विन्देत दुःखादिकंvar was दुःखाधिकम्
तद्वत् सांबपदांबुजार्चनरतिं त्यक्त्वा वृथा दुःखभाक् ॥ ४३.४३॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
निदाघानुभववर्णनप्रकरणं नाम त्रिचत्वारिंशोऽध्यायः ॥
४४ ॥ चतुश्चत्वारिंशोऽध्यायः ॥
निदाघः -
शृणुश्व सद्गुरो ब्रह्मन् त्वत्प्रसादान्विनिश्चितम् ।
अहमेव हि तद्ब्रह्म अहमेव हि केवलम् ॥ ४४.१॥
अहमेव हि नित्यात्मा अहमेव सदाऽजरः ।
अहमेव हि शान्तात्मा अहमेव हि निष्कलः ॥ ४४.२॥
अहमेव हि निश्चिन्तः अहमेव सुखात्मकः ।
अहमेव गुरुस्त्वं हि अहं शिष्योऽस्मि केवलम् ॥ ४४.३॥
अहमानन्द एवात्मा अहमेव निरञ्जनः ।
अहं तुर्यातिगो ह्यात्मा अहमेव गुणोज्झितः ॥ ४४.४॥
अहं विदेह एवात्मा अहमेव हि शङ्करः ।
अहं वै परिपूर्णात्मा अहमेवेश्वरः परः ॥ ४४.५॥
अहमेव हि लक्ष्यात्मा अहमेव मनोमयः ।
अहमेव हि सर्वात्मा अहमेव सदाशिवः ॥ ४४.६॥
अहं विष्णुरहं ब्रह्मा अहमिन्द्रस्त्वहं सुराः ।
अहं वै यक्षरक्षांसि पिशाचा गुह्यकास्तथा ॥ ४४.७॥
अहं समुद्राः सरित अहमेव हि पर्वताः ।
अहं वनानि भुवनं अहमेवेदमेव हि ॥ ४४.८॥
नित्यतृप्तो ह्यहं शुद्धबुद्धोऽहं प्रकृतेः परः ।
अहमेव हि सर्वत्र अहमेव हि सर्वगः ॥ ४४.९॥
अहमेव महानात्मा सर्वमङ्गलविग्रहः ।
अहमेव हि मुक्तोऽस्मि शुद्धोऽस्मि परमः शिवः ॥ ४४.१०॥
अहं भूमिरहं वायुरहं तेजो ह्यहं नभः ।
अहं जलमहं सूर्यश्चन्द्रमा भगणा ह्यहम् ॥ ४४.११॥
अहं लोका अलोकाश्च अहं लोक्या अहं सदा ।
अहमात्मा पारदृश्य अहं प्रज्ञानविग्रहः ॥ ४४.१२॥
अहं शून्यो अशून्योऽहं सर्वानन्दमयोऽस्म्यहम् ।
शुभाशुभफलातीतो ह्यहमेव हि केवलम् ॥ ४४.१३॥
अहमेव ऋतं सत्यमहं सच्चित्सुखात्मकः ।
अहमानन्द एवात्मा बहुधा चैकधा स्थितः ॥ ४४.१४॥
अहं भूतभविष्यं च वर्तमानमहं सदा ।
अहमेको द्विधाहं च बहुधा चाहमेव हि ॥ ४४.१५॥
अहमेव परं ब्रह्म अहमेव प्रजापतिः ।
स्वराट् सम्राड् जगद्योनिरहमेव हि सर्वदा ॥ ४४.१६॥
अहं विश्वस्तैजसश्च प्राज्ञोऽहं तुर्य एव हि ।
अहं प्राणो मनश्चाहमहमिद्रियवर्गकः ॥ ४४.१७॥
अहं विश्वं हि भुवनं गगनात्माहमेव हि ।
अनुपाधि उपाध्यं यत्तत्सर्वमहमेव हि ॥ ४४.१८॥
उपाधिरहितश्चाहं नित्यानन्दोऽहमेव हि ।
एवं निश्चयवानन्तः सर्वदा सुखमश्नुते ।
एवं यः शृणुयान्नित्यं सर्वपापैः प्रमुच्यते ॥ ४४.१९॥
नित्योऽहं निर्विकल्पो जनवनभुवने पावनोऽहं मनीषी
विश्वो विश्वातिगोऽहं प्रकृतिविनिकृतो एकधा संस्थितोऽहम् ।
नानाकारविनाशजन्मरहितस्वज्ञानकार्योज्झितैः
भूमानन्दघनोऽस्म्यहं परशिवः सत्यस्वरूपोऽस्म्यहम् ॥ ४४.२०॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
निदाघानुभववर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ॥
४५ ॥ पञ्चचत्वारिंशोऽध्यायः ॥
निदाघः -
पुण्ये शिवरहस्येऽस्मिन्नितिहासे शिवोदिते ।
देव्यै शिवेन कथिते देव्या स्कन्दाय मोदतः ॥ ४५.१॥
तदेतस्मिन् हि षष्ठांशे षडास्यकमलोदिते ।
पारमेश्वरविज्ञानं श्रुतमेतन्महाघभित् ॥ ४५.२॥
महामायातमस्तोमविनिवारणभास्करम् ।
अस्याध्यायैककथनाद् विज्ञानं महदश्नुते ॥ ४५.३॥
श्लोकस्य श्रवणेनापि जीवन्मुक्तो न संशयः ।
एतद्ग्रन्थप्रवक्ता हि षण्मुखः शिव एव हि ॥ ४५.४॥
जैगीषव्यो महायोगी स एव श्रवणेऽर्हति ।
भस्मरुद्राक्षधृङ् नित्यं सदा ह्यत्याश्रमी मुनिः ॥ ४५.५॥
एतद्ग्रन्थप्रवक्ता हि स गुरुर्नात्र संशयः ।
एतद्ग्रन्थप्रवक्ता हि परं ब्रह्म न संशयः ॥ ४५.६॥
एतद्ग्रन्थप्रवक्ता हि शिव एव न चापरः ।
एतद्ग्रन्थप्रवक्ता हि साक्षाद्देवी न संशयः ॥ ४५.७॥
एतद्ग्रन्थप्रवक्ता हि गणेशो नात्र संशयः ।
एतद्ग्रन्थप्रवक्ता हि स्कन्दः स्कन्दिततारकः ॥ ४५.८॥
एतद्ग्रन्थप्रवक्ता हि नन्दिकेशो न संशयः ।
एतद्ग्रन्थप्रवक्ता हि दत्तात्रेयो मुनिः स्वयम् ॥ ४५.९॥
एतद्ग्रन्थप्रवक्ता हि दक्षिणामूर्तिरेव हि ।
एतद्ग्रन्थार्थकथने भावने मुनयः सुराः ॥ ४५.१०॥
न शक्ता मुनिशार्दूल त्वदृतेऽहं शिवं शपे ।
एतद्ग्रन्थार्थवक्तारं गुरुं सर्वात्मना यजेत् ॥ ४५.११॥
एतद्ग्रन्थप्रवक्ता तु शिवो विघ्नेश्वरः स्वयम् ।
पिता हि जन्मदो दाता गुरुर्जन्मविनाशकः ॥ ४५.१२॥
एतद्ग्रन्थं समभ्यस्य गुरोर्वाक्याद्विशेषतः ।
न दुह्येत गुरुं शिष्यो मनसा किञ्च कायतः ॥ ४५.१३॥
गुरुरेव शिवः साक्षात् गुरुरेव शिवः स्वयम् ।
शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ॥ ४५.१४॥
एतद्ग्रन्थपदाभ्यासे श्रद्धा वै कारणं परम् ।
अश्रद्धधानः पुरुषो नैतल्लेशमिहार्हति ॥ ४५.१५॥
श्रद्धैव परमं श्रेयो जीवब्रह्मैक्यकारणम् ।
अस्ति ब्रह्मेति च श्रुत्वा भावयन् सन्त एव हि ॥ ४५.१६॥
शिवप्रसादहीनो यो नैतद्ग्रन्थार्थविद्भवेत् ।
भावग्राह्योऽयमात्मायं पर एकः शिवो ध्रुवः ॥ ४५.१७॥
सर्वमन्यत् परित्यज्य ध्यायीतेशानमव्ययम् ।
शिवज्ञानमिदं शुद्धं द्वैताद्वैतविनाशनम् ॥ ४५.१८॥
अन्येषु च पुराणेषु इतिहासेषु न क्वचित् ।
एतादृशं शिवज्ञानं श्रुतिसारमहोदयम् ॥ ४५.१९॥
उक्तं साक्षाच्छिवेनैतद् योगसांख्यविवर्जितम् ।
भावनामात्रसुलभं भक्तिगम्यमनामयम् ॥ ४५.२०॥
महानन्दप्रदं साक्षात् प्रसादेनैव लभ्यते ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ ४५.२१॥
एतद्ग्रन्थं गुरोः श्रुत्वा न पूजां कुरुते यदि ।
श्वानयोनिशतं प्राप्य चण्डालः कोटिजन्मसु ॥ ४५.२२॥
एतद्ग्रन्थस्य माहात्म्यं न यजन्तीश्वरं हृदा ।
स सूकरो भवत्येव सहस्रपरिवत्सरान् ॥ ४५.२३॥
एतद्ग्रन्थार्थवक्तारमभ्यसूयेत यो द्विजः ।
अनेकब्रह्मकल्पं च विष्ठायां जायते क्रिमिः ॥ ४५.२४॥
एतद्ग्रन्थार्थविद्ब्रह्मा स ब्रह्म भवति स्वयम् ।
किं पुनर्बहुनोक्तेन ज्ञानमेतद्विमुक्तिदम् ॥ ४५.२५॥
यस्त्वेतच्छृणुयाच्छिवोदिमहावेदान्तांबुधि (?)
वीचिजातपुण्यं नापेक्षत्यनिशं न चाब्दकल्पैः ।
शब्दानां निखिलो रसो हि स शिवः किं वा तुषाद्रि
परिखंडनतो भवेत् स्यात् तण्डुलोऽपि स मृषा भवमोहजालम् ॥ ४५.२६॥
तद्वत् सर्वमशास्त्रमित्येव हि सत्यं
द्वैतोत्थं परिहाय वाक्यजालम् ।
एवं त्वं त्वनिशं भजस्व नित्यं
शान्तोद्यखिलवाक् समूहभावना ॥ ४५.२७॥
सत्यत्वाभावभावितोऽनुरूपशीलः ।
सम्पश्यन् जगदिदमासमञ्जसं सदा हि ॥ ४५.२८॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
निदाघकृतगुरुस्तुतिवर्णनं नाम पञ्चचत्वारिंशोऽध्यायः ॥
४६ ॥ षट्चत्वारिंशोऽध्यायः ॥
निदाघः -
एतद्ग्रन्थं सदा श्रुत्वा चित्तजाड्यमकुर्वतः ।
यावद्देहं सदा वित्तैः शुश्रूषेत् पूजयेद्गुरुम् ॥ ४६.१॥
तत्पूजयैव सततं अहं ब्रह्मेति निश्चिनु ।
नित्यं पूर्णोऽस्मि नित्योऽस्मि सर्वदा शान्तविग्रहः ॥ ४६.२॥
एतदेवात्मविज्ञानं अहं ब्रह्मेति निर्णयः ।
निरङ्कुशस्वरूपोऽस्मि अतिवर्णाश्रमी भव ॥ ४६.३॥
अग्निरित्यादिभिर्मन्त्रैः सर्वदा भस्मधारणम् ।
त्रियायुषैस्त्र्यंबकैश्च कुर्वन्ति च त्रिपुण्ड्रकम् ॥ ४६.४॥
त्रिपुण्ड्रधारिणामेव सर्वदा भस्मधारणम् ।
शिवप्रसादसम्पत्तिर्भविष्यति न संशयः ॥ ४६.५॥
शिवप्रसादादेतद्वै ज्ञानं सम्प्राप्यते ध्रुवम् ।
शिरोव्रतमिदं प्रोक्तं केवलं भस्मधारणम् ॥ ४६.६॥
भस्मधारणमात्रेण ज्ञानमेतद्भविष्यति ।
अहं वत्सरपर्यन्तं कृत्वा वै भस्मधारणम् ॥ ४६.७॥
त्वत्पादाब्जं प्रपन्नोऽस्मि त्वत्तो लब्धात्म निर्वृतिः ।
सर्वाधारस्वरूपोऽहं सच्चिदानन्दमात्रकम् ॥ ४६.८॥
ब्रह्मात्माहं सुलक्षण्यो ब्रह्मलक्षणपूर्वकम् ।
आनन्दानुभवं प्राप्तः सच्चिदानन्दविग्रहः ॥ ४६.९॥
गुणरूपादिमुक्तोऽस्मि जीवन्मुक्तो न संशयः ।
मैत्र्यादिगुणसम्पन्नो ब्रह्मैवाहं परो महान् ॥ ४६.१०॥
समाधिमानहं नित्यं जीवन्मुक्तेषु सत्तमः ।
अहं ब्रह्मास्मि नित्योऽस्मि समाधिरिति कथ्यते ॥ ४६.११॥
प्रारब्धप्रतिबन्धश्च जीवन्मुक्तेषु विद्यते ।
प्रारब्धवशतो यद्यत् प्राप्यं भुञ्जे सुखं वस ॥ ४६.१२॥
दूषणं भूषणं चैव सदा सर्वत्र संभवेत् ।
स्वस्वनिश्चयतो बुद्ध्या मुक्तोऽहमिति मन्यते ॥ ४६.१३॥
अहमेव परं ब्रह्म अहमेव परा गतिः ।
एवं निश्चयवान् नित्यं जीवन्मुक्तेति कथ्यते ॥ ४६.१४॥
एतद्भेदं च सन्त्यज्य स्वरूपे तिष्ठति प्रभुः ।
इन्द्रियार्थविहीनोऽहमिन्द्रियार्थविवर्जितः ॥ ४६.१५॥
सर्वेन्द्रियगुणातीतः सर्वेन्द्रियविवर्जितः ।
सर्वस्य प्रभुरेवाहं सर्वं मय्येव तिष्ठति ॥ ४६.१६॥
अहं चिन्मात्र एवास्मि सच्चिदान्दविग्रहः ।
सर्वं भेदं सदा त्यक्त्वा ब्रह्मभेदमपि त्यजेत् ॥ ४६.१७॥
अजस्रं भावयन् नित्यं विदेहो मुक्त एव सः ।
अहं ब्रह्म परं ब्रह्म अहं ब्रह्म जगत्प्रभुः ॥ ४६.१८॥
अहमेव गुणातीतः अहमेव मनोमयः ।
अहं मय्यो मनोमेयः प्राणमेयः सदामयः ॥ ४६.१९॥
सदृङ्मयो ब्रह्ममयोऽमृतमयः सभूतोमृतमेव हि ।
अहं सदानन्दधनोऽव्ययः सदा ।
स वेदमय्यो प्रणवोऽहमीशः ॥ ४६.२०॥
अपाणिपादो जवनो गृहीता
अपश्यः पश्याम्यात्मवत् सर्वमेव ।
यत्तद्भूतं यच्च भव्योऽहमात्मा
सर्वातीतो वर्तमानोऽहमेव ॥ ४६.२२॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
ज्ञानोपायभूतशिवव्रतनिरूपणं नाम षट्चत्वारिंशोऽध्यायः ॥
४७ ॥ सप्तचत्वारिंशोऽध्यायः ॥
ऋभुः -
निदाघ शृणु वक्ष्यामि दृढीकरणमस्तु ते ।
शिवप्रसादपर्यन्तमेवं भावय नित्यशः ॥ ४७.१॥
अहमेव परं ब्रह्म अहमेव सदाशिवः ।
अहमेव हि चिन्मात्रमहमेव हि निर्गुणः ॥ ४७.२॥
अहमेव हि चैतन्यमहमेव हि निष्कलः ।
अहमेव हि शून्यात्मा अहमेव हि शाश्वतः ॥ ४७.३॥
अहमेव हि सर्वात्मा अहमेव हि चिन्मयः ।
अहमेव परं ब्रह्म अहमेव महेश्वरः ॥ ४७.४॥
अहमेव जगत्साक्षी अहमेव हि सद्गुरुः ।
अहमेव हि मुक्तात्मा अहमेव हि निर्मलः ॥ ४७.५॥
अहमेवाहमेवोक्तः अहमेव हि शङ्करः ।
अहमेव हि महाविष्णुरहमेव चतुर्मुखः ॥ ४७.६॥
अहमेव हि शुद्धात्मा ह्यहमेव ह्यहं सदा ।
अहमेव हि नित्यात्मा अहमेव हि मत्परः ॥ ४७.७॥
अहमेव मनोरूपं अहमेव हि शीतलः ।
अहमेवान्तर्यामी च अहमेव परेश्वरः ॥ ४७.८॥
एवमुक्तप्रकारेण भावयित्वा सदा स्वयम् ।
द्रव्योऽस्ति चेन्न कुर्यात्तु वंचकेन गुरुं परम् ॥ ४७.९॥
कुम्भीपाके सुघोरे तु तिष्ठत्येव हि कल्पकान् ।
श्रुत्वा निदाघश्चोथाय पुत्रदारान् प्रदत्तवान् ॥ ४७.१०॥
स्वशरीरं च पुत्रत्वे दत्वा सादरपूर्वकम् ।
धनधान्यं च वस्त्रादीन् दत्वाऽतिष्ठत् समीपतः ॥ ४७.११॥
गुरोस्तु दक्षिणां दत्वा निदाघस्तुष्टवानृभुम् ।
सन्तुष्टोऽस्मि महाभाग तव शुश्रूषया सदा ॥ ४७.१२॥
ब्रह्मविज्ञानमाप्तोऽसि सुकृतार्थो न संशयः ।
ब्रह्मरूपमिदं चेति निश्चयं कुरु सर्वदा ॥ ४७.१३॥
निश्चयादपरो मोक्षो नास्ति नास्तीति निश्चिनु ।
निश्चयं कारणं मोक्षो नान्यत् कारणमस्ति वै ॥ ४७.१४॥
सकलभुवनसारं सर्ववेदान्तसारं
समरसगुरुसारं सर्ववेदार्थसारम् ।
सकलभुवनसारं सच्चिदानन्दसारं
समरसजयसारं सर्वदा मोक्षसारम् ॥ ४७.१५॥
सकलजननमोक्षं सर्वदा तुर्यमोक्षं
सकलसुलभमोक्षं सर्वसाम्राज्यमोक्षम् ।
विषयरहितमोक्षं वित्तसंशोषमोक्षं
श्रवणमननमात्रादेतदत्यन्तमोक्षम् ॥ ४७.१६॥
तच्छुश्रूषा च भवतः तच्छ्रुत्वा च प्रपेदिरे ।
एवं सर्ववचः श्रुत्वा निदाघऋषिदर्शितम् ।
शुकादयो महान्तस्ते परं ब्रह्ममवाप्नुवन् ॥ ४७.१७॥
श्रुत्वा शिवज्ञानमिदं ऋभुस्तदा
निदाघमाहेत्थं मुनीन्द्रमध्ये ।
मुदा हि तेऽपि श्रुतिशब्दसारं
श्रुत्वा प्रणम्याहुरतीव हर्षात् ॥ ४७.१८॥
मुनयः -
पिता माता भ्राता गुरुरसि वयस्योऽथ हितकृत्
अविद्याब्धेः पारं गमयसि भवानेव शरणम् ।
बलेनास्मान् नीत्वा मम वचनबलेनैव सुगमं
पथं प्राप्त्यैवार्थैः शिववचनतोऽस्मान् सुखयसि ॥ ४७.१९॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
ऋभुकृतसंग्रहोपदेशवर्णनं नाम सप्तचत्वारिंशोऽध्यायः ॥
४८ ॥ अष्टचत्वारिंशोऽध्यायः ॥
स्कन्दः -
ज्ञानाङ्गसाधनं वक्ष्ये शृणु वक्ष्यामि ते हितम् ।
यत् कृत्वा ज्ञानमाप्नोति तत् प्रादात् परमेष्ठिनः ॥ ४८.१॥
जैगीषव्य शृणुष्वैतत् सावधानेन चेतसा ।
प्रथमं वेदसम्प्रोक्तं कर्माचरणमिष्यते ॥ ४८.२॥
उपनीतो द्विजो वापि वैश्यः क्षत्रिय एव वा ।
अग्निरित्यादिभिर्मन्त्रैर्भस्मधृक् पूयते त्वघैः ॥ ४८.३॥
त्रियायुषैस्त्र्यम्बकैश्च त्रिपुण्ड्रं भस्मनाऽऽचरेत् ।
लिङ्गार्चनपरो नित्यं रुद्राक्षान् धारयन् क्रमैः ॥ ४८.४॥
कण्ठे बाह्वोर्वक्षसी च मालाभिः शिरसा तथा ।
त्रिपुण्ड्रवद्धारयेत रुद्राक्षान् क्रमशो मुने ॥ ४८.५॥
एकाननं द्विवक्त्रं वा त्रिवक्त्रं चतुरास्यकम् ।
पञ्चवक्त्रं च षट् सप्त तथाष्टदशकं नव ॥ ४८.६॥
एकादशं द्वादशं वा तथोर्ध्वं धारयेत् क्रमात् ।
भस्मधारणमात्रेण प्रसीदति महेश्वरः ॥ ४८.७॥
रुद्राक्षधारणादेव नरो रुद्रत्वमाप्नुयात् ।
भस्मरुद्राक्षधृङ्मर्त्यो ज्ञानाङ्गी भवति प्रियः ॥ ४८.८॥
रुद्राध्यायी भस्मनिष्ठः पञ्चाक्षरजपाधरः ।
भस्मोद्धूलितदेहोऽयं श्रीरुद्रं प्रजपन् द्विजः ॥ ४८.९॥
सर्वपापैर्विमुक्तश्च ज्ञाननिष्ठो भवेन्मुने ।
भस्मसंछन्नसर्वाङ्गो भस्मफालत्रिपुण्ड्रकः ॥ ४८.१०॥
वेदमौलिजवाक्येषु विचाराधिकृतो भवेत् ।
नान्यपुण्ड्रधरो विप्रो यतिर्वा विप्रसत्तम ॥ ४८.११॥
शमादिनियमोपेतः क्षमायुक्तोऽप्यसंस्कृतः ।
शिरोव्रतमिदं प्रोक्तं भस्मधारणमेव हि ॥ ४८.१२॥
शिरोव्रतं च विधिवद्यैश्चीर्णं मुनिसत्तम ।
तेषामेव ब्रह्मविद्यां वदेत गुरुरास्तिकः ॥ ४८.१३॥
शांभवा एव वेदेषु निष्ठा नष्टाशुभाः परम् ।
शिवप्रसादसम्पन्नो भस्मरुद्राक्षधारकः ॥ ४८.१४॥
रुद्राध्यायजपासक्तः पञ्चाक्षरपरायणः ।
स एव वेदवेदान्तश्रवणेऽधिकृतो भवेत् ॥ ४८.१५॥
नान्यपुण्ड्रधरो विप्रः कृत्वापि श्रवणं बहु ।
नैव लभ्येत तद्ज्ञानं प्रसादेन विनेशितुः ॥ ४८.१६॥
प्रसादजनकं शम्भोर्भस्मधारणमेव हि ।
शिवप्रसादहीनानां ज्ञानं नैवोपजायते ॥ ४८.१७॥
प्रसादे सति देवस्य विज्ञानस्फुरणं भवेत् ।
रुद्राध्यायजापिनां तु भस्मधारणपूर्वकम् ॥ ४८.१८॥
प्रसादो जायते शम्भोः पुनरावृत्तिवर्जितः ।
प्रसादे सति देवस्य वेदान्तस्फुरणं भवेत् ॥ ४८.१९॥
तस्यैवाकथिता ह्यर्थाः प्रकाशन्ते महात्मनः ।
पञ्चाक्षरजपादेव पञ्चास्यध्यानपूर्वकम् ॥ ४८.२०॥
तस्यैव भवति ज्ञानं शिवप्रोक्तमिदं ध्रुवम् ।
सर्वं शिवात्मकं भाति जगदेतत् चराचरम् ॥ ४८.२१॥
स प्रसादो महेशस्य विज्ञेयः शांभवोत्तमैः ।
शिवलिङ्गार्चनादेव प्रसादः शांभवोत्तमे ॥ ४८.२२॥
नियमाद्बिल्वपत्रैश्च भस्मधारणपूर्वकम् ।
प्रसादो जायते शम्भोः साक्षाद्ज्ञानप्रकाशकः ॥ ४८.२३॥
शिवक्षेत्रनिवासेन ज्ञानं सम्यक् दृढं भवेत् ।
शिवक्षेत्रनिवासे तु भस्मधार्यधिकारवान् ॥ ४८.२४॥
नक्ताशनार्चनादेव प्रीयेत भगवान् भवः ।
प्रदोषपूजनं शंभोः प्रसादजनकं परम् ॥ ४८.२५॥
सोमवारे निशीथेषु पूजनं प्रियमीशितुः ।
भूतायां भूतनाथस्य पूजनं परमं प्रियम् ॥ ४८.२६॥
शिवशब्दोच्चारणं च प्रसादजनकं महत् ।
ज्ञानाङ्गसाधनेष्वेवं शिवभक्तार्चनं महत् ॥ ४८.२७॥
भक्तानामर्चनादेव शिवः प्रीतो भविष्यति ।
इत्येतत्तं समासेन ज्ञानाङ्गं कथितं मया ।
अकैतवेन भावेन श्रवणीयो महेश्वरः ॥ ४८.२८॥
सूतः -
यः कोऽपि प्रसभं प्रदोषसमये बिल्वीदलालङ्कृतं
लिङ्गं तुङ्गमपारपुण्यविभवैः पश्येदथार्चेत वा ।
प्राप्तं राज्यमवाप्य कामहृदयस्तुष्येदकामो यदि
मुक्तिद्वारमपावृतं स तु लभेत् शम्भोः कटाक्षाङ्कुरैः ॥ ४८.२९॥
अचलातुलराजकन्यकाकुचलीलामलबाहुजालमीशम् ।
भजतामनलाक्षिपादपद्मं भवलीलं न भवेत चित्तबालम् ॥ ४८.३०॥
भस्मत्रिपुण्ड्ररचिताङ्गकबाहुफाल-
रुद्राक्षजालकवचाः श्रुतिसूक्तिमालाः ।
वेदोरुरत्नपदकाङ्कितशम्भुनाम-
लोला हि शांभववराः परिशीलयन्ति ॥ ४८.३१॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
स्कन्दकृतशिवव्रतोपदेशवर्णनं नाम अष्टचत्वारिंशोऽध्यायः ॥
४९ ॥ एकोनपञ्चाशोऽध्यायः ॥
स्कन्दः -
पुरा मगधदेशीयो ब्राह्मणो वेदपारगः ।
उचथ्यतनयो वाग्मी वेदार्थप्रवणे धृतः ॥ ४९.१॥
नाम्ना सुदर्शनो विप्रान् पाठयन् शास्त्रमुत्तमम् ।
वेदान्तपरया भक्त्या वर्णाश्रमरतः सदा ॥ ४९.२॥
मोक्षमिच्छेदपि सदा विप्रोऽपि च जनार्दनात् ।
विष्णुपूजापरो नित्यं विष्णुक्षेत्रेषु संवसन् ॥ ४९.३॥
गोपीचन्दनफालोसौ तुलस्यैवार्चयद्धरिम् ।
उवास नियतं विप्रो विष्णुध्यानपरायणः ॥ ४९.४॥
दशवर्षमिदं तस्य कृत्यं दृष्ट्वा जनार्दनः ।
मोक्षेच्छोराजुहावैनं पुरतोद्भूय तं द्विजम् ॥ ४९.५॥
विष्णुः -
औचथ्य मुनिशार्दूल तपस्यभिरतः सदा ।
वृणु कामं ददाम्येव विना ज्ञानं द्विजोत्तम ॥ ४९.६॥
सूतः -
इति विष्णोर्गिरं श्रुत्वा विप्रः किञ्चिद्भयान्वितः ।
प्रणिपत्याह तं विष्णुं स्तुवन्नारायणेति तम् ॥ ४९.७॥
सुदर्शनः -
विष्णो जिष्णो नमस्तेऽस्तु शङ्खचक्रगदाधर ।
त्वत्पादनलिनं प्राप्तो ज्ञानायानर्हणः किमु ॥ ४९.८॥
किमन्यैर्धर्मकामार्थैर्नश्वरैरिह शङ्खभृत् ।
इत्युक्तं तद्वचः श्रुत्वा विष्णु प्राह सुदर्शनम् ॥ ४९.९॥
विष्णुः -
सुदर्शन शृणुष्वैतन्मत्तो नान्यमना द्विज ।
वदामि ते हितं सत्यं मया प्राप्तं यथा तव ॥ ४९.१०॥
मदर्चनेन ध्यानेन मोक्षेच्छा जायते नृणाम् ।
मोक्षदाता महादेवो ज्ञानविज्ञानदायकः ॥ ४९.११॥
तदर्चनेन सम्प्राप्तं मया पूर्वं सुदर्शनम् ।
सहस्रारं दैत्यहन्तृ साक्षात् त्र्यक्षप्रपूजया ॥ ४९.१२॥
तमाराधय यत्नेन भस्मधारणपूर्वकम् ।
अग्निरित्यादिभिर्मन्त्रैस्त्रियायुषत्रिपुण्ड्रकैः ॥ ४९.१३॥
रुद्राक्षधारको नित्यं रुद्रपञ्चाक्षरादरः ।
शिवलिङ्गं बिल्वपत्रैः पूजयन् ज्ञानवान् भव ॥ ४९.१४॥
वसन् क्षेत्रे महेशस्य स्नाहि तीर्थे च शाङ्करे ।
अहं ब्रह्मादयो देवाः पूजयैव पिनाकिनः ॥ ४९.१५॥
बलिनः शिवलिङ्गस्य पूजया विप्रसत्तम ।
यस्य फालतलं मेऽद्य त्रिपुण्ड्रपरिचिन्हितम् ॥ ४९.१६॥
ब्रह्मेन्द्रदेवमुनिभिस्त्रिपुण्ड्रं भस्मना धृतम् ।
पश्य वक्षसि बाह्वोर्मे रुद्राक्षाणां स्रजं शुभाम् ॥ ४९.१७॥
पञ्चाक्षरजपासक्तो रुद्राध्यायपरायणः ।
त्रिकालमर्चयामीशं बिल्वपत्रैरहं शिवम् ॥ ४९.१८॥
कमला विमला नित्यं कोमलैर्बिल्वपल्लवैः ।
पूजयत्यनिशं लिङ्गे तथा ब्रह्मादयः सुराः ॥ ४९.१९॥
मुनयो मनवोऽप्येवं तथान्ये द्विजसत्तमाः ।
नृपासुरास्तथा दैत्या बलिनः शिवपूजया ॥ ४९.२०॥
ज्ञानं मोक्षस्तथा भाग्यं लभ्यते शङ्करार्चनात् ।
तस्मात् त्वमपि भक्त्यैव समाराधय शङ्करम् ॥ ४९.२१॥
पशवो विष्णुविधयस्तथान्ये मुनयः सुराः ।
सर्वेषां पतिरीशानस्तत्प्रसादाद्विमुक्तिभाक् ॥ ४९.२२॥
प्रसादजनकं तस्य भस्मधारणमेव हि ।
प्रसादजनकं तस्य मुने रुद्राक्षधारणम् ॥ ४९.२३॥
प्रसादजनकस्तस्य रुद्राध्यायजपः सदा ।
प्रसादजनकस्तस्य पञ्चाक्षरजपो द्विज ॥ ४९.२४॥
प्रसादजनकं तस्य शिवलिङ्गैकपूजनम् ।
प्रसादे शांभवे जाते भुक्तिमुक्ती करे स्थिते ॥ ४९.२५॥
तस्य भक्त्यैव सर्वेषां मोचनं भवपाशतः ।
तस्य प्रीतिकरं साक्षाद्बिल्वैर्लिङ्गस्य पूजनम् ॥ ४९.२६॥
तस्य प्रीतिकरं साक्षाच्छिवक्षेत्रेषु वर्तनम् ।
तस्य प्रीतिकरं साक्षात् शिवतीर्थनिषेवणम् ॥ ४९.२७॥
तस्य प्रीतिकरं साक्षात् भस्मरुद्राक्षधारणम् ।
तस्य प्रीतिकरं साक्षात् प्रदोषे शिवपूजनम् ॥ ४९.२८॥
तस्य प्रीतिकरं साक्षाद् रुद्रपञ्चाक्षरावृतिः ।
तस्य प्रीतिकरं साक्षाच्छिवभक्तजनार्चनम् ॥ ४९.२९॥
तस्य प्रीतिकरं साक्षात् सोमे सायन्तनार्चनम् ।
तस्य प्रीतिकरं साक्षात् तन्निर्माल्यैकभोजनम् ॥ ४९.३०॥
तस्य प्रीतिकरं साक्षाद् अष्टमीष्वर्चनं निशि ।
तस्य प्रीतिकरं साक्षात् चतुर्दश्यर्चनं निशि ॥ ४९.३१॥
तस्य प्रीतिकरं साक्षात् तन्नाम्नां स्मृतिरेव हि ।
एतावानेन धर्मो हि शम्भोः प्रियकरो महान् ॥ ४९.३२॥
अन्यदभ्युदयं विप्र श्रुतिस्मृतिषु कीर्तितम् ।
धर्मो वर्णाश्रमप्रोक्तो मुनिभिः कथितो मुने ॥ ४९.३३॥
अविमुक्ते विशेषेण शिवो नित्यं प्रकाशते ।
तस्मात् काशीति तत् प्रोक्तं यतो हीशः प्रकाशते ॥ ४९.३४॥
तत्रैवामरणं तिष्ठेदिति जाबालिकी श्रुतिः ।
तत्र विश्वेश्वरे लिङ्गे नित्यं ब्रह्म प्रकाशते ॥ ४९.३५॥
तत्रान्नपूर्णा सर्वेषां भुक्त्यन्नं सम्प्रयच्छति ।
तत्रास्ति मणिकर्णाख्यं मणिकुण्डं विनिर्मितम् ॥ ४९.३६॥
ज्ञानोदयोऽपि तत्रास्ति सर्वेषां ज्ञानदायकः ।
तत्र याहि मया सार्धं तत्रैव वस वै मुने ॥ ४९.३७॥
तत्रान्ते मोक्षदं ज्ञानं ददातीश्वर एव हि ।
इत्युक्त्वा तेन विप्रेण ययौ काशीं हरिः स्वयम् ॥ ४९.३८॥
स्नात्वा तीर्थे चक्रसंज्ञे ज्ञानवाप्यां हरिद्विजः ।
तं द्विजं स्नापयामास भस्मनापादमस्तकम् ॥ ४९.३९॥
धृतत्रिपुण्ड्ररुद्राक्षं कृत्वा तं च सुदर्शनम् ।
पूजयच्चाथ विश्वेशं पूजयामास च द्विजान् ॥ ४९.४०॥
बिल्वैर्गन्धाक्षतैर्दीपैर्नैवेद्यैश्च मनोहरैः ।
तुष्टाव प्रणिपत्यैवं स द्विजो मधुसूदनः ॥ ४९.४१॥
सुदर्शनविष्णू -
भज भज भसितानलोज्वलाक्षं
भुजगाभोगभुजङ्गसङ्गहस्तम् ।
भवभीममहोग्ररुद्रमीड्यं
भवभर्जकतर्जकं महैनसाम् ॥ ४९.४२॥
वेदघोषभटकाटकावधृक् देहदाहदहनामल काल ।
जूटकोटिसुजटातटिदुद्यद्रागरञ्जितटिनीशशिमौले ॥ ४९.४३॥
शंबराङ्कवरभूष पाहि मामम्बरान्तरचरस्फुटवाह ।
वारिजाद्यघनघोष शङ्कर त्राहि वारिजभवेड्य महेश ॥ ४९.४४॥
मदगजवरकृत्तिवास शंभो
मधुमदनाक्षिसरोरुहार्च्यपाद ।
यममददमनान्धशिक्ष शंभो
पुरहर पाहि दयाकटाक्षसारैः ॥ ४९.४५॥
अपां पुष्पं मौलौ हिमभयहरः फालनयनः
जटाजूटे गङ्गाऽम्बुजविकसनः सव्यनयनः ।
गरं कण्ठे यस्य त्रिभुवनगुरोः शंबरहर
मतङ्गोद्यत्कृत्तेर्भवहरणपादाब्जभजनम् ॥ ४९.४६॥
श्रीबिल्वमूलशितिकण्ठमहेशलिङ्गं
बिल्वाम्बुजोत्तमवरैः परिपूज्य भक्त्या ।
स्तम्बेरमाङ्गवदनोत्तमसङ्गभङ्ग
राजद्विषाङ्गपरिसङ्गमहेशशाङ्गम् ॥ ४९.४७॥
यो गौरीरमणार्चनोद्यतमतिर्भूयो भवेच्छांभवो
भक्तो जन्मपरंपरासु तु भवेन्मुक्तोऽथ मुक्त्यङ्गना-
कान्तस्वान्तनितान्तशान्तहृदये कार्तान्तवार्तोज्झितः ।
विष्णुब्रह्मसुरेन्द्ररञ्जितमुमाकान्तांघ्रिपङ्केरुह-
ध्यानानन्दनिमग्नसर्वहृदयः किञ्चिन्न जानात्यपि ॥ ४९.४८॥
कामारातिपदाम्बुजार्चनरतः पापानुतापाधिक-
व्यापारप्रवणप्रकीर्णमनसा पुण्यैरगण्यैरपि ।
नो दूयेत विशेषसन्ततिमहासारानुकारादरा-
दाराग्राहकुमारमारसुशराद्याघातभीतैरपि ॥ ४९.४९॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे विष्णूचथ्यसंवादे
शिवस्य ज्ञानदातृत्वनिरूपणं नाम एकोनपञ्चाशोऽध्यायः ॥
५० ॥ पञ्चाशोऽध्यायः ॥
स्कन्दः -
विष्णुस्तवान्ते विप्रोऽसौ सुदर्शनसमाह्वयः ।
स्नात्वाऽथ मणिकर्ण्यां स भस्मरुद्राक्षभूषणः ॥ ५०.१॥
सञ्जपन् शतरुद्रीयं पञ्चाक्षरपरायणः ।
सम्पाद्य बिल्वपत्राणि कमलान्यमलान्यपि ॥ ५०.२॥
गन्धाक्षतैर्धूपदीपैर्नैवेद्यैर्विविधैरपि ।
विष्णूपदिष्टमार्गेण नित्यमन्तर्गृहस्य हि ॥ ५०.३॥
प्रदक्षिणं चकारासौ लिङ्गान्यभ्यर्चयंस्तथा ।
विश्वेश्वराविमुक्तेशौ वीरेशं च त्रिलोचनम् ॥ ५०.४॥
कृत्तिवासं वृद्धकाले केदारं शूलटङ्ककम् ।
रत्नेशं भारभूतेशं चन्द्रेशं सिद्धकेश्वरम् ॥ ५०.५॥
घण्टाकर्णेश्वरं चैव नारदेशं यमेश्वरम् ।
पुलस्तिपुलहेशं च विकर्णेशं फलेश्वरम् ॥ ५०.६॥
कद्रुद्रेशमखण्डेशं केतुमालिं गभस्तिकम् ।
यमुनेशं वर्णकेशं भद्रेशं ज्येष्ठशङ्करम् ॥ ५०.७॥
नन्दिकेशं च रामेशं करमर्देश्वरं तथा ।
आवर्देशं मतङ्गेशं वासुकीशं द्रुतीश्वरम् ॥ ५०.८॥
सूर्येशमर्यमेशं च तूणीशं गालवेश्वरम् ।
कण्वकात्यायनेशं च चन्द्रचूडेश्वरं तथा ॥ ५०.९॥
उदावर्तेश्वरं चैव तृणज्योतीश्वरं सदा ।
कङ्कणेशं तङ्कणेशं स्कन्देशं तारकेश्वरम् ॥ ५०.१०॥
जम्बुकेशं च ज्ञानेशं नन्दीशं गणपेश्वरम् ।
एतान्यन्तर्गृहे विप्रः पूजयन् परया मुदा ॥ ५०.११॥
ढुण्ढ्यादिगणपांश्चैव भैरवं चापि नित्यशः ।
अन्नपूर्णामन्नदात्रीं साक्षाल्लोकैकमातरम् ॥ ५०.१२॥
दण्डपाणिं क्षेत्रपालं सम्यगभ्यर्च्य तस्थिवान् ।
तीर्थान्यन्यान्यपि मुनिर्मणिकर्ण्यादि सत्तम ॥ ५०.१३॥
ज्ञानोदं सिद्धकूपं च वृद्धकूपं पिशाचकम् ।
ऋणमोचनतीर्थं च गर्गतीर्थं महत्तरम् ॥ ५०.१४॥
स्नात्वा सनियमं विप्रो नित्यं पञ्चनदे हृदे ।
किरणां धूतपापां च पञ्चगङ्गामपि द्विजः ॥ ५०.१५॥
गङ्गां मनोरमां तुङ्गां सर्वपापप्रणाशिनीम् ।
मुक्तिमण्टपमास्थाय स जपन् शतरुद्रियम् ॥ ५०.१६॥
अष्टोत्तरसहस्रं वै जपन् पञ्चाक्षरं द्विजः ।
पक्षे पक्षे तथा कुर्वन् पञ्चक्रोशप्रदक्षिणम् ॥ ५०.१७॥
अन्तर्गृहाद्बहिर्देशे चकारावसथं तदा ।
एवं संवसतस्तस्य कालो भूयानवर्तत ॥ ५०.१८॥
तत्र दृष्ट्वा तपोनिष्ठं सुदर्शनसमाह्वयम् ।
विष्णुस्तदा वै तं विप्रं समाहूय शिवार्चकम् ॥ ५०.१९॥
पुनः प्राह प्रसन्नेन चेतसा मुनिसत्तमम् ।
विष्णुः -
भोः सुदर्शनविप्रेन्द्र शिवार्चनपरायण ।
ज्ञानपात्रं भवानेव विश्वेशकृपयाऽधुना ॥ ५०.२०॥
त्वया तपांसि तप्तानि इष्टा यज्ञास्त्वयैव हि ।
अधीताश्च त्वया वेदाः काश्यां वासो यतस्तव ॥ ५०.२१॥
बहुभिर्जन्मभिर्येन कृतं क्षेत्रे महत्तपः ।
तस्यैव सिद्ध्यत्यमला काशीयं मुक्तिकाशिका ॥ ५०.२२॥
तव भाग्यस्य नान्तोऽस्ति मुने त्वं भाग्यवानसि ।
किञ्चैकं तव वक्ष्यामि हितमात्यन्तिकं शृणु ॥ ५०.२३॥
विश्वेशकृपया तेऽद्य मुक्तिरन्ते भविष्यति ।
रुद्राक्षनामपुण्यं यत् नाम्नां साहस्रमुत्तमम् ॥ ५०.२४॥
उपदेक्ष्यामि ते विप्र नामसाहस्रमीशितुः ।
तेनार्चयेशं विश्वेशं बिल्वपत्रैर्मनोहरैः ॥ ५०.२५॥
वर्षमेकं निराहारो विश्वेशं पूजयन् सदा ।
संवत्सरान्ते मुक्तस्त्वं भविष्यति न संशयः ॥ ५०.२६॥
त्वद्देहापगमे मन्त्रं पञ्चाक्षरमनुत्तमम् ।
ददाति देवो विश्वेशस्तेन मुक्तो भविष्यति ॥ ५०.२७॥
शैवेभ्यः सन्नजीवेभ्यो ददातीमं महामनुम् ।
स्कन्दः -
इति विष्णुवचः श्रुत्वा प्रणम्याह हरिं तदा ।
सुदर्शनो ययाचेत्थं नाम्नां साहस्रमुत्तमम् ॥ ५०.२८॥
भगवन् दैत्यवृन्दघ्न विष्णो जिष्णो नमोऽस्तु ते ।
सहस्रनाम्नां यद्दिव्यं विश्वेशस्याशु तद्वद ॥ ५०.२९॥
येन जप्तेन देवेशः पूजितो बिल्वपत्रकैः ।
ददाति मोक्षसाम्राज्यं देहान्ते तद्वदाशु मे ॥ ५०.३०॥
तदा विप्रवचः श्रुत्वा तस्मै चोपादिशत् स्वयम् ।
सहस्रनाम्नां देवस्य हिरण्यस्येत्यादि सत्तम ॥ ५०.३१॥
तेन सम्पूज्य विश्वेशं वर्षमेकमतन्द्रितः ।
कोमलारक्तबिल्वैश्च स्तोत्रेणानेन तुष्टुवे ॥ ५०.३२॥
सुदर्शनः -
आशीविषाङ्गपरिमण्डलकण्ठभाग-
राजत्सुसागरभवोग्रविषोरुशोभ ।
फालस्फुरज्ज्वलनदीप्तिविदीपिताशा-
शोकावकाश तपनाक्ष मृगाङ्कमौले ॥ ५०.३३॥
क्रुद्धोडुजायापतिधृतार्धशरीरशोभ
पाह्याशु शासितमखान्धकदक्षशत्रो ।
सुत्रामवज्रकरदण्डविखण्डितोरु-
पक्षाद्यघक्षितिधरोर्ध्वशयाव शंभो ॥ ५०.३४॥
उत्फुल्लहल्लकलसत्करवीरमाला-
भ्राजत्सुकन्धरशरीर पिनाकपाणे ।
चञ्चत्सुचन्द्रकलिकोत्तमचारुमौलिं
लिङ्गे कुलुञ्चपतिमम्बिकया समेतम् ॥ ५०.३५॥
छायाधवानुजलसच्छदनैः परिपूज्य भक्त्या
मुक्तेन स्वस्य च विराजितवंशकोट्या ।
सायं सङ्गवपुङ्गवोरुवहनं श्रीतुङ्गलिङ्गार्चकः
शाङ्गः पातकसङ्गभङ्गचतुरश्चासङ्गनित्यान्तरः ॥ ५०.३६॥
फालाक्षस्फुरदक्षिजस्फुरदुरुस्फूलिङ्गदग्धाङ्गका-
नङ्गोत्तुङ्गमतङ्गकृत्तिवसनं लिङ्गं भजे शाङ्करम् ।
अच्छाच्छागवहां सुरतामीक्षाशिनान्ते विभो
वृष्यं शाङ्करवाहनामनिरताः सोमं तथा वाजिनम् ॥ ५०.३७॥
त्यक्त्वा जन्मविनाशनं त्विति मुहुस्ते जिह्वया सत्तमाः
ये शंभोः सकृदेव नामनिरताः शाङ्गाः स्वतः पावनाः ॥ ५०.३८॥
मृगाङ्क मौलिमीश्वरं मृगेन्द्रशत्रुजत्वचम् ।
वसानमिन्दुसप्रभं मृगाद्यबालसत्करम् ।
भजे मृगेन्द्रसप्रभं ??? ??? ॥ ५०.३९॥
स्कन्दः -
एवं स्तुवन्तं विश्वेशं सुदर्शनमतन्द्रितम् ।
प्राहेत्थं शौरिमाभाष्य शंभोर्भक्तिविवर्धनम् ॥ ५०.४०॥
विष्णुः -
अत्रैवामरणं विप्र वस त्वं नियताशनः ।
नाम्नां सहस्रं प्रजपन् शतरुद्रीयमेव च ॥ ५०.४१॥
अन्तर्गृहात् बहिः स्थित्वा पूजयाशु महेश्वरम् ।
तवान्ते भूरिकरुणो मोक्षं दास्यत्यसंशयम् ॥ ५०.४२॥
स प्रणम्याह विश्वेशं दृष्ट्वा प्राह सुदर्शनम् ।
धन्यस्त्वं लिङ्गेऽप्यनुदिनगलितस्वान्तरङ्गाघसङ्घः
पुंसां वर्याद्यभक्त्या यमनियमवरैर्विश्ववन्द्यं प्रभाते ।
दत्वा बिल्ववरं सदंबुजदलं किञ्चिज्जलं वा मुहुः
प्राप्नोतीश्वरपादपङ्कजमुमानाथाद्य मुक्तिप्रदम् ॥ ५०.४३॥
को वा त्वत्सदृशो भवेदगपतिप्रेमैकलिङ्गार्चको
मुक्तानां प्रवरोर्ध्वकेशविलसच्छ्रीभक्तिबीजाङ्कुरैः ।
देवा वाप्यसुराः सुरा मुनिवरा भारा भुवः केवलं
वीरा वा करवीरपुष्पविलसन्मालाप्रदे नो समः ॥ ५०.४४॥
वने वा राज्ये वाप्यगपतिसुतानायकमहो
स्फुरल्लिङ्गार्चायां नियममतभावेन मनसा ।
हरं भक्त्या साध्य त्रिभुवनतृणाडम्बरवर-
प्ररूढैर्भाग्यैर्वा न हि खलु स सज्जेत भुवने ॥ ५०.४५॥
न दानैर्योगैर्वा विधिविहितवर्णाश्रमभरैः
अपारैर्वेदान्तप्रतिवचनवाक्यानुसरणैः ।
न मन्येऽहं स्वान्ते भवभजनभावेन मनसा
मुहुर्लिङ्गं शाङ्गं भजति परमानन्दकुहरः ॥ ५०.४६॥
शर्वं परवतनन्दिनीपतिमहानन्दाम्बुधेः पारगा
रागत्यागहृदा विरागपरमा भस्माङ्गरागादराः ।
मारापारशराभिघातरहिता धीरोरुधारारसैः
पारावारमहाघसंसृतिभरं तीर्णाः शिवाभ्यर्चनात् ॥ ५०.४७॥
मार्कण्डेयसुतं पुराऽन्तकभयाद्योऽरक्षदीशो हरः
तत्पादाम्बुजरागरञ्जितमना नाप्नोति किं वा फलम् ।
तं मृत्युञ्जयमञ्जसा प्रणमतामोजोजिमध्ये जयं
जेतारोतपराजयो जनिजरारोगैर्विमुक्तिं लभेत् ॥ ५०.४८॥
भूतायां भूतनाथं त्वघमतितिलकाकारभिल्लोत्थशल्यैः
धावन् भल्लूकपृष्ठे निशि किल सुमहद्व्याघ्रभीत्याऽरुरोह ।
बिल्वं नल्वप्रभं तच्छदघनमसकृत् पातयामास मूले
निद्रातन्द्रोज्झितोऽसौ मृगगणकलने मूललिङ्गेऽथ शाङ्गे ॥ ५०.४९॥
तेनाभूद्भगवान् गणोत्तमवरो मुक्ताघसङ्घस्तदा
चण्डांशोस्तनयेन पूजितपदः सारूप्यमापेशितुः ।
गङ्गाचन्द्रकलाकपर्दविलसत्फालस्फुलिङ्गोज्ज्वलद्
वालन्यङ्कुकराग्रसंगतमहाशूलाहि टंकोद्यतः ॥ ५०.५०॥
चैत्रे चित्रैः पातकैर्विप्रमुक्तो वैशाखे वै दुःखशाखाविमुक्तः ।
ज्येष्ठे श्रेष्ठो भवतेषाढमासि पुत्रप्राप्तिः श्रावणे श्रान्तिनाशः ॥ ५०.५१॥
भाद्रे भद्रो भवते चाश्विने वै अश्वप्राप्तिः कार्तिके कीर्तिलाभः ।
मार्गे मुक्तेर्मार्गमेतल्लभेत पुष्ये पुण्यं माघके चाघनाशः ॥ ५०.५२॥
फल्गु त्वंहो फाल्गुने मासि
नश्येदीशार्चातो बिल्वपत्रैश्चलिङ्गे ।
एवं तत्तन्मासि पूज्येशलिङ्गं
चित्रैः पापैर्विप्रमुक्तो द्विजेन्द्रः ॥ ५०.५३॥
दूर्वाङ्कुरैरभिनवैः शशिधामचूड-
लिङ्गार्चनेन परिशेषयदङ्कुराणि ।
संसारघोरतररूपकराणि सद्यः
मुक्त्यङ्कुराणि परिवर्धयतीह धन्यः ॥ ५०.५४॥
गोक्षीरेक्षुक्षौद्रखण्डाज्यदध्ना
सन्नारेलैः पानसाम्रादिसारैः ।
विश्वेशानं सत्सितारत्नतोयैः
गन्धोदैर्वा सिञ्च्य दोषैर्विमुक्तः ॥ ५०.५५॥
लिङ्गं चन्दनलेपसङ्गतमुमाकान्तस्य पश्यन्ति ये
ते संसारभुजङ्गभङ्गपतनानङ्गाङ्गसङ्गोज्झिताः ।
व्यङ्गं सर्वसमर्चनं भगवतः साङ्गं भवेच्छाङ्करं
शङ्गापाङ्गकृपाकटाक्षलहरी तस्मिंश्चिरं तिष्ठति ॥ ५०.५६॥
मुरलिसरलिरागैर्मर्दलैस्तालशङ्खैः
पटुपटहनिनादध्वान्तसन्धानघोषैः ।
दुन्दुभ्याघातवादैर्वरयुवतिमहानृत्तसंरंभरङ्गैः
दर्शेष्वादर्शदर्शो भगवति गिरिजानायके मुक्तिहेतुः ॥ ५०.५७॥
स्वच्छच्छत्रछवीनां विविधजितमहाच्छायया छन्नमैशं
शीर्षं विच्छिन्नपापो भवति भवहरः पूजकः शम्भुभक्त्या ।
चञ्चच्चन्द्राभकाण्डप्रविलसदमलस्वर्णरत्नाग्रभाभि-
र्दीप्यच्चामरकोटिभिः स्फुटपटघटितैश्चाकचक्यैः पताकैः ॥ ५०.५८॥
सम्पश्यारुणभूरुहोत्तमशिखासंलेढितारागणं
तारानाथकलाधरोरुसुमहालिङ्गौघसंसेवितम् ।
बिल्वानां कुलमेतदत्र सुमहापापौघसंहारकृत्
वाराणां निखिलप्रमोदजनकं शम्भोः प्रियं केवलम् ॥ ५०.५९॥
अन्नं पोत्रिमलायते धनरसं कौलेयमूत्रायते
संवेशो निगलायते मम सदानन्दो कन्दायते ।
शम्भो ते स्मरणान्तरायभरित प्राणः कृपाणायते ॥ ५०.६०॥
कः कल्पद्रुमुपेक्ष्य चित्तफलदं तूलादिदानक्षयं
बब्बूलं परिसेवते क्षुदधिको वातूलदानक्षमम् ।
तद्वच्छङ्करकिङ्करो विधिहरिब्रह्मेन्द्रचन्द्रानलान्
सेवेद्यो विधिवञ्चितः कलिबलप्राचुर्यतो मूढधीः ॥ ५०.६१॥
सुवर्णाण्डोद्भूतस्तुतिगतिसमर्च्याण्डजवर-
प्रपादं त्वां कश्चिद् भजति भुवने भक्तिपरमः ।
महाचण्डोद्दण्डप्रकटितभुवं ताण्डवपरं
विभुं सन्तं नित्यं भज भगणनाथामलजटम् ॥ ५०.६२॥
अजगवकर विष्णुबाण शम्भो
दुरितहरान्तकनाश पाहि मामनाथम् ।
भवदभयपदाब्जवर्यमेत
मम चित्तसरस्तटान्नयातु चाद्य ॥ ५०.६३॥
इत्थं विष्णुश्च काश्यां प्रमथपतिमगात् पूज्य विश्वेश्वरं तं
क्षितिसुरवरवर्यं चानुशास्येत्थमिष्टम् ।
स च मुनिगणमध्ये प्राप्य मुक्तिं तथान्ते
प्रमथपतिपदाब्जे लीनहीनाङ्गसङ्गः ॥ ५०.६४॥
सूतः -
इत्थं श्रुत्वा मुनीन्द्रोऽसौ जैगीषव्योऽवदद्विभुम् ।
प्रणिपत्य प्रहृष्टात्मा षष्ठांशं वै षडास्यतः ॥ ५०.६५॥
जैगीषव्यः -
मारमारकजानन्दवसतेर्महिमा कथम् ।
नाम्नां सहस्रमेतच्च वद मे करुणानिधे ॥ ५०.६६॥
क्षेत्राणां चाप्यथान्यानां महिमां वद सद्गुरो ।
शूरतारकसंहर्तस्त्वत्तो नान्यो गुरुर्मम ॥ ५०.६७॥
तच्छ्रुत्वा तु मुनेर्वाक्यं स्कन्दः प्राहाथ तं मुनिम् ।
स्कन्दः -
आगामिन्यंशकेऽस्मिंस्तव हृदयमहानन्दसिन्धौ विधूत्थ-
प्राचुर्यप्रकटैः करोपममहासप्तमांशे विशेषे ।
नाम्नां चापि सहस्रकं भगवतः शम्भोः प्रियं केवलं
अस्यानन्दवनस्य चैव महिमा त्वं वै शृणुष्वादरात् ॥ ५०.६८॥
उग्रोंऽशः शशिशेखरेण कथितो वेदान्तसारात्मकः
षष्ठः षण्मुखसत्तमाय स ददौ तद्ब्रह्मणे सोऽप्यदात् ।
पुत्रायात्मभवाय तद्भवहरं श्रुत्वा भवेद् ज्ञानवित्
चोक्त्वा जन्मशतायुतार्जितमहापापैर्विमुक्तो भवेत् ॥ ५०.६९॥
श्रुत्वांशमेतद् भवतापपापहं शिवास्पदज्ञानदमुत्तमं महत् ।
ध्यानेन विज्ञानदमात्मदर्शनं ददाति शम्भोः पदभक्तिभावतः ॥ ५०.७०॥
सूतः -
अध्यायपादाध्ययनेऽपि विद्या बुद्ध्या हृदि ध्यायति बन्धमुक्त्यै ।
स्वाध्यायतान्ताय शमान्विताय दद्याद्यदद्यान्न विभेद्यमेतत् ॥ ५०.७१॥
इत्थं सूतवचोद्यतमहानन्दैकमोदप्रभा
भास्वद्भास्करसप्रभा मुनिवराः संतुष्टुवुस्तं तदा ।
वेदोद्यद्वचनाशिषा प्रहृषिताः सूतं जयेत्युच्चरन्
प्याहो जग्मुरतीव हर्षितहृदा विश्वेश्वरं वीक्षितुम् ॥ ५०.७२॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे सुदर्शनस्य
मुक्तिलाभवर्णनं अंशश्रवणफलनिरूपणं च नाम पञ्चाशोऽध्यायः ॥
॥ शङ्कराख्यः षष्ठांशः समाप्तः॥
॥ सर्वं श्रीरमणार्पणमस्तु ॥
॥ ऋषभगीता ॥
अध्यायः १२४
य्
इमे जना नरश्रेष्ठ प्रशंसन्ति सदा भुवि ।
धर्मस्य शीलमेवादौ ततो मे संशयो महान् ॥ १॥
यदि तच्छक्यमस्माभिर्ज्ञातुं धर्मभृतां वर ।
श्रोतुमिच्छामि तत्सर्वं यथैतदुपलभ्यते ॥ २॥
कथं नु प्राप्यते शीलं श्रोतुमिच्छामि भारत ।
किं लक्षणं च तत्प्रोक्तं ब्रूहि मे वदतां वर ॥ ३॥
भ्
पुरा दुर्योधनेनेह धृतराष्ट्राय मानद ।
आख्यातं तप्यमानेन श्रियं दृष्ट्वा तथागताम् ॥ ४॥
इन्द्रप्रस्थे महाराज तव स भ्रातृकस्य ह ।
सभायां चावहसनं तत्सर्वं शृणु भारत ॥ ५॥
भवतस्तां सभां दृष्ट्वा समृद्धिं चाप्यनुत्तमाम् ।
दुर्योधनस्तदासीनः सर्वं पित्रे न्यवेदयत् ॥ ६॥
श्रुत्वा च धृतराष्ट्रोऽपि दुर्योधन वचस्तदा ।
अब्रवीत्कर्ण सहितं दुर्योधनमिदं वचः ॥ ७॥
किमर्थं तप्यसे पुत्र श्रोतुमिच्छामि तत्त्वतः ।
श्रुत्वा त्वामनुनेष्यामि यदि सम्यग्भविष्यसि ॥ ८॥
यथा त्वं महदैश्वर्यं प्राप्तः परपुरञ्जय ।
किङ्करा भ्रातरः सर्वे मित्राः सम्बन्धिनस्तथा ॥ ९॥
आच्छादयसि प्रावारानश्नासि पिशितौदनम् ।
आजानेया वहन्ति त्वां कस्माच्छोचसि पुत्रक ॥ १०॥
द्
दश तानि सहस्राणि स्नातकानां महात्मनाम् ।
भुञ्जते रुक्मपात्रीषु युधिष्ठिर निवेशने ॥ ११॥
दृष्ट्वा च तां सभां दिव्यां दिव्यपुष्पफलान्विताम् ।
अश्वांस्तित्तिर कल्माषान्रत्नानि विविधानि च ॥ १२॥
दृष्ट्वा तां पाण्डवेयानामृद्धिमिन्द्रोपमां शुभाम् ।
अमित्राणां सुमहतीमनुशोचामि मानद ॥ १३॥
ध्
यदीच्छसि श्रियं तात यादृशीं तां युधिष्ठिरे ।
विशिष्टां वा नरव्याघ्र शीलवान्भव पुत्रक ॥ १४॥
शीलेन हि त्रयो लोकाः शक्या जेतुं न संशयः ।
न हि किं चिदसाध्यं वै लोके शीलवतां भवेत् ॥ १५॥
एकरात्रेण मान्धाता त्र्यहेण जनमेजयः ।
सप्तरात्रेण नाभागः पृथिवीं प्रतिपेदिवान् ॥ १६॥
एते हि पार्थिवाः सर्वे शीलवन्तो दमान्विताः ।
अतस्तेषां गुणक्रीता वसुधा स्वयमागमत् ॥ १७॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
नारदेन पुरा प्रोक्तं शीलमाश्रित्य भारत ॥ १८॥
प्रह्रादेन हृतं राज्यं महेन्द्रस्य महात्मनः ।
शीलमाश्रित्य दैत्येन त्रैलोक्यं च वशीकृतम् ॥ १९॥
ततो बृहस्पतिं शक्रः प्राञ्जलिः समुपस्थितः ।
उवाच च महाप्राज्ञः श्रेय इच्छामि वेदितुम् ॥ २०॥
ततो बृहस्पतिस्तस्मै ज्ञानं नैःश्रेयसं परम् ।
कथयामास भगवान्देवेन्द्राय कुरूद्वह ॥ २१॥
एतावच्छ्रेय इत्येव बृहस्पतिरभाषत ।
इन्द्रस्तु भूयः पप्रच्छ क्व विशेषो भवेदिति ॥ २२॥
ब्
विशेषोऽस्ति महांस्तात भार्गवस्य महात्मनः ।
तत्रागमय भद्रं ते भूय एव पुरन्दर ॥ २३॥
ध्
आत्मनस्तु ततः श्रेयो भार्गवात्सुमहायशाः ।
ज्ञानमागमयत्प्रीत्या पुनः स परमद्युतिः ॥ २४॥
तेनापि समनुज्ञातो भागवेण महात्मना ।
श्रेयोऽस्तीति पुनर्भूयः शुक्रमाह शतक्रतुः ॥ २५॥
भार्गवस्त्वाह धर्मज्ञः प्रह्रादस्य महात्मनः ।
ज्ञानमस्ति विशेषेण ततो हृष्टश् च सोऽभवत् ॥ २६॥
स ततो ब्राह्मणो भूत्वा प्रह्रादं पाकशासनः ।
सृत्वा प्रोवाच मेधावी श्रेय इच्छामि वेदितुम् ॥ २७॥
प्रह्रादस्त्वब्रवीद्विप्रं क्षणो नास्ति द्विजर्षभ ।
त्रैलोक्यराज्ये सक्तस्य ततो नोपदिशामि ते ॥ २८॥
ब्राह्मणस्त्वब्रवीद्वाक्यं कस्मिन्काले क्षणो भवेत् ।
ततोपदिष्टमिच्छामि यद्यत्कार्यान्तरं भवेत् ॥ २९॥
ततः प्रीतोऽभवद्राजा प्रह्रादो ब्रह्मवादिने ।
तथेत्युक्त्वा शुभे काले ज्ञानतत्त्वं ददौ तदा ॥ ३०॥
ब्राह्मणोऽपि यथान्यायं गुरुवृत्तिमनुत्तमाम् ।
चकार सर्वभावेन यद्वत्स मनसेच्छति ॥ ३१॥
पृष्ठश्च तेन बहुशः प्राप्तं कथमरिन्दम ।
त्रैलोक्यराज्यं धर्मज्ञ कारणं तद्ब्रवीहि मे ॥ ३२॥
प्
नासूयामि द्विजश्रेष्ठ राजास्मीति कदा चन ।
कव्यानि वदतां तात संयच्छामि वहामि च ॥ ३३॥
ते विस्रब्धाः प्रभाषन्ते संयच्छन्ति च मां सदा ।
ते मा कव्य पदे सक्तं शुश्रूषुमनसूयकम् ॥ ३४॥
धर्मात्मानं जितक्रोधं संयतं संयतेन्द्रियम् ।
समाचिन्वन्ति शास्तारः क्षौद्रं मध्विव मक्षिकाः ॥ ३५॥
सोऽहं वागग्रपिष्टानां रसानामवलेहिता ।
स्वजात्यानधितिष्ठामि नक्षत्राणीव चन्द्रमाः ॥ ३६॥
एतत्पृथिव्याममृतमेतच्चक्षुरनुत्तमम् ।
यद्ब्राह्मण मुखे कव्यमेतच्छ्रुत्वा प्रवर्तते ॥ ३७॥
ध्
एतावच्छ्रेय इत्याह प्रह्रादो ब्रह्मवादिनम् ।
शुश्रूषितस्तेन तदा दैत्येन्द्रो वाक्यमब्रवीत् ॥ ३८॥
यथावद्गुरुवृत्त्या ते प्रीतोऽस्मि द्विजसत्तम ।
वरं वृणीष्व भद्रं ते प्रदातास्मि न संशयः ॥ ३९॥
कृतमित्येव दैत्येन्द्रमुवाच स च वै द्विजः ।
प्रह्रादस्त्वब्रवीत्प्रीतो गृह्यतां वर इत्युत ॥ ४०॥
ब्र्
यदि राजन्प्रसन्नस्त्वं मम चेच्छसि चेद्धितम् ।
भवतः शीलमिच्छामि प्राप्तुमेष वरो मम ॥ ४१॥
ध्
ततः प्रीतश्च दैत्येन्द्रो भयं चास्याभवन्महत् ।
वरे प्रदिष्टे विप्रेण नाल्पतेजायमित्युत ॥ ४२॥
एवमस्त्विति तं प्राह प्रह्रादो विस्मितस्तदा ।
उपाकृत्य तु विप्राय वरं दुःखान्वितोऽभवत् ॥ ४३॥
दत्ते वरे गते विप्रे चिन्तासीन्महती ततः ।
प्रह्रादस्य महाराज निश्चयं न च जग्मिवान् ॥ ४४॥
तस्य चिन्तयतस्तात छाया भूतं महाद्युते ।
तेजो विग्रहवत्तात शरीरमजहात्तदा ॥ ४५॥
तमपृच्छन्महाकायं प्रह्रादः को भवानिति ।
प्रत्याह ननु शीलोऽस्मि त्यक्तो गच्छाम्यहं त्वया ॥ ४६॥
तस्मिन्द्विज वरे राजन्वत्स्याम्यहमनिन्दितम् ।
योऽसौ शिष्यत्वमागम्य त्वयि नित्यं समाहितः ।
इत्युक्त्वान्तर्हितं तद्वै शक्रं चान्वविशत्प्रभो ॥ ४७॥
तस्मिंस्तेजसि याते तु तादृग्रूपस्ततोऽपरः ।
शरीरान्निःसृतस्तस्य को भवानिति चाब्रवीत् ॥ ४८॥
धर्मं प्रह्राद मां विद्धि यत्रासौ द्विजसत्तमः ।
तत्र यास्यामि दैत्येन्द्र यतः शीलं ततो ह्यहम् ॥ ४९॥
ततोऽपरो महाराज प्रज्वजन्निव तेजसा ।
शरीरान्निःसृतस्तस्य प्रह्रादस्य महात्मनः ॥ ५०॥
को भवानिति पृष्टश्च तमाह स महाद्युतिः ।
सत्यमस्म्यसुरेन्द्राग्र्य यास्येऽहं धर्ममन्विह ॥ ५१॥
तस्मिन्ननुगते धर्मं पुरुषे पुरुषोऽपरः ।
निश्चक्राम ततस्तस्मात्पृष्ठश्चाह महात्मना ।
वृत्तं प्रह्राद मां विद्धि यतः सत्यं ततो ह्यहम् ॥ ५२॥
तस्मिन्गते महाश्वेतः शरीरात्तस्य निर्ययौ ।
पृष्टश्चाह बलं विद्धि यतो वृत्तमहं ततः ।
इत्युक्त्वा च ययौ तत्र यतो वृत्तं नराधिप ॥ ५३॥
ततः प्रभामयी देवी शरीरात्तस्य निर्ययौ ।
तामपृच्छत्स दैत्येन्द्रः सा श्रीरित्येवमब्रवीत् ॥ ५४॥
उषितास्मि सुखं वीर त्वयि सत्यपराक्रमे ।
त्वया त्यक्ता गमिष्यामि बलं यत्र ततो ह्यहम् ॥ ५५॥
ततो भयं प्रादुरासीत्प्रह्रादस्य महात्मनः ।
अपृच्छत च तां भूयः क्व यासि कमलालये ॥ ५६॥
त्वं हि सत्यव्रता देवी लोकस्य परमेश्वरी ।
कश्चासौ ब्राह्मणश्रेष्ठस्तत्त्वमिच्छामि वेदितुम् ॥ ५७॥
ज़्री
स शक्रो ब्रह्म चारी च यस्त्वया चोपशिक्षितः ।
त्रैलोक्ये ते यदैश्वर्यं तत्तेनापहृतं प्रभो ॥ ५८॥
शीलेन हि त्वया लोकाः सर्वे धर्मज्ञ निर्जिताः ।
तद्विज्ञाय महेन्द्रेण तव शीलं हृतं प्रभो ॥ ५९॥
धर्मः सत्यं तथा वृत्तं बलं चैव तथा ह्यहम् ।
शीलमूला महाप्राज्ञ सदा नास्त्यत्र संशयः ॥ ६०॥
भ्
एवमुक्त्वा गता तु श्रीस्ते च सर्वे युधिष्ठिर ।
दुर्योधनस्तु पितरं भूय एवाब्रवीदिदम् ॥ ६१॥
शीलस्य तत्त्वमिच्छामि वेत्तुं कौरवनन्दन ।
प्राप्यते च यथा शीलं तमुपायं वदस्व मे ॥ ६२॥
ध्
सोपायं पूर्वमुद्दिष्टं प्रह्रादेन महात्मना ।
सङ्क्षेपतस्तु शीलस्य शृणु प्राप्तिं नराधिप ॥ ६३॥
अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा ।
अनुग्रहश्च दानं च शीलमेतत्प्रशस्यते ॥ ६४॥
यदन्येषां हितं न स्यादात्मनः कर्म पौरुषम् ।
अपत्रपेत वा येन न तत्कुर्यात्कथं चन ॥ ६५॥
तत्तु कर्म तथा कुर्याद्येन श्लाघेत संसदि ।
एतच्छीलं समासेन कथितं कुरुसत्तम ॥ ६६॥
यद्यप्यशीला नृपते प्राप्नुवन्ति क्व चिच्छ्रियम् ।
न भुञ्जते चिरं तात स मूलाश् च पतन्ति ते ॥ ६७॥
एतद्विदित्वा तत्त्वेन शीलवान्भव पुत्रक ।
यदीच्छसि श्रियं तात सुविशिष्टां युधिष्ठिरात् ॥ ६८॥
भ्
एतत्कथितवान्पुत्रे धृतराष्ट्रो नराधिप ।
एतत्कुरुष्व कौन्तेय ततः प्राप्स्यसि तत्फलम् ॥ ६९॥
अध्यायः १२५
य्
शीलं प्रधानं पुरुषे कथितं ते पितामह ।
कथमाशा समुत्पन्ना या च सा तद्वदस्व मे ॥ १॥
संशयो मे महानेष समुत्पन्नः पितामह ।
छेत्ता च तस्य नान्योऽस्ति त्वत्तः परपुरञ्जय ॥ २॥
पितामहाशा महती ममासीद्धि सुयोधने ।
प्राप्ते युद्धे तु यद्युक्तं तत्कर्तायमिति प्रभो ॥ ३॥
सर्वस्याशा सुमहती पुरुषस्योपजायते ।
तस्यां विहन्यमानायां दुःखो मृत्युरसंशयम् ॥ ४॥
सोऽहं हताशो दुर्बुद्धिः कृतस्तेन दुरात्मना ।
धार्तराष्ट्रेण राजेन्द्र पश्य मन्दात्मतां मम ॥ ५॥
आशां महत्तरां मन्ये पर्वतादपि स द्रुमात् ।
आकाशादपि वा राजन्नप्रमेयैव वा पुनः ॥ ६॥
एषा चैव कुरुश्रेष्ठ दुर्विचिन्त्या सुदुर्लभा ।
दुर्लभत्वाच्च पश्यामि किमन्यद्दुर्लभं ततः ॥ ७॥
भ्
अत्र ते वर्तयिष्यामि युधिष्ठिर निबोध तत् ।
इतिहासं सुमित्रस्य निर्वृत्तमृषभस्य च ॥ ८॥
सुमित्रो नाम राजर्षिर्हैहयो मृगयां गतः ।
ससार स मृगं विद्ध्वा बाणेन नतपर्वणा ॥ ९॥
स मृगो बाणमादाय ययावमितविक्रमः ।
स च राजा बली तूर्णं ससार मृगमन्तिकात् ॥ १०॥
ततो निम्नं स्थलं चैव स मृगोऽद्रवदाशुगः ।
मुहूर्तमेव राजेन्द्र समेन स पथागमत् ॥ ११॥
ततः स राजा तारुण्यादौरसेन बलेन च ।
ससार बाणासनभृत्सखड्गो हंसवत्तदा ॥ १२॥
तीर्त्वा नदान्नदींश्चैव पल्वलानि वनानि च ।
अतिक्रम्याभ्यतिक्रम्य ससारैव वनेचरन् ॥ १३॥
स तु कामान्मृगो राजन्नासाद्यासाद्य तं नृपम् ।
पुनरभ्येति जवनो जवेन महता ततः ॥ १४॥
स तस्य बाणैर्बहुभिः समभ्यस्तो वनेचरः ।
प्रक्रीडन्निव राजेन्द्र पुनरभ्येति चान्तिकम् ॥ १५॥
पुनश्च जवमास्थाय जवनो मृगयूथपः ।
अतीत्यातीत्य राजेन्द्र पुनरभ्येति चान्तिकम् ॥ १६॥
तस्य मर्मच्छिदं घोरं सुमित्रोऽमित्रकर्शनः ।
समादाय शरश्रेष्ठं कार्मुकान्निरवासृजत् ॥ १७॥
ततो गव्यूति मात्रेण मृगयूथप यूथपः ।
तस्य बान पथं त्यक्त्वा तस्थिवान्प्रहसन्निव ॥ १८॥
तस्मिन्निपतिते बाणे भूमौ प्रजलिते ततः ।
प्रविवेश महारण्यं मृगो राजाप्यथाद्रवत् ॥ १९॥
प्रविश्य तु महारण्यं तापसानामथाश्रमम् ।
आससाद ततो राजा श्रान्तश्चोपाविशत्पुनः ॥ २०॥
तं कार्मुकधरं दृष्ट्वा श्रमार्तं क्षुधितं तदा ।
समेत्य ऋषयस्तस्मिन्पूजां चक्रुर्यथाविधि ॥ २१॥
ऋषयो राजशार्दूलमपृच्छन्स्वं प्रयोजनम् ।
केन भद्र मुखार्थेन सम्प्राप्तोऽसि तपोवनम् ॥ २२॥
पदातिर्बद्धनिस्त्रिंशो धन्वी बाणी नरेश्वर ।
एतदिच्छाम विज्ञातुं कुतः प्राप्तोऽसि मानद ।
कस्मिन्कुले हि जातस्त्वं किंनामासि ब्रवीहि नः ॥ २३॥
ततः स राजा सर्वेभ्यो द्विजेभ्यः पुरुषर्षभ ।
आचख्यौ तद्यथान्यायं परिचर्यां च भारत ॥ २४॥
हैहयानां कुले जातः सुमित्रो मित्रनन्दनः ।
चरामि मृगयूथानि निघ्नन्बाणैः सहस्रशः ।
बलेन महता गुप्तः सामात्यः सावरोधनः ॥ २५॥
मृगस्तु विद्धो बाणेन मया सरति शल्यवान् ।
तं द्रवन्तमनु प्राप्तो वनमेतद्यदृच्छया ।
भवत्सकाशे नष्टश्रीर्हताशः श्रमकर्शितः ॥ २६॥
किं नु दुःखमतोऽन्यद्वै यदहं श्रमकर्शितः ।
भवतामाश्रमं प्राप्तो हताशो नष्टलक्षणः ॥ २७॥
न राज्यलक्षणत्यागो न पुरस्य तपोधनाः ।
दुःखं करोति तत्तीव्रं यथाशा विहता मम ॥ २८॥
हिमवान्वा महाशैलः समुद्रो वा महोदधिः ।
महत्त्वान्नान्वपद्येतां रोदस्योरन्तरं यथा ।
आशायास्तपसि श्रेष्ठास्तथा नान्तमहं गतः ॥ २९॥
भवतां विदितं सर्वं सर्वज्ञा हि तपोधनाः ।
भवन्तः सुमहाभागास्तस्मात्प्रक्ष्यामि संशयम् ॥ ३०॥
आशावान्पुरुषो यः स्यादन्तरिक्षमथापि वा ।
किं नु ज्यायस्तरं लोके महत्त्वात्प्रतिभाति वः ।
एतदिच्छामि तत्त्वेन श्रोतुं किमिह दुर्लभम् ॥ ३१॥
यदि गुह्यं तपोनित्या न वो ब्रूतेह माचिरम् ।
न हि गुह्यमतः श्रोतुमिच्छामि द्विजपुङ्गवाः ॥ ३२॥
भवत्तपो विघातो वा येन स्याद्विरमे ततः ।
यदि वास्ति कथा योगो योऽयं प्रश्नो मयेरितः ॥ ३३॥
एतत्कारणसामग्र्यं श्रोतुमिच्छामि तत्त्वतः ।
भवन्तो हि तपोनित्या ब्रूयुरेतत्समाहिताः ॥ ३४॥
अध्यायः १२६
भ्
ततस्तेषां समस्तानामृषीणामृषिसत्तमः ।
ऋषभो नाम विप्रर्षिः स्मयन्निव ततोऽब्रवीत् ॥ १॥
पुराहं राजशार्दूल तीर्थान्यनुचरन्प्रभो ।
समासादितवान्दिव्यं नरनारायणाश्रमम् ॥ २॥
यत्र सा बदरी रम्या ह्रदो वैहायसस्तथा ।
यत्र चाश्वशिरा राजन्वेदान्पठति शाश्वतान् ॥ ३॥
तस्मिन्सरसि कृत्वाहं विधिवत्तर्पणं पुरा ।
पितॄणां देवतानां च ततोऽऽश्रममियां तदा ॥ ४॥
रेमाते यत्र तौ नित्यं नरनारायणावृषी ।
अदूरादाश्रमं कं चिद्वासार्थमगमं ततः ॥ ५॥
ततश्चीराजिनधरं कृशमुच्चमतीव च ।
अद्राक्षमृषिमायान्तं तनुं नाम तपो निधिम् ॥ ६॥
अन्यैर्नरैर्महाबाहो वपुषाष्ट गुणान्वितम् ।
कृशता चापि राजर्षे न दृष्टा तादृशी क्व चित् ॥ ७॥
शरीरमपि राजेन्द्र तस्य कानिष्ठिका समम् ।
ग्रीवा बाहू तथा पादौ केशाश्चाद्भुतदर्शनाः ॥ ८॥
शिरः कायानुरूपं च कर्णौ नेते तथैव च ।
तस्य वाक्चैव चेष्टा च सामान्ये राजसत्तम ॥ ९॥
दृष्ट्वाहं तं कृशं विप्रं भीतः परमदुर्मनाः ।
पादौ तस्याभिवाद्याथ स्थितः प्राञ्जलिरग्रतः ॥ १०॥
निवेद्य नामगोत्रं च पितरं च नरर्षभ ।
प्रदिष्टे चासने तेन शनैरहमुपाविशम् ॥ ११॥
ततः स कथयामास कथा धर्मार्थसंहिताः ।
ऋषिमध्ये महाराज तत्र धर्मभृतां वरः ॥ १२॥
तस्मिंस्तु कथयत्येव राजा राजीवलोचनः ।
उपायाज्जवनैरश्वैः सबलः सावरोधनः ॥ १३॥
स्मरन्पुत्रमरण्ये वै नष्टं परमदुर्मनाः ।
भूरिद्युम्न पिता धीमान्रघुश्रेष्ठो महायशाः ॥ १४॥
इह द्रक्ष्यामि तं पुत्रं द्रक्ष्यामीहेति पार्थिवः ।
एवमाशाकृतो राजंश्चरन्वनमिदं पुरा ॥ १५॥
दुर्लभः स मया द्रष्टुं नूनं परमधार्मिकः ।
एकः पुत्रो महारण्ये नष्ट इत्यसकृत्तदा ॥ १६॥
दुर्लभः स मया द्रष्टुमाशा च महती मम ।
तया परीतगात्रोऽहं मुमूर्षुर्नात्र संशयः ॥ १७॥
एतच्छ्रुत्वा स भगवांस्तनुर्मुनिवरोत्तमः ।
अवाक्षिरा ध्यानपरो मुहूर्तमिव तस्थिवान् ॥ १८॥
तमनुध्यान्तमालक्ष्य राजा परमदुर्मनाः ।
उवाच वाक्यं दीनात्मा मन्दं मन्दमिवासकृत् ॥ १९॥
दुर्लभं किं नु विप्रर्षे आशायाश्चैव किं भवेत् ।
ब्रवीतु भगवानेतद्यदि गुह्यं न तन्मयि ॥ २०॥
महर्षिर्भगवांस्तेन पूर्वमासीद्विमानितः ।
बालिशां बुद्धिमास्थाय मन्दभाग्यतयात्मनः ॥ २१॥
अर्थयन्कलशं राजन्काञ्चनं वल्कलानि च ।
निर्विण्णः स तु विप्रर्षिर्निराशः समपद्यत ॥ २२॥
एवमुक्त्वाभिवाद्याथ तमृषिं लोकपूजितम् ।
श्रान्तो न्यषीदद्धर्मात्मा यथा त्वं नरसत्तम ॥ २३॥
अर्घ्यं ततः समानीय पाद्यं चैव महानृषिः ।
आरण्यकेन विधिना राज्ञे सर्वं न्यवेदयत् ॥ २४॥
ततस्ते मुनयः सर्वे परिवार्य नरर्षभम् ।
उपाविशन्पुरस्कृत्य सप्तर्षय इव ध्रुवम् ॥ २५॥
अपृच्छंश्चैव ते तत्र राजानमपराजितम् ।
प्रयोजनमिदं सर्वमाश्रमस्य प्रवेशनम् ॥ २६॥
राजा
वीर द्युम्न इति ख्यातो राजाहं दिक्षु विश्रुतः ।
भूरि द्युम्नं सुतं नष्टमन्वेष्टुं वनमागतः ॥ २७॥
एकपुत्रः स विप्राग्र्य बाल एव च सोऽनघ ।
न दृश्यते वने चास्मिंस्तमन्वेष्टुं चराम्यहम् ॥ २८॥
र्सभ
एवमुक्ते तु वचने राज्ञा मुनिरधोमुखः ।
तूष्णीमेवाभवत्तत्र न च प्रत्युक्तवान्नृपम् ॥ २९॥
स हि तेन पुरा विप्रो राज्ञा नात्यर्थ मानितः ।
आशा कृशं च राजेन्द्र तपो दीर्घं समास्थितः ॥ ३०॥
प्रतिग्रहमहं राज्ञां न करिष्ये कथं चन ।
अन्येषां चैव वर्णानामिति कृत्वा धियं तदा ॥ ३१॥
आशा हि पुरुषं बालं लालापयति तस्थुषी ।
तामहं व्यपनेष्यामि इति कृत्वा व्यवस्थितः ॥ ३२॥
र्
आशायाः किं कृशत्वं च किं चेह भुवि दुर्लभम् ।
ब्रवीतु भगवानेतत्त्वं हि धर्मार्थदर्शिवान् ॥ ३३॥
र्सभ
ततः संस्मृत्य तत्सर्वं स्मारयिष्यन्निवाब्रवीत् ।
राजानं भगवान्विप्रस्ततः कृश तनुस्तनुः ॥ ३४॥
कृशत्वे न समं राजन्नाशाया विद्यते नृप ।
तस्या वै दुर्लभत्वात्तु प्रार्थिताः पार्थिवा मया ॥ ३५॥
र्
कृशाकृशे मया ब्रह्मन्गृहीते वचनात्तव ।
दुर्लभत्वं च तस्यैव वेद वाक्यमिव द्विज ॥ ३६॥
संशयस्तु महाप्राज्ञ सञ्जातो हृदये मम ।
तन्मे सत्तम तत्त्वेन वक्तुमर्हसि पृच्छतः ॥ ३७॥
त्वत्तः कृशतरं किं नु ब्रवीतु भगवानिदम् ।
यदि गुह्यं न ते विप्र लोकेऽस्मिन्किं नु दुर्लभम् ॥ ३८॥
क्र्ज़ातनु
दुर्लभोऽप्यथ वा नास्ति योऽर्थी धृतिमिवाप्नुयात् ।
सुदुर्लभतरस्तात योऽर्थिनं नावमन्यते ॥ ३९॥
संश्रुत्य नोपक्रियते परं शक्त्या यथार्हतः ।
सक्ता या सर्वभूतेषु साशा कृशतरी मया ॥ ४०॥
एकपुत्रः पिता पुत्रे नष्टे वा प्रोषिते तथा ।
प्रवृत्तिं यो न जानाति साशा कृशतरी मया ॥ ४१॥
प्रसवे चैव नारीणां वृद्धानां पुत्र कारिता ।
तथा नरेन्द्र धनिनामाशा कृशतरी मया ॥ ४२॥
र्सभ
एतच्छ्रुत्वा ततो राजन्स राजा सावरोधनः ।
संस्पृश्य पादौ शिरसा निपपात द्विजर्षभे ॥ ४३॥
राजा
प्रसादये त्वा भगवन्पुत्रेणेच्छामि सङ्गतिम् ।
वृणीष्व च वरं विप्र यमिच्छसि यथाविधि ॥ ४४॥
र्सभ
अब्रवीच्च हि तं वाक्यं राजा राजीवलोचनः ।
सत्यमेतद्यथा विप्र त्वयोक्तं नास्त्यतो मृषा ॥ ४५॥
ततः प्रहस्य भगवांस्तनुर्धर्मभृतां वरः ।
पुत्रमस्यानयत्क्षिप्रं तपसा च श्रुतेन च ॥ ४६॥
तं समानाय्य पुत्रं तु तदोपालभ्य पार्थिवम् ।
आत्मानं दर्शयामास धर्मं धर्मभृतां वरः ॥ ४७॥
सन्दर्शयित्वा चात्मानं दिव्यमद्भुतदर्शनम् ।
विपाप्मा विगतक्रोधश्चचार वनमन्तिकात् ॥ ४८॥
एतद्दृष्टं मया राजंस्ततश्च वचनं श्रुतम् ।
आशामपनयस्वाशु ततः कृशतरीमिमाम् ॥ ४९॥
भ्
स तत्रोक्तो महाराज ऋषभेण महात्मना ।
सुमित्रोऽपनयत्क्षिप्रमाशां कृशतरीं तदा ॥ ५०॥
एवं त्वमपि कौन्तेय श्रुत्वा वाणीमिमां मम ।
स्थिरो भव यथा राजन्हिमवानचलोत्तमः ॥ ५१॥
त्वं हि द्रष्टा च श्रोता च कृच्छ्रेष्वर्थकृतेष्विह ।
श्रुत्वा मम महाराज न सन्तप्तुमिहार्हसि ॥ ५२॥
॥ इति ऋषभगीता समाप्ता ॥
॥ ऋषभगीता भागवतमहापुराणान्तर्गतम् ॥
स कदाचिदटमानो भगवानृषभो ब्रह्मावर्तगतो
ब्रह्मर्षिप्रवरसभायां प्रजानां निशामयन्तीनामात्मजानवहितात्मनः
प्रश्रयप्रणयभरसुयन्त्रितानप्युपशिक्षयन्निति होवाच ॥ ५.४.१९॥
ऋषभ उवाच
नायं देहो देहभाजां नृलोके कष्टान्कामानर्हते विड्भुजां ये ।
तपो दिव्यं पुत्रका येन सत्त्वं शुद्ध्येद्यस्माद्ब्रह्मसौख्यं त्वनन्तम् ॥ ५.५.१॥
महत्सेवां द्वारमाहुर्विमुक्तेस्तमोद्वारं योषितां सङ्गिसङ्गम् ।
महान्तस्ते समचित्ताः प्रशान्ता विमन्यवः सुहृदः साधवो ये ॥ ५.५.२॥
ये वा मयीशे कृतसौहृदार्था जनेषु देहम्भरवार्तिकेषु ।
गृहेषु जायात्मजरातिमत्सु न प्रीतियुक्ता यावदर्थाश्च लोके ॥ ५.५.३॥
नूनं प्रमत्तः कुरुते विकर्म यदिन्द्रियप्रीतय आपृणोति ।
न साधु मन्ये यत आत्मनोऽयमसन्नपि क्लेशद आस देहः ॥ ५.५.४॥
पराभवस्तावदबोधजातो यावन्न जिज्ञासत आत्मतत्त्वम् ।
यावत्क्रियास्तावदिदं मनो वै कर्मात्मकं येन शरीरबन्धः ॥ ५.५.५॥
एवं मनः कर्मवशं प्रयुङ्क्ते अविद्ययाऽऽत्मन्युपधीयमाने ।
प्रीतिर्न यावन्मयि वासुदेवे न मुच्यते देहयोगेन तावत् ॥ ५.५.६॥
यदा न पश्यत्ययथा गुणेहां स्वार्थे प्रमत्तः सहसा विपश्चित् ।
गतस्मृतिर्विन्दति तत्र तापानासाद्य मैथुन्यमगारमज्ञः ॥ ५.५.७॥
पुंसः स्त्रिया मिथुनीभावमेतं तयोर्मिथो हृदयग्रन्थिमाहुः ।
अतो गृहक्षेत्रसुताप्तवित्तैर्जनस्य मोहोऽयमहं ममेति ॥ ५.५.८॥
यदा मनोहृदयग्रन्थिरस्य कर्मानुबद्धो दृढ आश्लथेत ।
तदा जनः सम्परिवर्ततेऽस्मान्मुक्तः परं यात्यतिहाय हेतुम् ॥ ५.५.९॥
हंसे गुरौ मयि भक्त्यानुवृत्या वितृष्णया द्वन्द्वतितिक्षया च ।
सर्वत्र जन्तोर्व्यसनावगत्या जिज्ञासया तपसेहानिवृत्त्या ॥ ५.५.१०॥
मत्कर्मभिर्मत्कथया च नित्यं मद्देवसङ्गाद्गुणकीर्तनान्मे ।
निर्वैरसाम्योपशमेन पुत्रा जिहासया देहगेहात्मबुद्धेः ॥ ५.५.११॥
अध्यात्मयोगेन विविक्तसेवया प्राणेन्द्रियात्मभिजयेन सध्र्यक् ।
सच्छ्रद्धया ब्रह्मचर्येण शश्वदसम्प्रमादेन यमेन वाचाम् ॥ ५.५.१२॥
सर्वत्र मद्भावविचक्षणेन ज्ञानेन विज्ञानविराजितेन ।
योगेन धृत्युद्यमसत्त्वयुक्तो लिङ्गं व्यपोहेत्कुशलोऽहमाख्यम् ॥ ५.५.१३॥
कर्माशयं हृदयग्रन्थिबन्धमविद्ययाऽऽसादितमप्रमत्तः ।
अनेन योगेन यथोपदेशं सम्यग्व्यपोह्योपरमेत योगात् ॥ ५.५.१४॥
पुत्रांश्च शिष्यांश्च नृपो गुरुर्वा मल्लोककामो मदनुग्रहार्थः ।
इत्थं विमन्युरनुशिष्यादतज्ज्ञान्न योजयेत्कर्मसु कर्ममूढान् ।
कं योजयन्मनुजोऽर्थं लभेत निपातयन्नष्टदृशं हि गर्ते ॥ ५.५.१५॥
लोकः स्वयं श्रेयसि नष्टदृष्टिर्योऽर्थान्समीहेत निकामकामः ।
अन्योन्यवैरः सुखलेशहेतोरनन्तदुःखं च न वेद मूढः ॥ ५.५.१६॥
कस्तं स्वयं तदभिज्ञो विपश्चिदविद्यायामन्तरे वर्तमानम् ।
दृष्ट्वा पुनस्तं सघृणः कुबुद्धिं प्रयोजयेदुत्पथगं यथान्धम् ॥ ५.५.१७॥
गुरुर्न स स्यात्स्वजनो न स स्यात्पिता न स स्याज्जननी न सा स्यात् ।
दैवं न तत्स्यान्न पतिश्च स स्यान्न मोचयेद्यः समुपेतमृत्युम् ॥ ५.५.१८॥
इदं शरीरं मम दुर्विभाव्यं सत्त्वं हि मे हृदयं यत्र धर्मः ।
पृष्ठे कृतो मे यदधर्म आरादतो हि मामृषभं प्राहुरार्याः ॥ ५.५.१९॥
तस्माद्भवन्तो हृदयेन जाताः सर्वे महीयांसममुं सनाभम् ।
अक्लिष्टबुद्ध्या भरतं भजध्वं शुश्रूषणं तद्भरणं प्रजानाम् ॥ ५.५.२०॥
भूतेषु वीरुद्भ्य उदुत्तमा ये सरीसृपास्तेषु सबोधनिष्ठाः ।
ततो मनुष्याः प्रमथास्ततोऽपि गन्धर्वसिद्धा विबुधानुगा ये ॥ ५.५.२१॥
देवासुरेभ्यो मघवत्प्रधाना दक्षादयो ब्रह्मसुतास्तु तेषाम् ।
भवः परः सोऽथ विरिञ्चवीर्यः स मत्परोऽहं द्विजदेवदेवः ॥
५.५.२२॥ var विरञ्च
न ब्राह्मणैस्तुलये भूतमन्यत्पश्यामि विप्राः किमतः परं तु ।
यस्मिन्नृभिः प्रहुतं श्रद्धयाहमश्नामि कामं न तथाग्निहोत्रे ॥ ५.५.२३॥
धृता तनूरुशती मे पुराणी येनेह सत्त्वं परमं पवित्रम् ।
शमो दमः सत्यमनुग्रहश्च तपस्तितिक्षानुभवश्च यत्र ॥ ५.५.२४॥
मत्तोऽप्यनन्तात्परतः परस्मात्स्वर्गापवर्गाधिपतेर्न किञ्चित् ।
येषां किमु स्यादितरेण तेषामकिञ्चनानां मयि भक्तिभाजाम् ॥ ५.५.२५॥
सर्वाणि मद्धिष्ण्यतया भवद्भिश्चराणि भूतानि सुता ध्रुवाणि ।
सम्भावितव्यानि पदे पदे वो विविक्तदृग्भिस्तदु हार्हणं मे ॥ ५.५.२६॥
मनोवचोदृक्करणेहितस्य साक्षात्कृतं मे परिबर्हणं हि ।
विना पुमान्येन महाविमोहात्कृतान्तपाशान्न विमोक्तुमीशेत् ॥ ५.५.२७॥
श्रीशुक उवाच
एवमनुशास्यात्मजान्स्वयमनुशिष्टानपि लोकानुशासनार्थं
महानुभावः परम सुहृद्भगवानृषभापदेश
उपशमशीलानामुपरतकर्मणां महामुनीनां भक्तिज्ञानवैराग्यलक्षणं
पारमहंस्यधर्ममुपशिक्षमाणः स्वतनयशतज्येष्ठं
परमभागवतं भगवज्जनपरायणं भरतं धरणिपालनायाभिषिच्य
स्वयं भवन एवोर्वरितशरीरमात्रपरिग्रह उन्मत्त
इव गगनपरिधानः प्रकीर्णकेश आत्मन्यारोपिताहवनीयो
ब्रह्मावर्तात्प्रवव्राज ॥ ५.५.२८॥
जडान्धमूकबधिरपिशाचोन्मादकवदवधूतवेषोऽभिभाष्यमाणोऽपि
जनानां गृहीतमौनव्रतस्तूष्णीं बभूव ॥ ५.५.२९॥
तत्र तत्र पुरग्रामाकरखेटवाटखर्वटशिबिरव्रजघोषसार्थगिरि-
वनाश्रमादिष्वनुपथमवनिचरापसदैः
परिभूयमानो मक्षिकाभिरिव वनगजस्तर्जन
ताडनावमेहनष्ठीवनग्रावशकृद्रजःप्रक्षेप-
पूतिवातदुरुक्तैस्तदविगणयन्नेवासत्संस्थान
एतस्मिन्देहोपलक्षणे सदपदेश उभयानुभवस्वरूपेण
स्वमहिमावस्थानेनासमारोपिताहं ममाभिमानत्वादविखण्डितमनः
पृथिवीमेकचरः परिबभ्राम ॥ ५.५.३०॥
अतिसुकुमारकरचरणोरःस्थलविपुलबाह्वंसगलवदनाद्यवयवविन्यासः
प्रकृति सुन्दरस्वभावहाससुमुखो
नवनलिनदलायमानशिशिरतारारुणायतनयनरुचिरः
सदृशसुभगकपोलकर्णकण्ठनासो विगूढस्मितवदनमहोत्सवेन
पुरवनितानां मनसि कुसुमशरासनमुपदधानः
परागवलम्बमानकुटिलजटिलकपिशकेशभूरिभारोऽवधूतमलिननिज-
शरीरेण ग्रहगृहीत इवादृश्यत ॥ ५.५.३१॥
यर्हि वाव स भगवान्लोकमिमं योगस्याद्धा
प्रतीपमिवाचक्षाणस्तत्प्रतिक्रियाकर्म बीभत्सितमिति
व्रतमाजगरमास्थितः शयान एवाश्नाति पिबति खादत्यवमेहति हदति
स्म चेष्टमान उच्चरित आदिग्धोद्देशः ॥ ५.५.३२॥
तस्य ह यः पुरीषसुरभिसौगन्ध्यवायुस्तं देशं दशयोजनं
समन्तात्सुरभिं चकार ॥ ५.५.३३॥
एवं गोमृगकाकचर्यया व्रजंस्तिष्ठन्नासीनः शयानः
काकमृगगोचरितः पिबति खादत्यवमेहति स्म ॥ ५.५.३४॥
इति नानायोगचर्याचरणो
भगवान्कैवल्यपतिरृषभोऽविरतपरममहानन्दानुभव
आत्मनि सर्वेषां भूतानामात्मभूते भगवति वासुदेव
आत्मनोऽव्यवधानानन्तरोदरभावेन सिद्धसमस्तार्थपरिपूर्णो
योगैश्वर्याणि वैहायसमनोजवान्तर्धानपरकायप्रवेशदूरग्रहणादीनि
यदृच्छयोपगतानि नाञ्जसा नृप हृदयेनाभ्यनन्दत् ॥ ५.५.३५॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे
ऋषभदेवतानुचरिते पञ्चमोऽध्यायः ॥५.५॥
राजोवाच
न नूनं भगव आत्मारामाणां
योगसमीरितज्ञानावभर्जितकर्मबीजानामैश्वर्याणि पुनः क्लेशदानि
भवितुमर्हन्ति यदृच्छयोपगतानि ॥ ५.६.१॥
ऋषिरुवाच
सत्यमुक्तं किन्त्विह वा एके न मनसोऽद्धा विश्रम्भमनवस्थानस्य
शठकिरात इव सङ्गच्छन्ते ॥ ५.६.२॥
तथा चोक्तम्
न कुर्यात्कर्हिचित्सख्यं मनसि ह्यनवस्थिते ।
यद्विश्रम्भाच्चिराच्चीर्णं चस्कन्द तप ऐश्वरम् ॥ ५.६.३॥
नित्यं ददाति कामस्य च्छिद्रं तमनु येऽरयः ।
योगिनः कृतमैत्रस्य पत्युर्जायेव पुंश्चली ॥ ५.६.४॥
कामो मन्युर्मदो लोभः शोकमोहभयादयः ।
कर्मबन्धश्च यन्मूलः स्वीकुर्यात्को नु तद्बुधः ॥ ५.६.५॥
अथैवमखिललोकपालललामोऽपि
विलक्षणैर्जडवदवधूतवेषभाषाचरितैरविलक्षित-
भगवत्प्रभावो योगिनां साम्परायविधिमनुशिक्षयन्स्वकलेवरं
जिहासुरात्मन्यात्मानमसंव्यवहितमनर्थान्तरभावेनान्वीक्षमाण
उपरतानुवृत्तिरुपरराम ॥ ५.६.६॥
तस्य ह वा एवं मुक्तलिङ्गस्य भगवत ऋषभस्य
योगमायावासनया देह इमां जगतीमभिमानाभासेन सङ्क्रममाणः
कोङ्कवेङ्ककुटकान्दक्षिण कर्णाटकान्देशान्यदृच्छयोपगतः
कुटकाचलोपवन आस्यकृताश्मकवल उन्माद इव मुक्तमूर्धजोऽसंवीत
एव विचचार ॥ ५.६.७॥
अथ समीरवेगविभूतवेणुविकर्षणजातोग्रदावानलस्तद्वनमालेलिहानः
सह तेन ददाह ॥ ५.६.८॥
यस्य किलानुचरितमुपाकर्ण्य कोङ्कवेङ्ककुटकानां
राजार्हन्नामोपशिक्ष्य कलावधर्म उत्कृष्यमाणे भवितव्येन
विमोहितः स्वधर्मपथमकुतोभयमपहाय कुपथपाखण्डमसमञ्जसं
निजमनीषया मन्दः सम्प्रवर्तयिष्यते ॥ ५.६.९॥
येन ह वाव कलौ मनुजापसदा देवमायामोहिताः
स्वविधिनियोगशौचचारित्रविहीना देवहेलनान्यपव्रतानि
निजनिजेच्छया गृह्णाना अस्नानानाचमनाशौचकेशोल्लुञ्चनादीनि
कलिनाधर्मबहुलेनोपहतधियो ब्रह्मब्राह्मणयज्ञपुरुषलोकविदूषकाः
प्रायेण भविष्यन्ति ॥ ५.६.१०॥
ते च ह्यर्वाक्तनया निजलोकयात्रयान्धपरम्परयाऽऽश्वस्तास्तमस्यन्धे
स्वयमेव प्रपतिष्यन्ति ॥ ५.६.११॥
अयमवतारो रजसोपप्लुतकैवल्योपशिक्षणार्थः ॥ ५.६.१२॥
तस्यानुगुणान् श्लोकान्गायन्ति
अहो भुवः सप्तसमुद्रवत्या द्वीपेषु वर्षेष्वधिपुण्यमेतत् ।
गायन्ति यत्रत्यजना मुरारेः कर्माणि भद्राण्यवतारवन्ति ॥ ५.६.१३॥
अहो नु वंशो यशसावदातः प्रैयव्रतो यत्र पुमान्पुराणः ।
कृतावतारः पुरुषः स आद्यश्चचार धर्मं यदकर्महेतुम् ॥ ५.६.१४॥
को न्वस्य काष्ठामपरोऽनुगच्छेन्मनोरथेनाप्यभवस्य योगी ।
यो योगमायाः स्पृहयत्युदस्ता ह्यसत्तया येन कृतप्रयत्नाः ॥ ५.६.१५॥
इति ह स्म सकलवेदलोकदेवब्राह्मणगवां
परमगुरोर्भगवत ऋषभाख्यस्य विशुद्धाचरितमीरितं
पुंसां समस्तदुश्चरिताभिहरणं परममहा-
मङ्गलायनमिदमनुश्रद्धयोपचितयानुशृणोत्याश्रावयति वावहितो
भगवति तस्मिन्वासुदेव एकान्ततो भक्तिरनयोरपि समनुवर्तते ॥ ५.६.१६॥
यस्यामेव कवय आत्मानमविरतं
विविधवृजिनसंसारपरितापोपतप्यमानमनुसवनं स्नापयन्तस्तयैव
परया निर्वृत्या ह्यपवर्गमात्यन्तिकं परमपुरुषार्थमपि स्वयमासादितं
नो एवाद्रियन्ते भगवदीयत्वेनैव परिसमाप्तसर्वार्थाः ॥ ५.६.१७॥
राजन्पतिर्गुरुरलं भवतां यदूनां
दैवं प्रियः कुलपतिः क्व च किङ्करो वः ।
अस्त्वेवमङ्ग भगवान्भजतां मुकुन्दो
मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् ॥ ५.६.१८॥
नित्यानुभूतनिजलाभनिवृत्ततृष्णः
श्रेयस्यतद्रचनया चिरसुप्तबुद्धेः ।
लोकस्य यः करुणयाभयमात्मलोकम्
आख्यान्नमो भगवते ऋषभाय तस्मै ॥ ५.६.१९॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे
ऋषभदेवतानुचरिते षष्ठोऽध्यायः ॥५.६॥
॥ श्रीमद्भागवतान्तर्गतम् ऐलगीत ॥
श्रीभगवानुवाच ।
मल्लक्षणमिमं कायं लब्ध्वा मद्धर्म आस्थितः ।
आनन्दं परमात्मानमात्मस्थं समुपैति माम् ॥ ११.२६.१॥
गुणमय्या जीवयोन्या विमुक्तो ज्ञाननिष्ठया ।
गुणेषु मायामात्रेषु दृश्यमानेष्ववस्तुतः ।
वर्तमानोऽपि न पुमान्युज्यतेऽवस्तुभिर्गुणैः ॥ ११.२६.२॥
सङ्गं न कुर्यादसतां शिश्नोदरतृपां क्वचित् ।
तस्यानुगस्तमस्यन्धे पतत्यन्धानुगान्धवत् ॥ ११.२६.३॥
ऐलः सम्राडिमां गाथामगायत बृहच्छ्रवाः ।
उर्वशीविरहान्मुह्यन्निर्विण्णः शोकसंयमे ॥ ११.२६.४॥
त्यक्त्वात्मानं व्रयन्तीं तां नग्न उन्मत्तवन्नृपः ।
विलपन्नन्वगाज्जाये घोरे तिष्ठेति विक्लवः ॥ ११.२६.५॥
कामानतृप्तोऽनुजुषन्क्षुल्लकान्वर्षयामिनीः ।
न वेद यान्तीर्नायान्तीरुर्वश्याकृष्टचेतनः ॥ ११.२६.६॥
ऐल उवाच ।
अहो मे मोहविस्तारः कामकश्मलचेतसः ।
देव्या गृहीतकण्ठस्य नायुःखण्डा इमे स्मृताः ॥ ११.२६.७॥
नाहं वेदाभिनिर्मुक्तः सूर्यो वाभ्युदितोऽमुया ।
मूषितो वर्षपूगानां बताहानि गतान्युत ॥ ११.२६.८॥
अहो मे आत्मसम्मोहो येनात्मा योषितां कृतः ।
क्रीडामृगश्चक्रवर्ती नरदेवशिखामणिः ॥ ११.२६.९॥
सपरिच्छदमात्मानं हित्वा तृणमिवेश्वरम् ।
यान्तीं स्त्रियं चान्वगमं नग्न उन्मत्तवद्रुदन् ॥ ११.२६.१०॥
कुतस्तस्यानुभावः स्यात्तेज ईशत्वमेव वा ।
योऽन्वगच्छं स्त्रियं यान्तीं खरवत्पादताडितः ॥ ११.२६.११॥
किं विद्यया किं तपसा किं त्यागेन श्रुतेन वा ।
किं विविक्तेन मौनेन स्त्रीभिर्यस्य मनो हृतम् ॥ ११.२६.१२॥
स्वार्थस्याकोविदं धिङ्मां मूर्खं पण्डितमानिनम् ।
योऽहमीश्वरतां प्राप्य स्त्रीभिर्गोखरवज्जितः ॥ ११.२६.१३॥
सेवतो वर्षपूगान्मे उर्वश्या अधरासवम् ।
न तृप्यत्यात्मभूः कामो वह्निराहुतिभिर्यथा ॥ ११.२६.१४॥
पुंश्चल्यापहृतं चित्तं को न्वन्यो मोचितुं प्रभुः ।
आत्मारामेश्वरमृते भगवन्तमधोक्षजम् ॥ ११.२६.१५॥
बोधितस्यापि देव्या मे सूक्तवाक्येन दुर्मतेः ।
मनोगतो महामोहो नापयात्यजितात्मनः ॥ ११.२६.१६॥
किमेतया नोऽपकृतं रज्ज्वा वा सर्पचेतसः ।
द्रष्टुः स्वरूपाविदुषो योऽहं यदजितेन्द्रियः ॥ ११.२६.१७॥
क्वायं मलीमसः कायो दौर्गन्ध्याद्यात्मकोऽशुचिः ।
क्व गुणाः सौमनस्याद्या ह्यध्यासोऽविद्यया कृतः ॥ ११.२६.१८॥
पित्रोः किं स्वं नु भार्यायाः स्वामिनोऽग्नेः श्वगृध्रयोः ।
किमात्मनः किं सुहृदामिति यो नावसीयते ॥ ११.२६.१९॥
तस्मिन्कलेवरेऽमेध्ये तुच्छनिष्ठे विषज्जते ।
अहो सुभद्रं सुनसं सुस्मितं च मुखं स्त्रियः ॥ ११.२६.२०॥
त्वङ्मांसरुधिरस्नायु मेदोमज्जास्थिसंहतौ ।
विण्मूत्रपूये रमतां कृमीणां कियदन्तरम् ॥ ११.२६.२१॥
अथापि नोपसज्जेत स्त्रीषु स्त्रैणेषु चार्थवित् ।
विषयेन्द्रियसंयोगान्मनः क्षुभ्यति नान्यथा ॥ ११.२६.२२॥
अदृष्टादश्रुताद्भावान्न भाव उपजायते ।
असम्प्रयुञ्जतः प्राणान्शाम्यति स्तिमितं मनः ॥ ११.२६.२३॥
तस्मात्सङ्गो न कर्तव्यः स्त्रीषु स्त्रैणेषु चेन्द्रियैः ।
विदुषां चाप्यविस्रब्धः षड्वर्गः किमु मादृशाम् ॥ ११.२६.२४॥
॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे
षद्विंशोऽध्यायान्तर्गतं ऐलगीतं समाप्तम् ॥ ११.२६॥
॥ कपिल गीता ॥
॥ ॐ नमो भगवते वासुदेवाय ॥
०३२३००१० मैत्रेय उवाच
०३२३००११ पितृभ्यां प्रस्थिते साध्वी पतिमिङ्गितकोविदा
०३२३००१२ नित्यं पर्यचरत्प्रीत्या भवानीव भवं प्रभुम्
०३२३००२१ विश्रम्भेणात्मशौचेन गौरवेण दमेन च
०३२३००२२ शुश्रूषया सौहृदेन वाचा मधुरया च भोः
०३२३००३१ विसृज्य कामं दम्भं च द्वेषं लोभमघं मदम्
०३२३००३२ अप्रमत्तोद्यता नित्यं तेजीयांसमतोषयत्
०३२३००४१ स वै देवर्षिवर्यस्तां मानवीं समनुव्रताम्
०३२३००४२ दैवाद्गरीयसः पत्युराशासानां महाशिषः
०३२३००५१ कालेन भूयसा क्षामां कर्शितां व्रतचर्यया
०३२३००५२ प्रेमगद्गदया वाचा पीडितः कृपयाब्रवीत्
०३२३००६० कर्दम उवाच
०३२३००६१ तुष्टोऽहमद्य तव मानवि मानदायाः
०३२३००६२ शुश्रूषया परमया परया च भक्त्या
०३२३००६३ यो देहिनामयमतीव सुहृत्स देहो
०३२३००६४ नावेक्षितः समुचितः क्षपितुं मदर्थे
०३२३००७१ ये मे स्वधर्मनिरतस्य तपःसमाधि
०३२३००७२ विद्यात्मयोगविजिता भगवत्प्रसादाः
०३२३००७३ तानेव ते मदनुसेवनयावरुद्धान्
०३२३००७४ दृष्टिं प्रपश्य वितराम्यभयानशोकान्
०३२३००८१ अन्ये पुनर्भगवतो भ्रुव उद्विजृम्भ
०३२३००८२ विभ्रंशितार्थरचनाः किमुरुक्रमस्य
०३२३००८३ सिद्धासि भुङ्क्ष्व विभवान्निजधर्मदोहान्
०३२३००८४ दिव्यान्नरैर्दुरधिगान्नृपविक्रियाभिः
०३२३००९१ एवं ब्रुवाणमबलाखिलयोगमाया
०३२३००९२ विद्याविचक्षणमवेक्ष्य गताधिरासीत्
०३२३००९३ सम्प्रश्रयप्रणयविह्वलया गिरेषद्
०३२३००९४ व्रीडावलोकविलसद्धसिताननाह
०३२३०१०० देवहूतिरुवाच
०३२३०१०१ राद्धं बत द्विजवृषैतदमोघयोग
०३२३०१०२ मायाधिपे त्वयि विभो तदवैमि भर्तः
०३२३०१०३ यस्तेऽभ्यधायि समयः सकृदङ्गसङ्गो
०३२३०१०४ भूयाद्गरीयसि गुणः प्रसवः सतीनाम्
०३२३०१११ तत्रेतिकृत्यमुपशिक्ष यथोपदेशं
०३२३०११२ येनैष मे कर्शितोऽतिरिरंसयात्मा
०३२३०११३ सिद्ध्येत ते कृतमनोभवधर्षिताया
०३२३०११४ दीनस्तदीश भवनं सदृशं विचक्ष्व
०३२३०१२० मैत्रेय उवाच
०३२३०१२१ प्रियायाः प्रियमन्विच्छन्कर्दमो योगमास्थितः
०३२३०१२२ विमानं कामगं क्षत्तस्तर्ह्येवाविरचीकरत्
०३२३०१३१ सर्वकामदुघं दिव्यं सर्वरत्नसमन्वितम्
०३२३०१३२ सर्वर्द्ध्युपचयोदर्कं मणिस्तम्भैरुपस्कृतम्
०३२३०१४१ दिव्योपकरणोपेतं सर्वकालसुखावहम्
०३२३०१४२ पट्टिकाभिः पताकाभिर्विचित्राभिरलङ्कृतम्
०३२३०१५१ स्रग्भिर्विचित्रमाल्याभिर्मञ्जुशिञ्जत्षडङ्घ्रिभिः
०३२३०१५२ दुकूलक्षौमकौशेयैर्नानावस्त्रैर्विराजितम्
०३२३०१६१ उपर्युपरि विन्यस्त निलयेषु पृथक्पृथक्
०३२३०१६२ क्षिप्तैः कशिपुभिः कान्तं पर्यङ्कव्यजनासनैः
०३२३०१७१ तत्र तत्र विनिक्षिप्त नानाशिल्पोपशोभितम्
०३२३०१७२ महामरकतस्थल्या जुष्टं विद्रुमवेदिभिः
०३२३०१८१ द्वाःसु विद्रुमदेहल्या भातं वज्रकपाटवत्
०३२३०१८२ शिखरेष्विन्द्रनीलेषु हेमकुम्भैरधिश्रितम्
०३२३०१९१ चक्षुष्मत्पद्मरागाग्र्यैर्वज्रभित्तिषु निर्मितैः
०३२३०१९२ जुष्टं विचित्रवैतानैर्महार्हैर्हेमतोरणैः
०३२३०२०१ हंसपारावतव्रातैस्तत्र तत्र निकूजितम्
०३२३०२०२ कृत्रिमान्मन्यमानैः स्वानधिरुह्याधिरुह्य च
०३२३०२११ विहारस्थानविश्राम संवेशप्राङ्गणाजिरैः
०३२३०२१२ यथोपजोषं रचितैर्विस्मापनमिवात्मनः
०३२३०२२१ ईदृग्गृहं तत्पश्यन्तीं नातिप्रीतेन चेतसा
०३२३०२२२ सर्वभूताशयाभिज्ञः प्रावोचत्कर्दमः स्वयम्
०३२३०२३१ निमज्ज्यास्मिन्ह्रदे भीरु विमानमिदमारुह
०३२३०२३२ इदं शुक्लकृतं तीर्थमाशिषां यापकं नृणाम्
०३२३०२४१ सा तद्भर्तुः समादाय वचः कुवलयेक्षणा
०३२३०२४२ सरजं बिभ्रती वासो वेणीभूतांश्च मूर्धजान्
०३२३०२५१ अङ्गं च मलपङ्केन सञ्छन्नं शबलस्तनम्
०३२३०२५२ आविवेश सरस्वत्याः सरः शिवजलाशयम्
०३२३०२६१ सान्तः सरसि वेश्मस्थाः शतानि दश कन्यकाः
०३२३०२६२ सर्वाः किशोरवयसो ददर्शोत्पलगन्धयः
०३२३०२७१ तां दृष्ट्वा सहसोत्थाय प्रोचुः प्राञ्जलयः स्त्रियः
०३२३०२७२ वयं कर्मकरीस्तुभ्यं शाधि नः करवाम किम्
०३२३०२८१ स्नानेन तां महार्हेण स्नापयित्वा मनस्विनीम्
०३२३०२८२ दुकूले निर्मले नूत्ने ददुरस्यै च मानदाः
०३२३०२९१ भूषणानि परार्ध्यानि वरीयांसि द्युमन्ति च
०३२३०२९२ अन्नं सर्वगुणोपेतं पानं चैवामृतासवम्
०३२३०३०१ अथादर्शे स्वमात्मानं स्रग्विणं विरजाम्बरम्
०३२३०३०२ विरजं कृतस्वस्त्ययनं कन्याभिर्बहुमानितम्
०३२३०३११ स्नातं कृतशिरःस्नानं सर्वाभरणभूषितम्
०३२३०३१२ निष्कग्रीवं वलयिनं कूजत्काञ्चननूपुरम्
०३२३०३२१ श्रोण्योरध्यस्तया काञ्च्या काञ्चन्या बहुरत्नया
०३२३०३२२ हारेण च महार्हेण रुचकेन च भूषितम्
०३२३०३३१ सुदता सुभ्रुवा श्लक्ष्ण स्निग्धापाङ्गेन चक्षुषा
०३२३०३३२ पद्मकोशस्पृधा नीलैरलकैश्च लसन्मुखम्
०३२३०३४१ यदा सस्मार ऋषभमृषीणां दयितं पतिम्
०३२३०३४२ तत्र चास्ते सह स्त्रीभिर्यत्रास्ते स प्रजापतिः
०३२३०३५१ भर्तुः पुरस्तादात्मानं स्त्रीसहस्रवृतं तदा
०३२३०३५२ निशाम्य तद्योगगतिं संशयं प्रत्यपद्यत
०३२३०३६१ स तां कृतमलस्नानां विभ्राजन्तीमपूर्ववत्
०३२३०३६२ आत्मनो बिभ्रतीं रूपं संवीतरुचिरस्तनीम्
०३२३०३७१ विद्याधरीसहस्रेण सेव्यमानां सुवाससम्
०३२३०३७२ जातभावो विमानं तदारोहयदमित्रहन्
०३२३०३८१ तस्मिन्नलुप्तमहिमा प्रिययानुरक्तो
०३२३०३८२ विद्याधरीभिरुपचीर्णवपुर्विमाने
०३२३०३८३ बभ्राज उत्कचकुमुद्गणवानपीच्यस्
०३२३०३८४ ताराभिरावृत इवोडुपतिर्नभःस्थः
०३२३०३९१ तेनाष्टलोकपविहारकुलाचलेन्द्र
०३२३०३९२ द्रोणीष्वनङ्गसखमारुतसौभगासु
०३२३०३९३ सिद्धैर्नुतो द्युधुनिपातशिवस्वनासु
०३२३०३९४ रेमे चिरं धनदवल्ललनावरूथी
०३२३०४०१ वैश्रम्भके सुरसने नन्दने पुष्पभद्रके
०३२३०४०२ मानसे चैत्ररथ्ये च स रेमे रामया रतः
०३२३०४११ भ्राजिष्णुना विमानेन कामगेन महीयसा
०३२३०४१२ वैमानिकानत्यशेत चरल्लोकान्यथानिलः
०३२३०४२१ किं दुरापादनं तेषां पुंसामुद्दामचेतसाम्
०३२३०४२२ यैराश्रितस्तीर्थपदश्चरणो व्यसनात्ययः
०३२३०४३१ प्रेक्षयित्वा भुवो गोलं पत्न्यै यावान्स्वसंस्थया
०३२३०४३२ बह्वाश्चर्यं महायोगी स्वाश्रमाय न्यवर्तत
०३२३०४४१ विभज्य नवधात्मानं मानवीं सुरतोत्सुकाम्
०३२३०४४२ रामां निरमयन्रेमे वर्षपूगान्मुहूर्तवत्
०३२३०४५१ तस्मिन्विमान उत्कृष्टां शय्यां रतिकरीं श्रिता
०३२३०४५२ न चाबुध्यत तं कालं पत्यापीच्येन सङ्गता
०३२३०४६१ एवं योगानुभावेन दम्पत्यो रममाणयोः
०३२३०४६२ शतं व्यतीयुः शरदः कामलालसयोर्मनाक्
०३२३०४७१ तस्यामाधत्त रेतस्तां भावयन्नात्मनात्मवित्
०३२३०४७२ नोधा विधाय रूपं स्वं सर्वसङ्कल्पविद्विभुः
०३२३०४८१ अतः सा सुषुवे सद्यो देवहूतिः स्त्रियः प्रजाः
०३२३०४८२ सर्वास्ताश्चारुसर्वाङ्ग्यो लोहितोत्पलगन्धयः
०३२३०४९१ पतिं सा प्रव्रजिष्यन्तं तदालक्ष्योशती बहिः
०३२३०४९२ स्मयमाना विक्लवेन हृदयेन विदूयता
०३२३०५०१ लिखन्त्यधोमुखी भूमिं पदा नखमणिश्रिया
०३२३०५०२ उवाच ललितां वाचं निरुध्याश्रुकलां शनैः
०३२३०५१० देवहूतिरुवाच
०३२३०५११ सर्वं तद्भगवान्मह्यमुपोवाह प्रतिश्रुतम्
०३२३०५१२ अथापि मे प्रपन्नाया अभयं दातुमर्हसि
०३२३०५२१ ब्रह्मन्दुहितृभिस्तुभ्यं विमृग्याः पतयः समाः
०३२३०५२२ कश्चित्स्यान्मे विशोकाय त्वयि प्रव्रजिते वनम्
०३२३०५३१ एतावतालं कालेन व्यतिक्रान्तेन मे प्रभो
०३२३०५३२ इन्द्रियार्थप्रसङ्गेन परित्यक्तपरात्मनः
०३२३०५४१ इन्द्रियार्थेषु सज्जन्त्या प्रसङ्गस्त्वयि मे कृतः
०३२३०५४२ अजानन्त्या परं भावं तथाप्यस्त्वभयाय मे
०३२३०५५१ सङ्गो यः संसृतेर्हेतुरसत्सु विहितोऽधिया
०३२३०५५२ स एव साधुषु कृतो निःसङ्गत्वाय कल्पते
०३२३०५६१ नेह यत्कर्म धर्माय न विरागाय कल्पते
०३२३०५६२ न तीर्थपदसेवायै जीवन्नपि मृतो हि सः
०३२३०५७१ साहं भगवतो नूनं वञ्चिता मायया दृढम्
०३२३०५७२ यत्त्वां विमुक्तिदं प्राप्य न मुमुक्षेय बन्धनात्
इति श्रीमद्भागवते महापुराणे
पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेयोपाख्याने
त्रयोविंशोऽध्यायः ॥ २३ ॥
०३२४००१० मैत्रेय उवाच
०३२४००११ निर्वेदवादिनीमेवं मनोर्दुहितरं मुनिः
०३२४००१२ दयालुः शालिनीमाह शुक्लाभिव्याहृतं स्मरन्
०३२४००२० ऋषिरुवाच
०३२४००२१ मा खिदो राजपुत्रीत्थमात्मानं प्रत्यनिन्दिते
०३२४००२२ भगवांस्तेऽक्षरो गर्भमदूरात्सम्प्रपत्स्यते
०३२४००३१ धृतव्रतासि भद्रं ते दमेन नियमेन च
०३२४००३२ तपोद्रविणदानैश्च श्रद्धया चेश्वरं भज
०३२४००४१ स त्वयाराधितः शुक्लो वितन्वन्मामकं यशः
०३२४००४२ छेत्ता ते हृदयग्रन्थिमौदर्यो ब्रह्मभावनः
०३२४००५० मैत्रेय उवाच
०३२४००५१ देवहूत्यपि सन्देशं गौरवेण प्रजापतेः
०३२४००५२ सम्यक्ष्रद्धाय पुरुषं कूटस्थमभजद्गुरुम्
०३२४००६१ तस्यां बहुतिथे काले भगवान्मधुसूदनः
०३२४००६२ कार्दमं वीर्यमापन्नो जज्ञेऽग्निरिव दारुणि
०३२४००७१ अवादयंस्तदा व्योम्नि वादित्राणि घनाघनाः
०३२४००७२ गायन्ति तं स्म गन्धर्वा नृत्यन्त्यप्सरसो मुदा
०३२४००८१ पेतुः सुमनसो दिव्याः खेचरैरपवर्जिताः
०३२४००८२ प्रसेदुश्च दिशः सर्वा अम्भांसि च मनांसि च
०३२४००९१ तत्कर्दमाश्रमपदं सरस्वत्या परिश्रितम्
०३२४००९२ स्वयम्भूः साकमृषिभिर्मरीच्यादिभिरभ्ययात्
०३२४०१०१ भगवन्तं परं ब्रह्म सत्त्वेनांशेन शत्रुहन्
०३२४०१०२ तत्त्वसङ्ख्यानविज्ञप्त्यै जातं विद्वानजः स्वराट्
०३२४०१११ सभाजयन्विशुद्धेन चेतसा तच्चिकीर्षितम्
०३२४०११२ प्रहृष्यमाणैरसुभिः कर्दमं चेदमभ्यधात्
०३२४०१२० ब्रह्मोवाच
०३२४०१२१ त्वया मेऽपचितिस्तात कल्पिता निर्व्यलीकतः
०३२४०१२२ यन्मे सञ्जगृहे वाक्यं भवान्मानद मानयन्
०३२४०१३१ एतावत्येव शुश्रूषा कार्या पितरि पुत्रकैः
०३२४०१३२ बाढमित्यनुमन्येत गौरवेण गुरोर्वचः
०३२४०१४१ इमा दुहितरः सत्यस्तव वत्स सुमध्यमाः
०३२४०१४२ सर्गमेतं प्रभावैः स्वैर्बृंहयिष्यन्त्यनेकधा
०३२४०१५१ अतस्त्वमृषिमुख्येभ्यो यथाशीलं यथारुचि
०३२४०१५२ आत्मजाः परिदेह्यद्य विस्तृणीहि यशो भुवि
०३२४०१६१ वेदाहमाद्यं पुरुषमवतीर्णं स्वमायया
०३२४०१६२ भूतानां शेवधिं देहं बिभ्राणं कपिलं मुने
०३२४०१७१ ज्ञानविज्ञानयोगेन कर्मणामुद्धरन्जटाः
०३२४०१७२ हिरण्यकेशः पद्माक्षः पद्ममुद्रापदाम्बुजः
०३२४०१८१ एष मानवि ते गर्भं प्रविष्टः कैटभार्दनः
०३२४०१८२ अविद्यासंशयग्रन्थिं छित्त्वा गां विचरिष्यति
०३२४०१९१ अयं सिद्धगणाधीशः साङ्ख्याचार्यैः सुसम्मतः
०३२४०१९२ लोके कपिल इत्याख्यां गन्ता ते कीर्तिवर्धनः
०३२४०२०० मैत्रेय उवाच
०३२४०२०१ तावाश्वास्य जगत्स्रष्टा कुमारैः सहनारदः
०३२४०२०२ हंसो हंसेन यानेन त्रिधामपरमं ययौ
०३२४०२११ गते शतधृतौ क्षत्तः कर्दमस्तेन चोदितः
०३२४०२१२ यथोदितं स्वदुहित्ः प्रादाद्विश्वसृजां ततः
०३२४०२२१ मरीचये कलां प्रादादनसूयामथात्रये
०३२४०२२२ श्रद्धामङ्गिरसेऽयच्छत्पुलस्त्याय हविर्भुवम्
०३२४०२३१ पुलहाय गतिं युक्तां क्रतवे च क्रियां सतीम्
०३२४०२३२ ख्यातिं च भृगवेऽयच्छद्वसिष्ठायाप्यरुन्धतीम्
०३२४०२४१ अथर्वणेऽददाच्छान्तिं यया यज्ञो वितन्यते
०३२४०२४२ विप्रर्षभान्कृतोद्वाहान्सदारान्समलालयत्
०३२४०२५१ ततस्त ऋषयः क्षत्तः कृतदारा निमन्त्र्य तम्
०३२४०२५२ प्रातिष्ठन्नन्दिमापन्नाः स्वं स्वमाश्रममण्डलम्
०३२४०२६१ स चावतीर्णं त्रियुगमाज्ञाय विबुधर्षभम्
०३२४०२६२ विविक्त उपसङ्गम्य प्रणम्य समभाषत
०३२४०२७१ अहो पापच्यमानानां निरये स्वैरमङ्गलैः
०३२४०२७२ कालेन भूयसा नूनं प्रसीदन्तीह देवताः
०३२४०२८१ बहुजन्मविपक्वेन सम्यग्योगसमाधिना
०३२४०२८२ द्रष्टुं यतन्ते यतयः शून्यागारेषु यत्पदम्
०३२४०२९१ स एव भगवानद्य हेलनं न गणय्य नः
०३२४०२९२ गृहेषु जातो ग्राम्याणां यः स्वानां पक्षपोषणः
०३२४०३०१ स्वीयं वाक्यमृतं कर्तुमवतीर्णोऽसि मे गृहे
०३२४०३०२ चिकीर्षुर्भगवान्ज्ञानं भक्तानां मानवर्धनः
०३२४०३११ तान्येव तेऽभिरूपाणि रूपाणि भगवंस्तव
०३२४०३१२ यानि यानि च रोचन्ते स्वजनानामरूपिणः
०३२४०३२१ त्वां सूरिभिस्तत्त्वबुभुत्सयाद्धा सदाभिवादार्हणपादपीठम्
०३२४०३२२ ऐश्वर्यवैराग्ययशोऽवबोध वीर्यश्रिया पूर्तमहं प्रपद्ये
०३२४०३३१ परं प्रधानं पुरुषं महान्तं कालं कविं त्रिवृतं लोकपालम्
०३२४०३३२ आत्मानुभूत्यानुगतप्रपञ्चं स्वच्छन्दशक्तिं कपिलं प्रपद्ये
०३२४०३४१ अ स्माभिपृच्छेऽद्य पतिं प्रजानां त्वयावतीर्णर्ण उताप्तकामः
०३२४०३४२ परिव्रजत्पदवीमास्थितोऽहं चरिष्ये त्वां हृदि युञ्जन्विशोकः
०३२४०३५० श्रीभगवानुवाच
०३२४०३५१ मया प्रोक्तं हि लोकस्य प्रमाणं सत्यलौकिके
०३२४०३५२ अथाजनि मया तुभ्यं यदवोचमृतं मुने
०३२४०३६१ एतन्मे जन्म लोकेऽस्मिन्मुमुक्षूणां दुराशयात्
०३२४०३६२ प्रसङ्ख्यानाय तत्त्वानां सम्मतायात्मदर्शने
०३२४०३७१ एष आत्मपथोऽव्यक्तो नष्टः कालेन भूयसा
०३२४०३७२ तं प्रवर्तयितुं देहमिमं विद्धि मया भृतम्
०३२४०३८१ गच्छ कामं मयापृष्टो मयि सन्न्यस्तकर्मणा
०३२४०३८२ जित्वा सुदुर्जयं मृत्युममृतत्वाय मां भज
०३२४०३९१ मामात्मानं स्वयंज्योतिः सर्वभूतगुहाशयम्
०३२४०३९२ आत्मन्येवात्मना वीक्ष्य विशोकोऽभयमृच्छसि
०३२४०४०१ मात्र आध्यात्मिकीं विद्यां शमनीं सर्वकर्मणाम्
०३२४०४०२ वितरिष्ये यया चासौ भयं चातितरिष्यति
०३२४०४१० मैत्रेय उवाच
०३२४०४११ एवं समुदितस्तेन कपिलेन प्रजापतिः
०३२४०४१२ दक्षिणीकृत्य तं प्रीतो वनमेव जगाम ह
०३२४०४२१ व्रतं स आस्थितो मौनमात्मैकशरणो मुनिः
०३२४०४२२ निःसङ्गो व्यचरत्क्षोणीमनग्निरनिकेतनः
०३२४०४३१ मनो ब्रह्मणि युञ्जानो यत्तत्सदसतः परम्
०३२४०४३२ गुणावभासे विगुण एकभक्त्यानुभाविते
०३२४०४४१ निरहङ्कृतिर्निर्ममश्च निर्द्वन्द्वः समदृक्स्वदृक्
०३२४०४४२ प्रत्यक्प्रशान्तधीर्धीरः प्रशान्तोर्मिरिवोदधिः
०३२४०४५१ वासुदेवे भगवति सर्वज्ञे प्रत्यगात्मनि
०३२४०४५२ परेण भक्तिभावेन लब्धात्मा मुक्तबन्धनः
०३२४०४६१ आत्मानं सर्वभूतेषु भगवन्तमवस्थितम्
०३२४०४६२ अपश्यत्सर्वभूतानि भगवत्यपि चात्मनि
०३२४०४७१ इच्छाद्वेषविहीनेन सर्वत्र समचेतसा
०३२४०४७२ भगवद्भक्तियुक्तेन प्राप्ता भागवती गतिः
इति श्रीमद्भागवते महापुराणे
पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेये
चतुर्विंशोऽध्यायः ॥ २४ ॥
०३२५००१० शौनक उवाच
०३२५००११ कपिलस्तत्त्वसङ्ख्याता भगवानात्ममायया
०३२५००१२ जातः स्वयमजः साक्षादात्मप्रज्ञप्तये नृणाम्
०३२५००२१ न ह्यस्य वर्ष्मणः पुंसां वरिम्णः सर्वयोगिनाम्
०३२५००२२ विश्रुतौ श्रुतदेवस्य भूरि तृप्यन्ति मेऽसवः
०३२५००३१ यद्यद्विधत्ते भगवान्स्वच्छन्दात्मात्ममायया
०३२५००३२ तानि मे श्रद्दधानस्य कीर्तन्यान्यनुकीर्तय
०३२५००४० सूत उवाच
०३२५००४१ द्वैपायनसखस्त्वेवं मैत्रेयो भगवांस्तथा
०३२५००४२ प्राहेदं विदुरं प्रीत आन्वीक्षिक्यां प्रचोदितः
०३२५००५० मैत्रेय उवाच
०३२५००५१ पितरि प्रस्थितेऽरण्यं मातुः प्रियचिकीर्षया
०३२५००५२ तस्मिन्बिन्दुसरेऽवात्सीद्भगवान्कपिलः किल
०३२५००६१ तमासीनमकर्माणं तत्त्वमार्गाग्रदर्शनम्
०३२५००६२ स्वसुतं देवहूत्याह धातुः संस्मरती वचः
०३२५००७० देवहूतिरुवाच
०३२५००७१ निर्विण्णा नितरां भूमन्नसदिन्द्रियतर्षणात्
०३२५००७२ येन सम्भाव्यमानेन प्रपन्नान्धं तमः प्रभो
०३२५००८१ तस्य त्वं तमसोऽन्धस्य दुष्पारस्याद्य पारगम्
०३२५००८२ सच्चक्षुर्जन्मनामन्ते लब्धं मे त्वदनुग्रहात्
०३२५००९१ य आद्यो भगवान्पुंसामीश्वरो वै भवान्किल
०३२५००९२ लोकस्य तमसान्धस्य चक्षुः सूर्य इवोदितः
०३२५०१०१ अथ मे देव सम्मोहमपाक्रष्टुं त्वमर्हसि
०३२५०१०२ योऽवग्रहोऽहं ममेतीत्येतस्मिन्योजितस्त्वया
०३२५०१११ तं त्वा गताहं शरणं शरण्यं स्वभृत्यसंसारतरोः कुठारम्
०३२५०११२ जिज्ञासयाहं प्रकृतेः पूरुषस्य नमामि सद्धर्मविदां वरिष्ठम्
०३२५०१२० मैत्रेय उवाच
०३२५०१२१ इति स्वमातुर्निरवद्यमीप्सितं निशम्य पुंसामपवर्गवर्धनम्
०३२५०१२२ धियाभिनन्द्यात्मवतां सतां गतिर्बभाष ईषत्स्मितशोभिताननः
०३२५०१३० श्रीभगवानुवाच
०३२५०१३१ योग आध्यात्मिकः पुंसां मतो निःश्रेयसाय मे
०३२५०१३२ अत्यन्तोपरतिर्यत्र दुःखस्य च सुखस्य च
०३२५०१४१ तमिमं ते प्रवक्ष्यामि यमवोचं पुरानघे
०३२५०१४२ ऋषीणां श्रोतुकामानां योगं सर्वाङ्गनैपुणम्
०३२५०१५१ चेतः खल्वस्य बन्धाय मुक्तये चात्मनो मतम्
०३२५०१५२ गुणेषु सक्तं बन्धाय रतं वा पुंसि मुक्तये
०३२५०१६१ अहं ममाभिमानोत्थैः कामलोभादिभिर्मलैः
०३२५०१६२ वीतं यदा मनः शुद्धमदुःखमसुखं समम्
०३२५०१७१ तदा पुरुष आत्मानं केवलं प्रकृतेः परम्
०३२५०१७२ निरन्तरं स्वयंज्योतिरणिमानमखण्डितम्
०३२५०१८१ ज्ञानवैराग्ययुक्तेन भक्तियुक्तेन चात्मना
०३२५०१८२ परिपश्यत्युदासीनं प्रकृतिं च हतौजसम्
०३२५०१९१ न युज्यमानया भक्त्या भगवत्यखिलात्मनि
०३२५०१९२ सदृशोऽस्ति शिवः पन्था योगिनां ब्रह्मसिद्धये
०३२५०२०१ प्रसङ्गमजरं पाशमात्मनः कवयो विदुः
०३२५०२०२ स एव साधुषु कृतो मोक्षद्वारमपावृतम्
०३२५०२११ तितिक्षवः कारुणिकाः सुहृदः सर्वदेहिनाम्
०३२५०२१२ अजातशत्रवः शान्ताः साधवः साधुभूषणाः
०३२५०२२१ मय्यनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम्
०३२५०२२२ मत्कृते त्यक्तकर्माणस्त्यक्तस्वजनबान्धवाः
०३२५०२३१ मदाश्रयाः कथा मृष्टाः शृण्वन्ति कथयन्ति च
०३२५०२३२ तपन्ति विविधास्तापा नैतान्मद्गतचेतसः
०३२५०२४१ त एते साधवः साध्वि सर्वसङ्गविवर्जिताः
०३२५०२४२ सङ्गस्तेष्वथ ते प्रार्थ्यः सङ्गदोषहरा हि ते
०३२५०२५१ सतां प्रसङ्गान्मम वीर्यसंविदो भवन्ति हृत्कर्णरसायनाः कथाः
०३२५०२५२ तज्जोषणादाश्वपवर्गवर्त्मनि श्रद्धा रतिर्भक्तिरनुक्रमिष्यति
०३२५०२६१ भक्त्या पुमान्जातविराग ऐन्द्रियाद्दृष्टश्रुतान्मद्रचनानुचिन्तया
०३२५०२६२ चित्तस्य यत्तो ग्रहणे योगयुक्तो यतिष्यते ऋजुभिर्योगमार्गैः
०३२५०२७१ असेवयायं प्रकृतेर्गुणानां ज्ञानेन वैराग्यविजृम्भितेन
०३२५०२७२ योगेन मय्यर्पितया च भक्त्या मां प्रत्यगात्मानमिहावरुन्धे
०३२५०२८० देवहूतिरुवाच
०३२५०२८१ काचित्त्वय्युचिता भक्तिः कीदृशी मम गोचरा
०३२५०२८२ यया पदं ते निर्वाणमञ्जसान्वाश्नवा अहम्
०३२५०२९१ यो योगो भगवद्बाणो निर्वाणात्मंस्त्वयोदितः
०३२५०२९२ कीदृशः कति चाङ्गानि यतस्तत्त्वावबोधनम्
०३२५०३०१ तदेतन्मे विजानीहि यथाहं मन्दधीर्हरे
०३२५०३०२ सुखं बुद्ध्येय दुर्बोधं योषा भवदनुग्रहात्
०३२५०३१० मैत्रेय उवाच
०३२५०३११ विदित्वार्थं कपिलो मातुरित्थं जातस्नेहो यत्र तन्वाभिजातः
०३२५०३१२ तत्त्वाम्नायं यत्प्रवदन्ति साङ्ख्यं प्रोवाच वै भक्तिवितानयोगम्
०३२५०३२० श्रीभगवानुवाच
०३२५०३२१ देवानां गुणलिङ्गानामानुश्रविककर्मणाम्
०३२५०३२२ सत्त्व एवैकमनसो वृत्तिः स्वाभाविकी तु या
०३२५०३४१ अनिमित्ता भागवती भक्तिः सिद्धेर्गरीयसी
०३२५०३४२ जरयत्याशु या कोशं निगीर्णमनलो यथा
०३२५०३५१ नैकात्मतां मे स्पृहयन्ति केचिन्मत्पादसेवाभिरता मदीहाः
०३२५०३५२ येऽन्योन्यतो भागवताः प्रसज्य सभाजयन्ते मम पौरुषाणि
०३२५०३६१ पश्यन्ति ते मे रुचिराण्यम्ब सन्तः प्रसन्नवक्त्रारुणलोचनानि
०३२५०३६२ रूपाणि दिव्यानि वरप्रदानि साकं वाचं स्पृहणीयां वदन्ति
०३२५०३७१ तैर्दर्शनीयावयवैरुदार विलासहासेक्षितवामसूक्तैः
०३२५०३७२ हृतात्मनो हृतप्राणांश्च भक्तिरनिच्छतो मे गतिमण्वीं प्रयुङ्क्ते
०३२५०३८१ अथो विभूतिं मम मायाविनस्तामैश्वर्यमष्टाङ्गमनुप्रवृत्तम्
०३२५०३८२ श्रियं भागवतीं वास्पृहयन्ति भद्रां परस्य मे तेऽश्नुवते तु लोके
०३२५०३९१ न कर्हिचिन्मत्पराः शान्तरूपे नङ्क्ष्यन्ति नो मेऽनिमिषो लेढि हेतिः
०३२५०३९२ येषामहं प्रिय आत्मा सुतश्च सखा गुरुः सुहृदो दैवमिष्टम्
०३२५०४०१ इमं लोकं तथैवामुमात्मानमुभयायिनम्
०३२५०४०२ आत्मानमनु ये चेह ये रायः पशवो गृहाः
०३२५०४११ विसृज्य सर्वानन्यांश्च मामेवं विश्वतोमुखम्
०३२५०४१२ भजन्त्यनन्यया भक्त्या तान्मृत्योरतिपारये
०३२५०४२१ नान्यत्र मद्भगवतः प्रधानपुरुषेश्वरात्
०३२५०४२२ आत्मनः सर्वभूतानां भयं तीव्रं निवर्तते
०३२५०४३१ मद्भयाद्वाति वातोऽयं सूर्यस्तपति मद्भयात्
०३२५०४३२ वर्षतीन्द्रो दहत्यग्निर्मृत्युश्चरति मद्भयात्
०३२५०४४१ ज्ञानवैराग्ययुक्तेन भक्तियोगेन योगिनः
०३२५०४४२ क्षेमाय पादमूलं मे प्रविशन्त्यकुतोभयम्
०३२५०४५१ एतावानेव लोकेऽस्मिन्पुंसां निःश्रेयसोदयः
०३२५०४५२ तीव्रेण भक्तियोगेन मनो मय्यर्पितं स्थिरम्
इति श्रीमद्भागवते महापुराणे
पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेयोपाख्याने
पञ्चविंशोऽध्यायः ॥ २५ ॥
०३२६००१० श्रीभगवानुवाच
०३२६००११ अथ ते सम्प्रवक्ष्यामि तत्त्वानां लक्षणं पृथक्
०३२६००१२ यद्विदित्वा विमुच्येत पुरुषः प्राकृतैर्गुणैः
०३२६००२१ ज्ञानं निःश्रेयसार्थाय पुरुषस्यात्मदर्शनम्
०३२६००२२ यदाहुर्वर्णये तत्ते हृदयग्रन्थिभेदनम्
०३२६००३१ अनादिरात्मा पुरुषो निर्गुणः प्रकृतेः परः
०३२६००३२ प्रत्यग्धामा स्वयंज्योतिर्विश्वं येन समन्वितम्
०३२६००४१ स एष प्रकृतिं सूक्ष्मां दैवीं गुणमयीं विभुः
०३२६००४२ यदृच्छयैवोपगतामभ्यपद्यत लीलया
०३२६००५१ गुणैर्विचित्राः सृजतीं सरूपाः प्रकृतिं प्रजाः
०३२६००५२ विलोक्य मुमुहे सद्यः स इह ज्ञानगूहया
०३२६००६१ एवं पराभिध्यानेन कर्तृत्वं प्रकृतेः पुमान्
०३२६००६२ कर्मसु क्रियमाणेषु गुणैरात्मनि मन्यते
०३२६००७१ तदस्य संसृतिर्बन्धः पारतन्त्र्यं च तत्कृतम्
०३२६००७२ भवत्यकर्तुरीशस्य साक्षिणो निर्वृतात्मनः
०३२६००८१ कार्यकारणकर्तृत्वे कारणं प्रकृतिं विदुः
०३२६००८२ भोक्तृत्वे सुखदुःखानां पुरुषं प्रकृतेः परम्
०३२६००९० देवहूतिरुवाच
०३२६००९१ प्रकृतेः पुरुषस्यापि लक्षणं पुरुषोत्तम
०३२६००९२ ब्रूहि कारणयोरस्य सदसच्च यदात्मकम्
०३२६०१०० श्रीभगवानुवाच
०३२६०१०१ यत्तत्त्रिगुणमव्यक्तं नित्यं सदसदात्मकम्
०३२६०१०२ प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत्
०३२६०१११ पञ्चभिः पञ्चभिर्ब्रह्म चतुर्भिर्दशभिस्तथा
०३२६०११२ एतच्चतुर्विंशतिकं गणं प्राधानिकं विदुः
०३२६०१२१ महाभूतानि पञ्चैव भूरापोऽग्निर्मरुन्नभः
०३२६०१२२ तन्मात्राणि च तावन्ति गन्धादीनि मतानि मे
०३२६०१३१ इन्द्रियाणि दश श्रोत्रं त्वग्दृग्रसननासिकाः
०३२६०१३२ वाक्करौ चरणौ मेढ्रं पायुर्दशम उच्यते
०३२६०१४१ मनो बुद्धिरहङ्कारश्चित्तमित्यन्तरात्मकम्
०३२६०१४२ चतुर्धा लक्ष्यते भेदो वृत्त्या लक्षणरूपया
०३२६०१५१ एतावानेव सङ्ख्यातो ब्रह्मणः सगुणस्य ह
०३२६०१५२ सन्निवेशो मया प्रोक्तो यः कालः पञ्चविंशकः
०३२६०१६१ प्रभावं पौरुषं प्राहुः कालमेके यतो भयम्
०३२६०१६२ अहङ्कारविमूढस्य कर्तुः प्रकृतिमीयुषः
०३२६०१७१ प्रकृतेर्गुणसाम्यस्य निर्विशेषस्य मानवि
०३२६०१७२ चेष्टा यतः स भगवान्काल इत्युपलक्षितः
०३२६०१८१ अन्तः पुरुषरूपेण कालरूपेण यो बहिः
०३२६०१८२ समन्वेत्येष सत्त्वानां भगवानात्ममायया
०३२६०१९१ दैवात्क्षुभितधर्मिण्यां स्वस्यां योनौ परः पुमान्
०३२६०१९२ आधत्त वीर्यं सासूत महत्तत्त्वं हिरण्मयम्
०३२६०२०१ विश्वमात्मगतं व्यञ्जन्कूटस्थो जगदङ्कुरः
०३२६०२०२ स्वतेजसापिबत्तीव्रमात्मप्रस्वापनं तमः
०३२६०२११ यत्तत्सत्त्वगुणं स्वच्छं शान्तं भगवतः पदम्
०३२६०२१२ यदाहुर्वासुदेवाख्यं चित्तं तन्महदात्मकम्
०३२६०२२१ स्वच्छत्वमविकारित्वं शान्तत्वमिति चेतसः
०३२६०२२२ वृत्तिभिर्लक्षणं प्रोक्तं यथापां प्रकृतिः परा
०३२६०२३१ महत्तत्त्वाद्विकुर्वाणाद्भगवद्वीर्यसम्भवात्
०३२६०२३२ क्रियाशक्तिरहङ्कारस्त्रिविधः समपद्यत
०३२६०२४१ वैकारिकस्तैजसश्च तामसश्च यतो भवः
०३२६०२४२ मनसश्चेन्द्रियाणां च भूतानां महतामपि
०३२६०२५१ सहस्रशिरसं साक्षाद्यमनन्तं प्रचक्षते
०३२६०२५२ सङ्कर्षणाख्यं पुरुषं भूतेन्द्रियमनोमयम्
०३२६०२६१ कर्तृत्वं करणत्वं च कार्यत्वं चेति लक्षणम्
०३२६०२६२ शान्तघोरविमूढत्वमिति वा स्यादहङ्कृतेः
०३२६०२७१ वैकारिकाद्विकुर्वाणान्मनस्तत्त्वमजायत
०३२६०२७२ यत्सङ्कल्पविकल्पाभ्यां वर्तते कामसम्भवः
०३२६०२८१ यद्विदुर्ह्यनिरुद्धाख्यं हृषीकाणामधीश्वरम्
०३२६०२८२ शारदेन्दीवरश्यामं संराध्यं योगिभिः शनैः
०३२६०२९१ तैजसात्तु विकुर्वाणाद्बुद्धितत्त्वमभूत्सति
०३२६०२९२ द्रव्यस्फुरणविज्ञानमिन्द्रियाणामनुग्रहः
०३२६०३०१ संशयोऽथ विपर्यासो निश्चयः स्मृतिरेव च
०३२६०३०२ स्वाप इत्युच्यते बुद्धेर्लक्षणं वृत्तितः पृथक्
०३२६०३११ तैजसानीन्द्रियाण्येव क्रियाज्ञानविभागशः
०३२६०३१२ प्राणस्य हि क्रियाशक्तिर्बुद्धेर्विज्ञानशक्तिता
०३२६०३२१ तामसाच्च विकुर्वाणाद्भगवद्वीर्यचोदितात्
०३२६०३२२ शब्दमात्रमभूत्तस्मान्नभः श्रोत्रं तु शब्दगम्
०३२६०३३१ अर्थाश्रयत्वं शब्दस्य द्रष्टुर्लिङ्गत्वमेव च
०३२६०३३२ तन्मात्रत्वं च नभसो लक्षणं कवयो विदुः
०३२६०३४१ भूतानां छिद्रदातृत्वं बहिरन्तरमेव च
०३२६०३४२ प्राणेन्द्रियात्मधिष्ण्यत्वं नभसो वृत्तिलक्षणम्
०३२६०३५१ नभसः शब्दतन्मात्रात्कालगत्या विकुर्वतः
०३२६०३५२ स्पर्शोऽभवत्ततो वायुस्त्वक्स्पर्शस्य च सङ्ग्रहः
०३२६०३६१ मृदुत्वं कठिनत्वं च शैत्यमुष्णत्वमेव च
०३२६०३६२ एतत्स्पर्शस्य स्पर्शत्वं तन्मात्रत्वं नभस्वतः
०३२६०३७१ चालनं व्यूहनं प्राप्तिर्नेतृत्वं द्रव्यशब्दयोः
०३२६०३७२ सर्वेन्द्रियाणामात्मत्वं वायोः कर्माभिलक्षणम्
०३२६०३८१ वायोश्च स्पर्शतन्मात्राद्रूपं दैवेरितादभूत्
०३२६०३८२ समुत्थितं ततस्तेजश्चक्षू रूपोपलम्भनम्
०३२६०३९१ द्रव्याकृतित्वं गुणता व्यक्तिसंस्थात्वमेव च
०३२६०३९२ तेजस्त्वं तेजसः साध्वि रूपमात्रस्य वृत्तयः
०३२६०४०१ द्योतनं पचनं पानमदनं हिममर्दनम्
०३२६०४०२ तेजसो वृत्तयस्त्वेताः शोषणं क्षुत्तृडेव च
०३२६०४११ रूपमात्राद्विकुर्वाणात्तेजसो दैवचोदितात्
०३२६०४१२ रसमात्रमभूत्तस्मादम्भो जिह्वा रसग्रहः
०३२६०४२१ कषायो मधुरस्तिक्तः कट्वम्ल इति नैकधा
०३२६०४२२ भौतिकानां विकारेण रस एको विभिद्यते
०३२६०४३१ क्लेदनं पिण्डनं तृप्तिः प्राणनाप्यायनोन्दनम्
०३२६०४३२ तापापनोदो भूयस्त्वमम्भसो वृत्तयस्त्विमाः
०३२६०४४१ रसमात्राद्विकुर्वाणादम्भसो दैवचोदितात्
०३२६०४४२ गन्धमात्रमभूत्तस्मात्पृथ्वी घ्राणस्तु गन्धगः
०३२६०४५१ करम्भपूतिसौरभ्य शान्तोग्राम्लादिभिः पृथक्
०३२६०४५२ द्रव्यावयववैषम्याद्गन्ध एको विभिद्यते
०३२६०४६१ भावनं ब्रह्मणः स्थानं धारणं सद्विशेषणम्
०३२६०४६२ सर्वसत्त्वगुणोद्भेदः पृथिवीवृत्तिलक्षणम्
०३२६०४७१ नभोगुणविशेषोऽर्थो यस्य तच्छ्रोत्रमुच्यते
०३२६०४७२ वायोर्गुणविशेषोऽर्थो यस्य तत्स्पर्शनं विदुः
०३२६०४८१ तेजोगुणविशेषोऽर्थो यस्य तच्चक्षुरुच्यते
०३२६०४८२ अम्भोगुणविशेषोऽर्थो यस्य तद्रसनं विदुः
०३२६०४८३ भूमेर्गुणविशेषोऽर्थो यस्य स घ्राण उच्यते
०३२६०४९१ परस्य दृश्यते धर्मो ह्यपरस्मिन्समन्वयात्
०३२६०४९२ अतो विशेषो भावानां भूमावेवोपलक्ष्यते
०३२६०५०१ एतान्यसंहत्य यदा महदादीनि सप्त वै
०३२६०५०२ कालकर्मगुणोपेतो जगदादिरुपाविशत्
०३२६०५११ ततस्तेनानुविद्धेभ्यो युक्तेभ्योऽण्डमचेतनम्
०३२६०५१२ उत्थितं पुरुषो यस्मादुदतिष्ठदसौ विराट्
०३२६०५२१ एतदण्डं विशेषाख्यं क्रमवृद्धैर्दशोत्तरैः
०३२६०५२२ तोयादिभिः परिवृतं प्रधानेनावृतैर्बहिः
०३२६०५२३ यत्र लोकवितानोऽयं रूपं भगवतो हरेः
०३२६०५३१ हिरण्मयादण्डकोशादुत्थाय सलिले शयात्
०३२६०५३२ तमाविश्य महादेवो बहुधा निर्बिभेद खम्
०३२६०५४१ निरभिद्यतास्य प्रथमं मुखं वाणी ततोऽभवत्
०३२६०५४२ वाण्या वह्निरथो नासे प्राणोतो घ्राण एतयोः
०३२६०५५१ घ्राणाद्वायुरभिद्येतामक्षिणी चक्षुरेतयोः
०३२६०५५२ तस्मात्सूर्यो न्यभिद्येतां कर्णौ श्रोत्रं ततो दिशः
०३२६०५६१ निर्बिभेद विराजस्त्वग् रोमश्मश्र्वादयस्ततः
०३२६०५६२ तत ओषधयश्चासन्शिश्नं निर्बिभिदे ततः
०३२६०५७१ रेतस्तस्मादाप आसन्निरभिद्यत वै गुदम्
०३२६०५७२ गुदादपानोऽपानाच्च मृत्युर्लोकभयङ्करः
०३२६०५८१ हस्तौ च निरभिद्येतां बलं ताभ्यां ततः स्वराट्
०३२६०५८२ पादौ च निरभिद्येतां गतिस्ताभ्यां ततो हरिः
०३२६०५९१ नाड्योऽस्य निरभिद्यन्त ताभ्यो लोहितमाभृतम्
०३२६०५९२ नद्यस्ततः समभवन्नुदरं निरभिद्यत
०३२६०६०१ क्षुत्पिपासे ततः स्यातां समुद्रस्त्वेतयोरभूत्
०३२६०६०२ अथास्य हृदयं भिन्नं हृदयान्मन उत्थितम्
०३२६०६११ मनसश्चन्द्रमा जातो बुद्धिर्बुद्धेर्गिरां पतिः
०३२६०६१२ अहङ्कारस्ततो रुद्रश्चित्तं चैत्यस्ततोऽभवत्
०३२६०६२१ एते ह्यभ्युत्थिता देवा नैवास्योत्थापनेऽशकन्
०३२६०६२२ पुनराविविशुः खानि तमुत्थापयितुं क्रमात्
०३२६०६३१ वह्निर्वाचा मुखं भेजे नोदतिष्ठत्तदा विराट्
०३२६०६३२ घ्राणेन नासिके वायुर्नोदतिष्ठत्तदा विराट्
०३२६०६४१ अक्षिणी चक्षुषादित्यो नोदतिष्ठत्तदा विराट्
०३२६०६४२ श्रोत्रेण कर्णौ च दिशो नोदतिष्ठत्तदा विराट्
०३२६०६५१ त्वचं रोमभिरोषध्यो नोदतिष्ठत्तदा विराट्
०३२६०६५२ रेतसा शिश्नमापस्तु नोदतिष्ठत्तदा विराट्
०३२६०६६१ गुदं मृत्युरपानेन नोदतिष्ठत्तदा विराट्
०३२६०६६२ हस्ताविन्द्रो बलेनैव नोदतिष्ठत्तदा विराट्
०३२६०६७१ विष्णुर्गत्यैव चरणौ नोदतिष्ठत्तदा विराट्
०३२६०६७२ नाडीर्नद्यो लोहितेन नोदतिष्ठत्तदा विराट्
०३२६०६८१ क्षुत्तृड्भ्यामुदरं सिन्धुर्नोदतिष्ठत्तदा विराट्
०३२६०६८२ हृदयं मनसा चन्द्रो नोदतिष्ठत्तदा विराट्
०३२६०६९१ बुद्ध्या ब्रह्मापि हृदयं नोदतिष्ठत्तदा विराट्
०३२६०६९२ रुद्रोऽभिमत्या हृदयं नोदतिष्ठत्तदा विराट्
०३२६०७०१ चित्तेन हृदयं चैत्यः क्षेत्रज्ञः प्राविशद्यदा
०३२६०७०२ विराट्तदैव पुरुषः सलिलादुदतिष्ठत
०३२६०७११ यथा प्रसुप्तं पुरुषं प्राणेन्द्रियमनोधियः
०३२६०७१२ प्रभवन्ति विना येन नोत्थापयितुमोजसा
०३२६०७२१ तमस्मिन्प्रत्यगात्मानं धिया योगप्रवृत्तया
०३२६०७२२ भक्त्या विरक्त्या ज्ञानेन विविच्यात्मनि चिन्तयेत्
इति श्रीमद्भागवते महापुराणे
पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेये तत्त्वसमाम्नाये
षड्विंशोऽध्यायः ॥ २६ ॥
०३२७००१० श्रीभगवानुवाच
०३२७००११ प्रकृतिस्थोऽपि पुरुषो नाज्यते प्राकृतैर्गुणैः
०३२७००१२ अविकारादकर्तृत्वान्निर्गुणत्वाज्जलार्कवत्
०३२७००२१ स एष यर्हि प्रकृतेर्गुणेष्वभिविषज्जते
०३२७००२२ अहङ्क्रियाविमूढात्मा कर्तास्मीत्यभिमन्यते
०३२७००३१ तेन संसारपदवीमवशोऽभ्येत्यनिर्वृतः
०३२७००३२ प्रासङ्गिकैः कर्मदोषैः सदसन्मिश्रयोनिषु
०३२७००४१ अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते
०३२७००४२ ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा
०३२७००५१ अत एव शनैश्चित्तं प्रसक्तमसतां पथि
०३२७००५२ भक्तियोगेन तीव्रेण विरक्त्या च नयेद्वशम्
०३२७००६१ यमादिभिर्योगपथैरभ्यसञ्श्रद्धयान्वितः
०३२७००६२ मयि भावेन सत्येन मत्कथाश्रवणेन च
०३२७००७१ सर्वभूतसमत्वेन निर्वैरेणाप्रसङ्गतः
०३२७००७२ ब्रह्मचर्येण मौनेन स्वधर्मेण बलीयसा
०३२७००८१ यदृच्छयोपलब्धेन सन्तुष्टो मितभुङ्मुनिः
०३२७००८२ विविक्तशरणः शान्तो मैत्रः करुण आत्मवान्
०३२७००९१ सानुबन्धे च देहेऽस्मिन्नकुर्वन्नसदाग्रहम्
०३२७००९२ ज्ञानेन दृष्टतत्त्वेन प्रकृतेः पुरुषस्य च
०३२७०१०१ निवृत्तबुद्ध्यवस्थानो दूरीभूतान्यदर्शनः
०३२७०१०२ उपलभ्यात्मनात्मानं चक्षुषेवार्कमात्मदृक्
०३२७०१११ मुक्तलिङ्गं सदाभासमसति प्रतिपद्यते
०३२७०११२ सतो बन्धुमसच्चक्षुः सर्वानुस्यूतमद्वयम्
०३२७०१२१ यथा जलस्थ आभासः स्थलस्थेनावदृश्यते
०३२७०१२२ स्वाभासेन तथा सूर्यो जलस्थेन दिवि स्थितः
०३२७०१३१ एवं त्रिवृदहङ्कारो भूतेन्द्रियमनोमयैः
०३२७०१३२ स्वाभासैर्लक्षितोऽनेन सदाभासेन सत्यदृक्
०३२७०१४१ भूतसूक्ष्मेन्द्रियमनो बुद्ध्यादिष्विह निद्रया
०३२७०१४२ लीनेष्वसति यस्तत्र विनिद्रो निरहङ्क्रियः
०३२७०१५१ मन्यमानस्तदात्मानमनष्टो नष्टवन्मृषा
०३२७०१५२ नष्टेऽहङ्करणे द्रष्टा नष्टवित्त इवातुरः
०३२७०१६१ एवं प्रत्यवमृश्यासावात्मानं प्रतिपद्यते
०३२७०१६२ साहङ्कारस्य द्रव्यस्य योऽवस्थानमनुग्रहः
०३२७०१७० देवहूतिरुवाच
०३२७०१७१ पुरुषं प्रकृतिर्ब्रह्मन्न विमुञ्चति कर्हिचित्
०३२७०१७२ अन्योन्यापाश्रयत्वाच्च नित्यत्वादनयोः प्रभो
०३२७०१८१ यथा गन्धस्य भूमेश्च न भावो व्यतिरेकतः
०३२७०१८२ अपां रसस्य च यथा तथा बुद्धेः परस्य च
०३२७०१९१ अकर्तुः कर्मबन्धोऽयं पुरुषस्य यदाश्रयः
०३२७०१९२ गुणेषु सत्सु प्रकृतेः कैवल्यं तेष्वतः कथम्
०३२७०२०१ क्वचित्तत्त्वावमर्शेन निवृत्तं भयमुल्बणम्
०३२७०२०२ अनिवृत्तनिमित्तत्वात्पुनः प्रत्यवतिष्ठते
०३२७०२१० श्रीभगवानुवाच
०३२७०२११ अनिमित्तनिमित्तेन स्वधर्मेणामलात्मना
०३२७०२१२ तीव्रया मयि भक्त्या च श्रुतसम्भृतया चिरम्
०३२७०२२१ ज्ञानेन दृष्टतत्त्वेन वैराग्येण बलीयसा
०३२७०२२२ तपोयुक्तेन योगेन तीव्रेणात्मसमाधिना
०३२७०२३१ प्रकृतिः पुरुषस्येह दह्यमाना त्वहर्निशम्
०३२७०२३२ तिरोभवित्री शनकैरग्नेर्योनिरिवारणिः
०३२७०२४१ भुक्तभोगा परित्यक्ता दृष्टदोषा च नित्यशः
०३२७०२४२ नेश्वरस्याशुभं धत्ते स्वे महिम्नि स्थितस्य च
०३२७०२५१ यथा ह्यप्रतिबुद्धस्य प्रस्वापो बह्वनर्थभृत्
०३२७०२५२ स एव प्रतिबुद्धस्य न वै मोहाय कल्पते
०३२७०२६१ एवं विदिततत्त्वस्य प्रकृतिर्मयि मानसम्
०३२७०२६२ युञ्जतो नापकुरुत आत्मारामस्य कर्हिचित्
०३२७०२७१ यदैवमध्यात्मरतः कालेन बहुजन्मना
०३२७०२७२ सर्वत्र जातवैराग्य आब्रह्मभुवनान्मुनिः
०३२७०२८१ मद्भक्तः प्रतिबुद्धार्थो मत्प्रसादेन भूयसा
०३२७०२८२ निःश्रेयसं स्वसंस्थानं कैवल्याख्यं मदाश्रयम्
०३२७०२९१ प्राप्नोतीहाञ्जसा धीरः स्वदृशा च्छिन्नसंशयः
०३२७०२९२ यद्गत्वा न निवर्तेत योगी लिङ्गाद्विनिर्गमे
०३२७०३०१ यदा न योगोपचितासु चेतो मायासु सिद्धस्य विषज्जतेऽङ्ग
०३२७०३०२ अनन्यहेतुष्वथ मे गतिः स्यादात्यन्तिकी यत्र न मृत्युहासः
इति श्रीमद्भागवते महापुराणे
पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेयोपाख्याने
सप्तविंशोऽध्यायः ॥ २७ ॥
०३२८००१० श्रीभगवानुवाच
०३२८००११ योगस्य लक्षणं वक्ष्ये सबीजस्य नृपात्मजे
०३२८००१२ मनो येनैव विधिना प्रसन्नं याति सत्पथम्
०३२८००२१ स्वधर्माचरणं शक्त्या विधर्माच्च निवर्तनम्
०३२८००२२ दैवाल्लब्धेन सन्तोष आत्मविच्चरणार्चनम्
०३२८००३१ ग्राम्यधर्मनिवृत्तिश्च मोक्षधर्मरतिस्तथा
०३२८००३२ मितमेध्यादनं शश्वद्विविक्तक्षेमसेवनम्
०३२८००४१ अहिंसा सत्यमस्तेयं यावदर्थपरिग्रहः
०३२८००४२ ब्रह्मचर्यं तपः शौचं स्वाध्यायः पुरुषार्चनम्
०३२८००५१ मौनं सदासनजयः स्थैर्यं प्राणजयः शनैः
०३२८००५२ प्रत्याहारश्चेन्द्रियाणां विषयान्मनसा हृदि
०३२८००६१ स्वधिष्ण्यानामेकदेशे मनसा प्राणधारणम्
०३२८००६२ वैकुण्ठलीलाभिध्यानं समाधानं तथात्मनः
०३२८००७१ एतैरन्यैश्च पथिभिर्मनो दुष्टमसत्पथम्
०३२८००७२ बुद्ध्या युञ्जीत शनकैर्जितप्राणो ह्यतन्द्रितः
०३२८००८१ शुचौ देशे प्रतिष्ठाप्य विजितासन आसनम्
०३२८००८२ तस्मिन्स्वस्ति समासीन ऋजुकायः समभ्यसेत्
०३२८००९१ प्राणस्य शोधयेन्मार्गं पूरकुम्भकरेचकैः
०३२८००९२ प्रतिकूलेन वा चित्तं यथा स्थिरमचञ्चलम्
०३२८०१०१ मनोऽचिरात्स्याद्विरजं जितश्वासस्य योगिनः
०३२८०१०२ वाय्वग्निभ्यां यथा लोहं ध्मातं त्यजति वै मलम्
०३२८०१११ प्राणायामैर्दहेद्दोषान्धारणाभिश्च किल्बिषान्
०३२८०११२ प्रत्याहारेण संसर्गान्ध्यानेनानीश्वरान्गुणान्
०३२८०१२१ यदा मनः स्वं विरजं योगेन सुसमाहितम्
०३२८०१२२ काष्ठां भगवतो ध्यायेत्स्वनासाग्रावलोकनः
०३२८०१३१ प्रसन्नवदनाम्भोजं पद्मगर्भारुणेक्षणम्
०३२८०१३२ नीलोत्पलदलश्यामं शङ्खचक्रगदाधरम्
०३२८०१४१ लसत्पङ्कजकिञ्जल्क पीतकौशेयवाससम्
०३२८०१४२ श्रीवत्सवक्षसं भ्राजत्कौस्तुभामुक्तकन्धरम्
०३२८०१५१ मत्तद्विरेफकलया परीतं वनमालया
०३२८०१५२ परार्ध्यहारवलय किरीटाङ्गदनूपुरम्
०३२८०१६१ काञ्चीगुणोल्लसच्छ्रोणिं हृदयाम्भोजविष्टरम्
०३२८०१६२ दर्शनीयतमं शान्तं मनोनयनवर्धनम्
०३२८०१७१ अपीच्यदर्शनं शश्वत्सर्वलोकनमस्कृतम्
०३२८०१७२ सन्तं वयसि कैशोरे भृत्यानुग्रहकातरम्
०३२८०१८१ कीर्तन्यतीर्थयशसं पुण्यश्लोकयशस्करम्
०३२८०१८२ ध्यायेद्देवं समग्राङ्गं यावन्न च्यवते मनः
०३२८०१९१ स्थितं व्रजन्तमासीनं शयानं वा गुहाशयम्
०३२८०१९२ प्रेक्षणीयेहितं ध्यायेच्छुद्धभावेन चेतसा
०३२८०२०१ तस्मिन्लब्धपदं चित्तं सर्वावयवसंस्थितम्
०३२८०२०२ विलक्ष्यैकत्र संयुज्यादङ्गे भगवतो मुनिः
०३२८०२११ सञ्चिन्तयेद्भगवतश्चरणारविन्दं
०३२८०२१२ वज्राङ्कुशध्वजसरोरुहलाञ्छनाढ्यम्
०३२८०२१३ उत्तुङ्गरक्तविलसन्नखचक्रवाल
०३२८०२१४ ज्योत्स्नाभिराहतमहद्धृदयान्धकारम्
०३२८०२२१ यच्छौचनिःसृतसरित्प्रवरोदकेन
०३२८०२२२ तीर्थेन मूर्ध्न्यधिकृतेन शिवः शिवोऽभूत्
०३२८०२२३ ध्यातुर्मनःशमलशैलनिसृष्टवज्रं
०३२८०२२४ ध्यायेच्चिरं भगवतश्चरणारविन्दम्
०३२८०२३१ जानुद्वयं जलजलोचनया जनन्या
०३२८०२३२ लक्ष्म्याखिलस्य सुरवन्दितया विधातुः
०३२८०२३३ ऊर्वोर्निधाय करपल्लवरोचिषा यत्
०३२८०२३४ संलालितं हृदि विभोरभवस्य कुर्यात्
०३२८०२४१ ऊरू सुपर्णभुजयोरधि शोभमानाव्
०३२८०२४२ ओजोनिधी अतसिकाकुसुमावभासौ
०३२८०२४३ व्यालम्बिपीतवरवाससि वर्तमान
०३२८०२४४ काञ्चीकलापपरिरम्भि नितम्बबिम्बम्
०३२८०२५१ नाभिह्रदं भुवनकोशगुहोदरस्थं
०३२८०२५२ यत्रात्मयोनिधिषणाखिललोकपद्मम्
०३२८०२५३ व्यूढं हरिन्मणिवृषस्तनयोरमुष्य
०३२८०२५४ ध्यायेद्द्वयं विशदहारमयूखगौरम्
०३२८०२६१ वक्षोऽधिवासमृषभस्य महाविभूतेः
०३२८०२६२ पुंसां मनोनयननिर्वृतिमादधानम्
०३२८०२६३ कण्ठं च कौस्तुभमणेरधिभूषणार्थं
०३२८०२६४ कुर्यान्मनस्यखिललोकनमस्कृतस्य
०३२८०२७१ बाहूंश्च मन्दरगिरेः परिवर्तनेन
०३२८०२७२ निर्णिक्तबाहुवलयानधिलोकपालान्
०३२८०२७३ सञ्चिन्तयेद्दशशतारमसह्यतेजः
०३२८०२७४ शङ्खं च तत्करसरोरुहराजहंसम्
०३२८०२८१ कौमोदकीं भगवतो दयितां स्मरेत
०३२८०२८२ दिग्धामरातिभटशोणितकर्दमेन
०३२८०२८३ मालां मधुव्रतवरूथगिरोपघुष्टां
०३२८०२८४ चैत्यस्य तत्त्वममलं मणिमस्य कण्ठे
०३२८०२९१ भृत्यानुकम्पितधियेह गृहीतमूर्तेः
०३२८०२९२ सञ्चिन्तयेद्भगवतो वदनारविन्दम्
०३२८०२९३ यद्विस्फुरन्मकरकुण्डलवल्गितेन
०३२८०२९४ विद्योतितामलकपोलमुदारनासम्
०३२८०३०१ यच्छ्रीनिकेतमलिभिः परिसेव्यमानं
०३२८०३०२ भूत्या स्वया कुटिलकुन्तलवृन्दजुष्टम्
०३२८०३०३ मीनद्वयाश्रयमधिक्षिपदब्जनेत्रं
०३२८०३०४ ध्यायेन्मनोमयमतन्द्रित उल्लसद्भ्रु
०३२८०३११ तस्यावलोकमधिकं कृपयातिघोर
०३२८०३१२ तापत्रयोपशमनाय निसृष्टमक्ष्णोः
०३२८०३१३ स्निग्धस्मितानुगुणितं विपुलप्रसादं
०३२८०३१४ ध्यायेच्चिरं विपुलभावनया गुहायाम्
०३२८०३२१ हासं हरेरवनताखिललोकतीव्र
०३२८०३२२ शोकाश्रुसागरविशोषणमत्युदारम्
०३२८०३२३ सम्मोहनाय रचितं निजमाययास्य
०३२८०३२४ भ्रूमण्डलं मुनिकृते मकरध्वजस्य
०३२८०३३१ ध्यानायनं प्रहसितं बहुलाधरोष्ठ
०३२८०३३२ भासारुणायिततनुद्विजकुन्दपङ्क्ति
०३२८०३३३ ध्यायेत्स्वदेहकुहरेऽवसितस्य विष्णोर्
०३२८०३३४ भक्त्यार्द्रयार्पितमना न पृथग्दिदृक्षेत्
०३२८०३४१ एवं हरौ भगवति प्रतिलब्धभावो
०३२८०३४२ भक्त्या द्रवद्धृदय उत्पुलकः प्रमोदात्
०३२८०३४३ औत्कण्ठ्यबाष्पकलया मुहुरर्द्यमानस्
०३२८०३४४ तच्चापि चित्तबडिशं शनकैर्वियुङ्क्ते
०३२८०३५१ मुक्ताश्रयं यर्हि निर्विषयं विरक्तं
०३२८०३५२ निर्वाणमृच्छति मनः सहसा यथार्चिः
०३२८०३५३ आत्मानमत्र पुरुषोऽव्यवधानमेकम्
०३२८०३५४ अन्वीक्षते प्रतिनिवृत्तगुणप्रवाहः
०३२८०३६१ सोऽप्येतया चरमया मनसो निवृत्त्या
०३२८०३६२ तस्मिन्महिम्न्यवसितः सुखदुःखबाह्ये
०३२८०३६३ हेतुत्वमप्यसति कर्तरि दुःखयोर्यत्
०३२८०३६४ स्वात्मन्विधत्त उपलब्धपरात्मकाष्ठः
०३२८०३७१ देहं च तं न चरमः स्थितमुत्थितं वा
०३२८०३७२ सिद्धो विपश्यति यतोऽध्यगमत्स्वरूपम्
०३२८०३७३ दैवादुपेतमथ दैववशादपेतं
०३२८०३७४ वासो यथा परिकृतं मदिरामदान्धः
०३२८०३८१ देहोऽपि दैववशगः खलु कर्म यावत्
०३२८०३८२ स्वारम्भकं प्रतिसमीक्षत एव सासुः
०३२८०३८३ तं सप्रपञ्चमधिरूढसमाधियोगः
०३२८०३८४ स्वाप्नं पुनर्न भजते प्रतिबुद्धवस्तुः
०३२८०३९१ यथा पुत्राच्च वित्ताच्च पृथङ्मर्त्यः प्रतीयते
०३२८०३९२ अप्यात्मत्वेनाभिमताद्देहादेः पुरुषस्तथा
०३२८०४०१ यथोल्मुकाद्विस्फुलिङ्गाद्धूमाद्वापि स्वसम्भवात्
०३२८०४०२ अप्यात्मत्वेनाभिमताद्यथाग्निः पृथगुल्मुकात्
०३२८०४११ भूतेन्द्रियान्तःकरणात्प्रधानाज्जीवसंज्ञितात्
०३२८०४१२ आत्मा तथा पृथग्द्रष्टा भगवान्ब्रह्मसंज्ञितः
०३२८०४२१ सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि
०३२८०४२२ ईक्षेतानन्यभावेन भूतेष्विव तदात्मताम्
०३२८०४३१ स्वयोनिषु यथा ज्योतिरेकं नाना प्रतीयते
०३२८०४३२ योनीनां गुणवैषम्यात्तथात्मा प्रकृतौ स्थितः
०३२८०४४१ तस्मादिमां स्वां प्रकृतिं दैवीं सदसदात्मिकाम्
०३२८०४४२ दुर्विभाव्यां पराभाव्य स्वरूपेणावतिष्ठते
इति श्रीमद्भागवते महापुराणे
पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेये साधनानुष्ठानं
नामाष्टाविंशोऽध्यायः ॥ २८ ॥
०३२९००१० देवहूतिरुवाच
०३२९००११ लक्षणं महदादीनां प्रकृतेः पुरुषस्य च
०३२९००१२ स्वरूपं लक्ष्यतेऽमीषां येन तत्पारमार्थिकम्
०३२९००२१ यथा साङ्ख्येषु कथितं यन्मूलं तत्प्रचक्षते
०३२९००२२ भक्तियोगस्य मे मार्गं ब्रूहि विस्तरशः प्रभो
०३२९००३१ विरागो येन पुरुषो भगवन्सर्वतो भवेत्
०३२९००३२ आचक्ष्व जीवलोकस्य विविधा मम संसृतीः
०३२९००४१ कालस्येश्वररूपस्य परेषां च परस्य ते
०३२९००४२ स्वरूपं बत कुर्वन्ति यद्धेतोः कुशलं जनाः
०३२९००५१ लोकस्य मिथ्याभिमतेरचक्षुषश्चिरं प्रसुप्तस्य तमस्यनाश्रये
०३२९००५२ श्रान्तस्य कर्मस्वनुविद्धया धिया त्वमाविरासीः किल योगभास्करः
०३२९००६० मैत्रेय उवाच
०३२९००६१ इति मातुर्वचः श्लक्ष्णं प्रतिनन्द्य महामुनिः
०३२९००६२ आबभाषे कुरुश्रेष्ठ प्रीतस्तां करुणार्दितः
०३२९००७० श्रीभगवानुवाच
०३२९००७१ भक्तियोगो बहुविधो मार्गैर्भामिनि भाव्यते
०३२९००७२ स्वभावगुणमार्गेण पुंसां भावो विभिद्यते
०३२९००८१ अभिसन्धाय यो हिंसां दम्भं मात्सर्यमेव वा
०३२९००८२ संरम्भी भिन्नदृग्भावं मयि कुर्यात्स तामसः
०३२९००९१ विषयानभिसन्धाय यश ऐश्वर्यमेव वा
०३२९००९२ अर्चादावर्चयेद्यो मां पृथग्भावः स राजसः
०३२९०१०१ कर्मनिर्हारमुद्दिश्य परस्मिन्वा तदर्पणम्
०३२९०१०२ यजेद्यष्टव्यमिति वा पृथग्भावः स सात्त्विकः
०३२९०१११ मद्गुणश्रुतिमात्रेण मयि सर्वगुहाशये
०३२९०११२ मनोगतिरविच्छिन्ना यथा गङ्गाम्भसोऽम्बुधौ
०३२९०१२१ लक्षणं भक्तियोगस्य निर्गुणस्य ह्युदाहृतम्
०३२९०१२२ अहैतुक्यव्यवहिता या भक्तिः पुरुषोत्तमे
०३२९०१३१ सालोक्यसार्ष्टिसामीप्य सारूप्यैकत्वमप्युत
०३२९०१३२ दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः
०३२९०१४१ स एव भक्तियोगाख्य आत्यन्तिक उदाहृतः
०३२९०१४२ येनातिव्रज्य त्रिगुणं मद्भावायोपपद्यते
०३२९०१५१ निषेवितेनानिमित्तेन स्वधर्मेण महीयसा
०३२९०१५२ क्रियायोगेन शस्तेन नातिहिंस्रेण नित्यशः
०३२९०१६१ मद्धिष्ण्यदर्शनस्पर्श पूजास्तुत्यभिवन्दनैः
०३२९०१६२ भूतेषु मद्भावनया सत्त्वेनासङ्गमेन च
०३२९०१७१ महतां बहुमानेन दीनानामनुकम्पया
०३२९०१७२ मैत्र्या चैवात्मतुल्येषु यमेन नियमेन च
०३२९०१८१ आध्यात्मिकानुश्रवणान्नामसङ्कीर्तनाच्च मे
०३२९०१८२ आर्जवेनार्यसङ्गेन निरहङ्क्रियया तथा
०३२९०१९१ मद्धर्मणो गुणैरेतैः परिसंशुद्ध आशयः
०३२९०१९२ पुरुषस्याञ्जसाभ्येति श्रुतमात्रगुणं हि माम्
०३२९०२०१ यथा वातरथो घ्राणमावृङ्क्ते गन्ध आशयात्
०३२९०२०२ एवं योगरतं चेत आत्मानमविकारि यत्
०३२९०२११ अहं सर्वेषु भूतेषु भूतात्मावस्थितः सदा
०३२९०२१२ तमवज्ञाय मां मर्त्यः कुरुतेऽर्चाविडम्बनम्
०३२९०२२१ यो मां सर्वेषु भूतेषु सन्तमात्मानमीश्वरम्
०३२९०२२२ हित्वार्चां भजते मौढ्याद्भस्मन्येव जुहोति सः
०३२९०२३१ द्विषतः परकाये मां मानिनो भिन्नदर्शिनः
०३२९०२३२ भूतेषु बद्धवैरस्य न मनः शान्तिमृच्छति
०३२९०२४१ अहमुच्चावचैर्द्रव्यैः क्रिययोत्पन्नयानघे
०३२९०२४२ नैव तुष्येऽर्चितोऽर्चायां भूतग्रामावमानिनः
०३२९०२५१ अर्चादावर्चयेत्तावदीश्वरं मां स्वकर्मकृत्
०३२९०२५२ यावन्न वेद स्वहृदि सर्वभूतेष्ववस्थितम्
०३२९०२६१ आत्मनश्च परस्यापि यः करोत्यन्तरोदरम्
०३२९०२६२ तस्य भिन्नदृशो मृत्युर्विदधे भयमुल्बणम्
०३२९०२७१ अथ मां सर्वभूतेषु भूतात्मानं कृतालयम्
०३२९०२७२ अर्हयेद्दानमानाभ्यां मैत्र्याभिन्नेन चक्षुषा
०३२९०२८१ जीवाः श्रेष्ठा ह्यजीवानां ततः प्राणभृतः शुभे
०३२९०२८२ ततः सचित्ताः प्रवरास्ततश्चेन्द्रियवृत्तयः
०३२९०२९१ तत्रापि स्पर्शवेदिभ्यः प्रवरा रसवेदिनः
०३२९०२९२ तेभ्यो गन्धविदः श्रेष्ठास्ततः शब्दविदो वराः
०३२९०३०१ रूपभेदविदस्तत्र ततश्चोभयतोदतः
०३२९०३०२ तेषां बहुपदाः श्रेष्ठाश्चतुष्पादस्ततो द्विपात्
०३२९०३११ ततो वर्णाश्च चत्वारस्तेषां ब्राह्मण उत्तमः
०३२९०३१२ ब्राह्मणेष्वपि वेदज्ञो ह्यर्थज्ञोऽभ्यधिकस्ततः
०३२९०३२१ अर्थज्ञात्संशयच्छेत्ता ततः श्रेयान्स्वकर्मकृत्
०३२९०३२२ मुक्तसङ्गस्ततो भूयानदोग्धा धर्ममात्मनः
०३२९०३३१ तस्मान्मय्यर्पिताशेष क्रियार्थात्मा निरन्तरः
०३२९०३३२ मय्यर्पितात्मनः पुंसो मयि सन्न्यस्तकर्मणः
०३२९०३३३ न पश्यामि परं भूतमकर्तुः समदर्शनात्
०३२९०३४१ मनसैतानि भूतानि प्रणमेद्बहुमानयन्
०३२९०३४२ ईश्वरो जीवकलया प्रविष्टो भगवानिति
०३२९०३५१ भक्तियोगश्च योगश्च मया मानव्युदीरितः
०३२९०३५२ ययोरेकतरेणैव पुरुषः पुरुषं व्रजेत्
०३२९०३६१ एतद्भगवतो रूपं ब्रह्मणः परमात्मनः
०३२९०३६२ परं प्रधानं पुरुषं दैवं कर्मविचेष्टितम्
०३२९०३७१ रूपभेदास्पदं दिव्यं काल इत्यभिधीयते
०३२९०३७२ भूतानां महदादीनां यतो भिन्नदृशां भयम्
०३२९०३८१ योऽन्तः प्रविश्य भूतानि भूतैरत्त्यखिलाश्रयः
०३२९०३८२ स विष्ण्वाख्योऽधियज्ञोऽसौ कालः कलयतां प्रभुः
०३२९०३९१ न चास्य कश्चिद्दयितो न द्वेष्यो न च बान्धवः
०३२९०३९२ आविशत्यप्रमत्तोऽसौ प्रमत्तं जनमन्तकृत्
०३२९०४०१ यद्भयाद्वाति वातोऽयं सूर्यस्तपति यद्भयात्
०३२९०४०२ यद्भयाद्वर्षते देवो भगणो भाति यद्भयात्
०३२९०४११ यद्वनस्पतयो भीता लताश्चौषधिभिः सह
०३२९०४१२ स्वे स्वे कालेऽभिगृह्णन्ति पुष्पाणि च फलानि च
०३२९०४२१ स्रवन्ति सरितो भीता नोत्सर्पत्युदधिर्यतः
०३२९०४२२ अग्निरिन्धे सगिरिभिर्भूर्न मज्जति यद्भयात्
०३२९०४३१ नभो ददाति श्वसतां पदं यन्नियमाददः
०३२९०४३२ लोकं स्वदेहं तनुते महान्सप्तभिरावृतम्
०३२९०४४१ गुणाभिमानिनो देवाः सर्गादिष्वस्य यद्भयात्
०३२९०४४२ वर्तन्तेऽनुयुगं येषां वश एतच्चराचरम्
०३२९०४५१ सोऽनन्तोऽन्तकरः कालोऽनादिरादिकृदव्ययः
०३२९०४५२ जनं जनेन जनयन्मारयन्मृत्युनान्तकम्
इति श्रीमद्भागवते महापुराणे
पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेयोपाख्याने
एकोनत्रिंशोऽध्यायः ॥ २९ ॥
०३३०००१० कपिल उवाच
०३३०००११ तस्यैतस्य जनो नूनं नायं वेदोरुविक्रमम्
०३३०००१२ काल्यमानोऽपि बलिनो वायोरिव घनावलिः
०३३०००२१ यं यमर्थमुपादत्ते दुःखेन सुखहेतवे
०३३०००२२ तं तं धुनोति भगवान्पुमान्छोचति यत्कृते
०३३०००३१ यदध्रुवस्य देहस्य सानुबन्धस्य दुर्मतिः
०३३०००३२ ध्रुवाणि मन्यते मोहाद्गृहक्षेत्रवसूनि च
०३३०००४१ जन्तुर्वै भव एतस्मिन्यां यां योनिमनुव्रजेत्
०३३०००४२ तस्यां तस्यां स लभते निर्वृतिं न विरज्यते
०३३०००५१ नरकस्थोऽपि देहं वै न पुमांस्त्यक्तुमिच्छति
०३३०००५२ नारक्यां निर्वृतौ सत्यां देवमायाविमोहितः
०३३०००६१ आत्मजायासुतागार पशुद्रविणबन्धुषु
०३३०००६२ निरूढमूलहृदय आत्मानं बहु मन्यते
०३३०००७१ सन्दह्यमानसर्वाङ्ग एषामुद्वहनाधिना
०३३०००७२ करोत्यविरतं मूढो दुरितानि दुराशयः
०३३०००८१ आक्षिप्तात्मेन्द्रियः स्त्रीणामसतीनां च मायया
०३३०००८२ रहो रचितयालापैः शिशूनां कलभाषिणाम्
०३३०००९१ गृहेषु कूटधर्मेषु दुःखतन्त्रेष्वतन्द्रितः
०३३०००९२ कुर्वन्दुःखप्रतीकारं सुखवन्मन्यते गृही
०३३००१०१ अर्थैरापादितैर्गुर्व्या हिंसयेतस्ततश्च तान्
०३३००१०२ पुष्णाति येषां पोषेण शेषभुग्यात्यधः स्वयम्
०३३००१११ वार्तायां लुप्यमानायामारब्धायां पुनः पुनः
०३३००११२ लोभाभिभूतो निःसत्त्वः परार्थे कुरुते स्पृहाम्
०३३००१२१ कुटुम्बभरणाकल्पो मन्दभाग्यो वृथोद्यमः
०३३००१२२ श्रिया विहीनः कृपणो ध्यायन्छ्वसिति मूढधीः
०३३००१३१ एवं स्वभरणाकल्पं तत्कलत्रादयस्तथा
०३३००१३२ नाद्रियन्ते यथा पूर्वं कीनाशा इव गोजरम्
०३३००१४१ तत्राप्यजातनिर्वेदो भ्रियमाणः स्वयम्भृतैः
०३३००१४२ जरयोपात्तवैरूप्यो मरणाभिमुखो गृहे
०३३००१५१ आस्तेऽवमत्योपन्यस्तं गृहपाल इवाहरन्
०३३००१५२ आमयाव्यप्रदीप्ताग्निरल्पाहारोऽल्पचेष्टितः
०३३००१६१ वायुनोत्क्रमतोत्तारः कफसंरुद्धनाडिकः
०३३००१६२ कासश्वासकृतायासः कण्ठे घुरघुरायते
०३३००१७१ शयानः परिशोचद्भिः परिवीतः स्वबन्धुभिः
०३३००१७२ वाच्यमानोऽपि न ब्रूते कालपाशवशं गतः
०३३००१८१ एवं कुटुम्बभरणे व्यापृतात्माजितेन्द्रियः
०३३००१८२ म्रियते रुदतां स्वानामुरुवेदनयास्तधीः
०३३००१९१ यमदूतौ तदा प्राप्तौ भीमौ सरभसेक्षणौ
०३३००१९२ स दृष्ट्वा त्रस्तहृदयः शकृन्मूत्रं विमुञ्चति
०३३००२०१ यातनादेह आवृत्य पाशैर्बद्ध्वा गले बलात्
०३३००२०२ नयतो दीर्घमध्वानं दण्ड्यं राजभटा यथा
०३३००२११ तयोर्निर्भिन्नहृदयस्तर्जनैर्जातवेपथुः
०३३००२१२ पथि श्वभिर्भक्ष्यमाण आर्तोऽघं स्वमनुस्मरन्
०३३००२२१ क्षुत्तृट्परीतोऽर्कदवानलानिलैः सन्तप्यमानः पथि तप्तवालुके
०३३००२२२ कृच्छ्रेण पृष्ठे कशया च ताडितश्चलत्यशक्तोऽपि निराश्रमोदके
०३३००२३१ तत्र तत्र पतन्छ्रान्तो मूर्च्छितः पुनरुत्थितः
०३३००२३२ पथा पापीयसा नीतस्तरसा यमसादनम्
०३३००२४१ योजनानां सहस्राणि नवतिं नव चाध्वनः
०३३००२४२ त्रिभिर्मुहूर्तैर्द्वाभ्यां वा नीतः प्राप्नोति यातनाः
०३३००२५१ आदीपनं स्वगात्राणां वेष्टयित्वोल्मुकादिभिः
०३३००२५२ आत्ममांसादनं क्वापि स्वकृत्तं परतोऽपि वा
०३३००२६१ जीवतश्चान्त्राभ्युद्धारः श्वगृध्रैर्यमसादने
०३३००२६२ सर्पवृश्चिकदंशाद्यैर्दशद्भिश्चात्मवैशसम्
०३३००२७१ कृन्तनं चावयवशो गजादिभ्यो भिदापनम्
०३३००२७२ पातनं गिरिशृङ्गेभ्यो रोधनं चाम्बुगर्तयोः
०३३००२८१ यास्तामिस्रान्धतामिस्रा रौरवाद्याश्च यातनाः
०३३००२८२ भुङ्क्ते नरो वा नारी वा मिथः सङ्गेन निर्मिताः
०३३००२९१ अत्रैव नरकः स्वर्ग इति मातः प्रचक्षते
०३३००२९२ या यातना वै नारक्यस्ता इहाप्युपलक्षिताः
०३३००३०१ एवं कुटुम्बं बिभ्राण उदरम्भर एव वा
०३३००३०२ विसृज्येहोभयं प्रेत्य भुङ्क्ते तत्फलमीदृशम्
०३३००३११ एकः प्रपद्यते ध्वान्तं हित्वेदं स्वकलेवरम्
०३३००३१२ कुशलेतरपाथेयो भूतद्रोहेण यद्भृतम्
०३३००३२१ दैवेनासादितं तस्य शमलं निरये पुमान्
०३३००३२२ भुङ्क्ते कुटुम्बपोषस्य हृतवित्त इवातुरः
०३३००३३१ केवलेन ह्यधर्मेण कुटुम्बभरणोत्सुकः
०३३००३३२ याति जीवोऽन्धतामिस्रं चरमं तमसः पदम्
०३३००३४१ अधस्तान्नरलोकस्य यावतीर्यातनादयः
०३३००३४२ क्रमशः समनुक्रम्य पुनरत्राव्रजेच्छुचिः
इति श्रीमद्भागवते महापुराणे
पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेयोपाख्याने
कर्मविपाकोनाम त्रिंशोऽध्यायः ॥ ३० ॥
०३३०००१० श्रीभगवानुवाच
०३३१००११ कर्मणा दैवनेत्रेण जन्तुर्देहोपपत्तये
०३३१००१२ स्त्रियाः प्रविष्ट उदरं पुंसो रेतःकणाश्रयः
०३३१००२१ कललं त्वेकरात्रेण पञ्चरात्रेण बुद्बुदम्
०३३१००२२ दशाहेन तु कर्कन्धूः पेश्यण्डं वा ततः परम्
०३३१००३१ मासेन तु शिरो द्वाभ्यां बाह्वङ्घ्र्याद्यङ्गविग्रहः
०३३१००३२ नखलोमास्थिचर्माणि लिङ्गच्छिद्रोद्भवस्त्रिभिः
०३३१००४१ चतुर्भिर्धातवः सप्त पञ्चभिः क्षुत्तृडुद्भवः
०३३१००४२ षड्भिर्जरायुणा वीतः कुक्षौ भ्राम्यति दक्षिणे
०३३१००५१ मातुर्जग्धान्नपानाद्यैरेधद्धातुरसम्मते
०३३१००५२ शेते विण्मूत्रयोर्गर्ते स जन्तुर्जन्तुसम्भवे
०३३१००६१ कृमिभिः क्षतसर्वाङ्गः सौकुमार्यात्प्रतिक्षणम्
०३३१००६२ मूर्च्छामाप्नोत्युरुक्लेशस्तत्रत्यैः क्षुधितैर्मुहुः
०३३१००७१ कटुतीक्ष्णोष्णलवण रूक्षाम्लादिभिरुल्बणैः
०३३१००७२ मातृभुक्तैरुपस्पृष्टः सर्वाङ्गोत्थितवेदनः
०३३१००८१ उल्बेन संवृतस्तस्मिन्नन्त्रैश्च बहिरावृतः
०३३१००८२ आस्ते कृत्वा शिरः कुक्षौ भुग्नपृष्ठशिरोधरः
०३३१००९१ अकल्पः स्वाङ्गचेष्टायां शकुन्त इव पञ्जरे
०३३१००९२ तत्र लब्धस्मृतिर्दैवात्कर्म जन्मशतोद्भवम्
०३३१००९३ स्मरन्दीर्घमनुच्छ्वासं शर्म किं नाम विन्दते
०३३१०१०१ आरभ्य सप्तमान्मासाल्लब्धबोधोऽपि वेपितः
०३३१०१०२ नैकत्रास्ते सूतिवातैर्विष्ठाभूरिव सोदरः
०३३१०१११ नाथमान ऋषिर्भीतः सप्तवध्रिः कृताञ्जलिः
०३३१०११२ स्तुवीत तं विक्लवया वाचा येनोदरेऽर्पितः
०३३१०१२० जन्तुरुवाच
०३३१०१२१ तस्योपसन्नमवितुं जगदिच्छयात्त
०३३१०१२२ नानातनोर्भुवि चलच्चरणारविन्दम्
०३३१०१२३ सोऽहं व्रजामि शरणं ह्यकुतोभयं मे
०३३१०१२४ येनेदृशी गतिरदर्श्यसतोऽनुरूपा
०३३१०१३१ यस्त्वत्र बद्ध इव कर्मभिरावृतात्मा
०३३१०१३२ भूतेन्द्रियाशयमयीमवलम्ब्य मायाम्
०३३१०१३३ आस्ते विशुद्धमविकारमखण्डबोधम्
०३३१०१३४ आतप्यमानहृदयेऽवसितं नमामि
०३३१०१४१ यः पञ्चभूतरचिते रहितः शरीरे
०३३१०१४२ च्छन्नोऽयथेन्द्रियगुणार्थचिदात्मकोऽहम्
०३३१०१४३ तेनाविकुण्ठमहिमानमृषिं तमेनं
०३३१०१४४ वन्दे परं प्रकृतिपूरुषयोः पुमांसम्
०३३१०१५१ यन्माययोरुगुणकर्मनिबन्धनेऽस्मिन्
०३३१०१५२ सांसारिके पथि चरंस्तदभिश्रमेण
०३३१०१५३ नष्टस्मृतिः पुनरयं प्रवृणीत लोकं
०३३१०१५४ युक्त्या कया महदनुग्रहमन्तरेण
०३३१०१६१ ज्ञानं यदेतददधात्कतमः स देवस्
०३३१०१६२ त्रैकालिकं स्थिरचरेष्वनुवर्तितांशः
०३३१०१६३ तं जीवकर्मपदवीमनुवर्तमानास्
०३३१०१६४ तापत्रयोपशमनाय वयं भजेम
०३३१०१७१ देह्यन्यदेहविवरे जठराग्निनासृग्
०३३१०१७२ विण्मूत्रकूपपतितो भृशतप्तदेहः
०३३१०१७३ इच्छन्नितो विवसितुं गणयन्स्वमासान्
०३३१०१७४ निर्वास्यते कृपणधीर्भगवन्कदा नु
०३३१०१८१ येनेदृशीं गतिमसौ दशमास्य ईश
०३३१०१८२ सङ्ग्राहितः पुरुदयेन भवादृशेन
०३३१०१८३ स्वेनैव तुष्यतु कृतेन स दीननाथः
०३३१०१८४ को नाम तत्प्रति विनाञ्जलिमस्य कुर्यात्
०३३१०१९१ पश्यत्ययं धिषणया ननु सप्तवध्रिः
०३३१०१९२ शारीरके दमशरीर्यपरः स्वदेहे
०३३१०१९३ यत्सृष्टयासं तमहं पुरुषं पुराणं
०३३१०१९४ पश्ये बहिर्हृदि च चैत्यमिव प्रतीतम्
०३३१०२०१ सोऽहं वसन्नपि विभो बहुदुःखवासं
०३३१०२०२ गर्भान्न निर्जिगमिषे बहिरन्धकूपे
०३३१०२०३ यत्रोपयातमुपसर्पति देवमाया
०३३१०२०४ मिथ्या मतिर्यदनु संसृतिचक्रमेतत्
०३३१०२११ तस्मादहं विगतविक्लव उद्धरिष्य
०३३१०२१२ आत्मानमाशु तमसः सुहृदात्मनैव
०३३१०२१३ भूयो यथा व्यसनमेतदनेकरन्ध्रं
०३३१०२१४ मा मे भविष्यदुपसादितविष्णुपादः
इति श्रीमद्भागवते महापुराणे
पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेयोपाख्याने
जीवगतिर्नामैकत्रिंशोऽध्यायः ॥ ३१ ॥
०३३२०२२० कपिल उवाच
०३३२०२२१ एवं कृतमतिर्गर्भे दशमास्यः स्तुवन्नृषिः
०३३२०२२२ सद्यः क्षिपत्यवाचीनं प्रसूत्यै सूतिमारुतः
०३३२०२३१ तेनावसृष्टः सहसा कृत्वावाक्षिर आतुरः
०३३२०२३२ विनिष्क्रामति कृच्छ्रेण निरुच्छ्वासो हतस्मृतिः
०३३२०२४१ पतितो भुव्यसृङ्मिश्रः विष्ठाभूरिव चेष्टते
०३३२०२४२ रोरूयति गते ज्ञाने विपरीतां गतिं गतः
०३३२०२५१ परच्छन्दं न विदुषा पुष्यमाणो जनेन सः
०३३२०२५२ अनभिप्रेतमापन्नः प्रत्याख्यातुमनीश्वरः
०३३२०२६१ शायितोऽशुचिपर्यङ्के जन्तुः स्वेदजदूषिते
०३३२०२६२ नेशः कण्डूयनेऽङ्गानामासनोत्थानचेष्टने
०३३२०२७१ तुदन्त्यामत्वचं दंशा मशका मत्कुणादयः
०३३२०२७२ रुदन्तं विगतज्ञानं कृमयः कृमिकं यथा
०३३२०२८१ इत्येवं शैशवं भुक्त्वा दुःखं पौगण्डमेव च
०३३२०२८२ अलब्धाभीप्सितोऽज्ञानादिद्धमन्युः शुचार्पितः
०३३२०२९१ सह देहेन मानेन वर्धमानेन मन्युना
०३३२०२९२ करोति विग्रहं कामी कामिष्वन्ताय चात्मनः
०३३२०३०१ भूतैः पञ्चभिरारब्धे देहे देह्यबुधोऽसकृत्
०३३२०३०२ अहं ममेत्यसद्ग्राहः करोति कुमतिर्मतिम्
०३३२०३११ तदर्थं कुरुते कर्म यद्बद्धो याति संसृतिम्
०३३२०३१२ योऽनुयाति ददत्क्लेशमविद्याकर्मबन्धनः
०३३२०३२१ यद्यसद्भिः पथि पुनः शिश्नोदरकृतोद्यमैः
०३३२०३२२ आस्थितो रमते जन्तुस्तमो विशति पूर्ववत्
०३३२०३३१ सत्यं शौचं दया मौनं बुद्धिः श्रीर्ह्रीर्यशः क्षमा
०३३२०३३२ शमो दमो भगश्चेति यत्सङ्गाद्याति सङ्क्षयम्
०३३२०३४१ तेष्वशान्तेषु मूढेषु खण्डितात्मस्वसाधुषु
०३३२०३४२ सङ्गं न कुर्याच्छोच्येषु योषित्क्रीडामृगेषु च
०३३२०३५१ न तथास्य भवेन्मोहो बन्धश्चान्यप्रसङ्गतः
०३३२०३५२ योषित्सङ्गाद्यथा पुंसो यथा तत्सङ्गिसङ्गतः
०३३२०३६१ प्रजापतिः स्वां दुहितरं दृष्ट्वा तद्रूपधर्षितः
०३३२०३६२ रोहिद्भूतां सोऽन्वधावदृक्षरूपी हतत्रपः
०३३२०३७१ तत्सृष्टसृष्टसृष्टेषु को न्वखण्डितधीः पुमान्
०३३२०३७२ ऋषिं नारायणमृते योषिन्मय्येह मायया
०३३२०३८१ बलं मे पश्य मायायाः स्त्रीमय्या जयिनो दिशाम्
०३३२०३८२ या करोति पदाक्रान्तान्भ्रूविजृम्भेण केवलम्
०३३२०३९१ सङ्गं न कुर्यात्प्रमदासु जातु योगस्य पारं परमारुरुक्षुः
०३३२०३९२ मत्सेवया प्रतिलब्धात्मलाभो वदन्ति या निरयद्वारमस्य
०३३२०४०१ योपयाति शनैर्माया योषिद्देवविनिर्मिता
०३३२०४०२ तामीक्षेतात्मनो मृत्युं तृणैः कूपमिवावृतम्
०३३२०४११ यां मन्यते पतिं मोहान्मन्मायामृषभायतीम्
०३३२०४१२ स्त्रीत्वं स्त्रीसङ्गतः प्राप्तो वित्तापत्यगृहप्रदम्
०३३२०४२१ तामात्मनो विजानीयात्पत्यपत्यगृहात्मकम्
०३३२०४२२ दैवोपसादितं मृत्युं मृगयोर्गायनं यथा
०३३२०४३१ देहेन जीवभूतेन लोकाल्लोकमनुव्रजन्
०३३२०४३२ भुञ्जान एव कर्माणि करोत्यविरतं पुमान्
०३३२०४४१ जीवो ह्यस्यानुगो देहो भूतेन्द्रियमनोमयः
०३३२०४४२ तन्निरोधोऽस्य मरणमाविर्भावस्तु सम्भवः
०३३२०४५१ द्रव्योपलब्धिस्थानस्य द्रव्येक्षायोग्यता यदा
०३३२०४५२ तत्पञ्चत्वमहंमानादुत्पत्तिर्द्रव्यदर्शनम्
०३३२०४६१ यथाक्ष्णोर्द्रव्यावयव दर्शनायोग्यता यदा
०३३२०४६२ तदैव चक्षुषो द्रष्टुर्द्रष्टृत्वायोग्यतानयोः
०३३२०४७१ तस्मान्न कार्यः सन्त्रासो न कार्पण्यं न सम्भ्रमः
०३३२०४७२ बुद्ध्वा जीवगतिं धीरो मुक्तसङ्गश्चरेदिह
०३३२०४८१ सम्यग्दर्शनया बुद्ध्या योगवैराग्ययुक्तया
०३३२०४८२ मायाविरचिते लोके चरेन्न्यस्य कलेवरम्
०३३२००१० कपिल उवाच
०३३२००११ अथ यो गृहमेधीयान्धर्मानेवावसन्गृहे
०३३२००१२ काममर्थं च धर्मान्स्वान्दोग्धि भूयः पिपर्ति तान्
०३३२००२१ स चापि भगवद्धर्मात्काममूढः पराङ्मुखः
०३३२००२२ यजते क्रतुभिर्देवान्पित्ंश्च श्रद्धयान्वितः
०३३२००३१ तच्छ्रद्धयाक्रान्तमतिः पितृदेवव्रतः पुमान्
०३३२००३२ गत्वा चान्द्रमसं लोकं सोमपाः पुनरेष्यति
०३३२००४१ यदा चाहीन्द्रशय्यायां शेतेऽनन्तासनो हरिः
०३३२००४२ तदा लोका लयं यान्ति त एते गृहमेधिनाम्
०३३२००५१ ये स्वधर्मान्न दुह्यन्ति धीराः कामार्थहेतवे
०३३२००५२ निःसङ्गा न्यस्तकर्माणः प्रशान्ताः शुद्धचेतसः
०३३२००६१ निवृत्तिधर्मनिरता निर्ममा निरहङ्कृताः
०३३२००६२ स्वधर्माप्तेन सत्त्वेन परिशुद्धेन चेतसा
०३३२००७१ सूर्यद्वारेण ते यान्ति पुरुषं विश्वतोमुखम्
०३३२००७२ परावरेशं प्रकृतिमस्योत्पत्त्यन्तभावनम्
०३३२००८१ द्विपरार्धावसाने यः प्रलयो ब्रह्मणस्तु ते
०३३२००८२ तावदध्यासते लोकं परस्य परचिन्तकाः
०३३२००९१ क्ष्माम्भोऽनलानिलवियन्मनैन्द्रियार्थ
०३३२००९२ भूतादिभिः परिवृतं प्रतिसञ्जिहीर्षुः
०३३२००९३ अव्याकृतं विशति यर्हि गुणत्रयात्माकालं
०३३२००९४ पराख्यमनुभूय परः स्वयम्भूः
०३३२०१०१ एवं परेत्य भगवन्तमनुप्रविष्टाये
०३३२०१०२ योगिनो जितमरुन्मनसो विरागाः
०३३२०१०३ तेनैव साकममृतं पुरुषं पुराणं
०३३२०१०४ ब्रह्म प्रधानमुपयान्त्यगताभिमानाः
०३३२०१११ अथ तं सर्वभूतानां हृत्पद्मेषु कृतालयम्
०३३२०११२ श्रुतानुभावं शरणं व्रज भावेन भामिनि
०३३२०१२१ आद्यः स्थिरचराणां यो वेदगर्भः सहर्षिभिः
०३३२०१२२ योगेश्वरैः कुमाराद्यैः सिद्धैर्योगप्रवर्तकैः
०३३२०१३१ भेददृष्ट्याभिमानेन निःसङ्गेनापि कर्मणा
०३३२०१३२ कर्तृत्वात्सगुणं ब्रह्म पुरुषं पुरुषर्षभम्
०३३२०१४१ स संसृत्य पुनः काले कालेनेश्वरमूर्तिना
०३३२०१४२ जाते गुणव्यतिकरे यथापूर्वं प्रजायते
०३३२०१५१ ऐश्वर्यं पारमेष्ठ्यं च तेऽपि धर्मविनिर्मितम्
०३३२०१५२ निषेव्य पुनरायान्ति गुणव्यतिकरे सति
०३३२०१६१ ये त्विहासक्तमनसः कर्मसु श्रद्धयान्विताः
०३३२०१६२ कुर्वन्त्यप्रतिषिद्धानि नित्यान्यपि च कृत्स्नशः
०३३२०१७१ रजसा कुण्ठमनसः कामात्मानोऽजितेन्द्रियाः
०३३२०१७२ पित्न्यजन्त्यनुदिनं गृहेष्वभिरताशयाः
०३३२०१८१ त्रैवर्गिकास्ते पुरुषा विमुखा हरिमेधसः
०३३२०१८२ कथायां कथनीयोरु विक्रमस्य मधुद्विषः
०३३२०१९१ नूनं दैवेन विहता ये चाच्युतकथासुधाम्
०३३२०१९२ हित्वा शृण्वन्त्यसद्गाथाः पुरीषमिव विड्भुजः
०३३२०२०१ दक्षिणेन पथार्यम्णः पितृलोकं व्रजन्ति ते
०३३२०२०२ प्रजामनु प्रजायन्ते श्मशानान्तक्रियाकृतः
०३३२०२११ ततस्ते क्षीणसुकृताः पुनर्लोकमिमं सति
०३३२०२११ पतन्ति विवशा देवैः सद्यो विभ्रंशितोदयाः
०३३२०२२१ तस्मात्त्वं सर्वभावेन भजस्व परमेष्ठिनम्
०३३२०२२२ तद्गुणाश्रयया भक्त्या भजनीयपदाम्बुजम्
०३३२०२३१ वासुदेवे भगवति भक्तियोगः प्रयोजितः
०३३२०२३२ जनयत्याशु वैराग्यं ज्ञानं यद्ब्रह्मदर्शनम्
०३३२०२४१ यदास्य चित्तमर्थेषु समेष्विन्द्रियवृत्तिभिः
०३३२०२४२ न विगृह्णाति वैषम्यं प्रियमप्रियमित्युत
०३३२०२५१ स तदैवात्मनात्मानं निःसङ्गं समदर्शनम्
०३३२०२५२ हेयोपादेयरहितमारूढं पदमीक्षते
०३३२०२६१ ज्ञानमात्रं परं ब्रह्म परमात्मेश्वरः पुमान्
०३३२०२६२ दृश्यादिभिः पृथग्भावैर्भगवानेक ईयते
०३३२०२७१ एतावानेव योगेन समग्रेणेह योगिनः
०३३२०२७२ युज्यतेऽभिमतो ह्यर्थो यदसङ्गस्तु कृत्स्नशः
०३३२०२८१ ज्ञानमेकं पराचीनैरिन्द्रियैर्ब्रह्म निर्गुणम्
०३३२०२८२ अवभात्यर्थरूपेण भ्रान्त्या शब्दादिधर्मिणा
०३३२०२९१ यथा महानहंरूपस्त्रिवृत्पञ्चविधः स्वराट्
०३३२०२९२ एकादशविधस्तस्य वपुरण्डं जगद्यतः
०३३२०३०१ एतद्वै श्रद्धया भक्त्या योगाभ्यासेन नित्यशः
०३३२०३०२ समाहितात्मा निःसङ्गो विरक्त्या परिपश्यति
०३३२०३११ इत्येतत्कथितं गुर्वि ज्ञानं तद्ब्रह्मदर्शनम्
०३३२०३१२ येनानुबुद्ध्यते तत्त्वं प्रकृतेः पुरुषस्य च
०३३२०३२१ ज्ञानयोगश्च मन्निष्ठो नैर्गुण्यो भक्तिलक्षणः
०३३२०३२२ द्वयोरप्येक एवार्थो भगवच्छब्दलक्षणः
०३३२०३३१ यथेन्द्रियैः पृथग्द्वारैरर्थो बहुगुणाश्रयः
०३३२०३३२ एको नानेयते तद्वद्भगवान्शास्त्रवर्त्मभिः
०३३२०३४१ क्रियया क्रतुभिर्दानैस्तपःस्वाध्यायमर्शनैः
०३३२०३४२ आत्मेन्द्रियजयेनापि सन्न्यासेन च कर्मणाम्
०३३२०३५१ योगेन विविधाङ्गेन भक्तियोगेन चैव हि
०३३२०३५२ धर्मेणोभयचिह्नेन यः प्रवृत्तिनिवृत्तिमान्
०३३२०३६१ आत्मतत्त्वावबोधेन वैराग्येण दृढेन च
०३३२०३६२ ईयते भगवानेभिः सगुणो निर्गुणः स्वदृक्
०३३२०३७१ प्रावोचं भक्तियोगस्य स्वरूपं ते चतुर्विधम्
०३३२०३७२ कालस्य चाव्यक्तगतेर्योऽन्तर्धावति जन्तुषु
०३३२०३८१ जीवस्य संसृतीर्बह्वीरविद्याकर्मनिर्मिताः
०३३२०३८२ यास्वङ्ग प्रविशन्नात्मा न वेद गतिमात्मनः
०३३२०३९१ नैतत्खलायोपदिशेन्नाविनीताय कर्हिचित्
०३३२०३९२ न स्तब्धाय न भिन्नाय नैव धर्मध्वजाय च
०३३२०४०१ न लोलुपायोपदिशेन्न गृहारूढचेतसे
०३३२०४०२ नाभक्ताय च मे जातु न मद्भक्तद्विषामपि
०३३२०४११ श्रद्दधानाय भक्ताय विनीतायानसूयवे
०३३२०४१२ भूतेषु कृतमैत्राय शुश्रूषाभिरताय च
०३३२०४२१ बहिर्जातविरागाय शान्तचित्ताय दीयताम्
०३३२०४२२ निर्मत्सराय शुचये यस्याहं प्रेयसां प्रियः
०३३२०४३१ य इदं शृणुयादम्ब श्रद्धया पुरुषः सकृत्
०३३२०४३२ यो वाभिधत्ते मच्चित्तः स ह्येति पदवीं च मे
इति श्रीमद्भागवते महापुराणे
पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेये
द्वात्रिंशोऽध्यायः ॥ ३२ ॥
०३३३००१० मैत्रेय उवाच
०३३३००११ एवं निशम्य कपिलस्य वचो जनित्रीसा कर्दमस्य दयिता किल देवहूतिः
०३३३००१२ विस्रस्तमोहपटला तमभिप्रणम्यतुष्टाव तत्त्वविषयाङ्कितसिद्धिभूमिम्
०३३३००२० देवहूतिरुवाच
०३३३००२१ अथाप्यजोऽन्तःसलिले शयानं भूतेन्द्रियार्थात्ममयं वपुस्ते
०३३३००२२ गुणप्रवाहं सदशेषबीजं दध्यौ स्वयं यज्जठराब्जजातः
०३३३००३१ स एव विश्वस्य भवान्विधत्ते गुणप्रवाहेण विभक्तवीर्यः
०३३३००३२ सर्गाद्यनीहोऽवितथाभिसन्धिरात्मेश्वरोऽतर्क्यसहस्रशक्तिः
०३३३००४१ स त्वं भृतो मे जठरेण नाथ कथं नु यस्योदर एतदासीत्
०३३३००४२ विश्वं युगान्ते वटपत्र एकः शेते स्म मायाशिशुरङ्घ्रिपानः
०३३३००५१ त्वं देहतन्त्रः प्रशमाय पाप्मनां निदेशभाजां च विभो विभूतये
०३३३००५२ यथावतारास्तव सूकरादयस्तथायमप्यात्मपथोपलब्धये
०३३३००६१ यन्नामधेयश्रवणानुकीर्तनाद्यत्प्रह्वणाद्यत्स्मरणादपि क्वचित्
०३३३००६२ श्वादोऽपि सद्यः सवनाय कल्पते कुतः पुनस्ते भगवन्नु दर्शनात्
०३३३००७१ अहो बत श्वपचोऽतो गरीयान्यज्जिह्वाग्रे वर्तते नाम तुभ्यम्
०३३३००७२ तेपुस्तपस्ते जुहुवुः सस्नुरार्या ब्रह्मानूचुर्नाम गृणन्ति ये ते
०३३३००८१ तं त्वामहं ब्रह्म परं पुमांसं प्रत्यक्स्रोतस्यात्मनि संविभाव्यम्
०३३३००८२ स्वतेजसा ध्वस्तगुणप्रवाहं वन्दे विष्णुं कपिलं वेदगर्भम्
०३३३००९० मैत्रेय उवाच
०३३३००९१ ईडितो भगवानेवं कपिलाख्यः परः पुमान्
०३३३००९२ वाचाविक्लवयेत्याह मातरं मातृवत्सलः
०३३३०१०० कपिल उवाच
०३३३०१०१ मार्गेणानेन मातस्ते सुसेव्येनोदितेन मे
०३३३०१०२ आस्थितेन परां काष्ठामचिरादवरोत्स्यसि
०३३३०१११ श्रद्धत्स्वैतन्मतं मह्यं जुष्टं यद्ब्रह्मवादिभिः
०३३३०११२ येन मामभयं याया मृत्युमृच्छन्त्यतद्विदः
०३३३०१२० मैत्रेय उवाच
०३३३०१२१ इति प्रदर्श्य भगवान्सतीं तामात्मनो गतिम्
०३३३०१२२ स्वमात्रा ब्रह्मवादिन्या कपिलोऽनुमतो ययौ
०३३३०१३१ सा चापि तनयोक्तेन योगादेशेन योगयुक्
०३३३०१३२ तस्मिन्नाश्रम आपीडे सरस्वत्याः समाहिता
०३३३०१४१ अभीक्ष्णावगाहकपिशान्जटिलान्कुटिलालकान्
०३३३०१४२ आत्मानं चोग्रतपसा बिभ्रती चीरिणं कृशम्
०३३३०१५१ प्रजापतेः कर्दमस्य तपोयोगविजृम्भितम्
०३३३०१५२ स्वगार्हस्थ्यमनौपम्यं प्रार्थ्यं वैमानिकैरपि
०३३३०१६१ पयःफेननिभाः शय्या दान्ता रुक्मपरिच्छदाः
०३३३०१६२ आसनानि च हैमानि सुस्पर्शास्तरणानि च
०३३३०१७१ स्वच्छस्फटिककुड्येषु महामारकतेषु च
०३३३०१७२ रत्नप्रदीपा आभान्ति ललना रत्नसंयुताः
०३३३०१८१ गृहोद्यानं कुसुमितै रम्यं बह्वमरद्रुमैः
०३३३०१८२ कूजद्विहङ्गमिथुनं गायन्मत्तमधुव्रतम्
०३३३०१९१ यत्र प्रविष्टमात्मानं विबुधानुचरा जगुः
०३३३०१९२ वाप्यामुत्पलगन्धिन्यां कर्दमेनोपलालितम्
०३३३०२०१ हित्वा तदीप्सिततममप्याखण्डलयोषिताम्
०३३३०२०२ किञ्चिच्चकार वदनं पुत्रविश्लेषणातुरा
०३३३०२११ वनं प्रव्रजिते पत्यावपत्यविरहातुरा
०३३३०२१२ ज्ञाततत्त्वाप्यभून्नष्टे वत्से गौरिव वत्सला
०३३३०२२१ तमेव ध्यायती देवमपत्यं कपिलं हरिम्
०३३३०२२२ बभूवाचिरतो वत्स निःस्पृहा तादृशे गृहे
०३३३०२३१ ध्यायती भगवद्रूपं यदाह ध्यानगोचरम्
०३३३०२३२ सुतः प्रसन्नवदनं समस्तव्यस्तचिन्तया
०३३३०२४१ भक्तिप्रवाहयोगेन वैराग्येण बलीयसा
०३३३०२४२ युक्तानुष्ठानजातेन ज्ञानेन ब्रह्महेतुना
०३३३०२५१ विशुद्धेन तदात्मानमात्मना विश्वतोमुखम्
०३३३०२५२ स्वानुभूत्या तिरोभूत मायागुणविशेषणम्
०३३३०२६१ ब्रह्मण्यवस्थितमतिर्भगवत्यात्मसंश्रये
०३३३०२६२ निवृत्तजीवापत्तित्वात्क्षीणक्लेशाप्तनिर्वृतिः
०३३३०२७१ नित्यारूढसमाधित्वात्परावृत्तगुणभ्रमा
०३३३०२७२ न सस्मार तदात्मानं स्वप्ने दृष्टमिवोत्थितः
०३३३०२८१ तद्देहः परतः पोषोऽप्यकृशश्चाध्यसम्भवात्
०३३३०२८२ बभौ मलैरवच्छन्नः सधूम इव पावकः
०३३३०२९१ स्वाङ्गं तपोयोगमयं मुक्तकेशं गताम्बरम्
०३३३०२९२ दैवगुप्तं न बुबुधे वासुदेवप्रविष्टधीः
०३३३०३०१ एवं सा कपिलोक्तेन मार्गेणाचिरतः परम्
०३३३०३०२ आत्मानं ब्रह्मनिर्वाणं भगवन्तमवाप ह
०३३३०३११ तद्वीरासीत्पुण्यतमं क्षेत्रं त्रैलोक्यविश्रुतम्
०३३३०३१२ नाम्ना सिद्धपदं यत्र सा संसिद्धिमुपेयुषी
०३३३०३२१ तस्यास्तद्योगविधुत मार्त्यं मर्त्यमभूत्सरित्
०३३३०३२२ स्रोतसां प्रवरा सौम्य सिद्धिदा सिद्धसेविता
०३३३०३३१ कपिलोऽपि महायोगी भगवान्पितुराश्रमात्
०३३३०३३२ मातरं समनुज्ञाप्य प्रागुदीचीं दिशं ययौ
०३३३०३४१ सिद्धचारणगन्धर्वैर्मुनिभिश्चाप्सरोगणैः
०३३३०३४२ स्तूयमानः समुद्रेण दत्तार्हणनिकेतनः
०३३३०३५१ आस्ते योगं समास्थाय साङ्ख्याचार्यैरभिष्टुतः
०३३३०३५२ त्रयाणामपि लोकानामुपशान्त्यै समाहितः
०३३३०३६१ एतन्निगदितं तात यत्पृष्टोऽहं तवानघ
०३३३०३६२ कपिलस्य च संवादो देवहूत्याश्च पावनः
०३३३०३७१ य इदमनुशृणोति योऽभिधत्ते कपिलमुनेर्मतमात्मयोगगुह्यम्
०३३३०३७२ भगवति कृतधीः सुपर्णकेतावुपलभते भगवत्पदारविन्दम्
इति श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशसाहस्र्यां
पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेयोपाख्याने
त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥
॥ तृतीयः स्कन्धः समाप्तः ॥
॥ श्रीमद्भागवतान्तर्गतम् करुणागीतम् ॥
श्रीगोप्य ऊचुः ।
अहो विधातस्तव न क्वचिद्दया संयोज्य मैत्र्या प्रणयेन देहिनः ।
तांश्चाकृतार्थान्वियुनङ्क्ष्यपार्थकं विक्रीडितं तेऽर्भकचेष्टितं यथा ॥ १०.३९.१९॥
यस्त्वं प्रदर्श्यासितकुन्तलावृतं
मुकुन्दवक्त्रं सुकपोलमुन्नसम् ।
शोकापनोदस्मितलेशसुन्दरं
करोषि पारोक्ष्यमसाधु ते कृतम् ॥ १०.३९.२०॥
क्रूरस्त्वमक्रूरसमाख्यया स्म नश्
चक्षुर्हि दत्तं हरसे बताज्ञवत् ।
येनैकदेशेऽखिलसर्गसौष्ठवं
त्वदीयमद्राक्ष्म वयं मधुद्विषः ॥ १०.३९.२१॥
न नन्दसूनुः क्षणभङ्गसौहृदः
समीक्षते नः स्वकृतातुरा बत ।
विहाय गेहान्स्वजनान्सुतान्पतींस्
तद्दास्यमद्धोपगता नवप्रियः ॥ १०.३९.२२॥
सुखं प्रभाता रजनीयमाशिषः सत्या बभूवुः पुरयोषितां ध्रुवम् ।
याः सम्प्रविष्टस्य मुखं व्रजस्पतेः पास्यन्त्यपाङ्गोत्कलितस्मितासवम् ॥ १०.३९.२३॥
तासां मुकुन्दो मधुमञ्जुभाषितैर्गृहीतचित्तः परवान्मनस्व्यपि ।
कथं पुनर्नः प्रतियास्यतेऽबला ग्राम्याः सलज्जस्मितविभ्रमैर्भ्रमन् ॥ १०.३९.२४॥
अद्य ध्रुवं तत्र दृशो भविष्यते दाशार्हभोजान्धकवृष्णिसात्वताम् ।
महोत्सवः श्रीरमणं गुणास्पदं द्रक्ष्यन्ति ये चाध्वनि देवकीसुतम् ॥ १०.३९.२५॥
मैतद्विधस्याकरुणस्य नाम भूदक्रूर इत्येतदतीव दारुणः ।
योऽसावनाश्वास्य सुदुःखितम्जनं प्रियात्प्रियं नेष्यति पारमध्वनः ॥ १०.३९.२६॥
अनार्द्रधीरेष समास्थितो रथं तमन्वमी च त्वरयन्ति दुर्मदाः ।
गोपा अनोभिः स्थविरैरुपेक्षितं दैवं च नोऽद्य प्रतिकूलमीहते ॥ १०.३९.२७॥
निवारयामः समुपेत्य माधवं किं नोऽकरिष्यन्कुलवृद्धबान्धवाः ।
मुकुन्दसङ्गान्निमिषार्धदुस्त्यजाद्दैवेन विध्वंसितदीनचेतसाम् ॥ १०.३९.२८॥
यस्यानुरागललितस्मितवल्गुमन्त्र
लीलावलोकपरिरम्भणरासगोष्ठाम् ।
नीताः स्म नः क्षणमिव क्षणदा विना तं
गोप्यः कथं न्वतितरेम तमो दुरन्तम् ॥ १०.३९.२९॥
योऽह्नः क्षये व्रजमनन्तसखः परीतो
गोपैर्विशन्खुररजश्छुरितालकस्रक् ।
वेणुं क्वणन्स्मितकताक्षनिरीक्षणेन
चित्तं क्षिणोत्यमुमृते नु कथं भवेम ॥ १०.३९.३०॥
॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे
पूर्वार्धेऽक्रूरप्रतियाने एकोनचत्वारींशोऽध्यायान्तर्गतं
करुणागीतं समाप्तम् ॥ १०.३९॥
कामगीता
कामस्य शक्तिकथनेन दुर्जयत्वकथनपूर्वकं तज्जयोपायकथनम् ।
वासुदेव उवाच ।
न बाह्यं द्रव्यमुत्सृज्य सिद्धिर्भवति भारत ।
शारीरं द्रव्यमुत्सृज्य सिद्धिर्भवति वा न वा ॥ १॥
बाह्यद्रव्यविमुक्तस्य शारीरेषु च गृह्यतः ।
यो धर्मो यत्सुखं चैव द्विषतामस्तु तत्तव ॥ २॥
द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम् ।
ममेति द्व्यक्षरो मृत्युर्नममेति च शाश्वतम् ॥ ३॥
ब्रह्ममृत्यू ततो राजन्नात्मन्येव व्यवस्थितौ ।
अदृश्यमानौ भूतानि योधयेतामसंशयम् ॥ ४॥
अविनाशोऽस्य तत्त्वस्य नियतो यदि भारत ।
भित्त्वा शरीरं भूतानामहिंसां प्रतिपद्यते ॥ ५॥
लब्ध्वा हि पृथिवीं कृत्स्नां सहस्थावरजङ्गमाम् ।
ममत्वं यस्य नैव स्यात्किं तया स करिष्यति ॥ ६॥
अथवा वसतः पार्थ वने वन्येन जीवतः ।
ममता यस्य वित्तेषु मृत्योरांस्ये स वर्तते ॥ ७॥
ब्राह्यान्तराणां शत्रूणां स्वभावं पश्य भारत ।
यन्न पश्यति तद्भूतं मुच्यते स महाभयात् ॥ ८॥
कामात्मानं न प्रशंसन्ति लोके नेहाकामा काचिदस्ति प्रवृत्तिः ।
सर्वे कामा मनसोऽङ्ग प्रभूता यान्पण्डितः संहरते विचिन्त्य ॥ ९॥
भूयोभूयो जन्मनोऽभ्यासयोगाद्योगी योगं सारमार्गं विचिन्त्य ।
दानं च वेदाध्ययनं तपश्च काम्यानि कर्माणि च वैदिकानि ॥ १०॥
व्रतं यज्ञान्नियमान्ध्यानयोगान्कामेन यो नारभते विदित्वा ।
यद्यच्चायं कामयते स धर्मो नयो धर्मो नियमस्तस्य मूलम् ॥ ११॥ यद्यद्ध्ययं
अत्र गाथाः कामगीताः कीर्तयन्ति पुराविदः ।
शृणु सङ्कीर्त्यमानास्ता अखिलेन युधिष्ठिर ।
काम उवाच ।
नाहं शक्योऽनुपायेन हन्तुं भूतेन केनचित् ॥ १२॥
यो मां प्रयतते हन्तुं ज्ञात्वा प्रहरणे बलम् ।
तस्य तस्मिन्प्रहरणे पुनः प्रादुर्भवाम्यहम् ॥ १३॥
यो मां प्रयतते हन्तुं यज्ञैर्विविधदक्षिणैः ।
जङ्गमेष्विव धर्मात्मा पुनः प्रादुर्भवाम्यहम् ॥ १४॥
यो मां प्रयतते हन्तुं वेदैर्वेदान्तसाधनैः ।
स्थावरेष्विव भूतात्मा तस्य प्रादुर्भवाम्यहम् ॥ १५॥
यो मां प्रयतते हन्तुं धृत्या सत्यपराक्रमः ।
भावो भवामि तस्याहं स च मां नावबुध्यते ॥ १६॥
यो मां प्रयतते हन्तुं तपसा संशितव्रतः ।
ततस्पपसि तस्यथ पुनः प्रादुर्भवाम्यहम् ॥ १७॥
यो मां प्रयतते हन्तुं मोक्षमास्थाय पण्डितः ।
तस्य मोक्षरतिस्थस्य नृत्यामि च हसामि च ।
अवध्यः सर्वभूतानामहमेकः सनातनः ॥ १८॥
तस्मात्त्वमपि तं कामं यज्ञैर्विविधदक्षिणैः ।
धर्मे कुरु महाराज तत्र ते स भविष्यति ॥ १९॥
(यजस्व वाजिमेधेन विधिवद् दक्षिणावता ।
अन्यश्च विविधैर्यज्ञैः समृद्ध्यैराप्तदक्षिणैः ॥)
मा ते व्यथाऽस्तु निहतान्बन्धून्वीक्ष्य पुनःपुनः ।
न शक्यास्ते पुनर्द्रष्ट्रं येऽहतास्मिन्रणाजिरे ॥ २०॥
स त्वमिष्ट्वा महायज्ञैः समृद्धैराप्तदक्षिणैः ।
कीर्तिं लोके परां प्राप्य गतिमग्र्यां गमिष्यसि ॥ २१॥
इति श्रीमन्महाभारते अश्वमेधपर्वणि
कृष्णधर्मराजसंवादे त्रयोदशोऽध्याये कामगीता समाप्ता ॥ १३ ॥
Verses 14.13.1 to 14.13.21
॥ काश्यपगीता ॥
अत्राप्युदाहरन्तीमा गाथा नित्यं क्षमावताम् ।
गीताः क्षमावतां कृष्णे काश्यपेन महात्मना ॥ १॥
क्षमा धर्मः क्षमा यज्ञः क्षमा वेदाः क्षमा श्रुतम् ।
य एतदेव जानाति स सर्व क्षन्तुमर्हति ॥ २॥
क्षमा ब्रह्म क्षमा सत्यं क्षमा भूतं च भावि च ।
क्षमा तपः क्षमा शौचं क्षमयेदं धृतं जगत् ॥ ३॥
अतियज्ञविदांलोकान्क्षमिणः प्राप्नुवन्ति च ।
अतिब्रह्मविदांलोकानतिचापि तपस्विनाम् ॥ ४॥
अन्येवै यजुषां लोकाः कर्मिणामपरे तथा ।
क्षमावतां ब्रह्मलोके लोकाः परमपूजिताः ॥ ५॥
क्षमा तेजस्विनां तेजः क्षमा ब्रह्म तपस्विनाम् ।
क्षमा सत्यं सत्यवतां क्षमा यज्ञः क्षमा शमः ॥ ६॥
तां क्षमां तादृशीं कृष्णे कथमस्मद्विधस्त्यजेत् ।
यस्यां ब्रह्म च सत्यं च यज्ञालोकाश्चधिष्ठिताः ॥ ७॥
क्षन्तव्यमेव सततं पुरुषेण विजानता ।
यदा हि क्षमते सर्वं ब्रह्म सम्पद्यते तदा ॥ ८॥
क्षमावतामयं लोकः परश्चैव क्षमावताम् ।
इह सन्मानमृच्छति परत्र च शुभां गतिम् ॥ ९॥
येषां मन्युर्मनुष्याणां क्षमयाऽभिहतः सदा ।
तेषां परतरे लोकास्तस्मात्क्षान्तिः परा मता ॥ १०॥
इति गीताः काश्यपेन गाथा नित्यं क्षमावताम् ।
श्रुत्वा गाथाः क्षमायास्त्वं तुष्य द्रौपदि माक्रुधः ॥ ११॥
पितामहः शान्तनवः क्षमां सम्पूजयिष्यति ।
कृष्णश्च देवकीपुत्रः क्षमां सम्पूजयिष्यति ॥ १२॥
आचार्यो विदुरः क्षत्ता शममेव वदिष्यतः ।
कृपश्च संजयश्चैव शममेव वदिष्यतः ॥ १३॥
सोमदत्तो युयुत्सुश्च द्रोणपुत्रस्तथैव च ।
पितामहश्च नो व्यासः शमं वदति नित्यशः ॥ १४॥
सुयोधनो नार्हतीति क्षमामेवं न विन्दति ।
अर्हस्तत्राहमित्येवं तस्मान्मां विन्दते क्षमा ॥ १५॥
एतदात्मवतां वृत्तमेष धर्मः सनातनः ।
क्षमाचैवानृशंस्यं च तत्कर्तास्म्यहमंजसा ॥ १६॥
परैस्ताडितस्यापितत्ताडनसमर्थस्य
चिते क्षोभानुत्पत्तिः क्षमा ॥ १७॥
॥ इति काश्यपगीता समाप्ता ॥
॥ श्रीगणेश गीता ॥
क्रमांक अध्याय नाम श्लोकसंख्या ४१४
१ सांख्यसारार्थयोग ६९
२ कर्मयोग ४३
३ विज्ञानप्रतिपादन ५०
४ वैधसंन्यासयोग ३७
५ योगावृत्तिप्रशंसन २७
६ बुद्धियोग
२१
७ उपासनायोग २५
८ विश्वरूपदर्शन २६
९ क्षेत्रज्ञातृज्ञेयविवेकयोग ४१
१० उपदेशयोग २३
११ त्रिविधवस्तुविवेकनिरूपण ५२
॥ ॐ नमः श्रीगणेशाय ॥
॥ अथ श्रीमद्गणेशगीता प्रारभ्यते ॥
१
॥ प्रथमोऽध्यायः ॥
॥ साङ्ख्यसारार्थ योगः ॥
क उवाच -
एवमेव पुरा पृष्टः शौनकेन महात्मना ।
स सूतः कथयामास गीतां व्यासमुखाच्छ्रुताम् ॥१ ॥
सूत उवाच -
अष्टादशपुराणोक्तममृतं प्राशितं त्वया ।
ततोऽतिरसवत्पातुमिच्छाम्यमृतमुत्तमम् ॥२ ॥
येनामृतमयो भूत्वा पुमान्ब्रह्मामृतं यतः ।
योगामृतं महाभाग तन्मे करुणया वद ॥३ ॥
व्यास उवाच -
अथ गीतां प्रवक्ष्यामि योगमार्गप्रकाशिनीम् ।
नियुक्ता पृच्छते सूत राज्ञे गजमुखेन या ॥४ ॥
वरेण्य उवाच -
विघ्नेश्वर महाबाहो सर्वविद्याविशारद ।
सर्वशास्त्रार्थतत्त्वज्ञ योगं मे वक्तुमर्हसि ॥५ ॥
श्रीगजानन उवाच -
सम्यग्व्यवसिता राजन्मतिस्तेऽनुग्रहान्मम ।
शृणु गीतां प्रवक्ष्यामि योगामृतमयीं नृप ॥६ ॥
न योगं योगमित्याहुर्योगो योगो न च श्रियः ।
न योगो विषयैर्योगो न च मात्रादिभिस्तदा ॥७ ॥
योगो यः पितृमात्रादेर्न स योगो नराधिप ।
यो योगो बन्धुपुत्रादेर्यश्चाष्टभूतिभिः सह ॥८ ॥
न स योगस्त्रिया योगो जगदद्भुतरूपया ।
राज्ययोगश्च नो योगो न योगो गजवाजिभिः ॥९ ॥
योगो नेन्द्रपदस्यापि योगो योगार्थिनः प्रियः ।
योगो यः सत्यलोकस्य न स योगो मतो मम ॥१० ॥
शैवस्य योगो नो योगो वैष्णवस्य पदस्य यः ।
न योगो भूप सूर्यत्वं चन्द्रत्वं न कुबेरता ॥११ ॥
नानिलत्वं नानलत्वं नामरत्वं न कालता ।
न वारुण्यं न नैरृत्यं योगो न सार्वभौमता ॥१२ ॥
योगं नानाविधं भूप युञ्जन्ति ज्ञानिनस्ततम् ।
भवन्ति वितृषा लोके जिताहारा विरेतसः ॥१३ ॥
पावयन्त्यखिलान्लोकान्वशीकृतजगत्त्रयाः ।
करुणापूर्णहृदया बोधयन्त्यपि कांश्चन ॥१४ ॥
जीवन्मुक्ता हृदे मग्नाः परमानन्दरूपिणि ।
निमील्याक्षीणि पश्यन्तः परं ब्रह्म हृदि स्थितम् ॥१५ ॥
ध्यायन्तः परमं ब्रह्म चित्ते योगवशीकृतम् ।
भूतानि स्वात्मना तुल्यं सर्वाणि गणयन्ति ते ॥१६ ॥
येन केनचिदाच्छिन्ना येन केनचिदाहताः ।
येन केनचिदाकृष्टा येन केनचिदाश्रिताः ॥१७ ॥
करुणापूर्णहृदया भ्रमन्ति धरणीतले ।
अनुग्रहाय लोकानां जितक्रोधा जितेन्द्रियाः ॥१८ ॥
देहमात्रभृतो भूप समलोष्टाश्मकाञ्चनाः ।
एतादृशा महाभाग्याः स्युश्चक्षुर्गोचराः प्रिय ॥१९ ॥
तमिदानीमहं वक्ष्ये शृणु योगमनुत्तमम् ।
श्रुत्वा यं मुच्यते जन्तुः पापेभ्यो भवसागरात् ॥२० ॥
शिवे विष्णौ च शक्तौ च सूर्ये मयि नराधिप ।
याऽभेदबुद्धिर्योगः स सम्यग्योगो मतो मम ॥२१ ॥
अहमेव जगद्यस्मात्सृजामि पालयामि च ।
कृत्वा नानाविधं वेषं संहरामि स्वलीलया ॥२२ ॥
अहमेव महाविष्णुरहमेव सदाशिवः ।
अहमेव महाशक्तिरहमेवार्यमा प्रिय ॥२३ ॥
अहमेको नृणां नाथो जातः पञ्चविधः पुरा ।
अज्ञानान्मा न जानन्ति जगत्कारणकारणम् ॥२४ ॥
मत्तोऽग्निरापो धरणी मत्त आकाशमारुतौ ।
ब्रह्मा विष्णुश्च रुद्रश्च लोकपाला दिशो दश ॥२५ ॥
वसवो मनवो गावो मनवः पशवोऽपि च ।
सरितः सागरा यक्षा वृक्षाः पक्षिगणा अपि ॥२६ ॥
तथैकविंशतिः स्वर्गा नागाः सप्त वनानि च ।
मनुष्याः पर्वताः साध्याः सिद्धा रक्षोगणास्तथा ॥२७ ॥
अहं साक्षी जगच्चक्षुरलिप्तः सर्वकर्मभिः ।
अविकारोऽप्रमेयोऽहमव्यक्तो विश्वगोऽव्ययः ॥२८ ॥
अहमेव परं ब्रह्माव्ययानन्दात्मकं नृप ।
मोहयत्यखिलान्माया श्रेष्ठान्मम नरानमून् ॥२९ ॥
सर्वदा षड्विकारेषु तानियं योजयेत् भृशम् ।
हित्वाजापटलं जन्तुरनेकैर्जन्मभिः शनैः ॥३० ॥
विरज्य विन्दति ब्रह्म विषयेषु सुबोधतः ।
अच्छेद्यं शस्त्रसङ्घातैरदाह्यमनलेन च ॥३१ ॥
अक्लेद्यं भूप भुवनैरशोष्यं मारुतेन च ।
अवध्यं वध्यमानेऽपि शरीरेऽस्मिन्नराधिप ॥३२ ॥
यामिमां पुष्पितां वाचं प्रशंसन्ति श्रुतीरिताम् ।
त्रयीवादरता मूढास्ततोऽन्यन्मन्वतेऽपि न ॥३३ ॥
कुर्वन्ति सततं कर्म जन्ममृत्युफलप्रदम् ।
स्वर्गैश्वर्यरता ध्वस्तचेतना भोगबुद्धयः ॥३४ ॥
सम्पादयन्ति ते भूप स्वात्मना निजबन्धनम् ।
संसारचक्रं युञ्जन्ति जडाः कर्मपरा नराः ॥३५ ॥
यस्य यद्विहितं कर्म तत्कर्तव्यं मदर्पणम् ।
ततोऽस्य कर्मबीजानामुच्छिन्नाः स्युर्महाङ्कुराः ॥३६ ॥
चित्तशुद्धिश्च महती विज्ञानसाधिका भवेत् ।
विज्ञानेन हि विज्ञातं परं ब्रह्म मुनीश्वरैः ॥३७ ॥
तस्मात्कर्माणि कुर्वीत बुद्धियुक्तो नराधिप ।
न त्वकर्मा भवेत्कोऽपि स्वधर्मत्यागवांस्तथा ॥३८ ॥
जहाति यदि कर्माणि ततः सिद्धिं न विन्दति ।
आदौ ज्ञाने नाधिकारः कर्मण्येव स युज्यते ॥३९ ॥
कर्मणा शुद्धहृदयोऽभेदबुद्धिमुपैष्यति ।
स च योगः समाख्यातोऽमृतत्वाय कल्पते ॥४० ॥
योगमन्यं प्रवक्ष्यामि शृणु भूप तमुत्तमम् ।
पशौ पुत्रे तथा मित्रे शत्रौ बन्धौ सुहृज्जने ॥४१ ॥
बहिर्दृष्ट्या च समया हृत्स्थयालोकयेत्पुमान् ।
सुखे दुःखे तथाऽमर्षे हर्षे भीतौ समो भवेत् ॥४२ ॥
रोगाप्तौ चैव भोगाप्तौ जये वा विजयेऽपि च ।
श्रियोऽयोगे च योगे च लाभालाभे मृतावपि ॥४३ ॥
समो मां वस्तुजातेषु पश्यन्नन्तर्बहिःस्थितम् ।
सूर्ये सोमे जले वह्नौ शिवे शक्तौ तथानिले ॥४४ ॥
द्विजे हृदि महानद्यां तीर्थे क्षेत्रेऽघनाशिनि ।
विष्णौ च सर्वदेवेषु तथा यक्षोरगेषु च ॥४५ ॥
गन्धर्वेषु मनुष्येषु तथा तिर्यग्भवेषु च ।
सततं मां हि यः पश्येत्सोऽयं योगविदुच्यते ॥४६ ॥
सम्पराहृत्य स्वार्थेभ्य इन्द्रियाणि विवेकतः ।
सर्वत्र समताबुद्धिः स योगो भूप मे मतः ॥४७ ॥
आत्मानात्मविवेकेन या बुद्धिर्दैवयोगतः ।
स्वधर्मासक्तचित्तस्य तद्योगो योग उच्यते ॥४८ ॥
धर्माधरमौ जहातीह तया युक्त उभावपि ।
अतो योगाय युञ्जीत योगो वैधेषु कौशलम् ॥४९ ॥
धर्माधर्मफले त्यक्त्वा मनीषी विजितेन्द्रियः ।
जन्मबन्धविनिर्मुक्तः स्थानं संयात्यनामयम् ॥५० ॥
यदा ह्यज्ञानकालुष्यं जन्तोर्बुद्धिः क्रमिष्यति ।
तदासौ याति वैराग्यं वेदवाक्यादिषु क्रमात् ॥५१ ॥
त्रयीविप्रतिपन्नस्य स्थाणुत्वं यास्यते यदा ।
परात्मन्यचला बुद्धिस्तदासौ योगमाप्नुयात् ॥५२ ॥
मानसानखिलान्कामान्यदा धीमांस्त्यजेत्प्रिय ।
स्वात्मनि स्वेन सन्तुष्टः स्थिरबुद्धिस्तदोच्यते ॥५३ ॥
वितृष्णः सर्वसौख्येषु नोद्विग्नो दुःखसङ्गमे ।
गतसाध्वसरुड्रागः स्थिरबुद्धिस्तदोच्यते ॥५४ ॥
यथाऽयं कमठोऽङ्गानि संकोचयति सर्वतः ।
विषयेभ्यस्तथा खानि संकर्पेद्योगतत्परः ॥५५ ॥
व्यावर्तन्तेऽस्य विषयास्त्यक्ताहारस्य वर्ष्मिणः ।
विना रागं च रागोऽपि दृष्ट्वा ब्रह्म विनश्यति ॥५६ ॥
विपश्चिद्यतते भूप स्थितिमास्थाय योगिनः ।
मन्थयित्वेन्द्रियाण्यस्य हरन्ति बलतो मनः ॥५७ ॥
युक्तस्तानि वशे कृत्वा सर्वदा मत्परो भवेत् ।
संयतानीन्द्रियाणीह यस्यासौ कृतधीर्मतः ॥५८ ॥
चिन्तयानस्य विषयान्संगस्तेषूपजायते ।
कामः संजायते तस्मात्ततः क्रोधोऽभिवर्तते ॥५९ ॥
क्रोधादज्ञानसंभूतिर्विभ्रमस्तु ततः स्मृतेः ।
भ्रंशात्स्मृतेर्मतेर्ध्वंसस्तद्ध्वंसात्सोऽपि नश्यति ॥६० ॥
विना द्वेषं च रागं च गोचरान्यस्तु खैश्चरेत् ।
स्वाधीनहृदयो वश्यैः संतोषं स समृच्छति ॥६१ ॥
त्रिविधस्यापि दुःखस्य संतोषे विलयो भवेत् ।
प्रज्ञया संस्थितश्चायं प्रसन्नहृदयो भवेत् ॥६२ ॥
विना प्रसादं न मतिर्विना मत्या न भावना ।
विना तां न शमो भूप विना तेन कुतः सुखम् ॥६३ ॥
इन्द्रियाश्वान्विचरतो विषयाननु वर्तते ।
यन्मनस्तन्मतिं हन्यादप्सु नावं मरुद्यथा ॥६४ ॥
या रात्रिः सर्वभूतानां तस्यां निद्राति नैव सः ।
न स्वपन्तीह ते यत्र सा रात्रिस्तस्य भूमिप ॥६५ ॥
सरितां पतिमायान्ति वनानि सर्वतो यथा ।
आयान्ति यं तथा कामा न स शान्तिं क्वचिल्लभेत् ॥६६ ॥
अतस्तानीह संरुध्य सर्वतः खानि मानवः ।
स्वस्वार्थेभ्यः प्रधावन्ति बुद्धिरस्य स्थिरा तदा ॥६७ ॥
ममताहंकृती त्यक्त्वा सर्वान्कामांश्च यस्त्यजेत् ।
नित्यं ज्ञानरतो भूत्वा ज्ञानान्मुक्तिं स यास्यति ॥६८ ॥
एवं ब्रह्मधियं भूप यो विजानाति दैवतः ।
तुर्यामवस्थां प्राप्यापि जीवन्मुक्तिं प्रयास्यति ॥६९ ॥
इति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु
योगामृतार्थशास्त्रे
श्रीगणेशपुराणे उत्तरखण्डे गजाननवरेण्यसंवादे
सांख्यसारार्थयोगो नाम प्रथमोऽध्यायः ॥
२
॥ द्वितीयोऽध्यायः ॥
॥ कर्मयोगः ॥
वरेण्य उवाच -
ज्ञाननिष्ठा कर्मनिष्ठा द्वयं प्रोक्तं त्वया विभो ।
अवधार्य वदैकं मे निःश्रेयसकरं नु किम् ॥१ ॥
गजानन उवाच -
अस्मिंश्चराचरे स्थित्यौ पुरोक्ते द्वे मया प्रिय ।
सांख्यानां बुद्धियोगेन वैधयोगेन कर्मिणाम् ॥२ ॥
अनारम्भेण वैधानां निष्क्रियः पुरुषो भवेत् ।
न सिद्धिं याति संत्यागात्केवलात्कर्मणो नृप ॥३ ॥
कदाचिदक्रियः कोऽपि क्षणं नैवावतिष्ठते ।
अस्वतन्त्रः प्रकृतिजैर्गुणैः कर्म च कार्यते ॥४ ॥
कर्मकारीन्द्रियग्रामं नियम्यास्ते स्मरन्पुमान् ।
तद्गोचरान्मन्दचित्तो धिगाचारः स भाष्यते ॥५ ॥
तद्ग्रामं संनियम्यादौ मनसा कर्म चारभेत् ।
इन्द्रियैः कर्मयोगं यो वितृष्णः स परो नृप ॥६ ॥
अकर्मणः श्रेष्ठतमं कर्मानीहाकृतं तु यत् ।
वर्ष्मणः स्थितिरप्यस्याकर्मणो नैव सेत्स्यति ॥७ ॥
असमर्प्य निबध्यन्ते कर्म तेन जना मयि ।
कुर्वीत सततं कर्मानाशोऽसङ्गो मदर्पणम् ॥८ ॥
मदर्थे यानि कर्माणि तानि बध्नन्ति न क्वचित् ।
सवासनमिदं कर्म बध्नाति देहिनं बलात् ॥९ ॥
वर्णान्सृष्ट्वावदं चाहं सयज्ञांस्तान्पुरा प्रिय ।
यज्ञेन ऋध्यतामेष कामदः कल्पवृक्षवत् ॥१० ॥
सुरांश्चान्नेन प्रीणध्वं सुरास्ते प्रीणयन्तु वः ।
लभध्वं परमं स्थानमन्योन्यप्रीणनात्स्थिरम् ॥११ ॥
इष्टा देवाः प्रदास्यन्ति भोगानिष्टान्सुतर्पिताः ।
तैर्दत्तांस्तान्नरस्तेभ्योऽदत्वा भुङ्क्ते स तस्करः ॥१२ ॥
हुतावशिष्टभोक्तारो मुक्ताः स्युः सर्वपातकैः ।
अदन्त्येनो महापापा आत्महेतोः पचन्ति ये ॥१३ ॥
ऊर्जो भवन्ति भूतानि देवादन्नस्य संभवः ।
यज्ञाच्च देवसंभूतिस्तदुत्पत्तिश्च वैधतः ॥१४ ॥
ब्रह्मणो वैधमुत्पन्नं मत्तो ब्रह्मसमुद्भवः ।
अतो यज्ञे च विश्वस्मिन् स्थितं मां विद्धि भूमिप ॥१५ ॥
संसृतीनां महाचक्रं क्रामितव्यं विचक्षणैः ।
स मुदा प्रीणते भूपेन्द्रियक्रीडोऽधमो जनः ॥१६ ॥
अन्तरात्मनि यः प्रीत आत्मारामोऽखिलप्रियः ।
आत्मतृप्तो नरो यः स्यात्तस्यार्थो नैव विद्यते ॥१७
कार्याकार्यकृतीनां स नैवाप्नोति शुभाशुभे ।
किंचिदस्य न साध्यं स्यात्सर्वजन्तुषु सर्वदा ॥१८ ॥
अतोऽसक्ततया भूप कर्तव्यं कर्म जन्तुभिः ।
सक्तोऽगतिमवाप्नोति मामवाप्नोति तादृशः ॥१९ ॥
परमां सिद्धिमापन्नाः पुरा राजर्षयो द्विजाः ।
संग्रहाय हि लोकानां तादृशं कर्म चारभेत् ॥२० ॥
श्रेयान्यत्कुरुते कर्म तत्करोत्यखिलो जनः ।
मनुते यत्प्रमाणं स तदेवानुसरत्यसौ ॥२१ ॥
विष्टपे मे न साध्योऽस्ति कश्चिदर्थो नराधिप ।
अनालब्धश्च लब्धव्यः कुर्वे कर्म तथाप्यहम् ॥२२ ॥
न कुर्वेऽहं यदा कर्म स्वतन्त्रोऽलसभावितः ।
करिष्यन्ति मम ध्यानं सर्वे वर्णा महामते ॥२३ ॥
भविष्यन्ति ततो लोका उच्छिन्नाः सम्प्रदायिनः ।
हंता स्यामस्य लोकस्य विधाता संकरस्य च ॥२४ ॥
कामिनो हि सदा कामैरज्ञानात्कर्मकारिणः ।
लोकानां संग्रहायैतद्विद्वान् कुर्यादसक्तधीः ॥२५ ॥
विभिन्नत्वमतिं जह्यादज्ञानां कर्मचारिणाम्
।भागाद्गुणकर्म
योगयुक्तः सर्वकर्माण्यर्पयेन्मयि कर्मकृत् ॥२६ ॥
अविद्यागुणसाचिव्यात्कुर्वन्कर्माण्यतन्द्रितः ।
अहंकाराद्भिन्नबुद्धिरहंकर्तेति योऽब्रवीत् ॥२७ ॥
यस्तु वेत्त्यात्मनस्तत्त्वं विभागाद्गुणकर्मणोः ।
करणं विषये वृत्तमिति मत्वा न सज्जते ॥२८ ॥
कुर्वन्ति सफलं कर्म गुणैस्त्रिभिर्विमोहिताः ।
अविश्वस्तः स्वात्मद्रुहो विश्वविन्नैव लंघयेत् ॥२९ ॥
नित्यं नैमित्तिकं तस्मान्मयि कर्मार्पयेद्बुधः ।
त्यक्त्वाहंममताबुद्धिं परां गतिमवाप्नुयात् ॥३० ॥
अनीर्ष्यन्तो भक्तिमन्तो ये मयोक्तमिदं शुभम् ।
अनुतिष्ठन्ति ये सर्वे मुक्तास्तेऽखिलकर्मभिः ॥३१ ॥
ये चैव नानुतिष्ठन्ति त्वशुभा हतचेतसः ।
ईर्ष्यमाणान्महामूढान्नष्टांस्तान्विद्धि मे रिपून् ॥३२ ॥
तुल्यं प्रकृत्या कुरुते कर्म यज्ज्ञानवानपि ।
अनुयाति च तामेवाग्रहस्तत्र मुधा मतः ॥३३ ॥
कामश्चैव तथा क्रोधः खानामर्थेषु जायते ।
नैतयोर्वश्यतां यायादम्यविध्वंसकौ यतः ॥३४ ॥
शस्तोऽगुणो निजो धर्मः सांगादन्यस्य धर्मतः ।
निजे तस्मिन्मृतिः श्रेयोऽपरत्र भयदः परः ॥३५ ॥
वरेण्य उवाच -
पुमान्यत्कुरुते पापं स हि केन नियुज्यते ।
अकाङ्क्षन्नपि हेरम्ब प्रेरितः प्रबलादिव ॥३६ ॥
श्रीगजानन उवाच -
कामक्रोधौ महापापौ गुणद्वयसमुद्भवौ ।
नयन्तौ वश्यतां लोकान् विद्ध्येतौ द्वेषिणौ वरौ ॥३७ ॥
आवृणोति यथा माया जगद्बाष्पो जलं यथा ।
वर्षामेघो यथा भानुं तद्वत्कामोऽखिलांश्च रुट् ॥३८ ॥
प्रतिपत्तिमतो ज्ञानं छादितं सततं द्विषा ।
इच्छात्मकेन तरसा दुष्पोष्येण च शुष्मिणा ॥३९ ॥
आश्रित्य बुद्धिमनसी इन्द्रियाणि स तिष्ठति ।
तैरेवाच्छादितप्रज्ञो ज्ञानिनं मोहयत्यसौ ॥४० ॥
तस्मान्नियम्य तान्यादौ समनांसि नरो जयेत् ।
ज्ञानविज्ञानयोः शान्तिकरं पापं मनोभवम् ॥४१ ॥
यतस्तानि पराण्याहुस्तेभ्यश्च परमं मनः ।
ततोऽपि हि परा बुद्धिरात्मा बुद्धेः परो मतः ॥४२ ॥
बुद्ध्वैवमात्मनात्मानं संस्तभ्यात्मानमात्मना ।
हत्वा शत्रुं कामरूपं परं पदमवाप्नुयात् ॥४३ ॥
इति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु
योगामृतार्थशास्त्रे
श्रीगणेशपुराणे उत्तरखण्डे गजाननवरेण्यसंवादे
कर्मयोगो नाम द्वितीयोऽध्यायः ॥
३
॥ तृतीयोऽध्यायः ॥
॥ विज्ञानप्रतिपादन ॥
श्रीगजानन उवाच -
पुरा सर्गादिसमये त्रैगुण्यं त्रितनूरुहम् ।
निर्माय चैनमवदं विष्णवे योगमुत्तमम् ॥१ ॥
अर्यम्णे सोऽब्रवीत्सोऽपि मनवे निजसूनवे ।
ततः परम्परायातं विदुरेनं महर्षयः ॥२ ॥
कालेन बहुना चायं नष्टः स्याच्चरमे युगे ।
अश्रद्धेयो ह्यविश्वास्यो विगीतव्यश्च भूमिप ॥३ ॥
एवं पुरातनं योगं श्रुतवानसि मन्मुखात् ।
गुह्याद्गुह्यतरं वेदरहस्यं परमं शुभम् ॥४ ॥
वरेण्य उवाच -
सांप्रतं चावतीर्णोऽसि गर्भतस्त्वं गजानन ।
प्रोक्तवान्कथमेतं त्वं विष्णवे योगमुत्तमम् ॥५ ॥
गणेश उवाच -
अनेकानि च ते जन्मान्यतीतानि ममापि च ।
संस्मरे तानि सर्वाणि न स्मृतिस्तव वर्तते ॥६ ॥
मत्त एव महाबाहो जाता विष्ण्वादयः सुराः ।
मय्येव च लयं यान्ति प्रलयेषु युगे युगे ॥७ ॥
अहमेव परो ब्रह्म महारुद्रोऽहमेव च ।
अहमेव जगत्सर्वं स्थावरं जङ्गमं च यत् ॥८ ॥
अजोऽव्ययोऽहं भूतात्माऽनादिरीश्वर एव च ।
आस्थाय त्रिगुणां मायां भवामि बहुयोनिषु ॥९ ॥
अधर्मोपचयो धर्मापचयो हि यदा भवेत् ।
साधून्संरक्षितुं दुष्टांस्ताडितुं संभवाम्यहम् ॥१० ॥
उच्छिद्याधर्मनिचयं धर्मं संस्थापयामि च ।
हन्मि दुष्टांश्च दैत्यांश्च नानालीलाकरो मुदा ॥११ ॥
वर्णाश्रमान्मुनीन्साधून्पालये बहुरूपधृक् ।
एवं यो वेत्ति संभूतिर्मम दिव्या युगे युगे ॥१२ ॥
तत्तत्कर्म च वीर्यं च मम रूपं समासतः ।
त्यक्ताहंममताबुद्धिं न पुनर्भूः स जायते ॥१३ ॥
निरीहा निर्भियोरोषा मत्परा मद्व्यपाश्रयाः ।
विज्ञानतपसा शुद्धा अनेके मामुपागताः ॥१४ ॥
येन येन हि भावेन संसेवन्ते नरोत्तमाः ।
तथा तथा फलं तेभ्यः प्रयच्छाम्यव्ययः स्फुटम् ॥१५ ॥
जनाः स्युरितरे राजन्मम मार्गानुयायिनः ।
तथैव व्यवहारं ते स्वेषु चान्येषु कुर्वते ॥१६ ॥
कुर्वन्ति देवताप्रीतिं काङ्क्षन्तः कर्मणां फलम् ।
प्राप्नुबंतीह ते लोके शीघ्रं सिद्धिं हि कर्मजाम् ॥१७ ॥
चत्वारो हि मया वर्णा रजःसत्त्वतमोंऽशतः ।
कर्मांशतश्च संसृष्टा मृत्युलोके मयानघ ॥१८ ॥
कर्तारमपि तेषां मामकर्तारं विदुर्बुधाः ।
अनादिमीश्वरं नित्यमलिप्तं कर्मजैर्गुणैः ॥१९ ॥
निरीहं योऽभिजानाति कर्म बध्नाति नैव तम् ।
चक्रुः कर्माणि बुद्ध्यैवं पूर्वं पूर्वं मुमुक्षवः ॥२० ॥
वासनासहितादाद्यात्संसारकारणाद्दृढात् ।
अज्ञानबन्धनाज्जन्तुर्बुद्ध्वायं मुच्यतेऽखिलात् ॥२१ ॥
तदकर्म च कर्मापि कथयाम्यधुना तव ।
यत्र मौनं गता मोहादृषयो बुद्धिशालिनः ॥२२ ॥
तत्त्वं मुमुक्षुणा ज्ञेयं कर्माकर्मविकर्मणाम् ।
त्रिविधानीह कर्माणि सुनिम्नैषां गतिः प्रिय ॥२३ ॥
क्रियायामक्रियाज्ञानमक्रियायां क्रियामतिः ।
यस्य स्यात्स हि मर्त्येऽस्मिँल्लोके मुक्तोऽखिलार्थकृत् ॥२४ ॥
कर्मांकुरवियोगेन यः कर्माण्यारभेन्नरः ।
तत्त्वदर्शननिर्दग्धक्रियमाहुर्बुधा बुधम् ॥२५ ॥
फलतृष्णां विहाय स्यात्सदा तृप्तो विसाधनः ।
उद्युक्तोऽपि क्रियां कर्तुं किंचिन्नैव करोति सः ॥२६ ॥
निरीहो निगृहीतात्मा परित्यक्तपरिग्रहः ।
केवलं वै गृहं कर्माचरन्नायाति पातकम् ॥२७ ॥
अद्वन्द्वोऽमत्सरो भूत्वा सिद्ध्यसिद्ध्योः समश्च यः ।
यथाप्राप्त्येह संतुष्टः कुर्वन्कर्म न बध्यते ॥२८ ॥
अखिलैर्विषयैर्मुक्तो ज्ञानविज्ञानवानपि ।
यज्ञार्थं तस्य सकलं कृतं कर्म विलीयते ॥२९ ॥
अहमग्निर्हविर्होता हुतं यन्मयि चार्पितम् ।
ब्रह्माप्तव्यं च तेनाथ ब्रह्मण्येव यतो रतः ॥३० ॥
योगिनः केचिदपरे दिष्टं यज्ञं वदन्ति च ।
ब्रह्माग्निरेव यज्ञो वै इति केचन मेनिरे ॥३१ ॥
संयमाग्नौ परे भूप इन्द्रियाण्युपजुह्वति ।
खाग्निष्वन्ये तद्विषयांश्छब्दादीनुपजुह्वति ॥३२ ॥
प्राणानामिन्द्रियाणां च परे कर्माणि कृत्स्नशः ।
निजात्मरतिरूपेऽग्नौ ज्ञानदीप्ते प्रजुह्वति ॥३३ ॥
द्रव्येण तपसा वापि स्वाध्यायेनापि केचन ।
तीव्रव्रतेन यतिनो ज्ञानेनापि यजन्ति माम् ॥३४ ॥
प्राणेऽपानं तथा प्राणमपाने प्रक्षिपन्ति ये ।
रुद्ध्वा गतीश्चोभयस्ते प्राणायामपरायणाः ॥३५ ॥
जित्वा प्राणान्प्राणगतीरुपजुह्वति तेषु च ।
एवं नानायज्ञरता यज्ञध्वंसितपातकाः ॥३६ ॥
नित्यं ब्रह्म प्रयान्त्येते यज्ञशिष्टामृताशिनः ।
अयज्ञकारिणो लोको नायमन्यः कुतो भवेत् ॥३७ ॥
कायिकादित्रिधाभूतान्यज्ञान्वेदे प्रतिष्ठितान् ।
ज्ञात्वा तानखिलान्भूप मोक्ष्यसेऽखिलबन्धनात् ॥३८ ॥
सर्वेषां भूप यज्ञानां ज्ञानयज्ञः परो मतः ।
अखिलं लीयते कर्म ज्ञाने मोक्षस्य साधने ॥३९ ॥
तज्ज्ञेयं पुरुषव्याघ्र प्रश्नेन नतितः सताम् ।
शुश्रूषया वदिष्यन्ति संतस्तत्त्वविशारदाः ॥४० ॥
नानासंगाञ्जनः कुर्वन्नैकं साधुसमागमम् ।
करोति तेन संसारे बन्धनं समुपैति सः ॥४१ ॥
सत्संगाद्गुणसंभूतिरापदां लय एव च ।
स्वहितं प्राप्यते सर्वैरिह लोके परत्र च ॥४२ ॥
इतरत्सुलभं राजन्सत्संगोऽतीव दुर्लभः ।
यज्ज्ञात्वा पुनर्वेधमेति ज्ञेयं ततस्ततः ॥४३ ॥
ततः सर्वाणि भूतानि स्वात्मन्येवाभिपश्यति ।
अतिपापरतो जंतुस्ततस्तस्मात्प्रमुच्यते ॥४४ ॥
द्विविधान्यपि कर्माणि ज्ञानाग्निर्दहति क्षणात् ।
प्रसिद्धोऽग्निर्यथा सर्वं भस्मतां नयति क्षणात् ॥४५ ॥
न ज्ञानसमतामेति पवित्रमितरन्नृप ।
आत्मन्येवावगच्छन्ति योगात्कालेन योगिनः ॥४६ ॥
भक्तिमानिन्द्रियजयी तत्परो ज्ञानमाप्नुयात् ।
लब्ध्वा तत्परमं मोक्षं स्वल्पकालेन यात्यसौ ॥४७ ॥
भक्तिहीनोऽश्रद्दधानः सर्वत्र संशयी तु यः ।
तस्य शं नापि विज्ञानमिह लोकोऽथ वा परः ॥४८ ॥
आत्मज्ञानरतं ज्ञाननाशिताखिलसंशयम् ।
योगास्ताखिलकर्माणं बध्नन्ति भूप तानि न ॥४९ ॥
ज्ञानखड्गप्रहारेण संभूतामज्ञतां बलात् ।
छित्वान्तःसंशयं तस्माद्योगयुक्तो भवेन्नरः ॥५० ॥
इति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु
योगामृतार्थशास्त्रे
श्रीगणेशपुराणे उत्तरखण्डे गजाननवरेण्यसंवादे
विज्ञानप्रतिपादनो नाम तृतीयोऽध्यायः ॥
४
॥ चतुर्थोऽध्यायः ॥
॥ वैधसंन्यासयोगः ॥
वरेण्य उवाच -
संन्यस्तिश्चैव योगश्च कर्मणां वर्ण्यते त्वया ।
उभयोर्निश्चितं त्वेकं श्रेयो यद्वद मे प्रभो ॥१ ॥
श्रीगजानन उवाच -
क्रियायोगो वियोगश्चाप्युभौ मोक्षस्य साधने ।
तयोर्मध्ये क्रियायोगस्त्यागात्तस्य विशिष्यते ॥२ ॥
द्वन्द्वदुःखसहोऽद्वेष्टा यो न काङ्क्षति किंचन ।
मुच्यते बन्धनात्सद्यो नित्यं संन्यासवान्सुखम् ॥३ ॥
वदन्ति भिन्नफलकौ कर्मणस्त्यागसंग्रहौ ।
मूढाल्पज्ञास्तयोरेकं संयुञ्जीत विचक्षणः ॥४ ॥
यदेव प्राप्यते त्यागात्तदेव योगतः फलम् ।
संग्रहं कर्मणो योगं यो विन्दति स विन्दति ॥५ ॥
केवलं कर्मणां न्यासं संन्यासं न विदुर्बुधाः ।
कुर्वन्ननिच्छया कर्म योगी ब्रह्मैव जायते ॥६ ॥
निर्मलो यतचित्तात्मा जितखो योगतत्परः ।
आत्मानं सर्वभूतस्थं पश्यन्कुर्वन्न लिप्यते ॥७ ॥
तत्त्वविद्योगयुक्तात्मा करोमीति न मन्यते ।
एकादशानीन्द्रियाणि कुर्वन्ति कर्मसंख्यया ॥८ ॥
तत्सर्वमर्पयेद्ब्रह्मण्यपि कर्म करोति यः ।
न लिप्यते पुण्यपापैर्भानुर्जलगतो यथा ॥९ ॥
कायिकं वाचिकं बौद्धमैन्द्रियं मानसं तथा ।
त्यक्त्वाशां कर्म कुर्वन्ति योगज्ञाश्चित्तशुद्धये ॥१० ॥
योगहीनो नरः कर्म फलेहया करोत्यलम् ।
बध्यते कर्मबीजैः स ततो दुःखं समश्नुते ॥११ ॥
मनसा सकलं कर्म त्यक्त्वा योगी सुखं वसेत् ।
न कुर्वन्कारयन्वापि नन्दन्श्वभ्रे सुपत्तने ॥१२ ॥
न क्रिया न च कर्तृत्वं कस्य चित्सृज्यते मया ।
न क्रियाबीजसम्पर्कः शक्त्या तत्क्रियतेऽखिलम् ॥१३ ॥
कस्यचित्पुण्यपापानि न स्पृशामि विभुर्नृप ।
ज्ञानमूढा विमुह्यन्ते मोहेनावृतबुद्धयः ॥१४ ॥
विवेकेनात्मनोऽज्ञानं येषां नाशितमात्मना ।
तेषां विकाशमायाति ज्ञानमादित्यवत्परम् ॥१५ ॥
मन्निष्ठा मद्धियोऽत्यन्तं मच्चित्ता मयि तत्पराः ।
अपुनर्भवमायान्ति विज्ञानान्नाशितैनसः ॥१६ ॥
ज्ञानविज्ञानसंयुक्ते द्विजे गवि गजादिषु ।
समेक्षणा महात्मानः पण्डिताः श्वपचे शुनि ॥१७ ॥
वश्यः स्वर्गो जगत्तेषां जीवन्मुक्ताः समेक्षणाः ।
यतोऽदोषं ब्रह्म समं तस्मात्तैर्विषयीकृतम् ॥१८ ॥
प्रियाप्रिये प्राप्य हर्षद्वेषौ ये प्राप्नुवन्ति न ।
ब्रह्माश्रिता असंमूढा ब्रह्मज्ञाः समबुद्धयः ॥१९ ॥
वरेण्य उवाच -
किं सुखं त्रिषु लोकेषु देवगन्धर्वयोनिषु ।
भगवन्कृपया तन्मे वद विद्याविशारद ॥२० ॥
श्रीगजानन उवाच -
आनन्दमश्नुतेऽसक्तः स्वात्मारामो निजात्मनि ।
अविनाशि सुखं तद्धि न सुखं विषयादिषु ॥२१ ॥
विषयोत्थानि सौख्यानि दुःखानां तानि हेतवः ।
उत्पत्तिनाशयुक्तानि तत्रासक्तो न तत्त्ववित् ॥२२ ॥
कारणे सति कामस्य क्रोधस्य सहते च यः ।
तौ जेतुं वर्ष्मविरहात्स सुखं चिरमश्नुते ॥२३ ॥
अन्तर्निष्ठोऽन्तःप्रकाशोऽन्तःसुखोऽन्तारतिर्लभेत् ।
असंदिग्धोऽक्षयं ब्रह्म सर्वभूतहितार्थकृत् ॥२४ ॥
जेतारः षड्रिपूणां ये शमिनो दमिनस्तथा ।
तेषां समन्ततो ब्रह्म स्वात्मज्ञानां विभात्यहो ॥२५ ॥
आसनेषु समासीनस्त्यक्त्वेमान्विषयान्बहिः ।
संस्तभ्य भृकुटीमास्ते प्राणायामपरायणः ॥२६ ॥
प्राणायामं तु संरोधं प्राणापानसमुद्भवम् ।
वदन्ति मुनयस्तं च त्रिधाभूतं विपश्चितः ॥२७ ॥
प्रमाणं भेदतो विद्धि लघुमध्यममुत्तमम् ।
दशभिर्द्व्यधिकैर्वर्णैः प्राणायामो लघुः स्मृतः ॥२८ ॥
चतुर्विंशत्यक्षरो यो मध्यमः स उदाहृतः ।
षट्त्रिंशल्लघुवर्णो य उत्तमः सोऽभिधीयते ॥२९ ॥
सिंहं शार्दूलकं वापि मत्तेभं मृदुतां यथा ।
नयन्ति प्राणिनस्तद्वत्प्राणापानौ सुसाधयेत् ॥३० ॥
पीडयन्ति मृगास्ते न लोकान्वश्यं गता नृप ।
दहत्येनस्तथा वायुः संस्तब्धो न च तत्तनुम् ॥३१ ॥
यथा यथा नरः कश्चित्सोपानावलिमाक्रमेत् ।
तथा तथा वशीकुर्यात्प्राणापानौ हि योगवित् ॥३२ ॥
पूरकं कुम्भकं चैव रेचकं च ततोऽभ्यसेत् ।
अतीतानागतज्ञानी ततः स्याज्जगतीतले ॥३३ ॥
प्राणायामैर्द्वादशभिरुत्तमैर्धारणा मता ।
योगस्तु धारणे द्वे स्याद्योगीशस्ते सदाभ्यसेत् ॥३४ ॥
एवं यः कुरुते राजंस्त्रिकालज्ञः स जायते ।
अनायासेन तस्य स्याद्वश्यं लोकत्रयं नृप ॥३५ ॥
ब्रह्मरूपं जगत्सर्वं पश्यति स्वान्तरात्मनि ।
एवं योगश्च संन्यासः समानफलदायिनौ ॥३६ ॥
जन्तूनां हितकर्तारं कर्मणां फलदायिनम् ।
मां ज्ञात्वा मुक्तिमाप्नोति त्रैलोक्यस्येश्वरं विभुम् ॥३७ ॥
इति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु
योगामृतार्थशास्त्रे
श्रीगणेशपुराणे उत्तरखण्डे गजाननवरेण्यसंवादे
वैधसंन्यासयोगो नाम चतुर्थोऽध्यायः ॥
५
॥ पञ्चमोऽध्यायः ॥
॥ योगावृत्तिप्रशंसनः ॥
श्रीगजानन उवाच -
श्रौतस्मार्तानि कर्माणि फलं नेच्छन्समाचरेत् ।
शस्तः स योगी राजेन्द्र अक्रियाद्योगमाश्रितात् ॥१ ॥
योगप्राप्त्यै महाबाहो हेतुः कर्मैव मे मतम् ।
सिद्धियोगस्य संसिद्ध्यै हेतू शमदमौ मतौ ॥२ ॥
इन्द्रियार्थांश्च संकल्प्य कुर्वन्स्वस्य रिपुर्भवेत् ।
एताननिच्छन्यः कुर्वन्सिद्धिं योगी स सिद्ध्यति ॥३ ॥
सुहृत्वे च रिपुत्वे च उद्धारे चैव बन्धने ।
आत्मनैवात्मनि ह्यात्मा नात्मा भवति कश्चन ॥४ ॥
मानेऽपमाने दुःखे च सुखेऽसुहृदि साधुषु ।
मित्रेऽमित्रेऽप्युदासीने द्वेष्ये लोष्ठे च काञ्चने ॥५ ॥
समो जितात्मा विज्ञानी ज्ञानीन्द्रियजयावहः ।
अभ्यसेत्सततं योगं यदा युक्ततमो हि सः ॥६ ॥
तप्तः श्रान्तो व्याकुलो वा क्षुधितो व्यग्रचित्तकः ।
कालेऽतिशीतेऽत्युष्णे वानिलाग्न्यम्बुसमाकुले ॥७ ॥
सध्वनावतिजीर्णे गोःस्थाने साग्नौ जलान्तिके ।
कूपकूले श्मशाने च नद्यां भित्तौ च मर्मरे ॥८ ॥
चैत्ये सवल्मिके देशे पिशाचादिसमावृते ।
नाभ्यसेद्योगविद्योगं योगध्यानपरायणः ॥९ ॥
स्मृतिलोपश्च मूकत्वं बाधिर्यं मन्दता ज्वरः ।
जडता जायते सद्यो दोषाज्ञानाद्धि योगिनः ॥१० ॥
एते दोषाः परित्याज्या योगाभ्यसनशालिना ।
अनादरे हि चैतेषां स्मृतिलोपादयो ध्रुवम् ॥११ ॥
नातिभुञ्जन्सदा योगी नाभुञ्जन्नातिनिद्रितः ।
नातिजाग्रत्सिद्धिमेति भूप योगं सदाभ्यसन् ॥१२ ॥
संकल्पजांस्त्यजेत्कामान्नियताहारजागरः ।
नियम्य खगणं बुद्ध्या विरमेत शनैः शनैः ॥१३ ॥
ततस्ततः कृषेदेतद्यत्र यत्रानुगच्छति ।
धृत्यात्मवशगं कुर्याच्चित्तं चञ्चलमादृतः ॥१४ ॥
एवं कुर्वन्सदा योगी परां निर्वृतिमृच्छति ।
विश्वस्मिन्निजमात्मानं विश्वं च स्वात्मनीक्षते ॥१५ ॥
योगेन यो मामुपैति तमुपैम्यहमादरात् ।
मोचयामि न मुञ्चामि तमहं मां स न त्यजेत् ॥१६ ॥
सुखे सुखेतरे द्वेषे क्षुधि तोषे समस्तृषि ।
आत्मसाम्येन भूतानि सर्वगं मां च वेत्ति यः ॥१७ ॥
जीवन्मुक्तः स योगीन्द्रः केवलं मयि संगतः ।
ब्रह्मादीनां च देवानां स वन्द्यः स्याज्जगत्रये ॥१८ ॥
वरेण्य उवाच -
द्विविधोऽपि हि योगोऽयमसंभाव्यो हि मे मतः ।
यतोऽन्तःकरणं दुष्टं चञ्चलं दुर्ग्रहं विभो ॥१९ ॥
श्रीगजानन उवाच -
यो निग्रहं दुर्ग्रहस्य मनसः सम्प्रकल्पयेत् ।
घटीयन्त्रसमादस्मान्मुक्तः संसृतिचक्रकात् ॥२० ॥
विषयैः क्रकचैरेतत्संसृष्टं चक्रकं दृढम् ।
जनश्छेत्तुं न शक्नोति कर्मकीलः सुसंवृतम् ॥२१ ॥
अतिदुःखं च वैराग्यं भोगाद्वैतृष्ण्यमेव च ।
गुरुप्रसादः सत्सङ्ग उपायास्तज्जये अमी ॥२२ ॥
अभ्यासाद्वा वशीकुर्यान्मनो योगस्य सिद्धये ।
वरेण्य दुर्लभो योगो विनास्य मनसो जयात् ॥२३ ॥
वरेण्य उवाच -
योगभ्रष्टस्य को लोकः का गतिः किं फलं भवेत् ।
विभो सर्वज्ञ मे छिन्धि संशयं बुद्धिचक्रभृत् ॥२४ ॥
श्रीगजानन उवाच -
दिव्यदेहधरो योगाद्भ्रष्टः स्वर्भोगमुत्तमम् ।
भुक्त्वा योगिकुले जन्म लभेच्छुद्धिमतां कुले ॥२५ ॥
पुनर्योगी भवत्येष संस्कारात्पूर्वकर्मजात् ।
न हि पुण्यकृतां कश्चिन्नरकं प्रतिपद्यते ॥२६ ॥
ज्ञाननिष्ठात्तपोनिष्ठात्कर्मनिष्ठान्नराधिप ।
श्रेष्ठो योगी श्रेष्ठतमो भक्तिमान्मयि तेषु यः ॥२७ ॥
इति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु
योगामृतार्थशास्त्रे
श्रीगणेशपुराणे उत्तरखण्डे गजाननवरेण्यसंवादे
योगावृत्तिप्रशंसनो नाम पञ्चमोऽध्यायः ॥
६
॥ षष्ठोऽध्यायः ॥
॥ बुद्धियोगः ॥
श्रीगजानन उवाच -
ईदृशं विद्धि मे तत्त्वं मद्गतेनान्तरात्मना ।
यज्ज्ञात्वा मामसन्दिग्धं वेत्सि मोक्ष्यसि सर्वगम् ॥१ ॥
तत्तेऽहं शृणु वक्ष्यामि लोकानां हितकाम्यया ।
अस्ति ज्ञेयं यतो नान्यन्मुक्तेश्च साधनं नृप ॥२ ॥
ज्ञेया मत्प्रकृतिः पूर्वं ततः स्यां ज्ञानगोचरः ।
ततो विज्ञानसम्पत्तिर्मयि ज्ञाते नृणां भवेत् ॥३ ॥
क्वनलौ खमहङ्कारः कं चित्तं धीसमीरणौ ।
रवीन्दू यागकृच्चैकादशधा प्रकृतिर्मम ॥४ ॥
अन्यां मत्प्रकृतिं वृद्धा मुनयः संगिरन्ति च ।
तथा त्रिविष्टपं व्याप्तं जीवत्वं गतयानया ॥५ ॥
आभ्यामुत्पाद्यते सर्वं चराचरमयं जगत् ।
संगाद्विश्वस्य संभूतिः परित्राणं लयोऽप्यहम् ॥६ ॥
तत्त्वमेतन्निबोद्धुं मे यतते कश्चिदेव हि ।
वर्णाश्रमवतां पुंसां पुरा चीर्णेन कर्मणा ॥७ ॥
साक्षात्करोति मां कश्चिद्यत्नवत्स्वपि तेषु च ।
मत्तोऽन्यन्नेक्षते किंचिन्मयि सर्वं च वीक्षते ॥८ ॥
क्षितौ सुगन्धरूपेण तेजोरूपेण चाग्निषु ।
प्रभारूपेण पूष्ण्यब्जे रसरूपेण चाप्सु च ॥९ ॥
धीतपोबलिनां चाहं धीस्तपोबलमेव च ।
त्रिविधेषु विकारेषु मदुत्पन्नेष्वहं स्थितः ॥१० ॥
न मां विन्दति पापीयान्मायामोहितचेतनः ।
त्रिविकारा मोहयति प्रकृतिर्मे जगत्त्रयम् ॥११ ॥
यो मे तत्त्वं विजानाति मोहं त्यजति सोऽखिलम् ।
अनेकैर्जन्मभिश्चैवं ज्ञात्वा मां मुच्यते ततः ॥१२ ॥
अन्ये नानाविधान्देवान्भजन्ते तान्व्रजन्ति ते ।
यथा यथा मतिं कृत्वा भजते मां जनोऽखिलः ॥१३ ॥
तथा तथास्य तं भावं पूरयाम्यहमेव तम् ।
अहं सर्वं विजानामि मां न कश्चिद्विबुध्यते ॥१४ ॥
अव्यक्तं व्यक्तिमापन्नं न विदुः काममोहिताः ।
नाहं प्रकाशतां यामि अज्ञानां पापकर्मणाम् ॥१५ ॥
यः स्मृत्वा त्यजति प्राणमन्ते मां श्रद्धयान्वितः ।
स यात्यपुनरावृत्तिं प्रसादान्मम भूभुज ॥१६ ॥
यं यं देवं स्मरन्भक्त्या त्यजति स्वं कलेवरम् ।
तत्तत्सालोक्यमायाति तत्तद्भक्त्या नराधिप ॥१७ ॥
अतश्चाहर्निशं भूप स्मर्तव्योऽनेकरूपवान् ।
सर्वेषामप्यहं गम्यः स्रोतसामर्णवो यथा ॥१८ ॥
ब्रह्मविष्णुशिवेन्द्राद्याँल्लोकान्प्राप्य पुनः पतेत् ।
यो मामुपैत्यसंदिग्धः पतनं तस्य न क्वचित् ॥१९ ॥
अनन्यशरणो यो मां भक्त्या भजति भूमिप ।
योगक्षेमौ च तस्याहं सर्वदा प्रतिपादये ॥२० ॥
द्विविधा गतिरुद्दिष्टा शुक्ला कृष्णा नृणां नृप ।
एकया परमं ब्रह्म परया याति संसृतिम् ॥२१ ॥
इति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु
योगामृतार्थशास्त्रे
श्रीगणेशपुराणे उत्तरखण्डे गजाननवरेण्यसंवादे
बुद्धियोगो नाम षष्ठोऽध्यायः ॥
७
॥ सप्तमोऽध्यायः ॥
॥ उपासना योगः ॥
वरेण्य उवाच -
का शुक्ला गतिरुद्दिष्टा का च कृष्णा गजानन ।
किं ब्रह्म संसृतिः का मे वक्तुमर्हस्यनुग्रहात् ॥१ ॥
श्रीगजानन उवाच -
अग्निर्ज्योतिरहः शुक्ला कर्मार्हमयनं गतिः ।
चान्द्रं ज्योतिस्तथा धूमो रात्रिश्च दक्षिणायनम् ॥२ ॥
कृष्णैते ब्रह्मसंसृत्योरवाप्तेः कारणं गती ।
दृश्यादृश्यमिदं सर्वं ब्रह्मैवेत्यवधारय ॥३ ॥
क्षरं पञ्चात्मकं विद्धि तदन्तरक्षरं स्मृतम् ।
उभाभ्यां यदतिक्रान्तं शुद्धं विद्धि सनातनम् ॥४ ॥
अनेकजन्मसंभूतिः संसृतिः परिकीर्तिता ।
संसृतिं प्राप्नुवन्त्येते ये तु मां गणयन्ति न ॥५ ॥
ये मां सम्यगुपासन्ते परं ब्रह्म प्रयान्ति ते ।
ध्यानाद्यैरुपचारैर्मां तथा पञ्चामृतादिभिः ॥६ ॥
स्नानवस्त्राद्यलंकारसुगन्धधूपदीपकैः ।
नैवेद्यैः फलतांबूलैर्दक्षिणाभिश्च योऽर्चयेत् ॥७ ॥
भक्त्यैकचेतसा चैव तस्येष्टं पूरयाम्यहम् ।
एवं प्रतिदिनं भक्त्या मद्भक्तो मां समर्चयेत् ॥८ ॥
अथवा मानसीं पूजां कुर्वीत स्थिरचेतसा ।
अथवा फलपत्राद्यैः पुष्पमूलजलादिभिः ॥९ ॥
पूजयेन्मां प्रयत्नेन तत्तदिष्टं फलं लभेत् ।
त्रिविधास्वपि पूजासु श्रेयसी मानसी मता ॥१० ॥
साप्युत्तमा मता पूजानिच्छया या कृता मम ।
ब्रह्मचारी गृहस्थो वा वानप्रस्थो यतिश्च यः ॥११ ॥
एकां पूजां प्रकुर्वाणोऽप्यन्यो वा सिद्धिमृच्छति ।
मदन्यदेवं यो भक्त्या द्विषन्मामन्यदेवताम् ॥१२ ॥
सोऽपि मामेव यजते परं त्वविधितो नृप ।
यो ह्यन्यदेवतां मां च द्विषन्नन्यां समर्चयेत् ॥१३ ॥
याति कल्पसहस्रं स निरयान्दुःखभाक् सदा ।
भूतशुद्धिं विधायादौ प्राणानां स्थापनं ततः ॥१४ ॥
आकृष्य चेतसो वृत्तिं ततो न्यासं उपक्रमेत् ।
कृत्वान्तर्मातृकान्यासं बहिश्चाथ षडङ्गकम् ॥१५ ॥
न्यासं च मूलमन्त्रस्य ततो ध्यात्वा जपेन्मनुम् ।
स्थिरचित्तो जपेन्मन्त्रं यथा गुरुमुखागतम् ॥१६ ॥
जपं निवेद्य देवाय स्तुत्वा स्तोत्रैरनेकधा ।
एवं मां य उपासीत स लभेन्मोक्षमव्ययम् ॥१७ ॥
य उपासनया हीनो धिङ्नरो व्यर्थजन्मभाक् ।
यज्ञोऽहमौषधं मन्रोऽग्निराज्यं च हविर्हुतम् ॥१८ ॥
ध्यानं ध्येयं स्तुतिं स्तोत्रं नतिर्भक्तिरुपासना ।
त्रयीज्ञेयं पवित्रं च पितामहपितामहः ॥१९ ॥
ॐकारः पावनः साक्षी प्रभुर्मित्रं गतिर्लयः ।
उत्पत्तिः पोषको बीजं शरणं वास एव च ॥२० ॥
असन्मृत्युः सदमृतमात्मा ब्रह्माहमेव च ।
दानं होमस्तपो भक्तिर्जपः स्वाध्याय एव च ॥२१ ॥
यद्यत्करोति तत्सर्वं स मे मयि निवेदयेत् ।
योषितोऽथ दुराचाराः पापास्त्रैवर्णिकास्तथा ॥२२ ॥
मदाश्रया विमुच्यन्ते किं मद्भक्त्या द्विजादयः ।
न विनश्यति मद्भक्तो ज्ञात्वेमा मद्विभूतयः ॥२३ ॥
प्रभवं मे विभूतिश्च न देवा ऋषयो विदुः ।
नानाविभूतिभिरहं व्याप्य विश्वं प्रतिष्ठितः ॥२४ ॥
यद्यच्छ्रेष्ठतमं लोके स विभूतिर्निबोध मे ॥२५ ॥
इति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु
योगामृतार्थशास्त्रे
श्रीगणेशपुराणे उत्तरखण्डे गजाननवरेण्यसंवादे
उपासनायोगो नाम सप्तमोऽध्यायः ॥
८
॥ अष्टमोऽध्यायः ॥
॥ विश्वरूपदर्शन ॥
वरेण्य उवाच -
भगवन्नारदो मह्यं तव नाना विभूतयः ।
उक्तवांस्ता अहं वेद न सर्वाः सोऽपि वेत्ति ताः ॥१ ॥
त्वमेव तत्त्वतः सर्वा वेत्सि ता द्विरदानन ।
निजं रूपमिदानीं मे व्यापकं चारु दर्शय ॥२ ॥
श्रीगजानन उवाच -
एकस्मिन्मयि पश्य त्वं विश्वमेतच्चराचरम् ।
नानाश्चर्याणि दिव्यानि पुराऽदृष्टानि केनचित् ॥३ ॥
ज्ञानचक्षुरहं तेऽद्य सृजामि स्वप्रभावतः ।
चर्मचक्षुः कथं पश्येन्मां विभुं ह्यजमव्ययम् ॥४ ॥
क उवाच -
ततो राजा वरेण्यः स दिव्यचक्षुरवैक्षत ।
ईशितुः परमं रूपं गजास्यस्य महाद्भुतम् ॥५ ॥
असंख्यवक्त्रं ललितमसंख्यांघ्रिकरं महत् ।
अनुलिप्तं सुगन्धेन दिव्यभूषाम्बरस्रजम् ॥६ ॥
असंख्यनयनं कोटिसूर्यरश्मिधृतायुधम् ।
तद्वर्ष्मणि त्रयो लोका दृष्टास्तेन पृथग्विधाः ॥७ ॥
दृष्ट्वैश्वरं परं रूपं प्रणम्य स नृपोऽब्रवीत् ।
वरेण्य उवाच -
वीक्षेऽहं तव देहेऽस्मिन्देवानृषिगणान्पितॄन् ॥८ ॥
पातालानां समुद्राणां द्वीपानां चैव भूभृताम् ।
महर्षीणां सप्तकं च नानार्थैः संकुलं विभो ॥९ ॥
भुवोऽन्तरिक्षस्वर्गांश्च मनुष्योरगराक्षसान् ।
ब्रह्माविष्णुमहेशेन्द्रान्देवान्जन्तूननेकधा ॥१० ॥
अनाद्यनन्तं लोकादिमनन्तभुजशीर्षकम् ।
प्रदीप्तानलसंकाशमप्रमेयं पुरातनम् ॥११ ॥
किरीटकुण्डलधरं दुर्निरीक्ष्यं मुदावहम् ।
एतादृशं च वीक्षे त्वां विशालवक्षसं प्रभुम् ॥१२ ॥
सुरविद्याधरैर्यक्षैः किन्नरैर्मुनिमानुषैः ।
नृत्यद्भिरप्सरोभिश्च गन्धर्वैर्गानतत्परैः ॥१३ ॥
वसुरुद्रादित्यगणैः सिद्धैः साध्यैर्मुदा युतैः ।
सेव्यमानं महाभक्त्या वीक्ष्यमाणं सुविस्मितैः ॥१४ ॥
वेत्तारमक्षरं वेद्यं धर्मगोप्तारमीश्वरम् ।
पातालानि दिशः स्वर्गान्भुवं व्याप्याऽखिलं स्थितम् ॥१५ ॥
भीता लोकास्तथा चाहमेवं त्वां वीक्ष्य रूपिणम् ।
नानादंष्ट्राकरालं च नानाविद्याविशारदम् ॥१६ ॥
प्रलयानलदीप्तास्यं जटिलं च नभःस्पृशम् ।
दृष्ट्वा गणेश ते रूपमहं भ्रान्त इवाभवम् ॥१७ ॥
देवा मनुष्यनागाद्याः खलास्त्वदुदरेशयाः ।
नानायोनिभुजश्चान्ते त्वय्येव प्रविशन्ति च ॥१८ ॥
अब्धेरुत्पद्यमानास्ते यथाजीमूतबिन्दवः ।
त्वमिन्द्रोऽग्निर्यमश्चैव निरृतिर्वरुणो मरुत् ॥१९ ॥
गुह्यकेशस्तथेशानः सोमः सूर्योऽखिलं जगत् ।
नमामि त्वामतः स्वामिन्प्रसादं कुरु मेऽधुना ॥२० ॥
दर्शयस्व निजं रूपं सौम्यं यत्पूर्वमीक्षितम् ।
को वेद लीलास्ते भूमन् क्रियमाणा निजेच्छया ॥२१ ॥
अनुग्रहान्मया दृष्टमैश्वरं रूपमीदृशम् ।
ज्ञानचक्षुर्यतो दत्तं प्रसन्नेन त्वया मम ॥२२ ॥
श्रीगजानन उवाच -
नेदं रूपं महाबाहो मम पश्यन्त्ययोगिनः ।
सनकाद्या नारदाद्याः पश्यन्ति मदनुग्रहात् ॥ २३ ॥
चतुर्वेदार्थतत्त्वज्ञाः सर्वशास्त्रविशारदाः ।
यज्ञदानतपोनिष्ठा न मे रूपं विदन्ति ते ॥२४ ॥
शक्योऽहं वीक्षितुं ज्ञातुं प्रवेष्टुं भक्तिभावतः ।
त्यज भीतिं च मोहं च पश्य मां सौम्यरूपिणम् ॥२५ ॥
मद्भक्तो मत्परः सर्वसंगहीनो मदर्थकृत् ।
निष्क्रोधः सर्वभूतेषु समो मामेति भूभुज ॥२६ ॥
इति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु
योगामृतार्थशास्त्रे
श्रीगणेशपुराणे उत्तरखण्डे गजाननवरेण्यसंवादे
विश्वरूपदर्शनो नामाष्टमोऽध्यायः ॥
९
॥ नवमोऽध्यायः ॥
॥ क्षेत्रज्ञातृज्ञेयविवेकयोगः ॥
वरेण्य उवाच -
अनन्यभावस्त्वां सम्यङ्मूर्तिमन्तमुपासते ।
योऽक्षरं परमव्यक्तं तयोः कस्ते मतोऽधिकः ॥१ ॥
असि त्वं सर्ववित्साक्षी भूतभावन ईश्वरः ।
अतस्त्वां परिपृच्छामि वद मे कृपया विभो ॥२ ॥
श्रीगजानन उवाच -
यो मां मूर्तिधरं भक्त्या मद्भक्तः परिसेवते ।
स मे मान्योऽनन्यभक्तिर्नियुज्य हृदयं मयि ॥३ ॥
खगणं स्ववशं कृत्वाखिलभूतहितार्थकृत् ।
ध्येयमक्षरमव्यक्तं सर्वगं कूटगं स्थिरम् ॥४ ॥
सोऽपि मामेत्यनिर्देश्यं मत्परो य उपासते ।
संसारसागरादस्मादुद्धरामि तमप्यहम् ॥५ ॥
अव्यक्तोपासनाद्दुःखमधिकं तेन लभ्यते ।
व्यक्तस्योपासनात्साध्यं तदेवाव्यक्तभक्तितः ॥६ ॥
भक्तिश्चैवादरश्चात्र कारणं परमं मतम् ।
सर्वेषां विदुषां श्रेष्ठो ह्यकिंचिज्ज्ञोऽपि भक्तिमान् ॥७ ॥
भजन्भक्त्या विहीनो यः स चाण्डालोऽभिधीयते ।
चाण्डालोऽपि भजन्भक्त्या ब्राह्मणेभ्योऽधिको मतः ॥८ ॥
शुकाद्याः सनकाद्याश्च पुरा मुक्ता हि भक्तितः ।
भक्त्यैव मामनुप्राप्ता नारदाद्याश्चिरायुषः ॥९ ॥
अतो भक्त्या मयि मनो विधेहि बुद्धिमेव च ।
भक्त्या यजस्व मां राजंस्ततो मामेव यास्यसि ॥१० ॥
असमर्थोऽर्पितुं स्वान्तं एवं मयि नराधिप ।
अभ्यासेन चे योगेन ततो गन्तुं यतस्व माम् ॥११ ॥
तत्रापि त्वमशक्तश्चेत्कुरु कर्म मदर्पणम् ।
मामनुग्रहतश्चैवं परां निर्वृतिमेष्यसि ॥१२ ॥
अथैतदप्यनुष्ठातुं न शक्तोऽसि तदा कुरु ।
प्रयत्नतः फलत्यागं त्रिविधानां हि कर्मणाम् ॥१३ ॥
श्रेयसी बुद्धिरावृत्तेस्ततो ध्यानं परं मतम् ।
ततोऽखिलपरित्यागस्ततः शान्तिर्गरीयसी ॥१४ ॥
निरहंममताबुद्धिरद्वेषः शरणः समः ।
लाभालाभे सुखे दुःखे मानामाने स मे प्रियः ॥१५ ॥
यं वीक्ष्य न भयं याति जनस्तस्मान्न च स्वयम् ।
उद्वेगभीः कोपमुद्भीरहितो यः स मे प्रियः ॥१६ ॥
रिपौ मित्रेऽथ गर्हायां स्तुतौ शोके समः समुत् ।
मौनी निश्चलधीभक्तिरसंगः स च मे प्रियः ॥१७ ॥
संशीलयति यश्चैनमुपदेशं मया कृतम् ।
स वन्द्यः सर्वलोकेषु मुक्तात्मा मे प्रियः सदा ॥१८ ॥
अनिष्टाप्तौ च न द्वेष्टीष्टप्राप्तौ च न तुष्यति ।
क्षेत्रतज्ज्ञौ च यो वेत्ति समे प्रियतमो भवेत् ॥१९ ॥
वरेण्य उवाच -
किं क्षेत्रं कश्च तद्वेत्ति किं तज्ज्ञानं गजानन ।
एतदाचक्ष्व मह्यं त्वं पृच्छते करुणाम्बुधे ॥२० ॥
श्रीगजानन उवाच -
पञ्च भूतानि तन्मात्राः पञ्च कर्मेन्द्रियाणि च ।
अहंकारो मनो बुद्धिः पञ्च ज्ञानेन्द्रियाणि च ॥२१ ॥
इच्छाव्यक्तं धृतिद्वेषौ सुखदुःखे तथैव च ।
चेतनासहितश्चायं समूहः क्षेत्रमुच्यते ॥२२ ॥
तज्ज्ञं त्वं विद्धि मां भूप सर्वान्तर्यामिणं विभुम् ।
अयं समूहोऽहं चापि यज्ज्ञानविषयौ नृप ॥२३ ॥
आर्जवं गुरुशुश्रूषा विरक्तिश्चेन्द्रियार्थतः ।
शौचं क्षान्तिरदम्भश्च जन्मादिदोषवीक्षणम् ॥२४ ॥
समदृष्टिर्दृढा भक्तिरेकान्तित्वं शमो दमः ।
एतैर्यच्च युतं ज्ञानं तज्ज्ञानं विद्धि बाहुज ॥२५ ॥
तज्ज्ञानविषयं राजन्ब्रवीमि त्वं शृणुष्व मे ।
यज्ज्ञात्वैति च निर्वाणं मुक्त्वा संसृतिसागरम् ॥२६ ॥
यदनादीन्द्रियैर्हीनं गुणभुग्गुणवर्जितम् ।
अव्यक्तं सदसद्भिन्नमिन्द्रियार्थावभासकम् ॥ २७ ॥
विश्वभृच्चाखिलव्यापि त्वेकं नानेव भासते ।
बाह्याभ्यन्तरतः पूर्णमसंगं तमसः परम् ॥२८ ॥
दुर्ज्ञेयं चातिसूक्ष्मत्वाद्दीप्तानामपि भासकम् ।
ज्ञेयमेतादृशं विद्धि ज्ञानगम्यं पुरातनम् ॥२९ ॥
एतदेव परं ब्रह्म ज्ञेयमात्मा परोऽव्ययः ।
गुणान्प्रकृतिजान्भुङ्क्ते पुरुषः प्रकृतेः परः ॥३० ॥
गुणैस्त्रिभिरियं देहे बध्नाति पुरुषं दृढम् ।
यदा प्रकाशः शान्तिश्च वृद्धे सत्त्वं तदाधिकम् ॥३१ ॥
लोभोऽशमः स्पृहारम्भः कर्मणां रजसो गुणः ।
मोहोऽप्रवृत्तिश्चाज्ञानं प्रमादस्तमसो गुणः ॥३२ ॥
सत्त्वाधिकः सुखं ज्ञानं कर्मसंगं रजोऽधिकः ।
तमोऽधिकश्च लभते निद्रालस्यं सुखेतरत् ॥३३ ॥
एषु त्रिषु प्रवृद्धेषु मुक्तिसंसृतिदुर्गतीः ।
प्रयान्ति मानवा राजंस्तस्मात्सत्त्वयुतो भव ॥३४ ॥
ततश्च सर्वभावेन भज त्वं मां नरेश्वर ।
भक्त्या चाव्यभिचारिण्या सर्वत्रैव च संस्थितम् ॥३५ ॥
अग्नौ सूर्ये तथा सोमे यच्च तारासु संस्थितम् ।
विदुषि ब्राह्मणे तेजो विद्धि तन्मामकं नृप ॥३६ ॥
अहमेवाखिलं विश्वं सृजामि विसृजामि च ।
औषधीस्तेजसा सर्वा विश्वं चाप्याययाम्यहम् ॥३७ ॥
सर्वेन्द्रियाण्यधिष्ठाय जाठरं च धनंजयम् ।
भुनज्मि चाखिलान्भोगान्पुण्यपापविवर्जितः ॥३८ ॥
अहं विष्णुश्च रुद्रश्च ब्रह्मा गौरी गणेश्वरः ।
इन्द्राद्या लोकपालाश्च ममैवांशसमुद्भवाः ॥३९ ॥
येन येन हि रूपेण जनो मां पर्युपासते ।
तथा तथा दर्शयामि तस्मै रूपं सुभक्तितः ॥४० ॥
इति क्षेत्रं तथा ज्ञाता ज्ञानं ज्ञेयं मयेरितम् ।
अखिलं भूपते सम्यगुपपन्नाय पृच्छते ॥४१ ॥
इति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु
योगामृतार्थशास्त्रे
श्रीगणेशपुराणे उत्तरखण्डे गजाननवरेण्यसंवादे
क्षेत्रज्ञातृज्ञेयविवेकयोगो नाम नवमोऽध्यायः ॥
१०
॥ दशमोऽध्यायः ॥
॥ उपदेशयोगः ॥
श्रीगजानन उवाच -
दैव्यासुरी राक्षसी च प्रकृतिस्त्रिविधा नृणाम् ।
तासां फलानि चिन्हानि संक्षेपात्तेऽधुना ब्रुवे ॥१ ॥
आद्या संसाधयेन्मुक्तिं द्वे परे बन्धनं नृप ।
चिन्हं ब्रवीमि चाद्यायास्तन्मे निगदतः शृणु ॥२ ॥
अपैशून्यं दयाऽक्रोधश्चापल्यं धृतिरार्जवम् ।
तेजोऽभयमहिंसा च क्षमा शौचममानिता ॥३ ॥
इत्यादि चिन्हमाद्याया आसुर्याः शृणु सांप्रतम् ।
अतिवादोऽभिमानश्च दर्पो ज्ञानं सकोपता ॥४ ॥
आसुर्या एवमाद्यानि चिन्हानि प्रकृतेर्नृप ।
निष्ठुरत्वं मदो मोहोऽहंकारो गर्व एव च ॥५ ॥
द्वेषो हिंसाऽदया क्रोध औद्धत्यं दुर्विनीतता ।
आभिचारिककर्तृत्वं क्रूरकर्मरतिस्तथा ॥६ ॥
अविश्वासः सतां वाक्येऽशुचित्वं कर्महीनता ।
निन्दकत्वं च वेदानां भक्तानामसुरद्विषाम् ॥७ ॥
मुनिश्रोत्रियविप्राणां तथा स्मृतिपुराणयोः ।
पाखण्डवाक्ये विश्वासः संगतिर्मलिनान्मनाम् ॥८ ॥
सदम्भकर्मकर्तृत्वं स्पृहा च परवस्तुषु ।
अनेककामनावत्त्वं सर्वदाऽनृतभाषणम् ॥९ ॥
परोत्कर्षासहिष्णुत्वं परकृत्यपराहतिः ।
इत्याद्या बहवश्चान्ये राक्षस्याः प्रकृतेर्गुणाः ॥१० ॥
पृथिव्यां स्वर्गलोके च परिवृत्य वसन्ति ते ।
मद्भक्तिरहिता लोका राक्षसीं प्रकृतिं श्रिताः ॥११ ॥
तामसीं ये श्रिता राजन्यान्ति ते रौरवं ध्रुवम् ।
अनिर्वाच्यं च ते दुःखं भुञ्जते तत्र संस्थिताः ॥१२ ।
दैवान्निःसृत्य नरकाज्जायन्ते भुवि कुब्जकाः ।
जात्यन्धाः पङ्गवो दीना हीनजातिषु ते नृप ॥१३ ॥
पुनः पापसमाचारा मय्यभक्ताः पतन्ति ते ।
उत्पतन्ति हि मद्भक्ता यां कांचिद्योनिमाश्रिताः ॥१४ ॥
लभन्ते स्वर्गतिं यज्ञैरन्यैर्धर्मश्च भूमिप ।
सुलभास्ताः सकामानां मयि भक्तिः सुदुर्लभा ॥१५ ॥
विमूढा मोहजालेन बद्धाः स्वेन च कर्मणा ।
अहं हन्ता अहं कर्ता अहं भोक्तेति वादिनः ॥१६ ॥
अहमेवेश्वरः शास्ता अहं वेत्ता अहं सुखी ।
एतादृशी मतिर्नॄणामधः पातयतीह तान् ॥१७ ॥
तस्मादेतत्समुत्सृज्य दैवीं प्रकृतिमाश्रय ।
भक्तिं कुरु मदीयां त्वमनिशं दृढचेतसा ॥१८ ॥
सापि भक्तिस्त्रिधा राजन्सात्त्विकी राजसीतरा ।
यद्देवान्भजते भक्त्या सात्त्विकी सा मता शुभा ॥१९ ॥
राजसी सा तु विज्ञेया भक्तिर्जन्ममृतिप्रदा ।
यद्यक्षांश्चैव रक्षांसि यजन्ते सर्वभावतः ॥२० ॥
वेदेनाविहितं क्रूरं साहंकारं सदम्भकम् ।
भजन्ते प्रेतभूतादीन्कर्म कुर्वन्ति कामुकम् ॥२१ ॥
शोषयन्तो निजं देहमन्तःस्थं मां दृढाग्रहाः ।
तामस्येतादृशी भक्तिर्नृणां सा निरयप्रदा ॥२२ ॥
कामो लोभस्तथा क्रोधो दम्भश्चत्वार इत्यमी ।
महाद्वाराणि वीचीनां तस्मादेतांस्तु वर्जयेत् ॥२३ ॥
इति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु
योगामृतार्थशास्त्रे
श्रीगणेशपुराणे उत्तरखण्डे गजाननवरेण्यसंवादे
उपदेशयोगो नाम दशमोऽध्यायः ॥
११
॥ एकादशोऽध्यायः ॥
॥ त्रिविधवस्तुविवेकनिरूपणम् ॥
श्रीगजानन उवाच -
तपोऽपि त्रिविधं राजन्कायिकादिप्रभेदतः ।
ऋजुतार्जवशौचानि ब्रह्मचर्यमहिंसनम् ॥१ ॥
गुरुविज्ञद्विजातीनां पूजनं चासुरद्विषाम् ।
स्वधर्मपालनं नित्यं कायिकं तप ईदृशम् ॥२ ॥
मर्मास्पृक्च प्रियं वाक्यमनुद्वेगं हितं ऋतम् ।
अधीतिर्वेदशास्त्राणां वाचिकं तप ईदृशम् ॥३ ॥
अन्तःप्रसादः शान्तत्वं मौनमिन्द्रियनिग्रहः ।
निर्मलाशयता नित्यं मानसं तप ईदृशम् ॥४ ॥
अकामतः श्रद्धया च यत्तपः सात्त्विकं च तत् ।
ऋध्यै सत्कारपूजार्थं सदम्भं राजसं तपः ॥५ ॥
तदस्थिरं जन्ममृती प्रयच्छति न संशयः ।
परात्मपीडकं यच्च तपस्तामसमुच्यते ॥६ ॥
विधिवाक्यप्रमाणार्थं सत्पात्रे देशकालतः ।
श्रद्धया दीयमानं यद्दानं तत्सात्त्विकं मतम् ॥७ ॥
उपकारं फलं वापि काङ्क्षद्भिर्दीयते नरैः ।
क्लेशतो दीयमानं वा भक्त्या राजसमुच्यते ॥८ ॥
अकालदेशतोऽपात्रेऽवज्ञया दीयते तु यत् ।
असत्काराच्च यद्दत्तं तद्दानं तामसं स्मृतम् ॥९ ॥
ज्ञानं च त्रिविधं राजन् शृणुष्व स्थिरचेतसा ।
त्रिधा कर्म च कर्तारं ब्रवीमि ते प्रसंगतः ॥१० ॥
नानाविधेषु भूतेषु मामेकं वीक्षते तु यः ।
नाशवत्सु च नित्यं मां तज्ज्ञानं सात्विकं नृप ॥११ ॥
तेषु वेत्ति पृथग्भूतं विविधं भावमाश्रितः ।
मामव्ययं च तज्ज्ञानं राजसं परिकीर्तितम् ॥१२ ॥
हेतुहीनमसत्यं च देहात्मविषयं च यत् ।
असदल्पार्थविषयं तामसं ज्ञानमुच्यते ॥१३ ॥
भेदतस्त्रिविधं कर्म विद्धि राजन्मयेरितम् ।
कामनाद्वेषदम्भैर्यद्रहितं नित्यकर्म यत् ॥१४ ॥
कृतं विना फलेच्छां यत्कर्म सात्त्विकमुच्यते ।
यद्बहुक्लेशतः कर्म कृतं यच्च फलेच्छया ॥१५ ॥
क्रियमाणं नृभिर्दम्भात्कर्म राजसमुच्यते ।
अनपेक्ष्य स्वशक्तिं यदर्थक्षयकरं च यत् ॥१६ ॥
अज्ञानात्क्रियमाणं यत्कर्म तामसमीरितम् ।
कर्तारं त्रिविधं विद्धि कथ्यमानं मया नृप ॥१७ ॥
धैर्योत्साही समोऽसिद्धौ सिद्धौ चाविक्रियस्तु यः ।
अहंकारविमुक्तो यः स कर्ता सात्त्विको नृप ॥१८ ॥
कुर्वन्हर्षं च शोकं च हिंसां फलस्पृहां च यः ।
अशुचिर्लुब्धको यश्च राजसोऽसौ निगद्यते ॥१९ ॥
प्रमादाज्ञानसहितः परोच्छेदपरः शठः ।
अलसस्तर्कवान्यस्तु कर्तासौ तामसो मतः ॥२० ॥
सुखं च त्रिविधं राजन्दुःखं च क्रमतः शृणु ।
सात्त्विकं राजसं चैव तामसं च मयोच्यते ॥२१ ॥
विषवद्भासते पूर्वं दुःखस्यान्तकरं च यत् ।
इष्यमानं तथाऽऽवृत्त्या यदन्तेऽमृतवद्भवेत् ॥२२ ॥
प्रसादात्स्वस्य बुद्धेर्यत्सात्त्विकं सुखमीरितम् ।
विषयाणां तु यो भोगो भासतेऽमृतवत्पुरा ॥२३ ॥
हालाहलमिवान्ते यद्राजसं सुखमीरितम् ।
तन्द्रिप्रमादसंभूतमालस्यप्रभवं च यत् ॥२४ ॥
सर्वदा मोहकं स्वस्य सुखं तामसमीदृशम् ।
न तदस्ति यदेतैर्यन्मुक्तं स्यात्त्रिविधैर्गुणैः ॥२५ ॥
राजन्ब्रह्मापि त्रिविधमोंतत्सदिति भेदतः ।
त्रिलोकेषु त्रिधा भूतमखिलं भूप वर्तते ॥२६ ॥
ब्रह्मक्षत्रियविट्शूद्राः स्वभावाद्भिन्नकर्मिणः ।
तानि तेषां तु कर्माणि संक्षेपात्तेऽधुना वदे ॥२७ ॥
अन्तर्बाह्येन्द्रियाणां च वश्यत्वमार्जवं क्षमा ।
नानातपांसि शौचं च द्विविधं ज्ञानमात्मनः ॥२८ ॥
वेदशास्त्रपुराणानां स्मृतीनां ज्ञानमेव च ।
अनुष्ठानं तदर्थानां कर्म ब्राह्ममुदाहृतम् ॥२९ ॥
दार्ढ्यं शौर्यं च दाक्ष्यं च युद्धे पृष्ठाप्रदर्शनम् ।
शरण्यपालनं दानं धृतिस्तेजः स्वभावजम् ॥३० ॥
प्रभुता मन औनत्यं सुनीतिर्लोकपालनम् ।
पञ्चकर्माधिकारित्वं क्षात्रं कर्म समीरितम् ॥३१ ॥
नानावस्तुक्रयो भूमेः कर्षणं रक्षणं गवाम् ।
त्रिधा कर्माधिकारित्वं वैश्यकर्म समीरितम् ॥३२ ॥
दानं द्विजानां शुश्रूषा सर्वदा शिवसेवनम् ।
एतादृशं नरव्याघ्र कर्म शौद्रमुदीरितम् ॥३३ ॥
स्वस्वकर्मरता एते मय्यर्प्याखिलकारिणः ।
मत्प्रसादात्स्थिरं स्थानं यान्ति ते परमं नृप ॥ ३४॥
इति ते कथितो राजन्प्रसादाद्योगौत्तमः ।
सांगोपांगः सविस्तारोऽनादिसिद्धो मया प्रिय ॥ ३५ ॥
युङ्क्ष्व योगं मयाख्यातं नाख्यातं कस्यचिन्नृप ।
गोपयैनं ततः सिद्धिं परां यास्यस्यनुत्तमाम् ॥३६ ॥
व्यास उवाच -
इति तस्य वचः श्रुत्वा प्रसन्नस्य महात्मनः ।
गणेशस्य वरेण्यः स चकार च यथोदितम् ॥३७ ॥
त्यक्त्वा राज्यं कुटुम्बं च कान्तारं प्रययौ रयात् ।
उपदिष्टं यथा योगमास्थाय मुक्तिमाप्नवान् ॥३८ ॥
इमं गोप्यतमं योगं शृणोति श्रद्धया तु यः ।
सोऽपि कैवल्यमाप्नोति यथा योगी तथैव सः ॥३९ ॥
य इमं श्रावयेद्योगं कृत्वा स्वार्थं सुबुद्धिमान् ।
यथा योगी तथा सोऽपि परं निर्वाणमृच्छति ॥४० ॥
यो गीतां सम्यगभ्यस्य ज्ञात्वा चार्थं गुरोर्मुखात् ।
कृत्वा पूजां गणेशस्य प्रत्यहं पठते तु यः ॥४१ ॥
एककालं द्विकालं वा त्रिकालं वापि यः पठेत् ।
ब्रह्मीभूतस्य तस्यापि दर्शनान्मुच्यते नरः ॥४२ ॥
न यज्ञैर्न व्रतैर्दानैर्नाग्निहोत्रैर्महाधनैः ।
न वेदैः सम्यगभ्यस्तैः सहाङ्गकैः ॥४३ ॥
पुराणश्रवणैर्नैव न शास्त्रैः साधुचिन्तितैः ।
प्राप्यते ब्रह्म परममनया प्राप्यते नरैः ॥४४ ॥
ब्रह्मघ्नो मद्यपः स्तेयी गुरुतल्पगमोऽपि यः ।
चतुर्णां यस्तु संसर्गी महापातककारिणाम् ॥४५ ॥
स्त्रीहिंसागोवधादीनां कर्तारो ये च पापिनः ।
ते सर्वे प्रतिमुच्यन्ते गीतामेतां पठन्ति चेत् ॥४६ ॥
यः पठेत्प्रयतो नित्यं स गणेशो न संशयः ।
चतुर्थ्यां यः पठेद्भक्त्या सोऽपि मोक्षाय कल्पते ॥४७ ॥
तत्तत्क्षेत्रं समासाद्य स्नात्वाभ्यर्च्य गजाननम् ।
सकृद्गीतां पठन्भक्त्या ब्रह्मभूयाय कल्पते ॥४८ ॥
भाद्रे मासे सिते पक्षे चतुर्थ्यां भक्तिमान्नरः ।
कृत्वा महीमयीं मूर्तिं गणेशस्य चतुर्भुजाम् ॥४९ ॥
सवाहनां सायुधां च समभ्यर्च्य यथाविधि ।
यः पठेत्सप्तकृत्वस्तु गीतामेतां प्रयत्नतः ॥५० ॥
ददाति तस्य सन्तुष्टो गणेशो भोगमुत्तमम् ।
पुत्रान्पौत्रान्धनं धान्यं पशुरत्नादिसम्पदः ॥५१ ॥
विद्यार्थिनो भवेद्विद्या सुखार्थी सुखमाप्नुयात् ।
कामानन्याँल्लभेत्कामी मुक्तिमन्ते प्रयान्ति ते ॥५२ ॥
इति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु
योगामृतार्थशास्त्रे
श्रीगणेशपुराणे उत्तरखण्डे गजाननवरेण्यसंवादे
त्रिविधवस्तुविवेकनिरूपणं नाम एकादशोऽध्यायः ॥
॥ इति गणेश गीता समाप्ता ॥
गर्भगीता
वन्दे कृष्णं सुरेन्द्रं स्थितिलयजनने कारणं सर्वजन्तोः
स्वेच्छाचारं कृपालुं गुणगणरहितं योगिनां योगगम्यम् ।
द्वन्द्वातीतं च सत्यं हरमुखविबुधैः सेवितं ज्ञानरूपं
भक्ताधीनं तुरीयं नवघनरुचिरं देवकीनन्दनं तम् ॥
अर्जुन उवाच --
गर्भवासं जरामृत्युं किमर्थं भ्रमते नरः ।
कथं वा वहितं जन्म ब्रूहि देव जनार्दन ॥ १॥
श्रीभगवानुवाच --
मानवो मूढ अन्धश्च संसारेऽस्मिन् विलिप्यते ।
आशास्तथा न जहाति प्राणानां जनसम्पदाम् ॥ २॥
अर्जुन उवाच --
आशा केन जिता लोकैः संसारविषयौ तथा ।
केन कर्मप्रकारेण लोको मुच्येत बन्धनात् ॥ ३॥
कामः क्रोधश्च लोभश्च मदमात्सर्यमेव च ।
एते मनसि वर्तन्ते कर्मपाशं कथम् त्यजेत् ॥ ४॥
श्रीभगवानुवाच --
ज्ञानाग्निर्दहते कर्म भूयोऽपि तेन लिप्यते ।
विशुद्धात्मा हि लोकः सः पुनर्जन्म न भुञ्जते ॥ ५॥
जितं सर्वकृतं कर्म विष्णुश्रीगुरुचिन्तनम् ।
विकल्पो नास्ति सङ्कल्पः पुनर्जन्म न विद्यते ॥ ६॥
नानाशास्त्रं पठेल्लोको नानादैवतपूजनम् ।
आत्मज्ञानं विना पार्थ सर्वकर्म निरर्थकम् ॥ ७॥
आचारः क्रियते कोटि दानं च गिरिकाञ्चनम् ।
आत्मतत्त्वं न जानाति मुक्तिर्नास्ति न संशयः ॥ ८॥
कोटियज्ञकृतं पुण्यं कोटिदानं हयो गजः ।
गोदानं च सहस्राणि मुक्तिर्नास्ति न वा शुचिः ॥ ९॥
न मोक्षं भ्रमते तीर्थं न मोक्षं भस्मलेपनम् ।
न मोक्षं ब्रह्मचर्यं हि मोक्षं नेन्द्रियनिग्रहः ॥ १०॥
न मोक्षं कोटियज्ञं च न मोक्षं दानकाञ्चनम् ।
न मोक्षं वनवासेन न मोक्षं भोजनं विना ॥ ११॥
न मोक्षं मन्दमौनेन न मोक्षं देहताडनम् ।
न मोक्षं गायने गीतं न मोक्षं शिल्पनिग्रहम् ॥ १२॥
न मोक्षं कर्मकर्मेषु न मोक्षं मुक्तिभावने ।
न मोक्षं सुजटाभारं निर्जनसेवनस्तथा ॥ १३॥
न मोक्षं धारणाध्यानं न मोक्षं वायुरोधनम् ।
न मोक्षं कन्दभक्षेण न मोक्षं सर्वरोधनम् ॥ १४॥
यावद्बुद्धिविकारेण आत्मतत्त्वं न विन्दति ।
यावद्योगं च संन्यासं तावच्चित्तं न हि स्थिरम् ॥ १५॥
अभ्यन्तरं भवेत् शुद्धं चिद्भावस्य विकारजम् ।
न क्षालितं मनोमाल्यं किं भवेत् तपकोटिषु ॥ १६॥
अर्जुन उवाच --
अभ्यन्तरं कथं शुद्धं चिद्भावस्य पृथक् कृतम् ।
मनोमाल्यं सदा कृष्ण कथं तन्निर्मलं भवेत् ॥ १७॥
श्रीभगवानुवाच --
प्रशुद्धात्मा तपोनिष्ठो ज्ञानाग्निदग्धकल्मषः ।
तत्परो गुरुवाक्ये च पुनर्जन्म न भुञ्जते ॥ १८॥
अर्जुन उवाच --
कर्माकर्मद्वयं बीजं लोके हि दृढबन्धनम् ।
केन कर्मप्रकारेण लोको मुच्येत बन्धनात् ॥ १९॥
श्रीभगवानुवाच --
कर्माकर्मद्वयं साधो ज्ञानाभ्याससुयोगतः ।
ब्रह्माग्निर्भुञ्जते बीजं अबीजं मुक्तिसाधकम् ॥ २०॥
योगिनां सहजानन्दः जन्ममृत्युविनाशकम् ।
निषेधविधिरहितं अबीजं चित्स्वरूपकम् ॥ २१॥
तस्मात् सर्वान् पृथक् कृत्य आत्मनैव वसेत् सदा ।
मिथ्याभूतं जगत् त्यक्त्वा सदानन्दं लभेत् सुधीः ॥ २२॥
इति श्रीगर्भगीता समाप्ता ।
॥ गायत्री गीता ॥
ओमित्येव सुनामधेयमनघं विश्वात्मनो ब्रह्मणः
सर्वेष्वेव हि तस्य नामसु वसोरेतत्प्रधानं मतम् ॥
यं वेदा निगदन्ति न्यायनिरतं श्रीसच्चिदानन्दकं
लोकेशं समदर्शिनं नियमनं चाकारहीनं प्रभुम् ॥ १॥
भूर्वै प्राण इति ब्रुवन्ति मुनयो वेदान्तपारं गताः
प्राणः सर्वविचेतनेषु प्रसृतः सामान्यरूपेण च ।
एतेनैव विसिद्ध्यते हि सकलं नूनं समानं जगत् ।
द्रष्टव्यः सकलेषु जन्तुषु जनैर्नित्यं ह्यसुश्चात्मवत् ॥ २॥
भुवर्नाशो लोके सकलविपदां वै निगदितः
कृतं कार्यं कर्तव्यमिति मनसा चास्य करणं ।
फलाशां मर्त्या ये विदधति न वै कर्मनिरताः
लभन्ते नित्यं ते जगति हि प्रसादं सुमनसाम् ॥ ३॥
स्वरेषो वै शब्दो निगदति मनःस्थैर्यकरणं
तथा सौख्यं स्वास्थ्यं ह्युपदिशति चित्तस्य चलतः ।
निमग्नत्वं सत्यव्रतसरसि चाचक्षति उत ।
त्रिधां शान्तिं ह्येतां भुवि च लभते संयमरतः ॥ ४॥
ततो वै निष्पत्तिः स भुवि मतिमान् पण्डितवरः
विजानन् गुह्यं यो मरणजीवनयोस्तदखिलम् ।
अनन्ते संसारे विचरति भयासक्तिरहित-
स्तथा निर्माणं वै निजगतिविधीनां प्रकुरुते ॥ ५॥
सवितुस्तु पदं वितनोति ध्रुवं
मनुजो बलवान् सवितेव भवेत् ।
विषया अनुभूतिपरिस्थितय-
स्तु सदात्मन एव गणेदिति सः ॥ ६॥
वरेण्यञ्चैतद्वै प्रकटयति श्रेष्ठत्वमनिशं
सदा पश्येच्छ्रेष्ठं मननपि श्रेष्ठस्य विदधेत् ।
तथा लोके श्रेष्ठं सरलमनसा कर्म च भजेत्
तदित्थं श्रेष्ठत्वं व्रजति मनुजः शोभितगुणैः ॥ ७॥
भर्गो व्याहरते पदं हि नितरां लोकः सुलोको भवेत्
पापे पाप-विनाशने त्वविरतं दत्तावधानो वसेत् ।
दृष्ट्वा दुष्कृतिदुर्विपाक-निचयं तेभ्यो जुगुप्सेद्धि च
तन्नाशाय विधीयतां च सततं सङ्घर्षमेभिः सह ॥ ८॥
देवस्येति तु व्याकरोत्यमरतां मर्त्योऽपि सम्प्राप्यते
देवानामिव शुद्धदृष्टिकरणात् सेवोपचाराद् भुवि ।
निःस्वार्थं परमार्थ-कर्मकरणात् दीनाय दानात्तथा
बाह्याभ्यन्तरमस्य देवभुवनं संसृज्यते चैव हि ॥ ९॥
धीमहि सर्वविधं शुचिमेव
शक्तिचय वयमितुपदिष्टाः ।
नो मनुजो लभते सुखशान्ति-
मनेन विनेति वदन्ति हि वेदाः ॥ १०॥
धियो मत्योन्मथ्यागमनिगममन्त्रान् सुमतिमान्
विजानीयात्तत्त्वं विमलनवनीतं परमिव ।
यतोऽस्मिन् लोके वै संशयगत-विचार-स्थलशते
मतिः शुद्धैवाच्छा प्रकटयति सत्यं सुमनसे ॥ ११॥
योनो वास्ति तु शक्तिसाधनचयो न्यूनाधिकश्चाथवा
भागं न्यूनतमं हि तस्य विदधेमात्मप्रसादाय च ।
यत्पश्चादवशिष्टभागमखिलं त्यक्त्वा फलाशं हृदि
तद्धीनेष्वभिलाषवत्सु वितरेद् ये शक्तिहीनाः स्वयम् ॥ १२॥
प्रचोदयात् स्वं त्वितरांश्च मानवान्
नरः प्रयाणाय च सत्यवर्त्मनि ।
कृतं हि कर्माखिलमित्थमङ्गिना
वदन्ति धर्मं इति हि विपश्चितः ॥ १३॥
गायत्री-गीतां ह्येतां यो नरो वेत्ति तत्त्वतः ।
स मुक्त्वा सर्वदुःखेभ्यः सदानन्दे निमज्जति ॥ १४॥
॥ गुरु गीता ॥
॥ प्रथमोऽध्यायः ॥
अचिन्त्याव्यक्तरूपाय निर्गुणाय गणात्मने ।
समस्तजगदाधारमूर्तये ब्रह्मणे नमः ॥ १॥
ऋषय ऊचुः ।
सूत सूत महाप्राज्ञ निगमागमपारगम् ।
गुरुस्वरूपमस्माकं ब्रूहि सर्वमलापहम् ॥ २॥
यस्य श्रवणमात्रेण देही दुःखाद्विमुच्यते ।
येन मार्गेण मुनयः सर्वज्ञत्वं प्रपेदिरे ॥ ३॥
यत्प्राप्य न पुनर्याति नरः संसारबन्धनम् ।
तथाविधं परं तत्त्वं वक्तव्यमधुना त्वया ॥ ४॥
गुह्याद्गुह्यतमं सारं गुरुगीता विशेषतः ।
त्वत्प्रसादाच्च श्रोतव्या तत्सर्वं ब्रूहि सूत नः ॥ ५॥
इति सम्प्रार्थितः सूतो मुनिसङ्घैर्मुहुर्मुहुः ॥
कुतूहलेन महता प्रोवाच मधुरं वचः ॥ ६॥
सूत उवाच ।
श्रुणुध्वं मुनयः सर्वे श्रद्धया परया मुदा ।
वदामि भवरोगघ्नीं गीतां मातृस्वरूपिणीम् ॥ ७॥
पुरा कैलासशिखरे सिद्धगन्धर्वसेविते ।
तत्र कल्पलतापुष्पमन्दिरेऽत्यन्तसुन्दरे ॥ ८॥
व्याघ्राजिने समासीनं शुकादिमुनिवन्दितम् ।
बोधयन्तं परं तत्त्वं मध्ये मुनिगणे क्वचित् ॥ ९॥
प्रणम्रवदना शश्वन्नमस्कुर्वन्तमादरात् ।
दृष्ट्वा विस्मयमापन्न पार्वती परिपृच्छति ॥ १०॥
पार्वत्युवाच ।
ॐ नमो देव देवेश परात्पर जगद्गुरो ।
त्वां नमस्कुर्वते भक्त्या सुरासुरनराः सदा ॥ ११॥
विधिविष्णुमहेन्द्राद्यैर्वन्द्यः खलु सदा भवान् ।
नमस्करोषि कस्मै त्वं नमस्काराश्रयः किल ॥ १२॥
दृष्ट्वैतत्कर्म विपुलमाश्चर्य प्रतिभाति मे ।
किमेतन्न विजानेऽहं कृपया वद मे प्रभो ॥ १३॥
भगवन् सर्वधर्मज्ञ व्रतानां व्रतनायकम् ।
ब्रूहि मे कृपया शम्भो गुरुमाहात्म्यमुत्तमम् ॥ १४॥
केन मार्गेण भो स्वामिन् देही ब्रह्ममयो भवेत् ।
तत्कृपां कुरु मे स्वामिन्नमामि चरणौ तव ॥ १५॥
इति सम्प्रार्थितः शश्वन्महादेवो महेश्वरः ।
आनन्दभरतिः स्वान्ते पार्वतीमिदमब्रवीत् ॥ १६॥
श्री महादेव उवाच ।
न वक्तव्यमिदं देवि रहस्यातिरहस्यकम् ।
न कस्यापि पुरा प्रोक्तं त्वद्भक्त्यर्थं वदामि तत् ॥ १७॥
मम रूपासि देवि त्वमतस्तत्कथयामि ते ।
लोकोपकारकः प्रश्नो न केनापि कृतः पुरा ॥ १८॥
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ १९॥
यो गुरुः स शिवः प्रोक्तो यः शिवः स गुरुः स्मृतः ।
विकल्पं यस्तु कुर्वीत स नरो गुरुतल्पगः ॥ २०॥
दुर्लभं त्रिषु लोकेषु तच्छृणुश्व वदाम्यहम् ।
गुरुब्रह्म विना नान्यः सत्यं सत्यं वरानने ॥ २१॥
वेदशास्त्रपुराणानि चेतिहासादिकानि च ।
मन्त्रयन्त्रादिविद्यानां मोहनोच्चाटनादिकम् ॥ २२॥
शैवशाक्तागमादीनि ह्यन्ये च बहवो मताः ।
अपभ्रंशाः समस्तानां जीवानां भ्रान्तचेतसाम् ॥ २३॥
जपस्तपो व्रतं तीर्थं यज्ञो दानं तथैव च ।
गुरुतत्त्वमविज्ञाय सर्वं व्यर्थं भवेत्प्रिये ॥ २४॥
गुरुबुद्ध्यात्मनो नान्यत् सत्यं सत्यं वरानने ।
तल्लाभार्थं प्रयत्नस्तु कर्तव्यश्च मनीषिभिः ॥ २५॥
गूढाविद्या जगन्माया देहश्चाज्ञानसम्भवः ।
विज्ञानं यत्प्रसादेन गुरुशब्देन कथयते ॥ २६॥
यदङ्घ्रिकमलद्वन्द्वं द्वन्द्वतापनिवारकम् ।
तारकं भवसिन्धोश्च तं गुरुं प्रणमाम्यहम् ॥ २७॥
देही ब्रह्म भवेद्यस्मात् त्वत्कृपार्थं वदामि तत् ।
सर्वपापविशुद्धात्मा श्रीगुरोः पादसेवनात् ॥ २८॥
सर्वतीर्थावगाहस्य सम्प्राप्नोति फलं नरः ।
गुरोः पादोदकं पीत्वा शेषं शिरसि धारयन् ॥ २९॥
शोषणं पापपङ्कस्य दीपनं ज्ञानतेजसः ।
गुरोः पादोदकं सम्यक् संसारार्णवतारकम् ॥ ३०॥
अज्ञानमूलहरणं जन्मकर्मनिवारकम् ।
ज्ञानविज्ञानसिद्ध्यर्थं गुरुपादोदकं पिबेत् ॥ ३१॥
गुरुपादोदकं पानं गुरोरुच्छिष्टभोजनम् ।
गुरुमूर्तेः सदा ध्यानं गुरोर्नाम्नः सदा जपः ॥ ३२॥
स्वदेशिकस्यैव च नामकीर्तनं
भवेदनन्तस्य शिवस्य कीर्तनम् ।
स्वदेशिकस्यैव च नामचिन्तनं
भवेदनन्तस्य शिवस्य चिन्तनम् ॥ ३३॥
यत्पादरेणुर्वै नित्यं कोऽपि संसारवारिधौ ।
सेतुबन्धायते नाथं देशिकं तमुपास्महे ॥ ३४॥
यदनुग्रहमात्रेण शोकमोहौ विनश्यतः ।
तस्मै श्रीदेशिकेन्द्राय नमोऽस्तु परमात्मने ॥ ३५॥
यस्मादनुग्रहं लब्ध्वा महदज्ञान्मुत्सृजेत् ।
तस्मै श्रीदेशिकेन्द्राय नमश्चाभीष्टसिद्धये ॥ ३६॥
काशीक्षेत्रं निवासश्च जान्हवी चरणोदकम् ।
गुरुविश्वेश्वरः साक्षात् तारकं ब्रह्मनिश्चयः ॥ ३७॥
गुरुसेवा गया प्रोक्ता देहः स्यादक्षयो वटः ।
तत्पादं विष्णुपादं स्यात् तत्र दत्तमनन्तकम् ॥ ३८॥
गुरुमूर्ति स्मरेन्नित्यं गुरुर्नाम सदा जपेत् ।
गुरोराज्ञां प्रकुर्वीत गुरोरन्यं न भावयेत् ॥ ३९॥
गुरुवक्त्रे स्थितं ब्रह्म प्राप्यते तत्प्रसादतः ।
गुरोर्ध्यानं सदा कुर्यात् कुलस्त्री स्वपतिं यथा ॥ ४०॥
स्वाश्रमं च स्वजातिं च स्वकीर्तिं पुष्टिवर्धनम् ।
एतत्सर्वं परित्यज्य गुरुमेव समाश्रयेत् ॥ ४१॥
अनन्याश्चिन्तयन्तो ये सुलभं परमं सुखम् ।
तस्मात्सर्वप्रयत्नेन गुरोराराधनं कुरु ॥ ४२॥
गुरुवक्त्रे स्थिता विद्या गुरुभक्त्या च लभ्यते ।
त्रैलोक्ये स्फुटवक्तारो देवर्षिपितृमानवाः ॥ ४३॥
गुकारश्चान्धकारो हि रुकारस्तेज उच्यते ।
अज्ञानग्रासकं ब्रह्म गुरुरेव न संशयः ॥ ४४॥
गुकारो भवरोगः स्यात् रुकारस्तन्निरोधकृत् ।
भवरोगहरत्याच्च गुरुरित्यभिधीयते ॥ ४५॥
गुकारश्च गुणातीतो रूपातीतो रुकारकः ।
गुणरूपविहीनत्वात् गुरुरित्यभिधीयते ॥ ४६॥
गुकारः प्रथमो वर्णो मायादिगुणभासकः ।
रुकारोऽस्ति परं ब्रह्म मायाभ्रान्तिविमोचनम् ॥ ४७॥
एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम् ।
गरुडोरगगन्धर्वसिद्धादिसुरपूजितम् ॥ ४८॥
ध्रुवं देहि मुमुक्षूणां नास्ति तत्त्वं गुरोः परम् ।
गुरोराराधनं कुर्यात् स्वजीवत्वं निवेदयेत् ॥ ४९॥
आसनं शयनं वस्त्रं वाहनं भूषणादिकम् ।
साधकेन प्रदातव्यं गुरुसन्तोषकारणम् ॥ ५०॥
कर्मणा मनसा वाचा सर्वदाऽऽराधयेद्गुरुम् ।
दीर्घदण्डं नमस्कृत्य निर्लज्जौ गुरुसन्निधौ ॥ ५१॥
शरीरमिन्द्रियं प्राणमर्थस्वजनबान्धवान् ।
आत्मदारादिकं सर्वं सद्गुरुभ्यो निवेदयेत् ॥ ५२॥
गुरुरेको जगत्सर्वं ब्रह्मविष्णुशिवात्मकम् ।
गुरोः परतरं नास्ति तस्मात्सम्पूजयेद्गुरुम् ॥ ५३॥
सर्वश्रुतिशिरोरत्नविराजितपदांबुजम् ।
वेदान्तार्थप्रवक्तारं तस्मात् सम्पूजयेद्गुरुम् ॥ ५४॥
यस्य स्मरणमात्रेण ज्ञानमुत्पद्यते स्वयम् ।
स एव सर्वसम्पत्तिः तस्मात्सम्पूजयेद्गुरुम् ॥ ५५॥
कृमिकोटिभिराविष्टं दुर्गन्धकुलदूषितम् ।
अनित्यं दुःखनिलयं देहं विद्धि वरानने ॥ ५६॥
संसारवृक्षमारूढाः पतन्ति नरकार्णवे ।
यस्तानुद्धरते सर्वान् तस्मै श्रीगुरवे नमः ॥ ५७॥
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ।
गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः ॥ ५८॥
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ ५९॥
अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ६०॥
स्थावरं जङ्गमं व्याप्तं यत्किञ्चित्सचराचरम् ।
त्वंपदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ६१॥
चिन्मयं व्यापितं सर्वं त्रैलोक्यं सचराचरम् ।
असित्वं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ६२॥
निमिषन्निमिषार्ध्वाद्वा यद्वाक्यादै विमुच्यते ।
स्वात्मानं शिवमालोक्य तस्मै श्रीगुरवे नमः ॥ ६३॥
चैतन्यं शाश्वतं शांतं व्योमातीतं निरञ्जनम् ।
नादबिन्दुकलातीतं तस्मै श्रीगुरवे नमः ॥ ६४॥
निर्गुणं निर्मलं शान्तं जंगमं स्थिरमेव च ।
व्याप्तं येन जगत्सर्वं तस्मै श्रीगुरवे नमः ॥ ६५॥
स पिता स च मे माता स बन्धुः स च देवता ।
संसारमोहनाशाय तस्मै श्रीगुरवे नमः ॥ ६६॥
यत्सत्त्वेन जगत्सत्यं यत्प्रकाशेन भाति तत् ।
यदानन्देन नन्दन्ति तस्मै श्रीगुरवे नमः ॥ ६७॥
यस्मिन्स्थितमिदं सर्वं भाति यद्भानरूपतः ।
प्रियं पुत्रादि यत्प्रीत्या तस्मै श्रीगुरवे नमः ॥ ६८॥
येनेदं दर्शितं तत्त्वं चित्तचैत्यादिकं तथा ।
जाग्रत्स्वप्नसुषुप्त्यादि तस्मै श्रीगुरवे नमः ॥ ६९॥
यस्य ज्ञानमिदं विश्वं न दृश्यं भिन्नभेदतः ।
सदैकरूपरूपाय तस्मै श्रीगुरवे नमः ॥ ७०॥
यस्य ज्ञातं मतं तस्य मतं यस्य न वेद सः ।
अनन्यभावभावाय तस्मै श्रीगुरवे नमः ॥ ७१॥
यस्मै कारणरूपाय कार्यरूपेण भाति यत् ।
कार्यकारणरूपाय तस्मै श्रीगुरवे नमः ॥ ७२॥
नानारूपमिदं विश्वं न केनाप्यस्ति भिन्नता ।
कार्यकारणरूपाय तस्मै श्रीगुरवे नमः ॥ ७३॥
ज्ञानशक्तिसमारूढतत्त्वमालाविभूषणे ।
भुक्तिमुक्तिप्रदात्रे च तस्मै श्रीगुरवे नमः ॥ ७४॥
अनेकजन्मसम्प्राप्तकर्मबन्धविदाहिने ।
ज्ञानानिलप्रभावेन तस्मै श्रीगुरवे नमः ॥ ७५॥
शोषणं भवसिन्धोश्च दीपनं क्षरसम्पदाम् ।
गुरोः पादोदकं यस्य तस्मै श्रीगुरवे नमः ॥ ७६॥
न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः ।
न गुरोरधिकं ज्ञानं तस्मै श्रीगुरवे नमः ॥ ७७॥
मन्नाथः श्रीजगन्नाथो मद्गुरुः श्रीजगद्गुरुः ।
ममात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः ॥ ७८॥
गुरुरादिरनादिश्च गुरुः परमदैवतम् ।
गुरुमन्त्रसमो नास्ति तस्मै श्रीगुरवे नमः ॥ ७९॥
एक एव परो बन्धुर्विषमे समुपस्थिते ।
गुरुः सकलधर्मात्मा तस्मै श्रीगुरवे नमः ॥ ८०॥
गुरुमध्ये स्थितं विश्वं विश्वमध्ये स्थितो गुरुः ।
गुरुर्विश्वं न चान्योऽस्ति तस्मै श्रीगुरवे नमः ॥ ८१॥
भवारण्यप्रविष्टस्य दिङ्मोहभ्रान्तचेतसः ।
येन सन्दर्शितः पन्थाः तस्मै श्रीगुरवे नमः ॥ ८२॥
तापत्रयाग्नितप्तनामशान्तप्राणिनां भुवि ।
यस्य पादोदकं गङ्गा तस्मै श्रीगुरवे नमः ॥ ८३॥
अज्ञानसर्पदष्टानां प्राणिनां कश्चिकित्सकः ।
सम्यग्ज्ञानमहामन्त्रवेदिनं सद्गुरु विना ॥ ८४॥
हेतवे जगतामेव संसारार्णवसेतवे ।
प्रभवे सर्वविद्यानां शम्भवे गुरवे नमः ॥ ८५॥
ध्यानमूलं गुरोर्मूर्तिः पूजामूलं गुरोः पदम् ।
मन्त्रमूलं गुरोर्वाक्यं मुक्तिमूलं गुरोः कृपा ॥ ८६॥
सप्तसागरपर्यन्तं तीर्थस्नानफलं तु यत् ।
गुरुपादपयोबिन्दोः सहस्रांशेन तत्फलम् ॥ ८७॥
शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ।
लब्ध्वा कुलगुरु सम्यग्गुरुमेव समाश्रयेत् ॥ ८८॥
मधुलुब्धो यथा भृङ्गः पुष्पात्पुष्पान्तरं व्रजेत् ।
ज्ञानलुब्धस्तथा शिष्यो गुरोर्गुर्वन्तरं व्रजेत् ॥ ८९॥
वन्दे गुरुपदद्वन्द्वं वाङ्मनातीतगोचरम् ।
श्वेतरक्तप्रभाभिन्नं शिवशक्त्यात्मकं परम् ॥ ९०॥
गुकारं च गुणातीतं रूकारं रूपवर्जितम् ।
गुणातीतमरूपं च यो दद्यात् स गुरुः स्मृतः ॥ ९१॥
अत्रिनेत्रः शिवः साक्षात् द्विबाहुश्च हरिः स्मृतः ।
योऽचतुर्वदनो ब्रह्मा श्रीगुरुः कथितः प्रिये ॥ ९२॥
अयं मयाञ्जलिर्बद्धो दयासागरसिद्धये ।
यदनुग्रहतो जन्तुश्चित्रसंसारमुक्तिभाक् ॥ ९३॥
श्रीगुरोः परमं रूपं विवेकचक्षुरग्रतः ।
मन्दभाग्या न पश्यन्ति अन्धाः सूर्योदयं यथा ॥ ९४॥
कुलानां कुलकोटीनां तारकस्तत्र तत्क्षणात् ।
अतस्तं सद्गुरु ज्ञात्वा त्रिकालमभिवादयेत् ॥ ९५॥
श्रीनाथचरणद्वन्द्वं यस्यां दिशि विराजते ।
तस्यां दिशि नमस्कुर्याद् भक्त्या प्रतिदिनं प्रिये ॥ ९६॥
साष्टाङ्गप्रणिपातेन स्तुवन्नित्यं गुरुं भजेत् ।
भजनात्स्थैर्यमाप्नोति स्वस्वरूपमयो भवेत् ॥ ९७॥
दोर्भ्यां पद्भ्यां च जानुभ्यामुरसा शिरसा दृशा ।
मनसा वचसा चेति प्रणामोष्टाङ्ग उच्यते ॥ ९८॥
तस्यै दिशे सततमज्जलिरेष नित्यम्
प्रक्षिप्यतां मुखरितैर्मधुरैः प्रसूनैः ।
जागर्ति यत्र भगवान् गुरुचक्रवर्ती
विश्वस्थितिप्रलयनाटकनित्यसाक्षी ॥ ९९॥
अभैस्तैः किमु दीर्घकालविमलैर्व्यादिप्रदैर्दुष्करैः
प्राणायामशतैरनेककरणैर्दुःखात्मकैर्दुर्जयैः ।
यस्मिन्नभ्युदिते विनश्यति बली वायुः स्वयं तत्क्षणात्
प्राप्तुं तत्सहजस्वभावमनिशं सेवेत चैकं गुरुम् ॥ १००॥
ज्ञानं विना मुक्तिपदं लभ्यते गुरुभक्तितः ।
गुरोः प्रसादतो नान्यत् साधनं गुरुमार्गिणाम् ॥ १०१॥
यस्मात्परतरं नास्ति नेति नेतीति वै श्रुतिः ।
मनसा वचसा चैव सत्यमाराधयेद्गुरुम् ॥ १०२॥
गुरोः कृपाप्रसादेन ब्रह्मविष्णुशिवादयः ।
सामर्थ्यमभजन् सर्वे सृष्टिस्थित्यन्तकर्मणि ॥ १०३॥
देवकिन्नरगन्धर्वाः पितृयक्षास्तु तुम्बुरुः ।
मुनयोऽपि न जानन्ति गुरुशुश्रूषणे विधिम् ॥ १०४॥
तार्किकाश्छान्दसाश्चैव दैवज्ञाः कर्मठाः प्रिये ।
लौकिकास्ते न जानन्ति गुरुतत्त्वं निराकुलम् ॥ १०५॥
महाहङ्कारगर्वेण ततोविद्याबलेन च ।
भ्रमन्त्येतस्मिन् संसारे घटीयन्त्रं यथा पुनः ॥ १०६॥
यज्ञिनोऽपि न मुक्ताः स्युः न मुक्ता योगिनस्तथा ।
तापसा अपि नो मुक्ता गुरुतत्त्वात्पराङ्मुखाः ॥ १०७॥
न मुक्तास्तु गन्धर्वाः पितृयक्षास्तु चारणाः ।
ऋषयः सिद्धदेवाद्या गुरुसेवापराङ्मुखाः ॥ १०८॥
॥ इति श्रीस्कंदपुराणे उत्तरखंडे उमामहेश्वर संवादे
श्री गुरुगीतायां प्रथमोऽध्यायः ॥
॥ द्वितीयोऽध्यायः ॥
ध्यानं श्रुणु महादेवि सर्वानन्दप्रदायकम् ।
सर्वसौख्यकरं चैव भुक्तिमुक्तिप्रदायकम् ॥ १०९॥
श्रीमत्परं ब्रह्म गुरुं स्मरामि
श्रीमत्परं ब्रह्म गुरुं भजामि ।
श्रीमत्परं ब्रह्म गुरुं वदामि
श्रीमत्परं ब्रह्म गुरुं नमामि ॥ ११०॥
ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिम्
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् ।
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतम्
भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥ १११॥
हृदम्बुजे कर्णिकमध्यसंस्थे
सिंहासने संस्थितदिव्यमूर्तिम् ।
ध्यायेद्गुरुं चन्द्रकलाप्रकाशम्
सच्चित्सुखाभीष्टवरं दधानम् ॥ ११२॥
श्वेताम्बरं श्वेतविलेपपुष्पम्
मुक्ताविभूषं मुदितं द्विनेत्रम् ।
वामाङ्कपीठस्थितदिव्यशक्तिम्
मन्दस्मितं पूर्णकृपानिधानम् ॥ ११३॥
ज्ञानस्वरूपं निजभावयुक्तम् आनन्दमानन्दकरं प्रसन्नम् ।
योगीन्द्रमीड्यं भवरोगवैद्यम् श्रीमद्गुरुं नित्यमहं नमामि ॥ ११४॥
वन्दे गुरूणां चरणारविन्दम् सन्दर्शितस्वात्मसुखाम्बुधीनाम् ।
जनस्य येषां गुलिकायमानं संसारहालाहलमोहशान्त्यै ॥ ११५॥
यस्मिन् सृष्टिस्थिस्तिध्वंसनिग्रहानुग्रहात्मकम् ।
कृत्यं पञ्चविधं शश्वत् भासते तं गुरुं भजेत् ॥ ११६॥
पादाब्जे सर्वसंसारदावकालानलं स्वके ।
ब्रह्मरन्ध्रे स्थिताम्भोजमध्यस्थं चन्द्रमण्डलम् ॥ ११७॥
अकथादित्रिरेखाब्जे सहस्रदलमण्डले ।
हंसपार्श्वत्रिकोणे च स्मरेत्तन्मध्यगं गुरुम् ॥ ११८॥
नित्यं शुद्धं निराभासं निराकारं निरञ्जनम् ।
नित्यबोधं चिदानन्दं गुरुं ब्रह्म नमाम्यहम् ॥ ११९॥
सकलभुवनसृष्टिः कल्पिताशेषसृष्टिः
निखिलनिगमदृष्टिः सत्पदार्थैकसृष्टिः ।
अतद्गणपरमेष्टिः सत्पदार्थैकदृष्टिः
भवगुणपरमेष्टिर्मोक्षमार्गैकदृष्टिः ॥ १२०॥
सकलभुवनरङ्गस्थापनास्तम्भयष्टिः
सकरुणरसवृष्टिस्तत्त्वमालासमष्टिः ।
सकलसमयसृष्टिस्सच्चिदानन्ददृष्टिः
निवसतु मयि नित्यं श्रीगुरोर्दिव्यदृष्टिः ॥ १२१॥
न गुरोरधिकं न गुरोरधिकं
न गुरोरधिकं न गुरोरधिकम् ।
शिवशासनतः शिवशासनतः
शिवशासनतः शिवशासनतः ॥ १२२॥
इदमेव शिवमिदमेव शिवम् इदमेव शिवमिदमेव शिवम् ।
हरिशासनतो हरिशासनतो हरिशासनतो हरिशासनतः ॥ १२३॥
विदितं विदितं विदितं विदितं
विजनं विजनं विजनं विजनम् ।
विधिशासनतो विधिशासनतो
विधिशासनतो विधिशासनतः ॥ १२४॥
एवंविधं गुरुं ध्यात्वा ज्ञानमुत्पद्यते स्वयम् ।
तदा गुरूपदेशेन मुक्तोऽहमिति भावयेत् ॥ १२५॥
गुरूपदिष्टमार्गेण मनःशुद्धिं तु कारयेत् ।
अनित्यं खण्डयेत्सर्वं यत्किञ्चिदात्मगोचरम् ॥ १२६॥
ज्ञेयं सर्वं प्रतीतं च ज्ञानं च मन उच्यते ।
ज्ञानं ज्ञेयं समं कुर्यान्नान्यः पन्था द्वितीयकः ॥ १२७॥
किमत्र बहुनोक्तेन शास्त्रकोटिशतैरपि ।
दुर्लभा चित्तविश्रान्तिः विना गुरुकृपां पराम् ॥ १२८॥
करुणाखड्गपातेन छित्वा पाशाष्टकं शिशोः ।
सम्यगानन्दजनकः सद्गुरुः सोऽभिधीयते ॥१२९॥
एवं श्रुत्वा महादेवि गुरुनिन्दां करोति यः ।
स याति नरकान् घोरान् यावच्चन्द्रदिवाकरौ ॥ १३०॥
यावत्कल्पान्तको देहस्तावद्देवि गुरुं स्मरेत् ।
गुरुलोपा न कर्तव्यः स्वच्छन्दो यदि वा भवेत् ॥ १३१॥
हुङ्कारेण न वक्तव्यं प्राज्ञशिष्यैः कदाचन ।
गुरोरग्र न वक्तव्यमसत्यं तु कदाचन ॥ १३२॥
गुरुं त्वंकृत्य हुंकृत्य गुरुसान्निध्यभाषणः ।
अरण्ये निर्जले देशे सम्भवेद् ब्रह्मराक्षसः ॥ १३३॥
अद्वैतं भावयेन्नित्यं सर्वावस्थासु सर्वदा ।
कदाचिदपि नो कुर्याद्द्वैतं गुरुसन्निधौ ॥ १३४॥
दृश्यविस्मृतिपर्यन्तं कुर्याद् गुरुपदार्चनम् ।
तादृशस्यैव कैवल्यं न च तद्व्यतिरेकिणः ॥ १३५॥
अपि सम्पूर्णतत्त्वज्ञो गुरुत्यागि भवेद्यदा ।
भवत्येव हि तस्यान्तकाले विक्षेपमुत्कटम् ॥ १३६॥
गुरुकार्यं न लङ्घेत नापृष्ट्वा कार्यमाचरेत् ।
न ह्युत्तिष्ठेद्दिशेऽनत्वा गुरुसद्भ्वशोभितः ॥ १३७॥
गुरौ सति स्वयं देवि परेषां तु कदाचन ।
उपदेशं न वै कुर्यात् तथा चेद्राक्षसो भवेत् ॥ १३८॥
न गुरोराश्रमे कुर्यात् दुष्पानं परिसर्पणम् ।
दीक्षा व्याख्या प्रभुत्वादि गुरोराज्ञां न कारयेत् ॥ १३९॥
नोपाश्रमं च पर्यकं न च पादप्रसारणम् ।
नाङ्गभोगादिकं कुर्यान्न लीलामपरामपि ॥ १४०॥
गुरूणां सदसद्वापि यदुक्तं तन्न लंघयेत् ।
कुर्वन्नाज्ञां दिवा रात्रौ दासवन्निवसेद्गुरो ॥ १४१॥
अदत्तं न गुरोर्द्रव्यमुपभुञ्जीत कर्हिचित् ।
दत्ते च रंकवद्ग्राह्यं प्राणोऽप्येतेन लभ्यते ॥ १४२॥
पादुकासनशय्यादि गुरुणा यदभीष्टितम् ।
नमस्कुर्वीत तत्सर्वं पादाभ्यां न स्पृशेत् क्वचित् ॥ १४३॥
गच्छतः पृष्ठतो गच्छेत् गुरुच्छायां न लंघयेत् ।
नोल्बणं धारयेद्वेषं नालंकारांस्ततोल्बणान् ॥ १४४॥
गुरुनिन्दाकरं दृष्ट्वा धावयेदथ वासयेत् ।
स्थानं वा तत्परित्याज्यं जिह्वाछेदाक्षमो यदि ॥ १४५॥
नोच्छिष्टं कस्यचिद्देयं गुरोराज्ञां न च त्यजेत् ।
कृत्स्नमुच्छिष्टमादाय हविर्वद्भक्षयेत्स्वयम् ॥ १४६॥
नानृतं नाप्रियं चैव न गर्व नापि वा बहु ।
न नियोगधरं ब्रूयात् गुरोराज्ञां विभावयेत् ॥ १४७॥
प्रभो देवकुलेशानां स्वामिन् राजन् कुलेश्वर ।
इति सम्बोधनैर्भीतो सच्चरेद्गुरुसन्निधौ ॥ १४८॥
मुनिभिः पन्नगैर्वापि सुरैर्वा शापितो यदि ।
कालमृत्युभयाद्वापि गुरुः संत्राति पार्वति ॥ १४९॥
अशक्ता हि सुराद्याश्च ह्यशक्ताः मुनयस्तथा ।
गुरुशापोपपन्नस्य रक्षणाय च कुत्रचित् ॥ १५०॥
मन्त्रराजमिदं देवि गुरुरित्यक्षरद्वयम् ।
स्मृतिवेदपुराणानां सारमेव न संशयः ॥ १५१॥
सत्कारमानपूजार्थं दण्डकाषयधारणः ।
स संन्यासी न वक्तव्यः संन्यासी ज्ञानतत्परः ॥ १५२॥
विजानन्ति महावाक्यं गुरोश्चरण सेवया ।
ते वै संन्यासिनः प्रोक्ता इतरे वेषधारिणाः ॥ १५३॥
नित्यं ब्रह्म निराकारं निर्गुणं सत्यचिद्धनम् ।
यः साक्षात्कुरुते लोके गुरुत्वं तस्य शोभते ॥ १५४॥
गुरुप्रसादतः स्वात्मन्यात्मारामनिरीक्षणात् ।
समता मुक्तिमार्गेण स्वात्मज्ञानं प्रवर्तते ॥ १५५॥
आब्रह्मस्तम्भपर्यन्तं परमात्मस्वरूपकम् ।
स्थावरं जंगमं चैव प्रणमामि जगन्मयम् ॥ १५६॥
वन्देहं सच्चिदानन्दं भावातीतं जगद्गुरुम् ।
नित्यं पूर्णं निराकारं निर्गुणं स्वात्मसंस्थितम् ॥ १५७॥
परात्परतरं ध्यायेन्नित्यमानन्दकारकम् ।
हृदयाकाशमध्यस्थं शुद्धस्फटिकसन्निभम् ॥ १५८॥
स्फाटिके स्फाटिकं रूपं दर्पणे दर्पणो यथा ।
तथात्मनि चिदाकारमानन्दं सोऽहमित्युत ॥ १५९॥
अंगुष्ठमात्रं पुरुषं ध्यायेच्च चिन्मयं हृदि ।
तत्र स्फुरति यो भावः श्रुणु तत्कथयामि ते ॥ १६०॥
अजोऽहममरोऽहं च ह्यनादिनिधनो ह्यहम् ।
अविकारश्चिदानन्दो ह्यणीयान्महतो महान् ॥ १६१॥
अपूर्वमपरं नित्यं स्वयंज्योतिर्निरामयम् ।
विरजं परमाकाशं ध्रुवमानन्दमव्ययम् ॥ १६२॥
अगोचरं तथाऽगम्यं नामरूपविवर्जितम् ।
निःशब्दं तु विजानीयात्स्वभावाद्ब्रह्म पार्वति ॥ १६३॥
यथा गन्धस्वभावावत्वं कर्पूरकुसुमादिषु ।
शीतोष्णत्वस्वभावत्वं तथा ब्रह्मणि शाश्वतम् ॥ १६४॥
यथा निजस्वभावेन कुण्डलकटकादयः ।
सुवर्णत्वेन तिष्ठन्ति तथाऽहं ब्रह्म शाश्वतम् ॥ १६५॥
स्वयं तथाविधो भूत्वा स्थातव्यं यत्रकुत्रचित् ।
कीटो भृङ्ग इव ध्यानाद्यथा भवति तादृशः ॥ १६६॥
गुरुध्यानं तथा कृत्वा स्वयं ब्रह्ममयो भवेत् ।
पिण्डे पदे तथा रूपे मुक्तास्ते नात्र संशयः ॥ १६७॥
श्रीपार्वती उवाच ।
पिण्डं किं तु महादेव पदं किं समुदाहृतम् ।
रूपातीतं च रूपं किं एतदाख्याहि शंकर ॥ १६८॥
श्रीमहादेव उवाच ।
पिण्डं कुण्डलिनी शक्तिः पदं हंसमुदाहृतम् ।
रूपं बिन्दुरिति ज्ञेयं रूपातीतं निरञ्जनम् ॥ १६९॥
पिण्डे मुक्ताः पदे मुक्ता रूपे मुक्ता वरानने ।
रूपातीते तु ये मुक्तास्ते मुक्ता नात्र संशयः ॥ १७०॥
गुरुर्ध्यानेनैव नित्यं देही ब्रह्ममयो भवेत् ।
स्थितश्च यत्र कुत्रापि मुक्तोऽसौ नात्र संशयः ॥ १७१॥
ज्ञानं स्वानुभवः शान्तिर्वैराग्यं वक्तृता धृतिः ।
षड्गुणैश्वर्ययुक्तो हि भगवान् श्रीगुरुः प्रिये ॥ १७२॥
गुरुः शिवो गुरुर्देवो गुरुर्बन्धुः शरीरिणाम् ।
गुरुरात्मा गुरुर्जीवो गुरोरन्यन्न विद्यते ॥ १७३॥
एकाकी निस्पृहः शान्तश्चिन्तासूयादिवर्जितः ।
बाल्यभावेन यो भाति ब्रह्मज्ञानी स उच्यते ॥ १७४॥
न सुखं वेदशास्त्रेषु न सुखं मन्त्रयन्त्रके ।
गुरोः प्रसादादन्यत्र सुखं नास्ति महीतले ॥ १७५॥
चार्वाकवैष्णवमते सुखं प्राभाकरे न हि ।
गुरोः पादान्तिके यद्वत्सुखं वेदान्तसम्मतम् ॥ १७६॥
न तत्सुखं सुरेन्द्रस्य न सुखं चक्रवर्तिनाम् ।
यत्सुखं वीतरागस्य मुनेरेकान्तवासिनः ॥ १७७॥
नित्यं ब्रह्मरसं पीत्वा तृप्तो यः परमात्मनि ।
इन्द्रं च मन्यते तुच्छं नृपाणां तत्र का कथा ॥ १७८॥
यतः परमकैवल्यं गुरुमार्गेण वै भवेत् ।
गुरुभक्तिरतः कार्या सर्वदा मोक्षकांक्षिभिः ॥ १७९॥
एक एवाद्वितीयोऽहं गुरुवाक्येन निश्चितः ।
एवमभ्यस्यता नित्यं न सेव्यं वै वनान्तरम् ॥ १८०॥
अभ्यासान्निमिषेणैवं समाधिमधिगच्छति ।
आजन्मजनितं पापं तत्क्षणादेव नश्यति ॥ १८१॥
किमावाहनमव्यक्तै व्यापकं किं विसर्जनम् ।
अमूर्तो च कथं पूजा कथं ध्यानं निरामये ॥ १८२॥
गुरुर्विष्णुः सत्त्वमयो राजसश्चतुराननः ।
तामसो रुद्ररूपेण सृजत्यवति हन्ति च ॥ १८३॥
स्वयं ब्रह्ममयो भूत्वा तत्परं नावलोकयेत् ।
परात्परतरं नान्यत् सर्वगं च निरामयम् ॥ १८४॥
तस्यावलोकनं प्राप्य सर्वसंगविवर्जितः ।
एकाकी निस्पृहः शान्तः स्थातव्यं तत्प्रसादतः ॥ १८५॥
लब्धं वाऽथ न लब्धं वा स्वल्पं वा बहुलं तथा ।
निष्कामेनैव भोक्तव्यं सदा संतुष्टमानसः ॥ १८६॥
सर्वज्ञपदमित्याहुर्देही सर्वमयो भुवि ।
सदाऽनन्दः सदा शान्तो रमते यत्रकुत्रचित् ॥ १८७॥
यत्रैव तिष्ठते सोऽपि स देशः पुण्यभाजनः ।
मुक्तस्य लक्षणं देवि तवाग्रे कथितं मया ॥ १८८॥
उपदेशस्त्वयं देवि गुरुमार्गेण मुक्तिदः ।
गुरुभक्तिस्तथात्यान्ता कर्तव्या वै मनीषिभिः ॥ १८९॥
नित्ययुक्ताश्रयः सर्वो वेदकृत्सर्ववेदकृत् ।
स्वपरज्ञानदाता च तं वन्दे गुरुमीश्वरम् ॥ १९०॥
यद्यप्यधीता निगमाः षडंगा आगमाः प्रिये ।
अध्यात्मादीनि शास्त्राणि ज्ञानं नास्ति गुरुं विना ॥ १९१॥
शिवपूजारतो वापि विष्णुपूजारतोऽथवा ।
गुरुतत्त्वविहीनश्चेत्तत्सर्वं व्यर्थमेव हि ॥ १९२॥
शिवस्वरूपमज्ञात्वा शिवपूजा कृता यदि ।
सा पूजा नाममात्रं स्याच्चित्रदीप इव प्रिये ॥ १९३॥
सर्वं स्यात्सफलं कर्म गुरुदीक्षाप्रभावतः ।
गुरुलाभात्सर्वलाभो गुरुहीनस्तु बालिशः ॥ १९४॥
गुरुहीनः पशुः कीटः पतंगो वक्तुमर्हति ।
शिवरूपं स्वरूपं च न जानाति यतस्स्वयम् ॥ १९५॥
तस्मात्सर्वप्रयत्नेन सर्वसंगविवर्जितः ।
विहाय शास्त्रजालानि गुरुमेव समाश्रयेत् ॥ १९६॥
निरस्तसर्वसन्देहो एकीकृत्य सुदर्शनम् ।
रहस्यं यो दर्शयति भजामि गुरुमीश्वरम् ॥ १९७॥
ज्ञानहीनो गुरुस्त्याज्यो मिथ्यावादि विडम्बकः ।
स्वविश्रान्तिं न जानाति परशान्तिं करोति किम् ॥ १९८॥
शिलायाः किं परं ज्ञानं शिलासंघप्रतारणे ।
स्वयं तर्तुं न जानाति परं निस्तारयेत् कथम् ॥ १९९॥
न वन्दनीयास्ते कष्टं दर्शनाद्भ्रान्तिकारकाः ।
वर्जयेतान् गुरुन् दूरे धीरानेव समाश्रयेत् ॥ २००॥
पाषण्डिनः पापरताः नास्तिका भेदबुद्धयः ।
स्त्रीलम्पटा दुराचाराः कृतघ्ना बकवृत्तयः ॥ २०१॥
कर्मभ्रष्टाः क्षमानष्टा निन्द्यतर्केश्च वादिनः ।
कामिनः क्रोधिनश्चैव हिंस्राश्चण्डाः शठास्तथा ॥ २०२॥
ज्ञानलुप्ता न कर्तव्या महापापास्तथा प्रिये ।
एभ्यो भिन्नो गुरुः सेव्यः एकभक्त्या विचार्य च ॥ २०३॥
शिष्यादन्यत्र देवेशि न वदेद्यस्य कस्यचित् ।
नराणां च फलप्राप्तौ भक्तिरेव हि कारणम् ॥ २०४॥
गूढो दृढश्च प्रीतश्च मौनेन सुसमाहितः ।
सकृत्कामगतौ वापि पञ्चधा गुरुरीरितः ॥ २०५॥
सर्वं गुरुमुखाल्लब्धं सफलं पापनाशनम् ।
यद्यदात्महितं वस्तु तत्तद्द्रव्यं न वञ्चयेत् ॥ २०६॥
गुरुदेवार्पणं वस्तु तेन तुष्टोऽस्मि सुव्रते ।
श्रीगुरोः पादुकां मुद्रां मूलमन्त्रं च गोपयेत् ॥ २०७॥
नतास्मि ते नाथ पदारविन्दं
बुद्धीन्द्रियाप्राणमनोवचोभिः ।
यच्चिन्त्यते भावित आत्मयुक्तौ
मुमुक्षिभिः कर्ममयोपशान्तये ॥ २०८॥
अनेन यद्भवेत्कार्यं तद्वदामि तव प्रिये ।
लोकोपकारकं देवि लौकिकं तु विवर्जयेत् ॥ २०९॥
लौकिकाद्धर्मतो याति ज्ञानहीनो भवार्णवे ।
ज्ञानभावे च यत्सर्वं कर्म निष्कर्म शाम्यति ॥ २१०॥
इमां तु भक्तिभावेन पठेद्वै श्रुणुयादपि ।
लिखित्वा यत्प्रदानेन तत्सर्वं फलमश्नुते ॥ २११॥
गुरुगीतामिमां देवि हृदि नित्यं विभावय ।
महाव्याधिगतैर्दुःखैः सर्वदा प्रजपेन्मुदा ॥ २१२॥
गुरुगीताक्षरैकैकं मन्त्रराजमिदं प्रिये ।
अन्ये च विविधा मन्त्राः कलां नार्हन्ति षोडशीम् ॥ २१३॥
अनन्त फलमाप्नोति गुरुगीता जपेन तु ।
सर्वपापहरा देवि सर्वदारिद्र्यनाशिनी ॥ २१४॥
अकालमृत्युहर्त्री च सर्वसंकटनाशिनी ।
यक्षराक्षसभूतादिचोरव्याघ्रविघातिनी ॥ २१५॥
सर्वोपद्रवकुष्ठादिदुष्टदोषनिवारिणी ।
यत्फलं गुरुसान्निध्यात्तत्फलं पठनाद्भवेत् ॥ २१६॥
महाव्याधिहरा सर्वविभूतेः सिद्धिदा भवेत् ।
अथवा मोहने वश्ये स्वयमेव जपेत्सदा ॥ २१७॥
कुशदूर्वासने देवि ह्यासने शुभ्रकम्बले ।
उपविश्य ततो देवि जपेदेकाग्रमानसः ॥ २१८॥
शुक्लं सर्वत्र वै प्रोक्तं वश्ये रक्तासनं प्रिये ।
पद्मासने जपेन्नित्यं शान्तिवश्यकरं परम् ॥ २१९॥
वस्त्रासने च दारिद्र्यं पाषाणे रोगसम्भवः ।
मेदिन्यां दुःखमाप्नोति काष्ठे भवति निष्फलम् ॥ २२०॥
कृष्णाजिने ज्ञानसिद्धिर्मोक्षश्रीर्व्याघ्रचर्मणि ।
कुशासने ज्ञानसिद्धिः सर्वसिद्धिस्तु कम्बले ॥ २२१॥
आग्नेय्यां कर्षणं चैव वायव्यां शत्रुनाशनम् ।
नैरृत्यां दर्शनं चैव ईशान्यां ज्ञानमेव च ॥ २२२॥
उदङ्मुखः शान्तिजप्ये वश्ये पूर्वमुखस्तथा ।
याम्ये तु मारणं प्रोक्तं पश्चिमे च धनागमः ॥ २२३॥
मोहनं सर्वभूतानां बन्धमोक्षकरं परम् ।
देवराज्ञां प्रियकरं राजानं वशमानयेत् ॥ २२४॥
मुखस्तम्भकरं चैव गुणानां च विवर्धनम् ।
दुष्कर्मनाशनं चैव तथा सत्कर्मसिद्धिदम् ॥ २२५॥
प्रसिद्धं साधयेत्कार्यं नवग्रहभयापहम् ।
दुःस्वप्ननाशनं चैव सुस्वप्नफलदायकम् ॥ २२६॥
मोहशान्तिकरं चैव बन्धमोक्षकरं परम् ।
स्वरूपज्ञाननिलयं गीताशास्त्रमिदं शिवे ॥ २२७॥
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चयम् ।
नित्यं सौभाग्यदं पुण्यं तापत्रयकुलापहम् ॥ २२८॥
सर्वशान्तिकरं नित्यं तथा वन्ध्या सुपुत्रदम् ।
अवैधव्यकरं स्त्रीणां सौभाग्यस्य विवर्धनम् ॥ २२९॥
आयुरारोग्यमैश्वर्यं पुत्रपौत्रप्रवर्धनम् ।
निष्कामजापी विधवा पठेन्मोक्षमवाप्नुयात् ॥ २३०॥
अवैधव्यं सकामा तु लभते चान्यजन्मनि ।
सर्वदुःखमयं विघ्नं नाशयेत्तापहारकम् ॥ २३१॥
सर्वपापप्रशमनं धर्मकामार्थमोक्षदम् ।
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ॥ २३२॥
काम्यानां कामधेनुर्वै कल्पिते कल्पपादपः ।
चिन्तामणिश्चिन्तितस्य सर्वमंगलकारकम् ॥ २३३॥
लिखित्वा पूजयेद्यस्तु मोक्षश्रियमवाप्नुयात् ।
गुरूभक्तिर्विशेषेण जायते हृदि सर्वदा ॥ २३४॥
जपन्ति शाक्ताः सौराश्च गाणपत्याश्च वैष्णवाः ।
शैवाः पाशुपताः सर्वे सत्यं सत्यं न संशयः ॥ २३५॥
॥ इति श्रीस्कंदपुराणे उत्तरखंडे उमामहेश्वर संवादे
श्री गुरुगीतायां द्वितीयोऽध्यायः ॥
॥ तृतीयः अध्यायः ॥
अथ काम्यजपस्थानं कथयामि वरानने ।
सागरान्ते सरितीरे तीर्थे हरिहरालये ॥ २३६॥
शक्तिदेवालये गोष्ठे सर्वदेवालये शुभे ।
वटस्य धात्र्या मूले वा मठे वृन्दावने तथा ॥ २३७॥
पवित्रे निर्मले देशे नित्यानुष्ठानतोऽपि वा ।
निर्वेदनेन मौनेन जपमेतत् समारभेत् ॥ २३८॥
जाप्येन जयमाप्नोति जपसिद्धिं फलं तथा ।
हीनं कर्म त्यजेत्सर्वं गर्हितस्थानमेव च ॥ २३९॥
श्मशाने बिल्वमूले वा वटमूलान्तिके तथा ।
सिद्ध्यन्ति कानके मूले चूतवृक्षस्य सन्निधौ ॥ २४०॥
पीतासनं मोहने तु ह्यसितं चाभिचारिके ।
ज्ञेयं शुक्लं च शान्त्यर्थं वश्ये रक्तं प्रकीर्तितम् ॥ २४१॥
जपं हीनासनं कुर्वत् हीनकर्मफलप्रदम् ।
गुरुगीतां प्रयाणे वा संग्रामे रिपुसंकटे ॥ २४२॥
जपन् जयमवाप्नोति मरणे मुक्तिदायिका ।
सर्वकर्माणि सिद्ध्यन्ति गुरुपुत्रे न संशयः ॥ २४३॥
गुरुमन्त्रो मुखे यस्य तस्य सिद्ध्यन्ति नान्यथा ।
दीक्षया सर्वकर्माणि सिद्ध्यन्ति गुरुपुत्रके ॥ २४४॥
भवमूलविनाशाय चाष्टपाशनिवृत्तये ।
गुरुगीताम्भसि स्नानं तत्त्वज्ञः कुरुते सदा ॥ २४५॥
स एवं सद्गुरुः साक्षात् सदसद्ब्रह्मवित्तमः ।
तस्य स्थानानि सर्वाणि पवित्राणि न संशयः ॥ २४६॥
सर्वशुद्धः पवित्रोऽसौ स्वभावाद्यत्र तिष्ठति ।
तत्र देवगणाः सर्वे क्षेत्रपीठे चरन्ति च ॥ २४७॥
आसनस्थाः शयाना वा गच्छन्तस्तिष्ठन्तोऽपि वा ।
अश्वारूढा गजारूढाः सुषुप्ता जाग्रतोऽपि वा ॥ २४८॥
शुचिभूता ज्ञानवन्तो गुरुगीता जपन्ति ये ।
तेषां दर्शनसंस्पर्षात् दिव्यज्ञानं प्रजायते ॥ २४९॥
समुद्रे वै यथा तोयं क्षीरे क्षीरं जले जलम् ।
भिन्ने कुम्भे यथाकाशं तथाऽऽत्मा परमात्मनि ॥ २५०॥
तथैव ज्ञानवान् जीवः परमात्मनि सर्वदा ।
ऐक्येन रमते ज्ञानी यत्र कुत्र दिवानिशम् ॥ २५१॥
एवंविधो महायुक्तः सर्वत्र वर्तते सदा ।
तस्मात्सर्वप्रकारेण गुरुभक्तिं समाचरेत् ॥ २५२॥
गुरुसन्तोषणादेव मुक्तो भवति पार्वति ।
अणिमादिषु भोक्तृत्वं कृपया देवि जायते ॥ २५३॥
साम्येन रमते ज्ञानी दिवा वा यदि वा निशि ।
एवंविधो महामौनी त्रैलोक्यसमतां व्रजेत् ॥ २५४॥
अथ संसारिणः सर्वे गुरुगीताजपेन तु ।
सर्वान् कामांस्तु भुञ्जन्ति त्रिसत्यं मम भाषितम् ॥ २५५॥
सत्यं सत्यं पुनः सत्यं धर्मसारं मयोदितम् ।
गुरुगीतासमं स्तोत्रं नास्ति तत्त्वं गुरोः परम् ॥ २५६॥
गुरुर्देवो गुरुर्धर्मो गुरौ निष्ठा परं तपः ।
गुरोः परतरं नास्ति त्रिवारं कथयामि ते ॥ २५७॥
धन्या माता पिता धन्यो गोत्रं धन्यं कुलोद्भवः ।
धन्या च वसुधा देवि यत्र स्याद्गुरुभक्तता ॥ २५८॥
आकल्पजन्म कोटीनां यज्ञव्रततपःक्रियाः ।
ताः सर्वाः सफला देवि गुरूसन्तोषमात्रतः ॥ २५९॥
शरीरमिन्द्रियं प्राणश्चार्थः स्वजनबन्धुता ।
मातृकुलं पितृकुलं गुरुरेव न संशयः ॥ २६०॥
मन्दभाग्या ह्यशक्ताश्च ये जना नानुमन्वते ।
गुरुसेवासु विमुखाः पच्यन्ते नरकेशुचौ ॥ २६१॥
विद्या धनं बलं चैव तेषां भाग्यं निरर्थकम् ।
येषां गुरूकृपा नास्ति अधो गच्छन्ति पार्वती ॥ २६२॥
ब्रह्मा विष्णुश्च रुद्रश्च देवताः पितृकिन्नराः ।
सिद्धचारणयक्षाश्च अन्ये च मुनयो जनाः ॥ २६३॥
गुरुभावः परं तीर्थमन्यर्थं निरर्थकम् ।
सर्वतीर्थमयं देवि श्रीगुरोश्चरणाम्बुजम् ॥ २६४॥
कन्याभोगरता मन्दाः स्वकान्तायाः पराङ्मुखाः ।
अतः परं मया देवि कथितन्न मम प्रिये ॥ २६५॥
इदं रहस्यमस्पष्टं वक्तव्यं च वरानने ।
सुगोप्यं च तवाग्रे तु ममात्मप्रीतये सति ॥ २६६॥
स्वामिमुख्यगणेशाद्यान् वैष्णवादींश्च पार्वति ।
न वक्तव्यं महामाये पादस्पर्शं कुरुष्व मे ॥ २६७॥
अभक्ते वञ्चके धूर्ते पाषण्डे नास्तिकादिषु ।
मनसाऽपि न वक्तव्या गुरुगीता कदाचन ॥ २६८॥
गुरवो बहवः सन्ति शिष्यवित्तापहारकाः ।
तमेकं दुर्लभं मन्ये शिष्यहृत्तापहारकम् ॥ २६९॥
चातुर्यवान् विवेकी च अध्यात्मज्ञानवान् शुचिः ।
मानसं निर्मलं यस्य गुरुत्वं तस्य शोभते ॥ २७०॥
गुरवो निर्मलाः शान्ताः साधवो मितभाषिणः ।
कामक्रोधविनिर्मुक्ताः सदाचाराः जितेन्द्रियाः ॥ २७१॥
सूचकादिप्रभेदेन गुरवो बहुधा स्मृताः ।
स्वयं सम्यक् परीक्ष्याथ तत्त्वनिष्ठं भजेत्सुधीः ॥ २७२॥
वर्णजालमिदं तद्वद्बाह्यशास्त्रं तु लौकिकम् ।
यस्मिन् देवि समभ्यस्तं स गुरुः सुचकः स्मृतः ॥ २७३॥
वर्णाश्रमोचितां विद्यां धर्माधर्मविधायिनीम् ।
प्रवक्तारं गुरुं विद्धि वाचकं त्विति पार्वति ॥ २७४॥
पञ्चाक्षर्यादिमन्त्राणामुपदेष्टा तु पार्वति ।
स गुरुर्बोधको भूयादुभयोरयमुत्तमः ॥ २७५॥
मोहमारणवश्यादितुच्छमन्त्रोपदर्शिनम् ।
निषिद्धगुरुरित्याहुः पण्डितास्तत्त्वदर्शिनः ॥ २७६॥
अनित्यमिति निर्दिश्य संसारं संकटालयम् ।
वैराग्यपथदर्शी यः स गुरुर्विहितः प्रिये ॥ २७७॥
तत्त्वमस्यादिवाक्यानामुपदेष्टा तु पार्वति ।
कारणाख्यो गुरुः प्रोक्तो भवरोगनिवारकः ॥ २७८॥
सर्वसन्देहसन्दोहनिर्मूलनविचक्षणः ।
जन्ममृत्युभयघ्नो यः स गुरुः परमो मतः ॥ २७९॥
बहुजन्मकृतात् पुण्याल्लभ्यतेऽसौ महागुरुः ।
लब्ध्वाऽमुं न पुनर्याति शिष्यः संसारबन्धनम् ॥ २८०॥
एवं बहुविधा लोके गुरवः सन्ति पार्वति ।
तेषु सर्वप्रयत्नेन सेव्यो हि परमो गुरुः ॥ २८१॥
निषिद्धगुरुशिष्यस्तु दुष्टसंकल्पदूषितः ।
ब्रह्मप्रलयपर्यन्तं न पुनर्याति मर्त्यताम् ॥ २८२॥
एवं श्रुत्वा महादेवी महादेववचस्तथा ।
अत्यन्तविह्वलमना शंकरं परिपृच्छति ॥ २८३॥
पार्वत्युवाच ।
नमस्ते देवदेवात्र श्रोतव्यं किंचिदस्ति मे ।
श्रुत्वा त्वद्वाक्यमधुना भृशं स्याद्विह्वलं मनः ॥ २८४॥
स्वयं मूढा मृत्युभीताः सुकृताद्विरतिं गताः ।
दैवान्निषिद्धगुरुगा यदि तेषां तु का गतिः ॥ २८५॥
श्री महादेव उवाच ।
श्रुणु तत्त्वमिदं देवि यदा स्याद्विरतो नरः ।
तदाऽसावधिकारीति प्रोच्यते श्रुतिमस्तकैः ॥ २८६॥
अखण्डैकरसं ब्रह्म नित्यमुक्तं निरामयम् ।
स्वस्मिन् सन्दर्शितं येन स भवेदस्यं देशिकः ॥ २८७॥
जलानां सागरो राजा यथा भवति पार्वति ।
गुरूणां तत्र सर्वेषां राजायं परमो गुरुः ॥ २८८॥
मोहादिरहितः शान्तो नित्यतृप्तो निराश्रयः ।
तृणीकृतब्रह्मविष्णुवैभवः परमो गुरुः ॥ २८९॥
सर्वकालविदेशेषु स्वतन्त्रो निश्चलस्सुखी ।
अखण्डैकरसास्वादतृप्तो हि परमो गुरुः ॥ २९०॥
द्वैताद्वैतविनिर्मुक्तः स्वानुभूतिप्रकाशवान् ।
अज्ञानान्धतमश्छेत्ता सर्वज्ञः परमो गुरुः ॥ २९१॥
यस्य दर्शनमात्रेण मनसः स्यात् प्रसन्नता ।
स्वयं भूयात् धृतिश्शान्तिः स भवेत् परमो गुरुः ॥ २९२॥
सिद्धिजालं समालोक्य योगिनां मन्त्रवादिनाम् ।
तुच्छाकारमनोवृत्तिर्यस्यासौ परमो गुरुः ॥ २९३॥
स्वशरीरं शवं पश्यन् तथा स्वात्मानमद्वयम् ।
यः स्त्रीकनकमोहघ्नः स भवेत् परमो गुरुः ॥ २९४॥
मौनी वाग्मीति तत्त्वज्ञो द्विधाभूच्छृणु पार्वति ।
न कश्चिन्मौनिना लाभो लोकेऽस्मिन्भवति प्रिये ॥ २९५॥
वाग्मी तूत्कटसंसारसागरोत्तारणक्षमः ।
यतोसौ संशयच्छेत्ता शास्त्रयुक्त्यनुभूतिभिः ॥ २९६॥
गुरुनामजपाद्देवि बहुजन्मर्जितान्यपि ।
पापानि विलयं यान्ति नास्ति सन्देहमण्वपि ॥ २९७॥
श्रीगुरोस्सदृशं दैवं श्रीगुरोसदृशः पिता ।
गुरुध्यानसमं कर्म नास्ति नास्ति महीतले ॥ २९८॥
कुलं धनं बलं शास्त्रं बान्धवास्सोदरा इमे ।
मरणे नोपयुज्यन्ते गुरुरेको हि तारकः ॥ २९९॥
कुलमेव पवित्रं स्यात् सत्यं स्वगुरुसेवया ।
तृप्ताः स्युस्सकला देवा ब्रह्माद्या गुरुतर्पणात् ॥ ३००॥
गुरुरेको हि जानाति स्वरूपं देवमव्ययम् ।
तज्ज्ञानं यत्प्रसादेन नान्यथा शास्त्रकोटिभिः ॥ ३०१॥
स्वरूपज्ञानशून्येन कृतमप्यकृतं भवेत् ।
तपोजपादिअक्ं देवि सकलं बालजल्पवत् ॥ ३०२॥
शिवं केचिद्धरिं केचिद्विधिं केचित्तु केचन ।
शक्तिं देवमिति ज्ञात्वा विवदन्ति वृथा नराः ॥ ३०३॥
न जानन्ति परं तत्त्वं गुरूदीक्षापराङ्मुखाः ।
भ्रान्ताः पशुसमा ह्येते स्वपरिज्ञानवर्जिताः ॥ ३०४॥
तस्मात्कैवल्यसिद्ध्यर्थं गुरूमेव भजेत्प्रिये ।
गुरूं विना न जानन्ति मूढास्तत्परमं पदम् ॥ ३०५॥
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते सर्वकर्माणि गुरोः करूणया शिवे ॥ ३०६॥
कृताया गुरुभक्तेस्तु वेदशास्त्रानुसारतः ।
मुच्यते पातकाद्घोराद्गुरूभक्तो विशेषतः ॥ ३०७॥
दुःसंगं च परित्यज्य पापकर्म परित्यजेत् ।
चित्तचिह्नमिदं यस्य दीक्षा विधीयते ॥ ३०८॥
चित्तत्यागनियुक्तश्च क्रोधगर्वविवर्जितः ।
द्वैतभावपरित्यागी तस्य दीक्षा विधीयते ॥ ३०९॥
एतल्लक्षण संयुक्तं सर्वभूतहिते रतम् ।
निर्मलं जीवितं यस्य तस्य दीक्षा विधीयते ॥ ३१०॥
क्रियया चान्वितं पूर्वं दीक्षाजालं निरूपितम् ।
मन्त्रदीक्षाभिर्र्ध सांगोपांग शिवोदितम् ॥ ३११॥
क्रियया स्याद्विरहितां गुरूसायुज्यदायिनीम् ।
गुरुदीक्षां विना को वा गुरुत्वाचारपालकः ॥ ३१२॥
शक्तो न चापि शक्तो वा दैशिकांघ्रिसमाश्रयात् ।
तस्य जन्मास्ति सफलं भोगमोक्षफलप्रदम् ॥ ३१३॥
अत्यन्तचित्तपक्वस्य श्रद्धाभक्तियुतस्य च ।
प्रवक्तव्यमिदं देवि ममात्मप्रीतये सदा ॥ ३१४॥
रहस्यं सर्वशास्त्रेषु गीताशास्त्रदं शिवे ।
सम्यक्परीक्ष्य वक्तव्यं साधकस्य मद्यात्मनः ॥ ३१५॥
सत्कर्मपरिपाकाच्च चित्तशुद्धस्य धीमतः ।
साधकस्यैव वक्तव्या गुरुगीता प्रयत्नतः ॥ ३१६॥
नास्तिकाय कृतघ्नाय दाम्भिकाय शठाय च ।
अभक्ताय विभक्ताय न वाच्येयं कदाचन ॥ ३१७॥
स्त्रीलोलुपाय मूर्खाय कामोपहतचेतसे ।
निन्दकाय न वक्तव्या गुरुगीता स्वभावतः ॥ ३१८॥
सर्व पापप्रशमनं सर्वोपद्रववारकम् ।
जन्ममृत्युहरं देवि गीताशास्त्रमिदं शिवे ॥ ३१९॥
श्रुतिसारमिदं देवि सर्वमुक्तं समासतः ।
नान्यथा सद्गतिः पुंसां विना गुरुपदं शिवे ॥ ३२०॥
बहुजन्मकृतात्पादयमर्थो न रोचते ।
जन्मबन्धनिवृत्यर्थं गुरुमेव भजेत्सदा ॥ ३२१॥
अहमेव जगत्सर्वमहमेव परं पदम् ।
एतज्ज्ञानं यतो भूयात्तं गुरुं प्रणमाम्यहम् ॥ ३२२॥
अलं विकल्पैरहमेव केवलो मयि स्थितं विश्वमिदं चराचरम् ।
इदं रहस्यं मम येन दर्शितम् स वन्दनीयो गुरुरेव केवलम् ॥ ३२३॥
यस्यान्तं नादिमध्यं न हि करचरणं नामगोत्रं न सूत्रम् ।
नो जातिर्नैव वर्णो न भवति पुरुषो नो नपुंसं न च स्त्री ॥ ३२४॥
नाकारं नो विकारं न हि जनिमरणं नास्ति पुण्यं न पापम् ।
नोऽतत्त्वं तत्त्वमेकं सहजसमरसं सद्गुरुं तं नमामि ॥ ३२५॥
नित्याय सत्याय चिदात्मकाय नव्याय भव्याय परात्पराय ।
शुद्धाय बुद्धाय निरञ्जनाय नमोऽस्य नित्यं गुरुशेखराय ॥ ३२६॥
सच्चिदानन्दरूपाय व्यापिने परमात्मने ।
नमः श्रीगुरुनाथाय प्रकाशानन्दमूर्तये ॥ ३२७॥
सत्यानन्दस्वरूपाय बोधैकसुखकारिणे ।
नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे ॥ ३२८॥
नमस्ते नाथ भगवन् शिवाय गुरुरूपिणे ।
विद्यावतारसंसिद्ध्यै स्वीकृतानेकविग्रह ॥ ३२९॥
नवाय नवरूपाय परमार्थैकरूपिणे ।
सर्वाज्ञानतमोभेदभानवे चिद्घनाय ते ॥ ३३०॥
स्वतन्त्राय दयाक्लृप्तविग्रहाय शिवात्मने ।
परतन्त्राय भक्तानां भव्यानां भव्यरूपिणे ॥ ३३१॥
विवेकिनां विवेकाय विमर्शाय विमर्शिनाम् ।
प्रकाशिनां प्रकाशाय ज्ञानिनां ज्ञानरूपिणे ॥ ३३२॥
पुरस्तत्पार्श्वयोः पृष्ठे नमस्कुर्यादुपर्यधः ।
सदा मच्चित्तरूपेण विधेहि भवदासनम् ॥ ३३३॥
श्रीगुरुं परमानन्दं वन्दे ह्यानन्दविग्रहम् ।
यस्य सन्निधिमात्रेण चिदानन्दाय ते मनः ॥ ३३४॥
नमोऽस्तु गुरवे तुभ्यं सहजानन्दरूपिणे ।
यस्य वागमृतं हन्ति विषं संसारसंज्ञकम् ॥ ३३५॥
नानायुक्तोपदेशेन तारिता शिष्यमन्ततिः ।
तत्कृतासारवेदेन गुरुचित्पदमच्युतम् ॥ ३३६॥
अच्युताय मनस्तुभ्यं गुरवे परमात्मने ।
सर्वतन्त्रस्वतन्त्राय चिद्घनानन्दमूर्तये ॥ ३३७॥
नमोच्युताय गुरवे विद्याविद्यास्वरूपिणे ।
शिष्यसन्मार्गपटवे कृपापीयूषसिन्धवे ॥ ३३८॥
ओमच्युताय गुरवे शिष्यसंसारसेतवे ।
भक्तकार्यैकसिंहाय नमस्ते चित्सुखात्मने ॥ ३३९॥
गुरुनामसमं दैवं न पिता न च बान्धवाः ।
गुरुनामसमः स्वामी नेदृशं परमं पदम् ॥ ३४०॥
एकाक्षरप्रदातारं यो गुरुं नैव मन्यते ।
श्वानयोनिशतं गत्वा चाण्डालेष्वपि जायते ॥ ३४१॥
गुरुत्यागाद्भवेन्मृत्युर्मन्त्रत्यागाद्दरिद्रता ।
गुरुमन्त्रपरित्यागी रौरवं नरकं व्रजेत् ॥ ३४२॥
शिवक्रोधाद्गुरुस्त्राता गुरुक्रोधाच्छिवो न हि ।
तस्मात्सर्वप्रयत्नेन गुरोराज्ञा न लंघयेत् ॥ ३४३॥
संसारसागरसमुद्धरणैकमन्त्रं
ब्रह्मादिदेवमुनिपूजितसिद्धमन्त्रम् ।
दारिद्र्यदुःखभवरोगविनाशमन्त्रं
वन्दे महाभयहरं गुरुराजमन्त्रम् ॥ ३४४॥
सप्तकोटीमहामन्त्राश्चित्तविभ्रंशकारकाः ।
एक एव महामन्त्रो गुरुरित्यक्षरद्वयम् ॥ ३४५॥
एवमुक्त्वा महादेवः पार्वतीं पुनरब्रवीत् ।
इदमेव परं तत्त्वं श्रुणु देवि सुखावहम् ॥ ३४६॥
गुरुतत्त्वमिदं देवि सर्वमुक्तं समासतः ।
रहस्यमिदमव्यक्तन्न वदेद्यस्य कस्यचित् ॥ ३४७॥
न मृषा स्यादियं देवि मदुक्तिः सत्यरूपिणी ।
गुरुगीतासमं स्तोत्रं नास्ति नास्ति महीतले ॥ ३४८॥
गुरुगीतामिमां देवि भवदुःखविनाशिनीम् ।
गुरुदीक्षाविहीनस्य पुरतो न पठेत् क्वचित् ॥ ३४९॥
रहस्यमत्यन्तरहस्यमेतन्न पापिना लभ्यमिदं महेश्वरि ।
अनेकजन्मार्जितपुण्यपाकाद्गुरोस्तु तत्त्वं लभते मनुष्यः ॥ ३५०॥
यस्य प्रसादादहमेव सर्वं
मय्येव सर्वं परिकल्पितं च ।
इत्थं विजानामि सदात्मरूपं
ग्तस्यांघ्रिपद्मं प्रणतोऽस्मि नित्यम् ॥ ३५१॥
अज्ञानतिमिरान्धस्य विषयाक्रान्तचेतसः ।
ज्ञानप्रभाप्रदानेन प्रसादं कुरु मे प्रभो ॥ ३५२॥
॥ इति श्रीगुरुगीतायां तृतीयोऽध्यायः ॥
॥ इति श्रीस्कंदपुराणे उत्तरखंडे ईश्वरपार्वती
संवादे गुरुगीता समाप्त ॥
॥ श्रीगुरुदत्तात्रेयार्पणमस्तु ॥
॥ श्रीगुरुगीता ॥
॥ अथ श्रीगुरुगीता ॥
ऋषय ऊचुः ।
गुह्याद्गुह्यतरा विद्या गुरुगीता विशेषतः ।
ब्रूहि नः सूत कृपया शृणुमस्त्वत्प्रसादतः ॥ १॥
सूत उवाच ।
गिरीन्द्रशिखरे रम्ये नानारत्नोपशोभिते ।
नानावृक्षलताकीर्णे नानापक्षिरवैर्युते ॥ २॥
सर्वर्तुकुसुमामोदमोदिते सुमनोहरे ।
शैत्यसौगन्ध्यमान्द्याढ्यमरुद्भिरुपवीजिते ॥ ३॥
अप्सरोगणसङ्गीतकलध्वनिनिनादिते ।
स्थिरच्छायाद्रुमच्छायाच्छादिते स्निग्धमञ्जुले ॥ ४॥
मत्तकोकिलसन्दोहसङ्घुष्टविपिनान्तरे ।
सर्वदा स्वगणैः सार्द्धमृतुराजनिपेविते ॥ ५॥
सिद्धचारणगन्धर्वगाणपत्यगणैर्वृते ।
तत्र मौनधरं देवं चराचरजगद्गुरुम् ॥ ६॥
सदाशिवं सदानन्दं करुणामृतसागरम् ।
कर्पूरकुन्दधवलं शुद्धतत्त्वमयं विभुम् ॥ ७॥
दिगम्बरं दीननाथं योगीन्द्रं योगिवल्लभम् ।
गङ्गाशीकरसंसिक्तजटामण्डलमण्डितम् ॥ ८॥
विभूतिभूषितं शान्तं व्यालमालं कपालिनम् ।
अन्धकारिं त्रिलोकेशं त्रिशूलवरधारकम् ॥ ९॥
आशुतोषं ज्ञानमयं कैवल्यफलदायकम् ।
निर्विकल्पं निरातङ्कं निर्विशेषं निरञ्जनम् ॥ १०॥
सर्वेषां हितकर्तारं देवदेवं निरामयम् ।
कैलासशिखरासीनं पञ्चवक्त्रं सुभूषितम् ॥ ११॥
सर्वात्मनाविष्टचित्तं गिरिजामुखपङ्कजे ।
प्रणम्य परया भक्त्या कृताञ्जलिपुटा सती ॥ १२॥
प्रसन्नवदनं वीक्ष्य लोकानां हितकाम्यया ।
विनयाऽवनता देवी पार्वती शिवमब्रवीत् ॥ १३॥
श्रीमहादेव्युवाच ।
नमस्ते देवदेवेश सदाशिव जगद्गुरो ।
प्राणेश्वर महादेव गुरुगीतां वद प्रभो ॥ १४॥
केन मार्गेण भोः स्वामिन् देही ब्रह्ममयो भवेत् ।
त्वं कृपां कुरु मे देव नमामि चरणं तव ॥ १५॥
श्री महादेव उवाच ।
गुशब्दस्त्वन्धकारः स्याद्रुशब्दस्तन्निरोधकः ।
अन्धकारनिरोधित्वाद्गुरुरित्यभिधीयते ॥ १६॥
गुकारः प्रथमो वर्णो मायादिगुणभासकः ।
रुकारो द्वितीयो ब्रह्म मायाभ्रान्तिविमोचकः ॥ १७॥
गकारः सिद्धिदः प्रोक्तो रेफः पापस्य दाहकः ।
उकारः शम्भुरित्युक्तस्त्रितयाऽऽत्मा गुरुः स्मृतः ॥ १८॥
श्रीमहादेव्युवाच ।
मायामोहितजीवानां जन्ममृत्युजरादितः ।
रक्षायै कः प्रभवति स्वामिन् संसारसागरे ॥ १९॥
त्वत्तो नाऽन्यो दयासिन्धो कश्चिच्छक्नोति वै प्रभो ।
दातुं प्रतिवचश्चाऽस्य लोकशोकविमोचनम् ॥ २०॥
त्रितापतप्तजीवानां कल्याणार्थं मया प्रभो ।
विहितः सादरं प्रश्न उत्तरेणाऽनुगृह्यताम् ॥ २१॥
श्रीमहादेव उवाच ।
संसाराऽपारपाथोधेः पारं गन्तुं महेश्वरि ।
श्रीगुरोश्चरणाऽम्भोजनौकेवैकाऽवलम्बनम् ॥ २२॥
सद्गुरो रूपमादाय जगत्यामहमेव हि ।
उद्धराम्यखिलाञ्जीवान्मृत्युसंसारसागरात् ॥ २३॥
यो गुरुः स शिवः साक्षाद्यः शिवः स गुरुर्मतः ।
गुरौ मयि न भेदोऽस्ति भेदस्तत्र निरर्थकः ॥ २४॥
गुरुर्ज्ञानप्रदो नित्यं परमाऽऽनन्दसागरे ।
उन्मज्जयति जीवान्स ताॅंस्तथैव निमज्जयन् ॥ २५॥
गुरुस्त्रितापतप्तानां जीवानां रक्षिता क्षितौ ।
सच्चिदानन्दरूपं हि गुरुर्ब्रह्म न संशयः ॥ २६॥
यादृगस्तीह सम्बन्धो ब्रह्माण्डस्येश्वरेण वै ।
तथा क्रियाऽऽख्ययोगस्य सम्बन्धो गुरुणा सह ॥ २७॥
दीक्षाविधावीश्वरो वै कारणस्थलमुच्यते ।
गुरुः कार्यस्थलञ्चाऽतो गुरुर्ब्रह्म प्रगीयते ॥ २८॥
गुरौ मानुपबुद्धिं तु मन्त्रे चाऽक्षरभावनाम् ।
प्रतिमासु शिलाबुद्धिं कुर्वाणो नरकं व्रजेत् ॥ २९॥
जन्महेतू हि पितरौ पूजनीयौ प्रयत्नतः ।
गुरुर्विशेषतः पूज्यो धर्माऽधर्मप्रदर्शकः ॥ ३०॥
गुरुः पिता गुरुर्माता गुरुर्देवो गुरुर्गतिः ।
शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ॥ ३१॥
श्रीमहादेव्युवाच ।
जगन्मङ्गलकृन्नाथ विशेषेणोपदिश्यताम् ।
लक्षणं सद्गुरोर्येन सम्यग्ज्ञातं भवेद्ध्रुवम् ॥ ३२॥
आचार्यगुरुभेदोऽपि येन स्याद्विदितो मम ।
श्रेष्ठत्वं वा तयोः केन लक्षणेनाऽनुमीयते ॥ ३३॥
श्रीमहादेव उवाच ।
सर्वशास्त्रपरो दक्षः सर्वशात्रार्थवित्सदा ।
सुवचाः सुन्दरः स्वङ्गः कुलीनः शुभदर्शनः ॥ ३४॥
जितेन्द्रियः सत्यवादी ब्राह्मणः शान्तमानसः ।
मातृपितृहिते युक्तः सर्वकर्मपरायणः ॥ ३५॥
आश्रमी देशवासी च गुरुरेवं विधीयते ।
आचार्यगुरुशब्दौ द्वौ क्वचित्पर्यायवाचकौ ॥ ३६॥
एवमर्थगतो भेदो भवत्यपि तयोः क्वचित् ।
उपनीय ददद्वेदमाचार्यः स उदाहृतः ॥ ३७॥
यः साधनप्रकर्षार्थं दीक्षयेत्स गुरुः स्मृतः ।
औपपत्तिकमंशन्तु धर्मशास्त्रस्य पण्डितः ॥ ३८॥
व्याचष्टे धर्ममिच्छूनां स आचार्यः प्रकीर्तितः ।
सर्वदर्शी तु यः साधुर्मुमुक्षूणां हिताय वै ॥ ३९॥
व्याख्याय धर्मशास्त्राणां क्रियासिद्धिप्रबोधकम् ।
उअपासनाविधेः सम्यगीश्वरस्य परात्मनः ॥ ४०॥
भेदान्प्रशास्ति धर्मज्ञः स गुरुः समुदाहृतः ।
सप्तानां ज्ञानभूमीनां शास्त्रोक्तानां विशेषतः ॥ ४१॥
प्रभेदान् यो विजानाति निगमस्याऽऽगमस्य च् अ ।
ज्ञानस्य चाऽधिकाराॅंस्त्रीन्भवतात्पर्यलक्ष्यतः ॥ ४२॥
तन्त्रेषु च पुराणेषु भाषायास्त्रिविधां सृतिम् ।
सम्यग्भेदैर्विजानाति भाषातत्त्वविशारदः ॥ ४३॥
निपुणो लोकशिक्षायां श्रेष्ठाऽऽचार्यः स उच्यते ।
पञ्चतत्त्वविभेदज्ञः पञ्चभेदां विशेषतः ॥ ४४॥
सगुणोपासनां यस्तु सम्यग्जानाति कोविदः ।
चातुर्विध्येन विततां ब्रह्मणः समुपासनाम् ॥ ४५॥
गम्भीरार्थां विजानीते बुधो निर्मलमानसः ।
सर्वकार्येषु निपुणो जीवन्मुक्तस्त्रितापहृत् ॥ ४६॥
करोति जीवकल्याणं गुरुः श्रेष्ठः स कथ्यते ॥ ४७॥
श्रीमहादेव्युवाच ।
सच्छिष्यलक्षणं नाथ उक्षूणां त्रितापहृत् ।
गुरुभक्तस्य शिष्यस्य कर्तव्यञ्चाऽपि मे वद ॥ ४८॥
मुमुक्षुभिश्च शिष्यैः कैः शुभाऽऽचारैरवाप्यते ।
आत्मज्ञानं दयासिन्धो कृपया ब्रूहि तानपि ॥ ४९॥
येन ज्ञानेन लब्धेन शुभाऽऽचारान्वितैर्द्रुतम् ।
मुच्यते बन्धनान्नाथ शिष्यैः सद्गुरुसेवकैः ॥ ५०॥
श्रीमहादेव उवाच ।
शिष्यः कुलीनः शुद्धाऽऽत्मा पुरुषार्थपरायणः ।
अधीतवेदः कुशलो दूरमुक्तमनोभवः ॥ ५१॥
हितैषी प्राणिनां नित्यमास्तिकस्त्यक्तवञ्चनः ।
स्वधर्मनिरतो भक्त्या पितृमातृहिते स्थितः ॥ ५२॥
गुरुशुश्रूषणरतो वाङ्मनःकायकर्मभिः ।
शिष्यस्तु स गुणैर्युक्तो गुरुभक्तिरतः सदा ॥ ५३॥
धर्मकामादिसंयुक्तो गुरुमन्त्रपरायणः ।
सत्यबुद्धिर्गुरोमन्त्रे देवपूजनतत्परः ॥ ५४॥
गुरूपदिष्टमार्गे च सत्यबुद्धिरुदारधीः ।
अलुब्धः स्थिरगात्रश्च आज्ञाकारी जितेन्द्रियः ॥ ५५॥
एवंविधो भवेच्छिष्य इतरो दुःखकृद्गुरोः ।
शरीरमर्थं प्राणाॅंश्च गुरुभ्यो यः समर्पयन् ॥ ५६॥
गुरुभिः शिष्यते योगं स शिष्य इति कथ्यते ।
दीर्घदण्डवदानम्य सुमना गुरुसन्निधौ ॥ ५७॥
आत्मदाराऽऽदिकं सर्वं गुरवे च निवेदयेत् ।
आसनं शयनं वस्त्रं वाहनं भूषणाऽऽदिकम् ॥ ५८॥
साधकेन प्रदातव्यं गुरोः सन्तोषकारणात् ।
गुरुपादोदकं पेयं गुरोरुच्छिष्टभोजनम् ॥ ५९॥
गुरुमूर्तेः सदा ध्यानं गुरुस्तोत्रं सदा जपेत् ।
ऊर्ध्वं तिष्ठेद्गुरोरग्रे लब्धाऽनुज्ञो वसेत् पृथक् ॥ ६०॥
निवीतवासा विनयी प्रह्वस्तिष्ठेद्गुरौ परम् ।
गुरौ तिष्ठति तिष्ठेच्चोपविष्टेऽनुज्ञया वसेत् ॥ ६१॥
सेवताऽङ्घ्री शयानस्य गच्छन्तञ्चाऽप्यनुव्रजेत् ।
शरीरं चैव वाचं च बुद्धीन्द्रियमनांसि च ॥ ६२॥
नियम्य प्राञ्जलिस्तिष्ठेद्वीक्षमाणो गुरोर्मुखम् ।
नित्यमुद्रितपाणिः स्यात् साध्वाचारः सुसंयतः ॥ ६३॥
आस्यतामिति चोक्तः सन्नासीताऽभिमुखं गुरोः ।
हीनान्नवस्त्रवेशः स्यात् सर्वदा गुरुसन्निधौ ॥ ६४॥
उत्तिष्ठेत् प्रथमं चाऽस्य चरमं चैव संविशेत् ।
दुष्कृतं न गुरोर्ब्रूयात् क्रुद्धं चैनं प्रसादयेत् ॥ ६५॥
परिवादं न श्रुणुयादन्येषामपि कुर्वताम् ।
नीचं शय्यासनं चाऽस्य सर्वदा गुरुसन्निधौ ॥ ६६॥
गुरोस्तु चक्षुर्विषये न यथेष्टाऽऽसनो भवेत् ।
चापल्यं प्रमदागाथामहङ्कारं च वर्जयेत् ॥ ६७॥
नाऽपृष्टो वचनं किंचिद्ब्रूयान्नाऽपि निषेधयेत् ।
गुरुमूर्तिं स्मरेन्नित्यं गुरुनाम सदा जपेत् ॥ ६८॥
गुरोराज्ञां प्रकुर्वीत गुरोरन्यं न भावयेत् ।
गुरुरूपे स्थितं ब्रह्म प्राप्यते तत्प्रसादतः ॥ ६९॥
जात्याश्रमयशोविद्यावित्तगर्वं परित्यजन् ।
गुरोराज्ञां प्रकुर्वीत गुरोरन्यं न भावयेत् ॥ ७०॥
गुरुवक्त्रे स्थिता विद्या गुरुभक्त्याऽनुलभ्यते ।
तस्मात् सर्वप्रयत्नेन गुरोराराधनं कुरु ॥ ७१॥
नोदाहरेदस्य नाम परोक्षमपि केवलम् ।
न च वाऽस्याऽनुकुर्वीत गतिभाषितचेष्टितम् ॥ ७२॥
गुरोर्यत्र परीवादो निन्दा वाऽपि प्रवर्तते ।
कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥ ७३॥
परीवादात् खरो भवेत् श्वा वै भवति निन्दकः ।
परिभोक्ता भवेत्कृमिः कीटो भवति मत्सरी ॥ ७४॥
गुरोः शय्याऽसनं यानं पादुकोपानौत्पीठकम् ।
स्नानोदकं तथा छायां कदापि न विलङ्घयेत् ॥ ७५॥
गुरोरग्रे पृथक् पूजामौद्धत्यं च विवर्जयेत् ।
दीक्षां व्याख्यां प्रभुत्वं च गुरोरग्रे परित्यजेत् ॥ ७६॥
ऋणदानं तथाऽऽदानं वस्तूनां क्रयविक्रयम् ।
न कुर्याद्गुरुणा सार्द्धे शिष्यो भृत्वा कदाचन ॥ ७८॥
न प्रेरयेद्गुरुं तातं शिष्यः पुत्रश्च कर्मसु ।
गुरवे देवि पित्रे च नित्यं सर्वस्वमर्पयेत् ॥ ७९॥
स च शिष्यः स च ज्ञानी य आज्ञां पालयेद्गुरोः ।
न क्षेमं तस्य मूढस्य यो गुरोरवचस्करः ॥ ८०॥
गुरोर्हितं प्रकर्तव्यं वाङ्मनःकायकर्मभिः ।
अहिताऽऽचरणाद्देवि विष्ठायां जायते कृमिः ॥ ८१॥
यथा खनन् खनित्रेण नरो वार्य्यधिगच्छति ।
तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ॥ ८२॥
आसमाप्तेः शरीरस्य यस्तु शुश्रूषते गुरुम् ।
स गच्छत्यञ्जसा विप्रो ब्रह्मणः सद्म शाश्वतम् ॥ ८३॥
श्रीमहादेव्युवाच ।
हे विश्वात्मन् महायोगिन् दीनबन्धो जगद्गुरो ।
त्रितापाद्रक्षितुं जीवान्नेतुं मुक्तेः पदं तथा ॥ ८४॥
योगमार्गप्रचारोऽत्र गुरुभिर्यः प्रकाशितः ।
तल्लक्षणानि भेदाॅंश्च कृपया वद मे प्रभो ॥ ८५॥
श्रीमहादेव उवाच ।
मन्त्रयोगो लयश्चैव राजयोगो हठस्तथा ।
योगश्चतुर्विधः प्रोक्तो योगिभिस्तत्त्वदर्शिभिः ॥ ८६॥
नामरूपात्मिका सृष्टिर्यस्मात्तदवलम्बनात् ।
बन्धनान्मुच्यमानोऽयं मुक्तिमाप्नोति साधकः ॥ ८७॥
तामेव भूमिमालम्ब्य स्खलनं यत्र जायते ।
उत्तिष्ठति जनस्सर्वोऽध्यक्षेणैतत्समीक्ष्यते ॥ ८८॥
नामरूपात्मकैर्भावैर्बध्यन्ते निखिला जनाः ।
अविद्याकलिताश्चैव तादृक्प्रकृतिवैभवात् ॥ ८९॥
आत्मनस्सूक्ष्मप्रकृतिं प्रवृत्तिञ्चाऽनुसृत्य वै ।
नामरूपात्मनोश्शब्दभावयोरवलम्बनात् ॥ ९०॥
यो योगः साध्यते सोऽयं मन्त्रयोगः प्रकीर्तितः ।
प्राणाऽपाननादबिन्दुजीवात्मपरमात्मनाम् ॥ ९१॥
मेलनाद्घटते यस्मात्तस्माद्वै घट उच्यते ।
आमकुम्भमिवाऽम्भस्थं जीर्यमाणं सदा घटम् ॥ ९२॥
योगानलेन सन्दह्य घटशुद्धिं समाचरेत् ।
घटयोगसमायोगाद्धठयोगः प्रकीर्तितः ॥ ९३॥
मन्त्राद्धठेन सम्पाद्यो योगोऽयमिति वा प्रिये ।
हठयोग इति प्रोक्तो हठाज्जीवशुभप्रदः ॥ ९४॥
हठयोगेन प्रथमं जीर्यमाणामिमां तनुम् ।
द्रढ्यन्सूक्ष्मदेहं वै कुर्याद्योगयुजं पुनः ॥ ९५॥
स्थूलः सूक्ष्मस्य देहो वै परिणामान्तरं यतः ।
कादिवर्णान्समभ्यस्य शास्त्रज्ञानं यथाक्रमम् ॥ ९६॥
यथोपलभ्यते तद्वत्स्थूलदेहस्य साधनैः ।
योगेन मनसो योगो हठयोगः प्रकीर्तितः ॥ ९७॥
ब्रह्माण्डपिण्डे सदृशे ब्रह्मप्रकृतिसम्भवात् ।
समष्टिव्यष्टिसम्बन्धादेकसम्बन्धगुम्फिते ॥ ९८॥
ऋषिदेवाश्च पितरो नित्यं प्रकृतिपूरुषौ ।
तिष्ठन्ति पिण्डे ब्रह्माण्डे ग्रहनक्षत्रराशयः ॥ ९९॥
पिण्डज्ञानेन ब्रह्माण्डज्ञानं भवति निश्चितम् ।
गुरूपदेशतः पिण्डज्ञानमाप्त्वा यथायथम् ॥ १००॥
ततो निपुणया युक्त्या पुरुषे प्रकृतेर्लयः ।
लययोगाऽभिधेयः स्यात् कृतः शुद्धैर्महर्षिभिः ॥ १०१॥
भवन्ति मन्त्रयोगस्य षोडशाङ्गानि निश्चितम् ।
यथा सुधांशोर्जायन्ते कलाः षोडश शोभनाः ॥ १०२॥
भक्तिः शुद्धिश्चाऽऽसनञ्च पञ्चाङ्गस्याऽपि सेवनम् ।
आचारधारणे दिव्यदेशसेवनमित्यपि ॥ १०३॥
प्राणक्रिया तथा मुद्रा तर्पणं हवनं बलिः ।
यागो जपस्तथा ध्यानं समाधिश्चेति षोडश ॥ १०४॥
षट्कर्माऽऽसनमुद्राः प्रत्याहारः प्राणसंयमश्चैव ।
ध्यानसमाधी सप्तैवाङ्गानि स्युर्हठस्य योगस्य ॥ १०५॥
अङ्गानि लययोगस्य नवैवेति बुधा विदुः ।
यमश्च नियमश्चैव स्थूलसूक्ष्मक्रिये तथा ॥ १०६॥
प्रत्याहारो धारणा च ध्यानञ्चापि लयक्रिया ।
समाधिश्च नवाङ्गानि लययोगस्य निश्चितम् ॥ १०७॥
ध्यानं वै मन्त्रयोगस्याऽध्यात्मभावाद्विनिर्गतम् ।
परानन्दमये भावेऽतीन्द्रिये च विलक्षणे ॥ १०८॥
भ्रमद्भिः साधकश्रेयोवाञ्छद्भिर्योगवित्तमैः ।
उपासनां पञ्चविधां ज्ञात्वा साधकयोग्यताम् ॥ १०९॥
मन्त्रध्यानं हि कथितमध्यात्मस्याऽनुसारतः ।
वेदतन्त्रपुराणेषु मन्त्रशास्त्रप्रवर्तकैः ॥ ११०॥
वर्णितं श्रेयैच्छद्भिर्मन्त्रयोगपरस्य वै ।
ध्यानानां वै बहुत्वेऽपि तत्प्रोक्तं पञ्चधैव हि ॥ १११॥
तेषां भावमयत्वेन समाधिरधिगम्यते ।
मन्त्रयोगो हठश्चैव लययोगः पृथक् पृथक् ॥ ११२॥
स्थूलं ज्योतिस्तथा बिन्दु ध्यानं तु त्रिविधं विदुः ।
स्थूलं मूर्तिमयं प्रोक्तं ज्योतिस्तेजोमयं भवेत् ॥ ११३॥
बिन्दुं बिन्दुमयं ब्रह्म कुण्डली परदेवता ।
सृष्टिस्थितिविनाशानां हेतुता मनसि स्थिता ॥ ११४॥
तत्साहाय्यात्साध्यते यो राजयोग इति स्मृतः ।
मन्त्रे हठे लये चैव सिद्धिमासाद्य यत्नतः ॥ ११५॥
पूर्णाऽधिकारमाप्नोति राजयोगपरो नरः ।
समाधिर्मन्त्रयोगस्य महाभाव इतीरितः ॥ ११६॥
हठस्य च महाबोधः समाधिस्तेन सिध्यति ।
प्रशस्तो लययोगस्य समाधिर्हि महालयः ॥ ११७॥
विचारबुद्धेः प्राधान्यं राजयोगस्य साधने ।
ब्रह्मध्यानं हि तद्ध्यानं समाधिर्निर्विकल्पकः ॥ ११८॥
तेनोपलब्धसिद्धिर्हि जीवन्मुक्तः प्रकथ्यते ।
उपलब्ध महाभावा महाबोधाऽन्विताश्च वा ॥ ११९॥
महालयं प्रपन्नाश्च तत्त्वज्ञानाऽवलम्बतः ।
योगिनो राजयोगस्य भूमिमासादयन्ति ते ॥ १२०॥
योगसाधनमूर्द्धर्न्यो राजयोगोऽभिधीयते ॥ १२१॥
श्रीमहादेव्युवाच ।
योगेश जगदाधार कतिधोपासना च के ।
तद्विधेर्भगवन् भेदा मुक्तिमार्गप्रदर्शिनः ॥ १२२॥
तस्या के दिव्यदेशाश्च दिव्यभावेन भास्वराः ।
तत्सर्वं कृपया नाथ वदस्व वदतां वर ॥ १२३॥
श्रीमहादेव उवाच ।
सगुणो निर्गुणश्चाऽपि द्विविधो भेद ईर्यते ।
उपासनाविधेर्देवि सगुणोऽपि द्विधा मतः ॥ १२४॥
सकामोपासनायाश्च भेदा यद्यपि नैकशः ।
परन्त्वनन्यभक्तानां जनानां मुक्तिमिच्छताम् ॥ १२५॥
भेदत्रितयमेवैतद्रहस्यं देवि गोपितम् ।
वक्ष्ये गुप्तरहस्यं तद्भवतीं भाग्यशालिनीम् ॥ १२६॥
समाहितेन शान्तेन स्वान्तेनैवाऽवधार्यताम् ।
पञ्चानामपि देवानां ब्रह्मणो निर्गुणस्य च ॥ १२७॥
लीलाविग्रहरूपाणाञ्चेत्युपास्तिस्त्रिधा मता ।
विष्णुः सूर्यश्च शक्तिश्च गणाधीशश्च शङ्करः ॥ १२८॥
पञ्चोपास्याः सदा देवि सगुणोपासनाविधौ ।
एते पञ्च महेशानि सगुणो भेद ईरितः ॥ १२९॥
सच्चिदानन्दरूपस्य ब्रह्मणो नाऽत्र संशयः ।
निर्गुणोऽपि निराकारो व्यापकः स परात्परः ॥ १३०॥
साधकानां हि कल्याणं विधातुं वसुधातले ।
बिभर्ति सगुणं रूपं त्वत्साहाय्यात्पतिव्रते ॥ १३१॥
यथा गवां शरीरेषु व्याप्तं दुग्धं रसात्मकम् ।
परं पयोधरादेव केवलं क्षरते ध्रुवम् ॥ १३२॥
तथैव सर्वव्याप्तोऽपि देवो व्यापकभावतः ।
दिव्यषोडशदेशेषु पूज्यते परमेश्वरः ॥ १३३॥
वह्न्यम्बुलिङ्गकुड्यानि स्थण्डिलं पटमण्डले ।
विशिखं नित्ययन्त्रञ्च भावयन्त्रञ्च विग्रहः ॥ १३४॥
पीठश्चापि विभूतिश्च हृन्मूर्द्धापि महेश्वरि ।
एते षोडश दिव्याश्च देशाः प्रोक्ता मयाऽनघे ॥ १३५॥
यद्यच्छरीरमाश्रित्य भगवान्सर्वशक्तिमान् ।
वतीर्णो विविधा लीला विधाय वसुधातले ॥ १३६॥
जगत्पालयते देवि लीलाविग्रह एव सः ।
उपासनाऽनुसारेण वेदशास्त्रेषु भूरिशः ॥ १३७॥
लीलाविग्रहरूपाणामितिहासोऽपि लभ्यते ।
तदुपासनकञ्चाऽपि सगुणं परिकीर्तितम् ॥ १३८॥
विष्णोः सूर्यश्च शक्तेश्च गणेशस्य शिवस्य च ।
गीतासु गीता ये शब्दा विष्णुसूर्यादयः प्रिये ॥ १३९॥
ब्रह्मणश्चाद्वितीयस्य साक्षात्ते चापि वाचकः ।
भक्तिस्तु त्रिविधा ज्ञेया वैधी रागात्मिका परा ॥ १४०॥
देवे परोऽनुरागस्तु भक्तिः सम्प्रोच्यते बुधैः ।
विधिना या विनिर्णीता निषेधेन तथा पुनः ॥ १४१॥
साध्यमाना च या धीरैः सा वैधी भक्तिरुच्यते ।
ययाऽऽस्वाद्य रसान्भक्तेर्भावे मज्जति साधकः ॥ १४२॥
रागात्मिका सा कथिता भक्तियोगविशारदैः ।
पराऽऽनन्दप्रदा भक्तिः पराभक्तिर्मता बुधैः ॥ १४३॥
या प्राप्यते समाधिस्थैर्योगिभिर्योगपारगैः ।
त्रैगुण्यभेदास्त्रिविधा भक्ता वै परिकीर्तिताः ॥ १४४॥
आर्तो जिज्ञासुरर्थार्थी तथा त्रिगुणतः परः ।
पराभक्त्यधिकारी यो ज्ञानिभक्तः स तुर्यकः ॥ १४५॥
उपासकाः स्युस्त्रिविधास्त्रिगुणस्याऽनुसारतः ।
ब्रह्मोपासक एवाऽत्र श्रेष्ठः प्रोक्तो मनीषिभिः ॥ १४६॥
प्रथमा सगुणोपास्तिरवताराऽर्चनाश्च याः ।
विहिता ब्रह्मबुद्ध्या चेदत्रैवाऽन्तर्भवन्ति ताः ॥ १४७॥
सकामबुद्ध्या विहितं देवर्षिपितृपूजनम् ।
मध्यमं मध्यमा ज्ञेयास्तत्कर्तारस्तथा पुनः ॥ १४८॥
अधमा वै समाख्याताः क्षुद्रशक्तिसमर्चकाः ।
प्रेत्याद्युपासङ्काश्चैव विज्ञेया ह्यधमाऽधमाः ॥ १४९॥
सर्वोपासनहीनास्तु पशवः परिकीर्तिताः ।
ब्रह्मोपासनमेवाऽत्र मुख्यं परममङ्गलम् ॥ १५०॥
निःश्रेयसकरं ज्ञेयं सर्वश्रेष्ठं शुभावहम् ॥ १५१॥
श्रीमहादेव्युवाच ।
यथा मे गुरुमाहात्म्यं सम्यग्ज्ञातं भवेत्प्रभो ।
तथा विस्तरतो नाथ तन्माहात्म्यमुदाहर ॥ १५२॥
सद्गुरोमहिमा देव सम्यग्ज्ञातः श्रुतो भुवि ।
अज्ञानतमसाऽऽच्छन्नं मनोमलमपोहति ॥ १५३॥
श्रीमहादेव उवाच ।
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ।
गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः ॥ १५४॥
अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ १५५॥
अज्ञानतिमिराऽन्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ १५६॥
स्थावरं जङ्गमं व्याप्तं यत्किञ्चित्सचराऽचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ १५७॥
चिन्मयं व्याप्नुवन्सर्वं त्रैलोक्यं सचराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ १५८॥
सर्वश्रुतिशिरोरत्नविराजितपदाऽम्बुजः ।
वेदान्ताऽम्बुजसूर्यो यस्तस्मै श्रीगुरवे नमः ॥ १५९॥
चेतनः शाश्वतः शान्तो व्योमाऽतीतो निरञ्जनः ।
बिन्दुनादकलातीतस्तस्मै श्रीगुरवे नमः ॥ १६०॥
ज्ञानशक्तिसमारूढस्तत्त्वमालाविभूषितः ।
भुक्तिमुक्तिप्रदाता च तस्मै श्रीगुरवे नमः ॥ १६१॥
अनेकजन्मसम्प्राप्तकर्मबन्धविदाहिने ।
आत्मज्ञानप्रदानेन तस्मै श्रीगुरवे नमः ॥ १६२॥
शोषणं भवसिन्धोश्च ज्ञापनं सारसम्पदः ।
गुरोः पादोदकं सम्यक् तस्मै श्रीगुरवे नमः ॥ १६३॥
न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः ।
तत्त्वज्ञानात्परं नाऽस्ति तस्मै श्रीगुरवे नमः ॥ १६४॥
मन्नाथः श्रीजगन्नाथो मद्गुरुः श्रीजगद्गुरुः ।
मदात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः ॥ १६५॥
गुरुरादिरनादिश्च गुरुः परमदैवतम् ।
गुरोः परतरं नाऽस्ति तस्मै श्रीगुरवे नमः ॥ १६६॥
ध्यानमूलं गुरोर्मूर्तिः पूजामूलं गुरोः पदम् ।
मन्त्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा ॥ १६७॥
सप्तसागरपर्यन्ततीर्थस्नानादिकैः फलम् ।
गुरोरङ्घ्रिपयोबिन्दुसहस्रांशेन दुर्लभम् ॥ १६८॥
गुरुरेव जगत्सर्वं ब्रह्मविष्णुशिवात्मकम् ।
गुरोः परतरं नाऽस्ति तस्मात् सम्पूजयेद्गुरुम् ॥ १६९॥
ज्ञानं विना मुक्तिपदं लभते गुरुभक्तितः ।
गुरोः परतरं नाऽस्ति ध्येयोऽसौ गुरुमार्गिणा ॥ १७०॥
गुरोः कृपाप्रसादेन ब्रह्मविष्णुसदाशिवाः ।
सृष्ट्यादिकसमर्थास्ते केवलं गुरुसेवया ॥ १७१॥
देवकिन्नरगन्धर्वाः पितरो यक्षचारणाः ।
मुनयोऽपि न जानन्ति गुरुशुश्रूषणाविधिम् ॥ १७२॥
न मुक्ता देवगन्धर्वाः पितरो यक्षकिन्नराः ।
ऋषयः सर्वसिद्धाश्च गुरुसेवापराङ्मुखाः ॥ १७३॥
श्रुतिस्मृतिमविज्ञाय केवलं गुरुसेवया ।
ते वै संन्यासिनः प्रोक्ता इतरे वेषधारिणः ॥ १७४॥
गुरोः कृपाप्रसादेन आत्मारामो हि लभ्यते ।
अनेन गुरुमार्गेण आत्मज्ञानं प्रवर्तते ॥ १७५॥
सर्वपापविशुद्धात्मा श्रीगुरोः पादसेवनात् ।
सर्वतीर्थावगाहस्य फलं प्राप्नोति निश्चितम् ॥ १७६॥
यज्ञव्रततपोदानजपतीर्थाऽनुसेवनम् ।
गुरुतत्त्वमविज्ञाय निष्फलं नाऽत्र संशयः ॥ १७७॥
मन्त्रराजमिदं देवि गुरुरित्यक्षरद्वयम् ।
श्रुतिवेदान्तवाक्येन गुरुः साक्षात्परं पदम् ॥ १७८॥
गुरुर्देवो गुरुर्धर्मो गुरुनिष्ठा परं तपः ।
गुरोः परतरं नास्ति नास्ति तत्त्वं गुरोः परम् ॥ १७९॥
धन्या माता पिता धन्यो धन्यो वंशः कुलं तथा ।
धन्या च वसुधा देवि गुरुभक्तिः सुदुर्लभा ॥ १८०॥
शरीरमिन्द्रियप्राणा अर्थस्वजनबान्धवाः ।
माता पिता कुलं देवि गुरुरेव न संशयः ॥ १८१॥
आजन्मकोट्यां देवेशि जपव्रततपःक्रियाः ।
एतत्सर्वं समं देवि गुरुसन्तोषमात्रतः ॥ १८२॥
विद्याधनमदेनैव मन्दभाग्याश्च ये नराः ।
गुरोः सेवां न कुर्वन्ति सत्यं सत्यं वदाम्यहम् ॥ १८३॥
गुरुसेवापरं तीर्थमन्यत्तीर्थमनर्थकम् ।
सर्वतीर्थाश्रयं देवि सद्गुरोश्चरणाम्बुजम् ॥ १८४॥
गुरुध्यानं महापुण्यं भुक्तिमुक्तिप्रदायकम् ।
वक्ष्यामि तव देवेशि शृणुष्व कमलानने ॥ १८५॥
प्रातः शिरसि शुक्लाब्जे द्विनेत्रं द्विभुजं गुरुम् ।
वराऽभयकरं शान्तं स्मरेत्तन्नामपूर्वकम् ॥ १८६॥
वामोरुशक्तिसहितं कारुण्येनाऽवलोकितम् ।
प्रियया सव्यहस्तेन धृतचारुकलेवरम् ॥ १८७॥
वामेनोत्पलधारिण्या रक्ताऽऽभरणभूषया ।
ज्ञानाऽऽनन्दसमायुक्तं स्मरेत्तन्नामपूर्वकम् ॥ १८८॥
अखण्डमण्डलाऽऽकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ १८९॥
नमोऽस्तु गुरवे तस्मै इष्टदेवस्वरूपिणे ।
यस्य वाक्याऽमृतं हन्ति विषं संसारसंज्ञितम् ॥ १९०॥
श्रीमहादेव्युवाच ।
मदेकहृदयाऽऽनन्द जगदात्मन् महेश्वर ।
उपास्यस्य रहस्यं मे माहात्म्यञ्चापि सद्गुरोः ॥ १९१॥
वर्णितं यत्त्वया नाथ कृतकृत्याऽस्मि साम्प्रतम् ।
भूयोऽपि श्रोतुमिच्छामि त्वन्मुखाज्जगदीश्वर ॥ १९२॥
परतत्त्वैकरूपस्य तत्त्वाऽतीतपराऽऽत्मनः ।
समासेन स्वरूपं मे वर्णयित्वा कृपां कुरु ॥ १९३॥
श्रीमहदेव उवाच ।
स एक एव सद्रूपः सत्योऽद्वैतः परात्परः ।
स्वप्रकाशः सदा पूर्णः सच्चिदानन्दलक्षणः ॥ १९४॥
निर्विकारो निराधारो निर्विशेषो निराकुलः ।
गुणातीतः सर्वसाक्षी सर्वात्मा सर्वदृग्विभुः ॥ १९५॥
गूढः सर्वेषु भूतेषु सर्वव्यापी सनातनः ।
सर्वेन्द्रिय गुणाभासः सर्वेन्द्रियविवर्जितः ॥ १९६॥
लोकाऽतीतो लोकहेतुरवाङ्मनसगोचरः ।
स वेत्ति विश्वं सर्वज्ञस्तं न जानाति कश्चन ॥ १९७॥
तदधीनं जगत्सर्वं त्रैलोक्यं सचराऽचरम् ।
तदालम्बनतस्तिष्ठेदवितर्क्यमिदं जगत् ॥ १९८॥
तत्सत्यतामुपाऽऽश्रित्य सद्वद्भाति पृथक् पृथक् ।
तेनैव हेतुभूतेन वयं जाता महेश्वरि ॥ १९९॥
कारणं सर्वभूतानां स एकः परमेश्वरः ।
लोकेषु सृष्टिकरणात्स्रष्टा ब्रह्मेति गीयते ॥ २००॥
विष्णुः पालयिता देवि संहर्ताऽहं तदिच्छया ।
इन्द्राऽऽदयो लोकपालाः सर्वे तद्वशवर्तिनः ॥ २०१॥
स्वे स्वेऽधिकारे निरतास्ते शासति तदाज्ञया ।
त्वं पुरा प्रकृतिस्तस्य पूज्याऽसि भुवनत्रये ॥ २०२॥
तेनाऽन्तर्यामिरूपेण तत्तद्विपययोजिताः ।
स्वस्वकर्म प्रकुर्वन्ति न स्वतन्त्राः कदाचन ॥ २०३॥
यद्भयाद्वाति वातोऽपि सूर्यस्तपति यद्भयात् ।
वर्षन्ति तोयदाः काले पुष्ष्यन्ति तरवो वने ॥ २०४॥
कालं कलयते काले मृत्योर्मृत्युर्भियो भयम् ।
वेदान्तवेद्यो भगवान्यत्तच्छब्दोपलक्षितः ॥ २०५॥
सर्वे देवाश्च देव्यश्च तन्मयाः सुरवन्दिते ।
आब्रह्मस्तम्बपर्यन्तं तन्मयं सकलं जगत् ॥ २०६॥
तस्मिंस्तुष्टे जगत्तुष्टं प्रीणिते प्रीणितं जगत् ।
तदाराधनतो देवि सर्वेषां प्रीणनं भवेत् ॥ २०७॥
तरोर्मूलाऽभिषीकेण यथा तद्भुजपल्लवाः ।
तृप्यन्ति तदनुष्ठानात्तथा सर्वेऽमरादयः ॥ २०८॥
श्रीमहादेव्युवाच ।
संसाररोगहृन्नाथ करुणावरुणाऽऽलय ।
गुरोत्माहात्म्यपूर्णा या गुरोर्गीता सुवर्णिता ॥ २०९॥
तत्स्वाध्यायस्य माहात्म्यं फलञ्चाऽपि विनिर्दिश ।
जीवमङ्गलमेतेन कृपातोऽतः कृपाऽर्णव ॥ २१०॥
सम्यग्विविच्य संवर्ण्य विनोदय दयार्णव ।
त्वदृते को हि देवेश शिक्षां मेऽन्यो विधास्यति ॥ २११॥
श्रीमहादेव उवाच ।
इदं तु भक्तिभावेन पठ्यते श्रूयतेऽथवा ।
लिखित्वा वा प्रदीयेत सर्वकामफलप्रदम् ॥ २१२॥
गुरुगीताऽभिधं देवि शुद्धं तत्त्वं मयोदितम् ।
भवव्याधिविनाशार्थं स्वयमेव सदा जपेत् ॥ २१३॥
गुरुगीताऽक्षरैकैकं मन्त्रराजमिदं प्रिये ।
अनेन विविधा मन्त्राः कलां नार्हन्ति षोडशीम् ॥ २१४॥
सर्वपापहरं स्तोत्रं सर्वदारिद्र्यनाशनम् ।
अकालमृत्युहरणं सर्वसङ्कटनाशनम् ॥ २१५॥
यक्षराक्षसभूतानां चौरव्याघ्रभयाऽपहम् ।
महाव्याधि हरञ्चैव विभूतिसिद्धिदं ध्रुवम् ॥ २१६॥
मोहनं सर्वभूतानां परं बन्धनमोचनम् ।
देवभूतप्रियकरं लोकान्स्ववशमानयेत् ॥ २१७॥
मुखस्तम्भकरं नॄणां सद्गुणानां विवर्धनम् ।
दुष्कर्मनाशनञ्चैव सत्कर्मसिद्धिदं भवेत् ॥ २१८॥
भक्तिदं सिद्धयेत् कार्यं नवग्रहभयाऽपहम् ।
दुःस्वप्ननाशनञ्चैव सत्कर्मसिद्धिदं भवेत् ॥ २१९॥
सर्वशान्तिकरं नित्यं वन्ध्यापुत्रफलप्रदम् ।
अवैधव्यकरं स्त्रीणां सौभाग्यदायकं परम् ॥ २२०॥
आयुरारोग्यमैश्वर्यपुत्रपौत्रादिवर्धकम् ।
निष्कामतस्त्रिवारं वा जपन्मोक्षमवाप्नुयात् ॥ २२१॥
सर्वदुःखभयं विघ्नं नाशयेत्तापहारकम् ।
सर्वबाधाप्रशमनं धर्माऽर्थकाममोक्षदम् ॥ २२२॥
यो यं चिन्तयते कामं स तमाप्नोति निश्चितम् ।
कामिनां कामधेनुश्च कल्पितं च सुरद्रुमः ॥ २२३॥
चिन्तामणिं चिन्तितस्य सर्वमङ्गलकारकम् ।
जपेच्छाक्तस्य शैवश्च गाणपत्यश्च वैष्णवः ॥ २२४॥
सौरश्च सिद्धिदं देवि धर्मार्थकाममोक्षदम् ।
संसारमलनाशाऽर्थं भवतापनिवृत्तये ॥ २२५॥
गुरुगीताऽम्भसि स्नानं तत्त्वज्ञः कुरुते सदा ।
योगयुञ्जानचित्तानां गीतेयं ज्ञानवर्धिका ॥ २२६॥
त्रितापतापितानाञ्च जीवानां परमौषधम् ।
संसाराऽपारपाथोधौ मज्जतां तरणिः शुभा ॥ २२७॥
देशः शुद्धः स यत्राऽसौ गीता तिष्ठति दुर्लभा ।
तत्र देवगणाः सर्वे क्षेत्रपीठे वसन्ति हि ॥ २२८॥
शुचिरेव सदा ज्ञानी गुरुगीताजपेन तु ।
तस्य दर्शनमात्रेण पुनर्जन्म न विद्यते ॥ २२९॥
सत्यं सत्यं पुनः सत्यं निजधर्मो मयोदितः ।
गुरुगीतासमो नाऽस्ति सत्यं सत्यं वरानने ॥ २३०॥
इति श्रीगुरुगीता समाप्ता ।
॥ श्रीगुरुगीता लघु ॥
॥ श्रीगुरुगीता ॥
॥ श्री गुरुपादुका पञ्चकम् ॥
ॐ नमो गुरुभ्यो गुरुपादुकाभ्यो नमः परेभ्यः परपादुकाभ्यः ।
आचार्य सिद्धेश्वर पादुकाभ्यो नमो नमः श्री गुरुपादुकाभ्यः ॥
ऐङ्कार ह्रीङ्कार रहस्य युक्त
श्रीङ्कार गूढार्थमहाविभूत्या ॥ १॥
ओङ्कार मर्म प्रतिपादिनीभ्यां
नमो नमः श्री गुरुपादुकाभ्याम् ॥ २॥
होत्राग्नि हौत्राग्नि हविष्यहोत्र
होमादि सर्वाकृति भासमानाम् ।
यद् ब्रह्म तद्बोध वितारिणीभ्यां
नमो नमः श्री गुरुपादुकाभ्याम् ॥ ३॥
कामादि सर्पव्रज गारुडाभ्यां
विवेक वैराग्य निधि प्रदाभ्याम् ।
बोध प्रदाभ्यां दृतमोक्षदाभ्यां
नमो नमः श्री गुरुपादुकाभ्याम् ॥ ४॥
अनन्त संसार समुद्र तार
नौकायिताभ्यां स्थिरभक्तिदाभ्याम् ।
जाड्याब्धि संशोषण वाडवाभ्यां
नमो नमः श्री गुरुपादुकाभ्याम् ॥ ५॥
॥ ॐ शान्तिः शान्तिः शान्तिः ॥
॥ अथ श्री गुरुगीता प्रारंभः ॥
श्रीगणेशाय नमः । श्रीसरस्वत्यै नमः । श्रीगुरुभ्यो नमः ।
॥ ॐ ॥
अस्य श्री गुरुगीता स्तोत्रमन्त्रस्य ।
भगवान् सदाशिव ऋषिः ।
नानाविधानि छन्दांसि ।
श्री गुरुपरमात्मा देवता ।
हं बीजम् । सः शक्तिः । क्रों कीलकम् ।
श्री गुरुप्रसादसिद्ध्यर्थे जपे विनियोगः ॥
॥ अथ ध्यानम् ॥
हंसाभ्यां परिवृत्तपत्रकमलैर्दिव्यैर्जगत्कारणैर् -
विश्वोत्कीर्णमनेकदेहनिलयैः स्वच्छन्दमात्मेच्छया ।
तद्द्योतं पदशांभवं तु चरणं दीपाङ्कुरग्राहिणं
प्रत्यक्षाक्षरविग्रहं गुरुपदं ध्यायेद्विभुं शाश्वतम् ॥
मम चतुर्विधपुरुषार्थसिद्ध्यर्थे जपे विनियोगः ।
॥ अथ श्रीगुरुगीता ॥
सूत उवाच -
कैलास शिखरे रम्ये भक्तिसन्धाननायकम् ।
प्रणम्य पार्वती भक्त्या शङ्करं पर्यपृच्छत ॥ १॥
श्री देव्युवाच -
ॐ नमो देवदेवेश परात्परजगद्गुरो ।
सदाशिव महादेव गुरुदीक्षां प्रदेहि मे ॥ २॥
केन मार्गेण भो स्वामिन् देहि ब्रह्ममयो भवेत् ।
त्वं कृपां कुरु मे स्वामिन् नमामि चरणौ तव ॥ ३॥
ईश्वर उवाच -
ममरूपासि देवि त्वं त्वत्प्रीत्यर्थं वदाम्यहम् ।
लोकोपकारकः प्रश्नो न केनापि कृतः पुरा ॥ ४॥
दुर्लभं त्रिषु लोकेषु तच्छृणुष्व वदाम्यहम् ।
गुरुं विना ब्रह्म नान्यत्सत्यं सत्यं वरानने ॥ ५॥
वेदशास्त्रपुराणानि इतिहासादिकानि च ।
मन्त्रयन्त्रादिविद्याश्च स्मृतिरुच्चाटनादिकम् ॥ ६॥
शैवशाक्तागमादीनि अन्यानि विविधानि च ।
अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७॥
यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च ।
गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८॥
गुरुर्बुद्ध्यात्मनो नान्यत् सत्यं सत्यं न संशयः ।
तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः ॥ ९॥
गूढ विद्या जगन्माया देहे चाज्ञानसंभवा ।
उदयो यत्प्रकाशेन गुरुशब्देन कथ्यते ॥ १०॥
सर्वपापविशुद्धात्मा श्रीगुरोः पादसेवनात् ।
देही ब्रह्म भवेद्यस्मात्त्वत्कृपार्थं वदामि ते ॥ ११॥
गुरुपादांबुजं स्मृत्वा जलं शिरसि धारयेत् ।
सर्वतीर्थावगाहस्य सम्प्राप्नोति फलं नरः ॥ १२॥
शोषणं पापपङ्कस्य दीपनं ज्ञानतेजसाम् ।
गुरुपादोदकं सम्यक् संसारार्णवतारकम् ॥ १३॥
अज्ञानमूलहरणं जन्म कर्म निवारणम् ।
ज्ञानवैराग्यसिद्ध्यर्थं गुरुपादोदकं पिबेत् ॥ १४॥
गुरोः पादोदकं पीत्वा गुरोरुच्छिष्टभोजनम् ।
गुरुमूर्तेः सदा ध्यानं गुरुमन्त्रं सदा जपेत् ॥ १५॥
काशी क्षेत्रं तन्निवासो जाह्नवी चरणोदकम् ।
गुरुर्विश्वेश्वरः साक्षात् तारकं ब्रह्म निश्चितम् ॥ १६॥
गुरोः पादोदकं यत्तु गयाऽसौ सोऽक्षयो वटः ।
तीर्थराजः प्रयागश्च गुरुमूर्त्यै नमो नमः ॥ १७॥
गुरुमूर्तिं स्मरेन्नित्यं गुरुनाम सदा जपेत् ।
गुरोराज्ञां प्रकुर्वीत गुरोरन्यन्न भावयेत् ॥ १८॥
गुरुवक्त्रस्थितं ब्रह्म प्राप्यते तत्प्रसादतः ।
गुरोर्ध्यानं सदा कुर्यात्कुलस्त्री स्वपतेर्यथा ॥ १९॥
स्वाश्रमं च स्वजातिं च स्वकीर्तिपुष्टिवर्धनम् ।
एतत्सर्वं परित्यज्य गुरोरन्यन्न भावयेत् ॥ २०॥
अनन्याश्चिन्तयन्तो मां सुलभं परमं पदम् ।
तस्मात् सर्वप्रयत्नेन गुरोराराधनं कुरु ॥ २१॥
त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।
गुरुवक्त्रस्थिता विद्या गुरुभक्त्या तु लभ्यते ॥ २२॥
गुकारस्त्वन्धकारश्च रुकारस्तेज उच्यते ।
अज्ञानग्रासकं ब्रह्म गुरुरेव न संशयः ॥ २३॥
गुकारः प्रथमो वर्णो मायादिगुणभासकः ।
रुकारो द्वितीयो ब्रह्म माया भ्रान्ति विनाशनम् ॥ २४॥
एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम् ।
हाहा हूहू गणैश्चैव गन्धर्वैश्च प्रपूज्यते ॥ २५॥
ध्रुवं तेषां च सर्वेषां नास्ति तत्त्वं गुरोः परम् ।
आसनं शयनं वस्त्रं भूषणं वाहनादिकम् ॥ २६॥
साधकेन प्रदातव्यं गुरुसंतोषकारकम् ।
गुरोराराधनं कार्यं स्वजीवित्वं निवेदयेत् ॥ २७॥
कर्मणा मनसा वाचा नित्यमाराधयेद्गुरुम् ।
दीर्घदण्डं नमस्कृत्य निर्लज्जो गुरुसन्निधौ ॥ २८॥
शरीरमिन्द्रियं प्राणां सद्गुरुभ्यो निवेदयेत् ।
आत्मदारादिकं सर्वं सद्गुरुभ्यो निवेदयेत् ॥ २९॥
कृमिकीटभस्मविष्ठा दुर्गन्धिमलमूत्रकम् ।
श्लेष्मरक्तं त्वचा मांसं वञ्चयेन्न वरानने ॥ ३०॥
संसारवृक्षमारूढाः पतन्तो नरकार्णवे ।
येन चैवोद्धृताः सर्वे तस्मै श्रीगुरवे नमः ॥ ३१॥
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ।
गुरुरेव परब्रह्म तस्मै श्रीगुरवे नमः ॥ ३२॥
हेतवे जगतामेव संसारार्णवसेतवे ।
प्रभवे सर्वविद्यानां शम्भवे गुरवे नमः ॥ ३३॥
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ ३४॥
त्वं पिता त्वं च मे माता त्वं बन्धुस्त्वं च देवता ।
संसारप्रतिबोधार्थं तस्मै श्रीगुरवे नमः ॥ ३५॥
यत्सत्येन जगत्सत्यं यत्प्रकाशेन भाति तत् ।
यदानन्देन नन्दन्ति तस्मै श्रीगुरवे नमः ॥ ३६॥
यस्य स्थित्या सत्यमिदं यद्भाति भानुरूपतः ।
प्रियं पुत्रदि यत्प्रीत्या तस्मै श्रीगुरवे नमः ॥ ३७॥
येन चेतयते हीदं चित्तं चेतयते न यम् ।
जाग्रत्स्वप्नसुषुप्त्यादि तस्मै श्रीगुरवे नमः ॥ ३८॥
यस्य ज्ञानादिदं विश्वं न दृश्यं भिन्नभेदतः ।
सदेकरूपरूपाय तस्मै श्रीगुरवे नमः ॥ ३९॥
यस्यामतं तस्य मतं मतं यस्य न वेद सः ।
अनन्यभाव भावाय तस्मै श्रीगुरवे नमः ॥ ४०॥
यस्य कारणरूपस्य कार्यरूपेण भाति यत् ।
कार्यकारणरूपाय तस्मै श्रीगुरवे नमः ॥ ४१॥
नानारूपमिदं सर्वं न केनाप्यस्ति भिन्नता ।
कार्यकारणता चैव तस्मै श्रीगुरवे नमः ॥ ४२॥
यदङ्घ्रिकमलद्वन्द्वं द्वन्द्वतापनिवारकम् ।
तारकं सर्वदाऽपद्भ्यः श्रीगुरुं प्रणमाम्यहम् ॥ ४३॥
शिवे क्रुद्धे गुरुस्त्राता गुरौ क्रुद्धे शिवो न हि ।
तस्मात् सर्वप्रयत्नेन श्रीगुरुं शरणं व्रजेत् ॥ ४४॥
वन्दे गुरुपदद्वन्द्वं वाङ्मनश्चित्तगोचरम्
श्वेतरक्तप्रभाभिन्नं शिवशक्त्यात्मकं परम् ॥ ४५॥
गुकारं च गुणातीतं रुकारं रूपवर्जितम् ।
गुणातीतस्वरूपं च यो दद्यात्स गुरुः स्मृतः ॥ ४६॥
अत्रिनेत्रः सर्वसाक्षी अचतुर्बाहुरच्युतः ।
अचतुर्वदनो ब्रह्मा श्रीगुरुः कथितः प्रिये ॥ ४७॥
अयं मयाञ्जलिर्बद्धो दया सागरवृद्धये ।
यदनुग्रहतो जन्तुश्चित्रसंसारमुक्तिभाक् ॥ ४८॥
श्रीगुरोः परमं रूपं विवेकचक्षुषोऽमृतम् ।
मन्दभाग्या न पश्यन्ति अन्धाः सूर्योदयं यथा ॥ ४९॥
श्रीनाथचरणद्वन्द्वं यस्यां दिशि विराजते ।
तस्यै दिशे नमस्कुर्याद् भक्त्या प्रतिदिनं प्रिये ॥ ५०॥
तस्यै दिशे सततमञ्जलिरेष आर्ये
प्रक्षिप्यते मुखरितो मधुपैर्बुधैश्च ।
जागर्ति यत्र भगवान्गुरुचक्रवर्ती
विश्वोदय प्रलयनाटकनित्यसाक्षी ॥ ५१॥
श्रीनाथादि गुरुत्रयं गणपतिं पीठत्रयं भैरवं
सिद्धौघं बटुकत्रयं पदयुगं दूतीक्रमं मण्डलम् ।
वीरान्द्व्यष्टचतुष्क षष्टि नवकं वीरावली पञ्चकं
श्रीमन्मालिनिमन्त्रराजसहितं वन्दे गुरोर्मण्डलम् ॥ ५२॥
अभ्यस्तैः सकलैः सुदीर्घमनिलैर्व्याधिप्रदैर्दुष्करैः
प्राणायामशतैरनेककरणैर्दुःखात्मकैर्दुर्जयैः ।
यस्मिन्नभ्युदिते विनश्यति बली वायुः स्वयं तत्क्षणात्
प्राप्तुं तत्सहजं स्वभावमनिशं सेवध्वमेकं गुरुम् ॥ ५३॥
स्वदेशिकस्यैव शरीरचिन्तनं
भवेदनन्तस्य शिवस्य चिन्तनम् ।
स्वदेशिकस्यैव च नामकीर्तनं
भवेदनन्तस्य शिवस्य कीर्तनम् ॥ ५४॥
यत्पादरेणुकणिका कापि संसारवारिधेः ।
सेतुबन्धायते नाथं देशिकं तमुपास्महे ॥ ५५॥
यस्मादनुग्रहं लब्ध्वा महदज्ञानमुत्सृजेत् ।
तस्मै श्रीदेशिकेन्द्राय नमश्चाभीष्टसिद्धये ॥ ५६॥
पादाब्जं सर्वसंसारदावानलविनाशकम् ।
ब्रह्मरन्ध्रे सिताम्भोजमध्यस्थं चन्द्रमण्डले ॥ ५७॥
अकथादित्रिरेखाब्जे सहस्रदलमण्डले ।
हंसपार्श्वत्रिकोणे च स्मरेत्तन्मध्यगं गुरुम् ॥ ५८॥
सकलभुवनसृष्टिः कल्पिताशेषपुष्टिः
निखिलनिगमदृष्टिः सम्पदां व्यर्थदृष्टिः ।
अवगुणपरिमार्ष्टिस्तत्पदार्थैकदृष्टिः
भव गुणपरमेष्टिर्मोक्षमार्गैकदृष्टिः ॥ ५९॥
सकलभुवनरङ्गस्थापना स्तम्भयष्टिः
सकरुणरसवृष्टिस्तत्त्वमालासमष्टिः ।
सकलसमयसृष्टिः सच्चिदानन्ददृष्टिर्-
निवसतु मयि नित्यं श्रीगुरोर्दिव्यदृष्टिः ॥ ६०॥
अग्निशुद्धसमं तात ज्वाला परिचकाधिया ।
मन्त्रराजमिमं मन्येऽहर्निशं पातु मृत्युतः ॥ ६१॥
तदेजति तन्नैजति तद्दूरे तत्समीपके ।
तदन्तरस्य सर्वस्य तदु सर्वस्य बाह्यतः ॥ ६२॥
अजोऽहमजरोऽहं च अनादिनिधनः स्वयम् ।
अविकारश्चिदानन्द अणीयान्महतो महान् ॥ ६३॥
अपूर्वाणां परं नित्यं स्वयंज्योतिर्निरामयम् ।
विरजं परमाकाशं ध्रुवमानन्दमव्ययम् ॥ ६४॥
श्रुतिः प्रत्यक्षमैतिह्यमनुमानश्चतुष्टयम् ।
यस्य चात्मतपो वेद देशिकं च सदा स्मरेत् ॥ ६५॥
मनुञ्च यद्भवं कार्यं तद्वदामि महामते ।
साधुत्वं च मया दृष्ट्वा त्वयि तिष्ठति सांप्रतम् ॥ ६६॥
अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ६७॥
सर्वश्रुतिशिरोरत्नविराजितपदाम्बुजः ।
वेदान्ताम्बुजसूर्यो यस्तस्मै श्रीगुरवे नमः ॥ ६८॥
यस्य स्मरणमात्रेण ज्ञानमुत्पद्यते स्वयम् ।
य एव सर्व सम्प्राप्तिस्तस्मै श्रीगुरवे नमः ॥ ६९॥
चैतन्यं शाश्वतं शान्तं व्योमातीतं निरञ्जनम् ।
नादबिन्दुकलातीतं तस्मै श्रीगुरवे नमः ॥ ७०॥
स्थावरं जङ्गमं चैव तथा चैव चराचरम् ।
व्याप्तं येन जगत्सर्वं तस्मै श्रीगुरवे नमः ॥ ७१॥
ज्ञानशक्तिसमारूढस्तत्त्वमाला विभूषितः ।
भुक्तिमुक्तिप्रदाता यस्तस्मै श्रीगुरवे नमः ॥ ७२॥
अनेकजन्मसम्प्राप्तसर्वकर्मविदाहिने ।
स्वात्मज्ञानप्रभावेण तस्मै श्रीगुरवे नमः ॥ ७३॥
न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः ।
तत्त्वं ज्ञानात्परं नास्ति तस्मै श्रीगुरवे नमः ॥ ७४॥
मन्नाथः श्रीजगन्नाथो मद्गुरुस्त्रिजगद्गुरुः ।
ममात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः ॥ ७५॥
ध्यानमूलं गुरोर्मूर्तिः पूजामूलं गुरोः पदम् ।
मन्त्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा ॥ ७६॥
गुरुरादिरनादिश्च गुरुः परमदैवतम् ।
गुरोः परतरं नास्ति तस्मै श्रीगुरवे नमः ॥ ७७॥
सप्तसागरपर्यन्त तीर्थस्नानादिकं फलम् ।
गुरोरङ्घ्रिपयोबिन्दुसहस्रांशे न दुर्लभम् ॥ ७८॥
हरौ रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ।
तस्मात्सर्वप्रयत्नेन श्रीगुरुं शरणं व्रजेत् ॥ ७९॥
गुरुरेव जगत्सर्वं ब्रह्मविष्णुशिवात्मकम् ।
गुरोः परतरं नास्ति तस्मात्सम्पूजयेद्गुरुम् ॥ ८०॥
ज्ञानं विज्ञानसहितं लभ्यते गुरुभक्तितः ।
गुरोः परतरं नास्ति ध्येयोऽसौ गुरुमार्गिभिः ॥ ८१॥
यस्मात्परतरं नास्ति नेति नेतीति वै श्रुतिः ।
मनसा वचसा चैव नित्यमाराधयेद्गुरुम् ॥ ८२॥
गुरोः कृपा प्रसादेन ब्रह्मविष्णुसदाशिवाः ।
समर्थाः प्रभवादौ च केवलं गुरुसेवया ॥ ८३॥
देवकिन्नरगन्धर्वाः पितरो यक्षचारणाः ।
मुनयोऽपि न जानन्ति गुरुशुश्रूषणे विधिम् ॥ ८४॥
महाहङ्कारगर्वेण तपोविद्याबलान्विताः ।
संसारकुहरावर्ते घटयन्त्रे यथा घटाः ॥ ८५॥
न मुक्ता देवगन्धर्वाः पितरो यक्षकिन्नराः ।
ऋषयः सर्वसिद्धाश्च गुरुसेवा पराङ्मुखाः ॥ ८६॥
ध्यानं शृणु महादेवि सर्वानन्दप्रदायकम् ।
सर्वसौख्यकरं नित्यं भुक्तिमुक्तिविधायकम् ॥ ८७॥
श्रीमत्परब्रह्म गुरुं स्मरामि
श्रीमत्परब्रह्म गुरुं वदामि ।
श्रीमत्परब्रह्म गुरुं नमामि
श्रीमत्परब्रह्म गुरुं भजामि ॥ ८८॥
ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिं
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् ।
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं
भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥ ८९॥
नित्यं शुद्धं निराभासं निराकारं निरञ्जनम् ।
नित्यबोधं चिदानन्दं गुरुं ब्रह्म नमाम्यहम् ॥ ९०॥
हृदम्बुजे कर्णिकमध्यसंस्थे
सिंहासने संस्थितदिव्यमूर्तिम् ।
ध्यायेद्गुरुं चन्द्रकलाप्रकाशं
चित्पुस्तकाभीष्टवरं दधानम् ॥ ९१॥
श्वेताम्बरं श्वेतविलेपपुष्पं
मुक्ताविभूषं मुदितं द्विनेत्रम् ।
वामाङ्कपीठस्थितदिव्यशक्तिं
मन्दस्मितं सान्द्रकृपानिधानम् ॥ ९२॥
आनन्दमानन्दकरं प्रसन्नं
ज्ञानस्वरूपं निजबोधयुक्तम् ।
योगीन्द्रमीड्यं भवरोगवैद्यं
श्रीमद्गुरुं नित्यमहं नमामि ॥ ९३॥
यस्मिन्सृष्टिस्थितिध्वंसनिग्रहानुग्रहात्मकम् ।
कृत्यं पञ्चविधं शश्वद्भासते तं नमाम्यहम् ॥ ९४॥
प्रातः शिरसि शुक्लाब्जे द्विनेत्रं द्विभुजं गुरुम् ।
वराभययुतं शान्तं स्मरेत्तं नामपूर्वकम् ॥ ९५॥
न गुरोरधिकं न गुरोरधिकं
न गुरोरधिकं न गुरोरधिकम् ।
शिवशासनतः शिवशासनतः
शिवशासनतः शिवशासनतः ॥ ९६॥
इदमेव शिवं त्विदमेव शिवं
त्विदमेव शिवं त्विदमेव शिवम् ।
मम शासनतो मम शासनतो
मम शासनतो मम शासनतः ॥ ९७॥
एवंविधं गुरुं ध्यात्वा ज्ञानमुत्पद्यते स्वयम् ।
तत्सद्गुरुप्रसादेन मुक्तोऽहमिति भावयेत् ॥ ९८॥
गुरुदर्शितमार्गेण मनःशुद्धिं तु कारयेत् ।
अनित्यं खण्डयेत्सर्वं यत्किञ्चिदात्मगोचरम् ॥ ९९॥
ज्ञेयं सर्वस्वरूपं च ज्ञानं च मन उच्यते ।
ज्ञानं ज्ञेयसमं कुर्यान् नान्यः पन्था द्वितीयकः ॥ १००॥
एवं श्रुत्वा महादेवि गुरुनिन्दां करोति यः ।
स याति नरकं घोरं यावच्चन्द्रदिवाकरौ ॥ १०१॥
यावत्कल्पान्तको देहस्तावदेव गुरुं स्मरेत् ।
गुरुलोपो न कर्तव्यः स्वच्छन्दो यदि वा भवेत् ॥ १०२॥
हुङ्कारेण न वक्तव्यं प्राज्ञैः शिष्यैः कथञ्चन ।
गुरोरग्रे न वक्तव्यमसत्यं च कदाचन ॥ १०३॥
गुरुं त्वंकृत्य हुंकृत्य गुरुं निर्जित्य वादतः ।
अरण्ये निर्जले देशे स भवेद्ब्रह्मराक्षसः ॥ १०४॥
मुनिभिः पन्नगैर्वाऽपि सुरैर्वा शापितो यदि ।
कालमृत्युभयाद्वापि गुरू रक्षति पार्वति ॥ १०५॥
अशक्ता हि सुराद्याश्च अशक्ता मुनयस्तथा ।
गुरुशापेन ते शीघ्रं क्षयं यान्ति न संशयः ॥ १०६॥
मन्त्रराजमिदं देवि गुरुरित्यक्षरद्वयम् ।
स्मृतिवेदार्थवाक्येन गुरुः साक्षात्परं पदम् ॥ १०७॥
श्रुतिस्मृती अविज्ञाय केवलं गुरुसेवकाः ।
ते वै संन्यासिनः प्रोक्ता इतरे वेषधारिणः ॥ १०८॥
नित्यं ब्रह्म निराकारं निर्गुणं बोधयेत् परम् ।
सर्वं ब्रह्म निराभासं दीपो दीपान्तरं यथा ॥ १०९॥
गुरोः कृपाप्रसादेन आत्मारामं निरीक्षयेत् ।
अनेन गुरुमार्गेण स्वात्मज्ञानं प्रवर्तते ॥ ११०॥
आब्रह्म स्तंबपर्यन्तं परमात्मस्वरूपकम् ।
स्थावरं जङ्गमं चैव प्रणमामि जगन्मयम् ॥ १११॥
वन्देऽहं सच्चिदानन्दं भेदातीतं सदा गुरुम् ।
नित्यं पूर्णं निराकारं निर्गुणं स्वात्मसंस्थितम् ॥ ११२॥
परात्परतरं ध्येयं नित्यमानन्दकारकम् ।
हृदयाकाशमध्यस्थं शुद्धस्फटिकसन्निभम् ॥ ११३॥
स्फटिकप्रतिमारूपं दृश्यते दर्पणे यथा ।
तथात्मनि चिदाकारमानन्दं सोऽहमित्युत ॥ ११४॥
अङ्गुष्ठमात्रपुरुषं ध्यायतश्चिन्मयं हृदि ।
तत्र स्फुरति भावो यः शृणु तं कथयाम्यहम् ॥ ११५॥
अगोचरं तथाऽगम्यं नामरूपविवर्जितम् ।
निःशब्दं तद्विजानीयात् स्वभावं ब्रह्म पार्वति ॥ ११६॥
यथा गन्धः स्वभावेन कर्पूरकुसुमादिषु ।
शीतोष्णादि स्वभावेन तथा ब्रह्म च शाश्वतम् ॥ ११७॥
स्वयं तथाविधो भूत्वा स्थातव्यं यत्रकुत्रचित् ।
कीटभ्रमरवत्तत्र ध्यानं भवति तादृशम् ॥ ११८॥
गुरुध्यानं तथा कृत्वा स्वयं ब्रह्ममयो भवेत् ।
पिण्डे पदे तथा रूपे मुक्तोऽसौ नात्र संशयः ॥ ११९॥
श्री पार्वत्युवाच -
पिण्डं किं तु महादेव पदं किं समुदाहृतम् ।
रूपातीतं च रूपं किमेतदाख्याहि शङ्कर ॥ १२०॥
श्री महादेव उवाच -
पिण्डं कुण्डलिनीशक्तिः पदं हंसमुदाहृतम् ।
रूपं बिन्दुरिति ज्ञेयं रूपातीतं निरञ्जनम् ॥ १२१॥
पिण्डे मुक्ता पदे मुक्ता रूपे मुक्ता वरानने ।
रूपातीते तु ये मुक्तास्ते मुक्ता नात्र संशयः ॥ १२२॥
स्वयं सर्वमयो भूत्वा परं तत्त्वं विलोकयेत् ।
परात्परतरं नान्यत् सर्वमेतन्निरालयम् ॥ १२३॥
तस्यावलोकनं प्राप्य सर्वसङ्गविवर्जितः ।
एकाकी निःस्पृहः शान्तस्तिष्ठासेत्तत्प्रसादतः ॥ १२४॥
लब्धं वाऽथ न लब्धं वा स्वल्पं वा बहुलं तथा ।
निष्कामेनैव भोक्तव्यं सदा संतुष्टचेतसा ॥ १२५॥
सर्वज्ञपदमित्याहुर्देही सर्वमयो बुधाः ।
सदानन्दः सदा शान्तो रमते यत्रकुत्रचित् ॥ १२६॥
यत्रैव तिष्ठते सोऽपि स देशः पुण्यभाजनम् ।
मुक्तस्य लक्षणं देवि तवाग्रे कथितं मया ॥ १२७॥
उपदेशस्तथा देवि गुरुमार्गेण मुक्तिदः ।
गुरुभक्तिस्तथा ध्यानं सकलं तव कीर्तितम् ॥ १२८॥
अनेन यद्भवेत्कार्यं तद्वदामि महामते ।
लोकोपकारकं देवि लौकिकं तु न भावयेत् ॥ १२९॥
लौकिकात्कर्मणो यान्ति ज्ञानहीना भवार्णवम् ।
ज्ञानी तु भावयेत्सर्वं कर्म निष्कर्म यत्कृतम् ॥ १३०॥
इदं तु भक्तिभावेन पठते शृणुते यदि ।
लिखित्वा तत्प्रदातव्यं तत्सर्वं सफलं भवेत् ॥ १३१॥
गुरुगीतात्मकं देवि शुद्धतत्त्वं मयोदितम् ।
भवव्याधिविनाशार्थं स्वयमेव जपेत्सदा ॥ १३२॥
गुरुगीताक्षरैकं तु मन्त्रराजमिमं जपेत् ।
अन्ये च विविधा मन्त्राः कलां नार्हन्ति षोडशीम् ॥ १३३॥
अनन्तफलमाप्नोति गुरुगीताजपेन तु ।
सर्वपापप्रशमनं सर्वदारिद्र्यनाशनम् ॥ १३४॥
कालमृत्युभयहरं सर्वसङ्कटनाशनम् ।
यक्षराक्षसभूतानां चोरव्याघ्रभयापहम् ॥ १३५॥
महाव्याधिहरं सर्वं विभूतिसिद्धिदं भवेत् ।
अथवा मोहनं वश्यं स्वयमेव जपेत्सदा ॥ १३६॥
वस्त्रासने च दारिद्र्यं पाषाणे रोगसंभवः ।
मोदिन्यां दुःखमाप्नोति काष्ठे भवति निष्फलम् ॥ १३७॥
कृष्णाजिने ज्ञानसिद्धिर्मोक्षश्री व्याघ्रचर्मणि ।
कुशासने ज्ञानसिद्धिः सर्वसिद्धिस्तु कंबले ॥ १३८॥
कुशैर्वा दूर्वया देवि आसने शुभ्रकंबले ।
उपविश्य ततो देवि जपेदेकाग्रमानसः ॥ १३९॥
ध्येयं शुक्लं च शान्त्यर्थं वश्ये रक्तासनं प्रिये ।
अभिचारे कृष्णवर्णं पीतवर्णं धनागमे ॥ १४०॥
उत्तरे शान्तिकामस्तु वश्ये पूर्वमुखो जपेत् ।
दक्षिणे मारणं प्रोक्तं पश्चिमे च धनागमः ॥ १४१॥
मोहनं सर्वभूतानां बन्धमोक्षकरं भवेत् ।
देवराजप्रियकरं सर्वलोकवशं भवेत् ॥ १४२॥
सर्वेषां स्तंभनकरं गुणानां च विवर्धनम् ।
दुष्कर्मनाशनं चैव सुकर्मसिद्धिदं भवेत् ॥ १४३॥
असिद्धं साधयेत्कार्यं नवग्रहभयापहम् ।
दुःस्वप्ननाशनं चैव सुस्वप्नफलदायकम् ॥ १४४॥
सर्वशान्तिकरं नित्यं तथा वन्ध्यासुपुत्रदम् ।
अवैधव्यकरं स्त्रीणां सौभाग्यदायकं सदा ॥ १४५॥
आयुरारोग्यमैश्वर्यपुत्रपौत्रप्रवर्धनम् ।
अकामतः स्त्री विधवा जपान्मोक्षमवाप्नुयात् ॥ १४६॥
अवैधव्यं सकामा तु लभते चान्यजन्मनि ।
सर्वदुःखभयं विघ्नं नाशयेच्छापहारकम् ॥ १४७॥
सर्वबाधाप्रशमनं धर्मार्थकाममोक्षदम् ।
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ॥ १४८॥
कामितस्य कामधेनुः कल्पनाकल्पपादपः ।
चिन्तामणिश्चिन्तितस्य सर्वमङ्गलकारकम् ॥ १४९॥
मोक्षहेतुर्जपेन्नित्यं मोक्षश्रियमवाप्नुयात् ।
भोगकामो जपेद्यो वै तस्य कामफलप्रदम् ॥ १५०॥
जपेच्छाक्तश्च सौरश्च गाणपत्यश्च वैष्णवः ।
शैवश्च सिद्धिदं देवि सत्यं सत्यं न संशयः ॥ १५१॥
अथ काम्यजपे स्थानं कथयामि वरानने ।
सागरे वा सरित्तीरेऽथवा हरिहरालये ॥ १५२॥
शक्तिदेवालये गोष्ठे सर्वदेवालये शुभे ।
वटे च धात्रीमूले वा मठे वृन्दावने तथा ॥ १५३॥
पवित्रे निर्मले स्थाने नित्यानुष्ठानतोऽपि वा ।
निर्वेदनेन मौनेन जपमेतं समाचरेत् ॥ १५४॥
श्मशाने भयभूमौ तु वटमूलान्तिके तथा ।
सिद्ध्यन्ति धौत्तरे मूले चूतवृक्षस्य सन्निधौ ॥ १५५॥
गुरुपुत्रो वरं मूर्खस्तस्य सिद्ध्यन्ति नान्यथा ।
शुभकर्माणि सर्वाणि दीक्षाव्रततपांसि च ॥ १५६॥
संसारमलनाशार्थं भवपाशनिवृत्तये ।
गुरुगीताम्भसि स्नानं तत्त्वज्ञः कुरुते सदा ॥ १५७॥
स एव च गुरुः साक्षात् सदा सद्ब्रह्मवित्तमः ।
तस्य स्थानानि सर्वाणि पवित्राणि न संशयः ॥ १५८॥
सर्वशुद्धः पवित्रोऽसौ स्वभावाद्यत्र तिष्ठति ।
तत्र देवगणाः सर्वे क्षेत्रे पीठे वसन्ति हि ॥ १५९॥
आसनस्थः शयानो वा गच्छंस्तिष्ठन् वदन्नपि ।
अश्वारूढो गजारूढः सुप्तो वा जागृतोऽपि वा ॥ १६०॥
शुचिष्मांश्च सदा ज्ञानी गुरुगीताजपेन तु ।
तस्य दर्शनमात्रेण पुनर्जन्म न विद्यते ॥ १६१॥
समुद्रे च यथा तोयं क्षीरे क्षीरं घृते घृतम् ।
भिन्ने कुंभे यथाकाशस्तथात्मा परमात्मनि ॥ १६२॥
तथैव ज्ञानी जीवात्मा परमात्मनि लीयते ।
ऐक्येन रमते ज्ञानी यत्र तत्र दिवानिशम् ॥ १६३॥
एवंविधो महामुक्तः सर्वदा वर्तते बुधः ।
तस्य सर्वप्रयत्नेन भावभक्तिं करोति यः ॥ १६४॥
सर्वसन्देहरहितो मुक्तो भवति पार्वति ।
भुक्तिमुक्तिद्वयं तस्य जिह्वाग्रे च सरस्वती ॥ १६५॥
अनेन प्राणिनः सर्वे गुरुगीता जपेन तु ।
सर्वसिद्धिं प्राप्नुवन्ति भुक्तिं मुक्तिं न संशयः ॥ १६६॥
सत्यं सत्यं पुनः सत्यं धर्म्यं साङ्ख्यं मयोदितम् ।
गुरुगीतासमं नास्ति सत्यं सत्यं वरानने ॥ १६७॥
एको देव एकधर्म एकनिष्ठा परं तपः ।
गुरोः परतरं नान्यन्नास्ति तत्त्वं गुरोः परम् ॥ १६८॥
माता धन्या पिता धन्यो धन्यो वंशः कुलं तथा ।
धन्या च वसुधा देवि गुरुभक्तिः सुदुर्लभा ॥ १६९॥
शरीरमिन्द्रियं प्राणाश्चार्थः स्वजनबान्धवाः ।
माता पिता कुलं देवि गुरुरेव न संशयः ॥ १७०॥
आकल्पजन्मना कोट्या जपव्रततपःक्रियाः ।
तत्सर्वं सफलं देवि गुरुसंतोषमात्रतः ॥ १७१॥
विद्यातपोबलेनैव मन्दभाग्याश्च ये नराः ।
गुरुसेवां न कुर्वन्ति सत्यं सत्यं वरानने ॥ १७२॥
ब्रह्मविष्णुमहेशाश्च देवर्षिपितृकिन्नराः ।
सिद्धचारणयक्षाश्च अन्येऽपि मुनयो जनाः ॥ १७३॥
गुरुभावः परं तीर्थमन्यतीर्थं निरर्थकम् ।
सर्वतीर्थाश्रयं देवि पादाङ्गुष्ठं च वर्तते ॥ १७४॥
जपेन जयमाप्नोति चानन्तफलमाप्नुयात् ।
हीनकर्म त्यजन्सर्वं स्थानानि चाधमानि च ॥ १७५॥
जपं हीनासनं कुर्वन्हीनकर्मफलप्रदम् ।
गुरुगीतां प्रयाणे वा सङ्ग्रामे रिपुसङ्कटे ॥ १७६॥
जपञ्जयमवाप्नोति मरणे मुक्तिदायकम् ।
सर्वकर्म च सर्वत्र गुरुपुत्रस्य सिद्ध्यति ॥ १७७॥
इदं रहस्यं नो वाच्यं तवाग्रे कथितं मया ।
सुगोप्यं च प्रयत्नेन मम त्वं च प्रिया त्विति ॥ १७८॥
स्वामि मुख्यगणेशादि विष्ण्वादीनां च पार्वति ।
मनसापि न वक्तव्यं सत्यं सत्यं वदाम्यहम् ॥ १७९॥
अतीवपक्वचित्ताय श्रद्धाभक्तियुताय च ।
प्रवक्तव्यमिदं देवि ममात्माऽसि सदा प्रिये ॥ १८०॥
अभक्ते वञ्चके धूर्ते पाखण्डे नास्तिके नरे ।
मनसापि न वक्तव्या गुरुगीता कदाचन ॥ १८१॥
संसारसागरसमुद्धरणैकमन्त्रं
ब्रह्मादिदेवमुनिपूजितसिद्धमन्त्रम् ॥
दारिद्र्यदुःखभवरोगविनाशमन्त्रं
वन्दे महाभयहरं गुरुराजमन्त्रम् ॥ १८२॥
॥ इति श्रीस्कंदपुराणे उत्तरखंडे ईश्वरपार्वती संवादे गुरुगीता समाप्त ॥
॥ श्रीगुरुदत्तात्रेयार्पणमस्तु ॥
गुहगीता
अथ गुहगीता प्रारम्भः ।
अथ प्रथमोऽध्यायः
मनोविकारः
विप्रा ऊचुः-
सूतपुत्र महाप्राज्ञ कथकोऽसि दयाकर ।
गुहगीतां च नो वक्तुं त्वमेवार्हसि चानघ ॥ १.१॥
सूत उवाच-
कुतुकी गुहगीतायाः श्रवणे तत्परो मुनिः ।
कर्मयोगी हिडिम्भं च प्रार्थयन् प्रत्यहं स्थितः ॥ १.२॥
श्रान्तोऽसि किं वा श्रोतुं मे चारित्रं वच्मि सादरम् ।
वदन्नेवं हिडिम्भश्चाप्यागतः पुनरेकदा ॥ १.३॥
मुनिरुवाच-
सत्कारं स्वीकुरुष्वाद्य गुहगीतां दयानिधे ।
हिडिम्भ ब्रूहि मे वक्ता त्वमेव खलु भक्तराट् ॥ १.४॥
हिडिम्भ उवाच-
बहुधा सेवितः स्वामी मया भिक्षुः षडाननः ।
प्रसादमकरोत् दिव्यकरुणापाङ्गतो मयि ॥ १.५॥
तदाऽहं सभयं भक्त्या सहितः प्रणमन् गुरो ।
किं त्वया निहता भिक्षो पूर्वजा मम चान्वये ॥ १.६॥
किमहं रक्षितश्चास्मि त्वया तत्कारणं वद ।
न मन्ये त्वां विना ह्यन्यं मत्सन्देहनिवारकम् ॥ १.७॥
श्रीभिक्षुरुवाच-
प्रशिष्योऽसि हिडिम्भ त्वं साक्षात् शिष्यश्च पार्षदः ।
हन्त ते कथयिष्यामि तत्त्वं शृणु समाहितः ॥ १.८॥
अभयं सत्त्वसंशुद्धिः ज्ञानयोगव्यवस्थितिः ।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ १.९॥
अहिंसा सत्यमक्रोधः त्यागश्शान्तिरपैशुनम् ।
दया भूतेष्वलोलुप्तिः मार्दवं ह्रीरचापलम् ॥ १.१०॥
तेजः क्षमा धृतिः शौचं अद्रोहो नातिमानिता ।
भवन्ति सम्पदं दैवीं अभिजाते हिडिम्भक ॥ १.११॥
दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च ।
अज्ञानं चाभिजातेषु सम्पदं राक्षसीं बत ॥ १.१२॥
ते पूर्वजाः शूरमुख्या अभिजाताश्च राक्षसीम् ।
प्रवृत्तिं च निवृत्तिं च न जानन्ति हि राक्षसाः ॥ १.१३॥
न शौचं न सदाचारो न सत्यं तेषु विद्यते ।
प्रभूता ह्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥ १.१४॥
कामोपभोगपरमाः क्रोधोपात्तबलाधिकाः ।
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ॥ १.१५॥
ईश्वरोऽहमहं भोगी कोऽन्योस्ति सदृशो मया ।
यक्ष्ये दास्यामि मोदिष्ये इत्यज्ञानविमोहिताः ॥ १.१६॥
मयैव निहताः पूर्वे लोकरक्षेच्छया किल ।
मा शुचः सम्पदं दैवीं अभिजातोऽस्यनामयः ॥ १.१७॥
पुण्यपुञ्जप्रभावोऽसि गुरुणा कुम्भजन्मना ।
मयैव सञ्जीवितोऽसि निहतोऽपि हिडिम्भक ॥ १.१८॥
आर्तोऽसि जिज्ञासुरसि ज्ञानी चासि हिडिम्भक ।
मत्सेवार्थ्यसि का चिन्ता सुखी भव निरन्तरम् ॥ १.१९॥
हिडिम्भ उवाच-
तदा मे सद्गुरोर्भिक्षोः उक्तदिव्योपदेशतः ।
मत्पूर्विकमहाभोगभाग्यवैभवसंसृतेः ॥ १.२०॥
आनन्दबाष्पा उद्रिक्ताः साकं दुःखाश्रुभिर्बत ।
निर्विण्णोऽहं स्वयं बुद्धो निश्चेष्टोऽस्मि ततो गुरोः ॥ १.२१॥
भिक्षुरुवाच-
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।
गतासूनगतांसूंश्च नानुशोचति तत्ववित् ॥ १.२२॥
नत्वेवाहं जातु नासं न त्वं नेमे त्वदग्रजाः ।
न चैव न भविष्यामः सर्वे वयमतः परम् ॥ १.२३॥
देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ १.२४॥
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।
विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति ॥ १.२५॥
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ १.२६॥
अच्छेद्योऽयमदाह्योऽयं अक्लेद्योऽशोष्य एव च ।
नित्यस्सर्वगतः स्थाणुः अचलोऽयं सनातनः ॥ १.२७॥
अव्यक्तोऽयं अचिन्त्योऽयं अविकार्योऽयमुच्यते ।
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥ १.२८॥
यदिदं दृश्यते सर्वं जगत् स्थावरजङ्गमम् ।
तत् सुषुप्ताविव स्वप्नः कल्पान्ते प्रविनश्यति ॥ १.२९॥
ऋतमात्मा परं ब्रह्म सत्यमित्यादिका बुधैः ।
कल्पिता व्यवहारार्थं यस्य सञ्ज्ञा महात्मनः ॥ १.३०॥
यथा कटकशब्दार्थः पृथग्भावो न काञ्चनात् ।
न हेमकटकात् तद्वत् जगत् शब्दार्थता परे ॥ १.३१॥
तेनेयमिन्द्रजाल क्रीडागतिः प्रवितन्यते ।
द्रष्टुर्दृश्यस्य सत्तान्तः बन्ध इत्यभिधीयते ॥ १.३२॥
दृष्ट्वा दृश्यवशात् बद्धो दृश्याभावे विमुच्यते ।
जगत्त्वमहमित्यादि सर्गात्मा दृश्यमुच्यते ॥ १.३३॥
मनस्तेनेन्द्रजलश्रीः जगती प्रवितन्यते ।
यावदेतत् सम्भवति तावन्मोक्षो न विद्यते ॥ १.३४॥
ब्रह्मणा तन्यते विश्वं मनसैव स्वयम्भुवा ।
मनोमयमतो विश्वं यन्नाम परिदृश्यते ॥ १.३५॥
न बाह्ये नापि हृदये सद्रूपं विद्यते मनः ।
यदर्थं प्रतिभानं तत् मन इत्यभिधीयते ॥ १.३६॥
सङ्कल्पनं मनो विद्धि सङ्कल्पस्तत्र विद्यते ।
यत्र सङ्कल्पनं तत्र मनोऽस्तीत्यवगम्यताम् ॥ १.३७॥
सङ्कल्पमनसी भिन्ने न कदाचन केनचित् ।
सङ्कल्पजाते गलिते स्वरूपमवशिष्यते ॥ १.३८॥
अहं त्वं जगदित्यादौ प्रशान्ते दृश्यसम्भ्रमे ।
स्यात् तादृशी केवलता दृश्ये सत्तामुपागते ॥ १.३९॥
महाप्रलय सम्पत्तौ ह्यसत्तां समुपागते ।
अशेषदृश्ये सर्गादौ शान्तमेवावशिष्यते ॥ १.४०॥
मनसा भाव्यमानो हि देहतां याति देहकः ।
मनोविलासः संसार इति मे निश्चिता मतिः ॥ १.४१॥
अन्तःकरणसद्भावस्त्वविद्यायाश्च सम्भवः ।
अनेककोटिब्रह्माण्डं सर्वं मिथ्येति निश्चिनु ॥ १.४२॥
जीवन्नेव सदा मुक्तः कृतार्थो ब्रह्मवित्तमः ।
उपाधिनाशाद्ब्रह्मैव स ब्रह्माप्नोति निर्भयम् ॥ १.४३॥
तद्ब्रह्मानन्दमद्वन्द्वं निर्गुणं सत्यचिद्घनम् ।
विदित्वा स्वात्मनो रूपं मा बिभेस्त्वं कदाचन ॥ १.४४॥
सर्वं च खल्विदं ब्रह्म नित्यं चिद्घनमक्षतम् ।
कल्पनाऽन्या मनोनाम्नी विद्यते नहि काचन ॥ १.४५॥
न जायते न म्रियते किञ्चिदत्र जगत्त्रये ।
न च भावविकाराणां सत्ता कचन विद्यते ॥ १.४६॥
नाहं मांसं न चास्थीनि देहादन्यः परोऽस्म्यहम् ।
इति निश्चितवानन्तः क्षीणाविद्यो विमुच्यते ॥ १.४७॥
मा भवाज्ञो भव ज्ञस्त्वं जहि संसारभावनाम् ।
अनात्मन्यात्मभावेन किमज्ञ इव रोदषि ॥ १.४८॥
कस्तवायं जडो मूको देहो मांसमयोऽशुचिः ।
यदर्थं सुखदुःखाभ्यां अवशः परिभूयसे ॥ १.४९॥
अङ्गान्यङ्गैरिवाक्रम्य जयेदादौ स्वकं मनः ।
मनसो विजयान्नान्या गतिरस्ति भवार्णवे ॥ १.५०॥
प्रक्षीणचित्तदर्पस्य निगृहीतेन्द्रियद्विषः ।
पद्मिन्य इव हेमन्ते क्षीयन्ते भोगवासनाः ॥ १.५१॥
विवेकं परमाश्रित्य बुद्ध्या सत्यमवेक्ष्य च ।
इन्द्रियारीनलं छित्वा तीर्णो भव भवार्णवात् ॥ १.५२॥
यद्यत्करोषि सत्येन सर्वं मिथ्येति निश्चिनु ।
त्वमेव परमात्मासि त्वं ब्रह्मासि न संशयः ॥ १.५३॥
इति कलिसन्तारक श्रीगुहगीतायां ब्रह्मविद्यायां
अद्वैतशास्त्रे भिक्षुरूपिगुहहिडिम्भसंवादे
मनोविकारो नाम प्रथमोऽध्यायः ॥ १॥
अथ द्वितीयोऽध्यायः
सर्वत्र समभावना
श्रीभिक्षुरुवाच-
अन्तरास्थां परित्यज्य भावश्रीं भावनामयीम् ।
योऽसि सोऽसि जगत्यस्मिन् लीलया विहरानघ ॥ २.१॥
सर्वत्राहं अकर्तेति दृढभावनयाऽनया ।
परमामृतनाम्नी सा समतैवावशिष्यते ॥ २.२॥
खेदोल्लासविलासेषु स्वात्मकर्तृतयैकया ।
स्वसङ्कल्पे क्षयं याते समतैवावशिष्यते ॥ २.३॥
समता सर्वभूतेषु यासौ सत्यपरा स्थितिः ।
तस्यां अवस्थितं चित्तं न भूयो जन्मभाग्भवेत् ॥ २.४॥
अथवा सर्वकर्तृत्वं अकर्तृत्वं तथैव च ।
सर्वं त्यक्त्वा मनः पीत्वा योऽसि सोऽसि स्थिरो भव ॥ २.५॥
शेषस्थिरसमाधानो येन त्यजसि तत्त्यज ।
चिन्मनः कलनाकारं प्रकाशतिमिरादिकम् ॥ २.६॥
वासनां वासितारं च प्राणस्पन्दनपूर्वकम् ।
समूलमखिलं त्यक्त्वा व्योमसाम्यः प्रशान्तधीः ॥ २.७॥
हृदयात्सम्परित्यज्य वासनापङ्क्तयोऽखिलाः ।
यस्तिष्ठति गतव्यग्रः स मुक्तः परमेश्वरः ॥ २.८॥
दृष्टं द्रष्टव्यमखिलं भ्रान्तं भ्रान्त्या दिशो दश ।
युक्त्या वै चरतोऽज्ञस्य संसारो गोष्पदाकृतिः ॥ २.९॥
सबाह्याभ्यन्तरे देहे ह्यध ऊर्ध्वं च दिक्षु च ।
इत आत्मा ततोऽप्यात्मा नास्त्यनात्ममयं जगत् ॥ २.१०॥
न तदस्ति न यत्राहं न तदस्ति न तन्मयम् ।
किमन्यत् अभिवाञ्छामि सर्वं सच्चिन्मयं ततम् ॥ २.११॥
समस्तं खल्विदं ब्रह्म परमात्मेदमाततम् ।
अहमन्यत् इदं चान्यत् इति भ्रान्ति त्यजानघ ॥ २.१२॥
ततो ब्रह्मघने नित्ये सम्भवन्ति न कल्पिताः ।
न शोकोऽस्ति न मोहोऽस्ति न जराऽस्ति न जन्म च ॥ २.१३॥
यदस्तीह तदेवास्ति विज्वरो भव सर्वदा ।
यया प्राप्तानुभवतः सर्वत्रानभिवाञ्छनात् ।
त्यागादान परित्यागी विज्वरो भव सर्वदा ॥ २.१४॥
न वर्णाश्रमाचारधर्माः कुतस्ते
न पुण्यं न पापं न धर्मोऽप्यधर्मः ।
न पूज्योऽप्यपूज्यः सदाऽऽनन्दभावं
परं ब्रह्म साक्षात् त्वमेवासि तात ॥
हिडिम्भ उवाच-
एवमुक्त्वा विसृष्टोऽहं ब्रह्मसाक्षात्कृतिं ददौ ।
तदादि ब्रह्मभावेन स्थितोऽहं गतकल्मषः ॥ २.१६॥
ब्रह्माकाराकारितान्तर्वृत्तिः कल्पितवानहम् ।
सर्वं सुब्रह्मण्यमयं जगद्भाति न संशयः ॥ २.१७॥
वाचामगोचरं दिव्यं मनोऽतीतं महाद्युतिम् ।
तद्ब्रह्मानुभवं पूर्णानन्दं वक्तुं न शक्यते ॥ २.१८॥
तूष्णीं स्थित्वा भिक्षुणा सम्बोधितोऽहं प्रणम्य तम् ।
यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ २.१९॥
तवैवानुग्रहेणाहं सच्चिदानन्दमात्रकः ।
किं वा वक्तुं न शक्नोमि भगवन् तव सन्निधौ ॥ २.२०॥
एवं गद्गदया वाचाऽप्यपृच्छं भिक्षुमव्ययम् ।
कृताञ्जलिपुटो भूत्वा नमस्कृत्य पुनःपुनः ॥ २.२१॥
स्थाने भिक्षो तवोक्त्याऽहं ध्यात्वा त्वामेव सन्ततम् ।
जीवन्मुक्तोऽस्मि तादात्म्यनिश्चयादेव षण्मुख ॥ २.२२॥
वर्णाश्रमाचारधर्माः किमर्थं वेदचोदिताः ।
तैर्बद्धाः कीदृशा लोके मुक्ताः कीदृग्विधा अपि ॥ २.२३॥
श्रीभिक्षुरुवाच-
हन्त ते कथयाम्यद्य तत्त्वं शृणु सनातनम् ।
अविद्योपाधिनाऽशान्तप्राणिनो जगति स्थिताः ॥ २.२४॥
वर्णाश्रमादिधर्माश्च सुकृतं दुष्कृतं तथा ।
साप्यविद्याऽनेकजन्मवासनापिहिता मता ॥ २.२५॥
नादिरन्तोऽस्ति तस्यास्तु ब्रह्मज्ञानेन केवलम् ।
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ॥ २.२६॥
सर्वं ब्रह्मैवेति मतिः स महात्मा सुदुर्लभः ।
पुराऽपृच्छदगस्त्योऽपि प्रणम्य पितरं मम ॥ २.२७॥
वर्णाश्रमादिधर्मास्तु कथम्भूता विभो इति ।
तदहं सङ्ग्रहेणैव वच्मि शृणु सनातनम् ॥ २.२८॥
सहस्रशीर्षे भगवान् स्थितो नारायणाभिधः ।
क्षीराब्धौ चिन्तयन् शम्भुं शङ्करं शिवमव्ययम् ॥ २.२९॥
कदाचित् पङ्कजं दिव्यं तरुणादित्यसन्निभम् ।
तस्य सुप्तस्य देवस्य नाभ्यां जातं महत्तरम् ॥ २.३०॥
हिरण्यगर्भो भगवान् ब्रह्मा विश्वजगत्पतिः ।
आस्थाय परमां मूर्तिं तस्मिन् पद्मे समुद्बभौ ॥ २.३१॥
शिवाज्ञया तस्य पूर्ववासनासहितान्मुखात् ।
ब्रह्मणा ब्राह्मणस्त्रीभिः सहजाता हिडिम्भक ॥ २.३२॥
तस्य हस्तात् सह स्त्रीभिः जज्ञिरे शङ्कराज्ञया ।
स्वस्त्रीषु स्वस्वधर्मेण मार्गेणोत्थः स्वभुर्भवेत् ॥ २.३४॥
अपरासूत्तमाज्जातः त्वनुलोमः प्रकीर्तितः ।
उत्तमास्वपराज्जातः प्रतिलोम इति स्मृतः ॥ २.३५॥
वर्णस्त्रीषु अनुलोमेन जातस्स्यादान्तरालिकः ।
वर्णासु प्रतिलोमेन जातो व्रात्य इति स्मृतः ॥ २.३६॥
ब्राह्मण्यां सधवायां यो ब्राह्मणेनैव मोहतः ।
जातश्चैर्येण कुण्डोऽसौ विधवायां तु गोलकः ॥ २.३७॥
एवमेवानुलोमाश्च प्रतिलोमाश्च जातयः ।
उच्चावचप्रपञ्चेऽस्मिन् बह्व्यो जाता हि कामतः ॥ २.३८॥
वर्णानामाश्रमाः प्रोक्ता मुनिभिश्च सनातनैः ।
तेषां वर्णाश्रमस्थानां वेदकिङ्करता सदा ॥ २.३९॥
चक्षुरादिप्रियाणां च भेदो लोकिपकारकः ।
तद्वद्वर्णाश्रमादीनां भेदो लोकिपकारकः ॥ २.४०॥
षण्णां रसानां भेदोऽस्ति यथा जिह्वोपकारकः ।
तथा वर्णाश्रमादीनां भेदो लोकिपकारकः ॥ २.४१॥
यथा भाक्ष्यविशेषाणां भेदो भोक्तुः प्रयोजकः ।
तथा वर्णाश्रमादीनां भेदो लोकप्रयोजकः ॥ २.४२॥
यथा तरुलतादीनां भेदः फलसमृद्धिदः ।
तथा वर्णाश्रमादीनां भेदः फलसमृद्धिदः ॥ २.४३॥
यथा बहूनां लोहानां भेदः कर्मसमृद्धिदः ।
तथा वर्णाश्रमादीनां भेदः कर्मसमृद्धिदः ॥ २.४४॥
यथा रत्नादिपाषाणभेदो गौरवदायकः ।
तथा वर्णाश्रमादीनां भेदो गौरवदायकः ॥ २.४५॥
यथा पाकप्रभेदो हि देहस्यारोग्यदो भवेत् ।
तथा वर्णाश्रमादीनां भेदो लोकस्य सौख्यदः ॥ २.४६॥
यथा मृगाणां भेदो हि वनस्योल्लासको भवेत् ।
तथा वर्णाश्रमादीनां भेदो लोकस्य रञ्जकः ॥ २.४७॥
यथाऽलङ्कारभेदो हि लोकव्यावृत्तिसूचकः ।
तथा वर्णाश्रमादीनां भेदो व्यावृत्तिसूचकः ॥ २.४८॥
यथाऽनेकायुधानां च भेदो युद्धजयप्रदः ।
तथा वर्णाश्रमादीनां भेदो ज्ञानजयप्रदः ॥ २.४९॥
यथा बहूनां पुष्पाणां भेदो भोगसमृद्धिदः ।
तथा वर्णाश्रमादीनां भेदो धर्मसमृद्धिदः ॥ २.५०॥
यथा शुक्लादिवर्णानां भेदः चक्षुःसुखङ्करः ।
तथा वर्णाश्रमादीनां भेदो जनसुखङ्करः ॥ २.५१॥
ततो वर्णाश्रमाचारे न वैरं परिकल्पयेत् ।
यदा वर्णाश्रमादीनां शात्रवं स्यात् परस्परम् ॥ २.५२॥
तदा लोकस्य संहारः स्वाङ्गैर्देहस्य नाशवत् ।
वर्णानामाश्रमाणां च सङ्करो धर्मनाशकः ॥ २.५३॥
मल्लोकपाशदोऽसि त्वं ततस्त्वां शिक्षयाम्यहम् ।
यदा वर्णाश्रमादीनां यत्र लोपः प्रजायते ॥ २.५४॥
तत्र स्थित्वा प्रसन्नस्त्वं धार्मिकावनदो भव ।
हिडिम्भ स्त्रीषु दुष्टासु जायते वर्णसङ्करः ॥ २.५५॥
स कालः कलिरित्युक्तो लोकधर्मविनाशकः ।
अदृशूला जनपदाः शिवशूलाः चतुष्पदाः ॥ २.५६॥
प्रमदाः केशशूलिन्यो जनकाः पाकशूलिनः ।
स्वदेहशूलिनः सर्वे प्रभवन्ति कलौ युगे ॥ २.५७॥
तस्मात् वर्णाश्रमादीनां रक्षको भव सन्ततम् ।
व्यावहारिकलोकेऽस्मिन् इदं कार्यं त्वया शृणु ॥ २.५८॥
सर्वेषां कर्मणा जातिः नान्यथा कल्पकोटिभिः ।
पश्वादीनां यथा जातिः जन्मनैव च नान्यथा ॥ २.५९॥
साऽपि स्थूलस्य देहस्य भौतिकस्य न चात्मनः ।
तथापि देहेऽहम्मानात् आत्मा विप्रादिसञ्ज्ञितः ॥ २.६०॥
स्वस्वरूपापरिज्ञानात् देहेऽहम्मान आत्मनः ।
अपरिज्ञानमप्यस्य चाविद्यावासनाबलात् ॥ २.६१॥
यस्यापरोक्षविज्ञानं अस्ति श्रीगुर्वनुग्रहात् ।
तस्य नास्ति नियोज्यत्वं इति मे निश्चिता मतिः ॥ २.६२॥
अस्ति चेत् ब्रह्मविज्ञानं स्त्रियो वा पुरुषस्य वा ।
वर्णाश्रमसमाचारः तस्य नास्त्येव सर्वदा ॥ २.६३॥
अविज्ञायात्मविज्ञानं ये स्ववर्णाश्रमादिकान् ।
त्यजन्ति मूढात्मानस्ते पतन्त्येव न संशयः ॥ २.६४॥
हिडिम्भ निस्संशयभावतस्त्वं
दृढं भजन्मां सुविहारको भव ।
मदङ्घ्रिभक्तस्य सदाऽस्तु निर्भयं
पुनश्च किं पृच्छसि मां महामते ॥ २.६५॥
इति कलिसन्तारक श्रीगुहगीतायां ब्रह्मविद्यायां
अद्वैतशास्त्रे भिक्षुरूपिगुहहिडिम्भसंवादे
सर्वत्र समभावनानाम द्वितीयोऽध्यायः ॥ २॥
अथ तृतीयोऽध्यायः
अज्ञानमूलम्
हिडिम्भ उवाच-
स्वामिन् रहस्यं मे ब्रूहि देवानां देहिनां विभो ।
यद्भावनाबलेनैव प्राणी मोक्षमवाप्नुयात् ॥ ३.१॥
श्रीभिक्षुरुवाच-
रहस्यं ते प्रवक्ष्यामि समासेन सविस्तरात् ।
श्रद्धया शृणु शैरेय सर्वसिद्धिकरं परम् ॥ ३.२॥
सर्वेषां कारणं साक्षात् परतत्त्वमवस्थितम् ।
त्वगसृङ्मांसमेदोऽस्थिमज्जाषट्कौशिके स्वयम् ॥ ३.३॥
पाञ्चभौतिकदेहेऽस्मिन् शिवश्शिवतरोऽस्म्यहम् ।
शिवः पञ्चमुखोऽहन्तु षण्मुखस्तत उच्यते ॥ ३.४॥
आवयोरैक्यभावो हि मुक्तिहेतुर्हि प्राणिनाम् ।
शिवपञ्चमुखान्येव ब्रह्माण्डे पञ्चदेवताः ॥ ३.५॥
कार्यं ब्रह्मा महीभागे कायं विष्णुर्जलाशये ।
कार्यं रुद्रोऽग्निभागे च वाय्वंशे चेश्वरः परः ॥ ३.६॥
आकाशांशे शरीरस्य स्थितस्साक्षात् सदाशिवः ।
शरीरस्य बहिर्भागे विराडात्मा स्थितस्सदा ॥ ३.७॥
अन्तर्भागे स्वराडात्मा सम्राड्देहस्य मध्यमे ।
ज्ञानेन्द्रियेषु मनसि श्रोत्रादिषु च पञ्चसु ॥ ३.८॥
मम षड्वदनान्येव ग्लौदिग्वाय्वर्कवार्वराः ।
भूमिश्च कायभूताः स्युः पञ्चहस्तो गणेश्वरः ॥ ३.९॥
कर्मेन्द्रियस्वरूपश्च पादपाण्यादिषु क्रमात् ।
त्रिविक्रमेन्द्र वह्व्याख्याः कायभूताः प्रजापतिः ॥ ३.१०॥
मित्रश्चापि तथा प्राणे सूत्रात्मा सुस्थितस्सदा ।
चतुर्मुखोऽन्तः करणे तदवस्थासु च क्रमात् ॥ ३.११॥
चन्द्रमा मनसि प्रोक्तो बुद्धौ तु स बृहस्पतिः ।
अहङ्कारे च कालाग्निः रुद्रश्चित्ते शिवः स्थितः ॥ ३.१२॥
भूतप्रेतपिशाचाद्याः देहस्यास्थिषु संस्थिताः ।
मज्जाख्ये पितृगन्धर्वाः रोमसु क्षुद्रदेवताः ॥ ३.१३॥
सर्वाश्च राक्षसाश्चैव स्थिताः स्नायुषु सर्वशः ।
वर्तन्ते देवतास्सर्वाः देहेऽस्मिन्नेव संस्थिताः ॥ ३.१४॥
त्रिमूर्तिनां तु यो ब्रह्मा तस्य घोराभिधा तनुः ।
दक्षिणाक्षिणि जन्तूनां शान्ताख्या च तनुस्तथा ॥ ३.१५॥
वर्तन्ते वामनेत्रे चाप्यन्तर्भागे तयोः पुनः ।
बहिर्भागे सूर्यचन्द्रौ वर्तेते कन्धरे तथा ॥ ३.१६॥
त्रिमूर्तीनां तु यो विष्णुः शान्तो घोरोऽन्ततो बहिः ।
त्रिमूर्तीनां तु यो रुद्रः शान्तो घोरोऽन्ततो बहिः ॥ ३.१७॥
चिच्छक्तिः परमा देहमध्ये कुण्डलिनी स्थिता ।
मायाशक्तिर्ललाटाग्रे तन्मध्ये नादरूपिणी ॥ ३.१८॥
अपरांशे बिन्दुमयी तस्य शक्तिः स्थिता स्वयम् ।
जीवात्मा बिन्दुमध्ये तु सूक्ष्मरूपः प्रकाशते ॥ ३.१९॥
हृदये स्थूलरूपेण तयोर्मध्ये तु मध्यमः ।
हृन्मध्ये तु महालक्ष्मीः जिह्वायां तु सरस्वती ॥ ३.२०॥
रुद्राणी सह रुद्रेण हृदये वर्तते सदा ।
ईश्वरस्सर्वत्र देहे सर्वसाक्षी सदाशिवः ॥ ३.२१॥
ज्ञा सम्यक् नवतां देहे सकला देवता अमूः ।
प्रत्यगात्मतया भान्ति देवतारूपतोऽपि च ॥ ३.२२॥
वेदमार्गेकनिष्ठानां विशुद्धानां तु विग्रहे ।
देवतारूपतो भान्ति न भाति प्रत्यगात्मना ॥ ३.२३॥
तान्त्रिकाणां शरीरे तु वर्तन्ते न प्रकाशकाः ।
शुद्धभावात् यथाजातप्राणिनां सर्वदेवताः ॥ ३.२४॥
तिरोभूततया नित्यं वर्तन्ते न स्वरूपतः ।
अतश्च भोगमोक्षार्थी शरीरं देवतामयम् ॥ ३.२५॥
स्वकीयं परकीयं च पूजयेत् सुविशेषतः ।
नावमानं सदा कुर्यात् मोहतो वापि बुद्धिमान् ॥ ३.२६॥
यदि कुर्यात् प्रमादेन पतत्येव भवार्णवे ।
दुर्वृत्तमपि मूर्खं च पूजयेत् देवतात्मना ॥ ३.२७॥
देवतारूपतः पश्यन् मुच्यते जन्मबन्धनात् ।
मोहेनापि सदा नैव कुर्यादप्रियभाषणम् ॥ ३.२८॥
यदि कुर्यात् प्रमादेन हन्ति तं परदेवता ।
देहे तु न क्षतं कुर्यात् अस्त्रशस्त्रनखादिभिः ॥ ३.२९॥
तथा न लोहितं कुर्यात् यदि कुर्यात् पतत्यधः ।
एषा सनातनी विद्या भोगमोक्षप्रदायिनी ॥ ३.३०॥
मयैव कथिता नित्या सर्वलोकोपकारिणी ।
कथिताऽभूते हिडिम्भ सर्वं ब्रह्ममयं जगत् ॥ ३.३१॥
ब्रह्माण्डेऽपि च पिण्डाण्डे सर्वत्र ब्रह्मभावतः ।
तत्त्वमेवास्यहं चासि देवदेव सुखी भव ॥ ३.३२॥
इति कलिसन्तारक श्रीगुहगीतायां ब्रह्मविद्यायां
अद्वैतशास्त्रे भिक्षुरूपिगुहहिडिम्भसंवादे
अज्ञानमूलं नाम तृतीयोऽध्यायः ॥ ३॥
अथ चतुर्थोऽध्यायः
ज्ञानोत्पत्तिः
हिडिम्भ उवाच-
सङ्कोचो देहयात्रायां प्राणिनां अस्ति षण्मुख ।
तेषु ज्ञानार्थिनां बुद्धिरुपक्षीणा भवेत्किल ॥ ४.१॥
तद्धेतोः ज्ञानसम्पत्तिः देहयात्रा च दुर्लभा ।
तस्यास्तस्याश्च सौलभ्यं कथं भवति सद्गुरो ॥ ४.२॥
श्रीभिक्षुरुवाच-
हन्त तात प्रवक्ष्यामि ज्ञानोत्पत्तेस्तु कारणम् ।
विना येन शिवज्ञानं न जायेत कथञ्चन ॥ ४.३॥
मुमुक्षुरतिसन्तुष्टः सिद्ध्यत्येव गतिर्मम ।
इति निश्चयबुद्धिस्तु प्रतिबन्धनिवृत्तये ॥ ४.४॥
देवतास्सकला नित्यं प्रार्थयेन्मतिमुत्तमः ।
अधिकारी भवेत्तत्र जन्मना कर्मणा द्विजः ॥ ४.५॥
शन्नो मित्रश्शं वरुणः शन्नो भवतु चार्यमा ।
शन्न इन्द्रो बृहस्पतिः शन्नो विष्णुरुरुक्रमः ॥ ४.६॥
नमोऽस्तु ब्रह्मणे वायो नमोऽस्तु तव शोभनम् ।
त्वमेव साक्षाद् ब्रह्मासि त्वां वदिष्यामि शङ्करम् ॥ ४.७॥
ऋतं च सत्यं चाहं त्वां वदिष्यामि समाहितः ।
तन्मामवतु कल्याणं तद्वक्तारं च शोभनम् ॥ ४.८॥
मां भूयोऽवतु वक्तारं अपि चावतु शोभनम् ।
शान्तिः शान्तिः पुनः शान्तिः दोषत्रयनिवृत्तये ॥ ४.९॥
कृत्वैवं प्रार्थनां आत्मज्ञानार्थं मतिमान् सदा ।
तस्य विज्ञानसम्पत्तिः क्रमतो जायते ध्रुवम् ॥ ४.१०॥
जपेन्नित्यं गुरोर्लब्ध्वा मन्त्रं यश्छन्दसामिति ।
मे गोपायेति पर्यन्तम् ज्ञानोत्पत्तेश्च कारणम् ॥ ४.११॥
शताक्षरां च गायत्रीं जपेन्नित्यं दिने दिने ।
तन्मन्त्रपूतोदकेन स्नानपानादिनाऽपि च ॥ ४.१२॥
ज्ञानोत्पत्तिर्भवत्येव शिवभक्त्या च सन्ततम् ।
उपायमपरं चापि ब्रवीमि शृणु सादरम् ॥ ४.१३॥
गुरोर्भक्तिर्दृढा यस्य स्वतो ज्ञानं प्रजायते ।
बहूनां जन्मनामन्ते गुरुभक्तिः प्रजायते ॥ ४.१४॥
गुरुभक्तियुते जन्तौ ज्ञानोत्पत्तिर्न संशयः ।
यथाकथञ्चित् स भवेत् ब्राह्मणो जायते भुवि ॥ ४.१५॥
ब्राह्मणो गुरुभक्तस्तु श्रुतिज्ञानात् प्रमुच्यते ।
श्रुतिप्रामाण्यबुद्धिर्हि मोक्षस्य गतिरुच्यते ॥ ४.१६॥
प्रारब्धं पुष्यति वपुः इति निश्चित्य चेतसा ।
धैर्यमालम्ब्य यत्नेन तूष्णीं स्थितिरपि स्वयम् ॥ ४.१७॥
वैदेकानां भवेद् ज्ञानजनने कारणं सदा ।
सङ्कोचो देहयात्रायां तदृशानां भवेत्खलु ॥ ४.१८॥
अतः सङ्कोचहानाय चावहन्तीति मन्त्रतः ।
आज्येनान्नेन चोभाभ्यां जुहुयाच्च दिने दिने ॥ ४.१९॥
तदशक्तः स्मरेन्नित्यं मन्त्रं वा श्रद्धया सह ।
ब्रह्मचारी गृहस्थो वा वानप्रस्थश्च भिक्षुकः ॥ ४.२०॥
नित्यं आचार्यशुश्रूषां प्रकुर्यात् भक्तिपूर्वकम् ।
प्राणिनां तादृशानां तु लोकयात्रा भवेत्स्वयम् ॥ ४.२१॥
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ ४.२२॥
अहमेव परं साक्षात् अहमेव सदाशिवः ।
अहमेव जगत्साक्षी चाहमेव जगद्गुरुः ॥ ४.२३॥
नित्यं लिङ्गे महादेवं पूजयेत् भक्तिमान्नरः ।
वेदान्तश्रवणं कुर्यात् मननं च समाहितः ॥ ४.२४॥
रुद्राध्यायी भवेन्नित्यं रुद्राक्षाभरणो भवेत् ।
भस्मत्रिपुण्ड्रधारी च ज्ञानवान्मां प्रपद्यते ॥ ४.२५॥
शम्भोर्ममैक्यभावो हि मायाऽविद्याविनाशकः ।
उक्तसाधनसम्पन्नः ज्ञानाद् भस्माधिगच्छति ॥ ४.२६॥
शिवस्वरूपं परमं भासनात् भस्मसञ्ज्ञितम् ।
तदेव स्वीयमायोत्थप्रपञ्चे जलसूर्यवत् ॥ ४.२७॥
अनुप्रविष्टं तद्रूपं भस्मलेशमुदाहृतम् ।
तेन लेशेन देवेशः प्रतिबिम्बेन भस्मना ॥ ४.२८॥
स्वतन्त्रो बिम्बभूतस्तु सदैवोद्धूलितः शिवः ।
सदैव पूजनीयस्तु ब्रह्मविष्ण्वादिभिः सुरैः ॥ ४.२९॥
सोऽहं चाहं स एवास्मिन् विषये मास्तु संशयः ।
आवयोरन्तरं नास्ति तात शब्दार्थयोरिव ॥ ४.३०॥
तत्प्रसादेन सर्वेषां देवत्वं न स्वभावतः ।
स्वभावादेव देवत्वं देवदेवस्य मेऽपि च ॥ ४.३१॥
तं विदित्वा विमुच्यन्ते शान्ता दान्ता मुनीश्वराः ।
गृहस्थाश्च तथैवान्ये सत्यधर्मपरायणाः ॥ ४.३२॥
भस्मसञ्छन्नसर्वाङ्गाः त्रिपुण्ड्राङ्कितमस्तकाः ।
रुद्राक्षमालाभरणाः श्रीषडक्षरजापकाः ॥ ४.३३॥
नित्यं देवाचर्नपराः सत्क्रियादग्धकिल्बिषाः ।
एवं ज्ञानार्थिनां सम्यक् साधनानि बहूनि च ॥ ४.३४॥
सन्ति तेषां मुख्यतमानीदानीं कथितानि वै ।
ज्ञानं वेदान्तविज्ञानं ब्रह्मात्मैकत्वगोचरम् ॥ ४.३५॥
सम्पादनीयं तज्ज्ञानं ज्ञानान्मुच्येत बन्धनात् ।
मदुक्तार्तेषु विश्वासं हिडिम्भ कुरु सन्ततम् ॥ ४.३६॥
सर्वसौलभ्यमेवाहं उपायं वच्मि सादरम् ।
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ॥ ४.३७॥
अहं त्वा सर्वकष्टेभ्यो मोक्षयिष्यामि मा शुचः ।
एवमेव वचस्साक्षात् सद्गुरोः करुणामृतम् ॥ ४.३८॥
देवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ।
त्वमेव तत्र दृष्टान्तरूपोऽगस्त्यकृपोदितः ॥ ४.३९॥
इति कलिसन्तारक श्रीगुहगीतायां ब्रह्मविद्यायां
अद्वैतशास्त्रे भिक्षुरूपिगुहहिडिम्भसंवादे
ज्ञानोत्पत्तिर्नाम चतुर्थोऽध्यायः ॥ ४॥
अथ पञ्चमोऽध्यायः
मायामोहजालम्
हिडिम्भ उवाच-
अहो सर्वमिदं ब्रह्म बद्धो मुक्तश्च कः पुनः ।
सर्वमाश्वर्यमेव स्यात् मन्मनः क्लिश्यते प्रभो ॥ ५.१॥
सद्गुरो भगवन् स्वामिन् किमर्थं जगदीदृशम् ।
उच्चावचं भाति ब्रह्म मायामूलं च मे वद ॥ ५.२॥
श्रीभिक्षुरुवाच-
मायाऽविद्या विशुद्धा चित् जीव आत्मा च वासना ।
व्यावहारिकसत्तायां षडस्माकं अनादयः ॥ ५.३॥
व्यावहारिकसर्वस्वं मिथ्यैव परमार्थतः ।
त्रैकालिकाबाध्यवस्तु सच्चिदानन्दलक्षणम् ॥ ५.४॥
ब्रह्मैकमेव सत्यं हि तदात्मा परिकीर्तितः ।
स्वस्वरूपानुसन्धाने ज्ञाने सर्वं विलीयते ॥ ५.५॥
बद्धो मुक्त इति व्याख्या गुणतो नैव वस्तुतः ।
गुणस्तु मायामूलत्वात् न ते मोक्षो न बन्धनम् ॥ ५.६॥
वक्ष्ये शृणु समासेन सर्वसाधनमुत्तमम् ।
व्यावहारिकलोकानां उद्धारार्थं हिडिम्भक ॥ ५.७॥
अपेक्षितार्थः सर्वेषां भुक्तिर्मुक्तिश्च सर्वदा ।
मुक्तिर्नानाविधा प्रोक्ता मया वेदानुसारतः ॥ ५.८॥
तत्र सायुज्यरूपाया मुक्तेः साक्षात्तु साधनम् ।
सम्यक् ज्ञानं न कर्मोक्तं न तयोश्च समुच्चयः ॥ ५.९॥
नित्यसिद्धाऽथवा मुक्तिः साध्यरूपा द्वयोर्गतिः ।
नित्यसिद्धा तु सर्वेषां आत्मरूपाऽथवाऽपरा ॥ ५.१०॥
आत्मरूपैव चेन्मुक्तिः नित्यप्राप्ता हि सात्मनः ।
नित्यप्राप्तस्य चाप्राप्तिः विभ्रमः खलु देहिनाम् ॥ ५.११॥
विभ्रमस्य निवृत्त्या सा प्राप्तेति व्यपदिश्यते ।
विभ्रमस्य निवृत्तिस्तु सिद्ध्यत्यज्ञाननाशनात् ॥ ५.१२॥
अज्ञानस्य विनाशस्तु ज्ञानादेव न चान्यतः ।
ज्ञानादज्ञाननाशस्तु प्रसिद्धस्सर्वदेहिनाम् ॥ ५.१३॥
अपरा सा परा मुक्तिः आत्मरूपैव चेन्मतम् ।
तथापि मुक्तिः प्राप्या वा नाप्राप्या वाऽऽत्मना भवेत् ॥ ५.१४॥
प्राप्या चेत् आत्मना मुक्तिः अप्राप्तप्राप्तिरेव सा ।
अप्राप्तप्राप्तिरप्यस्य सम्बन्धो वैक्यमेव च ॥ ५.१५॥
स सम्बन्धश्च साध्यो वा नित्यो वा साध्य एव चेत् ।
अनित्यस्स तु सम्बन्धो भवेन्नित्यो न सर्वदा ॥ ५.१६॥
साध्यानामपि भावानां अनित्यत्वं व्यवस्थितम् ।
अभावस्य न साध्यत्वं प्रध्वंसाख्यस्य सर्वदा ॥ ५.१७॥
साध्यत्वाख्यस्तु धर्मश्च नैवाभावाश्रयो भवेत् ।
नित्यो यदि स सम्बन्धः तर्हि सम्बन्धसञ्ज्ञिता ॥ ५.१८॥
मुक्तिश्च नित्यसिद्धैव मुमुक्षोरात्मनो भवेत् ।
तथापि नित्यप्राप्ताया मुक्तेः प्राप्तिस्तु पूर्ववत् ॥ ५.१९॥
विज्ञानेनैव नान्येन सत्यमुक्तं चिदात्मकम् ।
अप्राप्तप्राप्तिरूपाय मुक्तेरैक्यं भवेद्यदि ॥ ५.२०॥
तन्न युक्तं द्वयोरैक्यं न सिद्ध्यति कदाचन ।
भिन्नयोः भेदनाशे वा मुक्तिर्भेदे स्थितेऽथवा ॥ ५.२१॥
भेदनाशे तयोरैक्यं घटते नात्र संशयः ।
भेदे सति भवेदैक्यं इति चेत् तन्न सङ्गतम् ॥ ५.२२॥
भेदस्य सन्निधानैक्यं विरोधान्नैव सिद्ध्यति ।
न प्राप्या ह्यात्मना मुक्तिः इति चेत् तन्न सङ्गतम् ॥ ५.२३॥
अप्राप्यायास्तु मुक्तेश्च नास्त्यपेक्षा हि साधने ।
साधने सति सा मुक्तिः अप्राप्यैव सदा खलु ॥ ५.२४॥
न नित्यसिद्धा सा मुक्तिः साध्यरूपैव चेन्मतम् ।
साध्यत्वे सत्यनित्यत्वं पूर्वमेवाभिभाषितम् ॥ ५.२५॥
प्रध्वंसस्य तु नित्यत्वं सर्वशो न भविष्यति ।
अचिद्रूपस्य सर्वस्य विनाशो गम्यते यतः ॥ ५.२६॥
भावत्वे सति साध्यत्वात् विनाशश्चेतनस्य तु ।
प्रध्वंसस्य तु साध्यत्वेऽप्यभावत्वेन हेतुना ॥ ५.२७॥
न सिद्ध्यति विनाशश्चेत् तच्च नैव सुसङ्गतम् ।
प्रागभावसमाख्यस्याप्यनित्यत्वस्य दर्शनात् ॥ ५.२८॥
प्रागभावस्य साध्यत्वाभावे सत्यप्यभावतः ।
अनित्यत्वं यदिष्येत प्रध्वंसस्यापि तत्समम् ॥ ५.२९॥
भावानामप्यभावानां साध्यानां च हिडिम्भक ।
असाध्यानां च सर्वेषां अनित्यत्वे प्रयोजकम् ॥ ५.३०॥
अचेतनत्वमेवोक्तं नेतरद्व्यभिचारतः ।
चेतनस्य तु नित्यत्वं श्रुतिराह सनातनी ॥ ५.३१॥
तस्मादुक्तप्रकारेण मुक्तिः सायुज्यरूपिणी ।
ज्ञानलभ्या क्रियामात्रात् न लभ्या न समुच्चयात् ॥ ५.३२॥
ज्ञानं नामाखिलं चेदं मद्रूपेणावभासनम् ।
क्रिया तु कारणापेक्षा न ज्ञानालम्बिनी सदा ॥ ५.३३॥
अतः क्रियाया ज्ञानेन विरोधादेव सर्वदा ।
समुच्चयो न युज्येत कुतस्तेन परा गतिः ॥ ५.३४॥
सारूप्याख्या तु सा मुक्तिः सामीप्याख्या च याऽपरा ।
सालोक्याख्या च या तासां केवलं कर्म साधनम् ॥ ५.३५॥
ऐहिकामुष्मिकाकारा मुक्तयः सर्वदेहिनाम् ।
कर्मणैव हि सिद्ध्यन्ति न ज्ञानेन विरोधतः ॥ ५.३६॥
ज्ञानं कर्म च वेदोक्तमेव नान्योदितं भवेत् ।
अन्योदितं तु मन्यन्ते व्यवहारे विवेकिनाम् ॥ ५.३७॥
अपेक्ष्य बुद्धिं विज्ञानं कर्म चेति विधीयते ।
तयापि व्यवहारे ते व्यावहारिकसिद्धिदे ॥ ५.३८॥
वेदश्शिवः शिवोऽहं वै सर्वं ब्रह्ममयं जगत् ।
वेदनिन्दा न कर्तव्या ज्ञानिना यत्रकुत्रचित् ॥ ५.३९॥
तस्मात्सर्वत्र नास्तिक्यं न कुर्यान्मे मतिसत्तमः ।
नास्तिक्यादेव सर्वेषां संसारे परिवर्तनम् ॥ ५.४०॥
अस्तीत्येवोपलब्धव्यः परमात्मा श्रुतेस्स्वयम् ।
लीलामात्रं प्रभोर्जन्म संसारपरिवर्तनम् ॥ ५.४१॥
धर्माधर्मै पुण्यपापे प्राणिनां कर्मबन्धनम् ।
भस्मसात्कुरुते ज्ञानवह्निः संसारवासनाम् ॥ ५.४२॥
सर्वं त्यक्त्वैव मनसा येन त्यजसि तत्त्यज ।
स्वयमेव स्वयं साक्षात् किं वक्तव्यमतः परम् ॥ ५.४३॥
इति कलिसन्तारक श्रीगुहगीतायां ब्रह्मविद्यायां
अद्वैतशास्त्रे भिक्षुरूपिगुहहिडिम्भसंवादे
मायामोहजालं नाम पञ्चमोऽध्यायः ॥ ५॥
अथ षष्ठोऽध्यायः
जीवब्रह्मैक्यम्
हिडिम्भ उवाच-
सर्वमुक्तं समासेन सद्गुरो मय्यनुग्रहात्
त्वयैवाहं ब्रह्मविच्च न मे जन्म न मे मृतिः ॥ ६.१॥
देहबुद्ध्या भवद्दासः जीवबुद्ध्या त्वदंशकः ।
आत्मबुद्ध्या त्वमेवाहं सद्गतोऽस्मिन् न संशयः ॥ ६.२॥
अथ केन प्रयुक्तोऽहं कुर्वे कर्म जगद्गुरो ।
जीवन्मुक्तः सुखी तूष्णीं स्थास्यामीत्यब्रुवं मुने ॥ ६.३॥
श्रीभिक्षुरुवाच-
सम्यग्व्यवसिता बुद्धिः हिडिम्भ तव तात्त्विके ।
अपि चेद्देहयात्रायां अवशस्त्वं हि मायया ॥ ६.४॥
आधिकारिकजीवोऽसि मल्लोके पार्षदोऽसि च ।
आकल्पान्तं मयाऽज्ञप्तः कर्म कर्तुं त्वमर्हसि ॥ ६.५॥
ब्रह्मणा सह मुक्तिः स्यात् प्रलये तव चानघ ।
कर्मतत्त्वं प्रवक्ष्यामि शृणु गुह्यं सनातनम् ॥ ६.६॥
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।
शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥ ६.७॥
नहि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् ।
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ ६.८॥
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् ।
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ ६.९॥
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।
अनेन प्रसविष्यध्वं एष वोऽस्त्विष्टकामधुक् ॥ ६.१०॥
देवान् भावयतानेन ते देवा भावयन्तु वः ।
परस्परं भावयन्तः श्रेयः परं अवाप्स्यथ ॥ ६.११॥
इष्टान् भोगान् हि वो देवाः दास्यन्ते यज्ञभाविताः ।
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥ ६.१२॥
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ।
भुञ्जन्ते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥ ६.१३॥
अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः ।
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ ६.१४॥
यज्ञाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः ।
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ ६.१४॥ repeat
यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः ।
तदर्थं कर्म शैरेय मुक्तसङ्गः समाचर ॥ ६.१५॥
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।
अघायुरिन्द्रियारामो व्यर्थजीवी स एव हि ॥ ६.१६॥
आत्मानं रथिनं विद्धि शरीरं रथमेव तु ।
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ ६.१७॥
इन्द्रियाणि हयानाहुः विषयांस्तेषु गोचरान् ।
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुः मनीषिणः ॥ ६.१८॥
यस्त्वविज्ञानवान् भवति अयुक्तेन मनसा सदा ।
तस्येन्द्रियाणि वश्यानि दुष्टाश्चा इव सारथेः ॥ ६.१९॥
यस्तु विज्ञानवान् भवति युक्तेन मनसा सदा ।
तस्येन्द्रियाणि वश्यानि सदश्चा इव सारथेः ॥ ६.२०॥
यस्त्वविज्ञानवान् भवत्यमनस्कः सदाऽशुचिः ।
न स तत्पदमाप्नोति संसारं चाधिगच्छति ॥ ६.२१॥
यस्तु विज्ञानवान् भवति समनस्कः सदा शुचिः ।
स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥ ६.२२॥
विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः ।
सोऽध्वनः पारमाप्नोति मत्पदं परमं शिवम् ॥ ६.२३॥
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।
मनसश्च परा बुद्धिः बुद्धेरात्मा महान् परः ॥ ६.२४॥
महतः परमव्यक्तं अव्यक्तात् पुरुषः परः ।
पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः ॥ ६.२५॥
एष सर्वेषु भूतेषु गूढः आत्मा न प्रकाशते ।
दृश्यते त्वग्र्य्या बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ ६.२६॥
यच्छेद्वाङ्मनसी प्राज्ञः तद्यच्छेत् ज्ञान आत्मनी ।
ज्ञानमात्मनि महति तद्यच्छेत् शान्त आत्मनि ॥ ६.२७॥
मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा ।
असक्तो ह्याचरन् कर्म परमाप्नोति नान्यथा ।
किं भवानिच्छति पुनर्निस्सन्देहो भवार्भक ॥ ६.२८॥
हिडिम्भ उवाच-
परमात्मन् गुरो भिक्षो त्वमेवाहं गतिर्मम ।
द्रष्टुमिच्छामि ते भूयो रूपं षाण्मुखमैश्वरम् ॥ ६.२९॥
भवदाज्ञावशः कुर्वे त्वदिष्टं कर्म नान्यथा ।
त्वत्षण्मुखत्वस्वरूपं ब्रह्म पिण्डाण्डयोः कथम् ॥ ६.३०॥
श्रीभिक्षुरुवाच-
ज्ञानेन्द्रियमनोबुद्धिः महदव्यक्तपूरुषः ।
पिण्डाण्डे षण्मुखानीति मदीयानि विभावय ॥ ६.३१॥
तदशक्तौ तु सर्वत्र ज्ञानेन्द्रियमनांसि च ।
दृश्यं जगच्च ब्रह्माणं विष्णुं रुद्रं तथेश्वरम् ॥ ६.३२॥
सदाशिवं शिवशतं ब्रह्माण्डे परिभावय ।
पश्य मे तादृशं रूपं मल्लोके स्कन्दनामके ।
मामेव शरणं गच्छ मय्यर्पितमना भव ॥ ६.३३॥
हिडिम्भ उवाच-
इत्युक्त्वा षाण्मुखैश्वर्यरूपं धृत्वाऽथ भिक्षुकः ।
स्कन्दलोकं जगामाथ सुब्रह्मण्यः शिखीन्द्रगः ॥ ६.३४॥
षाण्मुखैश्वर्यं ताद्रूप्यं तदानीन्तनवैभवम् ।
सर्वलोकेषु सर्वेषु दृष्ट्वा मयि च विस्मितः ॥ ६.३५॥
जडदेही कियत्कालं नीतोऽहं मामपि स्वयम् ।
न जानेऽथ स्वयं मन्दम् प्रबुद्धो व्यावहारिके ॥ ६.३६॥
जगतीत्थं चरिष्यामि स्वामिप्रेरणया यथा ।
गुहगीतामिमां श्रुत्वा धन्यो भवति मानवः ॥ ६.३७॥
अर्थानुसन्धानपरो मुक्त एव न संशयः ।
इयं चोक्ता तव मुने गुह्याद्गुह्यतरं खलु ।
न चाशुश्रूषवे वाच्या नाभक्ताय कदाचन ॥ ६.३८॥
इति कलिसन्तारक श्रीगुहगीतायां ब्रह्मविद्यायां
अद्वैतशास्त्रे भिक्षुरूपिगुहहिडिम्भसंवादे
जीवब्रह्मैक्यं नाम षष्ठोऽध्यायः ॥ ६॥
ॐ तत्सत् ब्रह्मार्पणमस्तु ॥
॥ गोपीगीतम् ॥
गोप्य ऊचुः ।
जयति तेऽधिकं जन्मना व्रजः
श्रयत इन्दिरा शश्वदत्र हि ।
दयित दृश्यतां दिक्षु तावका-
स्त्वयि धृतासवस्त्वां विचिन्वते ॥ १॥
शरदुदाशये साधुजातस-
त्सरसिजोदरश्रीमुषा दृशा ।
सुरतनाथ तेऽशुल्कदासिका
वरद निघ्नतो नेह किं वधः ॥ २॥
विषजलाप्ययाद्व्यालराक्षसा-
द्वर्षमारुताद्वैद्युतानलात् ।
वृषमयात्मजाद्विश्वतोभया-
दृषभ ते वयं रक्षिता मुहुः ॥ ३॥
न खलु गोपिकानन्दनो भवा-
नखिलदेहिनामन्तरात्मदृक् ।
विखनसार्थितो विश्वगुप्तये
सख उदेयिवान्सात्वतां कुले ॥ ४॥
विरचिताभयं वृष्णिधुर्य ते
चरणमीयुषां संसृतेर्भयात् ।
करसरोरुहं कान्त कामदं
शिरसि धेहि नः श्रीकरग्रहम् ॥ ५॥
व्रजजनार्तिहन्वीर योषितां
निजजनस्मयध्वंसनस्मित ।
भज सखे भवत्किङ्करीः स्म नो
जलरुहाननं चारु दर्शय ॥ ६॥
प्रणतदेहिनां पापकर्शनं
तृणचरानुगं श्रीनिकेतनम् ।
फणिफणार्पितं ते पदांबुजं
कृणु कुचेषु नः कृन्धि हृच्छयम् ॥ ७॥
मधुरया गिरा वल्गुवाक्यया
बुधमनोज्ञया पुष्करेक्षण ।
विधिकरीरिमा वीर मुह्यती-
रधरसीधुनाऽऽप्याययस्व नः ॥ ८॥
तव कथामृतं तप्तजीवनं
कविभिरीडितं कल्मषापहम् ।
श्रवणमङ्गलं श्रीमदाततं
भुवि गृणन्ति ते भूरिदा जनाः ॥ ९॥
प्रहसितं प्रिय प्रेमवीक्षणं
विहरणं च ते ध्यानमङ्गलम् ।
रहसि संविदो या हृदिस्पृशः
कुहक नो मनः क्षोभयन्ति हि ॥ १०॥
चलसि यद्व्रजाच्चारयन्पशून्
नलिनसुन्दरं नाथ ते पदम् ।
शिलतृणाङ्कुरैः सीदतीति नः
कलिलतां मनः कान्त गच्छति ॥ ११॥
दिनपरिक्षये नीलकुन्तलै-
र्वनरुहाननं बिभ्रदावृतम् ।
घनरजस्वलं दर्शयन्मुहु-
र्मनसि नः स्मरं वीर यच्छसि ॥ १२॥
प्रणतकामदं पद्मजार्चितं
धरणिमण्डनं ध्येयमापदि ।
चरणपङ्कजं शन्तमं च ते
रमण नः स्तनेष्वर्पयाधिहन् ॥ १३॥
सुरतवर्धनं शोकनाशनं
स्वरितवेणुना सुष्ठु चुम्बितम् ।
इतररागविस्मारणं नृणां
वितर वीर नस्तेऽधरामृतम् ॥ १४॥
अटति यद्भवानह्नि काननं
त्रुटिर्युगायते त्वामपश्यताम् ।
कुटिलकुन्तलं श्रीमुखं च ते
जड उदीक्षतां पक्ष्मकृद्दृशाम् ॥ १५॥
पतिसुतान्वयभ्रातृबान्धवा-
नतिविलङ्घ्य तेऽन्त्यच्युतागताः ।
गतिविदस्तवोद्गीतमोहिताः
कितव योषितः कस्त्यजेन्निशि ॥ १६॥
रहसि संविदं हृच्छयोदयं
प्रहसिताननं प्रेमवीक्षणम् ।
बृहदुरः श्रियो वीक्ष्य धाम ते
मुहुरतिस्पृहा मुह्यते मनः ॥ १७॥
व्रजवनौकसां व्यक्तिरङ्ग ते
वृजिनहन्त्र्यलं विश्वमङ्गलम् ।
त्यज मनाक् च नस्त्वत्स्पृहात्मनां
स्वजनहृद्रुजां यन्निषूदनम् ॥ १८॥
यत्ते सुजातचरणाम्बुरुहं स्तनेष
भीताः शनैः प्रिय दधीमहि कर्कशेषु ।
तेनाटवीमटसि तद्व्यथते न किंस्वित्
कूर्पादिभिर्भ्रमति धीर्भवदायुषां नः ॥ १९॥
इति श्रीमद्भागवत महापुराणे पारमहंस्यां संहितायां
दशमस्कन्धे पूर्वार्धे रासक्रीडायां गोपीगीतं नामैकत्रिंशोऽध्यायः ॥
॥ जायन्तेयगीता श्रीमद्भागवतान्तर्गतम् ॥
श्रीशुक उवाच ।
गोविन्दभुजगुप्तायां द्वारवत्यां कुरूद्वह ।
अवात्सीन्नारदोऽभीक्ष्णं कृष्णोपासनलालसः ॥ ११.२.१॥
को नु राजन्निन्द्रियवान्मुकुन्दचरणाम्बुजम् ।
न भजेत्सर्वतोमृत्युरुपास्यममरोत्तमैः ॥ ११.२.२॥
तमेकदा तु देवर्षिं वसुदेवो गृहागतम् ।
अर्चितं सुखमासीनमभिवाद्येदमब्रवीत् ॥ ११.२.३॥
श्रीवसुदेव उवाच ।
भगवन्भवतो यात्रा स्वस्तये सर्वदेहिनाम् ।
कृपणानां यथा पित्रोरुत्तमश्लोकवर्त्मनाम् ॥ ११.२.४॥
भूतानां देवचरितं दुःखाय च सुखाय च ।
सुखायैव हि साधूनां त्वादृशामच्युतात्मनाम् ॥ ११.२.५॥
भजन्ति ये यथा देवान्देवा अपि तथैव तान् ।
छायेव कर्मसचिवाः साधवो दीनवत्सलाः ॥ ११.२.६॥
ब्रह्मंस्तथापि पृच्छामो धर्मान्भागवतांस्तव ।
यान्श्रुत्वा श्रद्धया मर्त्यो मुच्यते सर्वतो भयात् ॥ ११.२.७॥
अहं किल पुरानन्तं प्रजार्थो भुवि मुक्तिदम् ।
अपूजयं न मोक्षाय मोहितो देवमायया ॥ ११.२.८॥
यथा विचित्रव्यसनाद्भवद्भिर्विश्वतोभयात् ।
मुच्येम ह्यञ्जसैवाद्धा तथा नः शाधि सुव्रत ॥ ११.२.९॥
श्रीशुक उवाच ।
राजन्नेवं कृतप्रश्नो वसुदेवेन धीमता ।
प्रीतस्तमाह देवर्षिर्हरेः संस्मारितो गुणैः ॥ ११.२.१०॥
श्रीनारद उवाच ।
सम्यगेतद्व्यवसितं भवता सात्वतर्षभ ।
यत्पृच्छसे भागवतान्धर्मांस्त्वं विश्वभावनान् ॥ ११.२.११॥
श्रुतोऽनुपठितो ध्यात आदृतो वानुमोदितः ।
सद्यः पुनाति सद्धर्मो देवविश्वद्रुहोऽपि हि ॥ ११.२.१२॥
त्वया परमकल्याणः पुण्यश्रवणकीर्तनः ।
स्मारितो भगवानद्य देवो नारायणो मम ॥ ११.२.१३॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
आर्षभाणां च संवादं विदेहस्य महात्मनः ॥ ११.२.१४॥
प्रियव्रतो नाम सुतो मनोः स्वायम्भुवस्य यः ।
तस्याग्नीध्रस्ततो नाभिरृषभस्तत्सुतः स्मृतः ॥ ११.२.१५॥
तमाहुर्वासुदेवांशं मोक्षधर्मविवक्षया ।
अवतीर्णं सुतशतं तस्यासीद्ब्रह्मपारगम् ॥ ११.२.१६॥
तेषां वै भरतो ज्येष्ठो नारायणपरायणः ।
विख्यातं वर्षमेतद्यन् नाम्ना भारतमद्भुतम् ॥ ११.२.१७॥
स भुक्तभोगां त्यक्त्वेमां निर्गतस्तपसा हरिम् ।
उपासीनस्तत्पदवीं लेभे वै जनृनभिस्त्रिभिः ॥ ११.२.१८॥
तेषां नव नवद्वीप पतयोऽस्य समन्ततः ।
कर्मतन्त्रप्रणेतार एकाशीतिर्द्विजातयः ॥ ११.२.१९॥
नवाभवन्महाभागा मुनयो ह्यर्थशंसिनः ।
श्रमणा वातरसना आत्मविद्याविशारदाः ॥ ११.२.२०॥
कविर्हविरन्तरीक्षः प्रबुद्धः पिप्पलायनः ।
आविर्होत्रोऽथ द्रुमिलश्चमसः करभाजनः ॥ ११.२.२१॥
त एते भगवद्रूपं विश्वं सदसदात्मकम् ।
आत्मनोऽव्यतिरेकेण पश्यन्तो व्यचरन्महीम् ॥ ११.२.२२॥
अव्याहतेष्टगतयः सुरसिद्धसाध्य
गन्धर्वयक्षनरकिन्नरनागलोकान् ।
मुक्ताश्चरन्ति मुनिचारणभूतनाथ
विद्याधरद्विजगवां भुवनानि कामम् ॥ ११.२.२३॥
त एकदा निमेः सत्रमुपजग्मुर्यदृच्छया ।
वितायमानमृषिभिरजनाभे महात्मनः ॥ ११.२.२४॥
तान्दृष्ट्वा सूर्यसङ्काशान्महाभागवतान्नृप ।
यजमानोऽग्नयो विप्राः सर्व एवोपतस्थिरे ॥ ११.२.२५॥
विदेहस्तानभिप्रेत्य नारायणपरायणान् ।
प्रीतः सम्पूजयां चक्रे आसनस्थान्यथार्हतः ॥ ११.२.२६॥
तान्रोचमानान्स्वरुचा ब्रह्मपुत्रोपमान्नव ।
पप्रच्छ परमप्रीतः प्रश्रयावनतो नृपः ॥ ११.२.२७॥
श्रीविदेह उवाच ।
मन्ये भगवतः साक्षात्पार्षदान्वो मधुद्विसः ।
विष्णोर्भूतानि लोकानां पावनाय चरन्ति हि ॥ ११.२.२८॥
दुर्लभो मानुषो देहो देहिनां क्षणभङ्गुरः ।
तत्रापि दुर्लभं मन्ये वैकुण्ठप्रियदर्शनम् ॥ ११.२.२९॥
अत आत्यन्तिकं क्षेमं पृच्छामो भवतोऽनघाः ।
संसारेऽस्मिन्क्षणार्धोऽपि सत्सङ्गः शेवधिर्नृणाम् ॥ ११.२.३०॥
धर्मान्भागवतान्ब्रूत यदि नः श्रुतये क्षमम् ।
यैः प्रसन्नः प्रपन्नाय दास्यत्यात्मानमप्यजः ॥ ११.२.३१॥
श्रीनारद उवाच ।
एवं ते निमिना पृष्टा वसुदेव महत्तमाः ।
प्रतिपूज्याब्रुवन्प्रीत्या ससदस्यर्त्विजं नृपम् ॥ ११.२.३२॥
श्रीकविरुवाच ।
मन्येऽकुतश्चिद्भयमच्युतस्य पादाम्बुजोपासनमत्र नित्यम् ।
उद्विग्नबुद्धेरसदात्मभावाद्विश्वात्मना यत्र निवर्तते भीः ॥ ११.२.३३॥
ये वै भगवता प्रोक्ता उपाया ह्यात्मलब्धये ।
अञ्जः पुंसामविदुषां विद्धि भागवतान्हि तान् ॥ ११.२.३४॥
यानास्थाय नरो राजन्न प्रमाद्येत कर्हिचित् ।
धावन्निमील्य वा नेत्रे न स्खलेन्न पतेदिह ॥ ११.२.३५॥
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वानुसृतस्वभावात् ।
करोति यद्यत्सकलं परस्मै नारायणायेति समर्पयेत्तत् ॥ ११.२.३६॥
भयं द्वितीयाभिनिवेशतः स्यादीशादपेतस्य विपर्ययोऽस्मृतिः ।
तन्माययातो बुध आभजेत्तं भक्त्यैकयेशं गुरुदेवतात्मा ॥ ११.२.३७॥
अविद्यमानोऽप्यवभाति हि द्वयो ध्यातुर्धिया स्वप्नमनोरथौ यथा ।
तत्कर्मसङ्कल्पविकल्पकं मनो बुधो निरुन्ध्यादभयं ततः स्यात् ॥ ११.२.३८॥
शृण्वन्सुभद्राणि रथाङ्गपाणेर्जन्मानि कर्माणि च यानि लोके ।
गीतानि नामानि तदर्थकानि गायन्विलज्जो विचरेदसङ्गः ॥ ११.२.३९॥
एवंव्रतः स्वप्रियनामकीर्त्या जातानुरागो द्रुतचित्त उच्चैः ।
हसत्यथो रोदिति रौति गायत्युन्मादवन्नृत्यति लोकबाह्यः ॥ ११.२.४०॥
खं वायुमग्निं सलिलं महीं च ज्योतींषि सत्त्वानि दिशो द्रुमादीन् ।
सरित्समुद्रांश्च हरेः शरीरं यत्किं च भूतं प्रणमेदनन्यः ॥ ११.२.४१॥
भक्तिः परेशानुभवो विरक्तिरन्यत्र चैष त्रिक एककालः ।
प्रपद्यमानस्य यथाश्नतः स्युस्तुष्टिः पुष्टिः क्षुदपायोऽनुघासम् ॥ ११.२.४२॥
इत्यच्युताङ्घ्रिं भजतोऽनुवृत्त्या भक्तिर्विरक्तिर्भगवत्प्रबोधः ।
भवन्ति वै भागवतस्य राजंस्ततः परां शान्तिमुपैति साक्षात् ॥ ११.२.४३॥
श्रीराजोवाच ।
अथ भागवतं ब्रूत यद्धर्मो यादृशो नृणाम् ।
यथाचरति यद्ब्रूते यैर्लिङ्गैर्भगवत्प्रियः ॥ ११.२.४४॥
श्रीहविरुवाच ।
सर्वभूतेषु यः पश्येद्भगवद्भावमात्मनः ।
भूतानि भगवत्यात्मन्येष भागवतोत्तमः ॥ ११.२.४५॥
ईस्वरे तदधीनेषु बालिशेषु द्विषत्सु च ।
प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥ ११.२.४६॥
अर्चायामेव हरये पूजां यः श्रद्धयेहते ।
न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥ ११.२.४७॥
गृहीत्वापीन्द्रियैरर्थान्यो न द्वेष्टि न हृष्यति ।
विष्णोर्मायामिदं पश्यन्स वै भागवतोत्तमः ॥ ११.२.४८॥
देहेन्द्रियप्राणमनोधियां यो जन्माप्ययक्षुद्भयतर्षकृच्छ्रैः ।
संसारधर्मैरविमुह्यमानः स्मृत्या हरेर्भागवतप्रधानः ॥ ११.२.४९॥
न कामकर्मबीजानां यस्य चेतसि सम्भवः ।
वासुदेवैकनिलयः स वै भागवतोत्तमः ॥ ११.२.५०॥
न यस्य जन्मकर्मभ्यां न वर्णाश्रमजातिभिः ।
सज्जतेऽस्मिन्नहंभावो देहे वै स हरेः प्रियः ॥ ११.२.५१॥
न यस्य स्वः पर इति वित्तेष्वात्मनि वा भिदा ।
सर्वभूतसमः शान्तः स वै भागवतोत्तमः ॥ ११.२.५२॥
त्रिभुवनविभवहेतवेऽप्यकुण्ठ
स्मृतिरजितात्मसुरादिभिर्विमृग्यात् ।
न चलति भगवत्पदारविन्दाल्
लवनिमिषार्धमपि यः स वैष्णवाग्र्यः ॥ ११.२.५३॥
भगवत उरुविक्रमाङ्घ्रिशाखा नखमणिचन्द्रिकया निरस्ततापे ।
हृदि कथमुपसीदतां पुनः स प्रभवति चन्द्र इवोदितेऽर्कतापः ॥ ११.२.५४॥
विसृजति हृदयं न यस्य साक्षाद्धरिरवशाभिहितोऽप्यघौघनाशः ।
प्रणयरसनया धृताङ्घ्रिपद्मः स भवति भागवतप्रधान उक्तः ॥ ११.२.५५॥
श्रीराजोवाच ।
परस्य विष्णोरीशस्य मायिनामपि मोहिनीम् ।
मायां वेदितुमिच्छामो भगवन्तो ब्रुवन्तु नः ॥ ११.३.१॥
नानुतृप्ये जुषन्युष्मद् वचो हरिकथामृतम् ।
संसारतापनिस्तप्तो मर्त्यस्तत्तापभेषजम् ॥ ११.३.२॥
श्रीअन्तरीक्ष उवाच ।
एभिर्भूतानि भूतात्मा महाभूतैर्महाभुज ।
ससर्जोच्चावचान्याद्यः स्वमात्रात्मप्रसिद्धये ॥ ११.३.३॥
एवं सृष्टानि भूतानि प्रविष्टः पञ्चधातुभिः ।
एकधा दशधात्मानं विभजन्जुषते गुणान् ॥ ११.३.४॥
गुणैर्गुणान्स भुञ्जान आत्मप्रद्योतितैः प्रभुः ।
मन्यमान इदं सृष्टमात्मानमिह सज्जते ॥ ११.३.५॥
कर्माणि कर्मभिः कुर्वन्सनिमित्तानि देहभृत् ।
तत्तत्कर्मफलं गृह्णन्भ्रमतीह सुखेतरम् ॥ ११.३.६॥
इत्थं कर्मगतीर्गच्छन्बह्वभद्रवहाः पुमान् ।
आभूतसम्प्लवात्सर्ग प्रलयावश्नुतेऽवशः ॥ ११.३.७॥
धातूपप्लव आसन्ने व्यक्तं द्रव्यगुणात्मकम् ।
अनादिनिधनः कालो ह्यव्यक्तायापकर्षति ॥ ११.३.८॥
शतवर्षा ह्यनावृष्टिर्भविष्यत्युल्बणा भुवि ।
तत्कालोपचितोष्णार्को लोकांस्त्रीन्प्रतपिष्यति ॥ ११.३.९॥
पातालतलमारभ्य सङ्कर्षणमुखानलः ।
दहन्नूर्ध्वशिखो विष्वग्वर्धते वायुनेरितः ॥ ११.३.१०॥
संवर्तको मेघगणो वर्षति स्म शतं समाः ।
धाराभिर्हस्तिहस्ताभिर्लीयते सलिले विराट् ॥ ११.३.११॥
ततो विराजमुत्सृज्य् वैराजः पुरुषो नृप ।
अव्यक्तं विशते सूक्ष्मं निरिन्धन इवानलः ॥ ११.३.१२॥
वायुना हृतगन्धा भूः सलिलत्वाय कल्पते ।
सलिलं तद्धृतरसं ज्योतिष्ट्वायोपकल्पते ॥ ११.३.१३॥
हृतरूपं तु तमसा वायौ ज्योतिः प्रलीयते ।
हृतस्पर्शोऽवकाशेन वायुर्नभसि लीयते ॥ ११.३.१४॥
कालात्मना हृतगुणं नभ आत्मनि लीयते ॥ ११.३.१४५॥
इन्द्रियाणि मनो बुद्धिः सह वैकारिकैर्नृप ।
प्रविशन्ति ह्यहङ्कारं स्वगुणैरहमात्मनि ॥ ११.३.१५॥
एषा माया भगवतः सर्गस्थित्यन्तकारिणी ।
त्रिवर्णा वर्णितास्माभिः किं भूयः श्रोतुमिच्छसि ॥ ११.३.१६॥
श्रीराजोवाच ।
यथैतामैश्वरीं मायां दुस्तरामकृतात्मभिः ।
तरन्त्यञ्जः स्थूलधियो महर्ष इदमुच्यताम् ॥ ११.३.१७॥
श्रीप्रबुद्ध उवाच ।
कर्माण्यारभमाणानां दुःखहत्यै सुखाय च ।
पश्येत्पाकविपर्यासं मिथुनीचारिणां नृणाम् ॥ ११.३.१८॥
नित्यार्तिदेन वित्तेन दुर्लभेनात्ममृत्युना ।
गृहापत्याप्तपशुभिः का प्रीतिः साधितैश्चलैः ॥ ११.३.१९॥
एवं लोकं परम्विद्यान्नश्वरं कर्मनिर्मितम् ।
सतुल्यातिशयध्वंसं यथा मण्डलवर्तिनाम् ॥ ११.३.२०॥
तस्माद्गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् ।
शाब्दे परे च निष्णातं ब्रह्मण्युपशमाश्रयम् ॥ ११.३.२१॥
तत्र भागवतान्धर्मान्शिक्षेद्गुर्वात्मदैवतः ।
अमाययानुवृत्त्या यैस्तुष्येदात्मात्मदो हरिः ॥ ११.३.२२॥
सर्वतो मनसोऽसङ्गमादौ सङ्गं च साधुषु ।
दयां मैत्रीं प्रश्रयं च भूतेष्वद्धा यथोचितम् ॥ ११.३.२३॥
शौचं तपस्तितिक्षां च मौनं स्वाध्यायमार्जवम् ।
ब्रह्मचर्यमहिंसां च समत्वं द्वन्द्वसंज्ञयोः ॥ ११.३.२४॥
सर्वत्रात्मेश्वरान्वीक्षां कैवल्यमनिकेतताम् ।
विविक्तचीरवसनं सन्तोषं येन केनचित् ॥ ११.३.२५॥
श्रद्धां भागवते शास्त्रेऽनिन्दामन्यत्र चापि हि ।
मनोवाक्कर्मदण्डं च सत्यं शमदमावपि ॥ ११.३.२६॥
श्रवणं कीर्तनं ध्यानं हरेरद्भुतकर्मणः ।
जन्मकर्मगुणानां च तदर्थेऽखिलचेष्टितम् ॥ ११.३.२७॥
इष्टं दत्तं तपो जप्तं वृत्तं यच्चात्मनः प्रियम् ।
दारान्सुतान्गृहान्प्राणान्यत्परस्मै निवेदनम् ॥ ११.३.२८॥
एवं कृष्णात्मनाथेषु मनुष्येषु च सौहृदम् ।
परिचर्यां चोभयत्र महत्सु नृषु साधुषु ॥ ११.३.२९॥
परस्परानुकथनं पावनं भगवद्यशः ।
मिथो रतिर्मिथस्तुष्टिर्निवृत्तिर्मिथ आत्मनः ॥ ११.३.३०॥
स्मरन्तः स्मारयन्तश्च मिथोऽघौघहरं हरिम् ।
भक्त्या सञ्जातया भक्त्या बिभ्रत्युत्पुलकां तनुम् ॥ ११.३.३१॥
क्वचिद्रुदन्त्यच्युतचिन्तया क्वचिद्
धसन्ति नन्दन्ति वदन्त्यलौकिकाः ।
नृत्यन्ति गायन्त्यनुशीलयन्त्यजं
भवन्ति तूष्णीं परमेत्य निर्वृताः ॥ ११.३.३२॥
इति भागवतान्धर्मान्शिक्षन्भक्त्या तदुत्थया ।
नारायणपरो मायामञ्जस्तरति दुस्तराम् ॥ ११.३.३३॥
श्रीराजोवाच ।
नारायणाभिधानस्य ब्रह्मणः परमात्मनः ।
निष्ठामर्हथ नो वक्तुं यूयं हि ब्रह्मवित्तमाः ॥ ११.३.३४॥
श्रीपिप्पलायन उवाच ।
स्थित्युद्भवप्रलयहेतुरहेतुरस्य
यत्स्वप्नजागरसुषुप्तिषु सद्बहिश्च ।
देहेन्द्रियासुहृदयानि चरन्ति येन
सञ्जीवितानि तदवेहि परं नरेन्द्र ॥ ११.३.३५॥
नैतन्मनो विशति वागुत चक्षुरात्मा
प्राणेन्द्रियाणि च यथानलमर्चिषः स्वाः ।
शब्दोऽपि बोधकनिषेधतयात्ममूलम्
अर्थोक्तमाह यदृते न निषेधसिद्धिः ॥ ११.३.३६॥
सत्त्वं रजस्तम इति त्रिवृदेकमादौ
सूत्रं महानहमिति प्रवदन्ति जीवम् ।
ज्ञानक्रियार्थफलरूपतयोरुशक्ति
ब्रह्मैव भाति सदसच्च तयोः परं यत् ॥ ११.३.३७॥
नात्मा जजान न मरिष्यति नैधतेऽसौ
न क्षीयते सवनविद्व्यभिचारिणां हि ।
सर्वत्र शश्वदनपाय्युपलब्धिमात्रं
प्राणो यथेन्द्रियबलेन विकल्पितं सत् ॥ ११.३.३८॥
अण्डेषु पेशिषु तरुष्वविनिश्चितेषु प्राणो हि जीवमुपधावति तत्र तत्र ।
सन्ने यदिन्द्रियगणेऽहमि च प्रसुप्ते कूटस्थ आशयमृते तदनुस्मृतिर्नः ॥ ११.३.३९॥
यर्ह्यब्जनाभचरणैषणयोरुभक्त्या
चेतोमलानि विधमेद्गुणकर्मजानि ।
तस्मिन्विशुद्ध उपलभ्यत आत्मतत्त्वं
शाक्षाद्यथामलदृशोः सवितृप्रकाशः ॥ ११.३.४०॥
श्रीराजोवाच ।
कर्मयोगं वदत नः पुरुषो येन संस्कृतः ।
विधूयेहाशु कर्माणि नैष्कर्म्यं विन्दते परम् ॥ ११.३.४१॥
एवं प्रश्नमृषीन्पूर्वमपृच्छं पितुरन्तिके ।
नाब्रुवन्ब्रह्मणः पुत्रास्तत्र कारणमुच्यताम् ॥ ११.३.४२॥
श्रीआविर्होत्र उवाच ।
कर्माकर्म विकर्मेति वेदवादो न लौकिकः ।
वेदस्य चेश्वरात्मत्वात्तत्र मुह्यन्ति सूरयः ॥ ११.३.४३॥
परोक्षवादो वेदोऽयं बालानामनुशासनम् ।
कर्ममोक्षाय कर्माणि विधत्ते ह्यगदं यथा ॥ ११.३.४४॥
नाचरेद्यस्तु वेदोक्तं स्वयमज्ञोऽजितेन्द्रियः ।
विकर्मणा ह्यधर्मेण मृत्योर्मृत्युमुपैति सः ॥ ११.३.४५॥
वेदोक्तमेव कुर्वाणो निःसङ्गोऽर्पितमीश्वरे ।
नैष्कर्म्यं लभते सिद्धिं रोचनार्था फलश्रुतिः ॥ ११.३.४६॥
य आशु हृदयग्रन्थिं निर्जिहीऋषुः परात्मनः ।
विधिनोपचरेद्देवं तन्त्रोक्तेन च केशवम् ॥ ११.३.४७॥
लब्ध्वानुग्रह आचार्यात्तेन सन्दर्शितागमः ।
महापुरुषमभ्यर्चेन्मूर्त्याभिमतयात्मनः ॥ ११.३.४८॥
शुचिः सम्मुखमासीनः प्राणसंयमनादिभिः ।
पिण्डं विशोध्य सन्न्यास कृतरक्षोऽर्चयेद्धरिम् ॥ ११.३.४९॥
अर्चादौ हृदये चापि यथालब्धोपचारकैः ।
द्रव्यक्षित्यात्मलिण्गानि निष्पाद्य प्रोक्ष्य चासनम् ॥ ११.३.५०॥
पाद्यादीनुपकल्प्याथ सन्निधाप्य समाहितः ।
हृदादिभिः कृतन्यासो मूलमन्त्रेण चार्चयेत् ॥ ११.३.५१॥
साङ्गोपाङ्गां सपार्षदां तां तां मूर्तिं स्वमन्त्रतः ।
पाद्यार्घ्याचमनीयाद्यैः स्नानवासोविभूषणैः ॥ ११.३.५२॥
गन्धमाल्याक्षतस्रग्भिर्धूपदीपोपहारकैः ।
साङ्गम्सम्पूज्य विधिवत्स्तवैः स्तुत्वा नमेद्धरिम् ॥ ११.३.५३॥
आत्मानम्तन्मयम्ध्यायन्मूर्तिं सम्पूजयेद्धरेः ।
शेषामाधाय शिरसा स्वधाम्न्युद्वास्य सत्कृतम् ॥ ११.३.५४॥
एवमग्न्यर्कतोयादावतिथौ हृदये च यः ।
यजतीश्वरमात्मानमचिरान्मुच्यते हि सः ॥ ११.३.५५॥
श्रीराजोवाच ।
यानि यानीह कर्माणि यैर्यैः स्वच्छन्दजन्मभिः ।
चक्रे करोति कर्ता वा हरिस्तानि ब्रुवन्तु नः ॥ ११.४.१॥
श्रीद्रुमिल उवाच ।
यो वा अनन्तस्य गुनाननन्ताननुक्रमिष्यन्स तु बालबुद्धिः ।
रजांसि भूमेर्गणयेत्कथञ्चित्कालेन नैवाखिलशक्तिधाम्नः ॥ ११.४.२॥
भूतैर्यदा पञ्चभिरात्मसृष्टैः
पुरं विराजं विरचय्य तस्मिन् ।
स्वांशेन विष्टः पुरुषाभिधानम्
अवाप नारायण आदिदेवः ॥ ११.४.३॥
यत्काय एष भुवनत्रयसन्निवेशो
यस्येन्द्रियैस्तनुभृतामुभयेन्द्रियाणि ।
ज्ञानं स्वतः श्वसनतो बलमोज ईहा
सत्त्वादिभिः स्थितिलयोद्भव आदिकर्ता ॥ ११.४.४॥
आदावभूच्छतधृती रजसास्य सर्गे
विष्णुः स्थितौ क्रतुपतिर्द्विजधर्मसेतुः ।
रुद्रोऽप्ययाय तमसा पुरुषः स आद्य
इत्युद्भवस्थितिलयाः सततं प्रजासु ॥ ११.४.५॥
धर्मस्य दक्षदुहितर्यजनिष्ट मूर्त्यां
नारायणो नर ऋषिप्रवरः प्रशान्तः ।
नैष्कर्म्यलक्षणमुवाच चचार कर्म
योऽद्यापि चास्त ऋषिवर्यनिषेविताङ्घ्रिः ॥ ११.४.६॥
इन्द्रो विशङ्क्य मम धाम जिघृक्षतीति
कामं न्ययुङ्क्त सगणं स बदर्युपाख्यम् ।
गत्वाप्सरोगणवसन्तसुमन्दवातैः
स्त्रीप्रेक्षणेषुभिरविध्यदतन्महिज्ञः ॥ ११.४.७॥
विज्ञाय शक्रकृतमक्रममादिदेवः
प्राह प्रहस्य गतविस्मय एजमानान् ।
मा भैर्विभो मदन मारुत देववध्वो
गृह्णीत नो बलिमशून्यमिमं कुरुध्वम् ॥ ११.४.८॥
इत्थं ब्रुवत्यभयदे नरदेव देवाः
सव्रीडनम्रशिरसः सघृणं तमूचुः ।
नैतद्विभो त्वयि परेऽविकृते विचित्रं
स्वारामधीरनिकरानतपादपद्मे ॥ ११.४.९॥
त्वां सेवतां सुरकृता बहवोऽन्तरायाः
स्वौको विलङ्घ्य परमं व्रजतां पदं ते ।
नान्यस्य बर्हिषि बलीन्ददतः स्वभागान्
धत्ते पदं त्वमविता यदि विघ्नमूर्ध्नि ॥ ११.४.१०॥
क्षुत्तृट्त्रिकालगुणमारुतजैह्वशैष्णान्
अस्मानपारजलधीनतितीर्य केचित् ।
क्रोधस्य यान्ति विफलस्य वशं पदे गोर्
मज्जन्ति दुश्चरतपश्च वृथोत्सृजन्ति ॥ ११.४.११॥
इति प्रगृणतां तेषां स्त्रियोऽत्यद्भुतदर्शनाः ।
दर्शयामास शुश्रूषां स्वर्चिताः कुर्वतीर्विभुः ॥ ११.४.१२॥
ते देवानुचरा दृष्ट्वा स्त्रियः श्रीरिव रूपिणीः ।
गन्धेन मुमुहुस्तासां रूपौदार्यहतश्रियः ॥ ११.४.१३॥
तानाह देवदेवेशः प्रणतान्प्रहसन्निव ।
आसामेकतमां वृङ्ध्वं सवर्णां स्वर्गभूषणाम् ॥ ११.४.१४॥
ओमित्यादेशमादाय नत्वा तं सुरवन्दिनः ।
उर्वशीमप्सरःश्रेष्ठां पुरस्कृत्य दिवं ययुः ॥ ११.४.१५॥
इन्द्रायानम्य सदसि शृण्वतां त्रिदिवौकसाम् ।
ऊचुर्नारायणबलं शक्रस्तत्रास विस्मितः ॥ ११.४.१६॥
हंसस्वरूप्यवददच्युत आत्मयोगं
दत्तः कुमार ऋषभो भगवान्पिता नः ।
विष्णुः शिवाय जगतां कलयावतिर्णस्
तेनाहृता मधुभिदा श्रुतयो हयास्ये ॥ ११.४.१७॥
गुप्तोऽप्यये मनुरिलौषधयश्च मात्स्ये
क्रौडे हतो दितिज उद्धरताम्भसः क्ष्माम् ।
कौर्मे धृतोऽद्रिरमृतोन्मथने स्वपृष्ठे
ग्राहात्प्रपन्नमिभराजममुञ्चदार्तम् ॥ ११.४.१८॥
संस्तुन्वतो निपतितान्श्रमणानृषींश्च
शक्रं च वृत्रवधतस्तमसि प्रविष्टम् ।
देवस्त्रियोऽसुरगृहे पिहिता अनाथा
जघ्नेऽसुरेन्द्रमभयाय सतां नृसिंहे ॥ ११.४.१९॥
देवासुरे युधि च दैत्यपतीन्सुरार्थे
हत्वान्तरेषु भुवनान्यदधात्कलाभिः ।
भूत्वाथ वामन इमामहरद्बलेः क्ष्मां
याच्ञाच्छलेन समदाददितेः सुतेभ्यः ॥ ११.४.२०॥
निःक्षत्रियामकृत गां च त्रिःसप्तकृत्वो
रामस्तु हैहयकुलाप्ययभार्गवाग्निः ।
सोऽब्धिं बबन्ध दशवक्त्रमहन्सलङ्कं
सीतापतिर्जयति लोकमलघ्नकीऋतिः ॥ ११.४.२१॥
भूमेर्भरावतरणाय यदुष्वजन्मा
जातः करिष्यति सुरैरपि दुष्कराणि ।
वादैर्विमोहयति यज्ञकृतोऽतदर्हान्
शूद्रान्कलौ क्षितिभुजो न्यहनिष्यदन्ते ॥ ११.४.२२॥
एवंविधानि जन्मानि कर्माणि च जगत्पतेः ।
भूरीणि भूरियशसो वर्णितानि महाभुज ॥ ११.४.२३॥
श्रीराजोवाच ।
भगवन्तं हरिं प्रायो न भजन्त्यात्मवित्तमाः ।
तेषामशान्तकामानां क निष्ठाविजितात्मनाम् ॥ ११.५.१॥
श्रीचमस उवाच ।
मुखबाहूरुपादेभ्यः पुरुषस्याश्रमैः सह ।
चत्वारो जज्ञिरे वर्णा गुणैर्विप्रादयः पृथक् ॥ ११.५.२॥
य एषां पुरुषं साक्षादात्मप्रभवमीश्वरम् ।
न भजन्त्यवजानन्ति स्थानाद्भ्रष्टाः पतन्त्यधः ॥ ११.५.३॥
दूरे हरिकथाः केचिद्दूरे चाच्युतकीर्तनाः ।
स्त्रियः शूद्रादयश्चैव तेऽनुकम्प्या भवादृशाम् ॥ ११.५.४॥
विप्रो राजन्यवैश्यौ वा हरेः प्राप्ताः पदान्तिकम् ।
श्रौतेन जन्मनाथापि मुह्यन्त्याम्नायवादिनः ॥ ११.५.५॥
कर्मण्यकोविदाः स्तब्धा मूर्खाः पण्डितमानिनः ।
वदन्ति चाटुकान्मूढा यया माध्व्या गिरोत्सुकाः ॥ ११.५.६॥
रजसा घोरसङ्कल्पाः कामुका अहिमन्यवः ।
दाम्भिका मानिनः पापा विहसन्त्यच्युतप्रियान् ॥ ११.५.७॥
वदन्ति तेऽन्योन्यमुपासितस्त्रियो गृहेषु मैथुन्यपरेषु चाशिषः ।
यजन्त्यसृष्टान्नविधानदक्षिणं वृत्त्यै परं घ्नन्ति पशूनतद्विदः ॥ ११.५.८॥
श्रिया विभूत्याभिजनेन विद्यया त्यागेन रूपेण बलेन कर्मणा ।
जातस्मयेनान्धधियः सहेश्वरान्सतोऽवमन्यन्ति हरिप्रियान्खलाः ॥ ११.५.९॥
सर्वेषु शश्वत्तनुभृत्स्ववस्थितं
यथा खमात्मानमभीष्टमीश्वरम् ।
वेदोपगीतं च न शृण्वतेऽबुधा
मनोरथानां प्रवदन्ति वार्तया ॥ ११.५.१०॥
लोके व्यवायामिषमद्यसेवा नित्या हि जन्तोर्न हि तत्र चोदना ।
व्यवस्थितिस्तेषु विवाहयज्ञ सुराग्रहैरासु निवृत्तिरिष्टा ॥ ११.५.११॥
धनं च धर्मैकफलं यतो वै
ज्ञानं सविज्ञानमनुप्रशान्ति ।
गृहेषु युञ्जन्ति कलेवरस्य
मृत्युं न पश्यन्ति दुरन्तवीर्यम् ॥ ११.५.१२॥
यद्घ्राणभक्षो विहितः सुरायास्तथा पशोरालभनं न हिंसा ।
एवं व्यवायः प्रजया न रत्या इमं विशुद्धं न विदुः स्वधर्मम् ॥ ११.५.१३॥
ये त्वनेवंविदोऽसन्तः स्तब्धाः सदभिमानिनः ।
पशून्द्रुह्यन्ति विश्रब्धाः प्रेत्य खादन्ति ते च तान् ॥ ११.५.१४॥
द्विषन्तः परकायेषु स्वात्मानं हरिमीश्वरम् ।
मृतके सानुबन्धेऽस्मिन्बद्धस्नेहाः पतन्त्यधः ॥ ११.५.१५॥
ये कैवल्यमसम्प्राप्ता ये चातीताश्च मूढताम् ।
त्रैवर्गिका ह्यक्षणिका आत्मानं घातयन्ति ते ॥ ११.५.१६॥
एत आत्महनोऽशान्ता अज्ञाने ज्ञानमानिनः ।
सीदन्त्यकृतकृत्या वै कालध्वस्तमनोरथाः ॥ ११.५.१७॥
हित्वात्ममायारचिता गृहापत्यसुहृत्स्त्रियः ।
तमो विशन्त्यनिच्छन्तो वासुदेवपराङ्मुखाः ॥ ११.५.१८॥
श्री राजोवाच ।
कस्मिन्काले स भगवान्किं वर्णः कीदृशो नृभिः ।
नाम्ना वा केन विधिना पूज्यते तदिहोच्यताम् ॥ ११.५.१९॥
श्रीकरभाजन उवाच ।
कृतं त्रेता द्वापरं च कलिरित्येषु केशवः ।
नानावर्णाभिधाकारो नानैव विधिनेज्यते ॥ ११.५.२०॥
कृते शुक्लश्चतुर्बाहुर्जटिलो वल्कलाम्बरः ।
कृष्णाजिनोपवीताक्षान्बिभ्रद्दण्डकमण्डलू ॥ ११.५.२१॥
मनुष्यास्तु तदा शान्ता निर्वैराः सुहृदः समाः ।
यजन्ति तपसा देवं शमेन च दमेन च ॥ ११.५.२२॥
हंसः सुपर्णो वैकुण्ठो धर्मो योगेश्वरोऽमलः ।
ईश्वरः पुरुषोऽव्यक्तः परमात्मेति गीयते ॥ ११.५.२३॥
त्रेतायां रक्तवर्णोऽसौ चतुर्बाहुस्त्रिमेखलः ।
हिरण्यकेशस्त्रय्यात्मा स्रुक्स्रुवाद्युपलक्षणः ॥ ११.५.२४॥
तं तदा मनुजा देवं सर्वदेवमयं हरिम् ।
यजन्ति विद्यया त्रय्या धर्मिष्ठा ब्रह्मवादिनः ॥ ११.५.२५॥
विष्णुर्यज्ञः पृश्निगर्भः सर्वदेव उरुक्रमः ।
वृषाकपिर्जयन्तश्च उरुगाय इतीर्यते ॥ ११.५.२६॥
द्वापरे भगवाञ्श्यामः पीतवासा निजायुधः ।
श्रीवत्सादिभिरङ्कैश्च लक्षणैरुपलक्षितः ॥ ११.५.२७॥
तं तदा पुरुषं मर्त्या महाराजोपलक्षणम् ।
यजन्ति वेदतन्त्राभ्यां परं जिज्ञासवो नृप ॥ ११.५.२८॥
नमस्ते वासुदेवाय नमः सङ्कर्षणाय च ।
प्रद्युम्नायानिरुद्धाय तुभ्यं भगवते नमः ॥ ११.५.२९॥
नारायणाय ऋषये पुरुषाय महात्मने ।
विश्वेश्वराय विश्वाय सर्वभूतात्मने नमः ॥ ११.५.३०॥
इति द्वापर उर्वीश स्तुवन्ति जगदीश्वरम् ।
नानातन्त्रविधानेन कलावपि तथा शृणु ॥ ११.५.३१॥
कृष्णवर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्रपार्षदम् ।
यज्ञैः सङ्कीर्तनप्रायैर्यजन्ति हि सुमेधसः ॥ ११.५.३२॥
ध्येयं सदा परिभवघ्नमभीष्टदोहं
तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यम् ।
भृत्यार्तिहं प्रणतपाल भवाब्धिपोतं
वन्दे महापुरुष ते चरणारविन्दम् ॥ ११.५.३३॥
त्यक्त्वा सुदुस्त्यजसुरेप्सितराज्यलक्ष्मीं
धर्मिष्ठ आर्यवचसा यदगादरण्यम् ।
मायामृगं दयितयेप्सितमन्वधावद्
वन्दे महापुरुष ते चरणारविन्दम् ॥ ११.५.३४॥
एवं युगानुरूपाभ्यां भगवान्युगवर्तिभिः ।
मनुजैरिज्यते राजन्श्रेयसामीश्वरो हरिः ॥ ११.५.३५॥
कलिं सभाजयन्त्यार्या गुण ज्ञाः सारभागिनः ।
यत्र सङ्कीर्तनेनैव सर्वस्वार्थोऽभिलभ्यते ॥ ११.५.३६॥
न ह्यतः परमो लाभो देहिनां भ्राम्यतामिह ।
यतो विन्देत परमां शान्तिं नश्यति संसृतिः ॥ ११.५.३७॥
कृतादिषु प्रजा राजन्कलाविच्छन्ति सम्भवम् ।
कलौ खलु भविष्यन्ति नारायणपरायणाः ॥ ११.५.३८॥
क्वचित्क्वचिन्महाराज द्रविडेषु च भूरिशः ।
ताम्रपर्णी नदी यत्र कृतमाला पयस्विनी ॥ ११.५.३९॥
कावेरी च महापुण्या प्रतीची च महानदी ।
ये पिबन्ति जलं तासां मनुजा मनुजेश्वर ॥ ११.५.४०॥
प्रायो भक्ता भगवति वासुदेवेऽमलाशयाः ॥ ११.५.४०५॥
देवर्षिभूताप्तनृणां पितॄणां न किङ्करो नायमृणी च राजन् ।
सर्वात्मना यः शरणं शरण्यं गतो मुकुन्दं परिहृत्य कर्तम् ॥ ११.५.४१॥
स्वपादमूलम्भजतः प्रियस्य त्यक्तान्यभावस्य हरिः परेशः ।
विकर्म यच्चोत्पतितं कथञ्चिद्धुनोति सर्वं हृदि सन्निविष्टः ॥ ११.५.४२॥
श्रीनारद उवाच ।
धर्मान्भागवतानित्थं श्रुत्वाथ मिथिलेश्वरः ।
जायन्तेयान्मुनीन्प्रीतः सोपाध्यायो ह्यपूजयत् ॥ ११.५.४३॥
ततोऽन्तर्दधिरे सिद्धाः सर्वलोकस्य पश्यतः ।
राजा धर्मानुपातिष्ठन्नवाप परमां गतिम् ॥ ११.५.४४॥
त्वमप्येतान्महाभाग धर्मान्भागवतान्श्रुतान् ।
आस्थितः श्रद्धया युक्तो निःसङ्गो यास्यसे परम् ॥ ११.५.४५॥
युवयोः खलु दम्पत्योर्यशसा पूरितं जगत् ।
पुत्रतामगमद्यद्वां भगवानीश्वरो हरिः ॥ ११.५.४६॥
दर्शनालिङ्गनालापैः शयनासनभोजनैः ।
आत्मा वां पावितः कृष्णे पुत्रस्नेहं प्रकुर्वतोः ॥ ११.५.४७॥
वैरेण यं नृपतयः शिशुपालपौण्ड्र
शाल्वादयो गतिविलासविलोकनाद्यैः ।
ध्यायन्त आकृतधियः शयनासनादौ
तत्साम्यमापुरनुरक्तधियां पुनः किम् ॥ ११.५.४८॥
मापत्यबुद्धिमकृथाः कृष्णे सर्वात्मनीश्वरे ।
मायामनुष्यभावेन गूढैश्वर्ये परेऽव्यये ॥ ११.५.४९॥
भूभारासुरराजन्य हन्तवे गुप्तये सताम् ।
अवतीर्णस्य निर्वृत्यै यशो लोके वितन्यते ॥ ११.५.५०॥
श्रीशुक उवाच ।
एतच्छ्रुत्वा महाभागो वसुदेवोऽतिविस्मितः ।
देवकी च महाभागा जहतुर्मोहमात्मनः ॥ ११.५.५१॥
इतिहासमिमं पुण्यं धारयेद्यः समाहितः ।
स विधूयेह शमलं ब्रह्मभूयाय कल्पते ॥ ११.५.५२॥
जीवन्मुक्ति गीता
असतो मा सद्गमय ।
तमसो मा ज्योतिर्गमय ।
मृत्योर्मा अमृतंगमय ॥
सर्वभूतान्तरस्थ्याय नित्यमुक्तचिदात्मने ।
प्रत्यच्चैतन्यरूपाय मह्यमेव नमो नमः ॥
सर्वभूतानर्वर्तिने नित्यमुक्तचिद्स्वरूपिणे सर्वसाक्षिणे मह्यमेव
स्वात्मन एव नमः । नम इति द्विरुक्तिः आदरार्थम् ॥
जीवन्मुक्तिश् फ़्ootnoteमुक्तो - खच या मुक्तिः सा मुक्तिः पिण्डपातने ।
या मुक्तिः पिण्डपातने सा मुक्तिः शुनिशूकरे फ़्ootnoteसूकरे - क॥ १॥
जीवन्मुक्तिरिति या मुक्तिरुच्यते सा यदि पिण्डपातन परा तर्हि
सा मुक्तिः सूकरादिष्वपि प्रसक्ता भवतीत्यर्थः ।
पिण्डपातनं न जीवन्मुक्तिरिति भावः ॥
जीवः शिवः सर्वमेव भूतेष्वेवं फ़्ootnoteभूते भूते - ख व्यवस्थितः ।
एवमेवाभिपश्यन् हि फ़्ootnoteएवमेव पश्यति यो - ख जीवन्मुक्तः स उच्यते ॥ २॥
जीव इति यः सः सर्वभूतेष्वपि शिवत्वेनैव व्यवस्थितः शिव एव ।
तज्ज्ञानी जीवन्मुक्त इत्यर्थः ॥
एवं ब्रह्म जगत्सर्वमखिलं भासते रविः ।
संस्थितं सर्वभूतानां जीवन्मुक्तः स उच्यते ॥ ३॥
यथा रविः सर्वं जगद्भासते एवं ब्रह्म सर्वभूतानामात्मत्वेन
संस्थितं सदखिलं भासते प्रकाश्यति । एवमेवान्हिपश्यन् इत्यनुवर्तते ।
सः तादृशः ज्ञानी जीवन्मुक्त इत्युच्यते इत्यर्थः ॥
एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ।
आत्मज्ञानी तथैवैको जीवन्मुक्तः स उच्यते ॥ ४॥
जलचन्द्रवज्जले चन्द्रः यथानेकधा दृश्यते तथैव एकः आत्म ।
उपाधिभेदेन इत्यध्याहारः.... एकधा बहुधा चैव दृश्यते । एवमात्मानं
यो जानाति सः आत्मज्ञानी जीवन्मुक्त इत्युच्यते ॥
सर्वभूते स्थितं ब्रह्म भेदाभेदो न विद्यते ।
एकमेवाभिपश्यंश्च फ़्ootnoteपश्यति - खजीवन्मुक्तः स उच्यते ॥ ५॥
ब्रह्म सर्वभूतस्थितम् । यत्र भेदोऽभेदः भेदाभेदो न विद्यते ।
तदेकमेव । एवमभिपश्यंश्च यः स जीवन्मुक्त इत्युच्यते ॥
तत्त्वं क्षेत्रं व्योमातीतमहं क्षेत्रज्ञ उच्यते ।
अहं कर्ता च भोक्ता च फ़्ootnoteअहं कर्ता अहं भोक्ता - ख जीवन्मुक्तः स उच्यते ॥ ६॥
तत्त्वस्वरूपमेवास्ति । क्षेत्रमाकाशातीतं, परमात्म क्षेत्रज्ञः ।
कर्तृत्वं भोक्तृत्वं च तस्यैव । एवं यो विजानाति सः जीवन्मुक्त उच्यते ॥
कर्मेन्द्रियपरित्यागी ध्यानवर्जितचेतसः फ़्ootnoteचेतसम् - ख।
अत्मज्ञानी तथैवेको जीवन्मुक्तः स उच्यते ॥ ७॥
कर्मेन्द्रियपरित्यागी स्वस्वव्यापाररहितानि ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि
चकुर्वन् तानि परित्यजतीत्यर्थः । तथ्हा चेतोऽपि विषयध्यानवर्जितं
करोत्येवमद्वयं जानाति यः सः जीवन्मुक्तः ॥
तत्त्वं केवलं कर्म फ़्ootnoteकर्मो - खशोकमोहादिवर्जितम् ।
शुभाशुभपरित्यागी जीवन्मुक्तः स उच्यते ॥ ८॥
ज्ञानिना यत्कर्म क्रियते तच्छोकमोहादिवर्जितम् । तच्च केवलं
शारीरपरिरक्षणायैव । एवं तेन शुभाशुभादिकं
परित्यक्तं भवति । स जीवन्मुक्त उच्यते ॥
कर्मसर्वत्र आदिष्टं न जानामि च किंचन ।
कर्म ब्रह्म विजानाति जीवन्मुक्तः स उच्यते ॥ ९॥
यः आदिष्टं विध्युक्तम् कर्म न जानाति कर्तृत्वारोपेण कर्मन
करोतीत्यर्थः । अत एव कर्म ब्रह्मस्वरूपमेवेति
विजानाति सः जीवन्मुक्तः ॥
चिन्मयं व्यापितं सर्वमाकाशं जगदीश्वरम् ।
सहितं फ़्ootnoteसंस्थितम् - ख सर्वभूतानां जीवन्मुक्तः स उच्यते ॥ १०॥
यः जगदीश्वरं चित्स्वरूपमित्याकाशव्यापिनमिति सर्वभूतसहितमित्यपि
जानाति सः जीवन्मुक्त उच्यते ॥
अनादिवर्ति भूतानां फ़्ootnoteअनाद्य व्यक्तभूतानां - ख जीवः शिवो न हन्यते ।
निर्वैरः सर्वभूतेषु फ़्ootnoteसर्वभूतानां - ख जीवन्मुक्तः स उच्यते ॥ ११॥
सर्वेषु भूतेषु यः अनादिः जीवः सः शिव एव । अत एव सः न हन्यते ।
अतः सर्वेषु भूतेषु निर्वैरो यः जीवन्मुक्त उच्यते ॥
आत्मा गुरुस्त्वं विश्वं फ़्ootnoteगुरुस्त्वद्विश्वं च चिदाकाशो न लिप्यते ।
गतागतं फ़्ootnoteयतागतः - ख द्वयोर्नास्ति जीवन्मुक्तः स उच्यते ॥ १२॥
यः गुरुः आत्मा सः त्वं एव । स एव निर्लिप्तः चिदाकाशः । तद् एव
सर्वम् । अत एव तस्य गतागतं गतमागतमागतं गतं वा न विद्यते ।
एवं यः आत्मानं सः जीवन्मुक्त इत्युच्यते ॥
गर्भ फ़्ootnoteअन्तर् - ख ध्यानेन पश्यन्ति ज्ञानीनां मन उच्यते ।
सोऽहं मनो विलीयन्ते जीवन्मुक्तः स उच्यते ॥ १३॥
गर्भध्यानेन अन्तर्ध्यानेन इत्यर्थः । एतादृशध्यानेन ज्ञानिनः यत्पश्यन्ति
तदेव ज्ञानिनां मन उच्यते । इदमेव सोऽहं मनः । एतादृशमनोविशिष्टाः
ज्ञानिनः । चिदाकाश इत्यनुवर्तते । तत्र विलीयन्ते । ते तत्र विलयं
यान्तीत्यर्थः । एवं स्थितस्य आत्मतत्त्वस्य ज्ञानीत्यनुवर्तते ।
सः जीवन्मुक्त इत्युच्यते ॥
ऊर्ध्वध्यानेन पश्यन्ति विज्ञानं मन उच्यते ।
शून्यं लयं च विलयं जीवन्मुक्तः स उच्यते ॥ १४॥
ज्ञानिनः ऊर्ध्वध्यानेन समाधिना यत्पश्यन्ति तद्विज्ञानम् । तत्तेषां मन
उच्यते । तदेव शून्यं लयम् । तदेव विज्ञानम् । तथात्मज्ञान्यात्मानं जानाति
यः सः जीवन्मुक्त उच्यते ॥
अभ्यासे फ़्ootnoteआभाषे - ख रमते नित्यं मनो ध्यानलयं गतम् ।
बन्धमोक्षद्वयं नास्ति जीवन्मुक्तः स उच्यते ॥ १५॥
यस्य ज्ञानिनः मनः नित्यमभ्यासे श्रवणमनननिदिध्यासनाख्यतपसि
रमते क्रीडति । यस्य मनः ध्यानलयं ध्ह्याने लयं गतं; यस्य
बन्धमोक्षद्वन्द्वं नास्ति सः जिवन्मुक्त उच्यते ॥
एककी रमते नित्यं स्वभावगुणवर्जितम् ।
ब्रह्मज्ञानरसास्वादी फ़्ootnoteरसास्वादो - ख जीवन्मुक्तः स उच्यते ॥ १६॥
यस्य ज्ञानिनः मनः इत्यनुवर्तते । नित्यं स्वभावगुणवर्जितं
प्रकृति गुणातीतं, सः ज्ञानी एकाकी रमते आत्मन्येव क्रीडति ।
ब्रह्मज्ञानरसास्वादी ब्रह्माख्यज्ञानरसास्वादी सः जीवन्मुक्त इत्युच्यते ॥
हृदि ध्यानेन पश्यन्ति प्रकाशं क्रियते मनः ।
सोऽहं हंसेति पश्यन्ति जीवन्मुक्तः स उच्यते ॥ १७॥
ये ज्ञानिनः हृदि ध्यानेन प्रकाशं पश्यन्ति तैः मनः क्रियते तेषां
मनोऽभिव्यक्तं भवतीति यावत् । तदा ते सोऽहं हंसः इति पश्यन्ति ।
एवमात्मतत्त्वं पश्यन् जीवन्मुक्त इत्युच्यते ॥
शिवशक्तिसमात्मानं पिण्डब्रह्माण्डम् फ़्ootnoteशिवशक्तिर्ममात्मानो पिण्डनि ब्रह्माण्डम् - ख एव च ।
चिदाकाशं हृदं मोहं फ़्ootnoteकृतं सोऽहं - ख जीवन्मुक्तः स उच्यते ॥ १८॥
ज्ञानिनः शिवशक्तिसमात्मानं शिवशक्तिसमः यः आत्मा तमात्मानं
महात्मानम् । पिण्डः शारीरम् । तेन सहितं ब्रह्माण्डं हृदं हृत्स्थं
बन्धकं मोहं च चिदाकाशमिति चैतन्यमेव पश्यन्ति, य
एवमात्मतत्त्वज्ञानी सः जीवन्मुक्त इत्युच्यते ॥
जाग्रत्स्वप्नसुषुप्तिं च तुरीयावस्थितं सदा ।
सोऽहं मनो विलीयेत फ़्ootnoteविलीयते - ख जीवन्मुक्तः स उच्यते ॥ १९॥
यस्य ज्ञानिनः सोऽहं मनः सोऽहमिति ध्यानैकापरं मनः
जाग्रत्स्वप्नसुषुप्तिमतीत्य सदा तुरीयावस्थितं सच्चिदाकाशपरमात्मनि
विलीयेत सः ज्ञानी जीवन्मुक्त इत्युच्यते ॥
सोऽहं स्थितं ज्ञानमिदं सूत्रेषु मणिवत्परम् फ़्ootnoteज्योतिरूपं निर्मलं - ख सूत्रमभित उत्तरम् - ग।
सोऽहं ब्रह्म निराकारं जीवन्मुक्तः स उच्यते ॥ २०॥
इदं सोऽहं स्थितं ज्ञानं सूत्रेषु मणिवच्चिदाकाशे स्थितमित्यन्वयः ।
सोऽहं परं ब्रह्म निराकारम् । एवमात्मज्ञानी यः सः
जीवन्मुक्त इत्युच्यते ॥
मन एव मनुष्याणां भेदाभेदस्य कारणम् ।
विकल्पनैव संकल्पं फ़्ootnoteसंकल्पो - ख जीवन्मुक्तः स उच्यते ॥ २१॥
विकल्पना इदमित्थमेवेत्यादि तत्त्वविरुद्धा कल्पना स एव संकल्प इति
प्रसिद्धः । तदेव मनोरूपं सन्मनुष्यानामहं ममेत्यादि
भेदाभेदव्यवहारकारणम् । एवं यो जानाति ज्ञानफलं च
संकल्पराहित्यं तथा च यः सर्वथा संकल्परहितः ।
सः जीवन्मुक्त इत्युच्यते ॥
मन एव विदुः प्राज्ञाः सिद्धसिद्धान्त फ़्ootnoteविदुःप्राज्ञासिद्धसिद्धान्त - ख एव च ।
यदा फ़्ootnoteसदा - क दृढं तदा मोक्षो फ़्ootnoteमोक्ष - ख जीवन्मुक्तः स उच्यते ॥ २२॥
यत्प्राज्ञाः ज्ञानिनः विदुः किमिति । यदा मनः सदा दृढं भवति तदैव
मोक्ष इति । स एव च सिद्धसिद्धान्तः । य एवं सिद्धान्तं
वेद सः जीवन्मुक्त उच्यते ॥
योगाभ्यासी मनः श्रेष्ठोऽन्तस्त्यागी बहिर्जडः ।
अन्तस्त्यागी बहिस्त्यागी जीवन्मुक्तः स उच्यते ॥ २३॥
यो यो योगाभ्यासी योगमभ्यसति स सो मनः श्रेष्ठः मनसा श्रेष्ठः ।
एवं विधोऽयमन्तस्त्यागी अन्तस्थं सर्वमपि मायासंभूतं
त्यजतीत्यन्तस्त्यागी । अत एव सः बहिः जडवदाचरति । एवं च
सोऽन्तस्त्यागी बहिस्त्यागी च । स एव जीवन्मुक्त इत्युच्यते ॥
इति वेदान्तकेसरिणा श्रीदत्तात्रेय विरचिता जीवन्मुक्तगीता समाप्ता ॥
इति श्रीजयचामराजेन्द्रविरचिता जीवन्मुक्तगीताव्याख्या समाप्ता ॥
॥ तुलसीगीता ॥
श्रीभगवानुवाच --
प्राग्दत्वार्घं ततोऽभ्यर्च्य गन्धपुष्पाक्षतादिना ।
स्तुत्वा भगवतीं तां च प्रणमेद्दण्डवद्भुवि ॥ १॥
श्रियं श्रिये श्रियावासे नित्यं श्रीधवसत् रते ।
भक्त्या दत्तं मया देवि अर्घं गृह्ण नमोऽस्तु ते ॥ २॥
निर्मिता त्वं पुरा देवैरर्चिता त्वं सुरासुरैः ।
तुलसि हर मे पापं पूजां गृह्ण नमोऽस्तु ते ॥ ३॥
महाप्रसादजननी आधिव्याधिविनाशिनी ।
सर्वसौभाग्यदे देवि तुलसि त्वां नमोऽस्तु ते ॥ ४॥
या दृष्टा निखिलांससंघशमना स्पृष्टा वपुःपावना
रोगाणामभिवन्दिता निरसनी सिक्तान्तकत्रासिनी ।
प्रत्यासक्तिविधायिनी भगवतः कृष्णस्य संरोपिता
न्यस्ता तच्चरणे विमुक्तिफलदा तस्यै तुलस्यै नमः ॥ ५॥
भगवत्यास्तुलस्यास्तु माहात्म्यामृतसागरे ।
लोभात् कूर्द्दितुमिच्छामि क्षुद्रस्तत् क्षम्यतां त्वया ॥ ६॥
श्रवणाद्वादशीयोगे शालग्रामशिलार्चने ।
यद्फलं सङ्गमे प्रोक्तं तुलसीपूजनेन तत् ॥ ७॥
धात्रीफलेन यत् पुण्यं जयन्त्यां समुपोषणे ।
तद्फलं लभते मर्त्यास्तुलसीपूजनेन तत् ॥ ८॥
यद्फलं प्रयागस्नाने काश्यां प्राणविमोक्षणे ।
तद्फलं विहितं देवैस्तुलसीपूजनेन तत् ॥ ९॥
चतुर्णामपि वर्णानामाश्रमाणां विशेषतः ।
स्त्रीणां च पुरुषाणां च पूजितेष्टं ददाति च ॥ १०॥
तुलसी रोपिता सिक्ता दृष्टा स्पृष्टा च पावयेत् ।
आराधिता प्रयत्नेन सर्वकामफलप्रदा ॥ ११॥
प्रदक्षिणं भ्रमित्वा ये नमस्कुर्वन्ति नित्यशः ।
न तेषां दुरितं किञ्चिदक्षीणमवशिष्यते ॥ १२॥
पूज्यमाना च तुलसी यस्य वेश्मनि तिष्ठति ।
तस्य सर्वाणि श्रेयांसि वर्धन्तेऽहरहः सदा ॥ १३॥
पक्षे पक्षे च द्वादश्यां सम्प्राप्ते तु हरेर्दिने ।
ब्रह्मादयोऽपि कुर्वन्ति तुलसीवनपूजनम् ॥ १४॥
अनन्यमनसा नित्यं तुलसीं स्तौति यो जनः ।
पितृदेवमनुष्याणां प्रियो भवति सर्वदा ॥ १५॥
रतिं करोमि नान्यत्र तुलसीकाननं विना ।
सत्यं ब्रवीमि ते सत्ये कलिकाले मम प्रिये ॥ १६॥
हित्वा तीर्थसहस्राणि सर्वानपि शिलोच्चयान् ।
तुलसीकानने नित्यं कलौ तिष्ठामि भामिनि ॥ १७॥
न धात्रा सफला यत्र न विष्णुस्तुलसीवनम्।
तत् स्मशानसमं स्थानं सन्ति यत्र न वैष्णवाः ॥ १८॥
तुलसीगन्धमादाय यत्र गच्छति मारुतः ।
दिशो दश च पूताः स्युर्भूतग्रामाश्चतुर्दशः ॥ १९॥
तुलसीवनसंभूता छाया पतति यत्र वै ।
तत्र श्राद्धं प्रदातव्यं पितॄणां तृप्तिहेतवे ॥ २०॥
तुलसी पूजिता नित्यं सेविता रोपिता शुभा ।
स्नापिता तुलसी यैस्तु ते वसन्ति ममालये ॥ २१॥
सर्वपापहरं सर्वकामदं तुलसीवनम् ।
न पश्यति समं सत्ये तुलसीवनरोपणात् ॥ २२॥
तुलस्यलङ्कृता ये वै तुलसीवनपूजकाः ।
तुलसीस्थापका ये च ते त्याज्या यमकिङ्करैः ॥ २३॥
दर्शनं नर्मदायास्तु गङ्गास्नानं कलौ युगे ।
तुलसीदलसंस्पर्शः सममेतत्त्रयं स्मृतम् ॥ २४॥
दारिद्र्यदुःखरोगार्तिपापानि सुबहून्यपि ।
हरते तुलसीक्षेत्रं रोगानिव हरीतकी ॥ २५॥
तुलसीकानने यस्तु मुहूर्तमपि विश्रमेत् ।
जन्मकोटिकृतात् पापात् मुच्यते नात्र संशयः ॥ २६॥
नित्यं तुलसिकारण्ये तिष्ठामि स्पृहया युतः ।
अपि मे क्षतपत्रैकं कश्चिद्धन्योऽर्पयेदिति ॥ २७॥
तुलसीनाम यो ब्रुयात् त्रिकालं वदने नरः ।
विवर्णवदनो भूत्वा तल्लिपिं मार्जयेद्यमः ॥ २८॥
शुक्लपक्षे यदा देवि तृतीया बुधसंयुता ।
श्रवणया च संयुक्ता तुलसी पुण्यदा तदा ॥ २९॥
इति तुलसीगीता समाप्ता ॥
देवीगीता
॥ श्री गणेशाय नमः ॥
॥ ॐ नमः श्री देव्यै ॥
अथ श्रीमद्देवीगीता प्रारभ्यते ।
॥ अथ प्रथमोऽध्यायः ॥
हिमालय उवाच -
योगं च भक्तिसहितं ज्ञानं च श्रुतिसंमतम् ।
वदस्व परमेशानि त्वमेवाहं यतो भवेः ॥
व्यास उवाच -
इति तस्य वचः श्रुत्वा प्रसन्नमुखपङ्कजा ।
वक्तुमारभताम्बा सा रहस्यं श्रुतिगूहितम्॥
शृण्वन्तु निर्जराः सर्वे व्याहरन्त्या वचो मम ।
यस्य श्रवणमात्रेण मद्रूपत्वं प्रपद्यते ॥ १॥
अहमेवास पूर्वं मे नान्यत्किञ्चिन्नगाधिप ।
तदात्मरूपं चित्संवित्परब्रह्मैकनामकम् ॥ २॥
अप्रतर्क्यमनिर्देश्यमनौपम्यमनामयम् ।
तस्य काचित्स्वतःसिद्धा शक्तिर्मायेति विश्रुता ॥ ३॥
न सती सा नासती सा नोभयात्मा विरोधतः ।
एतद्विलक्षणा काचिद्वस्तुभूताऽस्ति सर्वदा ॥ ४॥
पावकस्योष्णतेवेयमुष्णांशोरिव दीधितिः ।
चन्द्रस्य चन्द्रिकेवेयं ममेयं सहजा ध्रुवा ॥ ५॥
तस्यां कर्माणि जीवानां जीवाः कालाश्च सञ्चरे ।
अभेदेन विलीनाः स्युः सुषुप्तौ व्यवहारवत् ॥ ६॥
स्वशक्तेश्च समायोगादहं बीजात्मतां गता ।
स्वधारावरणात्तस्या दोषत्वं च समागतम् ॥ ७॥
चैतन्यस्य समायोगान्निमित्तत्वं च कथ्यते ।
प्रपञ्चपरिणामाच्च समवायित्वमुच्यते ॥ ८॥
केचित्तां तप इत्याहुस्तमः केचिज्जडं परे ।
ज्ञानं माया प्रधानं च प्रकृतिं शक्तिमप्यजाम् ॥ ९॥
विमर्श इति तां प्राहुः शैवशास्त्रविशारदाः ।
अविद्यामितरे प्राहुर्वेदतत्त्वार्थचिन्तकाः ॥ १०॥
एवं नानाविधानि स्युर्नामानि निगमादिषु ।
तस्याजडत्वं दृश्यत्वाज्ज्ञाननाशात्ततोऽसती ॥११॥
चैतन्यस्य न दृश्यत्वं दृश्यत्वे जडमेव तत् ।
स्वप्रकाशं च चैतन्यं न परेण प्रकाशितम् ॥ १२॥
अनवस्थादोषसत्त्वान्न स्वेनापि प्रकाशितम् ।
कर्मकर्तृविरोधः स्यात्तस्मात्तद्दीपवत्स्वयम् ॥ १३॥
प्रकाशमानमन्येषां भासकं विद्धि पर्वत ।
अत एव च नित्यत्वं सिद्धं संवित्तनोर्मम ॥ १४॥
जाग्रत्स्वप्नसुषुप्त्यादौ दृश्यस्य व्यभिचारतः ।
संविदो व्यभिचारश्च नानुभूतोऽस्ति कर्हिचित् ॥ १५॥
यदि तस्याप्यनुभवतर्ह्ययं येन साक्षिणा ।
अनुभूतः स एवात्र शिष्टः संविद्वपुः पुरा ॥ १६॥
अत एव च नित्यत्वं प्रोक्तं सच्छास्त्रकोविदः ।
आनन्दरूपता चास्याः परप्रेमास्पदत्वतः ॥ १७॥
मा न भूवं हि भूयासमिति प्रेमात्मनि स्थितम् ।
सर्वस्यान्यस्य मिथ्यात्वादसङ्गत्वं स्फुटं मम ॥ १८॥
अपरिच्छिन्नताप्येवमत एव मता मम ।
तच्च ज्ञानं नात्मधर्मो धर्मत्वे जडताऽऽत्मनः ॥ १९॥
ज्ञानस्य जडशेषत्वं न दृष्टं न च संभवि ।
चिद्धर्मत्वं तथा नास्ति चितश्चिन्न हि भिद्यते ॥ २०॥
तस्मादात्मा ज्ञानरूपः सुखरूपश्च सर्वदा ।
सत्यः पूर्णोऽप्यसङ्गश्च द्वैतजालविवर्जितः ॥ २१॥
स पुनः कामकर्मादियुक्तया स्वीयमायया ।
पूर्वानुभूतसंस्कारात्कालकर्मविपाकतः ॥ २२॥
अविवेकाच्च तत्त्वस्य सिसृक्षावान्प्रजायते ।
अबुद्धिपूर्वः सर्गोऽयं कथितस्ते नगाधिप ॥ २३॥
एतद्धि यन्मया प्रोक्तं मम रूपमलौकिकम् ।
अव्याकृतं तदव्यक्तं मायाशबलमित्यपि ॥ २४॥
प्रोच्यते सर्वशास्त्रेषु सर्वकारणकारणम् ।
तत्त्वानामादिभूतं च सच्चिदानन्दविग्रहम् ॥ २५॥
सर्वकर्मघनीभूतमिच्छाज्ञानक्रियाश्रयम् ।
ह्रीङ्कारमन्त्रवाच्यं तदादितत्त्वं तदुच्यते ॥ २६॥
तस्मादाकाश उत्पन्नः शब्दतन्मात्ररूपकः ।
भवेत्स्पर्शात्मको वायुस्तेजो रूपात्मकं पुनः ॥ २७॥
जलं रसात्मकं पश्चात्ततो गन्धात्मिका धरा ।
शब्दैकगुण आकाशो वायुः स्पर्शरवान्वितः ॥ २८॥
शब्दस्पर्शरूपगुणं तेज इत्युच्यते बुधैः ।
शब्दस्पर्शरूपरसैरापो वेदगुणाः स्मृताः ॥ २९॥
शब्दस्पर्शरूपरसगन्धैः पञ्चगुणा धरा ।
तेभ्योऽभवन्महत्सूत्रं यल्लिङ्गं परिचक्षते ॥ ३०॥
सर्वात्मकं तत्सम्प्रोक्तं सूक्ष्मदेहोऽयमात्मनः ।
अव्यक्तं कारणो देहः स चोक्तः पूर्वमेव हि ॥ ३१॥
यस्मिञ्जगद्बीजरूपं स्थितं लिङ्गोद्भवो यतः ।
ततः स्थूलानि भूतानि पञ्चीकरणमार्गतः ॥ ३२॥
पञ्च सङ्ख्यानि जायन्ते तत्प्रकारस्त्वथोच्यते ।
पूर्वोक्तानि च भूतानि प्रत्येकं विभजेद्द्विधा ॥ ३३॥
एकैकं भागमेकस्य चतुर्धा विभजेद्गिरे ।
स्वस्वेतरद्वितीयांशे योजनात्पञ्च पञ्च ते॥ ३४॥
तत्कार्यं च विराड् देहः स्थूलदेहोऽयमात्मनः ।
पञ्चभूतस्थसत्त्वांशैः श्रोत्रादीनां समुद्भवः ॥ ३५॥
ज्ञानेन्द्रियाणां राजेन्द्र प्रत्येकं मीलितैस्तु तैः ।
अन्तःकरणमेकं स्याद्वृत्तिभेदाच्चतुर्विधम् ॥ ३६॥
यदा तु सङ्कल्पविकल्पकृत्यं
तदा भवेत्तन्मन इत्यभिख्यम् ।
स्याद्बुद्धिसंज्ञं च यदा प्रवेत्ति
सुनिश्चितं संशयहीनरूपम् ॥ ३७॥
अनुसन्धानरूपं तच्चित्तं च परिकीर्तितम् ।
अहङ्कृत्याऽऽत्मवृत्या तु तदहङ्कारतां गतम् ॥ ३८॥
तेषां रजोंऽशैर्जातानि क्रमात्कर्मेन्द्रियाणि च ।
प्रत्येकं मीलितैस्तैस्तु प्राणो भवति पञ्चधा ॥ ३९॥
हृदि प्राणो गुदेऽपानो नाभिस्थस्तु समानकः ।
कण्ठदेशेप्युदानः स्याद्व्यानः सर्वशरीरगः ॥ ४०॥
ज्ञानेन्द्रियाणि पञ्चैव पञ्च कर्मेन्द्रियाणि च ।
प्राणादि पञ्चकं चैव धिया च सहितं मनः ॥ ४१॥
एतत्सूक्ष्मशरीरं स्यान्मम लिङ्गं यदुच्यते ।
तत्र या प्रकृतिः प्रोक्ता सा राजन्विविधा स्मृता ॥ ४२॥
सत्त्वात्मिका तु माया स्यादविद्या गुणमिश्रिता ।
स्वाश्रयं या तु संरक्षेत्सा मायेति निगद्यते ॥ ४३॥
तस्यां यत्प्रतिबिम्बं स्याद्बिम्बभूतस्य चेशितुः ।
स ईश्वरः समाख्यातः स्वाश्रयज्ञानवान् परः ॥ ४४॥
सर्वज्ञः सर्वकर्ता च सर्वानुग्रहकारकः ।
अविद्यायां तु यत्किञ्चित्प्रतिबिंबं नगाधिप ॥ ४५॥
तदेव जीवसंज्ञं स्यात्सर्वदुःखाश्रयं पुनः ।
द्वयोरपीह सम्प्रोक्तं देहत्रयमविद्यया ॥ ४६॥
देहत्रयाभिमानाच्चाप्यभून्नामत्रयं पुनः ।
प्राज्ञस्तु कारणात्मा स्यात्सूक्ष्मधी तु तैजसः ॥ ४७॥
स्थूलदेही तु विश्वाख्यस्त्रिविधः परिकीर्तितः ।
एवमीशोऽपि सम्प्रोक्त ईशसूत्रविराट्पदैः ॥ ४८॥
प्रथमो व्यष्टिरूपस्तु समष्ट्यात्मा परः स्मृतः ।
स हि सर्वेश्वरः साक्षाज्जीवानुग्रहकाम्यया ॥ ४९॥
करोति विविधं विश्वं नानाभोगाश्रयं पुनः ।
मच्छक्तिप्रेरितो नित्यं मयि राजन्प्रकल्पितः ॥ ५०॥
इति श्रीदेवीभागवते देवीगीतायां प्रथमोऽध्यायः ॥
॥ अथ द्वितीयोऽध्यायः ॥
देव्युवाच -
मन्मायाशक्तिसंक्लृप्तंजगत्सर्वं चराचरम् ।
सापि मत्तः पृथङ् माया नास्त्येव परमार्थतः ॥ १॥
व्यवहारदृशा सेयं मायाऽविद्येति विश्रुता ।
तत्त्वदृष्ट्या तु नास्त्येव तत्त्वमेवास्ति केवलम् ॥ २॥
साहं सर्वं जगत्सृष्ट्वा तदन्तः प्रविशाम्यहम् ।
माया कर्मादिसहिता गिरे प्राणपुरःसरा ॥ ३॥
लोकान्तरगतिर्नो चेत्कथं स्यादिति हेतुना ।
यथा यथा भवन्त्येव मायाभेदास्तथा तथा ॥ ४॥
उपाधिभेदाद्भिन्नाऽहं घटाकाशादयो यथा ।
उच्चनीचादि वस्तूनि भासयन्भास्करः सदा ॥ ५ ॥
न दुष्यति तथैवाहं दोषैर्लिप्ता कदापि न ।
मयि बुद्ध्यादिकर्तृत्वमध्यस्यैवापरे जनाः ॥ ६॥
वदन्ति चात्मा कर्तेति विमूढा न सुबुद्धयः ।
अज्ञानभेदतस्तद्वन्मायाया भेदतस्तथा ॥ ७॥
जीवेश्वरविभागश्च कल्पितो माययैव तु ।
घटाकाशमहाकाशविभागः कल्पितो यथा ॥ ८॥
तथैव कल्पितो भेदो जीवात्मपरमात्मनोः ।
यथा जीवबहुत्वं च माययैव न च स्वतः ॥ ९॥
तथेश्वरबहुत्वं च मायया न स्वभावतः ।
देहेन्द्रियादिसङ्घातवासनाभेदभेदिता ॥ १०॥
अविद्या जीवभेदस्य हेतुर्नान्यः प्रकीर्तितः ।
गुणानां वासनाभेदभेदिता या धराधर ॥ ११॥
माया सा परभेदस्य हेतुर्नान्यः कदाचन ।
मयि सर्वमिदं प्रोतमोतं च धरणीधर ॥ १२॥
ईश्वरोऽहं च सूत्रात्मा विराडात्माऽहमस्मि च ।
ब्रह्माऽहं विष्णुरुद्रौ च गौरी ब्राह्मी च वैष्णवी ॥ १३॥
सूर्योऽहं तारकाश्चाहं तारकेशस्तथास्म्यहम् ।
पशुपक्षिस्वरूपाऽहं चाण्डालोऽहं च तस्करः ॥ १४॥
व्याधोऽहं क्रूरकर्माऽहं सत्कर्मोऽहं महाजनः ।
स्त्रीपुन्नपुंसकाकारोऽप्यहमेव न संशयः ॥ १५॥
यच्च किञ्चित्क्वचिद्वस्तु दृश्यते श्रूयतेऽपि वा ।
अन्तर्बहिश्च तत्सर्वं व्याप्याहं सर्वदा स्थिता ॥ १६॥
न तदस्ति मया त्यक्तं वस्तु किञ्चिच्चराचरम् ।
यद्यस्ति चेत्तच्छून्यं स्याद्वन्ध्यापुत्रोपमं हि तत् ॥ १७॥
रज्जुर्यथा सर्पमालाभेदैरेका विभाति हि ।
तथैवेशादिरूपेण भाम्यहं नात्र संशयः ॥ १८॥
अधिष्ठानातिरेकेण कल्पितं तन्न भासते ।
तस्मान्मत्सत्तयैवैतत्सत्तावन्नान्यथा भवेत् ॥ १९॥
हिमालय उवाच -
यथा वदसि देवेशि समष्ट्याऽऽत्मवपुस्त्विदम् ।
तथैव द्रष्टुमिच्छामि यदि देवि कृपा मयि ॥ २०॥
व्यास उवाच -
इति तस्य वचः श्रुत्वा सर्वे देवाः सविष्णवः ।
ननन्दुर्मुदितात्मानः पूजयन्तश्च तद्वचः ॥ २१॥
अथ देवमतं ज्ञात्वा भक्तकामदुघा शिवा ।
अदर्शयन्निजं रूपं भक्तकामप्रपूरिणी ॥ २२॥
अपश्यंस्ते महादेव्या विराडरूपं परात्परम् ।
द्यौर्मस्तकं भवेद्यस्य चन्द्रसूर्यौ च चक्षुषी ॥ २३॥
दिशः श्रोत्रे वचो वेदाः प्राणो वायुः प्रकीर्तितः ।
विश्वं हृदयमित्याहुः पृथिवी जघनं स्मृतम् ॥ २४॥
नभस्तलं नाभिसरो ज्योतिश्चक्रमुरस्थलम् ।
महर्लोकस्तु ग्रीवा स्याज्जनो लोको मुखं स्मृतम् ॥ २५॥
तपो लोको रराटिस्तु सत्यलोकादधः स्थितः ।
इन्द्रादयो बाहवः स्युः शब्दः श्रोत्रं महेशितुः ॥ २६॥
नासत्यदस्रौ नासे स्तौ गन्धो घ्राणं स्मृतो बुधैः ।
मुखमग्निः समाख्यातो दिवारात्री च पक्ष्मणी ॥ २७॥
ब्रह्मस्थानं भ्रूविजृंभोऽप्यापस्तालुः प्रकीर्तिताः ।
रसो जिह्वा समाख्याता यमो दंष्ट्राः प्रकीर्तिताः ॥ २८॥
दन्ताः स्नेहकला यस्य हासो माया प्रकीर्तिता ।
सर्गस्त्वपाङ्गमोक्षः स्याद्व्रीडोर्ध्वोष्ठो महेशितुः ॥ २९॥
लोभः स्यादधरोष्ठोऽस्या धर्ममार्गस्तु पृष्ठभूः ।
प्रजापतिश्च मेढ्रं स्याद्यः स्रष्टा जगतीतले ॥ ३०॥
कुक्षिः समुद्रा गिरयोऽस्थीनि देव्या महेशितुः ।
नद्यो नाड्यः समाख्याता वृक्षाः केशाः प्रकीर्तिताः ॥ ३१॥
कौमारयौवनजरावयोऽस्य गतिरुत्तमा ।
बलाहकास्तु केशाः स्युः सन्ध्ये ते वाससी विभोः ॥ ३२॥
राजञ्छ्रीजगदम्बायाश्चन्द्रमास्तु मनः स्मृतः ।
विज्ञानशक्तिस्तु हरी रुद्रोन्तःकरणं स्मृतम् ॥ ३३॥
अश्वादिजातयः सर्वाः श्रोणिदेशे स्थिता विभोः ।
अतलादिमहालोकाः कट्यधोभागतां गताः ॥ ३४॥
एतादृशं महारूपं ददृशुः सुरपुङ्गवाः ।
ज्वालामालासहस्राढ्यं लेलिहानं च जिह्वया ॥ ३५॥
दंष्ट्राकटकटारावं वमन्तं वह्निमक्षिभिः ।
नानायुधधरं वीरं ब्रह्मक्षत्रौदनं च यत् ॥ ३६॥
सहस्रशीर्षनयनं सहस्रचरणं तथा ।
कोटिसूर्यप्रतीकाशं विद्युत्कोटिसमप्रभम् ॥ ३७॥
भयङ्करं महाघोरं हृदक्ष्णोस्त्रासकारकम् ।
ददृशुस्ते सुराः सर्वे हाहाकारं च चक्रिरे ॥ ३८॥
विकम्पमानहृदया मूर्च्छामापुर्दुरत्ययाम् ।
स्मरणं च गतं तेषां जगदम्बेयमित्यपि ॥ ३९॥
अथ ते ये स्थिता वेदाश्चतुर्दिक्षु महाविभोः ।
बोधयामासुरत्युग्रं मूर्च्छातो मूर्च्छितान्सुरान् ॥ ४०॥
अथ ते धैर्यमालम्ब्य लब्ध्वा च श्रुतिमुत्तमाम् ।
प्रेमाश्रुपूर्णनयना रुद्धकण्ठास्तु निर्जराः ॥ ४१॥
बाष्पगद्गददया वाचा स्तोतुं समुपचक्रिरे ।
देवा ऊचुः -
अपराधं क्षमस्वाम्ब पाहि दीनांस्त्वदुद्भवान् ॥ ४२॥
कोपं संहर देवेशि सभया रूपदर्शनात् ।
का ते स्तुतिः प्रकर्तव्या पामरैर्निजरैरिह ॥ ४३॥
स्वस्याप्यज्ञेय एवासौ यावान्यश्च स्वविक्रमः ।
तदर्वाग्जायमानानां कथं स विषयो भवेत् ॥ ४४॥
नमस्ते भुवनेशानि नमस्ते प्रणवात्मके ।
सर्व वेदान्तसंसिद्धे नमो ह्रीङ्कारमूर्तये ॥ ४५॥
यस्मादग्निः समुत्पन्नो यस्मात्सूर्यश्च चन्द्रमाः ।
यस्मादोषधयः सर्वास्तस्मै सर्वात्मने नमः ॥ ४६॥
यस्माच्च देवाः संभूताः साध्याः पक्षिण एव च ।
पशवश्च मनुष्याश्च तस्मै सर्वात्मने नमः ॥ ४७॥
प्राणापानौ व्रीहियवौ तपः श्रद्धा ऋतं तथा ।
ब्रह्मचर्यं विधिश्चैव यस्मात्तस्मै नमो नमः ॥ ४८॥
सप्त प्राणार्चिषो यस्मात्समिधः सप्त एव च ।
होमाः सप्त तथा लोकास्तस्मै सर्वात्मने नमः ॥ ४९॥
यस्मात्समुद्रा गिरयः सिन्धवः प्रचरन्ति च ।
यस्मादोषधयः सर्वा रसास्तस्मै नमो नमः ॥ ५०॥
यस्माद्यज्ञः समुद्भूतो दीक्षायूपश्च दक्षिणाः ।
ऋचो यजूंषि सामानि तस्मै सर्वात्मने नमः ॥ ५१॥
नमः पुरस्तात्पृष्ठे च नमस्ते पार्श्वयोर्द्वयोः ।
अध ऊर्ध्वं चतुर्दिक्षु मातर्भूयो नमो नमः ॥ ५२॥
उपसंहर देवेशि रूपमेतदलौकिकम् ।
तदेव दर्शयास्माकं रूपं सुन्दरसुन्दरम् ॥ ५३॥
व्यास उवाच -
इति भीतान्सुरान्दृष्ट्वा जगदम्बा कृपार्णवा ।
संहृत्य रूपं घोरं तद्दर्शयामास सुन्दरम् ॥ ५४॥
पाशाङ्कुशवराभीतिधरं सर्वाङ्गकोमलम् ।
करुणापूर्णनयनं मन्दस्मितमुखाम्बुजम् ॥ ५५॥
दृष्ट्वा तत्सुन्दरं रूपं तदा भीतिविवर्जिताः ।
शान्तिचित्ता प्रणेमुस्ते हर्षगद्गदनिःस्वनाः ॥ ५६॥
॥ इति श्रीदेवीभागवते देवीगीतायां द्वितीयोऽध्यायः ॥
॥ अथ तृतीयोऽध्यायः ॥
श्रीदेव्युवाच -
क्व यूयं मन्दभाग्या वै क्वेदं रूपं महाद्भुतम् ।
तथापि भक्तवात्सल्यादीदृशं दर्शितं मया ॥ १॥
न वेदाध्ययनैर्योगैर्न दानैस्तपसेज्यया ।
रूपं द्रष्टुमिदं शक्यं केवलं मत्कृपां विना ॥ २॥
प्रकृतं शृणु राजेन्द्र परमात्मात्र जीवताम् ।
उपाधियोगात्सम्प्राप्तः कर्तृत्वादिकमप्युत ॥ ३॥
क्रियाः करोति विविधा धर्माधर्मैकहेतवः ।
नानायोनीस्ततः प्राप्य सुखदुःखैश्च युज्यते ॥ ४॥
पुनस्तत्संस्कृतिवशान्नानाकर्मरतः सदा ।
नानादेहान्समाप्नोति सुखदुःखैश्च युज्यते ॥ ५॥
घटीयन्त्रवदेतस्य न विरामः कदापि हि ।
अज्ञानमेव मूलं स्यात्ततः कामः क्रियास्ततः ॥ ६॥
तस्मादज्ञाननाशाय यतेत नियतं नरः ।
एतद्धि जन्मसाफल्यं यदज्ञानस्य नाशनम् ॥ ७॥
पुरुषार्थसमाप्तिश्च जीवन्मुक्तिदशाऽपि च ।
अज्ञाननाशने शक्ता विद्यैव तु पटीयसी ॥ ८॥
न कर्म तज्जं नोपास्तिर्विरोधाभावतो गिरे ।
प्रत्युताशाऽज्ञाननाशे कर्मणा नैव भाव्यताम् ॥ ९॥
अनर्थदानि कर्माणि पुनः पुनरुशन्ति हि ।
ततो रागस्ततो दोषस्ततोऽनर्थो महान्भवेत् ॥ १०॥
तस्मात्सर्वप्रयत्नेन ज्ञानं सम्पादयेन्नरः ।
कुर्वन्नेवेह कर्माणीत्यतः कर्माप्यवश्यकम् ॥ ११॥
ज्ञानादेव हि कैवल्यमतः स्यात्तत्समुच्चयः ।
सहायतां व्रजेत्कर्म ज्ञानस्य हितकारि च ॥ १२॥
इति केचिद्वदन्त्यत्र तद्विरोधान्न संभवेत् ।
ज्ञानाधृद्ग्रन्थिभेदः स्याधृद्ग्रन्थौ कर्मसंभवः ॥ १३॥
यौगपद्यं न संभाव्यं विरोधात्तु ततस्तयोः ।
तमःप्रकाशयोर्यद्वद्यौगपद्यं न संभवि ॥ १४॥
तस्मात्सर्वाणि कर्माणि वैदिकानि महामते ।
चित्तशुद्ध्यन्तमेव स्युस्तानि कुर्यात्प्रयत्नतः ॥ १५॥
शमो दमस्तितिक्षा च वैराग्यं सत्त्वसंभवः ।
तावत्पर्यन्तमेव स्युः कर्माणि न ततः परम् ॥ १६॥
तदन्ते चैव संन्यस्य सश्रयेद्गुरुमात्मवान् ।
श्रोत्रियं ब्रह्मनिष्ठं च भक्त्या निर्व्याजया पुनः ॥ १७॥
वेदान्तश्रवणं कुर्यान्नित्यमेवमतन्द्रितः ।
तत्त्वमस्यादिवाक्यस्य नित्यमर्थं विचारयेत् ॥ १८॥
तत्त्वमस्यादिवाक्यं तु जीवब्रह्मैक्यबोधकम् ।
ऐक्ये ज्ञाते निर्भयस्तु मद्रूपो हि प्रजायते ॥ १९॥
पदार्थावगतिः पूर्वं वाक्यार्थावगतिस्ततः ।
तत्पदस्य च वाच्यार्थो गिरेऽहं परिकीर्तितः ॥ २०॥
त्वंपदस्य च वाच्यार्थो जीव एव न संशयः ।
उभयोरैक्यमसिना पदेन प्रोच्यते बुधैः ॥ २१॥
वाच्यार्थयोर्विरुद्धत्वादैक्यं नैव घटेत ह ।
लक्षणाऽतः प्रकर्तव्या तत्त्वमोः श्रुतिसंस्थयोः ॥ २२॥
चिन्मात्रं तु तयोर्लक्ष्यं तयोरैक्यस्य संभवः ।
तयोरैक्यं तथा ज्ञात्वा स्वाभेदेनाद्वयो भवेत् ॥ २३॥
देवदत्तः स एवायमितिवल्लक्षणा स्मृता ।
स्थूलादिदेहरहितो ब्रह्मसम्पद्यते नरः ॥ २४ ॥
पञ्चीकृतमहाभूतसंभूतः स्थूलदेहकः ।
भोगालयो जराव्याधिसंयुतः सर्वकर्मणाम् ॥ २५॥
मिथ्याभूतोऽयमाभाति स्फुटं मायामयत्वतः ।
सोऽयं स्थूल उपाधिः स्यादात्मनो मे नगेश्वर ॥ २६॥
ज्ञानकर्मेन्द्रिययुतं प्राणपञ्चकसंयुतम् ।
मनोबुद्धियुतं चैतत्सूक्ष्मं तत्कवयो विदुः ॥ २७॥
अपञ्चीकृतभूतोत्थं सूक्ष्मदेहोऽयमात्मनः ।
द्वितीयोऽयमुपाधिः स्यात्सुखादेरवबोधकः ॥ २८॥
अनाद्यनिर्वाच्यमिदमज्ञानं तु तृतीयकः ।
देहोऽयमात्मनो भाति कारणात्मा नगेश्वर ॥ २९॥
उपाधिविलये जाते केवलात्माऽवशिष्यते ।
देहत्रये पञ्चकोशा अन्तस्थाः सन्ति सर्वदा ॥ ३०॥
पञ्चकोशपरित्यागे ब्रह्मपुच्छं हि लभ्यते ।
नेति नेतीत्यादिवाक्यैर्मम रूपं यदुच्यते ॥ ३१॥
न जायते म्रियते वा कदाचि-
न्नायं भूत्वा न बभूव कश्चित् ।
अजो नित्यः शाश्वतोऽयं पुराणो
न हन्यते हन्यमाने शरीरे ॥ ३२॥
हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ ३३॥
अणोरणीयान्महतो महीया-
नात्माऽस्य जन्तोर्निहितो गुहायाम् ।
तमक्रतुः पश्यति वीतशोको
धातुप्रसादान्महिमानमस्य ॥ ३४॥
आत्मानं रथिनं विद्धि शरीरं रथमेव तु ।
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ ३५॥
इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् ।
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥ ३६॥
यस्त्वविद्वान्भवति चामनस्कः सदाऽशुचिः ।
स तु तत्पदमवाप्नोति संसारं चाधिगच्छति ॥ ३७॥
यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः ।
स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥ ३८॥
विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः ।
सोऽध्वनः पारमाप्नोति मदीयं यत्परं पदम् ॥ ३९॥
इत्थं श्रुत्या च मत्या च निश्चित्यात्मानमात्मना ।
भावयेन्मामात्मरूपां निदिध्यासनतोऽपि च ॥ ४०॥
योगवृत्तेः पुरा स्वामिन्भावयेदक्षरत्रयम् ।
देवीप्रणवसंज्ञस्य ध्यानार्थं मन्त्रवाच्ययोः ॥ ४१॥
हकारः स्थूलदेहः स्याद्रकारः सूक्ष्मदेहकः ।
ईकारः काराणात्माऽसौ ह्रीङ्कारोऽहं तुरीयकम् ॥ ४२॥
एवं समष्टिदेहेऽपि ज्ञात्वा बीजत्रयं क्रमात् ।
समष्टिव्यष्ट्योरेकत्वं भावयेन्मतिमान्नरः ॥ ४३॥
समाधिकालात्पूर्वं तु भावयित्वैवमादृतः ।
ततो ध्यायेन्निलीनाक्षो देवीं मां जगदीश्वरीम् ॥ ४४॥
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ।
निवृत्तविषयाकाङ्क्षो वीतदोषो विमत्सरः ॥ ४५॥
भक्त्या निर्व्याजया युक्तो गुहायां निःस्वने स्थले ।
हकारं विश्वमात्मानं रकारे प्रविलापयेत् ॥ ४६॥
रकारं तैजसं देवमीकारे प्रविलापयेत् ।
ईकारं प्राज्ञयात्मानं ह्रीङ्कारे प्रविलापयेत् ॥ ४७॥
वाच्यवाचकताहीनं द्वैतभावविवर्जितम् ।
अखण्डं सच्चिदानन्दं भावयेत्तच्छिखान्तरे ॥ ४८॥
इति ध्यानेन मां राजन्साक्षात्कृत्य नरोत्तमः ।
मद्रूप एव भवति द्वयोरप्येकता यतः ॥ ४९॥
योगयुक्त्याऽनया द्रष्टा मामात्मानं परात्परम् ।
अज्ञानस्य सकार्यस्य तत्क्षणे नाशको भवेत् ॥ ५०॥
॥ इति श्रीदेवीभागवते देवीगीतायां तृतीयोऽध्यायः ॥
॥ अथ चतुर्तोऽध्यायः ॥
हिमालय उवाच -
योगं वद महेशानि साङ्ग संवित्प्रदायकम् ।
कृतेन येन योग्योऽहं भवेयं तत्त्वदर्शने ॥ १॥
श्रीदेव्युवाच -
न योगो नभसः पृष्ठे न भूमौ न रसातले ।
ऐक्यं जीवात्मनोराहुर्योगं योगविशारदाः ॥ २॥
तत्प्रत्यूहाः षडाख्याता योगविघ्नकरानघ ।
कामक्रोधौ लोभमोहौ मदमात्सर्यसंज्ञकौ ॥ ३॥
योगाङ्गैरेव भित्त्वा तान्योगिनो योगमाप्नुयुः ।
यमं नियममासनप्राणायामौ ततःपरम् ॥ ४॥
प्रत्याहारं धारणाख्यं ध्यानं सार्धं समाधिना ।
अष्टाङ्गान्याहुरेतानि योगिनां योगसाधने ॥ ५॥
अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयाऽऽर्जवम् ।
क्षमा धृतिर्मिताहारः शौचं चेति यमा दश ॥ ६॥
तपः सन्तोष आस्तिक्यं दानं देवस्य पूजनम् ।
सिद्धान्तश्रवणं चैव ह्रीर्मतिश्च जपो हुतम् ॥ ७॥
दशैते नियमाः प्रोक्ता मया पर्वतनायक ।
पद्मासनं स्वस्तिकं च भद्रं वज्रासनं तथा ॥ ८॥
वीरासनमिति प्रोक्तं क्रमादासनपञ्चकम् ।
ऊर्वोरुपरि विन्यस्य सम्यक्पादतले शुभे ॥ ९॥
अङ्गिष्ठौ च निबध्नीयाद्धस्ताभ्यां व्युत्क्रमात्ततः ।
पद्मासनमिति प्रोक्तं योगिनां हृदयंगमम् ॥ १०॥
जानूर्वोरन्तरे सम्यक्कृत्वा पादतले शुभे ।
ऋजुकायो विशेद्योगी स्वस्तिकं तत्प्रचक्षते ॥ ११॥
सीवन्याः पार्श्वयोर्न्यस्य गुल्फयुग्मं सुनिश्चितम् ।
वृषणाधः पादपार्ष्णी पाणिभ्यां परिबन्धयेत् ॥ १२॥
भद्रासनमिति प्रोक्तं योगिभिः परिपूजितम् ।
ऊर्वोः पादौ क्रमान्न्यस्य जान्वोःप्रत्यङ्मुखाङ्गुली ॥ १३॥
करौ विदध्यादाख्यातं वज्रासनमनुत्तमम् ।
एकं पादमधः कृत्वा विन्यस्योरुं तथोत्तरे ॥ १४॥
ऋजुकायो विशेद्योगी वीरासनमितीरितम् ।
ईडयाकर्षयेद्वायुं बाह्यं षोडशमात्रया
धारयेत्पूरितं योगी चतुःषष्ट्या तु मात्रया ॥ १५॥
सुषुम्नामध्यगं सम्य द्वात्रिंशन्मात्रया शनैः ॥ १६॥
नाड्या पिङ्गलया चैव रेचयेद्योगवित्तमः ।
प्राणायाममिमं प्राहुर्योगशास्त्रविशारदाः ॥ १७॥
भूयो भूयः क्रमात्तस्य बाह्यमेवं समाचरेत् ।
मात्रावृद्धिः क्रमेणैव सम्यग्द्वादश षोडश ॥ १८॥
जपध्यानादिभिः सार्थं सगर्भं तं विदुर्बुधाः ।
तदपेतं विगर्भं च प्राणायामं परे विदुः ॥ १९॥
क्रमादभ्यस्यतः पुंसो देहे स्वेदोद्गमोऽधमः ।
मध्यमः कंपसंयुक्तो भूमित्यागः परो मतः ॥ २०॥
उत्तमस्य गुणावाप्तिर्यावच्छीलनमिष्यते ।
इन्द्रियाणां विचरतां विषयेषु निरर्गलम् ॥ २१॥
बलादाहरणं तेभ्यः प्रत्याहारोऽभिधीयते ।
अङ्गुष्ठगुल्फजानूरुमूलाधारलिङ्गनाभिषु ॥ २२॥
हृद्ग्रीवाकण्ठदेशेषु लंबिकायां ततो नसि ।
भ्रूमध्ये मस्तके मूर्ध्नि द्वादशान्ते यथाविधि ॥ २३॥
धारणं प्राणमरुतो धारणेति निगद्यते ।
समाहितेन मनसा चैतन्यान्तरवर्तिना ॥ २४॥
आत्मन्यभीष्टदेवानां ध्यानं ध्यानमिहोच्यते ।
समत्वभावना नित्यं जीवात्मपरमात्मनोः ॥ २५॥
समाधिर्माहुर्मुनयः प्रोक्तमष्टाङ्गलक्षणम् ।
इदानीं कथये तेऽहं मन्त्रयोगमनुत्तमम् ॥ २६॥
विश्वं शरीरमित्युक्तं पञ्चभूतात्मकं नग ।
चन्द्रसूर्याग्नितेजोभिर्जीवब्रह्मैक्यरूपकम् ॥ २७॥
तिस्रः कोट्यस्तदर्धेन शरीरे नाडयो मताः ।
तासु मुख्या दश प्रोक्तास्ताभ्यस्तिस्रो व्यवस्थिताः ॥ २८॥
प्रधाना मेरुदण्डेऽत्र चन्द्रसूर्याग्निरूपिणी ।
इडा वामे स्थिता नाडी शुभ्रा तु चन्द्ररूपिणी ॥ २९॥
शक्तिरूपा तु सा नाडी साक्षादमृतविग्रहा ।
दक्षिणे या पिङ्गलाख्या पुंरूपा सूर्यविग्रहा ॥ ३०॥
सर्वतेजोमयी सा तु सुषुम्ना वह्निरूपिणी ।
तस्या मध्ये विचित्राख्ये इच्छाज्ञानक्रियात्मकम् ॥ ३१॥
मध्ये स्वयंभूलिङ्गं तु कोटिसूर्यसमप्रभम् ।
तदूर्ध्वं मायाबीजं तु हरात्माबिन्दुनादकम् ॥ ३२॥
तदूर्ध्वं तु शिखाकारा कुण्डली रक्तविग्रहा ।
देव्यात्मिका तु सा प्रोक्ता मदभिन्ना नगाधिप ॥ ३३॥
तद्बाह्ये हेमरूपाभं वादिसान्तचतुर्दलम् ।
द्रुतहेमसमप्रख्यं पद्मं तत्र विचिन्तयेत् ॥ ३४॥
तदूर्ध्वं त्वनलप्रख्यं षड्दलं हीरकप्रभम् ।
वादिलान्तषड्वर्णेन स्वाधिष्ठानमनुत्तमम् ॥ ३५॥
मूलाधार षट्कोणं मूलाधारं ततो विदुः ।
स्वशब्देन परं लिङ्गं स्वाधिष्ठानं ततो विदुः ॥ ३६॥
तदूर्ध्वं नाभिदेशे तु मणिपूरं महाप्रभम् ।
मेघाभं विद्युदाभं च बहुतेजोमयं ततः ॥ ३७॥
मणिवद्भिन्नं तत्पद्मं मणिपद्मं तथोच्यते ।
दशभिश्च दलैर्युक्तं डादिफान्ताक्षरान्वितम् ॥ ३८॥
विष्णुनाऽधिष्ठितं पत्रं विष्ण्वालोकनकारणम् ।
तदूर्ध्वेऽनाहतं पद्ममुद्यदादित्यसन्निभम् ॥ ३९॥
कादिठान्तदलैरर्कपत्रैश्च समधिष्ठितम् ।
तन्मध्ये बाणलिङ्गं तु सूर्यायुतसमप्रभम् ॥ ४०॥
शब्दब्रह्ममयं शब्दानाहतं तत्र दृश्यते ।
अनाहताख्यं तत्पद्मं मुनिभिः परिकीर्तितम् ॥ ४१॥
आनन्दसदनं तत्तु पुरुषाधिष्ठितं परम् ।
तदूर्ध्वं तु विशुद्धाख्यं दलषोडशपङ्कजम् ॥ ४२॥
स्वरैः षोडशभिर्युक्तं धूम्रवर्णं महाप्रभम् ।
विशुद्धं तनुते यस्माज्जीवस्य हंसलोकनात् ॥ ४३॥
विशुद्धं पद्ममाख्यातमाकाशाख्यं महाद्भुतम् ।
आज्ञाचक्रं तदूर्ध्वे तु आत्मनाऽधिष्ठितं परम् ॥ ४४॥
आज्ञासङ्क्रमणं तत्र तेनाज्ञेति प्रकीर्तितम् ।
द्विदलं हक्षसंयुक्तं पद्मं तत्सुमनोहरम् ॥ ४५॥
कैलासाख्यं तदूर्ध्वं तु रोधिनी तु तदूर्ध्वतः ।
एवं त्वाधारचक्राणि प्रोक्तानि तव सुव्रत ॥ ४६॥
सहस्रारयुतं बिन्दुस्थानं तदूर्ध्वमीरितम् ।
इत्येतत्कथितं सर्वं योगमार्गमनुत्तमम् ॥ ४७॥
आदौ पूरकयोगेनाप्याधारे योजयेन्मनः ।
गुदमेढ्रान्तरे शक्तिस्तामाकुञ्च्य प्रबोधयेत् ॥ ४८॥
लिङ्गभेदक्रमेणैव बिन्दुचक्रं च प्रापयेत् ।
शंभुना तां पराशक्तिमेकीभूतां विचिन्तयेत् ॥ ४९॥
तत्रोत्थितामृतं यत्तु द्रुतलाक्षारसोपमम् ।
पाययित्वा तु तां शक्तिं मायख्यां योगसिद्धिदाम् ॥ ५०॥
षट्चक्रदेवतास्तत्र सन्तर्प्यामृतधारया ।
आनयेत्तेन मार्गेण मूलाधारं ततः सुधीः ॥ ५१॥
एवमभ्यस्यमानस्याप्यहन्यहनि निश्चितम् ।
पूर्वोक्तदूषिता मन्त्राः सर्वे सिध्यन्ति नान्यथा ॥ ५२॥
जरामरणदुःखाद्यैर्मुच्यते भवबन्धनात् ।
ये गुणाः सन्ति देव्या मे जगन्मातुर्यथा तथा ॥ ५३॥
ते गुणाः साधकवरे भवन्त्येव चान्यथा ।
इत्येवं कथितं तात वायुधारणमुत्तमम् ॥ ५४॥
इदानीं धारणाख्यं तु शृणुष्वावहितो मम ।
दिक्कालाद्यनवच्छिन्नदेव्यां चेतो विधाय च ॥ ५५॥
तन्मयो भवति क्षिप्रं जीवब्रह्मैक्ययोजनात् ।
अथवा समलं चेतो यदि क्षिप्रं न सिध्यति ॥ ५६॥
तदावयवयोगेन योगी योगान्समभ्यसेत् ।
मदीयहस्तपादादावङ्गे तु मधुरे नग ॥ ५७॥
चित्तं संस्थापयेन्मन्त्री स्थानस्थानजयात्पुनः ।
विशुद्धचित्तः सर्वस्मिन्रूपे संस्थापयेन्मनः ॥ ५८॥
यावन्मनोलयं याति देव्यां संविदि पर्वत ।
तावदिष्टमिदं मन्त्री जपहोमैः समभ्यसेत् ॥ ५९॥
मन्त्राभ्यासेन योगेन ज्ञेयज्ञानाय कल्पते ।
न योगेन विना मन्त्रो न मन्त्रेण विना हि सः ॥ ६०॥
द्वयोरभ्यासयोगो हि ब्रह्मसंसिद्धिकारणम् ।
तमःपरिवृते गेहे घटो दीपेन दृश्यते ॥ ६१॥
एवं मायावृतो ह्यात्मा मनुना गोचरीकृतः ।
इति योगविधिः कृत्स्नः साङ्गः प्रोक्तो मयाऽधुना ॥ ६२॥
॥ इति श्रीदेवीभागवते देवीगीतायां चतुर्थोऽध्यायः ॥
॥ अथ पञ्चमोऽध्यायः ॥
श्रीदेव्युवाच -
इत्यादि योगयुक्तात्मा ध्यायेन्मां ब्रह्मरूपिणीम् ।
भक्त्या निर्व्याजया राजन्नासने समुपस्थितः ॥ १॥
आविः सन्निहितं गुहाचरं नाम महत्परम् ।
अत्रैतत्सर्वमर्पितमेजत्प्राणनिमिषच्च यत् ॥ २॥
एतज्जानथ सदसद्वरेण्यं
विज्ञानाद्यद्वरिष्ठं प्रजानाम् ।
यदर्चिमद्यदणुभ्योऽणु च
यस्मिंल्लोका निहिता लोकिनश्च ॥ ३॥
तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ् मनः ।
तदेतत्सत्यममृतं तद्वेद्धव्यं सौम्य विद्धि ॥ ४॥
धनुर्गॄत्वौपनिषदं महास्त्रं
शरं ह्युपासानिशितं सन्धयीत ।
आयम्य तद्भावगतेन चेतसा
लक्ष्यं तदेवाक्षरं सौम्य विद्धि ॥ ५॥
प्रणवो धनुः शरो ह्यात्मा ब्रह्मतल्लक्ष्यमुच्यते ।
अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥ ६॥
यस्मिन्द्यौश्च पृथिवी चान्तरिक्ष-
मोतं मनः सह प्राणैश्च सर्वैः ।
तमेवैकं जानथात्मानमन्या
वाचो विमुञ्चथा अमृतस्यैष सेतुः ॥ ७॥
अरा इव रथनाभौ संहता यत्र नाड्यः ।
स एषोन्तश्चरते बहुधा जायमानः ॥ ८॥
ओमित्येवं ध्यायथात्मानं स्वस्ति वः पाराय तमसः परस्तात् ।
दिव्ये ब्रह्मपुरे व्योम्नि आत्मा सम्प्रतिष्ठितः ॥ ९॥
मनोमयः प्राणशरीरनेता
प्रतिष्ठितोऽन्ने हृदयं संनिधाय ।
तद्विज्ञानेन परिपश्यन्ति धीरा
आनन्दरूपममृतं यद्विभाति ॥ १०॥
भिद्यते हृदयग्रन्थिश्च्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ ११॥
हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् ।
तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः ॥ १२॥
न तत्र सूर्यो भाति न चन्द्रतारकं
नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
तमेव भान्तमनुभाति सर्वं
तस्य भासा सर्वमिदं विभाति ॥ १३॥
ब्रह्मैवेदममृतं पुरस्ताद्
ब्रह्म पश्चाद् ब्रह्म दक्षिणश्चोत्तरेण ।
अधश्चोर्ध्वं प्रसृतं ब्रह्म
एवेदं विश्वं वरिष्ठम् ॥ १४॥
एतादृगनुभवो यस्य स कृतार्थो नरोत्तमः ।
ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति ॥ १५॥
द्वितीयाद्वै भयं रजंस्तदभावाद्बिभेति न ।
न तद्वियोगो मेऽप्यस्ति मद्वियोगोऽपि तस्य न ॥ १६॥
अहमेव स सोऽहं वै निश्चितं विद्धि पर्वत ।
मद्दर्शनं तु तत्र स्याद्यत्र ज्ञानी स्थितो मम ॥ १७॥
नाहं तीर्थे न कैलासे वैकुण्ठे वा न कर्हिचित् ।
वसामि किन्तु मज्ज्ञानिहृदयांभोजमध्यमे ॥ १८॥
मत्पूजाकोटिफलदं सकृन्मज्ज्ञानिनोऽर्चनम् ।
कुलं पवित्रं तस्यास्ति जननी कृतकृत्यका ॥ १९॥
विश्वंभरा पुण्यवती चिल्लयो यस्य चेतसः ।
ब्रह्मज्ञानं तु यत्पृष्टं त्वया पर्वतसत्तम ॥ २०॥
कथितं तन्मया सर्वं नातो वक्तव्यमस्ति हि ।
इदं ज्येष्ठाय पुत्राय भक्तियुक्ताय शीलिने ॥ २१॥
शिष्याय च यथोक्ताय वक्तव्यं नान्यथा क्वचित् ।
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ॥ २२॥
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ।
येनोपदिष्टा विद्येयं स एव परमेश्वरः ॥ २३॥
यस्यायं सुकृतं कर्तुमसमर्थस्ततो ऋणी ।
पित्रोरप्यधिकः प्रोक्तो ब्रह्मजन्मप्रदायकः ॥ २४॥
पितृजातं जन्म नष्टं नेत्थं जातं कदाचन ।
तस्मै न द्रुह्येदित्यादि निगमोऽप्यवदन्नग ॥ २५॥
तस्माच्छास्त्रस्य सिद्धान्तो ब्रह्मदाता गुरुः परः ।
शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न शङ्करः ॥ २६॥
तस्मात्सर्वप्रयत्नेन श्रीगुरुं तोषयेन्नग ।
कायेन मनसा वाचा सर्वदा तत्परो भवेत् ॥ २७॥
अन्यथा तु कृतघ्नः स्यात्कृतघ्ने नास्ति निष्कृतिः ।
इन्द्रेणाथर्वणायोक्ता शिरश्छेदप्रतिज्ञया ॥ २८॥
अश्विभ्यां कथने तस्य शिरश्छिन्नं च वज्रिणा ।
अश्वीयं तच्छिरो नष्टं दृष्ट्वा वैद्यो सुरोत्तमौ ॥ २९॥
पुनः संयोजितं स्वीयं ताभ्यां मुनिशिरस्तदा ।
इति सङ्कटसम्पाद्या ब्रह्मविद्या नगाधिप ।
लब्धा येन स धन्यः स्यात्कृतकृत्यश्च भूधर ॥ ३०॥
॥ इति श्रीदेवीभागवते देवीगीतायां पञ्चमोऽध्यायः ॥
॥ अथ षष्ठोऽध्यायः ॥
हिमालय उवाच -
स्वीयां भक्तिं वदस्वाम्ब येन ज्ञातं सुखेन हि ।
जायते मनुजस्यास्य मध्यमस्यविरागिणः ॥ १॥
देव्युवाच -
मार्गास्त्रयो मे विख्याता मोक्षप्राप्तौ नगाधिप ।
कर्मयोगो ज्ञानयोगो भक्तियोगश्च सत्तम ॥ २॥
त्रयाणामप्ययं योग्यः कर्तुं शक्योऽस्ति सर्वथा ।
सुलभत्वान्मानसत्वात्कायचित्ताद्यपीडनात् ॥ ३॥
गुणभेदान्मनुष्याणां सा भक्तिस्त्रिविधा मता ।
परपीडां समुद्दिश्य दंभं कृत्वा पुरःसरम् ॥ ३॥
मात्सर्यक्रोधयुक्तो यस्तस्य भक्तिस्तु तामसी ।
परपीडादिरहितः स्वकल्याणार्थमेव च ॥ ५॥
नित्यं सकामो हृदये यशोर्थी भोगलोलुपः ।
तत्तत्फलसमावाप्त्यै मामुपास्तेऽतिभक्तितः ॥ ६॥
भेदबुद्ध्या तु मां स्वस्मादन्यां जानाति पामरः ।
तस्य भक्तिः समाख्याता नगाधिप तु राजसी ॥ ७॥
परमेशार्पणं कर्म पापसङ्क्षालनाय च ।
वेदोक्तत्वादवश्यं तत्कर्तव्यं तु मयानिशम् ॥ ८॥
इति निश्चितबुद्धिस्तु भेदबुद्धिमुपाश्रितः ।
करोति प्रीयते कर्म भक्तिः सा नग सात्त्विकी ॥ ९॥
परभक्तेः प्रापिकेयं भेदबुद्ध्यवलम्बनात् ।
पूर्वप्रोक्तेत्युभे भक्ती न परप्रापिके मते ॥ १०॥
अधुना परभक्तिं तु प्रोच्यमानां निबोध मे ।
मद्गुणश्रवणं नित्यं मम नामानुकीर्तनम् ॥ ११॥
कल्याणगुणरत्नानामाकरायां मयि स्थिरम् ।
चेतसो वर्तनं चैव तैलधारासमं सदा ॥ १२॥
हेतुस्तु तत्र को वापि न कदाचिद्भवेदपि ।
सामीप्यसार्ष्टिसायुज्यसलोक्यानां न चएषणा ॥ १३॥
मत्सेवातोऽधिकं किञ्चिन्नैव जानाति कर्हिचित् ।
सेव्यसेवकताभावातत्र मोक्षं न वाञ्छति ॥ १४॥
परानुरक्त्या मामेव चिन्तयेद्यो ह्यतन्द्रितः ।
स्वाभेदेनैव मां नित्यं जानाति न विभेदतः ॥ १५॥
मद्रूपत्वेन जीवानां चिन्तनं कुरुते तु यः ।
यथा स्वस्यात्मनि प्रीतिस्तथैव च परात्मनि ॥ १६॥
चैतन्यस्य समानत्वान्न भेदं कुरुते तु यः ।
सर्वत्र वर्तमानां मां सर्वरूपां च सर्वदा ॥ १७॥
नमते यजते चैवाप्याचाण्डालान्तमीश्वरम् ।
न कुत्रापि द्रोहबुद्धिं कुरुते भेदवर्जनात् ॥ १८॥
मत्स्थानदर्शने श्रद्धा मद्भक्तदर्शने तथा ।
मच्छास्त्रश्रवणे श्रद्धा मन्त्रतन्त्रादिषु प्रभो ॥ १९॥
मयि प्रेमाकुलमती रोमाञ्चिततनुः सदा ।
प्रेमाश्रुजलपूर्णाक्षः कण्ठगद्गदनिस्वनः ॥ २०॥
अनन्येनैव भावेन पूजयेद्यो नगाधिप ।
मामीश्वरीं जगद्योनिं सर्वकारणकारणम् ॥ २१॥
व्रतानि मम दिव्यानि नित्यनैमित्तिकान्यपि ।
नित्यं यः कुरुते भक्त्या वित्तशाठ्यविवर्जितः ॥ २२॥
मदुत्स्वदिदृक्षा च मदुत्स्वकृतिस्तथा ।
जायते यस्य नियतं स्वभावादेव भूधर ॥ २३॥
उच्चैर्गायंश्च नामानि ममैव खलु नृत्यति ।
अहङ्कारादिरहितो देहतादात्म्यवर्जितः ॥ २४॥
प्रारब्धेन यथा यच्च क्रियते तत्तथा भवेत् ।
न मे चिन्तास्ति तत्रापि देहसंरक्षणादिषु ॥ २५॥
इति भक्तिस्तु या प्रोक्ता परभक्तिस्तु सा स्मृता ।
यस्यां देव्यतिरिक्तं तु न किञ्चिदपि भाव्यते ॥ २६॥
इत्थं जाता परा भक्तिर्यस्य भूधर तत्त्वतः ।
तदैव तस्य चिन्मात्रे मद्रूपे विलयो भवेत् ॥ २७॥
भक्तेस्तु या परा काष्ठा सैव ज्ञानं प्रकीर्तितम् ।
वैराग्यस्य च सीमा सा ज्ञाने तदुभयं यतः ॥ २८॥
भक्तौ कृतायां यस्यापि प्रारब्धवशतो नग ।
न जायते मम ज्ञानं मणिद्वीपं स गच्छति ॥ २९॥
तत्र गत्वाऽखिलान्भोगाननिच्छन्नपि चर्च्छति ।
तदन्ते मम चिद्रूपज्ञानं सम्यग्भवेन्नग ॥ ३०॥
तेन युक्तः सदैव स्याज्ज्ञानान्मुक्तिर्न चान्यथा ।
इहैव यस्य ज्ञानं स्याधृद्गतप्रत्यगात्मनः ॥ ३१॥
मम संवित्परतनोस्तस्य प्राणा व्रजन्ति न ।
ब्रह्मैव संस्तदाप्नोति ब्रह्मैव ब्रह्म वेद यः ॥ ३२॥
कण्ठचामीकरसममज्ञानात्तु तिरोहितम् ।
ज्ञानादज्ञाननाशेन लब्धमेव हि लभ्यते ॥ ३३॥
विदिताविदितादन्यन्नगोत्तम वपुर्मम ।
यथाऽऽदर्शे यथाऽऽत्मनि यथा जले तथा पितृलोके ॥ ३४॥
छायातपौ तथा स्वच्छौ विविक्तौ तद्वदेव हि ।
मम लोके भवेज्ज्ञानं द्वैतभानविवर्जितम् ॥ ३५॥
यस्तु वैराग्यवानेव ज्ञानहीनो म्रियेत चेत् ।
ब्रह्मलोके वसेन्नित्यं यावत्कल्पं ततःपरम् ॥ ३६॥
शुचीनां श्रीमतां गेहे भवेत्तस्या जनिः पुनः ।
करोति साधनं पश्चात्ततो ज्ञानं हि जायते ॥ ३७॥
अनेकजन्मभी राजञ्ज्ञानं स्यान्नैकजन्मना ।
ततः सर्वप्रयत्नेन ज्ञानार्थं यत्नमाश्रयेत् ॥ ३८॥
नोचेन्महाविनाशः स्याज्जन्मेतद्दुर्लभं पुनः ।
तत्रापि प्रथमे वर्णे वेदे प्राप्तिश्च दुर्लभा ॥ ३९॥
शमादिषट्कसम्पत्तिर्योगसिद्धिस्तथैव च ।
तथोत्तमगुरुप्राप्तिः सर्वमेवात्र दुर्लभम् ॥ ४०॥
तथेन्द्रियाणां पटुता संस्कृतत्वं तनोस्तथा ।
अनेकजन्मपुण्यैस्तु मोक्षेच्छा जायते ततः ॥ ४१॥
साधने सफलेऽप्येवं जायमानेऽपि यो नरः ।
ज्ञानार्थं नैव यतते तस्य जन्म निरर्थकम् ॥ ४२॥
तस्माद्राजन्यथाशक्त्या ज्ञानार्थं यत्नमाश्रयेत् ।
पदे पदेऽश्वमेधस्य फलमाप्नोति निश्चितम् ॥ ४३॥
घृतमिव पयसि निगूढं भूते च वसति विज्ञानम् ।
सततं मन्थयितव्यं मनसा मन्थानभूतेन ॥ ४४॥
ज्ञानं लब्ध्वा कृतार्थः स्यादिति वेदान्तदिण्डिमः ।
सर्वमुक्तं समासेन किं भूयः श्रोतुमिच्छसि ॥ ४५॥
॥ इति श्रीदेवीभागवते देवीगीतायां षष्ठोऽध्यायः ॥
॥ अथ सप्तमोऽध्यायः ॥
हिमालय उवाच -
कति स्थानानि देवेशि द्रष्टव्यानि महीतले ।
मुख्यानि च पवित्राणि देवीप्रियतमानि च ॥ १॥
व्रतान्यपि तथा यानि तुष्टिदान्युत्सवा अपि ।
तत्सर्वं वद मे मातः कृतकृत्यो यतो नरः ॥ २॥
श्रीदेव्युवाच -
सर्वं दृश्यं मम स्थानं सर्वे काला व्रतात्मकाः ।
उत्सवाः सर्वकालेषु यतोऽहं सर्वरूपिणी ॥ ३॥
तथापि भक्तवात्सल्यात्किञ्चित्किञ्चिदथोच्यते ।
शृणुष्वावहितो भूत्वा नगराज वचो मम ॥ ४॥
कोलापुरं महास्थानं यत्र लक्ष्मीः सदा स्थिता ।
मातुःपुरं द्वितीयं च रेणुकाधिष्ठितं परम् ॥ ५॥
तुलजापुरं तृतीयं स्यात्सप्तशृङ्गं तथैव च ।
हिङ्गुलायां महास्थानं ज्वालामुख्यास्तथैव च ॥ ६॥
शाकंभर्याः परं स्थानं भ्रामर्याः स्थानमुत्तमम् ।
श्रीरक्तदन्तिकास्थानं दुर्गास्थानं तथैव च ॥ ७॥
विन्ध्याचलनिवासिन्याः स्थानं सर्वोत्तमोत्तमम् ।
अन्नपूर्णामहास्थानं काञ्चीपुरमनुत्तमम् ॥ ८॥
भीमादेव्याः परं स्थानं विमलास्थानमेव च ।
श्रीचन्द्रलामहास्थानं कौशिकीस्थानमेव च ॥ ९॥
नीलांबायाः परं स्थानं नीलपर्वतमस्तके ।
जांबूनदेश्वरीस्थानं तथा श्रीनगरं शुभम् ॥ १०॥
गुह्यकाल्या महास्थानं नेपाले यत्प्रतिष्ठितम् ।
मीनाक्ष्याः परमं स्थानं यच्च प्रोक्तं चिदंबरे ॥ ११॥
वेदारण्यं महास्थानं सुन्दर्या समधिष्ठितम् ।
एकांबरं महास्थानं परशक्त्या प्रतिष्ठितम् ॥ १२॥
महालसा परं स्थानं योगेश्वर्यास्तथैव च ।
तथा नीलसरस्वत्याः स्थानं चीनेषु विश्रुतम् ॥ १३॥
वैद्यनाथे तु बगलास्थानं सर्वोत्तमं मतम् ।
श्रीमच्छ्रीभुवनेश्वर्या मणिद्वीपं मम स्मृतम् ॥ १४॥
श्रीमत्त्रिपुरभैरव्याः कामाख्यायोनिमण्डलम् ।
भूमण्डले क्षेत्ररत्नं महामायाधिवासितम् ॥ १५॥
नातः परतरं स्थानं क्वचिदस्ति धरातले ।
प्रतिमासं भवेद्देवी यत्र साक्षाद्रजस्वला ॥ १६॥
तत्रत्या देवताः सर्वाः पर्वतात्मकतां गताः ।
पर्वतेषु वसन्त्येव महत्यो देवता अपि ॥ १७॥
तत्रत्या पृथिवी सर्वा देवीरूपा स्मृता बुधैः ।
नातः परतरं स्थानं कामाख्यायोनिमण्डलात् ॥ १८॥
गायत्र्याश्च परं स्थानं श्रीमत्पुष्करमीरितम् ।
अमरेशे चण्डिका स्यात्प्रभासे पुष्करेक्षिणी ॥ १९॥
नैमिषे तु महास्थाने देवी सा लिङ्गधारिणी ।
पुरुहूता पुष्कराक्षे आषाढौ च रतिस्तथा ॥ २०॥
चण्डमुण्डी महास्थाने दण्डिनी परमेश्वरी ।
भारभूतौ भवेद्भूतिर्नाकुले नकुलेश्वरी ॥ २१॥
चन्द्रिका तु हरिश्चन्द्रे श्रीगिरौ शाङ्करी स्मृता ।
जप्येश्वरे त्रिशूला स्यात्सूक्ष्मा चाम्रातकेश्वरे ॥ २२॥
शाङ्करी तु महाकाले शर्वाणी मध्यमाभिधे ।
केदाराख्ये महाक्षेत्रे देवी सा मार्गदायिनी ॥ २३॥
भैरवाख्ये भैरवी सा गयायां मङ्गला स्मृता ।
स्थाणुप्रिया कुरुक्षेत्रे स्वायंभुव्यपि नाकुले ॥ २४॥
कनखले भवेदुग्रा विश्वेशा विमलेश्वरे ।
अट्टहासे महानन्दा महेन्द्रे तु महान्तका ॥ २५॥
भीमे भीमेश्वरी प्रोक्ता रुद्राणी त्वर्धकोटिके ॥ २६॥
अविमुक्ते विशालाक्षी महाभागा महालये ।
गोकर्णे भद्रकर्णी स्याद्भद्रा स्याद्भद्रकर्णके ॥ २७॥
उत्पलाक्षी सुवर्णाक्षे स्थाण्वीशा स्थाणुसंज्ञके ।
कमलालये तु कमला प्रचण्डा छगलण्डके ॥ २८॥
कुरण्डले त्रिसन्ध्या स्यान्माकोटे मुकुटेश्वरी ।
मण्डलेशे शाण्डकी स्यात्काली कालञ्जरे पुनः ॥ २९॥
शङ्कुकर्णे ध्वनिः प्रोक्ता स्थूला स्यात्स्थूलकेश्वरे ।
ज्ञानिनां हृदयांभोजे हृल्लेखा परमेश्वरी ॥ ३०॥
प्रोक्तानीमानि स्थानानि देव्याः प्रियतमानि च ।
तत्तत्क्षेत्रस्य माहात्म्यं श्रुत्वा पूर्वं नगोत्तम ॥ ३१॥
तदुक्तेन विधानेन पश्चाद्देवीं प्रपूजयेत् ।
अथवा सर्वक्षेत्राणि काश्यां सन्ति नगोत्तम ॥ ३२॥
तत्र नित्यं वसेन्नित्यं देवीभक्तिपरायणः ।
तानि स्थानानि सम्पश्यञ्जपन्देवीं निरन्तरम् ॥ ३३॥
ध्यायंस्तच्चरणांभोजं मुक्तो भवति बन्धनात् ।
इअमानि देवीनामानि प्रातरुत्थाय यः पठेत् ॥ ३४॥
भस्मीभवन्ति पापानि तत्क्षणान्नग सत्वरम् ।
श्राद्धकाले पठेदेतान्यमलानि द्विजाग्रतः ॥ ३५॥
मुक्तास्तत्पितरः सर्वे प्रयान्ति परमां गतिम् ।
अधुना कथयिष्यामि व्रतानि तव सुव्रत ॥ ३६॥
नारीभिश्च नरैश्चैव कर्तव्यानि प्रयत्नतः ।
व्रतमनन्ततृतीयाख्यं रसकल्याणिनीव्रतम् ॥ ३७॥
आर्द्रानन्दकरं नाम्ना तृतीयायां व्रतं च यत् ।
शुक्रवारवतं चैव तथा कृष्णचतुर्दशी ॥ ३८॥
भौमवारव्रतं चैव प्रदोषव्रतमेव च ।
यत्र देवो महादेवो देवीं संस्थाप्य विष्टरे ॥ ३९॥
नृत्यं करोति पुरतः सार्धं दवैर्निशामुखे ।
तत्रोपोष्य रजन्यादौ प्रदोषे पूजयाच्छिवाम् ॥ ४०॥
प्रतिपक्षं विशेषेण तद्देवीप्रीतिकारकम् ।
सोमवारव्रतं चैव ममातिप्रियकृन्नग ॥ ४१॥
तत्रापि देवीं सम्पूज्य रात्रौ भोजनमाचरेत् ।
नवरात्रद्वयं चैव व्रतं प्रीतिकरं मम ॥ ४२॥
एवमन्यान्यपि विभो नित्यनैमित्तिकानि च ।
व्रतानि कुरुते यो वै मत्प्रीत्यर्थं विमत्सरः ॥ ४३॥
प्राप्नोति मम सायुज्यं स मे भक्तः स मे प्रियः ।
उत्सवानपि कुर्वीत दोलोत्सवमुखान्विभो ॥ ४४॥
शयनोत्सवं तथा कुर्यात्तथा जागरणोत्सवम् ।
रथोत्सवं च मे कुर्याद्दमनोत्सवमेव च ॥ ४५॥
पवित्रोत्सवमेवापि श्रावणे प्रीतिकारकम् ।
मम भक्तः सदा कुर्यादेवमन्यान्महोत्सवान् ॥ ४६॥
मद्भक्तान्भोजयेत्प्रीत्या तथा चैव सुवासिनीः ।
कुमारीबटुकांश्चापि मद्बुद्ध्या तद्गतान्तरः ॥ ४७॥
वित्तशाठ्येन रहितो यजेदेतान्सुमादिभिः ।
य एवं कुरुते भक्त्या प्रतिवर्षमतन्द्रितः ॥ ४८॥
स धन्यः कृतकृत्योऽसौ मत्प्रीतेः पात्रमञ्जसा ।
सर्वमुक्तं समासेन मम प्रीतिप्रदायकम् ।
नाशिष्याय प्रदातव्यं नाभक्ताय कदाचन ॥ ४९ ॥
॥ इति श्रीदेवीभागवते देवीगीतायां सप्तमोऽध्यायः ॥
॥ अथ अष्टमोऽध्यायः ॥
हिमालय उवाच -
देवदेवि महेशानि करुणासागरेऽम्बिके ।
ब्रूहि पूजाविधिं सम्यग्यथावदधुना निजम् ॥ १॥
श्रीदेव्युवाच -
वक्ष्ये पूजाविधिं राजन्नम्बिकाया यथाप्रियम् ।
अत्यन्तश्रद्धया सार्धं शृणु पर्वतपुङ्गव ॥ २॥
द्विविधा मम पूजा स्याद्बाह्या चाभ्यान्तरापि च ।
बाह्यापि द्विविधा प्रोक्ता वैदिकी तान्त्रिकी तथा ॥ ३॥
वैदिक्यर्चापि द्विविधा मूर्तिभेदेन भूधर ।
वैदिकी वैदिकैः कार्या वेददीक्षा समन्वितैः ॥ ४॥
तन्त्रोक्तदीक्षावद्भिस्तु तान्त्रिकी संश्रिता भवेत् ।
इत्थं पूजारहस्यं च न ज्ञात्वा विपरीतकम् ॥ ५॥
करोति यो नरो मूढः स पतत्येव सर्वथा ।
तत्र या वैदिकी प्रोक्ता प्रथमा तां वदाम्यहम् ॥ ६॥
यन्मे साक्षात्परं रूपं दृष्टवानसि भूधर ।
अनन्तशीर्षनयनमनन्तचरणं महत् ॥ ७॥
सर्वशक्तिसमायुक्तं प्रेरकं यत्परात्परम् ।
तदेव पूजयेन्नित्यं नमेद्ध्यायेत्स्मरेदपि ॥ ८॥
इत्येतत्प्रथमाचार्याः स्वरूपं कथितं नग ।
शान्तः समाहितमना दंभाहङ्कारवर्जितः ॥ ९॥
तत्परो भव तद्याजी तदेव शरणं व्रज ।
तदेव चेतसा पश्य जप ध्यायस्व सर्वदा ॥ १०॥
अनन्यया प्रेमयुक्तभक्त्या मद्भावमाश्रितः ।
यज्ञैर्यज तपोदानैर्मामेव परितोषय ॥ ११॥
इत्थं ममानुग्रहतो मोक्ष्यसे भवबन्धनात् ।
मत्परा ये मदासक्तचित्ता भक्तपरा मताः ॥ १२॥
प्रतिजाने भवादस्मादुद्धाराम्यचिरेण तु ।
ध्यानेन कर्मयुक्तेन भक्तिज्ञानेन वा पुनः ॥ १३॥
प्राप्याहं सर्वथा राजन्न तु केवलकर्मभिः ।
धर्मात्सञ्जायते भक्तिर्भक्त्या सञ्जायते परम् ॥ १४॥
श्रुतिस्मृतिभ्यामुदितं यत्स धर्मः प्रकीर्तितः ।
अन्यशास्त्रेण यः प्रोक्तो धर्माभासः स उच्यते ॥ १५॥
सर्वज्ञात्सर्वशक्तेश्च मत्तो वेदः समुत्थितः ।
अज्ञानस्य ममाभावादप्रमाणा न च श्रुतिः ॥ १६॥
स्मृतयश्च श्रुतेरर्थं गृहीत्वैव च निर्गताः ।
मन्वादीनां स्मृतीनां च ततः प्रामाण्यमिष्यते ॥ १७॥
क्वचित्कदाचित्तन्त्रार्थकटाक्षेण परोदितम् ।
धर्मं वदन्ति सोंऽशस्तु नैव ग्राह्योऽस्ति वैदिकैः ॥ १८॥
अन्येषां शास्त्रकर्तॄणामज्ञानप्रभवत्वतः ।
अज्ञानदोषदुष्टत्वात्तदुक्तेर्न प्रमाणता ॥ १९॥
तस्मान्मुमुक्षुर्धर्मार्थं सर्वथा वेदमाश्रयेत् ।
राजाज्ञा च यथा लोके हन्यते न कदाचन ॥ २०॥
सर्वेशाया ममाज्ञा सा श्रुतिस्त्याज्या कथं नृभिः ।
मदाज्ञारक्षणार्थं तु ब्रह्मक्षत्रियजातयः ॥ २१॥
मया सृष्टास्ततो ज्ञेयं रहस्यं मे श्रुतेर्वचः ।
यदा यदा हि धर्मस्य ग्लानिर्भवति भूधर ॥ २२॥
अभ्युत्थानमधर्मस्य तदा वेषान्बिभर्म्यहम् ।
देवदैत्यविभागश्चाप्यत एवाभवन्नृप ॥ २३॥
ये न कुर्वन्ति तद्धर्मं तच्छिक्षार्थं मया सदा ।
सम्पादितास्तु नरकास्रासो यच्छ्रवणाद्भवेत् ॥ २४॥
यो वेदधर्ममुज्झित्य धर्ममन्यं समाश्रयेत् ।
राजा प्रवासयेद्देशान्निजादेतानधर्मिणः ॥ २५॥
ब्राह्मणैर्न च संभाष्याः पङ्क्तिग्राह्या न च द्विजैः ।
अन्यानि यानि शास्त्राणि लोकेऽस्मिन्विविधानि च ॥ २६॥
श्रुतिस्मृतिविरुद्धानि तामसान्येव सर्वशः ।
वामं कापालकं चैव कौलकं भैरवागमः ॥ २७॥
शिवेन मोहनार्थाय प्रणीतो नान्यहेतुकः ।
यक्षशापाद् भृगोः शापाद्दधीचस्य च शापतः ॥ २८॥
दग्धा ये ब्राह्मणवरा वेदमार्गबहिष्कृताः ।
तेषामुद्धरणार्थाय सोपानक्रमतः सदा ॥ २९॥
शैवाश्च वैष्णवाश्चैव सौराः शाक्तास्तथैव च ।
गाणपत्या आगमाश्च प्रणीताः शङ्करेण तु ॥ ३०॥
तत्र वेदाविरुद्धोंऽशोऽप्युक्त एव क्वचित्क्वचित् ।
वैदिकस्तद्ग्रहे दोषो न भवत्येव कर्हिचित् ॥ ३१॥
सर्वथा वेदभिन्नार्थे नाधिकारी द्विजो भवेत् ।
वेदाधिकारहीनस्तु भवेत्तत्राधिकारवान् ॥ ३२॥
तस्मात्सर्वप्रयत्नेन वैदिको वेदमाश्रयेत् ।
धर्मेण सहितं ज्ञानं परं ब्रह्म प्रकाशयेत् ॥ ३३॥
सर्वैषणाः परित्यज्य मामेव शरणं गताः ।
सर्वभूतदयावन्तो मानाहङ्कारवर्जिताः ॥ ३४॥
मच्चित्ता मद्गतप्राणा मत्स्थानकथने रताः ।
संन्यासिनो वनस्थाश्च गृहस्था ब्रह्मचारिणः ॥ ३५॥
उपासन्ते सदा भक्त्या योगमैश्वरसंज्ञितम् ।
तेषां नित्याभियुक्तानामहमज्ञानजं तमः ॥ ३६॥
ज्ञानसूर्यप्रकाशेन नाशयामि न संशयः ।
इत्थं वैदिकपूजायाः प्रथमाया नगाधिप ॥ ३७॥
स्वरूपमुक्तं सङ्क्षेपाद्द्वितीयाया अथो ब्रुवे ।
मूर्तौ वा स्थण्डिले वापि तथा सूर्येन्दुमण्डले ॥ ३८॥
जलेऽथवा बाणलिङ्गे यन्त्रे वापि महापटे ।
तथा श्रीहृदयांभोजे ध्यात्वा देवीं परात्पराम् ॥ ३९॥
सगुणां करुणापूर्णां तरुणीमरुणारुणाम् ।
सौन्दर्यसारसीमान्तां सर्वावयवसुन्दराम् ॥ ४०॥
शृङ्गाररससम्पूर्णां सदा भक्तार्तिकातराम् ।
प्रसादसुमुखीमम्बां चन्द्रखण्डाशिखण्डिनीम् ॥ ४१॥
पाशाङ्कुशवराभीतिधरामानन्दरूपिणीम् ।
पूजयेदुपचारैश्च यथावित्तानुसारतः ॥ ४२॥
यावदान्तरपूजायामधिकारो भवेन्न हि ।
तावद्बाह्यामिमां पूजां श्रयेज्जाते तु तां त्यजेत् ॥ ४३॥
आभ्यन्तरा तु या पूजा सा तु संविल्लयः स्मृतः ।
संविदेवपरं रूपमुपाधिरहितं मम ॥ ४४॥
अतः संविदि मद्रूपे चेतः स्थाप्यं निराश्रयम् ।
संविद्रूपातिरिक्तं तु मिथ्या मायामयं जगत् ॥ ४५॥
अतः संसारनाशाय साक्षिणीमात्मरूपिणीम् ।
भावयन्निर्मनस्केन योगयुक्तेन चेतसा ॥ ४६॥
अतःपरं बाह्यपूजाविस्तारः कथ्यते मया ।
सावधानेन मनसा शृणु पर्वतसत्तम ॥ ४७॥
॥ इति श्रीदेवीभागवते देवीगीतायां अष्टमोऽध्यायः ॥
॥ अथ नवमोऽध्यायः ॥
श्रीदेव्युवाच -
प्रातरुत्थाय शिरसि संस्मरेत्पद्ममुज्ज्वलम् ।
कर्पूराभं स्मरेत्तत्र श्रीगुरुं निजरूपिणम् ॥ १॥
सुप्रसन्नं लसद्भूषाभूषितं शक्तिसंयुतम् ।
नमस्कृत्य ततो देवीं कुण्डलीं संस्मरेद्बुधः ॥ २॥
प्रकाशमानां प्रथमे प्रयाणे
प्रतिप्रयाणेऽप्यमृतायमानाम् ।
अन्तःपदव्यामनुसञ्चरन्ती-
मानन्दरूपामबलां प्रपद्ये ॥ ३॥
ध्यात्वैवं तच्छिखामध्ये सच्चिदानन्दरूपिणीम् ।
मां ध्यायेदथ शौचादिक्रियाः सर्वाः समापयेत् ॥ ४॥
अग्निहोत्रं ततो हुत्वा मत्प्रीत्यर्थं द्विजोत्तमः ।
होमान्ते स्वासने स्थित्वा पूजासङ्कल्पमाचरेत् ॥ ५॥
भूतशुद्धिं पुरा कृत्वा मातृकान्यासमेव च ।
हृल्लेखामातृकान्यासं नित्यमेव समाचरेत् ॥ ६॥
मूलाधारे हकारं च हृदये च रकारकम् ।
भ्रूमध्ये तद्वदीकारं ह्रीङ्कारं मस्तके न्यसेत् ॥ ७॥
तत्तन्मन्त्रोदितानन्यान्न्यासान्सर्वान्समाचरेत् ।
कल्पयेत्स्वात्मनो देहे पीठं धर्मादिभिः पुनः ॥ ८॥
ततो ध्यायेन्महादेवीं प्राणायामैर्विजृम्भिते ।
हृदम्भोजे मम स्थाने पञ्चप्रेतासने बुधः ॥ ९॥
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
एते पञ्च महाप्रेताः पादमूले मम स्थिताः ॥ १०॥
पञ्चभूतात्मका ह्येते पञ्चावस्थात्मका अपि ।
अहं त्वव्यक्तचिद्रूपा तदतीताऽस्मि सर्वथा ॥ ११॥
ततो विष्टरतां याताः शक्तितन्त्रेषु सर्वदा ।
ध्यात्वैवं मानसैर्भोगैः पूजयेन्मां जपेदपि ॥ १२॥
जपं समर्प्य श्रीदेव्यै ततोऽर्घ्यस्थापनं चरेत् ।
पात्रासादनकं कृत्वा पूजाद्रव्याणि शोधयेत् ॥ १३॥
जलेन तेन मनुना चास्त्रमन्त्रेण देशिकः ।
दिग्बन्धं च पुरा कृत्वा गुरून्नत्वा ततः परम् ॥ १४॥
तदनुज्ञां समादाय बाह्यपीठे ततः परम् ।
हृदिस्थां भावितां मूर्तिं मम दिव्यां मनोहराम् ॥ १५॥
आवाहयेत्ततः पीठे प्राणस्थापनविद्यया ।
आसनावाहने चार्घ्यं पाद्याद्याचमनं तथा ॥ १६॥
स्नानं वासोद्वयं चैव भूषणानि च सर्वशः ।
गन्धपुष्पं यथायोग्यं दत्त्वा देव्यै स्वभक्तितः ॥ १७॥
यन्त्रस्थानामावृतीनां पूजनं सम्यगाचरेत् ।
प्रतिवारमशक्तानां शुक्रवारो नियम्यते ॥ १८॥
मूलदेवीप्रभारूपाः स्मर्तव्या अङ्गदेवताः ।
तत्प्रभापटलव्याप्तं त्रैलोक्यं च विचिन्तयेत् ॥ १९॥
पुनरावृत्तिसहितां मूलदेवीं च पूजयेत् ।
गन्धादिभिः सुगन्धैस्तु तथा पुष्पैः सुवासितैः ॥ २०॥
नैवेद्यैस्तर्पणैश्चैव तांबूलैर्दक्षिणादिभिः ।
तोषयेन्मां त्वत्कृतेन नाम्नां साहस्रकेण च ॥ २१॥
कवचेन च सूक्तेनाहं रुद्रेभिरिति प्रभो ।
देव्यथर्वशिरोमन्त्रैर्हृल्लेखोपनिषद्भवैः ॥ २२॥
महाविद्यामहामन्त्रैस्तोषयेन्मां मुहुर्मुहुः ।
क्षमापयेज्जगद्धात्रीं प्रेमार्द्रहृदयो नरः ॥ २३॥
पुलकाङ्कितसर्वाङ्गैर्बाल्यरुद्धाक्षिनिःस्वनः ।
नृत्यगीतादिघोषेण तोषयेन्मां मुहुर्मुहुः ॥ २४॥
वेदपारायणैश्चैव पुराणैः सकलैरपि ।
प्रतिपाद्या यतोऽहं वै तस्मात्तैस्तोषयेत्तु माम् ॥ २५॥
निज सर्वस्वमपि मे सदेहं नित्यशोऽर्पयेत् ।
नित्यहोमं ततः कुर्याद्ब्राह्मणांश्च सुवासिनीः ॥ २६॥
बटुकान्पामराननन्यान्देवीबुद्ध्या तु भोजयेत् ।
नत्वा पुनः स्वहृदये व्युत्क्रमेण विसर्जयेत् ॥ २७॥
सर्वं हृल्लेखया कुर्यात्पूजनं मम सुव्रत ।
हृल्लेखा सर्वमन्त्राणां नायिका परमा स्मृता ॥ २८ ॥
हृल्लेखादर्पणे नित्यमहं तु प्रतिबिम्बिता ।
तस्माधृल्लेखया दत्तं सर्वमन्त्रैः समर्पितम् ॥ २९॥
गुरुं सम्पूज्य भृषाद्यैः कृतकृत्यत्वमावहेत् ।
य एवं पूजयेद्देवीं श्रीमद्भुवनसुन्दरीम् ॥ ३०॥
न तस्य दुर्लभं किञ्चित्कदाव्हित्क्वचिदस्ति हि ।
देहान्ते तु मणिद्वीपं माम यात्येव सर्वथा ॥ ३१॥
ज्ञेयो देवीस्वरूपोऽसौ देवा नित्यं नमन्ति तम् ।
इति ते कथितं राजन्महादेव्याः प्रपूजनम् ॥ ३२॥
विमृश्यैतदशेषेणाप्यधिकारानुरूपतः ।
कुरु मे पूजनं तेन कृतार्थस्त्वं भविष्यसि ॥ ३३॥
इदं तु गीताशास्त्रं मे नाशिष्याय वदेत्क्वचित् ।
नाभक्ताय प्रदातव्यं न धूर्ताय च दुर्हृदे ॥ ३४॥
एतत्प्रकाशनं मातुरुद्धाटनमुरोजयोः ।
तस्मादवश्यं यत्नेन गोपनीयमिदं सदा ॥ ३५॥
देयं भक्ताय शिष्याय ज्येष्ठपुत्राय चैव हि ।
सुशीलाय सुवेषाय देवीभक्तियुताय च ॥ ३६॥
श्राद्धकाले पठेदेतद् ब्राह्मणानां समीपतः ।
तृप्तास्तत्पितरः सर्वे प्रयान्ति परमं पदम् ॥ ३७॥
व्यास उवाच -
इत्युक्त्वा सा भगवती तत्रैवान्तरधीयत ।
देवाश्च मुदिताः सर्वे देवीदर्शनतोऽभवन् ॥ ३८॥
तता हिमालये जज्ञे देवी हैमवती तु सा ।
या गौरीति प्रसिद्धासीद्दत्ता सा शङ्कराय च ॥ ३९॥
ततः स्कन्दः समुद्भूतस्तारकस्तेन पातितः ।
समुद्रमन्थने पूर्वं रत्नान्यासुर्नराधिप ॥ ४०॥
तत्र देवैस्तुता देवी लक्ष्मीप्राप्त्यर्थमादरात् ।
तेषामनुग्रहार्थाय निर्गता तु रमा ततः ॥ ४१॥
वैकुण्ठाय सुरैर्दत्ता तेन तस्य शमाभवत् ।
इति ते कथितं राजन्देवीमाहात्म्यमुत्तमम् ॥ ४२॥
गौरीलक्ष्म्योः समुद्भूतिविषयं सर्वकामदम् ।
न वाच्यं त्वेतदन्यस्मै रहस्यं कथितं यतः ॥ ४३॥
गीता रहस्यभूतेयं गोपनीया प्रयत्नतः ।
सर्वमुक्तं समासेन यत्पृष्टं तत्वयानघ ।
पवित्रं पावनं दिव्यं किं भूयः श्रोतुमिच्छसि ॥ ४४ ॥
॥ इति श्रीदेवीभागवते देवीगीतायां नवमोऽध्यायः ॥
॥ इति श्रीमद्देवीगीता समाप्ता॥
॥ धर्मव्याधगीता ॥
॥ अथ धर्मव्याधगीता ॥
व्याध उवाच -
विज्ञानार्थं मनुष्याणां मनः पूर्व प्रवर्तते ।
तत्प्राप्य कामं भजते क्रोधं च द्विजसत्तम ॥ १॥
ततस्तदर्थं यतते कर्म चारभते महत् ।
इष्टानां रूपगन्धानामभ्यासं च निषेवते ॥ २॥
ततो रागः प्रभवति द्वेषश्च तदनन्तरम् ।
ततो लोभः प्रभवति मोहश्च तदनन्तरम् ॥ ३॥
ततो लोभाभिभूतस्य रागद्वेषहतस्य च ।
न धर्मे जायते बुद्धिर्व्याजाद्धर्म करोति च ॥ ४॥
व्याजेन चरते धर्ममर्थं व्याजेन रोचते ।
व्याजेन सिद्धमानेषु धनेषु द्विजसत्तम ॥ ५॥
तत्रैव रमते बुद्धिस्ततः पापं चिकीर्षति ।
सुत्दृद्भिःर्वार्यमाणश्च पण्डितैश्च द्विजोत्तम ॥ ६॥
उत्तरं श्रुतिसम्बद्धं ब्रवीत्यश्रुतियोजितम् ।
अधर्मस्त्रिविधस्तस्य वर्तते रागदोषजः ॥ ७॥
पापं चिन्तयते चैव बवीति च करोति च ।
तस्याधर्मप्रवृत्तस्य गुण नश्यन्ति साधवः ॥ ८॥
एकाशीलैश्च मित्रत्वं भजन्ते पापकर्मिणः ।
सतेन दुःखमाप्नोति परत्र च विपद्यते ॥ ९॥
पापात्मा भवति ह्येवं धर्मलाभं तु मे श्रुणु ।
यस्त्वेतान्प्रज्ञया दोषान्पूर्वमेवानुपश्यति ॥ १०॥
कुशलः सुखदुःखेषु साधूंश्चाप्युपसेवते ।
तस्य साधुसमारम्भाद्बुद्धिर्धर्मेषु राजते ॥ ११॥
इदं विश्वं जगत्सर्वमजय्यं चापि नित्यशः ।
महाभूतात्मकं ब्रह्म नातः परतरं भवेत् ॥ १२॥
ब्राह्मण उवाच -
सत्त्वस्य रजसश्चैव तमसश्च यथातथम् ।
गुणांस्तत्त्वेन मे ब्रूहि यथावदिह पृच्छतः ॥ १३॥
व्याध उवाच -
हन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि ।
एषां गुणान् पृथक्त्वेन निबोध गदतो मम ॥ १४॥
मोहात्मकं तमस्तेषां रज एषां प्रवर्तकम् ।
प्रकाशबहुलत्वाच्च सत्त्वं ज्याय इहोच्यते ॥ १५॥
अविद्याबहुलो मूढः स्वप्नशीलो विचेतनः ।
दुर्त्दृषीकस्ततोध्यस्तः सक्रोधस्तामसोऽलसः ॥ १६॥
प्रवृत्तवाक्यो मन्त्री च यो नराग्र्योऽनसूयकः ।
विधित्समानो विप्रर्षे स्तब्धो मानी स राजसः ॥ १७॥
प्रकाशबहुलो धीरो निर्विधित्सोऽनसूयकः ।
अक्रोधनो नरो धीमान् दान्त्रश्चैव स सात्त्विकः ॥ १८॥
इति धर्मव्याधगीता समाप्ता ॥
॥ नहुषगीता ॥
॥ अथ नहुषगीता ॥
अध्याय १७७
वैशम्पायन उवाच ।
युधिष्ठिरस्तमासाद्य सर्पभोगेन वेष्टितम् ।
दयितं भ्रातरं वीरमिदं वचनमब्रवीत् ॥ १॥
कुन्तीमातः कथमिमामापदं त्वमवाप्तवान् ।
कश्चायं पर्वताभोगप्रतिमः पन्नगोत्तमः ॥ २॥
स धर्मराजमालक्ष्य भ्राता भ्रातरमग्रजम् ।
कथयामास तत्सर्वं ग्रहणादि विचेष्टितम् ॥ ३॥
युधिष्ठिर उवाच ।
देवो वा यदि वा दैत्य उरगो वा भवान्यदि ।
सत्यं सर्पो वचो ब्रूहि पृच्छति त्वां युधिष्ठिरः ॥ ४॥
किमाहृत्य विदित्वा वा प्रीतिस्ते स्याद्भुजङ्गम ।
किमाहारं प्रयच्छामि कथं मुञ्चेद्भवानिमम् ॥ ५॥
सर्प उवाच ।
नहुषो नाम राजाऽहमासं पूर्वस्तवानघ ।
प्रथितः पञ्चमः सोमादायोःपुत्रो नराधिप ॥ ६॥
क्रतुभिस्तपसा चैव स्वाध्यायेन दमेन च ।
त्रैलोक्यैश्वर्यमव्यग्रं प्राप्तो विक्रमणेन च ॥ ७॥
तदैश्वर्यं समासाद्य दर्पो मामगमत्तदा ।
सहस्रं हि द्विजातीनामुवाह शिबिकां मम ॥ ८॥
ऐश्वर्यमदमत्तोऽहमवमन्य ततो द्विजान् ।
इमामगस्त्येन दशामानीतः पृथिवीपते ॥ ९॥
न तु मामजहात्प्रज्ञा यावदद्येति पाण्डव ।
तस्यैवानुग्रहाद्राजन्नगस्त्यस्य महात्मनः ॥ १०॥
षष्ठे काले ममाहारः प्राप्तोऽयमनुजस्तव ।
नाहमेनं विमोक्ष्यामि न चान्यमभिकामये ॥ ११॥
प्रश्नानुच्चारितांस्तु त्वं व्याहरिष्यसि चेन्मम ।
अथ पश्चाद्विमोक्ष्यामि भ्रातरं ते वृकोदरम् ॥ १२॥
युधिष्ठिर उवाच ।
ब्रूहि सर्प यथाकामं प्रतिवक्ष्यामि ते वचः ।
अपि चेच्छक्नुयां प्रीतिमाहर्तुं ते भुजङ्गम ॥ १३॥
वेद्यं यद्ब्राह्मणेनेह तद्भवान्वेत्ति केवलम् ।
सर्पराज ततः श्रुत्वा प्रतिवक्ष्यामि ते वचः ॥ १४॥
सर्प उवाच ।
ब्राह्मणः को भवेद्राजन्वेद्यं किं च युधिष्ठिर ।
ब्रवीह्यतिमतिं त्वां हि वाक्यैरनुमिमीमहे ॥ १५॥
युधिष्ठिर उवाच ।
सत्यं दानं क्षमा शीलमानृशंस्यं दमो घृणा ।
दृश्यन्ते यत्र नागेन्द्र स ब्राह्मण इति स्मृतः ॥ १६॥
वेद्यं सर्प परं ब्रह्म निर्दुःखमसुखं च यत् ।
यत्र गत्वा न शोचन्ति भवतः किं विवक्षितम् ॥ १७॥
सर्प उवाच ।
चातुर्वर्ण्यं प्रमाणं च सत्यं च ब्रह्म चैव हि ।
शूद्रेष्वपि च सत्यं च दानमक्रोध एव च ।
आनृशंस्यमहिंसा च घृणा चैव युधिष्ठिर ॥ १८॥
वेद्यं यच्चाथ निर्दुःखमसुखं च नराधिप ।
ताभ्यां हीनं पदं चान्यन्न तदस्तीति लक्षये ॥ १९॥
युधिष्ठिर उवाच ।
शूद्रे चैतद्भवेल्लक्ष्यं द्विजे तच्च न विद्यते ।
न वै शूद्रो भवेच्छूद्रो ब्राह्मणो न च ब्राह्मणः ॥ २०॥
यत्रैतल्लक्ष्यतेसर्प वृत्तं स ब्राह्मणः स्मृतः ।
यत्रैतन्न भवेत्सर्प तं शूद्रमिति निर्दिशेत् ॥ २१॥
यत्पुनर्भवता प्रोक्तं न वेद्यं विद्यतेति ह ।
ताभ्यां हीनमतीत्यात्र पदं नास्तीति चेदपि ॥ २२॥
एवमेतन्मतं सर्प ताभ्यां हीनं न विद्यते ।
यथा शीतोष्णयोर्मध्ये भवेन्नोष्णं न शीतता ॥ २३॥
एवं वै सुखदुःखाभ्यां हीनमस्ति पदं क्व चित् ।
एषा मम मतिः सर्प यथा वा मन्यते भवान् ॥ २४॥
सर्प उवाच ।
यदि ते वृत्ततो राजन्ब्राह्मणः प्रसमीक्षितः ।
व्यर्था जातिस्तदाऽऽयुष्मन्कृतिर्यावन्न दृश्यते ॥ २५॥
युधिष्ठिर उवाच ।
जातिरत्र महासर्प मनुष्यत्वे महामते ।
सङ्करात्सर्ववर्णानां दुष्परीक्ष्येति मे मतिः ॥ २६॥
सर्वे सर्वास्वपत्यानि जनयन्ति यदा नराः ।
वाङ्मैथुनमथो जन्म मरणं च समं नृणाम् ॥ २७॥
इदमार्षं प्रमाणं च ये यजामह इत्यपि ।
तस्माच्छीलं प्रधानेष्टं विदुर्ये तत्त्वदर्शिनः ॥ २८॥
प्राङ्नाभिर्वर्धनात्पुंसो जातकर्म विधीयते ।
तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते ॥ २९॥
वृत्त्या शूद्र समो ह्येष यावद्वेदे न जायते ।
अस्मिन्नेवं मतिद्वैधे मनुः स्वायम्भुवोऽब्रवीत् ॥ ३०॥
कृतकृत्याः पुनर्वर्णा यदि वृत्तं न विद्यते ।
सङ्करस्तत्र नागेन्द्र बलवान्प्रसमीक्षितः ॥ ३१॥
यत्रेदानीं महासर्प संस्कृतं वृत्तमिष्यते ।
तं ब्राह्मणमहं पूर्वमुक्तवान्भुजगोत्तम ॥ ३२॥
सर्प उवाच ।
श्रुतं विदितवेद्यस्य तव वाक्यं युधिष्ठिर ।
भक्षयेयमहं कस्माद्भ्रातरं ते वृकोदरम् ॥ ३३॥
अध्याय १७८
युधिष्ठिर उवाच ।
भवानेतादृशो लोके वेदवेदाङ्गपारगः ।
ब्रूहि किं कुर्वतः कर्म भवेद्गतिरनुत्तमा ॥ १॥
सर्प उवाच ।
पात्रे दत्त्वा प्रियाण्युक्त्वा सत्यमुक्त्वा च भारत ।
अहिंसानिरतः स्वर्गं गच्छेदिति मतिर्मम ॥ २॥
युधिष्ठिर उवाच ।
दानाद्वासर्पोवाच ।सत्याद्वा किमतो गुरु दृश्यते ।
अहिंसा प्रिययोश्चैव गुरुलाघवमुच्यताम् ॥ ३॥
सर्पोवाच ।
दाने रतत्वं सत्यं च अहिंसा प्रियमेव च ।
एषां कार्यगरीयस्त्वाद्दृश्यते गुरुलाघवम् ॥ ४॥
कस्माच्चिद्दानयोगाद्धि सत्यमेव विशिष्यते ।
सत्यवाक्याच्च राजेन्द्र किंचिद्दानं विशिष्यते ॥ ५॥
एवमेव महेष्वास प्रियवाक्यान्महीपते ।
अहिंसा दृश्यते गुर्वी ततश्च प्रियमिष्यते ॥ ६॥
एवमेतद्भवेद्राजन्कार्यापेक्षमनन्तरम् ।
यदभिप्रेतमन्यत्ते ब्रूहि यावद्ब्रवीम्यहम् ॥ ७॥
युधिष्ठिर उवाच ।
कथं स्वर्गे गतिः सर्प कर्मणां च फलं ध्रुवम् ।
अशरीरस्य दृश्येत विषयांश्च ब्रवीहि मे ॥ ८॥
सर्प उवाच ।
तिस्रो वै गतयो राजन्परिदृष्टाः स्वकर्मभिः ।
मानुष्यं स्वर्गवासश्च तिर्यग्योनिश्च तत्त्रिधा ॥ ९॥
तत्र वै मानुषाल्लोकाद्दानादिभिरतन्द्रितः ।
अहिंसार्थसमायुक्तैः कारणैः स्वर्गमश्नुते ॥ १०॥
विपरीतैश्च राजेन्द्र कारणैर्मानुषो भवेत् ।
तिर्यग्योनिस्तथा तात विशेषश्चात्र वक्ष्यते ॥ ११॥
कामक्रोधसमायुक्तो हिंसा लोभसमन्वितः ।
मनुष्यत्वात्परिभ्रष्टस्तिर्यग्योनौ प्रसूयते ॥ १२॥
तिर्यग्योन्यां पृथग्भावो मनुष्यत्वे विधीयते ।
गवादिभ्यस्तथाऽश्वेभ्यो देवत्वमपि दृश्यते ॥ १३॥
सोऽयमेता गतीः सर्वा जन्तुश्चरति कार्यवान् ।
नित्ये महति चात्मानमवस्थापयते नृप ॥ १४॥
जातो जातश्च बलवान्भुङ्क्ते चात्मा स देहवान् ।
फलार्थस्तात निष्पृक्तः प्रजा लक्षणभावनः ॥ १५॥
युधिष्ठिर उवाच ।
शब्दे स्पर्शे च रूपे च तथैव रसगन्धयोः ।
तस्याधिष्ठानमव्यग्रो ब्रूहि सर्प यथातथम् ॥ १६॥
किं न गृह्णासि विषयान्युगपत्त्वं महामते ।
एतावदुच्यतां चोक्तं सर्वं पन्नगसत्तम ॥ १७॥
सर्प उवाच ।
यदात्मद्रव्यमायुष्मन्देहसंश्रयणान्वितम् ।
करणाधिष्ठितं भोगानुपभुङ्क्ते यथाविधि ॥ १८॥
ज्ञानं चैवात्र बुद्धिश्च मनश्च भरतर्षभ ।
तस्य भोगाधिकरणे करणानि निबोध मे ॥ १९॥
मनसा तात पर्येति क्रमशो विषयानिमान् ।
विषयायतनस्थेन भूतात्मा क्षेत्रनिःसृतः ॥ २०॥
अत्र चापि नरव्याघ्र मनो जन्तोर्विधीयते ।
तस्माद्युगपदस्यात्र ग्रहणं नोपपद्यते ॥ २१॥
स आत्मा पुरुषव्याघ्र भ्रुवोरन्तरमाश्रितः ।
द्रव्येषु सृजते बुद्धिं विविधेषु परावराम् ॥ २२॥
बुद्धेरुत्तरकालं च वेदना दृश्यते बुधैः ।
एष वै राजशार्दूल विधिः क्षेत्रज्ञभावनः ॥ २३॥
युधिष्ठिर उवाच ।
मनसश्चापि बुद्धेश्च ब्रूहि मे लक्षणं परम् ।
एतदध्यात्मविदुषां परं कार्यं विधीयते ॥ २४॥
सर्प उवाच ।
बुद्धिरात्मानुगा तात उत्पातेन विधीयते ।
तदाश्रिता हि सञ्ज्ञैषा विधिस्तस्यैषिणी भवेत् ॥ २५॥
बुद्धेर्गुणविधिर्नास्ति मनस्तु गुणवद्भवेत् ।
बुद्धिरुत्पद्यते कार्ये मनस्तूत्पन्नमेव हि ॥ २६॥
एतद्विशेषणं तात मनो बुद्ध्योर्मयेरितम् ।
त्वमप्यत्राभिसम्बुद्धः कथं वा मन्यते भवान् ॥ २७॥
युधिष्ठिर उवाच ।
अहो बुद्धिमतां श्रेष्ठ शुभा बुद्धिरियं तव ।
विदितं वेदितव्यं ते कस्मान्मामनुपृच्छसि ॥ २८॥
सर्वज्ञं त्वां कथं मोह आविशत्स्वर्गवासिनम् ।
एवमद्भुतकर्माणमिति मे संशयो महान् ॥ २९॥
सर्प उवाच ।
सुप्रज्ञमपि चेच्छूरमृद्धिर्मोहयते नरम् ।
वर्तमानः सुखे सर्वो नावैतीति मतिर्मम ॥ ३०॥
सोऽहमैश्वर्यमोहेन मदाविष्टो युधिष्ठिर ।
पतितः प्रतिसम्बुद्धस्त्वां तु सम्बोधयाम्यहम् ॥ ३१॥
कृतं कार्यं महाराज त्वया मम परन्तप ।
क्षीणः शापः सुकृच्छ्रो मे त्वया सम्भाष्य साधुना ॥ ३२॥
अहं हि दिवि दिव्येन विमानेन चरन्पुरा ।
अभिमानेन मत्तः सन्कं चिन्नान्यमचिन्तयम् ॥ ३३॥
ब्रह्मर्षिदेवगन्धर्वयक्षराक्षस किंनराः ।
करान्मम प्रयच्छन्ति सर्वे त्रैलोक्यवासिनः ॥ ३४॥
चक्षुषा यं प्रपश्यामि प्राणिनं पृथिवीपते ।
तस्य तेजो हराम्याशु तद्धि दृष्टिबलं मम ॥ ३५॥
ब्रह्मर्षीणां सहस्रं हि उवाह शिबिकां मम ।
स मामपनयो राजन्भ्रंशयामास वै श्रियः ॥ ३६॥
तत्र ह्यगस्त्यः पादेन वहन्पृष्टो मया मुनिः ।
अदृष्टेन ततोऽस्म्युक्तो ध्वंस सर्पेति वै रुषा ॥ ३७॥
ततस्तस्माद्विमानाग्रात्प्रच्युतश्च्युत भूषणः ।
प्रपतन्बुबुधेऽऽत्मानं व्याली भूतमधोमुखम् ॥ ३८॥
अयाचं तमहं विप्रं शापस्यान्तो भवेदिति ।
अज्ञानात्सम्प्रवृत्तस्य भगवन्क्षन्तुमर्हसि ॥ ३९॥
ततः स मामुवाचेदं प्रपतन्तं कृपान्वितः ।
युधिष्ठिरो धर्मराजः शापात्त्वां मोक्षयिष्यति ॥ ४०॥
अभिमानस्य घोरस्य बलस्य च नराधिप ।
फले क्षीणे महाराज फलं पुण्यमवाप्स्यसि ॥ ४१॥
ततो मे विस्मयो जातस्तद्दृष्ट्वा तपसो बलम् ।
ब्रह्म च ब्राह्मणत्वं च येन त्वाहमचूचुदम् ॥ ४२॥
सत्यं दमस्तपोयोगमहिंसा दाननित्यता ।
साधकानि सदा पुंसां न जातिर्न कुलं नृप ॥ ४३॥
अरिष्ट एष ते भ्राता भीमो मुक्तो महाभुजः ।
स्वस्ति तेऽस्तु महाराज गमिष्यामि दिवं पुनः ॥ ४४॥
वैशम्पायन उवाच ।
इत्युक्त्वाऽऽजगरं देहं त्यक्त्वा स नहुषो नृपः ।
दिव्यं वपुः समास्थाय गतस्त्रिदिवमेव ह ॥ ४५॥
युधिष्ठिरोऽपि धर्मात्मा भ्रात्रा भीमेन सङ्गतः ।
धौम्येन सहितः श्रीमानाश्रमं पुनरभ्यगात् ॥ ४६॥
ततो द्विजेभ्यः सर्वेभ्यः समेतेभ्यो यथातथम् ।
कथयामास तत्सर्वं धर्मराजो युधिष्ठिरः ॥ ४७॥
तच्छ्रुत्वा ते द्विजाः सर्वे भ्रातरश्चास्य ते त्रयः ।
आसन्सुव्रीडिता राजन्द्रौपदी च यशस्विनी ॥ ४८॥
ते तु सर्वे द्विजश्रेष्ठाः पाण्डवानां हितेप्सया ।
मैवमित्यब्रुवन्भीमं गर्हयन्तोऽस्य साहसम् ॥ ४९॥
पाण्डवास्तु भयान्मुक्तं प्रेक्ष्य भीमं महाबलम् ।
हर्षमाहारयां चक्रुर्विजह्रुश्च मुदा युताः ॥ ५०॥
॥ इति नहुषगीता समाप्ता ॥
॥ नारदगीता रामचरितमानससे ॥
चौपाई
देखि राम अति रुचिर तलावा । मज्जनु कीन्ह परम सुख पावा ।
देखी सुंदर तरुबर छाया । बैठे अनुज सहित रघुराया । १ ।
तहँ पुनि सकल देव मुनि आए । अस्तुति करि निज धाम सिधाए ।
बैठे परम प्रसन्न कृपाला । कहत अनुज सन कथा रसाला । २ ।
बिरहवंत भगवंतहि देखी । नारद मन भा सोच बिसेषी ।
मोर साप करि अंगीकारा । सहत राम नाना दुख भारा । ३ ।
ऐसे प्रभुहि बिलोकउँ जाई । पुनि न बनिहि अस अवसरु आई ।
यह बिचारि नारद कर बीना । गए जहाँ प्रभु सुख आसीना । ४ ।
गावत राम चरित मृदु बानी । प्रेम सहित बहु भाति बखानी ।
करत दंडवत लिए उठाई । राखे बहुत बार उर लाई । ५ ।
स्वागत पूँछि निकट बैठारे । लछिमन सादर चरन पखारे । ६ ।
दोहा
नाना बिधि बिनती करि प्रभु प्रसन्न जियँ जानि ।
नारद बोले बचन तब जोरि सरोरुह पानि । ४१ ।
चौपाई
सुनहु उदार सहज रघुनायक । सुंदर अगम सुगम बर दायक ।
देहु एक बर मागउँ स्वामी । जद्यपि जानत अंतरजामी । १ ।
जानहु मुनि तुम्ह मोर सुभाऊ । जन सन कबहुँ कि करउँ दुराऊ ।
कवन बस्तु असि प्रिय मोहि लागी । जो मुनिबर न सकहु तुम्ह मागी । २ ।
जन कहुँ कछु अदेय नहिं मोरें । अस बिस्वास तजहु जनि भोरें ।
तब नारद बोले हरषाई । अस बर मागउँ करउँ ढिठाई । ३ ।
जद्यपि प्रभु के नाम अनेका । श्रुति कह अधिक एक तें एका ।
राम सकल नामन्ह तें अधिका । होउ नाथ अघ खग गन बधिका । ४ ।
दोहा
राका रजनी भगति तव राम नाम सोइ सोम ।
अपर नाम उडगन बिमल बसहुँ भगत उर ब्योम । ४२ (क) ।
एवमस्तु मुनि सन कहेउ कृपासिंधु रघुनाथ ।
तब नारद मन हरष अति प्रभु पद नायउ माथ । ४२ (ख) ।
चौपाई
अति प्रसन्न रघुनाथहि जानी । पुनि नारद बोले मृदु बानी ।
राम जबहिं प्रेरेउ निज माया । मोहेहु मोहि सुनहु रघुराया । १ ।
तब बिबाह मैं चाहौँ कीन्हा । प्रभु केहि कारन करै न दीन्हा ।
सुनु मुनि तोहि कहउँ सहरोसा । भजहिं जे मोहि तजि सकल भरोसा । २ ।
करउँ सदा तिन्ह कै रखवारी । जिमि बालक राखइ महतारी ।
गह सिसु बच्छ अनल अहि धाई । तहँ राखइ जननी अरगाई । ३ ।
प्रौढ़ भएँ तेहि सुत पर माता । प्रीति करइ नहिं पाछिलि बाता ।
मोरें प्रौढ़ तनय सम ग्यानी । बालक सुत सम दास अमानी । ४ ।
जनहि मोर बल निज बल ताही । दुहु कहं काम क्रोध रिपु आही ।
यह बिचारि पंडित मोहि भजहीं । पाएहुँ ग्यान भगति नहिं तजहीं । ५ ।
दोहा
काम क्रोध लोभादि मद प्रबल मोह कै धारि ।
तिन्ह महँ अति दारुन दुखद मायारूपी नारि । ४३ ।
चौपाई
सुनु मुनि कह पुरान श्रुति संता । मोह बिपिन कहुँ नारि बसंता ।
जप तप नेम जलाश्रय झारी । होइ ग्रीषम सोषै सब नारी । १ ।
काम क्रोध मद मत्सर भेका । इन्हहि हरषप्रद बरषा एका ।
दुर्बासना कुमुद समुदाई । तिन्ह कहँ सरद सदा सुखदाई । २ ।
धर्म सकल सरसीरुह बृंदा । होइ हिम तिन्हहि दहै सुख मंदा ।
पुनि ममता जवास बहुताई । पलुहइ नारि सिसिर रितु पाई । ३ ।
पाप उलूक निकर सुखकारी । नारि निबिड़ रजनी अँधिआरी ।
बुधि बल सील सत्य सब मीना । बनसी सम त्रिय कहहिं प्रबीना । ४ ।
दोहा
अवगुन मूल सूलप्रद प्रमदा सब दुख खानि ।
ताते कीन्ह निवारन मुनि मैं यह जियँ जानि । ४४ ।
चौपाई
सुनि रघुपति के बचन सुहाए । मुनि तन पुलक नयन भरि आए ।
कहहु कवन प्रभु कै असि रीती । सेवक पर ममता अरु प्रीती । १ ।
जे न भजहिं अस प्रभु भ्रम त्यागी । ग्यान रंक नर मंद अभागी ।
पुनि सादर बोले मुनि नारद । सुनहु राम बिग्यान बिसारद । २ ।
संतन्ह के लच्छन रघुबीरा । कहहु नाथ भव भंजन भीरा ।
सुनु मुनि संतन्ह के गुन कहऊँ । जिन्ह ते मैं उन्ह कें बस रहऊँ । ३ ।
षट बिकार जित अनघ अकामा । अचल अकिंचन सुचि सुखधामा ।
अमितबोध अनीह मितभोगी । सत्यसार कबि कोबिद जोगी । ४ ।
सावधान मानद मदहीना । धीर धर्म गति परम प्रबीना । ५ ।
दोहा
गुनागार संसार दुख रहित बिगत संदेह ।
तजि मम चरन सरोज प्रिय तिन्ह कहुँ देह न गेह । ४५ ।
चौपाई
निज गुन श्रवन सुनत सकुचाहीं । पर गुन सुनत अधिक हरषाहीं ।
सम सीतल नहिं त्यागहिं नीती । सरल सुभाउ सबहि सन प्रीती । १ ।
जप तप ब्रत दम संजम नेमा । गुरु गोबिंद बिप्र पद प्रेमा ।
श्रद्धा छमा मयत्री दाया । मुदिता मम पद प्रीति अमाया । २ ।
बिरति बिबेक बिनय बिग्याना । बोध जथारथ बेद पुराना ।
दंभ मान मद करहिं न काऊ । भूलि न देहिं कुमारग पाऊ । ३ ।
गावहिं सुनहिं सदा मम लीला । हेतु रहित परहित रत सीला ।
मुनि सुनु साधुन्ह के गुन जेते । कहि न सकहिं सारद श्रुति तेते । ४ ।
छन्द
कहि सक न सारद सेष नारद सुनत पद पंकज गहे ।
अस दीनबंधु कृपाल अपने भगत गुन निज मुख् कहे ।
सिरु नाइ बारहिं बार चरनन्हि ब्रह्मपुर नारद गए ।
ते धन्य तुलसीदास आस बिहाइ जे हरि रँग रँगे ।
दोहा
रावनारि जसु पावन गावहिं सुनहिं जे लोग ।
राम भगति दृढ़ पावहिं बिनु बिराग जप जोग । ४६ (क) ।
दीप सिखा सम जुबति तन मन जनि होसि पतंग ।
भजहि राम तजि काम मद करहि सदा सतसंग । ४६ (ख) ।
परमहंस गीता
ॐ नमो भगवते वासुदेवाय ।
॥ दशमोऽध्यायः ॥
श्रीशुक उवाच -
अथ सिन्धुसौवीरपते रहूगणस्य व्रजत
इक्षुमत्यास्तटे तत्कुलपतिना शिबिका-
वाहपुरुषान्वेषणसमये दैवेनोपसादितः
स द्विजवर उपलब्ध एष पीवा युवा
संहननाङ्गो गोखरवद्धुरं वोढुमलमिति
पूर्वविष्टिगृहीतैः सह गृहीतः प्रसभमतदर्ह
उवाह शिबिकां स महानुभावः ॥ १॥
यदा हि द्विजवरस्येषुमात्रावलोकानुगतेर्न
समाहिता पुरुषगतिस्तदा विषमगतां
स्वशिबिकां रहूगण उपधार्य पुरुषानधिवहत
आह हे वोढारः साध्वतिक्रमत किमिति
विषममुह्यते यानमिति ॥ २॥
अथ त ईश्वरवचः सोपालम्भमुपाकर्ण्यो-
पायतुरीयाच्छङ्कितमनसस्तं विज्ञापयां बभूवुः ॥ ३॥
न वयं नरदेव प्रमत्ता भवन्नियमानुपथाः
साध्वेव वहामः अयमधुनैव नियुक्तोऽपि
न द्रुतं व्रजति नानेन सह वोढुमु ह वयं
पारयाम इति ॥ ४॥
सांसर्गिको दोष एव नूनमेकस्यापि सर्वेषां
सांसर्गिकाणां भवितुमर्हतीति निश्चित्य
निशम्य कृपणवचो राजा रहूगण उपासित-
वृद्धोऽपि निसर्गेण बलात्कृत ईषदुत्थित-
मन्युरविस्पष्टब्रह्मतेजसं जातवेदसमिव
रजसाऽऽवृतमतिराह ॥ ५॥
अहो कष्टं भ्रातर्व्यक्तमुरुपरिश्रान्तो दीर्घ-
मध्वानमेक एव ऊहिवान् सुचिरं नातिपीवा
न संहननाङ्गो जरसा चोपद्रुतो भवान् सखे
नो एवापर एते सङ्घट्टिन इति बहु विप्रलब्धो-
ऽप्यविद्यया रचितद्रव्यगुणकर्माशयस्व-
चरमकलेवरेऽवस्तुनि संस्थानविशेषे-
ऽहंममेत्यनध्यारोपितमिथ्याप्रत्ययो
ब्रह्मभूतस्तूष्णीं शिबिकां पूर्ववदुवाह ॥ ६॥
अथ पुनः स्वशिबिकायां विषमगतायां
प्रकुपित उवाच -
रहूगणः किमिदमरे त्वं
जीवन्मृतो मां कदर्थीकृत्य भर्तृशासन-
मतिचरसि प्रमत्तस्य च ते करोमि
चिकित्सां दण्डपाणिरिव जनताया
यथा प्रकृतिं स्वां भजिष्यस इति ॥ ७॥
एवं बह्वबद्धमपि भाषमाणं नरदेवाभिमानं
रजसा तमसानुविद्धेन मदेन तिरस्कृताशेष-
भगवत्प्रियनिकेतं पण्डितमानिनं स भगवान्
ब्राह्मणो ब्रह्मभूतः सर्वभूतसुहृदात्मा
योगेश्वरचर्यायां नातिव्युत्पन्नमतिं स्मयमान
इव विगतस्मय इदमाह ॥ ८॥
ब्राह्मण उवाच -
त्वयोदितं व्यक्तमविप्रलब्धं
भर्तुः स मे स्याद्यदि वीर भारः ।
गन्तुर्यदि स्यादधिगम्यमध्वा
पीवेति राशौ न विदां प्रवादः ॥ ९॥
स्थौल्यं कार्श्यं व्याधय आधयश्च
क्षुत्तृड्भयं कलिरिच्छा जरा च ।
निद्रा रतिर्मन्युरहं मदः शुचो
देहेन जातस्य हि मे न सन्ति ॥ १०॥
जीवन्मृतत्वं नियमेन राजन्
आद्यन्तवद्यद्विकृतस्य दृष्टम् ।
स्वस्वाम्यभावो ध्रुव ईड्य यत्र
तर्ह्युच्यतेऽसौ विधिकृत्ययोगः ॥ ११॥
विशेषबुद्धेर्विवरं मनाक्च
पश्याम यन्न व्यवहारतोऽन्यत् ।
क ईश्वरस्तत्र किमीशितव्यं
तथापि राजन् करवाम किं ते ॥ १२॥
उन्मत्तमत्तजडवत्स्वसंस्थां
गतस्य मे वीर चिकित्सितेन ।
अर्थः कियान् भवता शिक्षितेन
स्तब्धप्रमत्तस्य च पिष्टपेषः ॥ १३॥
श्रीशुक उवाच -
एतावदनुवादपरिभाषया प्रत्युदीर्य मुनिवर
उपशमशील उपरतानात्म्यनिमित्त उपभोगेन
कर्मारब्धं व्यपनयन् राजयानमपि तथोवाह ॥ १४॥
स चापि पाण्डवेय सिन्धुसौवीरपतिस्तत्त्व-
जिज्ञासायां सम्यक् श्रद्धयाधिकृताधिकार-
स्तद्धृदयग्रन्थिमोचनं द्विजवच आश्रुत्य बहु
योगग्रन्थसम्मतं त्वरयावरुह्य शिरसा
पादमूलमुपसृतः क्षमापयन् विगत-
नृपदेवस्मय उवाच ॥ १५॥
कस्त्वं निगूढश्चरसि द्विजानां
बिभर्षि सूत्रं कतमोऽवधूतः ।
कस्यासि कुत्रत्य इहापि कस्मात्क्षेमाय
नश्चेदसि नोत शुक्लः ॥ १६॥
नाहं विशङ्के सुरराजवज्रान्न
त्र्यक्षशूलान्न यमस्य दण्डात् ।
नाग्न्यर्कसोमानिलवित्तपास्त्राच्छङ्के
भृशं ब्रह्मकुलावमानात् ॥ १७॥
तद्ब्रूह्यसङ्गो जडवन्निगूढ-
विज्ञानवीर्यो विचरस्यपारः ।
वचांसि योगग्रथितानि साधो
न नः क्षमन्ते मनसापि भेत्तुम् ॥ १८॥
अहं च योगेश्वरमात्मतत्त्वविदां
मुनीनां परमं गुरुं वै ।
प्रष्टुं प्रवृत्तः किमिहारणं तत्साक्षाद्धरिं
ज्ञानकलावतीर्णम् ॥ १९॥
स वै भवाँल्लोकनिरीक्षणार्थ-
मव्यक्तलिङ्गो विचरत्यपि स्वित् ।
योगेश्वराणां गतिमन्धबुद्धिः
कथं विचक्षीत गृहानुबन्धः ॥ २०॥
दृष्टः श्रमः कर्मत आत्मनो वै
भर्तुर्गन्तुर्भवतश्चानुमन्ये ।
यथासतोदानयनाद्यभावात्समूल
इष्टो व्यवहारमार्गः ॥ २१॥
स्थाल्यग्नितापात्पयसोऽभिताप-
स्तत्तापतस्तण्डुलगर्भरन्धिः ।
देहेन्द्रियास्वाशयसन्निकर्षा-
त्तत्संसृतिः पुरुषस्यानुरोधात् ॥ २२॥
शास्ताभिगोप्ता नृपतिः प्रजानां
यः किङ्करो वै न पिनष्टि पिष्टम् ।
स्वधर्ममाराधनमच्युतस्य
यदीहमानो विजहात्यघौघम् ॥ २३॥
तन्मे भवान् नरदेवाभिमानमदेन
तुच्छीकृतसत्तमस्य ।
कृषीष्ट मैत्री दृशमार्तबन्धो
यथा तरे सदवध्यानमंहः ॥ २४॥
न विक्रिया विश्वसुहृत्सखस्य
साम्येन वीताभिमतेस्तवापि ।
महद्विमानात्स्वकृताद्धि मादृ-
ङ्नङ्क्ष्यत्यदूरादपि शूलपाणिः ॥ २५॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे दशमोऽध्यायः ॥ १०॥
इति श्रीमद्भागवते महापुराणे परमहंसगीतायां प्रथमोऽध्यायः । १
॥ एकादशोऽध्यायः ॥
ब्राह्मण उवाच
अकोविदः कोविदवादवादान्
वदस्यथो नातिविदां वरिष्ठः ।
न सूरयो हि व्यवहारमेनं
तत्त्वावमर्शेन सहामनन्ति ॥ १॥
तथैव राजन्नुरुगार्हमेध-
वितानविद्योरुविजृम्भितेषु ।
न वेदवादेषु हि तत्त्ववादः
प्रायेण शुद्धो नु चकास्ति साधुः ॥ २॥
न तस्य तत्त्वग्रहणाय साक्षा-
द्वरीयसीरपि वाचः समासन् ।
स्वप्ने निरुक्त्या गृहमेधिसौख्यं
न यस्य हेयानुमितं स्वयं स्यात् ॥ ३॥
यावन्मनो रजसा पूरुषस्य
सत्त्वेन वा तमसा वानुरुद्धम् ।
चेतोभिराकूतिभिरातनोति
निरङ्कुशं कुशलं चेतरं वा ॥ ४॥
स वासनात्मा विषयोपरक्तो
गुणप्रवाहो विकृतः षोडशात्मा ।
बिभ्रत्पृथङ्नामभि रूपभेद-
मन्तर्बहिष्ट्वं च पुरैस्तनोति ॥ ५॥
दुःखं सुखं व्यतिरिक्तं च तीव्रं
कालोपपन्नं फलमाव्यनक्ति ।
आलिङ्ग्य मायारचितान्तरात्मा
स्वदेहिनं संसृतिचक्रकूटः ॥ ६॥
तावानयं व्यवहारः सदाविः
क्षेत्रज्ञसाक्ष्यो भवति स्थूलसूक्ष्मः ।
तस्मान्मनो लिङ्गमदो वदन्ति
गुणागुणत्वस्य परावरस्य ॥ ७॥
गुणानुरक्तं व्यसनाय जन्तोः
क्षेमाय नैर्गुण्यमथो मनः स्यात् ।
यथा प्रदीपो घृतवर्तिमश्नन्
शिखाः सधूमा भजति ह्यन्यदा स्वम् ।
पदं तथा गुणकर्मानुबद्धं
वृत्तीर्मनः श्रयतेऽन्यत्र तत्त्वम् ॥ ८॥
एकादशासन्मनसो हि वृत्तय
आकूतयः पञ्च धियोऽभिमानः ।
मात्राणि कर्माणि पुरं च तासां
वदन्ति हैकादश वीर भूमीः ॥ ९॥
गन्धाकृतिस्पर्शरसश्रवांसि
विसर्गरत्यर्त्यभिजल्पशिल्पाः ।
एकादशं स्वीकरणं ममेति
शय्यामहं द्वादशमेक आहुः ॥ १०॥
द्रव्यस्वभावाशयकर्मकालै-
रेकादशामी मनसो विकाराः ।
सहस्रशः शतशः कोटिशश्च
क्षेत्रज्ञतो न मिथो न स्वतः स्युः ॥ ११॥
क्षेत्रज्ञ एता मनसो विभूतीर्जीवस्य
मायारचितस्य नित्याः ।
आविर्हिताः क्वापि तिरोहिताश्च
शुद्धो विचष्टे ह्यविशुद्धकर्तुः ॥ १२॥
क्षेत्रज्ञ आत्मा पुरुषः पुराणः
साक्षात्स्वयंज्योतिरजः परेशः ।
नारायणो भगवान्वासुदेवः
स्वमाययाऽऽत्मन्यवधीयमानः ॥ १३॥
यथानिलः स्थावरजङ्गमाना-
मात्मस्वरूपेण निविष्ट ईशेत् ।
एवं परो भगवान् वासुदेवः
क्षेत्रज्ञ आत्मेदमनुप्रविष्टः ॥ १४॥
न यावदेतां तनुभृन्नरेन्द्र
विधूय मायां वयुनोदयेन ।
विमुक्तसङ्गो जितषट्सपत्नो
वेदात्मतत्त्वं भ्रमतीह तावत् ॥ १५॥
न यावदेतन्मन आत्मलिङ्गं
संसारतापावपनं जनस्य ।
यच्छोकमोहामयरागलोभ-
वैरानुबन्धं ममतां विधत्ते ॥ १६॥
भ्रातृव्यमेनं तददभ्रवीर्य-
मुपेक्षयाध्येधितमप्रमत्तः ।
गुरोर्हरेश्चरणोपासनास्त्रो
जहि व्यलीकं स्वयमात्ममोषम् ॥ १७॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे ब्राह्मणरहूगणसंवादे एकादशोऽध्यायः ॥ ११॥
इति श्रीमद्भागवते महापुराणे परमहंसगीतायां द्वितीयोऽध्यायः । २
॥ द्वादशोऽध्यायः ॥
रहूगण उवाच
नमो नमः कारणविग्रहाय
स्वरूपतुच्छीकृतविग्रहाय ।
नमोऽवधूतद्विजबन्धुलिङ्ग-
निगूढनित्यानुभवाय तुभ्यम् ॥ १॥
ज्वरामयार्तस्य यथागदं
सन्निदाघदग्धस्य यथा हिमाम्भः ।
कुदेहमानाहिविदष्टदृष्टे-
र्ब्रह्मन्वचस्तेऽमृतमौषधं मे ॥ २॥
तस्माद्भवन्तं मम संशयार्थं
प्रक्ष्यामि पश्चादधुना सुबोधम् ।
अध्यात्मयोगग्रथितं तवोक्त-
माख्याहि कौतूहलचेतसो मे ॥ ३॥
यदाह योगेश्वर दृश्यमानं
क्रियाफलं सद्व्यवहारमूलम् ।
न ह्यञ्जसा तत्त्वविमर्शनाय
भवानमुष्मिन् भ्रमते मनो मे ॥ ४॥
ब्राह्मण उवाच
अयं जनो नाम चलन् पृथिव्यां
यः पार्थिवः पार्थिव कस्य हेतोः ।
तस्यापि चाङ्घ्र्योरधिगुल्फजङ्घा-
जानूरुमध्योरशिरोधरांसाः ॥ ५॥
अंसेऽधि दार्वी शिबिका च यस्यां
सौवीरराजेत्यपदेश आस्ते ।
यस्मिन् भवान् रूढनिजाभिमानो
राजास्मि सिन्धुष्विति दुर्मदान्धः ॥ ६॥
शोच्यानिमांस्त्वमधिकष्टदीनान्
विष्ट्या निगृह्णन् निरनुग्रहोऽसि ।
जनस्य गोप्तास्मि विकत्थमानो
न शोभसे वृद्धसभासु धृष्टः ॥ ७॥
यदा क्षितावेव चराचरस्य
विदाम निष्ठां प्रभवं च नित्यम् ।
तन्नामतोऽन्यद्व्यवहारमूलं
निरूप्यतां सत्क्रिययानुमेयम् ॥ ८॥
एवं निरुक्तं क्षितिशब्दवृत्त
मसन्निधानात्परमाणवो ये ।
अविद्यया मनसा कल्पितास्ते
येषां समूहेन कृतो विशेषः ॥ ९॥
एवं कृशं स्थूलमणुर्बृहद्यदसच्च
सज्जीवमजीवमन्यत् ।
द्रव्यस्वभावाशयकालकर्म-
नाम्नाजयावेहि कृतं द्वितीयम् ॥ १०॥
ज्ञानं विशुद्धं परमार्थमेक-
मनन्तरं त्वबहिर्ब्रह्म सत्यम् ।
प्रत्यक्प्रशान्तं भगवच्छब्दसंज्ञं
यद्वासुदेवं कवयो वदन्ति ॥ ११॥
रहूगणैतत्तपसा न याति
न चेज्यया निर्वपणाद्गृहाद्वा ।
न छन्दसा नैव जलाग्निसूर्यैर्विना
महत्पादरजोऽभिषेकम् ॥ १२॥
यत्रोत्तमश्लोकगुणानुवादः
प्रस्तूयते ग्राम्यकथाविघातः ।
निषेव्यमाणोऽनुदिनं मुमुक्षोर्मतिं
सतीं यच्छति वासुदेवे ॥ १३॥
अहं पुरा भरतो नाम राजा
विमुक्तदृष्टश्रुतसङ्गबन्धः ।
आराधनं भगवत ईहमानो
मृगोऽभवं मृगसङ्गाद्धतार्थः ॥ १४॥
सा मां स्मृतिर्मृगदेहेऽपि वीर
कृष्णार्चनप्रभवा नो जहाति ।
अथो अहं जनसङ्गादसङ्गो
विशङ्कमानोऽविवृतश्चरामि ॥ १५॥
तस्मान्नरोऽसङ्गसुसङ्गजात-
ज्ञानासिनेहैव विवृक्णमोहः ।
हरिं तदीहाकथनश्रुताभ्यां
लब्धस्मृतिर्यात्यतिपारमध्वनः ॥ १६॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे ब्राह्मणरहूगणसंवादे द्वादशोऽध्यायः ॥ १२॥
इति श्रीमद्भागवते महापुराणे परमहंसगीतायां तृतीयोऽध्यायः । ३
॥ त्रयोदशोऽध्यायः ॥
ब्राह्मण उवाच
दुरत्ययेऽध्वन्यजया निवेशितो
रजस्तमःसत्त्वविभक्तकर्मदृक् ।
स एष सार्थोऽर्थपरः परिभ्रमन्
भवाटवीं याति न शर्म विन्दति ॥ १॥
यस्यामिमे षण्नरदेव दस्यवः
सार्थं विलुम्पन्ति कुनायकं बलात् ।
गोमायवो यत्र हरन्ति सार्थिकं
प्रमत्तमाविश्य यथोरणं वृकाः ॥ २॥
प्रभूतवीरुत्तृणगुल्मगह्वरे
कठोरदंशैर्मशकैरुपद्रुतः ।
क्वचित्तु गन्धर्वपुरं प्रपश्यति
क्वचित्क्वचिच्चाशु रयोल्मुकग्रहम् ॥ ३॥
निवासतोयद्रविणात्मबुद्धि-
स्ततस्ततो धावति भो अटव्याम् ।
क्वचिच्च वात्योत्थितपांसुधूम्रा
दिशो न जानाति रजस्वलाक्षः ॥ ४॥
अदृश्यझिल्लीस्वनकर्णशूल
उलूकवाग्भिर्व्यथितान्तरात्मा ।
अपुण्यवृक्षान् श्रयते क्षुधार्दितो
मरीचितोयान्यभिधावति क्वचित् ॥ ५॥
क्वचिद्वितोयाः सरितोऽभियाति
परस्परं चालषते निरन्धः ।
आसाद्य दावं क्वचिदग्नितप्तो
निर्विद्यते क्व च यक्षैर्हृतासुः ॥ ६॥
शूरैर्हृतस्वः क्व च निर्विण्णचेताः
शोचन्विमुह्यन्नुपयाति कश्मलम् ।
क्वचिच्च गन्धर्वपुरं प्रविष्टः
प्रमोदते निर्वृतवन्मुहूर्तम् ॥ ७॥
चलन् क्वचित्कण्टकशर्कराङ्घ्रि-
र्नगारुरुक्षुर्विमना इवास्ते ।
पदे पदेऽभ्यन्तरवह्निनार्दितः
कौटुम्बिकः क्रुध्यति वै जनाय ॥ ८॥
क्वचिन्निगीर्णोऽजगराहिना जनो
नावैति किञ्चिद्विपिनेऽपविद्धः ।
दष्टः स्म शेते क्व च दन्दशूकै-
रन्धोऽन्धकूपे पतितस्तमिस्रे ॥ ९॥
कर्हि स्म चित्क्षुद्ररसान् विचिन्वं-
स्तन्मक्षिकाभिर्व्यथितो विमानः ।
तत्रातिकृच्छ्रात्प्रतिलब्धमानो
बलाद्विलुम्पन्त्यथ तं ततोऽन्ये ॥ १०॥
क्वचिच्च शीतातपवातवर्ष-
प्रतिक्रियां कर्तुमनीश आस्ते ।
क्वचिन्मिथो विपणन् यच्च किञ्चि-
द्विद्वेषमृच्छत्युत वित्तशाठ्यात् ॥ ११॥
क्वचित्क्वचित्क्षीणधनस्तु तस्मिन्
शय्यासनस्थानविहारहीनः ।
याचन् परादप्रतिलब्धकामः
पारक्यदृष्टिर्लभतेऽवमानम् ॥ १२॥
अन्योन्यवित्तव्यतिषङ्गवृद्ध-
वैरानुबन्धो विवहन् मिथश्च ।
अध्वन्यमुष्मिन्नुरुकृच्छ्रवित्त-
बाधोपसर्गैर्विहरन् विपन्नः ॥ १३॥
तांस्तान् विपन्नान् स हि तत्र तत्र
विहाय जातं परिगृह्य सार्थः ।
आवर्ततेऽद्यापि न कश्चिदत्र
वीराध्वनः पारमुपैति योगम् ॥ १४॥
मनस्विनो निर्जितदिग्गजेन्द्रा
ममेति सर्वे भुवि बद्धवैराः ।
मृधे शयीरन् न तु तद्व्रजन्ति
यन्न्यस्तदण्डो गतवैरोऽभियाति ॥ १५॥
प्रसज्जति क्वापि लता भुजाश्रय-
स्तदाश्रयाव्यक्तपदद्विजस्पृहः ।
क्वचित्कदाचिद्धरिचक्रतस्त्रसन्
सख्यं विधत्ते बककङ्कगृध्रैः ॥ १६॥
तैर्वञ्चितो हंसकुलं समाविश-
न्नरोचयन् शीलमुपैति वानरान् ।
तज्जातिरासेन सुनिर्वृतेन्द्रियः
परस्परोद्वीक्षणविस्मृतावधिः ॥ १७॥
द्रुमेषु रंस्यन् सुतदारवत्सलो
व्यवायदीनो विवशः स्वबन्धने ।
क्वचित्प्रमादाद्गिरिकन्दरे पतन्
वल्लीं गृहीत्वा गजभीत आस्थितः ॥ १८॥
अतः कथञ्चित्स विमुक्त आपदः
पुनश्च सार्थं प्रविशत्यरिन्दम ।
अध्वन्यमुष्मिन्नजया निवेशितो
भ्रमञ्जनोऽद्यापि न वेद कश्चन ॥ १९॥
रहूगण त्वमपि ह्यध्वनोऽस्य
सन्न्यस्तदण्डः कृतभूतमैत्रः ।
असज्जितात्मा हरिसेवया शितं
ज्ञानासिमादाय तरातिपारम् ॥ २०॥
राजोवाच
अहो नृजन्माखिलजन्मशोभनं
किं जन्मभिस्त्वपरैरप्यमुष्मिन् ।
न यद्धृषीकेशयशःकृतात्मनां
महात्मनां वः प्रचुरः समागमः ॥ २१॥
न ह्यद्भुतं त्वच्चरणाब्जरेणुभि-
र्हतांहसो भक्तिरधोक्षजेऽमला ।
मौहूर्तिकाद्यस्य समागमाच्च मे
दुस्तर्कमूलोऽपहतोऽविवेकः ॥ २२॥
नमो महद्भ्योऽस्तु नमः शिशुभ्यो
नमो युवभ्यो नम आवटुभ्यः ।
ये ब्राह्मणा गामवधूतलिङ्गा-
श्चरन्ति तेभ्यः शिवमस्तु राज्ञाम् ॥ २३॥
श्रीशुक उवाच
इत्येवमुत्तरामातः स वै ब्रह्मर्षिसुतः
सिन्धुपतय आत्मसतत्त्वं विगणयतः
परानुभावः परमकारुणिकतयोपदिश्य
रहूगणेन सकरुणमभिवन्दितचरण
आपूर्णार्णव इव निभृतकरणोर्म्याशयो
धरणिमिमां विचचार ॥ २४॥
सौवीरपतिरपि सुजनसमवगतपरमात्म-
सतत्त्व आत्मन्यविद्याध्यारोपितां च
देहात्ममतिं विससर्ज एवं हि नृप भगव-
दाश्रिताश्रितानुभावः ॥ २५॥
राजोवाच
यो ह वा इह बहुविदा महाभागवत
त्वयाभिहितः परोक्षेण वचसा जीवलोक-
भवाध्वा स ह्यार्य मनीषया कल्पितविषयो नाञ्जसाव्युत्पन्नलोकसमधिगमः अथ
तदेवैतद्दुरवगमं समवेतानुकल्पेन
निर्दिश्यतामिति ॥ २६॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे त्रयोदशोऽऽध्यायः ॥ १३॥
इति श्रीमद्भागवते महापुराणे परमहंसगीतायां चतुर्थोऽध्यायः । ४
॥ चतुर्दशोऽध्यायः ॥
स होवाच
य एष देहात्ममानिनां सत्त्वादिगुण-
विशेषविकल्पितकुशलाकुशलसमवहार-
विनिर्मितविविधदेहावलिभिर्वियोग-
संयोगादि अनादिसंसारानुभवस्य
द्वारभूतेन षडिन्द्रियवर्गेण तस्मिन्
दुर्गाध्ववदसुगमेऽध्वन्यापतित ईश्वरस्य
भगवतो विष्णोर्वशवर्तिन्या मायया
जीवलोकोऽयं यथा वणिक्सार्थोऽर्थपरः
स्वदेहनिष्पादितकर्मानुभवः श्मशानव-
दशिवतमायां संसाराटव्यां गतो नाद्यापि
विफलबहुप्रतियोगेहस्तत्तापोपशमनीं
हरिगुरुचरणारविन्दमधुकरानुपदवी-
मवरुन्धे ॥ १॥
यस्यामु ह वा एते षडिन्द्रियनामानः
कर्मणा दस्यव एव ते तद्यथा पुरुषस्य
धनं यत्किञ्चिद्धर्मौपयिकं बहु कृच्छ्राधिगतं साक्षात्परमपुरुषाराधनलक्षणो योऽसौ
धर्मस्तं तु साम्पराय उदाहरन्ति । तद्धर्म्यं
धनं दर्शनस्पर्शनश्रवणास्वादनावघ्राण-
सङ्कल्पव्यवसायगृहग्राम्योपभोगेन
कुनाथस्याजितात्मनो यथा सार्थस्य
विलुम्पन्ति ॥ २॥
अथ च यत्र कौटुम्बिका दारापत्यादयो
नाम्ना कर्मणा वृकसृगाला एवानिच्छतोऽपि
कदर्यस्य कुटुम्बिन उरणकवत्संरक्ष्यमाणं
मिषतोऽपि हरन्ति ॥ ३॥
यथा ह्यनुवत्सरं कृष्यमाणमप्यदग्धबीजं
क्षेत्रं पुनरेवावपनकाले गुल्मतृणवीरुद्भि-
र्गह्वरमिव भवत्येवमेव गृहाश्रमः कर्मक्षेत्रं
यस्मिन् न हि कर्माण्युत्सीदन्ति यदयं
कामकरण्ड एष आवसथः ॥ ४॥
तत्र गतो दंशमशकसमापसदैर्मनुजैः
शलभशकुन्ततस्करमूषकादिभिरुपरुध्य-
मानबहिःप्राणः क्वचित्परिवर्तमानो-
ऽस्मिन्नध्वन्यविद्याकामकर्मभिरुपरक्त-
मनसानुपपन्नार्थं नरलोकं गन्धर्वनगर-
मुपपन्नमिति मिथ्यादृष्टिरनुपश्यति ॥ ५॥
तत्र च क्वचिदातपोदकनिभान् विषया-
नुपधावति पानभोजनव्यवायादि
व्यसनलोलुपः ॥ ६॥
क्वचिच्चाशेषदोषनिषदनं पुरीषविशेषं
तद्वर्णगुणनिर्मितमतिः सुवर्णमुपादित्स-
त्यग्निकामकातर इवोल्मुकपिशाचम् ॥ ७॥
अथ कदाचिन्निवासपानीयद्रविणा-
द्यनेकात्मोपजीवनाभिनिवेश एतस्यां
संसाराटव्यामितस्ततः परिधावति ॥ ८॥
क्वचिच्च वात्यौपम्यया प्रमदयाऽऽरोह-
मारोपितस्तत्कालरजसा रजनीभूत
इवासाधुमर्यादो रजस्वलाक्षोऽपि
दिग्देवता अतिरजस्वलमतिर्न विजानाति ॥ ९॥
क्वचित्सकृदवगतविषयवैतथ्यः स्वयं
पराभिध्यानेन विभ्रंशितस्मृतिस्तयैव
मरीचितोयप्रायांस्तानेवाभिधावति ॥ १०॥
क्वचिदुलूकझिल्लीस्वनवदतिपरुषरभसाटोपं
प्रत्यक्षं परोक्षं वा रिपुराजकुलनिर्भर्त्सितेना-
तिव्यथितकर्णमूलहृदयः ॥ ११॥
स यदा दुग्धपूर्वसुकृतस्तदा कारस्कर-
काकतुण्डाद्यपुण्यद्रुमलताविषोदपानव-
दुभयार्थशून्यद्रविणान् जीवन्मृतान् स्वयं
जीवन् म्रियमाण उपधावति ॥ १२॥
एकदासत्प्रसङ्गान्निकृतमतिर्व्युदकस्रोतः
स्खलनवदुभयतोऽपि दुःखदं पाखण्ड-
मभियाति ॥ १३॥
यदा तु परबाधयान्ध आत्मने नोपनमति
तदा हि पितृपुत्रबर्हिष्मतः पितृपुत्रान् वा स खलु
भक्षयति ॥ १४॥
क्वचिदासाद्य गृहं दाववत्प्रियार्थविधुर-
मसुखोदर्कं शोकाग्निना दह्यमानो भृशं
निर्वेदमुपगच्छति ॥ १५॥
क्वचित्कालविषमितराजकुलरक्षसापहृत-
प्रियतमधनासुः प्रमृतक इव विगतजीव-
लक्षण आस्ते ॥ १६॥
कदाचिन्मनोरथोपगतपितृपितामहाद्यस-
त्सदिति स्वप्ननिर्वृतिलक्षणमनुभवति ॥ १७॥
क्वचिद्गृहाश्रमकर्मचोदनातिभरगिरि-
मारुरुक्षमाणो लोकव्यसनकर्षितमनाः
कण्टकशर्कराक्षेत्रं प्रविशन्निव सीदति ॥ १८॥
क्वचिच्च दुःसहेन कायाभ्यन्तरवह्निना
गृहीतसारः स्वकुटुम्बाय क्रुध्यति ॥ १९॥
स एव पुनर्निद्राजगरगृहीतोऽन्धे तमसि
मग्नः शून्यारण्य इव शेते नान्यत्किञ्चन
वेद शव इवापविद्धः ॥ २०॥
कदाचिद्भग्नमानदंष्ट्रो दुर्जनदन्दशूकै-
रलब्धनिद्राक्षणो व्यथितहृदयेनानु-
क्षीयमाणविज्ञानोऽन्धकूपेऽन्धवत्पतति ॥ २१॥
कर्हि स्म चित्काममधुलवान् विचिन्वन्
यदा परदारपरद्रव्याण्यवरुन्धानो राज्ञा
स्वामिभिर्वा निहतः पतत्यपारे निरये ॥ २२॥
अथ च तस्मादुभयथापि हि कर्मास्मि-
न्नात्मनः संसारावपनमुदाहरन्ति ॥ २३॥
मुक्तस्ततो यदि बन्धाद्देवदत्त उपाच्छिनत्ति
तस्मादपि विष्णुमित्र इत्यनवस्थितिः ॥ २४॥
क्वचिच्च शीतवाताद्यनेकाधिदैविक-
भौतिकात्मीयानां दशानां प्रतिनिवारणे-
ऽकल्पो दुरन्तचिन्तया विषण्ण आस्ते ॥ २५॥
क्वचिन्मिथो व्यवहरन् यत्किञ्चिद्धन-
मन्येभ्यो वा काकिणिकामात्रमप्यपहरन्
यत्किञ्चिद्वा विद्वेषमेति वित्तशाठ्यात् ॥ २६॥
अध्वन्यमुष्मिन्निम उपसर्गास्तथा
सुखदुःखरागद्वेषभयाभिमानप्रमादोन्माद-
शोकमोहलोभमात्सर्येर्ष्यावमानक्षुत्पिपासा-धिव्याधिजन्मजरामरणादयः ॥ २७॥
क्वापि देवमायया स्त्रिया भुजलतोपगूढः
प्रस्कन्नविवेकविज्ञानो यद्विहारगृहारम्भा-
कुलहृदयस्तदाश्रयावसक्तसुतदुहितृकलत्र-
भाषितावलोकविचेष्टितापहृतहृदय आत्मान-
मजितात्मापारेऽन्धे तमसि प्रहिणोति ॥ २८॥
कदाचिदीश्वरस्य भगवतो विष्णोश्चक्रा-
त्परमाण्वादि द्विपरार्धापवर्गकालोपलक्षणा-
त्परिवर्तितेन वयसा रंहसा हरत आब्रह्म-
तृणस्तम्बादीनां भूतानामनिमिषतो मिषतां
वित्रस्तहृदयस्तमेवेश्वरं कालचक्रनिजायुधं
साक्षाद्भगवन्तं यज्ञपुरुषमनादृत्य पाखण्ड-
देवताः कङ्कगृध्रबकवटप्राया आर्यसमय-
परिहृताः साङ्केत्येनाभिधत्ते ॥ २९॥
यदा पाखण्डिभिरात्मवञ्चितैस्तैरुरुवञ्चितो
ब्रह्मकुलं समावसंस्तेषां शीलमुपनयनादि
श्रौतस्मार्तकर्मानुष्ठानेन भगवतो यज्ञपुरुषस्या-
राधनमेव तदरोचयन् शूद्रकुलं भजते निगमा-
चारेऽशुद्धितो यस्य मिथुनीभावः कुटुम्बभरणं
यथा वानरजातेः ॥ ३०॥
तत्रापि निरवरोधः स्वैरेण विहरन्नतिकृपण-
बुद्धिरन्योन्यमुखनिरीक्षणादिना ग्राम्यकर्मणैव
विस्मृतकालावधिः ॥ ३१॥
क्वचिद्द्रुमवदैहिकार्थेषु गृहेषु रंस्यन् यथा
वानरः सुतदारवत्सलो व्यवायक्षणः ॥ ३२॥
एवमध्वन्यवरुन्धानो मृत्युगजभयात्तमसि
गिरिकन्दरप्राये ॥ ३३॥
क्वचिच्छीतवाताद्यनेकदैविकभौतिका-
त्मीयानां दुःखानां प्रतिनिवारणेऽकल्पो
दुरन्तविषयविषण्ण आस्ते ॥ ३४॥
क्वचिन्मिथो व्यवहरन् यत्किञ्चिद्धन-
मुपयाति वित्तशाठ्येन ॥ ३५॥
क्वचित्क्षीणधनः शय्यासनाशनाद्युपभोग-
विहीनो यावदप्रतिलब्धमनोरथोपगतादाने-
ऽवसितमतिस्ततस्ततोऽवमानादीनि
जनादभिलभते ॥ ३६॥
एवं वित्तव्यतिषङ्गविवृद्धवैरानुबन्धोऽपि
पूर्ववासनया मिथ उद्वहत्यथापवहति ॥ ३७॥
एतस्मिन् संसाराध्वनि नानाक्लेशोपसर्ग-
बाधित आपन्नविपन्नो यत्र यस्तमु ह
वावेतरस्तत्र विसृज्य जातं जातमुपादाय
शोचन्मुह्यन्बिभ्यद्विवदन् क्रन्दन्संहृष्यन्
गायन्नह्यमानः साधुवर्जितो नैवावर्तते-
ऽद्यापि यत आरब्ध एष नरलोकसार्थो
यमध्वनः पारमुपदिशन्ति ॥ ३८॥
यदिदं योगानुशासनं न वा एतदवरुन्धते
यन्न्यस्तदण्डा मुनय उपशमशीला
उपरतात्मानः समवगच्छन्ति ॥ ३९॥
यदपि दिगिभजयिनो यज्विनो ये वै राजर्षयः
किं तु परं मृधे शयीरन्नस्यामेव ममेयमिति
कृतवैरानुबन्धायां विसृज्य स्वयमुपसंहृताः ॥ ४०॥
कर्मवल्लीमवलम्ब्य तत आपदः कथञ्चि-
न्नरकाद्विमुक्तः पुनरप्येवं संसाराध्वनि वर्तमानो
नरलोकसार्थमुपयाति एवमुपरिगतोऽपि ॥ ४१॥
तस्येदमुपगायन्ति -
आर्षभस्येह राजर्षेर्मनसापि महात्मनः ।
नानुवर्त्मार्हति नृपो मक्षिकेव गरुत्मतः ॥ ४२॥
यो दुस्त्यजान् दारसुतान् सुहृद्राज्यं हृदिस्पृशः ।
जहौ युवैव मलवदुत्तमश्लोकलालसः ॥ ४३॥
यो दुस्त्यजान् क्षितिसुतस्वजनार्थदारान्
प्रार्थ्यां श्रियं सुरवरैः सदयावलोकाम् ।
नैच्छन्नृपस्तदुचितं महतां मधुद्विट्
सेवानुरक्तमनसामभवोऽपि फल्गुः ॥ ४४॥
यज्ञाय धर्मपतये विधिनैपुणाय
योगाय साङ्ख्यशिरसे प्रकृतीश्वराय ।
नारायणाय हरये नम इत्युदारं
हास्यन् मृगत्वमपि यः समुदाजहार ॥ ४५॥
य इदं भागवतसभाजितावदातगुणकर्मणो
राजर्षेर्भरतस्यानुचरितं स्वस्त्ययनमायुष्यं
धन्यं यशस्यं स्वर्ग्यापवर्ग्यं वानुशृणो-
त्याख्यास्यत्यभिनन्दति च सर्वा एवाशिष
आत्मन आशास्ते न काञ्चन परत इति ॥ ४६॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे भरतोपाख्याने पारोक्ष्यविवरणं नाम
चतुर्दशोऽध्यायः ॥ १४॥
इति श्रीमद्भागवते महापुराणे परमहंसगीतायां पञ्चमोऽअध्यायः । ५
॥ पराशरगीता ॥
अध्याय २७९
य्
अतः परं महाबाहो यच्छ्रेयस्तद्वदस्व मे ।
न तृप्याम्यमृतस्येव वससस्ते पितामह ॥ १॥
किं कर्म पुरुषः कृत्वा शुभं पुरुषसत्तम ।
श्रेयः परमवाप्नोति प्रेत्य चेह च तद्वद ॥ २॥
भीष्मोवाच
अत्र ते वर्तयिष्यामि यथापूर्वं महायशः ।
पराशरं महात्मानं पप्रच्छ जनको नृपः ॥ ३॥
किं श्रेयः सर्वभूतानामस्मिँल्लोके परत्र च ।
यद्भवेत्प्रतिपत्तव्यं तद्भवान्प्रब्रवीतु मे ॥ ४॥
ततः स तपसा युक्तः सर्वधर्माविधानवित् ।
नृपायानुग्रह मना मुनिर्वाक्यमथाब्रवीत् ॥ ५॥
धर्म एव कृतः श्रेयानिह लोके परत्र च ।
तस्माद्धि परमं नास्ति यथा प्राहुर्मनीषिणः ॥ ६॥
प्रतिपद्य नरो धर्मं स्वर्गलोके महीयते ।
धर्मात्मकः कर्म विधिर्देहिनां नृपसत्तम ।
तस्मिन्नाश्रमिणः सन्तः स्वकर्माणीह कुर्वते ॥ ७॥
चतुर्विधा हि लोकस्य यात्रा तात विधीयते ।
मर्त्या यत्रावतिष्ठन्ते सा च कामात्प्रवर्तते ॥ ८॥
सुकृतासुकृतं कर्म निषेव्य विविधैः क्रमैः ।
दशार्ध प्रविभक्तानां भूतानां बहुधा गतिः ॥ ९॥
सौवर्णं राजतं वापि यथा भान्दं निषिच्यते ।
तथा निषिच्यते जन्तुः पूर्वकर्म वशानुगः ॥ १०॥
नाबीजाज्जायते किं चिन्नाकृत्वा सुखमेधते ।
सुकृती विन्दति सुखं प्राप्य देहक्षयं नरः ॥ ११॥
दैवं तात न पश्यामि नास्ति दैवस्य साधनम् ।
स्वभावतो हि संसिद्धा देवगन्धर्वदानवाः ॥ १२॥
प्रेत्य जातिकृतं कर्म न स्मरन्ति सदा जनाः ।
ते वै तस्य फलप्राप्तौ कर्म चापि चतुर्विधम् ॥ १३॥
लोकयात्राश्रयश्चैव शब्दो वेदाश्रयः कृतः ।
शान्त्यर्थं मनसस्तात नैतद्वृद्धानुशासनम् ॥ १४॥
चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् ।
कुरुते यादृशं कर्म तादृशं प्रतिपद्यते ॥ १५॥
निरन्तरं च मिश्रं च फलते कर्म पार्थिव ।
कल्यानं यदि वा पापं न तु नाशोऽस्य विद्यते ॥ १६॥
कदा चित्सुकृतं तात कूतस्थमिव तिष्ठति ।
मज्जमानस्य संसारे यावद्दुःखाद्विमुच्यते ॥ १७॥
ततो दुःखक्षयं कृत्वा सुकृतं कर्म सेवते ।
सुकृतक्षयाद्दुष्कृतं च तद्विद्धि मनुजाधिप ॥ १८॥
दमः क्षमा धृतिस्तेजः सन्तोषः सत्यवादिता ।
ह्रीरहिंसाव्यसनिता दाक्ष्यं चेति सुखावहाः ॥ १९॥
दुष्कृते सुकृते वापि न जन्तुरयतो भवेत् ।
नित्यं मनः समाधाने प्रयतेत विचक्षणः ॥ २०॥
नायं परस्य सुकृतं दुष्कृतं वापि सेवते ।
करोति यादृशं कर्म तादृशं प्रतिपद्यते ॥ २१॥
सुखदुःखे समाधाय पुमानन्येन गच्छति ।
अन्येनैव जनः सर्वः सङ्गतो यश्च पार्थिव ॥ २२॥
परेषां यदसूयेत न तत्कुर्यात्स्वयं नरः ।
यो ह्यसूयुस्तथायुक्तः सोऽवहासं नियच्छति ॥ २३॥
भीरू राजन्यो ब्राह्मणः सर्वभक्षो
वैश्योऽनीहावान्हीनवर्णोऽलसश् च ।
विद्वांश्चाशीलो वृत्तहीनः कुलीनः
सत्याद्भ्रष्टो ब्राह्मणः स्त्री च दुष्टा ॥ २४॥
रागी मुक्तः पचमानोऽऽत्महेतोर्
मूर्खो वक्ता नृप हीनं च रास्त्रम् ।
एते सर्वे शोच्यतां यान्ति राजन्
यश्चायुक्तः स्नेहहीनः प्रजासु ॥ २५॥
अध्याय २८०
पराशरोवाच
मनोरथरथं प्राप्य इन्द्रियार्थ हयं नरः ।
रश्मिभिर्ज्ञानसम्भूतैर्यो गच्छति स बुद्धिमान् ॥ १॥
सेवाश्रितेन मनसा वृत्ति हीनस्य शस्यते ।
द्विजातिहस्तान्निर्वृत्ता न तु तुल्यात्परस्परम् ॥ २॥
आयुर्नसुलभं लब्ध्वा नावकर्षेद्विशां पते ।
उत्कर्षार्थं प्रयतते नरः पुण्येन कर्मणा ॥ ३॥
वर्णेभ्योऽपि परिभ्रष्टः स वै संमानमर्हति ।
न तु यः सत्क्रियां प्राप्य राजसं कर्म सेवते ॥ ४॥
वर्णोत्कर्षमवाप्नोति नरः पुण्येन कर्मणा ।
दुर्लभं तमलब्धा हि हन्यात्पापेन कर्मणा ॥ ५॥
अज्ञानाद्धि कृतं पापं तपसैवाभिनिर्नुदेत् ।
पापं हि कर्मफलति पापमेव स्वयं कृतम् ।
तस्मात्पापं न सेवेत कर्म दुःखफलोदयम् ॥ ६॥
पापानुबन्धं यत्कर्म यद्यपि स्यान्महाफलम् ।
न तत्सेवेत मेधावी शुचिः कुसलिलं यथा ॥ ७॥
किं कस्तमनुपश्यामि फलं पापस्य कर्मणः ।
प्रत्यापन्नस्य हि सतो नात्मा तावद्विरोचते ॥ ८॥
प्रत्यापत्तिश्च यस्येह बालिशस्य न जायते ।
तस्यापि सुमहांस्तापः प्रस्थितस्योपजायते ॥ ९॥
विरक्तं शोध्यते वस्त्रं न तु कृष्णोपसंहितम् ।
प्रयत्नेन मनुष्येन्द्र पापमेवं निबोध मे ॥ १०॥
स्वयं कृत्वा तु यः पापं शुभमेवानुतिष्ठति ।
प्रायश्चित्तं नरः कर्तुमुभयं सोऽश्नुते पृथक् ॥ ११॥
अजानात्तु कृतां हिंसामहिंसा व्यपकर्षति ।
ब्राह्मणाः शास्त्रनिर्देशादित्याहुर्ब्रह्मवादिनः ॥ १२॥
कथा कामकृतं चास्य विहिंसैवापकर्षति ।
इत्याहुर्धर्मशास्त्रज्ञा ब्राह्मणा वेदपारगाः ॥ १३॥
अहं तु तावत्पश्यामि कर्म यद्वर्तते कृतम् ।
गुणयुक्तं प्रकाशं च पापेनानुपसंहितम् ॥ १४॥
यथा सूक्ष्माणि कर्माणि फलन्तीह यथातथम् ।
बुद्धियुक्तानि तानीह कृतानि मनसा सह ॥ १५॥
भवत्यल्पफलं कर्म सेवितं नित्यमुल्बनम् ।
अबुद्धिपूर्वं धर्मज्ञ कृतमुग्रेण कर्मणा ॥ १६॥
कृतानि यानि कर्माणि दैवतैर्मुनिभिस्तथा ।
नाचरेत्तानि धर्मात्मा श्रुत्वा चापि न कुत्सयेत् ॥ १७॥
सञ्चिन्त्य मनसा राजन्विदित्वा शक्तिमात्मनः ।
करोति यः शुभं कर्म स वै भद्राणि पश्यति ॥ १८॥
नवे कपाले सलिलं संन्यस्तं हीयते यथा ।
नवेतरे तथा भावं प्राप्नोति सुखभावितम् ॥ १९॥
सतोयेऽन्यत्तु यत्तोयं तस्मिन्नेव प्रसिच्यते ।
वृद्धे वृद्धिमवाप्नोति सलिले सलिलं यथा ॥ २०॥
एवं कर्माणि यानीह बुद्धियुक्तानि भूपते ।
नसमानीह हीनानि तानि पुण्यतमान्यपि ॥ २१॥
राज्ञा जेतव्याः सायुधाश्चोन्नताश् च
सम्यक्कर्तव्यं पालनं च प्रजानाम् ।
अग्निश्चेयो बहुभिश्चापि यज्ञैर्
अन्ते मध्ये वा वनमाश्रित्य स्थेयम् ॥ २२॥
दमान्वितः पुरुषो धर्मशीलो
भूतानि चात्मानमिवानुपश्येत् ।
गरीयसः पूजयेदात्मशक्त्या
सत्येन शीलेन सुखं नरेन्द्र ॥ २३॥
अध्याय २८१
पराशरोवाच
कः कस्य चोपकुरुते कश् च कस्मै प्रयच्छति ।
प्रानी करोत्ययं कर्म सर्वमात्मार्थमात्मना ॥ १॥
गौरवेण परित्यक्तं निःस्नेहं परिवर्जयेत् ।
सोदर्यं भ्रातरमपि किमुतान्यं पृथग्जनम् ॥ २॥
विशिष्टस्य विशिष्टाच्च तुल्यौ दानप्रतिग्रहौ ।
तयोः पुण्यतरं दानं तद्द्विजस्य प्रयच्छतः ॥ ३॥
न्यायागतं धनं वर्णैर्न्यायेनैव विवर्धितम् ।
संरक्ष्यं यत्नमास्थाय धर्मार्थमिति निश्चयः ॥ ४॥
न धर्मार्थी नृशंसेन कर्मणा धनमर्जयेत् ।
शक्तितः सर्वकार्याणि कुर्यान्नर्द्धिमनुस्मरेत् ॥ ५॥
अपो हि प्रयतः शीतास्तापिता ज्वलनेन वा ।
शक्तितोऽतिथये दत्त्वा क्षुधार्तायाश्नुते फलम् ॥ ६॥
रन्तिदेवेन लोकेष्टा सिद्धिः प्राप्ता महात्मना ।
फलपत्रैरथो मूलैर्मुनीनर्चितवानसौ ॥ ७॥
तैरेव फलपत्रैश्च स माथरमतोषयत् ।
तस्माल्लेभे परं स्थानं शैब्योऽपि पृथिवीपतिः ॥ ८॥
देवतातिथिभृत्येभ्यः पितृभ्योऽथात्मनस्तथा ।
ऋणवाञ्जायते मर्त्यस्तस्मादनृणतां व्रजेत् ॥ ९॥
स्वाध्यायेन महर्षिभ्यो देवेभ्यो यज्ञकर्मणा ।
पितृभ्यः श्राद्धदानेन नृणाम् अभ्यर्चनेन च ॥ १०॥
वाचः शेषावहार्येण पालनेनात्मनोऽपि च ।
यथावद्धृत्य वर्गस्य चिकीर्षेद्धर्ममादितः ॥ ११॥
प्रयत्नेन च संसिद्धा धनैरपि विवर्जिताः ।
सम्यग्घुत्वा हुतवहं मुनयः सिद्धिमागताः ॥ १२॥
विश्वामित्रस्य पुत्रत्वमृचीक तनयोऽगमत् ।
ऋग्भिः स्तुत्वा महाभागो देवान्वै यज्ञभागिनः ॥ १३॥
गतः शुक्रत्वमुशना देवदेव प्रसादनात् ।
देवीं स्तुत्वा तु गगने मोदते तेजसा वृतः ॥ १४॥
असितो देवलश्चैव तथा नारद पर्तवौ ।
कक्षीवाञ्जामदग्न्यश्च रामस्तान्द्यस्तथांशुमान् ॥ १५॥
वसिष्ठो जमदग्निश्च विश्वामित्रोऽत्रिरेव च ।
भरद्वाजो हरिश्मश्रुः कुन्दधारः श्रुतश्रवाः ॥ १६॥
एते महर्षयः स्तुत्वा विष्णुमृग्भिः समाहिताः ।
लेभिरे तपसा सिद्धिं प्रसादात्तस्य धीमतः ॥ १७॥
अनर्हाश्चार्हतां प्राप्ताः सन्तः स्तुत्वा तमेव ह ।
न तु वृद्धिमिहान्विच्छेत्कर्मकृत्वा जुगुप्सितम् ॥ १८॥
येऽर्था धर्मेण ते सत्या येऽधर्मेण धिगस्तु तान् ।
धर्मं वै शाश्वतं लोके न जह्याद्धनकाङ्क्षया ॥ १९॥
आहिताग्निर्हि धर्मात्मा यः स पुण्यकृदुत्तमः ।
वेदा हि सर्वे राजेन्द्र स्थितास्त्रिष्वग्निषु प्रभो ॥ २०॥
स चाप्यग्न्याहितो विप्रः क्रिया यस्य न हीयते ।
श्रेयो ह्यनाहिताग्नित्वमग्निहोत्रं न निष्क्रियम् ॥ २१॥
अग्निरात्मा च माता च पिता जनयिता तथा ।
गुरुश्च नरशार्दूल परिचर्या यथातथम् ॥ २२॥
मानं त्यक्त्वा यो नरो वृद्धसेवी
विद्वान्क्लीबः पश्यति प्रीतियोगात् ।
दाक्ष्येणाहीनो धर्मयुक्तो नदान्तो
लोकेऽस्मिन्वै पूज्यते सद्भिरार्यः ॥ २३॥
अध्याय २८२
पराशरोवाच
वृत्तिः सकाशाद्वर्णेभ्यस्त्रिभ्यो हीनस्य शोभना ।
प्रीत्योपनीता निर्दिष्टा धर्मिष्ठान्कुरुते सदा ॥ १॥
वृत्तिश्चेन्नास्ति शूद्रस्य पितृपैतामही ध्रुवा ।
न वृत्तिं परतो मार्गेच्छुश्रूसां तु प्रयोजयेत् ॥ २॥
सद्भिस्तु सह संसर्गः शोभते धर्मदर्शिभिः ।
नित्यं सर्वास्ववस्थासु नासद्भिरिति मे मतिः ॥ ३॥
यथोदय गिरौ द्रव्यं संनिकर्षेण दीप्यते ।
तथा सत्संनिकर्षेण हीनवर्णोऽपि दीप्यते ॥ ४॥
यादृशेन हि वर्णेन भाव्यते शुक्लमम्बरम् ।
तादृशं कुरुते रूपमेतदेवमवैहि मे ॥ ५॥
तस्माद्गुणेषु रज्येथा मा दोषेषु कदा चन ।
अनित्यमिह मर्त्यानां जीवितं हि चलाचलम् ॥ ६॥
सुखे वा यदि वा दुःखे वर्तमानो विचक्षणः ।
यश्चिनोति शुभान्येव स भद्राणीह पश्यति ॥ ७॥
धर्मादपेतं यत्कर्म यद्यपि स्यान्महाफलम् ।
न तत्सेवेत मेधावी न तद्धितमिहोच्यते ॥ ८॥
यो हृत्वा गोसहस्राणि नृपो दद्यादरक्षिता ।
स शब्दमात्रफलभाग्राजा भवति तस्करः ॥ ९॥
स्वयम्भूरसृजच्चाग्रे धातारं लोकपूजितम् ।
धातासृजत्पुत्रमेकं प्रजानां धारणे रतम् ॥ १०॥
तमर्चयित्वा वैश्यस्तु कुर्यादत्यर्थमृद्धिमत् ।
रक्षितव्यं तु राजन्यैरुपयोज्यं द्विजातिभिः ॥ ११॥
अजिह्मैरशथ क्रोधैर्हव्यकव्य प्रयोक्तृभिः ।
शूद्रैर्निर्मार्जनं कार्यमेवं धर्मो न नश्यति ॥ १२॥
अप्रनस्ते ततो धर्मे भवन्ति सुखिताः प्रजाः ।
सुखेन तासां राजेन्द्र मोदन्ते दिवि देवताः ॥ १३॥
तस्माद्यो रक्षति नृपः स धर्मेणाभिपूज्यते ।
अधीते चापि यो विप्रो वैश्यो यश्चार्जने रतः ॥ १४॥
यश्च शुश्रूसते शूद्रः सततं नियतेन्द्रियः ।
अतोऽन्यथा मनुष्येन्द्र स्वधर्मात्परिहीयते ॥ १५॥
प्राण सन्तापनिर्दिष्टाः काकिन्योऽपि महाफलाः ।
न्यायेनोपार्जिता दत्ताः किमुतान्याः सहस्रशः ॥ १६॥
सत्कृत्य तु द्विजातिभ्यो यो ददाति नराधिप ।
यादृशं तादृशं नित्यमश्नाति फलमूर्जितम् ॥ १७॥
अभिगम्य दत्तं तुष्ट्या यद्धन्यमाहुरभिष्टुतम् ।
याचितेन तु यद्दत्तं तदाहुर्मध्यमं बुधाः ॥ १८॥
अवज्ञया दीयते यत्तथैवाश्रद्धयापि च ।
तदाहुरधमं दानं मुनयः सत्यवादिनः ॥ १९॥
अतिक्रमे मज्जमानो विविधेन नरः सदा ।
तथा प्रयत्नं कुर्वीत यथा मुच्येत संशयात् ॥ २०॥
दमेन शोभते विप्रः क्षत्रियो विजयेन तु ।
धनेन वैश्यः शूद्रस्तु नित्यं दाक्ष्येण शोभते ॥ २१॥
अध्याय २८३
पराशरोवाच
प्रतिग्रहागता विप्रे क्षत्रिये शस्त्रनिर्जिताः ।
वैश्ये न्यायार्जिताश्चैव शूद्रे शुश्रूसयार्जिताः ।
स्वलाप्यर्थाः प्रशस्यन्ते धर्मस्यार्थे महाफलाः ॥ १॥
नित्यं त्रयाणां वर्णानां शूद्रः शुश्रूसुरुच्यते ।
क्षत्रधर्मा वैश्य धर्मा नावृत्तिः पतति द्विजः ।
शूद्र कर्मा यदा तु स्यात्तदा पतति वै द्विजः ॥ २॥
वानिज्यं पाशुपाल्यं च तथा शिल्पोपजीवनम् ।
शूद्रस्यापि विधीयन्ते यदा वृत्तिर्न जायते ॥ ३॥
रङ्गावतरणं चैव तथारूपोपजीवनम् ।
मद्य मांसोपजीव्यं च विक्रयो लोहचर्मणोः ॥ ४॥
अपूर्विणा न कर्तव्यं कर्म लोके विगर्हितम् ।
कृतपूर्विणस्तु त्यजतो महान्धर्म इति श्रुतिः ॥ ५॥
संसिद्धिः पुरुषो लोके यदाचरति पापकम् ।
मदेनाभिप्लुत मनास्तच्च न ग्राह्यमुच्यते ॥ ६॥
श्रूयन्ते हि पुराणे वै प्रजा धिग्दन्द शासनाः ।
दान्ता धर्मप्रधानाश्च न्यायधर्मानुवर्तकाः ॥ ७॥
धर्म एव सदा नॄणामिह राजन्प्रशस्यते ।
धर्मवृद्धा गुणानेव सेवन्ते हि नरा भुवि ॥ ८॥
तं धर्ममसुरास्तात नामृष्यन्त जनाधिप ।
विवर्धमानाः क्रमशस्तत्र तेऽन्वाविशन्प्रजाः ॥ ९॥
तेषां दर्पः समभवत्प्रजानां धर्मनाशनः ।
दर्पात्मनां ततः क्रोधः पुनस्तेषामजायत ॥ १०॥
ततः क्रोधाभिभूतानां वृत्तं लज्जा समन्वितम् ।
ह्रीश्चैवाप्यनशद्राजंस्ततो मोहो व्यजायत ॥ ११॥
ततो मोहपरीतास्ते नापश्यन्त यथा पुरा ।
परस्परावमर्देन वर्तयन्ति यथासुखम् ॥ १२॥
तान्प्राप्य तु स धिग्दण्डो न कारणमतोऽभवत् ।
ततोऽभ्यगच्छन्देवांश्च ब्राह्मणांश्चावमन्य ह ॥ १३॥
एतस्मिन्नेव काले तु देवा देववरं शिवम् ।
अगच्छञ्शरणं वीरं बहुरूपं गणाधिपम् ॥ १४॥
तेन स्म ते गगनगाः सपुराः पातिताः क्षितौ ।
तिस्रोऽप्येकेन बानेन देवाप्यायित तेजसा ॥ १५॥
तेषामधिपतिस्त्वासीद्भीमो भीमपराक्रमः ।
देवतानां भयकरः स हतः शूलपाणिना ॥ १६॥
तस्मिन्हतेऽथ स्वं भावं प्रत्यपद्यन्त मानवाः ।
प्रावर्तन्त च वेदा वै शास्त्राणि च यथा पुरा ॥ १७॥
ततोऽभ्यसिञ्चन्राज्येन देवानां दिवि वासवम् ।
सप्तर्षयश्चान्वयुञ्जन्नराणां दन्द धारणे ॥ १८॥
सप्तर्षीणामथोर्ध्वं च विपृथुर्नाम पार्थिवः ।
राजानः क्षत्रियाश्चैव मन्दलेषु पृथक्पृथक् ॥ १९॥
महाकुलेषु ये जाता वृत्ताः पूर्वतराश् च ये ।
तेषामथासुरो भावो हृदयान्नापसर्पति ॥ २०॥
तस्मात्तेनैव भावेन सानुषङ्गेन पार्थिवाः ।
आसुराण्येव कर्माणि न्यसेवन्भीमविक्रमाः ॥ २१॥
प्रत्यतिष्ठंश्च तेष्वेव तान्येव स्थापयन्ति च ।
भजन्ते तानि चाद्यापि ये बालिशतमा नराः ॥ २२॥
तस्मादहं ब्रवीमि त्वां राजन्सञ्चिन्त्य शास्त्रतः ।
संसिद्धाधिगमं कुर्यात्कर्म हिंसात्मकं त्यजेत् ॥ २३॥
न सङ्करेण द्रविणं विचिन्वीत विचक्षणः ।
धर्मार्थं न्यायमुत्सृज्य न तत्कल्यानमुच्यते ॥ २४॥
स त्वमेवंविधो दान्तः क्षत्रियः प्रियबान्धवः ।
प्रजा भृत्यांश्च पुत्रांश्च स्वधर्मेणानुपालय ॥ २५॥
इष्टानिष्ट समायोगो वैरं सौहार्दमेव च ।
अथ जातिसहस्राणि बहूनि परिवर्तते ॥ २६॥
तस्माद्गुणेषु रज्येथा मा दोषेषु कदा चन ।
निर्गुणो यो हि दुर्बुद्धिरात्मनः सोऽरिरुच्यते ॥ २७॥
मानुषेषु महाराज धर्माधर्मौ प्रवर्ततः ।
न तथान्येषु भूतेषु मनुष्यरहितेष्विह ॥ २८॥
धर्मशीलो नरो विद्वानीहकोऽनीहकोऽपि वा ।
आत्मभूतः सदा लोके चरेद्भूतान्यहिंसयन् ॥ २९॥
यदा व्यपेतद्धृल्लेखं मनो भवति तस्य वै ।
नानृतं चैव भवति तदा कल्यानमृच्छति ॥ ३०॥
अध्याय २८४
पराशरोवाच
एष धर्मविधिस्तात गृहस्थस्य प्रकीर्तितः ।
तपस्विधिं तु वक्ष्यामि तन्मे निगदतः शृणु ॥ १॥
प्रायेन हि गृहस्थस्य ममत्वं नाम जायते ।
सङ्गागतं नरश्रेष्ठ भावैस्तामसराजसैः ॥ २॥
गृहाण्याश्रित्य गावश्च क्षेत्राणि च धनानि च ।
दाराः पुत्राश्च भृत्याश्च भवन्तीह नरस्य वै ॥ ३॥
एवं तस्य प्रवृत्तस्य नित्यमेवानुपश्यतः ।
रागद्वेषौ विवर्धेते ह्यनित्यत्वमपश्यतः ॥ ४॥
रागद्वेषाभिभूतं च नरं द्रव्यवशानुगम् ।
मोहजाता रतिर्नाम समुपैति नराधिप ॥ ५॥
कृतार्थो भोगतो भूत्वा स वै रतिपरायनः ।
लाभं ग्राम्यसुखादन्यं रतितो नानुपश्यति ॥ ६॥
ततो लोभाभिभूतात्मा सङ्गाद्वर्धयते जनम् ।
पुष्ट्यर्थं चैव तस्येह जनस्यार्थं चिकीर्षति ॥ ७॥
स जानन्नपि चाकार्यमर्थार्थं सेवते नरः ।
बाल स्नेहपरीतात्मा तत्क्षयाच्चानुतप्यते ॥ ८॥
ततो मानेन सम्पन्नो रक्षन्नात्मपराजयम् ।
करोति येन भोगी स्यामिति तस्माद्विनश्यति ॥ ९॥
तपो हि बुद्धियुक्तानां शाश्वतं ब्रह्म दर्शनम् ।
अन्विच्छतां शुभं कर्म नराणां त्यजतां सुखम् ॥ १०॥
स्नेहायतन नाशाच्च धननाशाच्च पार्थिव ।
आधिव्याधि प्रतापाच्च निर्वेदमुपगच्छति ॥ ११॥
निर्वेदादात्मसम्बोधः सम्बोधाच्छास्त्र दर्शनम् ।
शास्त्रार्थदर्शनाद्राजंस्तप एवानुपश्यति ॥ १२॥
दुर्लभो हि मनुष्येन्द्र नरः प्रत्यवमर्शवान् ।
यो वै प्रिय सुखे क्षीणे तपः कर्तुं व्यवस्यति ॥ १३॥
तपः सर्वगतं तात हीनस्यापि विधीयते ।
जितेन्द्रियस्य दान्तस्य स्वर्गमार्गप्रदेशकम् ॥ १४॥
प्रजापतिः प्रजाः पूर्वमसृजत्तपसा विभुः ।
क्व चित्क्व चिद्व्रतपरो व्रतान्यास्थाय पार्थिव ॥ १५॥
आदित्या वसवो रुद्रास्तथैवाग्न्यश्विमारुताः ।
विश्वेदेवास्तथा साध्याः पितरोऽथ मरुद्गणाः ॥ १६॥
यक्षराक्षस गन्धर्वाः सिद्धाश्चान्ये दिवौकसः ।
संसिद्धास्तपसा तात ये चान्ये स्वर्गवासिनः ॥ १७॥
ये चादौ ब्रह्मणा सृष्टा ब्राह्मणास्तपसा पुरा ।
ते भावयन्तः पृथिवीं विचरन्ति दिवं तथा ॥ १८॥
मर्त्यलोके च राजानो ये चान्ये गृहमेधिनः ।
महाकुलेषु दृश्यन्ते तत्सर्वं तपसः फलम् ॥ १९॥
कौशिकानि च वस्त्राणि शुभान्याभरणानि च ।
वाहनासन यानानि सर्वं तत्तपसः फलम् ॥ २०॥
मनोऽनुकूलाः प्रमदा रूपवत्यः सहस्रशः ।
वासः प्रासादपृष्ठे च तत्सर्वं तपसः फलम् ॥ २१॥
शयनानि च मुख्यानि भोज्यानि विविधानि च ।
अभिप्रेतानि सर्वाणि भवन्ति कृतकर्मणाम् ॥ २२॥
नाप्राप्यं तपसा किं चित्त्रैलोक्येऽस्मिन्परन्तप ।
उपभोग परित्यागः फलान्यकृतकर्मणाम् ॥ २३॥
सुखितो दुःखितो वापि नरो लोभं परित्यजेत् ।
अवेक्ष्य मनसा शास्त्रं बुद्ध्या च नृपसत्तम ॥ २४॥
असन्तोषोऽसुखायैव लोभादिन्द्रियविभ्रमः ।
ततोऽस्य नश्यति प्रज्ञा विद्येवाभ्यास वर्जिता ॥ २५॥
नष्ट प्रज्ञो यदा भवति तदा न्यायं न पश्यति ।
तस्मात्सुखक्षये प्राप्ते पुमानुग्रं तपश् चरेत् ॥ २६॥
यदिष्टं तत्सुखं प्राहुर्द्वेष्यं दुःखमिहोच्यते ।
कृताकृतस्य तपसः फलं पश्यस्व यादृशम् ॥ २७॥
नित्यं भद्राणि पश्यन्ति विषयांश्चोपभुञ्जते ।
प्राकाश्यं चैव गच्छन्ति कृत्वा निष्कल्मषं तपः ॥ २८॥
अप्रियाण्यवमानांश्च दुःखं बहुविधात्मकम् ।
फलार्थी तत्पथत्यक्तः प्राप्नोति विषयात्मकम् ॥ २९॥
धर्मे तपसि दाने च विचिकित्सास्य जायते ।
स कृत्वा पापकान्येव निरयं प्रतिपद्यते ॥ ३०॥
सुखे तु वर्तमानो वै दुःखे वापि नरोत्तम ।
स्ववृत्ताद्यो न चलति शास्त्रचक्षुः स मानवः ॥ ३१॥
इषुप्रपात मात्रं हि स्पर्शयोगे रतिः स्मृता ।
रसने दर्शने घ्राणे श्रवणे च विशां पते ॥ ३२॥
ततोऽस्य जायते तीव्रा वेदना तत्क्षयात्पुनः ।
बुधा येन प्रशंसन्ति मोक्षं सुखमनुत्तमम् ॥ ३३॥
ततः फलार्थं चरति भवन्ति ज्यायसो गुणाः ।
धर्मवृत्त्या च सततं कामार्थाभ्यां न हीयते ॥ ३४॥
अप्रयत्नागताः सेव्या गृहस्थैर्विषयाः सदा ।
प्रयत्नेनोपगम्यश्च स्वधर्म इति मे मतिः ॥ ३५॥
मानिनां कुलजातानां नित्यं शास्त्रार्थचक्षुषाम् ।
धर्मक्रिया वियुक्तानामशक्त्या संवृतात्मनाम् ॥ ३६॥
क्रियमाणं यदा कर्म नाशं गच्छति मानुषम् ।
तेषां नान्यदृते लोके तपसः कर्म विद्यते ॥ ३७॥
सर्वात्मना तु कुर्वीत गृहस्थः कर्म निश्चयम् ।
दाक्ष्येण हव्यकव्यार्थं स्वधर्मं विचरेन्नृप ॥ ३८॥
यथा नदीनदाः सर्वे सागरे यान्ति संस्थितम् ।
एवमाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितम् ॥ ३९॥
अध्याय २८५
जनक
वर्णो विशेषवर्णानां महर्षे केन जायते ।
एतदिच्छाम्यहं श्रोतुं तद्ब्रूहि वदतां वर ॥ १॥
यदेतज्जायतेऽपत्यं स एवायमिति श्रुतिः ।
कथं ब्राह्मणतो जातो विशेषग्रहणं गतः ॥ २॥
पराशरोवाच
एवमेतन्महाराज येन जातः स एव सः ।
तपसस्त्वपकर्षेण जातिग्रहणतां गतः ॥ ३॥
सुक्षेत्राच्च सुबीजाच्च पुण्यो भवति सम्भवः ।
अतोऽन्यतरतो हीनादवरो नाम जायते ॥ ४॥
वक्राद्भुजाभ्यामूरुभ्यां पद्भ्यां चैवाथ जज्ञिरे ।
सृजतः प्रजापतेर्लोकानिति धर्मविदो विदुः ॥ ५॥
मुखजा ब्राह्मणास्तात बाहुजाः क्षत्रबन्धवः ।
ऊरुजा धनिनो राजन्पादजाः परिचारकाः ॥ ६॥
चतुर्णामेव वर्णानामागमः पुरुषर्षभ ।
अतोऽन्ये त्वतिरिक्ता ये ते वै सङ्करजाः स्मृताः ॥ ७॥
क्षत्रजातिरथाम्बस्था उग्रा वैदेहकास्तथा ।
श्वपाकाः पुल्कसाः स्तेना निषादाः सूतमागधाः ॥ ८॥
आयोगाः करणा व्रात्याश्चन्दालाश्च नराधिप ।
एते चतुर्भ्यो वर्णेभ्यो जायन्ते वै परस्परम् ॥ ९॥
जनक
ब्रह्मणैकेन जातानां नानात्वं गोत्रतः कथम् ।
बहूनीह हि लोके वै गोत्राणि मुनिसत्तम ॥ १०॥
यत्र तत्र कथं जाताः स्वयोनिं मुनयो गताः ।
शूद्रयोनौ समुत्पन्ना वियोनौ च तथापरे ॥ ११॥
पराशरोवाच
राजन्नेतद्भवेद्ग्राह्यमपकृष्टेन जन्मना ।
महात्मानं समुत्पत्तिस्तपसा भावितात्मनाम् ॥ १२॥
उत्पाद्य पुत्रान्मुनयो नृपतौ यत्र तत्र ह ।
स्वेनैव तपसा तेषामृषित्वं विदधुः पुनः ॥ १३॥
पितामहश्च मे पूर्वमृश्यशृङ्गश्च काश्यपः ।
वतस्तान्द्यः कृपश्चैव कक्षीवान्कमथादयः ॥ १४॥
यवक्रीतश्च नृपते द्रोणश्च वदतां वरः ।
आयुर्मतङ्गो दत्तश् च द्रुपदो मत्स्य एव च ॥ १५॥
एते स्वां प्रकृतिं प्राप्ता वैदेह तपसोऽऽश्रयात् ।
प्रतिष्ठिता वेदविदो दमे तपसि चैव हि ॥ १६॥
मूलगोत्राणि चत्वारि समुत्पन्नानि पार्थिव ।
अङ्गिराः कश्यपश्चैव वसिष्ठो भृगुरेव च ॥ १७॥
कर्मतोऽन्यानि गोत्राणि समुत्पन्नानि पार्थिव ।
नामधेयानि तपसा तानि च ग्रहणं सताम् ॥ १८॥
जनक
विशेषधर्मान्वर्णानां प्रब्रूहि भगवन्मम ।
तथा सामान्य धर्मांश्च सर्वत्र कुशलो ह्यसि ॥ १९॥
परा
प्रतिग्रहो याजनं च तथैवाध्यापनं नृप ।
विशेषधर्मो विप्राणां रक्षा क्षत्रस्य शोभना ॥ २०॥
कृषिश्च पाशुपाल्यं च वानिज्यं च विशाम् अपि ।
द्विजानां परिचर्या च शूत्र कर्म नराधिप ॥ २१॥
विशेषधर्मा नृपते वर्णानां परिकीर्तिताः ।
धर्मान्साधारणांस्तात विस्तरेण शृणुष्व मे ॥ २२॥
आनृशंस्यमहिंसा चाप्रमादः संविभागिता ।
श्राद्धकर्मातिथेयं च सत्यमक्रोध एव च ॥ २३॥
स्वेषु दारेषु सन्तोषः शौचं नित्यानसूयता ।
आत्मज्ञानं तितिक्षा च धर्माः साधारणा नृप ॥ २४॥
ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः ।
अत्र तेषामधीकारो धर्मेषु द्विपदां वर ॥ २५॥
विकर्मावस्थिता वर्णाः पतन्ति नृपते त्रयः ।
उन्नमन्ति यथा सन्तमाश्रित्येह स्वकर्मसु ॥ २६॥
न चापि शूद्रः पततीति निश्चयो
न चापि संस्कारमिहार्हतीति वा ।
श्रुतिप्रवृत्तं न च धर्ममाप्नुते
न चास्य धर्मे प्रतिषेधनं कृतम् ॥ २७॥
वैदेहकं शूद्रमुदाहरन्ति
द्विजा महाराज श्रुतोपपन्नाः ।
अहं हि पश्यामि नरेन्द्र देवं
विश्वस्य विष्णुं जगतः प्रधानम् ॥ २८॥
सतां वृत्तमनुष्ठाय निहीना उज्जिहीर्षवः ।
मन्त्रवर्जं न दुष्यन्ति कुर्वाणाः पौष्टिकीः क्रियाः ॥ २९॥
यथा यथा हि सद्वृत्तमालम्बन्तीतरे जनाः ।
तथा तथा सुखं प्राप्य प्रेत्य चेह च शेरते ॥ ३०॥
ज
किं कर्म दूसयत्येनमथ जातिर्महामुने ।
सन्देहो मे समुत्पन्नस्तन्मे व्याख्यातुमर्हसि ॥ ३१॥
परा
असंशयं महाराज उभयं दोषकारकम् ।
कर्म चैव हि जातिश्च विशेषं तु निशामय ॥ ३२॥
जात्या च कर्मणा चैव दुष्टं कर्म निषेवते ।
जात्या दुष्टश्च यः पापं न करोति स पूरुषः ॥ ३३॥
जात्या प्रधानं पुरुषं कुर्वाणं कर्म धिक्कृतम् ।
कर्म तद्दूसयत्येनं तस्मात्कर्म न शोभनम् ॥ ३४॥
ज
कानि कर्माणि धर्म्याणि लोकेऽस्मिन्द्विजसत्तम ।
न हिंसन्तीह भूतानि क्रियमाणानि सर्वदा ॥ ३५॥
परा
शृणु मेऽत्र महाराज यन्मां त्वं परिपृच्छसि ।
यानि कर्माण्यहिंस्राणि नरं त्रायन्ति सर्वदा ॥ ३६॥
संन्यस्याग्नीनुपासीनाः पश्यन्ति विगतज्वराः ।
नैःश्रेयसं धर्मपथं समारुह्य यथाक्रमम् ॥ ३७॥
प्रश्रिता विनयोपेता दमनित्याः सुसंशिताः ।
प्रयान्ति स्थानमजरं सर्वकर्म विवर्जिताः ॥ ३८॥
सर्वे वर्णा धर्मकार्याणि सम्यक्
कृत्वा राजन्सत्यवाक्यानि चोक्त्वा ।
त्यक्त्वाधर्मं दारुणं जीवलोके
यान्ति स्वर्गं नात्र कार्यो विचारः ॥ ३९॥
अध्याय २८६
पराशरोवाच
पिता सुखायो गुरवः स्त्रियश् च
न निर्गुणा नाम भवन्ति लोके ।
अनन्यभक्ताः प्रियवादिनश् च
हिताश्च वश्याश्च तथैव राजन् ॥ १॥
पिता परं दैवतं मानवानां
मातुर्विशिष्टं पितरं वदन्ति ।
ज्ञानस्य लाभं परमं वदन्ति
जितेन्द्रियार्थाः परमाप्नुवन्ति ॥ २॥
रणाजिरे यत्र शराग्निसंस्तरे
नृपात्मजो घातमवाप्य दह्यते ।
प्रयाति लोकानमरैः सुदुर्लभान्
निषेवते स्वर्गफलं यथासुखम् ॥ ३॥
श्रान्तं भीतं भ्रष्ट शस्त्रं रुदन्तं
पराङ्मुखं परिबर्हैश्च हीनम् ।
अनुद्यतं रोगिणं याचमानं
न वै हिंस्याद्बालवृद्धौ च राजन् ॥ ४॥
परिबर्हैः सुसम्पन्नमुद्यतं तुल्यतां गतम् ।
अतिक्रमेत नृपतिः सङ्ग्रामे क्षत्रियात्मजम् ॥ ५॥
तुल्यादिह वधः श्रेयान्विशिष्टाच्चेति निश्चयः ।
निहीनात्कातराच्चैव नृपाणां गर्हितो वधः ॥ ६॥
पापात्पापसमाचारान्निहीनाच्च नराधिप ।
पाप एव वधः प्रोक्तो नरकायेति निश्चयः ॥ ७॥
न कश्चित्त्राति वै राजन्दिष्टान्त वशमागतम् ।
सावशेषायुषं चापि कश्चिदेवापकर्षति ॥ ८॥
स्निग्धैश्च क्रियमाणानि कर्माणीह निवर्तयेत् ।
हिंसात्मकानि कर्माणि नायुरिच्छेत्परायुषा ॥ ९॥
गृहस्थानां तु सर्वेषां विनाशमभिकाङ्क्षिताम् ।
निधनं शोभनं तात पुलिनेषु क्रियावताम् ॥ १०॥
आयुषि क्षयमापन्ने पञ्चत्वमुपगच्छति ।
नाकारणात्तद्भवति कारणैरुपपादितम् ॥ ११॥
तथा शरीरं भवति देहाद्येनोपपादितम् ।
अध्वानं गतकश्चायं प्राप्तश्चायं गृहाद्गृहम् ॥ १२॥
द्वितीयं कारणं तत्र नान्यत्किं चन विद्यते ।
तद्देहं देहिनां युक्तं मोक्षभूतेषु वर्तते ॥ १३॥
सिरा स्नाय्वस्थि सङ्घातं बीभत्सा मेध्य सङ्कुलम् ।
भूतानामिन्द्रियाणां च गुणानां च समागतम् ॥ १४॥
त्वगन्तं देहमित्याहुर्विद्वांसोऽध्यात्मचिन्तकाः ।
पुनैरपि परिक्षीणं शरीरं मर्त्यतां गतम् ॥ १५॥
शरीरिणा परित्यक्तं निश्चेष्टं गतचेतनम् ।
भूतैः प्रकृतमापन्नैस्ततो भूमौ निमज्जति ॥ १६॥
भावितं कर्मयोगेन जायते तत्र तत्र ह ।
इदं शरीरं वैदेह म्रियते यत्र तत्र ह ।
तत्स्वभावोऽपरो दृष्टो विसर्गः कर्मणस्तथा ॥ १७॥
न जायते तु नृपते कं चित्कालमयं पुनः ।
परिभ्रमति भूतात्मा द्यामिवाम्बुधरो महान् ॥ १८॥
स पुनर्जायते राजन्प्राप्येहायतनं नृप ।
मनसः परमो ह्यात्मा इन्द्रियेभ्यः परं मनः ॥ १९॥
द्विविधानां च भूतानां जङ्गमाः परमा नृप ।
जङ्गमानामपि तथा द्विपदाः परमा मताः ।
द्विपदानामपि तथा द्विजा वै परमाः स्मृताः ॥ २०॥
द्विजानामपि राजेन्द्र प्रज्ञावन्तः परा मताः ।
प्राज्ञानामात्मसम्बुद्धाः सम्बुद्धानाममानिनः ॥ २१॥
जातमन्वेति मरणं नृणामिति विनिश्चयः ।
अन्तवन्ति हि कर्माणि सेवन्ते गुणतः प्रजाः ॥ २२॥
आपन्ने तूत्तरां काष्ठां सूर्ये यो निधनं व्रजेत् ।
नक्षत्रे च मुहूर्ते च पुण्ये राजन्स पुण्यकृत् ॥ २३॥
अयोजयित्वा क्लेशेन जनं प्लाव्य च दुष्कृतम् ।
मृत्युनाप्राकृतेनेह कर्मकृत्वात्मशक्तितः ॥ २४॥
विषमुद्बन्धनं दाहो दस्यु हस्तात्तथा वधः ।
दंस्त्रिभ्यश्च पशुभ्यश्च प्राकृतो वध उच्यते ॥ २५॥
न चैभिः पुण्यकर्माणो युज्यन्ते नाभिसन्धिजैः ।
एवंविधैश्च बहुभिरपरैः प्राकृतैरपि ॥ २६॥
ऊर्ध्वं हित्वा प्रतिष्ठन्ते प्रानाः पुण्यकृतां नृप ।
मध्यतो मध्यपुण्यानामधो दुष्कृत कर्मणाम् ॥ २७॥
एकः शत्रुर्न द्वितीयोऽस्ति शत्रुर्
अज्ञानतुल्यः पुरुषस्य राजन् ।
येनावृतः कुरुते सम्प्रयुक्तो
घोराणि कर्माणि सुदारुणानि ॥ २८॥
प्रबोधनार्थं श्रुतिधर्मयुक्तं
वृद्द्धानुपास्यं च भवेत यस्य ।
प्रयत्नसाध्यो हि स राजपुत्र
प्रज्ञाशरेणोन्मथितः परैति ॥ २९॥
अधीत्य वेदांस्तपसा ब्रह्मचारी
यज्ञाञ्शक्त्या संनिसृज्येह पञ्च ।
वनं गच्छेत्पुरुषो धर्मकामः
श्रेयश्चित्वा स्थापयित्वा स्ववंशम् ॥ ३०॥
उपभोगैरपि त्यक्तं नात्मानमवसादयेत् ।
चन्दालत्वेऽपि मानुष्यं सर्वथा तात दुर्लभम् ॥ ३१॥
इयं हि योनिः प्रथमा यां प्राप्य जगतीपते ।
आत्मा वै शक्यते त्रातुं कर्मभिः शुभलक्षणैः ॥ ३२॥
कथं न विप्रनश्येम योनीतोऽस्या इति प्रभो ।
कुर्वन्ति धर्मं मनुजाः श्रुतिप्रामान्य दर्शनात् ॥ ३३॥
यो दुर्लभतरं प्राप्य मानुष्यमिह वै नरः ।
धर्मावमन्ता कामात्मा भवेत्स खलु वञ्च्यते ॥ ३४॥
यस्तु प्रीतिपुरोगेण चक्षुषा तात पश्यति ।
दीपोपमानि भूतानि यावदर्चिर्न नश्यति ॥ ३५॥
सान्त्वेनानुप्रदानेन प्रियवादेन चाप्युत ।
समदुःखसुखो भूत्वा स परत्र महीयते ॥ ३६॥
दानं त्यागः शोभना मूर्तिरद्भ्यो
भूयः प्लाव्यं तपसा वै शरीरम् ।
सरस्वती नैमिषपुष्करेषु
ये चाप्यन्ये पुण्यदेशाः पृथिव्याम् ॥ ३७॥
गृहेषु येषामसवः पतन्ति
तेषामथो निर्हरनं प्रशस्तम् ।
यानेन वै प्रापनं च श्मशाने
शौचेन नूनं विधिना चैव दाहः ॥ ३८॥
इष्टिः पुष्टिर्यजनं याजनं च
दानं पुण्यानां कर्मणां च प्रयोगः ।
शक्त्या पित्र्यं यच्च किं चित्प्रशस्तं
सर्वाण्यात्मार्थे मानवो यः करोति ॥ ३९॥
धर्मशास्त्राणि वेदाश्च षडङ्गानि नराधिप ।
श्रेयसोऽर्थे विधीयन्ते नरस्याक्लिष्ट कर्मणः ॥ ४०॥
भीष्मोवाच
एवद्वै सर्वमाख्यातं मुनिना सुमहात्मना ।
विदेहराजाय पुरा श्रेयसोऽर्थे नराधिप ॥ ४१॥
अध्याय २८७
भीष्मोवाच
पुनरेव तु पप्रच्छ जनको मिथिलाधिपः ।
पराशरं महात्मानं धर्मे परमनिश्चयम् ॥ १॥
किं श्रेयः का गतिर्ब्रह्मन्किं कृतं न विनश्यति ।
क्व गतो न निवर्तेत तन्मे ब्रूहि महामुने ॥ २॥
पराशरोवाच
असङ्गः श्रेयसो मूलं ज्ञानं ज्ञानगतिः परा ।
चीर्णं तपो न प्रनश्येद्वापः क्षेत्रे न नश्यति ॥ ३॥
छित्त्वाधर्ममयं पाशं यदा धर्मेऽभिरज्यते ।
दत्त्वाभय कृतं दानं तदा सिद्धिमवाप्नुयात् ॥ ४॥
यो ददाति सहस्राणि गवामश्वशतानि च ।
अभयं सर्वभूतेभ्यस्तद्दानमतिवर्तते ॥ ५॥
वसन्विषयमध्येऽपि न वसत्येव बुद्धिमान् ।
संवसत्येव दुर्बुद्धिरसत्सु विषयेष्वपि ॥ ६॥
नाधर्मः श्लिष्यते प्राज्ञमापः पुष्कर पर्णवत् ।
अप्राज्ञमधिकं पापं श्लिष्यते जतु काष्ठवत् ॥ ७॥
नाधर्मः कारणापेक्षी कर्तारमभिमुञ्चति ।
कर्ता खलु यथाकालं तत्सर्वमभिपद्यते ।
न भीद्यन्ते कृतात्मान आत्मप्रत्यय दर्शिनः ॥ ८॥
बुद्धिकर्मेन्द्रियाणां हि प्रमत्तो यो न बुध्यते ।
शुभाशुभेषु सक्तात्मा प्राप्नोति सुमहद्भयम् ॥ ९॥
वीतरागो जितक्रोधः सम्यग्भवति यः सदा ।
विषये वर्तमानोऽपि न स पापेन युज्यते ॥ १०॥
मर्यादायां धर्मसेतुर्निबद्धो नैव सीदति ।
पुष्टस्रोत इवायत्तः स्फीतो भवति सञ्चयः ॥ ११॥
यथा भानुगतं तेजो मनिः शुद्धः समाधिना ।
आदत्ते राजशार्दूल तथा योगः प्रवर्तते ॥ १२॥
यथा तिलानामिह पुष्पसंश्रयात्
पृथक्पृथग्यानि गुणोऽतिसौम्यताम् ।
तथा नराणां भुवि भावितात्मनां
यथाश्रयं सत्त्वगुणः प्रवर्तते ॥ १३॥
जहाति दारानिहते न सम्पदः
सदश्वयानं विविधाश्च याः क्रियाः ।
त्रिविष्टपे जातमतिर्यदा नरस्
तदास्य बुद्धिर्विषयेषु भीद्यते ॥ १४॥
प्रसक्तबुद्धिर्विषयेषु यो नरो
यो बुध्यते ह्यात्महितं कदा चन ।
स सर्वभावानुगतेन चेतसा
नृपामिषेणेव झषो विकृष्यते ॥ १५॥
सङ्घातवान्मर्त्यलोकः परस्परमपाश्रितः ।
कदली गर्भनिःसारो नौरिवाप्सु निमज्जति ॥ १६॥
न धर्मकालः पुरुषस्य निश्चितो
नापि मृत्युः पुरुषं प्रतीक्षते ।
क्रिया हि धर्मस्य सदैव शोभना
यदा नरो मृत्युमुखेऽभिवर्तते ॥ १७॥
यथान्धः स्वगृहे युक्तो ह्यभ्यासादेव गच्छति ।
तथायुक्तेन मनसा प्राज्ञो गच्छति तां गतिम् ॥ १८॥
मरणं जन्मनि प्रोक्तं जन्म वै मरणाश्रितम् ।
अविद्वान्मोक्षधर्मेषु बद्धोभ्रमति चक्रवत् ॥ १९॥
यथा मृणालोऽनुगतमाशु मुञ्चति कर्दमम् ।
तथात्मा पुरुषस्येह मनसा परिमुच्यते ।
मनः प्रनयतेऽऽत्मानं स एनमभियुञ्जति ॥ २०॥
परार्थे वर्तमानस्तु स्वकार्यं योऽभिमन्यते ।
इन्द्रियार्थेषु सक्तः सन्स्वकार्यात्परिहीयते ॥ २१॥
अधस्तिर्यग्गतिं चैव स्वर्गे चैव परां गतिम् ।
प्राप्नोति स्वकृतैरात्मा प्राज्ञस्येहेतरस्य च ॥ २२॥
मृन्मये भाजने पक्वे यथा वै न्यस्यते द्रवः ।
तथा शरीरं तपसा तप्तं विषयमश्नुते ॥ २३॥
विषयानश्नुते यस्तु न स भोक्ष्यत्यसंशयम् ।
यस्तु भोगांस्त्यजेदात्मा स वै भोक्तुं व्यवस्यति ॥ २४॥
नीहारेण हि संवीतः शिश्नोदर परायनः ।
जात्यन्ध इव पन्थानमावृतात्मा न बुध्यते ॥ २५॥
वणिग्यथा समुद्राद्वै यथार्थं लभते धनम् ।
तथा मर्त्यार्णवे जन्तोः कर्म विज्ञानतो गतिः ॥ २६॥
अहोरात्र मये लोके जरा रूपेण सञ्चरन् ।
मृत्युर्ग्रसति भूतानि पवनं पन्नगो यथा ॥ २७॥
स्वयं कृतानि कर्माणि जातो जन्तुः प्रपद्यते ।
नाकृतं लभते कश्चित्किं चिदत्र प्रियाप्रियम् ॥ २८॥
शयानं यान्तमासीनं प्रवृत्तं विषयेषु च ।
शुभाशुभानि कर्माणि प्रपद्यन्ते नरं सदा ॥ २९॥
न ह्यन्यत्तीरमासाद्य पुनस्तर्तुं व्यवस्यति ।
दुर्लभो दृश्यते ह्यस्य विनिपातो महार्णवे ॥ ३०॥
यथा भारावसक्ता हि नौर्महाम्भसि तन्तुना ।
तथा मनोऽभियोगाद्वै शरीरं प्रतिकर्षति ॥ ३१॥
यथा समुद्रमभितः संस्यूताः सरितोऽपराः ।
तथाद्या प्रकृतिर्योगादभिसंस्यूयते सदा ॥ ३२॥
स्नेहपाशैर्बहुविभैरासक्तमनसो नराः ।
प्रकृतिष्ठा विषीदन्ति जले सैकत वेश्मवत् ॥ ३३॥
शरीरगृह संस्थस्य शौचतीर्थस्य देहिनः ।
बुद्धिमार्ग प्रयातस्य सुखं त्विह परत्र च ॥ ३४॥
विस्तराः क्लेशसंयुक्ताः सङ्क्षेपास्तु सुखावहाः ।
परार्थं विस्तराः सर्वे त्यागमात्महितं विदुः ॥ ३५॥
सङ्कल्पजो मित्रवर्गो ज्ञातयः कारणात्मकाः ।
भार्या दासाश्च पुत्राश्च स्वमर्थमनुयुञ्जते ॥ ३६॥
न माता न पिता किं चित्कस्य चित्प्रतिपद्यते ।
दानपथ्योदनो जन्तुः स्वकर्मफलमश्नुते ॥ ३७॥
मातापुत्रः पिता भ्राता भार्या मित्र जनस्तथा ।
अष्टापद पदस्थाने त्वक्षमुद्रेव न्यस्यते ॥ ३८॥
सर्वाणि कर्माणि पुरा कृतानि
शुभाशुभान्यात्मनो यान्ति जन्तोर् ।
उपस्थितं कर्मफलं विदित्वा
बुद्धिं तथा चोदयतेऽन्तरात्मा ॥ ३९॥
व्यवसायं समाश्रित्य सहायान्योऽधिगच्छति ।
न तस्य कश्चिदारम्भः कदा चिदवसीदति ॥ ४०॥
अद्वैध मनसं युक्तं शूरं धीरं विपश्चितम् ।
न श्रीः सन्त्यजते नित्यमादित्यमिव रश्मयः ॥ ४१॥
आस्तिक्य व्यवसायाभ्यामुपायाद्विस्मयाद्धिया ।
यमारभत्यनिन्द्यात्मा न सोऽर्थः परिषीदति ॥ ४२॥
सर्वैः स्वानि शुभाशुभानि नियतं कर्माणि जन्तुः स्वयं
गर्भात्सम्प्प्रतिपद्यते तदुभयं यत्तेन पूर्वं कृतम् ।
मृत्युश्चापरिहारवान्समगतिः कालेन विच्छेदिता
दारोश्चूर्णमिवाश्मसारविहितं कर्मान्तिकं प्रापयेत् ॥ ४३॥
स्वरूपतामात्मकृतं च विस्तरं
कुलान्वयं द्रव्यसमृद्धि सञ्चयम् ।
नरो हि सर्वो लभते यथाकृतं
शुभशुभेनात्म कृतेन कर्मणा ॥ ४४॥
भीष्मोवाच
इत्युक्तो जनको राजन्यथातथ्यं मनीसिना ।
श्रुत्वा धर्मविदां श्रेष्ठः परां मुदमवाप ह ॥ ४५॥
॥ इति पराशरगीता समाप्ता ॥
पाण्डवगीता
प्रह्लादनारदपराशरपुण्डरीक-
व्यासाम्बरीषशुकशौनकभीष्मकाव्याः ।
रुक्माङ्गदार्जुनवसिष्ठविभीषणाद्या
एतानहं परमभागवतान् नमामि ॥ १॥
लोमहर्षण उवाच ।
धर्मो विवर्धति युधिष्ठिरकीर्तनेन
पापं प्रणश्यति वृकोदरकीर्तनेन ।
शत्रुर्विनश्यति धनञ्जयकीर्तनेन
माद्रीसुतौ कथयतां न भवन्ति रोगाः ॥ २॥
ब्रह्मोवाच ।
ये मानवा विगतरागपराऽपरज्ञा
नारायणं सुरगुरुं सततं स्मरन्ति ।
ध्यानेन तेन हतकिल्बिष चेतनास्ते
मातुः पयोधररसं न पुनः पिबन्ति ॥ ३॥
इन्द्र उवाच ।
नारायणो नाम नरो नराणां
प्रसिद्धचौरः कथितः पृथिव्याम् ।
अनेकजन्मार्जितपापसञ्चयं
हरत्यशेषं स्मृतमात्र एव यः ॥ ४॥
युधिष्ठिर उवाच ।
मेघश्यामं पीतकौशेयवासं
श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम् ।
पुण्योपेतं पुण्डरीकायताक्षं
विष्णुं वन्दे सर्वलोकैकनाथम् ॥ ५॥
भीम उवाच ।
जलौघमग्ना सचराऽचरा धरा
विषाणकोट्याऽखिलविश्वमूर्तिना ।
समुद्धृता येन वराहरूपिणा
स मे स्वयम्भूर्भगवान् प्रसीदरु ॥ ६॥
अर्जुन उवाच ।
अचिन्त्यमव्यक्तमनन्तमव्ययं
विभुं प्रभुं भावितविश्वभावनम् ।
त्रैलोक्यविस्तारविचारकारकं
हरिं प्रपन्नोऽस्मि गतिं महात्मनाम् ॥ ७॥
नकुल उवाच ।
यदि गमनमधस्तात् कालपाशानुबन्धाद्
यदि च कुलविहीने जायते पक्षिकीटे ।
कृमिशतमपि गत्वा ध्यायते चान्तरात्मा
मम भवतु हृदिस्था केशवे भक्तिरेका ॥ ८॥
सहदेव उवाच ।
तस्य यज्ञवराहस्य विष्णोरतुलतेजसः ।
प्रणामं ये प्रकुर्वन्ति तेषामपि नमो नमः ॥ ९॥
कुन्ती उवाच ।
स्वकर्मफलनिर्दिष्टां यां यां योनिं व्रजाम्यहम् ।
तस्यां तस्यां हृषीकेश त्वयि भक्तिर्दृढाऽस्तु मे ॥ १०॥
माद्री उवाच ।
कृष्णे रताः कृष्णमनुस्मरन्ति
रात्रौ च कृष्णं पुनरुत्थिता ये ।
ते भिन्नदेहाः प्रविशन्ति कृष्णे
हविर्यथा मन्त्रहुतं हुताशे ॥ ११॥
द्रौपदी उवाच ।
कीटेषु पक्षिषु मृगेषु सरीसृपेषु
रक्षःपिशाचमनुजेष्वपि यत्र यत्र ।
जातस्य मे भवतु केशव त्वत्प्रसादात्
त्वय्येव भक्तिरचलाऽव्यभिचारिणी च ॥ १२॥
सुभद्रा उवाच ।
एकोऽपि कृष्णस्य कृतः प्रणामो
दशाश्वमेधावभृथेन तुल्यः ।
दशाश्वमेधी पुनरेति जन्म
कृष्णप्रणामी न पुनर्भवाय ॥ १३॥
अभिमन्युरुवाच ।
गोविन्द गोविन्द हरे मुरारे
गोविन्द गोविन्द मुकुन्द कृष्ण
गोविन्द गोविन्द रथाङ्गपाणे ।
गोविन्द गोविन्द नमामि नित्यम् ॥ १४॥
धृष्टद्युम्न उवाच ।
श्रीराम नारायण वासुदेव
गोविन्द वैकुण्ठ मुकुन्द कृष्ण ।
श्रीकेशवानन्त नृसिंह विष्णो
मां त्राहि संसारभुजङ्गदष्टम् ॥ १५॥
सात्यकिरुवाच ।
अप्रमेय हरे विष्णो कृष्ण दामोदराऽच्युत ।
गोविन्दानन्त सर्वेश वासुदेव नमोऽस्तु ते ॥ १६॥
उद्धव उवाच ।
वासुदेवं परित्यज्य योऽन्यं देवमुपासते ।
तृषितो जाह्नवीतीरे कूपं खनति दुर्मतिः ॥ १७॥
धौम्य उवाच ।
अपां समीपे शयनासनस्थिते
दिवा च रात्रौ च यथाधिगच्छता ।
यद्यस्ति किञ्चित् सुकृतं कृतं मया
जनार्दनस्तेन कृतेन तुष्यतु ॥ १८॥
सञ्जय उवाच ।
आर्ता विषण्णाः शिथिलाश्च भीता
घोरेषु व्याघ्रादिषु वर्तमानाः ।
सङ्कीर्त्य नारायणशब्दमात्रं
विमुक्तदुःखाः सुखिनो भवन्ति ॥ १९॥
अक्रूर उवाच ।
अहं तु नारायणदासदास-
दासस्य दासस्य च दासदासः ।
अन्यो न हीशो जगतो नराणां
तस्मादहं धन्यतरोऽस्मि लोके ॥ २०॥
विराट उवाच ।
वासुदेवस्य ये भक्ताः शान्तास्तद्गतचेतसः ।
तेषां दासस्य दासोऽहं भवेयं जन्मजन्मनि ॥ २१॥
भीष्म उवाच ।
विपरीतेषु कालेषु परिक्षीणेषु बन्धुषु ।
त्राहि मां कृपया कृष्ण शरणागतवत्सल ॥ २२॥
द्रोण उवाच ।
ये ये हताश्चक्रधरेण दैत्यां-
स्त्रैलोक्यनाथेन जनार्दनेन ।
ते ते गता विष्णुपुरीं प्रयाताः
क्रोधोऽपि देवस्य वरेण तुल्यः ॥ २३॥
कृपाचार्य उवाच ।
मज्जन्मनः फलमिदं मधुकैटभारे
मत्प्रार्थनीय मदनुग्रह एष एव ।
त्वद्भृत्यभृत्यपरिचारकभृत्यभृत्य-
भृत्यस्य भृत्य इति मां स्मर लोकनाथ ॥ २४॥
अश्वत्थाम उवाच ।
गोविन्द केशव जनार्दन वासुदेव
विश्वेश विश्व मधुसूदन विश्वरूप ।
श्रीपद्मनाभ पुरुषोत्तम देहि दास्यं
नारायणाच्युत नृसिंह नमो नमस्ते ॥ २५॥
कर्ण उवाच ।
नान्यं वदामि न शृणोमि न चिन्तयामि
नान्यं स्मरामि न भजामि न चाश्रयामि ।
भक्त्या त्वदीयचरणाम्बुजमादरेण
श्रीश्रीनिवास पुरुषोत्तम देहि दास्यम् ॥ २६॥
धृतराष्ट्र उवाच ।
नमो नमः कारणवामनाय
नारायणायामितविक्रमाय ।
श्रीशार्ङ्गचक्रासिगदाधराय
नमोऽस्तु तस्मै पुरुषोत्तमाय ॥ २७॥
गान्धारी उवाच ।
त्वमेव माता च पिता त्वमेव
त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देव देव ॥ २८॥
द्रुपद उवाच ।
यज्ञेशाच्युत गोविन्द माधवानन्त केशव ।
कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तु ते ॥ २९॥
जयद्रथ उवाच ।
नमः कृष्णाय देवाय ब्रह्मणेऽनन्तशक्तये ।
योगेश्वराय योगाय त्वामहं शरणं गतः ॥ ३०॥
विकर्ण उवाच ।
कृष्णाय वासुदेवाय देवकीनन्दनाय च ।
नन्दगोपकुमाराय गोविन्दाय नमो नमः ॥ ३१॥
विराट उवाच ।
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥ ३२॥
शल्य उवाच ।
अतसीपुष्पसङ्काशं पीतवाससमच्युतम् ।
ये नमस्यन्ति गोविन्दं तेषां न विद्यते भयम् ॥ ३३॥
बलभद्र उवाच ।
कृष्ण कृष्ण कृपालो त्वमगतीनां गतिर्भव ।
संसारार्णवमग्नानां प्रसीद पुरुषोत्तम ॥ ३४॥
श्रीकृष्ण उवाच ।
कृष्ण कृष्णेति कृष्णेति यो मां स्मरति नित्यशः ।
जलं भित्वा यथा पद्मं नरकादुद्धराम्यहम् ॥ ३५॥
श्रीकृष्ण उवाच ।
नित्यं वदामि मनुजाः स्वयमूर्ध्वबाहु-
र्यो मां मुकुन्द नरसिंह जनार्दनेति ।
जीवो जपत्यनुदिनं मरणे रणे वा
पाषाणकाष्ठसदृशाय ददाम्यभीष्टम् ॥ ३६॥
ईश्वर उवाच ।
सकृन्नारायणेत्युक्त्वा पुमान् कल्पशतत्रयम् ।
गङ्गादिसर्वतीर्थेषु स्नातो भवति पुत्रक ॥ ३७॥
सूत उवाच ।
तत्रैव गङ्गा यमुना च तत्र
गोदावरी सिन्धु सरस्वती च ।
सर्वाणि तीर्थानि वसन्ति तत्र
यत्राच्युतोदार कथाप्रसङ्गः ॥ ३८॥
यम उवाच ।
नरके पच्यमानं तु यमेनं परिभाषितम् ।
किं त्वया नार्चितो देवः केशवः क्लेशनाशनः ॥ ३५॥
नारद उवाच ।
जन्मान्तरसहस्रेण तपोध्यानसमाधिना ।
नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते ॥ ४०॥
प्रह्लाद उवाच ।
नाथ योनिसहस्रेषु येषु येषु व्रजाम्यहम् ।
तेषु तेष्वचला भक्तिरच्युताऽस्तु सदा त्वयि ॥ ४१॥
या प्रीतिरविवेकनां विषयेष्वनपायिनि ।
त्वामनुस्मरतः सा मे हृदयान्माऽपसर्पतु ॥ ४२॥
विश्वामित्र उवाच ।
किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः ।
यो नित्यं ध्यायते देवं नारायणमनन्यधीः ॥ ४३॥
जमदग्निरुवाच ।
नित्योत्सवो भवेत्तेषां नित्यं नित्यं च मङ्गलम् ।
येषां हृदिस्थो भगवान्मङ्गलायतनं हरिः ॥ ४४॥
भरद्वाज उवाच ।
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।
येषामिन्दीश्वरश्यामो हृदयस्थो जनार्दनः ॥ ४५॥
गौतम उवाच ।
गोकोटिदानं ग्रहणेषु काशी-
प्रयागगङ्गायुतकल्पवासः ।
यज्ञायुतं मेरुसुवर्णदानं
गोविन्दनामस्मरणेन तुल्यम् ॥ ४६॥
अग्निरुवाच ।
गोविन्देति सदा स्नानं गोविन्देति सदा जपः ।
गोविन्देति सदा ध्यानं सदा गोविन्दकीर्तनम् ॥ ४७॥
त्र्यक्षरं परमं ब्रह्म गोविन्द त्र्यक्षरं परम् ।
तस्मादुच्चारितं येन ब्रह्मभूयाय कल्पते ॥ ४८॥
वेदव्यास उवाच ।
अच्युतः कल्पवृक्षोऽसावनन्तः कामधेनु वै ।
चिन्तामणिस्तु गोविन्दो हरेर्नाम विचिन्तयेत् ॥ ४९॥
इन्द्र उवाच ।
जयतु जयतु देवो देवकीनन्दनोऽयं
जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः ।
जयतु जयतु मेघश्यामलः कोमलाङ्गो
जयतु जयतु पृथ्वीभारनाशो मुकुन्दः ॥ ५०॥
पिप्पलायन उवाच ।
श्रीमन्नृसिंहविभवे गरुडध्वजाय
तापत्रयोपशमनाय भवौषधाय ।
कृष्णाय वृश्चिकजलाग्निभुजङ्गरोग-
क्लेशव्ययाय हरये गुरवे नमस्ते ॥ ५१॥
आविर्होत्र उवाच ।
कृष्ण त्वदीयपदपङ्कजपञ्जरान्ते
अद्यैव मे विशतु मानसराजहंसः ।
प्राणप्रयाणसमये कफवातपित्तैः
कण्ठावरोधनविधौ स्मरणं कुतस्ते ॥ ५२॥
विदुर उवाच ।
हरेर्नामैव नामैव नामैव मम जीवनम् ।
कलौ नास्त्येव नास्त्येव नास्त्येव गतिरन्यथा ॥ ५३॥
वसिष्ठ उवाच ।
कृष्णेति मङ्गलं नाम यस्य वाचि प्रवर्तते ।
भस्मीभवन्ति तस्याशु महापातककोटयः ॥ ५४॥
अरुन्धत्युवाच ।
कृष्णाय वासुदेवाय हरये परमात्मने ।
प्रणतक्लेशनाशाय गोविन्दाय नमो नमः ॥ ५५॥
कश्यप उवाच ।
कृष्णानुस्मरणादेव पापसङ्घट्टपञ्जरम् ।
शतधा भेदमाप्नोति गिरिर्वज्रहतो यथा ॥ ५६॥
दुर्योधन उवाच ।
जानामि धर्मं न च मे प्रवृत्ति-
र्जानामि पापं न च मे निवृत्तिः ।
केनापि देवेन हृदि स्थितेन
यथा नियुक्तोऽस्मि तथा करोमि ॥ ५७॥
यन्त्रस्य मम दोषेण क्षम्यतां मधुसूदन ।
अहं यन्त्रं भवान् यन्त्री मम दोषो न दीयताम् ॥ ५८॥
भृगुरुवाच ।
नामैव तव गोविन्द नाम त्वत्तः शताधिकम् ।
ददात्त्युच्चारणान्मुक्तिः भवानष्टाङ्गयोगतः ॥ ५९॥
लोमश उवाच ।
नमामि नारायण पादपङ्कजं
करोमि नारायणपूजनं सदा ।
वदामि नारायणनाम निर्मलं
स्मरामि नारायणतत्त्वमव्ययम् ॥ ६०॥
शौनक उवाच ।
स्मृतेः सकलकल्याणं भजनं यस्य जायते ।
पुरुषं तमजं नित्यं व्रजामि शरणं हरिम् ॥ ६१॥
गर्ग उवाच ।
नारायणेति मन्त्रोऽस्ति वागस्ति वशवर्तिनी ।
तथापि नरके घोरे पतन्तीत्यद्भुतं महत् ॥ ६२॥
दाल्भ्य उवाच ।
किं तस्य बहुभिर्मन्त्रैर्भक्तिर्यस्य जनार्दने ।
नमो नारायणायेति मन्त्रः सर्वार्थसाधाके ॥ ६३॥
वैशम्पायन उवाच ।
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ ६४॥
अग्निरुवाच ।
हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः ।
अनिच्छयापि संस्पृष्टो दहत्येव हि पावकः ॥ ६५॥
परमेश्वर उवाच ।
सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् ।
लब्धः परिकरस्तेन मोक्षाय गमनं प्रति ॥ ६६॥
पुलस्त्य उवाच ।
हे जिह्वे रससारज्ञे सर्वदा मधुरप्रिये ।
नारायणाख्यपीयूषं पिब जिह्वे निरन्तरम् ॥ ६७॥
व्यास उवाच ।
सत्यं सत्यं पुनः सत्यं सत्यं सत्यं वदाम्यहम् ।
नास्ति वेदात्परं शास्त्रं न देवः केशवात्परः ॥ ६८॥
धन्वन्तरिरुवाच ।
अच्युतानन्त गोविन्द नामोच्चारणभेषजात् ।
नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम् ॥ ६९॥
मार्कण्डेय उवाच ।
स्वर्गदं मोक्षदं देवं सुखदं जगतो गुरुम् ।
कथं मुहुर्तमपि तं वासुदेवं न चिन्तयेत् ॥ ७०॥
अगस्त्य उवाच ।
निमिषं निमिषार्धं वा प्राणिनां विष्णुचिन्तनम् ।
तत्र तत्र कुरुक्षेत्रं प्रयागो नैमिषं वरम् ॥ ७१॥
वामदेव उवाच ।
निमिषं निमिषार्धं वा प्राणिनां विष्णुचिन्तनम् ।
कल्पकोटिसहस्राणि लभते वाञ्च्छितं फलम् ॥ ७२॥
शुक उवाच ।
आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः ।
इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥ ७३॥
श्रीमहादेव उवाच ।
शरीरे जर्जरीभूते व्याधिग्रस्ते कलेवरे ।
औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः ॥ ७४॥
शौनक उवाच ।
भोजनाच्छादने चिन्तां वृथा कुर्वन्ति वैष्णवाः ।
योऽसौ विश्वम्भरो देवः स किं भक्तानुपेक्षते ॥ ७५॥
सनत्कुमार उवाच ।
यस्य हस्ते गदा चक्रं गरुडो यस्य वाहनम् ।
शङ्खचक्रगदापद्मी स मे विष्णुः प्रसीदतु ॥ ७६॥
एवं ब्रह्मादयो देवा ऋषयश्च तपोधनाः ।
कीर्तयन्ति सुरश्रेष्ठमेवं नारायणं विभुम् ॥ ७७॥
इदं पवित्रमायुष्यं पुण्यं पापप्रणाशनम् ।
दुःस्वप्ननाशनं स्तोत्रं पाण्डवैः परिकीर्तितम् ॥ ७८॥
यः पठेत्प्रातरुत्थाय शुचिस्तद्गतमानसः ।
गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम् ॥ ७९॥
तत्फलं समवाप्नोति यः पठेदिति संस्तवम् ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ ८०॥
गङ्गा गीता च गायत्री गोविन्दो गरुडध्वजः ।
गकारैः पञ्चभिर्युक्तः पुनर्जन्म न विद्यते ॥ ८१॥
गीतां यः पठते नित्यं श्लोकार्धं श्लोकमेव वा ।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ ८२॥
ॐ तत्सत् ।
॥ पिङ्गलागीता ॥
अध्यायः १६८
य्
धर्माः पितामहेनोक्ता राजधर्माश्रिताः शुभाः ।
धर्ममाश्रमिणां श्रेष्ठं वक्तुमर्हसि पार्थिव ॥ १॥
भीष्मोवाच
सर्वत्र विहितो धर्मः स्वर्ग्यः सत्यफलं तपः ।
बहु द्वारस्य धर्मस्य नेहास्ति विफला क्रिया ॥ २॥
यस्मिन्यस्मिंस्तु विनये यो यो याति विनिश्चयम् ।
स तमेवाभिजानाति नान्यं भरतसत्तम ॥ ३॥
यथा यथा च पर्येति लोकतन्त्रमसारवत् ।
तथा तथा विरागोऽत्र जायते नात्र संशयः ॥ ४॥
एवं व्यवसिते लोके बहुदोषे युधिष्ठिर ।
आत्ममोक्षनिमित्तं वै यतेत मतिमान्नरः ॥ ५॥
य्
नष्टे धने वा दारे वा पुत्रे पितरि वा मृते ।
यया बुद्ध्या नुदेच्छोकं तन्मे ब्रूहि पितामह ॥ ६॥
भीष्मोवाच
नष्टे धने वा दारे वा पुत्रे पितरि वा मृते ।
अहो दुःखमिति ध्यायञ्शोकस्यापचितिं चरेत् ॥ ७॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
यथा सेनजितं विप्रः कश्चिदित्यब्रवीद्वचः ॥ ८॥
पुत्रशोकाभिसन्तप्तं राजानं शोकविह्वलम् ।
विषन्नवदनं दृष्ट्वा विप्रो वचनमब्रवीत् ॥ ९॥
किं नु खल्वसि मूढस्त्वं शोच्यः किमनुशोचसि ।
यदा त्वामपि शोचन्तः शोच्या यास्यन्ति तां गतिम् ॥ १०॥
त्वं चैवाहं च ये चान्ये त्वां राजन्पर्युपासते ।
सर्वे तत्र गमिष्यामो यत एवागता वयम् ॥ ११॥
सेनाजितोवाच
का बुद्धिः किं तपो विप्र कः समाधिस्तपोधन ।
किं ज्ञानं किं श्रुतं वा ते यत्प्राप्य न विषीदसि ॥ १२॥
ब्राह्मणोवाच
पश्य भूतानि दुःखेन व्यतिषक्तानि सर्वशः ।
आत्मापि चायं न मम सर्वा वा पृथिवी मम ॥ १३॥
यथा मम तथान्येषामिति बुद्ध्या न मे व्यथा ।
एतां बुद्धिमहं प्राप्य न प्रहृष्ये न च व्यथे ॥ १४॥
यथा काष्ठं च काष्ठं च समेयातां महोदधौ ।
समेत्य च व्यपेयातां तद्वद्भूतसमागमः ॥ १५॥
एवं पुत्राश्च पौत्राश्च ज्ञातयो बान्धवास्तथा ।
तेषु स्नेहो न कर्तव्यो विप्रयोगो हि तैर्ध्रुवम् ॥ १६॥
अदर्शनादापतितः पुनश्चादर्शनं गतः ।
न त्वासौ वेद न त्वं तं कः सन्कमनुशोचसि ॥ १७॥
तृष्णार्ति प्रभवं दुःखं दुःखार्ति प्रभवं सुखम् ।
सुखात्सञ्जायते दुःखमेवमेतत्पुनः पुनः ।
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ॥ १८॥
सुखात्त्वं दुःखमापन्नः पुनरापत्स्यसे सुखम् ।
न नित्यं लभते दुःखं न नित्यं लभते सुखम् ॥ १९॥
नालं सुखाय सुहृदो नालं दुःखाय शत्रवः ।
न च प्रज्ञालमर्थानां न सुखानामलं धनम् ॥ २०॥
न बुद्धिर्धनलाभाय न जाद्यमसमृद्धये ।
लोकपर्याय वृत्तान्तं प्राज्ञो जानाति नेतरः ॥ २१॥
बुद्धिमन्तं च मूढं च शूरं भीरुं जदं कविम् ।
दुर्बलं बलवन्तं च भागिनं भजते सुखम् ॥ २२॥
धेनुर्वत्सस्य गोपस्य स्वामिनस्तस्करस्य च ।
पयः पिबति यस्तस्या धेनुस्तस्येति निश्चयः ॥ २३॥
ये च मूढतमा लोके ये च बुद्धेः परं गताः ।
ते नराः सुखमेधन्ते क्लिश्यत्यन्तरितो जनः ॥ २४॥
अन्त्येषु रेमिरे धीरा न ते मध्येषु रेमिरे ।
अन्त्य प्राप्तिं सुखामाहुर्दुःखमन्तरमन्तयोः ॥ २५॥
ये तु बुद्धिसुखं प्राप्ता द्वन्द्वातीता विमत्सराः ।
तान्नैवार्था न चानर्था व्यथयन्ति कदा चन ॥ २६॥
अथ ये बुद्धिमप्राप्ता व्यतिक्रान्ताश्च मूढताम् ।
तेऽतिवेलं प्रहृष्यन्ति सन्तापमुपयान्ति च ॥ २७॥
नित्यप्रमुदिता मूढा दिवि देवगणा इव ।
अवलेपेन महता परिदृब्धा विचेतसः ॥ २८॥
सुखं दुःखान्तमालस्यं दुःखं दाक्ष्यं सुखोदयम् ।
भूतिश्चैव श्रिया सार्धं दक्षे वसति नालसे ॥ २९॥
सुखं वा यदि वा दुःखं द्वेष्यं वा यदि वा प्रियम् ।
प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः ॥ ३०॥
शोकस्थान सहस्राणि हर्षस्थान शतानि च ।
दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥ ३१॥
बुद्धिमन्तं कृतप्रज्ञं शुश्रूसुमनसूयकम् ।
दान्तं जितेन्द्रियं चापि शोको न स्पृशते नरम् ॥ ३२॥
एतां बुद्धिं समास्थाय गुप्तचित्तश्चरेद्बुधः ।
उदयास्तमयज्ञं हि न शोकः स्प्रस्तुमर्हति ॥ ३३॥
यन्निमित्तं भवेच्छोकस्त्रासो वा दुःखमेव वा ।
आयासो वा यतोमूलस्तदेकाङ्गमपि त्यजेत् ॥ ३४॥
यद्यत्त्यजति कामानां तत्सुखस्याभिपूर्यते ।
कामानुसारी पुरुषः कामाननु विनश्यति ॥ ३५॥
यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् ।
तृष्णा क्षयसुखस्यैते नार्हतः सोदशीं कलाम् ॥ ३६॥
पूर्वदेहकृतं कर्म शुभं वा यदि वाशुभम् ।
प्राज्ञं मूढं तथा शूरं भजते यादृशं कृतम् ॥ ३७॥
एवमेव किलैतानि प्रियाण्येवाप्रियाणि च ।
जीवेषु परिवर्तन्ते दुःखानि च सुखानि च ॥ ३८॥
तदेवं बुद्धिमास्थाय सुखं जीवेद्गुणान्वितः ।
सर्वान्कामाञ्जुगुप्सेत सङ्गान्कुर्वीत पृष्ठतः ।
वृत्त एष हृदि प्रौधो मृत्युरेष मनोमयः ॥ ३९॥
यदा संहरते कामान्कूर्मोऽङ्गानीव सर्वशः ।
तदात्मज्योतिरात्मा च आत्मन्येव प्रसीदति ॥ ४०॥
किं चिदेव ममत्वेन यदा भवति कल्पितम् ।
तदेव परितापार्थं सर्वं सम्पद्यते तदा ॥ ४१॥
न बिभेति यदा चायं यदा चास्मान्न बिभ्यति ।
यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा ॥ ४२॥
उभे सत्यानृते त्यक्त्वा शोकानन्दौ भयाभये ।
प्रियाप्रिये परित्यज्य प्रशान्तात्मा भविष्यसि ॥ ४३॥
यदा न कुरुते धीरः सर्वभूतेषु पापकम् ।
कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ॥ ४४॥
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ।
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥ ४५॥
अत्र पिङ्गलया गीता गाथाः श्रूयन्ति पार्थिव ।
यथा सा कृच्छ्रकालेऽपि लेभे धर्मं सनातनम् ॥ ४६॥
सङ्केते पिङ्गला वेश्या कान्तेनासीद्विनाकृता ।
अथ कृच्छ्रगता शान्तां बुद्धिमास्थापयत्तदा ॥ ४७॥
पिन्गला
उन्मत्ताहमनुन्मत्तं कान्तमन्ववसं चिरम् ।
अन्तिके रमणं सन्तं नैनमध्यगमं पुरा ॥ ४८॥
एकस्थूनं नवद्वारमपिधास्याम्यगारकम् ।
का हि कान्तमिहायान्तमयं कान्तेति मन्स्यते ॥ ४९॥
अकामाः कामरूपेण धूर्ता नरकरूपिणः ।
न पुनर्वञ्चयिष्यन्ति प्रतिबुद्धास्मि जागृमि ॥ ५०॥
अनर्थोऽपि भवत्यर्थो दैवात्पूर्वकृतेन वा ।
सम्बुद्धाहं निराकारा नाहमद्याजितेन्द्रिया ॥ ५१॥
सुखं निराशः स्वपिति नैराश्यं परमं सुखम् ।
आशामनाशां कृत्वा हि सुखं स्वपिति पिङ्गला ॥ ५२॥
भीष्मोवाच
एतैश्चान्यैश्च विप्रस्य हेतुमद्भिः प्रभाषितैः ।
पर्यवस्थापितो राजा सेनजिन्मुमुदे सुखम् ॥ ५३॥
॥ इति पिङ्गलागीता समाप्ता ॥
॥ पितृगीतम् ॥
मार्कण्डेय उवाच
अपि धन्यः कुले जायादस्माकं मतिमान्नरः ।
अकुर्वन् वित्तशाढ्यं यः पिण्डान्नो निर्वपिष्यति ॥ १॥ ५०
रत्नवस्त्रमहायानं सर्वतोयादिकं वसु ।
विभवे सति विप्रेभ्यः अस्मानुद्दिश्य दास्यति ॥ २॥ ५१
अन्नेन वान्यथाशक्त्या कालेऽस्मिन् भक्तिनम्रधीः ।
भोजयिष्यति विप्राग्र्यांस्तन्मात्रविभवो नरः ॥ ३॥ ५२
असमर्थोऽन्नदानस्य वन्यशाकं स्वशक्तितः ।
प्रदास्यति द्विजाग्र्येभ्यः स्वल्पां यो वापि दक्षिणाम् ॥ ४॥ ५३
तत्राप्यसामर्थ्ययुतः करैर्गृह्यासितांस्तिलान् ।
प्रणम्य द्विजमुख्याय कस्मैचिदपि दास्यति ॥ ५॥ ५४
तिलैस्सप्ताष्टभिर्वापि समवेतं जलाञ्जलिम् ।
भक्तिनम्रः समुद्दिश्य योऽस्माकं सम्प्रदास्यति ॥ ६॥ ५५
यतः कुतश्चित्सम्प्राप्य गोभ्यो वापि गवाह्निकम् ।
अभावे प्रीणयेत्तस्माद्भक्त्या युक्तः प्रदास्यति ॥ ७॥ ५६
सर्वाभावे वनं गत्वा कक्षमूलप्रदर्शकः ।
सूर्यादिलोकपालानामिदमुच्चैः पठिष्यति ॥ ८॥ ५७
न मेऽस्ति वित्तं न धनं न चान्यच्छ्राद्धस्य योग्यं स्वपितॄन्नतोऽस्मि ।
तृप्यन्तु भक्त्या पितरौ मयैतौ भुजौ ततौ वर्त्मनि मारुतस्य ॥ ९॥ ५८
इत्येवं पितृभिर्गीतं भावाभावप्रयोजनं ।
कृतं तेन भवेच्छ्राद्धं य एवं कुरुते द्विजः ॥ १०॥ ५९
इति वराहपुराणे आदिकृतवृत्तन्ते श्राद्धकल्पो नाम त्रयोदशोऽध्यायः
पितृगीतम् समाप्तम् ।
॥ पुत्रगीता ॥
भीष्मेण युधिष्ठिरम्प्रति कालस्य द्रुततरपातितय सद्यः साधनस्य
सम्पादनीयत्वे प्रमाणतया पितृपुत्रसंवादानुवादः ॥ १॥
युधिष्ठिर उवाच । ०
अतिक्रामति कालेऽस्मिन्सर्वभूतक्षयावहे ।
किं श्रेयः प्रतिपद्येत तन्मे ब्रूहि पितामह ॥ १
भीष्म उवाच । २
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
पितुः पुत्रेण संवादं तं निबोध युधिष्ठिर ॥ २
द्विजातेः कस्यचित्पार्थ स्वाध्यायनिरतस्य वै ।
बभूव पुत्रो मेधावी मेधावीनाम नामतः ॥ ३
सोऽब्रवीत्पितरं पुत्रः स्वाध्यायकरणे रतम् ।
मोक्षधर्मार्थकुशलो लोकतन्त्रविचक्षणः ॥ ४
पुत्र उवाच । ५
धीरः किंस्वित्तात कुर्यात्प्रजानन्
क्षिप्रं ह्यायुर्भ्रश्यते मानवानाम् ।
पितस्तदाचक्ष्व यथार्थयोगं
ममानुपूर्व्या येन धर्मं चरेयम् ॥ ५
पितोवाच। ६
वेदानधीत्य ब्रह्मचर्येण पुत्र
पुत्रानिच्छेत्पावनार्थं पितृणाम् ।
अग्नीनाधाय विधिवच्चेष्टयज्ञो
वनं प्रविश्याथ मुनिर्बुभूषेत् ॥ ६
पुत्र उवाच । ७
एवमभ्याहते लोके समन्तात्परिवारिते ।
अमोघासु पतन्तीषु किं धीर इव भाषसे ॥ ७
पितोवाच। ८
कथमभ्याहतो लोकः केन वा परिवारितः ।
अमोघाः काः पतन्तीह किन्नु भीषयसीव माम् ॥ ८
पुत्र उवाच । ९
मृत्युनाभ्याहतो लोको जरया परिवारितः ।
अहोरात्राः पतन्त्येते ननु कस्मान्न बुध्यसे ।
अमोघा रात्रयश्चापि नित्यमायान्ति यान्ति च ॥ ९
पितोवाच। १०
यथाऽहमेतज्जानामि न मृत्युस्तिष्ठतीति ह ।
सोऽहं कथं प्रतीक्षिष्ये जालेनेवावृतश्चरन् ॥ १०
पुत्र उवाच । ११
रात्र्यांरात्र्यां व्यतीतायामायुरल्पतरं यदा ।
तदैव बन्ध्यं दिवसमिति विन्द्याद्विचक्षणः ॥ ११
गाधोदके मत्स्य इव सुखं विन्देत कस्तदा ।
अनवाप्तेषु कामेषु मृत्युरभ्योति मानवम् ॥ १२
पुष्पाणीव विचिन्वन्तमन्यत्र गतमानसम् ।
वृकीवोरणमासाद्य मृत्युरादाय गच्छति ॥ १३
अद्यैव कुरु यच्छ्रेयो मा त्वां कालोऽत्यगादयम् ।
अकृतेष्वेव कार्येषु मृत्युर्वै सम्प्रकर्षति ॥ १४
श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् ।
नहि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम् ॥ १५
को हि जानाति कस्याद्य मृत्युकालो भविष्यति ।
युवैव धर्मशीलः स्यादनित्यं खलु जीवितम् ।
कृते धर्मे भवेत्कीर्तिरिह प्रेत्य च वै सुखम् ॥ १६
मोहेन हि समाविष्टः पुत्रदारार्थमुद्यतः ।
कृत्वा कार्यमकार्यं वा पुष्टिमेषां प्रयच्छति ॥ १७
तं पुत्रपशुसम्पन्नं व्यासक्तमनसं नरम् ।
सुप्तं व्याघ्रो मृगमिव मृत्युरादाय गच्छति ॥ १८
सञ्चिन्वानकमेवैनं कामानामवितृप्तकम् ।
व्याघ्रः पशुमिवादाय मृत्युरादाय गच्छति ॥ १९
इदं कृतमिदं कार्यमिदमन्यत्कृताकृतम् ।
एवमीहासुखासक्तं कृतान्तः कुरुते वशे ॥ २०
कृतानां फलमप्राप्तं कर्मणां कर्मसंज्ञितम् ।
क्षेत्रापणगृहासक्तं मृत्युरादाय गच्छति ॥ २१
दुर्बलं बलवन्तं च शूरं भीरुं जडं कविम् ।
अप्राप्तं सर्वकामार्थान्मृत्युरादाय गच्छति ॥ २२
नृत्युर्जरा च व्याधिश्च दुःखं चानेककारणम् ।
अनुषक्तं यदा देहे किं स्वस्थ इव तिष्ठसि ॥ २३
जातमेवान्तकोऽन्ताय जरा चान्वेति देहिनम् ।
अनुषक्ता द्वयेनैते भावाः स्थावरजङ्गमाः ॥ २४
अत्योर्वा मुखमेतद्वै या ग्रामे वसतो रतिः ।
वानामेष वै गोष्ठो यदरण्यमिति श्रुतिः ॥ २५
तेबन्धनी रज्जुरेषा या ग्रामे वसतो रवि ।
छेत्त्वेता सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः ॥ २६
हिंसयति यो जन्तून्मनोवाक्कायहेतुभिः ।
जीवितार्थापनयनैः प्राणिभिर्न स हिंस्यते ॥ २७
न मृत्युसेनामायान्तीं जातु कश्चित्प्रबाधते ।
ऋते सत्यमसत्त्याज्यं सत्ये ह्यमृतमाश्रितम् ॥ २८
तस्मात्सत्यव्रताचारः सत्ययोगपरायणः ।
सत्यागमः सदा दान्तः सत्येनैवान्तकं जयेत् ॥ २९
अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम् ।
मृत्युरापद्यते मोहात्सत्येनापद्यतेऽमृतम् ॥ ३०
सोऽहं ह्यहिंस्रः सत्यार्थी कामक्रोधबहिष्कृतः ।
समदुःखसुखः क्षेमी मृत्युंहास्याम्यमर्त्यवत् ॥ ३१
शान्तियज्ञरतो दान्तो ब्रह्मयज्ञे स्थितो मुनिः ।
वाङ्भनः कर्मयज्ञश्च भविष्याम्युदगायने ॥ ३२
पशुयज्ञैः कथं हिंस्रैर्मादृशो चष्टुमर्हति ।
अन्तवद्भिरिव प्राज्ञः क्षेत्रयज्ञैः पिशाचवत् ॥ ३३
यस्य वाङ्भनसी स्यातां सम्यक्प्रणिहिते सदा ।
तपस्त्यागश्च सत्यं च स वै सर्वमवाप्नुयात् ॥ ३४
नास्ति विद्यासमं चक्षुर्नास्ति सत्यसमं तपः ।
नास्ति रागसमन्दुःखं नास्ति त्यागसमं सुखम् ॥ ३५
आत्मन्येवात्मना जात आत्मनिष्ठोऽप्रजोपि वा ।
आत्मन्येव भविष्यामि न मां तारयति प्रजा ॥ ३६
नैतादृशं ब्राह्मणस्यास्ति वित्तं
यथैकता समता सत्यता च ।
शीलं स्थितिर्दण्डनिधानमार्जवं
ततस्ततश्चोपरभः क्रियाभ्यः ॥ ३७
किं ते धनैर्बान्धवैर्वापि किं ते
किं ते दारैर्ब्राह्मण यो मरिष्यसि ।
आत्मानमन्विच्छ गुहां प्रविष्टं
पितामहास्ते क्व गताः पिता च ॥ ३८
भीष्म उवाच । ३९
पुत्रस्यैतद्वचः श्रुत्वा यथाऽकार्षीत्पिता नृप ।
तथा त्वमपि वर्तस्व सत्यधर्मपरायणः ॥ ॥ ३९
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
चतुःसप्तत्यधिकशततमोऽध्यायः ॥ १७४.।
Mahabharata - Shanti Parva - Chapter Footnotes
४ मोक्षधर्माणामर्थेषु कुशलः ॥
५ यथार्थयोगं फलसम्बन्धमनतिक्रम्य तात
कुर्याच्छुभार्थी इति ड।थ।पाठः । तात कुर्यात्प्रजासु इति ट। पाठः ॥
७ अमोधास्वायुर्हरणेन सफलासु रात्रिषु ॥
११ वन्ध्यं निष्फलम् ॥
१२ यदा मृत्युरभ्येति तदा कः सुखं विन्देतेति सम्बन्धः ॥
१३ पुष्पाणि काम्यकर्मफलानि मेषीणामार्तवानि वा । आर्तवं विना
पशूनां स्त्रीसङ्गे प्रवृत्त्यदर्शनात्। विचिन्वन्तं शास्त्रदृष्ट्या
आघ्राणेन च। उरणं मेषम् ॥
१७ एषां पुत्रादीनाम् ॥
१९ सञ्चिन्वानकं कुत्सितं सञ्चिन्वानं सङ्ग्रहीतारम् ॥
२० कार्यं कर्तुमिष्टम् । कृताकृतमर्धकृतम् ॥
ईहा तृष्णा ॥
२१ कर्मसंज्ञितं वणिगित्यादि कर्मानुरूपसंज्ञावन्तम् ॥
२४ द्वयेनान्तकजराख्येन ॥
२५ ग्रामे ख्यादिसङ्घे रतिरासक्तिरेव मृत्योर्मुखं
न तु वासमात्रम् । गोष्ठमिव गोष्ठं वासस्थानाम्। अरण्यं
विविक्तदेशः। गृहं त्यक्त्वैकान्ते ध्यानपरो भवेदित्यर्थः ॥
२६ यान्ति मुक्तिमिति शेषः ॥
२७ न हिंसयति हिंसां न कारयति न करोति चेत्यर्थः । हेतुः
श्राद्धादिनिमित्तं तैः जीवितमर्थांश्चापनयन्ति तैर्हिस्नस्तेनादिभिः
॥
२८ मृत्युसेनां जराव्याधिरूपां सत्ये ब्रह्मज्ञाने अमृतं
कैवल्यम् ॥
२९ सत्यव्रताचारः सत्यं ब्रह्मज्ञाने तदर्थं व्रतं
वेदान्तश्रवणादि तदाचारस्तदनुष्ठाता । सत्ययोगपरायणः
ब्रह्मध्यानपरायणः। सत्यः प्रमाणभूत आगमो गुरुवे दवाक्यं यस्य
स सत्यागमः श्रद्धावान् ॥
३२ शान्तियज्ञ इन्द्रियनिग्रहः । ब्रह्मयज्ञो
नित्यमुपनिषदर्थचिन्तनम्। वाग्यज्ञः जपः। मनोयज्ञः
ध्यानं। कर्मयज्ञः स्रानशौचगुरुशुश्रूषाद्यावश्यक
धर्मानुष्ठानम्। उदगायने देवयानपथनिमित्तम्। दैर्घ्यमार्षम् ॥
३३ अन्तवद्भिरनित्यफलैः । क्षेत्रयज्ञैः शरीरनाशनैः ॥
३६ आत्मनि परमात्मनि प्रलये स्थित इति शेषः । आत्मना
सृष्टिकाले जातः ॥
३७ एकता एकप्रकारता शीलं श्लाघनीयं वृत्तम्
। दण्डनिधानं वाङ्भनः कायौर्हिसात्यागः ॥
॥ पुरजनगीता रामचरितमानससे ॥
दोहा
जीवनमुक्त ब्रह्मपर चरित सुनहिं तजि ध्यान ।
जे हरि कथाँ न करहिं रति तिन्ह के हिय पाषान । ४२ ।
चौपाई
एक बार रघुनाथ बोलाए । गुर द्विज पुरबासी सब आए ।
बैठे गुर मुनि अरु द्विज सज्जन । बोले बचन भगत भव भंजन । १ ।
सुनहु सकल पुरजन मम बानी । कहउँ न कछु ममता उर आनी ।
नहिं अनीति नहिं कछु प्रभुताई । सुनहु करहु जो तुम्हहि सोहाई । २ ।
सोइ सेवक प्रियतम मम सोई । मम अनुसासन मानै जोई ।
जौँ अनीति कछु भाषौँ भाई । तौ मोहि बरजहु भय बिसराई । ३ ।
बड़ें भाग मानुष तनु पावा । सुर दुर्लभ सब ग्रंथन्हि गावा ।
साधन धाम मोच्छ कर द्वारा । पाइ न जेहिं परलोक सँवारा । ४ ।
दोहा
सो परत्र दुख पावइ सिर धुनि धुनि पछिताइ ।
कालहि कर्महि ईस्वरहि मिथ्या दोष लगाइ । ४३ ।
चौपाई
एहि तन कर फल बिषय न भाई । स्वर्गउ स्वल्प अंत दुखदाई ।
नर तनु पाइ बिषयँ मन देहीं । पलटि सुधा ते सठ बिष लेहीं । १ ।
ताहि कबहुँ भल कहई न कोई । गुंजा ग्रहै परस मनि खोई ।
आकर चारि लच्छ चौरासी । जोनि भ्रमत यह जिव अबिनासी । २ ।
फिरत सदा माया कर प्रेरा । काल कर्म सुभाव गुन घेरा ।
कबहुँक करि करुना नर देही । देत ईस बिनु हेतु सनेही । ३ ।
नर तनु भव बारिधि कहुँ बेरो । सन्मुख मरुत अनुग्रह मेरो ।
करनधार सदगुर दृढ़ नावा । दुर्लभ साज सुलभ करि पावा । ४ ।
दोहा
जो न तरै भव सागर नर समाज अस पाइ ।
सो कृत निंदक मंदमति आत्माहन गति जाइ । ४४ ।
चौपाई
जौँ परलोक इहाँ सुख चहहू । सुनि मम बचन हृदयँ दृढ़ गहहू ।
सुलभ सुखद मारग यह भाई । भगति मोरि पुरान श्रुति गाई । १ ।
ग्यान अगम प्रत्यूह अनेका । साधन कठिन न मन कहुँ टेका ।
करत कष्ट बहु पावइ कोऊ । भक्ति हीन मोहि प्रिय नहिं सोऊ । २ ।
भक्ति सुतंत्र सकल सुख खानी । बिनु सतसंग न पावहिं प्रानी ।
पुन्य पुंज बिनु मिलहिं न संता । सतसंगति संसृति कर अंता । ३ ।
पुन्य एक जग महुँ नहिं दूजा । मन क्रम बचन बिप्र पद पूजा ।
सानुकूल तेहि पर मुनि देवा । जो तजि कपटु करइ द्विज सेवा । ४ ।
दोहा
औरउ एक गुपुत मत सबहि कहउँ कर जोरि ।
संकर भजन बिना नर भगति न पावइ मोरि । ४५ ।
चौपाई
कहहु भगति पथ कवन प्रयासा । जोग न मख जप तप उपवासा ।
सरल सुभाव न मन कुटिलाई । जथा लाभ संतोष सदाई । १ ।
मोर दास कहाइ नर आसा । करइ तौ कहहु कहा बिस्वासा ।
बहुत कहउँ का कथा बढ़ाई । एहि आचरन बस्य मैं भाई । २ ।
बैर न बिग्रह आस न त्रासा । सुखमय ताहि सदा सब आसा ।
अनारंभ अनिकेत अमानी । अनघ अरोष दच्छ बिग्यानी । ३ ।
प्रीति सदा सज्जन संसर्गा । तृन सम बिषय स्वर्ग अपबर्गा ।
भगति पच्छ हठ नहिं सठताई । दुष्ट तर्क सब दूरि बहाई । ४ ।
दोहा
मम गुन ग्राम नाम रत गत ममता मद मोह ।
ता कर सुख सोइ जानइ परानंद संदोह । ४६ ।
चौपाई
सुनत सुधासम बचन राम के । गहे सबनि पद कृपाधाम के ।
जननि जनक गुर बंधु हमारे । कृपा निधान प्रान ते प्यारे । १ ।
तनु धनु धाम राम हितकारी । सब बिधि तुम्ह प्रनतारति हारी ।
असि सिख तुम्ह बिनु देइ न कोऊ । मातु पिता स्वारथ रत ओऊ । २ ।
हेतु रहित जग जुग उपकारी । तुम्ह तुम्हार सेवक असुरारी ।
स्वारथ मीत सकल जग माहीं । सपनेहुँ प्रभु परमारथ नाहीं । ३ ।
सब के बचन प्रेम रस साने । सुनि रघुनाथ हृदयँ हरषाने ।
निज निज गृह गए आयसु पाई । बरनत प्रभु बतकही सुहाई । ४ ।
दोहा
उमा अवधबासी नर नारि कृतारथ रूप ।
ब्रह्म सच्चिदानंद घन रघुनायक जहँ भूप । ४७ ।
॥ पृथिवीगीता ॥
मैत्रेय पृथिवीगीता श्लोकाश्चात्र निबोध तान् ।
यानाह धर्मध्वजिने जनकायासितो मुनिः ॥ १॥
पृथिव्युवाच --
कथमेष नरेन्द्राणां मोहो बुद्धिमतामपि ।
येन केन सधर्माणोऽप्यभिविश्वस्तचेतसः ॥ २॥
पूर्वमात्मजयं कृत्वा जेतुमिच्छन्ति मन्त्रिणः ।
ततो भृत्यांश्च पौरांश्च जिगीषन्ते तथा रिपून् ॥ ३॥
क्रमेणानेन जेष्यामो वयं पृथ्वीं ससागराम् ।
इत्यासक्तधियो मृत्युं न पश्यन्त्यविदूरकम् ॥ ४॥
समुद्रावरणं याति मन्मण्डलमथो वशम् ।
कियदात्मजयादेतन्मुक्तिरात्मजये फलम् ॥ ५॥
उत्सृज्य पूर्वजा याता यां नादाय गतः पिता ।
तां ममेति विमूढत्वात् जेतुमिच्छन्ति पार्थिवाः ॥ ६॥
मत्कृते पितृपुत्राणां भ्रातॄणां चापि विग्रहाः ।
जायन्तेऽत्यन्तमोहेन ममताधृतचेतसाम् ॥ ७॥
पृथ्वी ममेयं सकला ममैषा ममान्वयस्यापि च शाश्वतेयम् ।
यो यो मृतो ह्यत्र बभूव राजा कुबुद्धिरासीदिति तस्य तस्य ॥ ८॥
दृष्ट्वा ममत्वायतचित्तमेकं विहाय मां मृत्युपथं व्रजन्तम् ।
तस्यान्वयस्तस्य कथं ममत्वं हृद्यास्पदं मत्प्रभवः करोति ॥ ९॥
पृथ्वी ममैषाशु परित्यजैनं वदन्ति ये दूतमुखैः स्वशत्रुम् ।
नराधिपास्तेषु ममातिहासः पुनश्च मूढेषु दयाभ्युपैति ॥ १०॥
पराशर उवाच
इत्येते धरणीगीताश्लोका मैत्रेय यैः श्रुतैः ।
ममत्वं विलयं याति तापन्यस्तं यथा हिमम् ॥ ११॥
इति पृथिवीगीता समाप्ता ।
॥ श्रीमद्भागवतान्तर्गतं प्रणयगीतम् ॥
श्रीगोप्य ऊचुः ।
मैवं विभोऽर्हति भवान्गदितुं नृशंसं
सन्त्यज्य सर्वविषयांस्तव पादमूलम् ।
भक्ता भजस्व दुरवग्रह मा त्यजास्मान्
देवो यथादिपुरुषो भजते मुमुक्षून् ॥ १०.२९.३१॥
यत्पत्यपत्यसुहृदामनुवृत्तिरङ्ग
स्त्रीणां स्वधर्म इति धर्मविदा त्वयोक्तम् ।
अस्त्वेवमेतदुपदेशपदे त्वयीशे
प्रेष्ठो भवांस्तनुभृतां किल बन्धुरात्मा ॥ १०.२९.३२॥
कुर्वन्ति हि त्वयि रतिं कुशलाः स्व आत्मन्
नित्यप्रिये पतिसुतादिभिरार्तिदैः किम् ।
तन्नः प्रसीद परमेश्वर मा स्म छिन्द्या
आशां धृतां त्वयि चिरादरविन्दनेत्र ॥ १०.२९.३३॥
चित्तं सुखेन भवतापहृतं गृहेषु
यन्निर्विशत्युत करावपि गृह्यकृत्ये ।
पादौ पदं न चलतस्तव पादमूलाद्
यामः कथं व्रजमथो करवाम किं वा ॥ १०.२९.३४॥
सिञ्चाङ्ग नस्त्वदधरामृतपूरकेण
हासावलोककलगीतजहृच्छयाग्निम् ।
नो चेद्वयं विरहजाग्न्युपयुक्तदेहा
ध्यानेन याम पदयोः पदवीं सखे ते ॥ १०.२९.३५॥
यर्ह्यम्बुजाक्ष तव पादतलं रमाया
दत्तक्षणं क्वचिदरण्यजनप्रियस्य ।
अस्प्राक्ष्म तत्प्रभृति नान्यसमक्षमञ्जः
स्थातुंस्त्वयाभिरमिता बत पारयामः ॥ १०.२९.३६॥
श्रीर्यत्पदाम्बुजरजश्चकमे तुलस्या
लब्ध्वापि वक्षसि पदं किल भृत्यजुष्टम् ।
यस्याः स्ववीक्षण उतान्यसुरप्रयासस्
तद्वद्वयं च तव पादरजः प्रपन्नाः ॥ १०.२९.३७॥
तन्नः प्रसीद वृजिनार्दन तेऽन्घ्रिमूलं
प्राप्ता विसृज्य वसतीस्त्वदुपासनाशाः ।
त्वत्सुन्दरस्मितनिरीक्षणतीव्रकाम
तप्तात्मनां पुरुषभूषण देहि दास्यम् ॥ १०.२९.३८॥
वीक्ष्यालकावृतमुखं तव कुण्दलश्री
गण्डस्थलाधरसुधं हसितावलोकम् ।
दत्ताभयं च भुजदण्डयुगं विलोक्य
वक्षः श्रियैकरमणं च भवाम दास्यः ॥ १०.२९.३९॥
का स्त्र्यङ्ग ते कलपदायतवेणुगीत
सम्मोहितार्यचरितान्न चलेत्त्रिलोक्याम् ।
त्रैलोक्यसौभगमिदं च निरीक्ष्य रूपं
यद्गोद्विजद्रुममृगाः पुलकान्यबिभ्रन् ॥ १०.२९.४०॥
व्यक्तं भवान्व्रजभयार्तिहरोऽभिजातो
देवो यथादिपुरुषः सुरलोकगोप्ता ।
तन्नो निधेहि करपङ्कजमार्तबन्धो
तप्तस्तनेषु च शिरःसु च किङ्करीणाम् ॥ १०.२९.४१॥
॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे
पूर्वार्धे भगवतो रासक्रीडावर्णनं नामैकोनत्रिंशोऽध्यायान्तर्गतं
प्रणयगीतं समाप्तम् ॥ १०.२९॥
॥ बकगीता ॥
॥ अथ बकगीता ॥
वैशम्पायन उवाच -
मार्कण्डेयमृषयो ब्राह्मणा युधिष्ठिरश्च पर्यपृच्छन्नृषिः ।
केन दीर्घायुरासीद्बको मार्कण्डेयस्तु तान्सर्वानुवाच ॥ १॥
महातपा दीर्घायुश्च बको राजर्षिर्नात्रकार्या विचारणा ॥ २॥
एतच्छृत्वा तु कौन्तेयो भ्रातृभिः सह भारत ।
मार्कण्डेयं पर्यपृच्छद्धर्मराजो युधिष्ठिरः ॥ ३॥
बकदाल्भ्यौ महात्मानौ श्रूयेते चिरजीविनौ ।
सखायौ देवराजस्य तावृषी लोकसंमितौ ॥ ४॥
एतदिच्छामि भगवन् बकशक्रसमागमम् ।
सुखदुःखसमायुक्तं तत्त्वेन कथयस्व मे ॥ ५॥
मार्कण्डेय उवाच -
वृत्ते देवासुरे राजन्संग्रामे लोमहर्षणे ।
त्रयाणामपि लोकानामिन्द्रो लोकाधिपो भवत् ॥ ६॥
सम्यग्वर्षति पर्जन्ये सुखसम्पद उत्तमाः ।
निरामयास्तु धर्मिष्ठाः प्रजा धर्मपरायणाः ॥ ७॥
मुदितश्च जनः सर्वः स्वधर्मे सुव्यवस्थितः ।
ताः प्रजा मुदिताः सर्वा दृष्टाबलनिषूदनः ॥ ८॥
ततस्तु मुदितो राजन् देवराजः शतक्रतुः ।
ऐरावतं समास्थाय ताः पश्यन्मुदिताः प्रजाः ॥ ९॥
आश्रमांश्च विचित्रांश्च नदीश्च विविधाः शुभाः ।
नगराणि समृद्धानि खेटाञ्जनपदांस्तथा ॥ १०॥
प्रजापालनदक्षांश्च नरेन्द्रान्धर्मचारिणः ।
उदपानप्रपावापीतडागानिसरांसिच ॥ ११॥
नानाब्रह्मसमाचारैः सेवितानि द्विजोत्तमैः ।
ततोवतीर्य रम्यायां पृथ्व्यां राजञ्छतक्रतुः ॥ १२॥
तत्र रम्ये शिवे देशे बहुवृक्षसमाकुले ।
पूर्वस्यां दिशि रम्यायां समुद्राभ्याशतो नृप ॥ १३॥
तत्राश्रमपदं रम्यं मृगद्विजनिषेवितम् ।
तत्राश्रमपदे रम्ये बकं पश्यति देवराट् ॥ १४॥
बकस्तु दृष्ट्वा देवेन्द्रं दृढं प्रीतमनाभवत् ।
पाद्यासनार्घदानेन फलमूलैरथार्चयत् ॥ १५॥
सुखोपविष्टो वरदस्ततस्तु बलसूदनः ।
ततः प्रश्नं बकं देव उवाच-त्रिदशेश्वरः॥ १६॥
शतं वर्षसहस्राणि मुने जातस्य तेनघ ।
समाख्याहि मम ब्रह्मन् किं दुःखं चिरजीविनाम् ॥ १७॥
बक उवाच -
अप्रियैः सह संवासः प्रियैश्चापि विनाभवः ।
असद्भिः सम्प्रयोगश्च तद्दुःखं चिर्जीविनाम् ॥ १८॥
पुत्रदारविनाशोत्र ज्ञातीनां सुहृदामपि ।
परेष्वापतते कृछ्रं किंनु दुःखतरं ततः ॥ १९॥
नान्यद्दुःखतरं किंचिल्लोकेषु प्रतिभाति मे ।
अर्थैर्विहीनः पुरुषः परैः सम्परिभूयते ॥ २०॥
अकुलानां कुले भावं कुलीनानां कुलक्षयम् ।
संयोगं विप्रयोगं च पश्यन्ति चिरजीविनः ॥ २१॥
अपि प्रत्यक्षमेवैतद्देवदेव शतक्रतो ।
अकुलानां समृद्धानां कथं कुलविपर्ययः ॥ २२॥
देवदानवगन्धर्वमनुष्योरगराक्षसाः ।
प्राप्नुवन्ति विपर्यासं किंनु दुःखतरं ततः ॥ २३॥
कुले जाताश्च क्लिश्यन्ते दौष्कुले यवशानुगाः ।
आढ्यैर्दरिद्रावमताः किंनु दुःखतरं ततः ॥ २४॥
लोके वैधर्म्यमेतत्तु दृश्यते बहुविस्तरम् ।
हीनज्ञानाश्च दृश्यन्ते क्लिश्यन्ते प्राज्ञकोविदाः ॥ २५॥
बहुदुःखपरिक्लेशं मानुष्यमिह दृश्यते ।
इन्द्र उवाच -
पुनरेव महाभाग देवर्षिगणसेवित ॥ २६॥
समाख्याहि मम ब्रह्मन् किं सुखं चिरजीविनाम् ।
बक उवाच -
अष्टमे द्वादशे वापि शाकं यः पचते गृहे ॥ २७॥
कुमित्राण्यनपाश्रित्य किं वै सुखतरं ततः ।
यत्राहानि न गण्यन्ते नैनमाहुर्महाशनम् ॥ २८॥
अपि शाकंपचानस्य सुखं वै मघवन् गृहे ।
अर्जितं स्वेन वीर्येण नाप्यपाश्रित्य कञ्चन ॥ २९॥
फलशाकमपि श्रेयो भोक्तुं ह्यकृपणे गृहे ।
परस्य तु गृहे भोक्तुः परिभूतस्य नित्यशः ॥ ३०॥
सुमृष्टमपि ने श्रेयो विकल्पोयमतः सताम् ।
श्ववत्कीलालपो यस्तु परान्नं भोक्तुमिच्छति ॥ ३१॥
धिगस्तु तस्यतद्भुक्तं कृपणस्य दुरात्मनः ।
यो दत्त्वातिथिभूतेभ्यः पितृभ्यश्च द्विजोत्तमः ॥ ३२॥
शिष्टान्यनानि यो भुङ्क्ते किंवै सुखतरं ततः ।
अतो मृष्टतरं नान्यत्पूतं किञ्चिच्छ्तक्रतो ॥ ३३॥
दत्वा यस्त्वतिथिभ्यो वै भुङ्क्ते तेनैव नित्यशः ।
यावतोह्यंधसः पिण्डानश्नाति सततं द्विजः ॥ ३४॥
तावतां गोसहस्राणां फलं प्राप्नोति दायकः ।
यदेनो यौवनकृतं तत्सर्व नश्यते ध्रुवम् ॥ ३५॥
सदक्षिणस्य भुक्तस्य द्विजस्य तु करे गतम् ।
यद्वारि वारिणा सिंचेत्तद्ध्येनस्तरते क्षणात् ॥ ३६॥
एतश्चान्याश्चवै बह्वीः कथयित्वा कथाः शुभाः ।
बकेन सह देवेन्द्र आपृच्छ्य त्रिदिवं गतः ॥ ३७॥
॥ इति बक शक्र संवाद एवं बकगीता समाप्ता ॥
बिभीषणगीता अथवा धर्मरथगीतं रामचरितमानस से
रावनु रथी बिरथ रघुबीरा । देखि बिभीषन भयउ अधीरा ।
अधिक प्रीति मन भा संदेहा । बंदि चरन कह सहित सनेहा । १ ।
नाथ न रथ नहिं तन पद त्रानां । केहि बिधि जितब बीर बलवाना ।
सुनहु सखा कह कृपानिधाना । जेहिं जय होइ सो स्यंदन आना । २ ।
सौरज धीरज तेहि रथ चाका । सत्य सील दृढ़ ध्वजा पताका ।
बल बिबेक दम परहित घोरे । छमा कृपा समता रजु जोरे । ३ ।
ईस भजनु सारथी सुजाना । बिरति चर्म संतोष कृपाना ।
दान परसु बुधि सक्ति प्रचंडा । बर बिग्यान कठिन कोदंडा । ४ ।
अमल अचल मन त्रोन समाना । सम जम नियम सिलीमुख नाना ।
कवच अभेद बिप्र गुर पूजा । एहि सम बिजय उपाय न दूजा । ५ ।
सखा धर्ममय अस रथ जाकें । जीतन कहँ न कतहुँ रिपु ताकें । ६ ।
VibhiShana was disconcerted when he saw Ravana mounted on a chariot and the Hero
of Raghu's line without any. His great fondness for the Lord filled his mind
with diffidence; and bowing to His feet he spoke with a tender heart: 'My lord,
You have no chariot nor any protection either for Your body (in the shape of
armour) or for Your feet (in the shape of shoes). How, then, can You expect to
conquer this mighty hero?' `Listen, friend:' replied the All-merciful, 'the
chariot which leads one to victory is quite another. Valour and fortitude are
the wheels of that chariot, while truthfulness and good conduct are its enduring
banner and standard. Even so strength, discretion, self-control and benevolence
are its four horses, that have been joined to the chariot with the cords of
forgiveness, compassion and evenness of mind. Adoration of God is the expert
driver; dispassion, the shield and contentment, the sword. Again, charity is the
axe; reason, the fierce lance and the highest wisdom, the relentless bow. A pure
and steady mind is like a quiver; while quietude and the various forms of
abstinence (Yamas) and religious observances (niyamas) are a sheaf of arrows.
Homage to the Brahmanas and to one's own preceptor is an impenetrable coat of
mail; there is no other equipment for victory as efficacious as this. My friend,
he who owns such a chariot of piety shall have no enemy to conquer anywhere.'
(1-6)
दोहा
महा अजय संसार रिपु जीति सकइ सो बीर ।
जाकें अस रथ होइ दृढ़ सुनहु सखा मतिधीर । ८० (क) ।
सुनि प्रभु बचन बिभीषन हरषि गहे पद कंज ।
एहि मिस मोहि उपदेसेहु राम कृपा सुख पुंज । ८० (ख) ।
॥ बोध्यगीता ॥
भीम उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
गीतं विदेहराजेन जनकेन प्रशाम्यता ॥ १॥
अनन्तं बत मे वित्तं यस्य मे नास्ति किं चन ।
मिथिलायां प्रदीप्तायां न मे दह्यति किं चन ॥ २॥
अत्रैवोदाहरन्तीमं बोध्यस्य पदसञ्चयम् ।
निर्वेदं प्रति विन्यस्तं प्रतिबोध युधिष्ठिर ॥ ३॥
बोध्यं दान्तमृषिं राजा नहुषः पर्यपृच्छत ।
निर्वेदाच्छान्तिमापन्नं शान्तं प्रज्ञान तर्पितम् ॥ ४॥
उपदेशं महाप्राज्ञ शमस्योपदिशस्व मे ।
कां बुद्धिं समनुध्याय शान्तश्चरसि निर्वृतः ॥ ५॥
बोध्य उवाच ।
उपदेशेन वर्तामि नानुशास्मीह कञ्चन ।
लक्षणं तस्य वक्ष्येऽहं तत्स्वयं परिमृश्यताम् ॥ ६॥
पिङ्गला कुररः सर्पः सारङ्गान्वेषणं वने ।
इषुकारः कुमारी च षडेते गुरवो मम॥ ७॥
भीम उवाच ।
आशा बलवती राजन्नैराश्यं परमं सुखम् ।
आशां निराशां कृत्वा तु सुखं स्वपिति पिङ्गला ॥ ८॥
सामिषं कुररं दृष्ट्वा वध्यमानं निरामिषैः ।
आमिषस्य परित्यागात् कुररः सुखमेधते ॥ ९॥
गृहारम्भो हि दुःखाय न सुखाय कदाचन ।
सर्पः परकृतं वेश्म प्रविश्य सुखमेधते ॥ १०॥
सुखं जीवन्ति मुनयो भैक्ष्यवृत्तिं समाश्रिताः ।
अद्रोहेनैव भूतानां सारङ्गा इव पक्षिणः ॥ ११॥
इषुकारो नरः कश्चिदिषावासक्तमानसः ।
समीपेनापि गच्छन्तं राजानं नावबुद्धवान् ॥ १२॥
बहूनां कलहो नित्यं द्वयोः संकथनं भवेत् ।
एकाकी विचरिष्यामि कुमारीशंखको यथा ॥ १३ ॥
इति बोद्ध्यगीता समाप्ता ॥
॥ ब्रह्मगीता ॥
अध्यायः २०
वासुदेव उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
दम्पत्योः पार्थ संवादमभयं नाम नामतः ॥ १॥
ब्राह्मणी ब्राह्मणं कं चिज्ज्ञानविज्ञानपारगम् ।
दृष्ट्वा विविक्त आसीनं भार्या भर्तारमब्रवीत् ॥ २॥
कं नु लोकं गमिष्यामि त्वामहं पतिमाश्रिता ।
न्यस्तकर्माणमासीनं कीनाशमविचक्षणम् ॥ ३॥
भार्याः पतिकृताँल्लोकानाप्नुवन्तीति नः श्रुतम् ।
त्वामहं पतिमासाद्य कां गमिष्यामि वै गतिम् ॥ ४॥
एवमुक्तः स शान्तात्मा तामुवाच हसन्निव ।
सुभगे नाभ्यसूयामि वाक्यस्यास्य तवानघे ॥ ५॥
ग्राह्यं दृश्यं च श्राव्यं च यदिदं कर्म विद्यते ।
एतदेव व्यवस्यन्ति कर्म कर्मेति कर्मिणः ॥ ६॥
मोहमेव नियच्छन्ति कर्मणा ज्ञानवर्जिताः ।
नैष्कर्म्यं न च लोकेऽस्मिन्मौर्तमित्युपलभ्यते ॥ ७॥
कर्मणा मनसा वाचा शुभं वा यदि वाशुभम् ।
जन्मादि मूर्ति भेदानां कर्म भूतेषु वर्तते ॥ ८॥
रक्षोभिर्वध्यमानेषु दृश्यद्रव्येषु कर्मसु ।
आत्मस्थमात्मना तेन दृष्टमायतनं मया ॥ ९॥
यत्र तद्ब्रह्म निर्द्वन्द्वं यत्र सोमः सहाग्निना ।
व्यवायं कुरुते नित्यं धीरो भूतानि धारयन् ॥ १०॥
यत्र ब्रह्मादयो युक्तास्तदक्षरमुपासते ।
विद्वांसः सुव्रता यत्र शान्तात्मानो जितेन्द्रियाः ॥ ११॥
घ्राणेन न तदाघ्रेयं न तदाद्यम्च जिह्वया ।
स्पर्शेन च न तत्स्पृश्यं मनसा त्वेव गम्यते ॥ १२॥
चक्षुषा न विषह्यं च यत्किं चिच्छ्रवणात्परम् ।
अगन्धमरस स्पर्शमरूपाशब्दमव्ययम् ॥ १३॥
यतः प्रवर्तते तन्त्रं यत्र च प्रतितिष्ठति ।
प्राणोऽपानः समानश्च व्यानश्चोदान एव च ॥ १४॥
तत एव प्रवर्तन्ते तमेव प्रविशन्ति च ।
समानव्यानयोर्मध्ये प्राणापानौ विचेरतुः ॥ १५॥
तस्मिन्सुप्ते प्रलीयेते समानो व्यान एव च ।
अपान प्राणयोर्मध्ये उदानो व्याप्य तिष्ठति ।
तस्माच्छयानं पुरुषं प्राणापानौ न मुञ्चतः ॥ १६॥
प्राणानायम्यते येन तदुदानं प्रचक्षते ।
तस्मात्तपो व्यवस्यन्ति तद्भवं ब्रह्मवादिनः ॥ १७॥
तेषामन्योन्यभक्षाणां सर्वेषां देव चारिणाम् ।
अग्निर्वैश्वानरो मध्ये सप्तधा विहितोऽन्तरा ॥ १८॥
घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पञ्चमम् ।
मनो बुद्धिश्च सप्तैता जिह्वा वैश्वानरार्चिषः ॥ १९॥
घ्रेयं पेयं च दृश्यं च स्पृश्यं श्रव्यं तथैव च ।
मन्तव्यमथ बोद्धव्यं ताः सप्त समिधो मम ॥ २०॥
घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः ।
मन्ता बोद्धा च सप्तैते भवन्ति परमर्त्विजः ॥ २१॥
घ्रेये पेये च देश्ये च स्पृश्ये श्रव्ये तथैव च ।
हवींष्यग्निषु होतारः सप्तधा सप्त सप्तसु ।
सम्यक्प्रक्षिप्य विद्वांसो जनयन्ति स्वयोनिषु ॥ २२॥
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।
मनो बुद्धिश्च सप्तैत योनिरित्येव शब्दिताः ॥ २३॥
हविर्भूता गुणाः सर्वे प्रविशन्त्यग्निजं मुखम् ।
अन्तर्वासमुषित्वा च जायन्ते स्वासु योनिषु ।
तत्रैव च निरुध्यन्ते प्रलये भूतभावने ॥ २४॥
ततः सञ्जायते गन्धस्ततः सञ्जायते रसः ।
ततः सञ्जायते रूपं ततः स्पर्शोऽभिजायते ॥ २५॥
ततः सञ्जायते शब्दः संशयस्तत्र जायते ।
ततः सञ्जायते निष्ठा जन्मैतत्सप्तधा विदुः ॥ २६॥
अनेनैव प्रकारेण प्रगृहीतं पुरातनैः ।
पूर्णाहुतिभिरापूर्णास्तेऽभिपूर्यन्ति तेजसा ॥ २७॥
इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि विंशोऽध्यायः ॥
॥ इति ब्रह्मगीता समाप्ता ॥
॥ योगवासिष्ठान्तर्गता ब्रह्मगीता ॥
सर्ग-क्रमांक नाम श्लोकसंख्या
१ - १७३ परमार्थोपदेशः ३४
२ - १७४ निर्वाणोपदेशः ३०
३ - १७५ अद्वैतयुक्तिः ७९
४ - १७६ ब्रह्माण्डोपाख्यानम् २५
५ - १७७ सत्यवर्णनम् ४४
६ - १७८ ऐन्दवोपाख्यानम् ६४
७ - १७९ ब्रह्ममयत्वप्रतिपादनम् २२
८ - १८० तापसोपाख्यानम् ४१
९ - १८१ गौर्याश्रमवर्णनम् ३९
१० - १८२ सप्तदीपेश्वर ५३
११ - १८३ द्वीपसप्काष्टकवर्णनम् ७०
१३ - १८५ कुन्ददन्तप्रबोधः २७
१४ - १८६ सर्वं खल्विदं ब्रह्मेति- ९०
प्रतिपादनयोगोपदेशः
६१८
॥ अथ प्रारभ्यते योगवासिष्ठान्तर्गता ब्रह्मगीता ॥
श्रीराम उवाच ।
सर्वानुभवरूपस्य तथा सर्वात्मनोऽप्ययम् ।
अनंतस्यात्मतत्त्वस्य देहेऽपि किमहंग्रहः ॥ १॥
चितः पाषाणकाष्ठत्वं स्वप्नादिषु कथं भवेत् ।
इदं पाषाणकाष्ठादि कथं नास्त्यस्ति वा कथम् ॥ २॥
वसिष्ठ उवाच ।
शरीरिणो यथा हस्ते हस्ततायां यथाग्रहः ।
सर्वात्मनस्तथा देहे देहतायां तथाग्रहः ॥ ३॥
पादपस्थ यथा पत्रे पत्रतायां यथाग्रहः ।
सर्वात्मनस्तथा वृक्षे वृक्षतायां तथाग्रहः ॥ ४॥
आकाशस्य यथा शून्ये शून्यतायां यथाग्रहः ।
सर्वात्मनस्तथा द्रव्ये द्रव्यतायां तथाग्रहः॥ ५॥
स्वप्नोचितः स्वप्नपुरे रूपतायां यथाग्रहः ।
सर्वात्मनस्तथा स्वप्नजाग्रदादौ तथाग्रहः ॥ ६॥
यथागेन्द्रे दृषद्दृक्षवार्यादौ स तथाग्रहः ।
तथा सर्वात्मनोऽगेन्द्रपुरतायां तथाग्रहः ॥ ७॥
शरीरस्य यथा केशनखादिषु यथाग्रहः ।
सर्वात्मनस्तथा काष्ठदृषदादौ तथाग्रहः ॥ ८॥
चित एव यथा स्वप्ने भवेत्काष्ठोपलादिता ।
चिदाकाशस्य सर्गादौ तथैवावयवादिता ॥ ९॥
चेतनाचेतनात्मैकं पुरुषस्य यथा वपुः ।
नखकेशजलाकाशधर्ममाकारभासुरम् ॥ १०॥
चेतनाचेतनात्मैकं तथा सर्वात्मनो वपुः ।
जंगमं स्थावरमयं किंतु नित्यमनाकृति ॥ ११॥
यथास्थितं शाम्यतीदं सम्यग्ज्ञानवतो जगत् ।
स्वप्ने स्वप्नपरिज्ञातुर्यथा दृष्टार्थसंभ्रमः ॥ १२॥
चिन्मात्राकाशमेवेदं न द्रष्टास्ति न दृश्यता ।
इति मौनमलं स्वप्नद्रष्टुर्यत्सा प्रबुद्धता ॥ १३॥
कल्पकोटिसहस्राणि सर्गा आयान्ति यान्ति च ।
त एवान्ये च चिद्व्योम्नि जलावर्ता इवार्णवे ॥ १४॥
करोत्यब्धौ यथोर्म्यादौ नाना कचकचं वपुः ।
चित्करोति तथा संज्ञाः सर्गाद्याश्चेतने निजे ॥ १५॥
यथास्थितमिदं विश्वं ब्रह्मैवानामयं सदा ।
तत्त्वज्ञं प्रत्यतत्त्वज्ञजनतानिश्चयादृते ॥ १६॥
नाहं तरंगः सलिलमहमित्येव युक्तितः ।
बुद्धं येन तरंगेण कुतस्तस्य तरंगता ॥ १७॥
ब्रह्मणोऽस्य तरंगत्वमिवाभानं यतस्ततः ।
तरंगत्वातरंगत्वे ब्राह्म्यौ शक्ती स्थितिं गते ॥ १८॥
चिद्व्योम्नोऽत्यजतो रूपं स्वप्नवद्व्यस्तवेदनम् ।
तदिदं हि मनो राम ब्रह्मेत्युक्तः पितामहः ॥ १९॥
एवमाद्यः प्रजानाथो निराकारो निरामयः ।
चिन्मात्ररूपसंकल्पपुरवत्कारणोज्झितः ॥ २०॥
येनांगदत्वं नास्तीति बुद्धं हेमांगदेन वै ।
अंगदत्वं कुतस्तस्य तस्य शुद्धेव हेमता ॥ २१॥
अजे संकल्पमात्रात्मचिन्मात्रव्योमदेहिनि ।
अहं त्वं जगदित्यादि यद्विभातं तदेव तत् ॥ २२॥
चिच्चमत्कृतयो भान्ति याश्चिद्व्योमनि शून्यताः ।
एतास्ताः सर्गसंहारस्थितिसंरभसंविदः ॥ २३॥
अच्छं चिन्मात्रनभसः कचनं स्वयमेव तत् ।
स्वप्नाभं चित्ततामात्रं स एष प्रपितामहः ॥ २४॥
यथा तरंगस्तेनैव रूपेणान्येन वानिशम् ।
स्फुरत्येवमनाद्यन्तः सर्गप्रलयविभ्रमः ॥ २५॥
चिद्व्योम्नः कचनं कान्तं यद्विराडिति शब्दितम् ।
भवेत्संकल्पपुरवत्तस्य कुर्यान्मनोऽपि वै ॥ २६॥
सर्गः स्वप्नः स्वप्न एव जाग्रद्देहः स एव च ।
घनं सुषुप्तं तैमिर्याद्यथा संवेदनं भवेत् ॥ २७॥
तस्य कल्पान्तरजनी शिरोरुहतयोदिता ।
प्रकाशतमसी कालक्रियाख्याः स्वांगसंधयः ॥ २८॥
तस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः ।
चंद्रार्कौ दृग्दिशौ श्रोत्रे कल्पनेति विजृम्भिता ॥ २९॥
एवं सम्यग्दृश्यमानो व्योमात्मा वितताकृतिः ।
अस्मत्संकल्पशैलाभो विराट् स्वप्नाकृतिस्थितः ॥ ३०॥
यच्च चेतच्चिदाकाशे स्वयं कचकचायते ।
तदेतज्जगदित्येवं तेनात्मैवानुभूयते ॥ ३१॥
विराडात्मैवमाकाशं भाति चिन्मयमाततम् ।
स्वभावस्वप्ननगरं नगनागमयात्मकम् ॥ ३२॥
अनुभवितैवानुभवं सत्यं स्वात्मानमप्यसन्तमिव ।
अनुभवतीयत्त्वेन स्वप्ननटः स्वप्नदेशमिव ॥ ३३॥
वेदान्तार्हतसांख्यसौगतगुरुत्र्यक्षादिसूक्तादृशो
ब्रह्मैव स्फुरितं तथात्मकलयास्तादात्मनित्यं यतः ।
तेषां चात्मविदोऽनुरूपमखिलं स्वर्गं फलं तद्भव-
त्यस्य ब्रह्मण ईदृगेव महिमा सर्वात्म यत्तद्वपुः ॥ ३४॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये
मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु परमार्थोपदेशो
नाम त्रिसप्तत्यधिकशततमः सर्गः ॥ १७३॥ -१-
॥ अथ द्वितीयोऽध्याः ॥
॥ निर्वाणोपदेशः ॥
वसिष्ठ उवाच ।
सर्गादौ स्वप्नसंवित्या चिदेवाभाति केवला ।
जगदित्यवभासेव ब्रह्मैवातो जगत्त्रयम् ॥ १॥
सर्गास्तरंगा ब्रह्माब्धेस्तेषु संवेदनं द्रवः ।
सर्गान्तरं सुखाद्यात्म द्वैत्यैक्यादीतरत्कुतः ॥ २॥
यथा स्वप्नसुषुप्तात्म निद्रारूपकमेव खम् ।
दृश्यादृश्यांशमेकात्म रूपं चिन्नभस्तथा ॥ ३॥
जाग्रति स्वप्ननगरं यादृक्तादृगिदं जगत् ।
परिज्ञातं भवेदत्र कथामास्था विवेकिनः ॥ ४॥
सर्गादौ सर्गसंवित्तेर्यथाभूतार्थवेदनात् ।
जाग्रति स्वाप्ननगरं यादृशं तादृशं जगत् ॥ ५॥
जाग्रति स्वप्ननगरवासना विविधा यथा ।
सत्या अपि न सत्यास्ता जाग्रत्यो वासनास्तथा ॥ ६॥
अन्यथोपप्रपद्येह कल्प्यते यदि कारणम् ।
तत्किं नेदीयसी नात्र भ्रान्तता कल्प्यते तथा ॥ ७॥
स्वानुभूयत एवेयं भ्रान्तिः स्वप्नजगत्स्विव ।
कारणं त्वनुमासाध्यं क्वानुमानुभवाधिका ॥ ८॥
दृष्टमप्यस्ति यन्नेशे न चात्मनि विचारितम् ।
अन्यथानुपपत्त्यान्तर्भ्रान्त्यात्म स्वप्नशैलवत् ॥ ९॥
निर्विकल्पं परं जाड्यं सविकल्पं तु संसृतिः ।
ध्यानं तेन समाधानं न संभवति किंचन ॥ १०॥
सचेत्यं संसृतिर्ध्यानमचेत्यं तूपलस्थिति ।
मोक्षो नोपलवद्भानं न विकल्पात्मकं ततः ॥ ११॥
न च नामोपलाभेन निर्विकल्पसमाधिना ।
अन्यदासाद्यते किंचिल्लभ्यते किं स्वनिद्रया ॥ १२॥
तस्मात्सम्यक्परिज्ञानाद्भ्रान्तिमात्रं विवेकिनः ।
सर्गात्यन्तासंभवतो यो जीवन्मुक्ततोदयः ॥ १३॥
निर्विकल्पं समाधानं तदनन्तमिहोच्यते ।
यथास्थितमविक्षुब्धमासनं सर्वभासनम् ॥ १४॥
तदनन्तसुषुप्ताख्यं तत्तुरीयमिति स्मृतम् ।
तन्निर्वाणमिति प्रोक्तं तन्मोक्ष इति शब्दितम् ॥ १५॥
सम्यग्बोधैकघनता यासौ ध्यानमिति स्मृतम् ।
दृश्यात्यन्तासंभवात्म बोधमाहुः परं पदम् ॥ १६॥
तच्च नोपलवज्जाड्यं न सुषुप्तोपमं भवेत् ।
न निर्विकल्पं न च वा सविकल्पं न वाप्यसत् ॥ १७॥
दृश्यात्यन्तासंभवात्म तदेवाद्यं हि वेदनम् ।
तत्सर्वं तन्न किंचिच्च तद्वदेवांग वेत्ति तत् ॥ १८॥
सम्यक्प्रबोधान्निर्वाणं परं तत्समुदाहृतम् ।
यथास्थितमिदं विश्वं तत्रालंप्रलयं गतम् ॥ १९॥
न तत्र नानानाना न न च किंचिन्न किंचन ।
समस्तसद सद्भावसीमान्तः स उदाहृतः॥ २०॥
अत्यन्तासंभवं दृश्यं यद्वै निर्वाणमासितम् ।
शुद्धबोधोदयं शान्तं तद्विद्धि परमं पदम् ॥ २१॥
स च सम्प्राप्यते शुद्धो बोधो ध्यानमनुत्तमम् ।
शास्त्रात्पदपदार्थज्ञबोधिनोत्पन्नबुद्धिना ॥ २२॥
मोक्षोपायाभिधं शास्त्रमिदं वाचयतानिशम् ।
बुद्ध्युपायेन शुद्धेन पुंसा नान्येन केनचित् ॥ २३॥
न तीर्थेन न दानेन न स्नानेन न विद्यया ।
न ध्यानेन न योगेन न तपोभिर्न चाध्वरैः ॥ २४॥
भ्रान्तिमात्रं किलेदं सदसत्सदिव लक्ष्यते ।
व्योमैव जगदाकारं स्वप्नोऽनिद्रे चिदंबरे ॥ २५॥
न शाम्यति तपस्तीर्थैर्भ्रान्तिर्नाम कदाचन ।
तपस्तीर्थादिना स्वर्गाः प्राप्यन्ते न तु मुक्तता ॥ २६॥
भ्रान्तिः शाम्यति शास्त्रार्थात्सम्यग्बुद्ध्यावलोकितात् ।
आत्मज्ञानमयान्मोक्षोपायादेवेह नान्यतः ॥ २७॥
आलोककारिणात्यर्थं शास्त्रार्थेनैव शाम्यति ।
अमलेनाखिला भ्रान्तिः प्रकाशेनैव तामसी ॥ २८॥
सर्गसंहारसंस्थानां भासो भान्ति चिदंबरे ।
स्पन्दनानीव मरुति द्रवत्वानीव वारिणि ॥ २९॥
द्रव्यस्य हृद्येव चमत्कृतिर्निजा
नभस्वतः स्पन्द इवानिशं यथा ।
यथा स्थिता सृष्टिरियं तथास्तिता
लयं नभस्यन्तरनन्यरूपिणी ॥ ३०॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये
मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु निर्वाणोपदेशो
नाम चतुःसप्तत्यधिकशततमः सर्गः ॥ १७४॥ -२-
॥ अथ तृतीयोऽध्यायः ॥
॥ अद्वैतयुक्तिः ॥
वसिष्ठ उवाच ।
स्वप्नाभमाद्यं चिद्व्योम कारणं देहसंविदाम् ।
दृश्यान्यता संभवतश्चिद्व्योम्नस्तत्कुतो वपुः ॥ १॥
सर्गादौ स्वप्नसंवित्तिरूपं सर्वं विनानघ ।
न सर्गो न परो लोको दृश्यमानोऽपि सिध्यति ॥ २॥
असदेवानुभूरित्थमेवेदं भासते जगत् ।
स्वप्नांगनासंग इव शान्तं चिद्व्योम केवलम् ॥ ३॥
एवं नामास्ति चिद्धातुरनादिनिधनोऽमलः ।
शून्यात्मैवाच्छरूपोऽपि जगदित्यवभाति यः ॥ ४॥
मलस्त्वेषोऽपरिज्ञातः परिज्ञातः परं भवेत् ।
कुतः किल परे व्योमन्यनादिनिधने मलः ॥ ५॥
यदेतद्वेदनं शुद्धं तदेव स्वप्नपत्तनम् ।
जगत्तदेव सर्गादौ पृथ्व्यादेः संभवः कुतः ॥ ६॥
चिद्व्योमात्मावभासस्य नभसः सर्गरूपिणी ।
कृता पृथ्व्यादिकलता मनोबुद्ध्यादिता तथा ॥ ७॥
वार्यावर्त इअवाभाति पवनस्पंदवच्च यत् ।
अबुद्धिपूर्वं चिद्व्योम्नि जगद्भानमभित्तिमत् ॥ ८॥
पश्चात्तस्यैव तेनैव स्वयमैश्वर्यशंसिना ।
कृतं बुद्ध्यादिपृथ्व्यादिकल्पनं सदसन्मयम् ॥ ९॥
स्वयमेव कचत्यच्छाच्छायेयं स्वा महाचितिः ।
सर्गाभिधानमस्यैव नभ एवेह नेतरत् ॥ १०॥
न च किंचन नामांग कचत्यच्छैव सा स्मृता ।
चिन्मात्रैकैककलनं ततमेवात्मनात्मनि ॥ ११॥
चिदाकाशश्चिदाकाशे तदिदं स्वमल वपुः ।
चित्तं दृश्यमिवाभाति स्वप्ने तथा स्थितम् ॥ १२॥
अन्यथानुपपन्यार्थकारणाभावतः स्वतः ।
सर्गादावेव स्वात्मैव दृश्यं चिद्व्योम पश्यति ॥ १३॥
स्वप्नवत्तच्च निर्धर्म मनागपि न भिद्यते ।
तस्माच्चिद्व्योम चिद्व्योम शून्यत्वं गगनादिवत् ॥ १४॥
यदेव तत्परं ब्रह्म सर्वरूपविवर्जितम् ।
तदेवैकं तथारूपमेवं सर्वतया स्थितम् ॥ १५॥
स्वप्नेऽनुभूयते चैतत्स्वप्नो ह्यात्मैव भासते ।
नानाबोधमनानैव ब्रह्मैवामलमेव तत् ॥ १६॥
ब्रह्मैवात्मनि चिद्भावाज्जीवत्वमिव कल्पयत् ।
रूपमन्यजदेवाच्छं मनस्तामिव गच्छति ॥ १७॥
इदं सर्वं तनोतीव तच्च खात्मकमेव खम् ।
भवतीव जगद्रूपं विकारीवाविकार्यपि ॥ १८॥
मन एव स्वयं ब्रह्मा स सर्गम्य हृदि स्थितः ।
करोत्यविरतं सर्वमजस्रं संहरत्यपि ॥ १९॥
पृथ्वादिरहितो यस्मिन्मनोहृद्यंगवर्जिते ।
अन्यद्वा त्रिजगद्भाति यथा स्वप्ने निराकृति ॥ २०॥
देहरूपजगद्रूपैरहमेकमनाकृति ।
मनस्तिष्ठाम्यनंतात्मबोधाबोधं पराभवम् ॥ २१॥
नेह पृथ्व्यादि नो देहो न चैवान्यास्ति दृश्यता ।
जगत्रया केवलं खं मनः कचकचायते ॥ २२॥
विचार्यदृष्ट्यैतदपि न किंचिदपि विद्यते ।
केवलं भाति चिन्मात्रमात्मनात्मनि निर्धनम् ॥ २३॥
यतो वाचो निवर्तन्ते तूष्णींभावोऽवशिष्यते ।
व्यवहार्यपि खात्मैव तद्वत्तिष्ठति मूकवत् ॥ २४॥
अनन्तापारपर्यन्ता चिन्मात्रपरमेष्टका ।
तूष्णींभूत्वा भवत्येष प्रबुद्धः पुरुषोत्तमः ॥ २५॥
अबुद्धिपूर्वं द्रवतो यथावर्तादयोंऽभसि ।
क्रियन्ते ब्रह्मणा तद्वच्चित्तबुद्ध्यादयो जडाः ॥ २६॥
अबुद्धिपूर्वं वातेन क्रियते स्पंदनं यथा ।
अनन्यदेवं बुद्ध्यादि क्रियते परमात्मना ॥ २७॥
अनन्यदात्मनो वायोर्यथा स्पंदनमव्ययम् ।
अनन्यदात्मनस्तद्वच्चिन्मात्रं परमात्मनः ॥ २८॥
चिद्व्योम ब्रह्मचिन्मात्रमात्मा चिति महानिति ।
परमात्मेति पर्याया ज्ञेया ज्ञानवतां वर ॥ २९॥
ब्रह्मोन्मेषनिमेषात्म स्पंदास्पंदात्म वातवत् ।
निमेषो यादृगेवास्य समुन्मेषस्तथा जगत् ॥ ३०॥
दृश्यमस्य समुन्मेषो दृश्याभावो निमेषणम् ।
एकमेतन्निराकारं तद्द्वयोरप्युपक्षयात्॥ ३१॥
निमेषोन्मेषयोरेकरूपमेव परं मतम् ।
अतोऽस्ति दृश्यं नास्तीति सदसच्च सदाचितिः ॥ ३२॥
निमेषो नान्य उन्मेषान्नोन्मेषोऽपि निमेषतः ।
ब्रह्मणः सर्गवपुषो निमेषोन्मेषरूपिणः ॥ ३३॥
तद्यथास्थितमेवेदं विद्धि शान्तमशेषतः ।
अजातमजरं व्योम सौम्यं समसमं जगत् ॥ ३४॥
चिदचित्यात्मकं व्योम रूपं कचकचायते ।
चिन्नाम तदिदं भाति जगदित्येव तद्वपुः ॥ ३५॥
न नश्यति न चोत्पन्नं दृश्यं नाप्यनुभूयते ।
स्वयं चमत्करोत्यन्तः केवलं केवलैव चित् ॥ ३६॥
महाचिद्व्योममणिभा दृश्यनाम्नी निजाकरात् ।
अनन्यान्येव भातापि भानुभास इवोष्णता ॥ ३७॥
सुषुप्तं स्वप्नवद्भाति ब्रह्मैव सर्गवत् ।
सर्वमेकं शिवं शान्तं नानेवापि स्थितं स्फुरत् ॥ ३८॥
यद्यत्संवेद्यते यादृक्सद्वासद्वा यथा यदा ।
तथानुभूयते तादृक्तत्सदस्त्वसदस्तु वा ॥ ३९॥
अन्यथानुपपत्या चेत्कारणं परिकल्प्यते ।
तत्स्वप्नाभो जगद्भावादन्यथा नोपपद्यते ॥ ४०॥
प्रमातीतात्पराद्विश्वमनन्यदुदितं यतः ।
प्रमातीतमिदं चैव किंचिन्नाभ्युदितं ततः ॥ ४१॥
यस्य यद्रसिकं चित्तं तत्तथा तस्य गच्छति ।
ब्रह्मैकरसिकं तेन मनस्तत्तां समश्नुते ॥ ४२॥
यच्चित्तो यद्गतप्राणो जनो भवति सर्वदा ।
तत्तेन वस्त्विति ज्ञातं जानाति तदसौ स्फुटम् ॥ ४३॥
ब्रह्मैकरसिकं यत्स्यान्मनस्तत्तद्भवेत्क्षणात् ।
यस्य यद्रसिकं चेतो बुद्धं तेन तदेव सत् ॥ ४४॥
विश्रान्तं यस्य वै चित्तं जन्तोस्तत्परमार्थसत् ।
व्यवहृत्यै करोत्यन्यत्सदाचारादतद्रसम् ॥ ४५॥
द्वित्वैकत्वादिकलना नेह काचन विद्यते ।
सत्तामात्रं च दृगियमितश्चेदलमीक्ष्यते ॥ ४६॥
अदृश्यदृश्यसदसन्मूर्तामूर्तदृशामिह ।
नैवास्ति न च नास्त्येव कर्ता भोक्ताथवा क्वचित् ॥ ४७॥
इदमित्थमनाद्यन्तं जगत्पर्यायमात्मनि ।
ब्रह्मैकघनमाशान्तं स्थितं स्थाणुरिवाध्वनि ॥ ४८॥
यदेव ब्रह्मबुद्ध्यादि तदेवैतन्निरंजनम् ।
यदेव गगनं शान्तं शून्यं विद्धि तदेव तत् ॥ ४९॥
केशोण्ड्रकादयो व्योम्नि यथा सदसदात्मकाः ।
द्वितामिवागता भान्ति परे बुद्ध्यादयस्तथा ॥ ५०॥
तथा बुद्ध्यादि देहादि वेदनादि परापरे ।
अनेकान्यप्यनन्यानि शून्यत्वानि यथांबरे ॥ ५१॥
सुषुप्ताद्विशतः स्वप्नमेकनिद्रात्मनो यथा ।
सर्गस्थस्यापि न द्वित्वं नैकत्वं ब्रह्मणस्तथा ॥ ५२॥
एवमेव कचत्यच्छा छायेयं स्वा महाचितेः ।
न च किंचन नामांग कचत्यच्छैवमास्थिता ॥ ५३॥
चिद्व्योम्नि हि चिदाकाशमेव स्वममलं वपुः ।
चेत्यं दृश्यमिवाभाति स्वप्नेष्विव यथास्थितम् ॥ ५४॥
अन्यथानुपपत्त्यार्थकारणाभावतः स्वतः ।
चिद्व्योमात्मानमेवादौ दृश्यमित्येव पश्यति ॥ ५५॥
सर्गादावेव खात्मैव दृश्यं भाति निराकृति ।
संभ्रमः स्वप्नसंकल्पमिथ्याज्ञानेष्विवाभितः ॥ ५६॥
स्वप्नवत्तच्च निर्धर्म मनागपि न भिद्यते ।
विकार्यपि सधर्मापि चिद्व्योम्नो वस्तुनो मलात् ॥ ५७॥
तत्स्वप्ननगराकारं सधर्माप्यसधर्मकम् ।
शिवादनन्यमेवेत्थं स्थितमेव निरन्तरम् ॥ ५८॥
दृश्यं स्वप्नाद्रिवत्स्वच्छं मनागपि न भिद्यते ।
तस्माच्चिद्व्योम चिद्व्योम्नः शून्यत्वं गगनादिव ॥ ५९॥
यदेव तत्परं ब्रह्म सर्वरूपविवर्जितम् ।
तदेवेदं तथाभूतमेव सर्गतया स्थितम् ॥ ६० ।
स्वप्नेऽनुभूयते चैतत्स्वप्ने ह्यात्मैव भासते ।
पुरादित्वेन न तु सत्पुरादिरचितं तदा ॥ ६१॥
स्वप्ने च प्रत्यभिज्ञायाः संस्कारस्य स्मृतेस्तथा ।
न सत्ता तदिदं दृष्टमित्यर्थस्यात्यसंभवात् ॥ ६२॥
तस्मादेतत्त्रयं त्यक्त्वा यद्भानं ब्रह्मसंविदः ।
तस्य दृष्टार्थसादृश्यान्मूढैः स्मृत्यादितोहिता ॥ ६३॥
यथा यत्रैव लहरी वारिण्येति पुनः पुनः ।
तत्रैवेति तथा तद्वदनन्या खे परे जगत् ॥ ६४॥
विधयः प्रतिषेधाश्च सर्व एव सदैव च ।
विभक्ताश्च विमिश्राश्च परे सन्ति न सन्ति च ॥ ६५॥
तस्मात्सद्ब्रह्म सर्वात्म किमिवात्र न विद्यते ।
सैव सत्तैव सर्वात्म चैतदप्येतदात्मकम् ॥ ६६॥
भ्रान्तस्य भ्रमणं भूमेर्न भूभ्रान्तैव वा गणैः ।
न शाम्यति ज्ञातुरपि तथाभ्यासं विनात्र दृक् ॥ ६७॥
शास्त्रस्यास्य तु यन्नाम वादनं तद्विनापरः ।
अभ्यासो दृश्यसंशान्त्यै न भूतो न भविष्यति ॥ ६८॥
न जीवन्नमृतं चित्तं रोधमायाति संसृतेः ।
अविनाभाविदेहत्वाद्बोधात्त्वेतन्न पश्यति ॥ ६९॥
सर्वदैवाविनाभावि चित्तं दृश्यशरीरयोः ।
इह चामुत्र चैतस्य बोधान्ते शाम्यतः स्वयम् ॥ ७०॥
चित्तदृश्यशरीराणि त्रीणि शाम्यन्ति बोधतः ।
पवनस्पन्दसैन्यानि कारणाभावतो यथा ॥ ७१॥
कारणं मौर्ख्यमेवास्य तच्चास्मादेव शास्त्रतः ।
किंचित्संस्कृतबुद्धीनां वाचितादेव शाम्यति ॥ ७२॥
अबुद्धमुत्तरग्रंथात्पूर्वं पूर्वं हि बुध्यते ।
ग्रंथं पदपदार्थज्ञः खेदवान्न निवर्तते ॥ ७३॥
उपायमिदमेवातो विद्धि शास्त्रं भ्रमक्षये ।
अनन्यसाधारणतां गतमित्यनुभूयते ॥ ७४॥
तस्मादस्मान्महाशास्त्राद्यथाशक्ति विचारयेत् ।
भागौ द्वौ भागमेकं वा तेन दुःखक्षयो भवेत् ॥ ७५॥
आरुषेयमिदमिति प्रमादाच्चेन्न रोचते ।
तदन्यदात्मविज्ञानशास्त्रं किंचिद्विचारयेत् ॥ ७६॥
अनर्थेनाविचारेण वयः कुर्यान्न भस्मसात् ।
बोधेन ज्ञानसारेण दृश्यं कर्तव्यमात्मसात् ॥ ७७॥
आयुषः क्षण एकोऽपि सर्वरत्नैर्न लभ्यते ।
नीयते तद्वृथा येन प्रमादः सुमहानहो ॥ ७८॥
अनुभूतमपि च नो सदृश्यमिदं द्रष्टृसहितमपि ।
स्वप्ननिजमरणबांधवरोदनमिव सदिव कचितमपि ॥ ७९॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये
मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु परमार्थगीतासु
अद्वैतयुक्तिर्नाम पञ्चसप्तत्यधिकशततमः सर्गः ॥ १७५॥ -३-
॥ अथ पंचमोऽध्यायः ॥
॥ सत्यवर्णनम् ॥
श्रीराम उवाच ।
अकारणकमेवेदं जगद्ब्रह्म परात्पदात् ।
यदि प्रवर्तते नाम स्वप्नसंकल्पनादिवत् ॥ १॥
तदकारणतः सिद्धेः संभवेऽन्यदकारणम् ।
कथं न जायते वस्तु क्वचित्किंचित्कदाचन ॥ २॥
वसिष्ठ उवाच ।
यद्यथा कल्पितं येन स सम्पश्यति तत्तथा ।
कल्पनैवान्यथा न स्यात्तादृक्कारणविच्युतेः ॥ ३॥
यथेदं कल्पितं दृश्यं मनसा येन तत्तथा ।
वेत्त्यसौ यादृगन्येन कल्पितं वेत्त्यसौ तथा ॥ ४॥
कल्पनाकल्पनात्मैकं तच्च ब्रह्म स्वभावतः ।
कल्पनात्मेदृशं जन्तुर्यथा केशनखादिमान् ॥ ५॥
अकारणपदार्थत्वं सकारणपदार्थता ।
ब्रह्मणि द्वयमप्यस्ति सर्वशक्त्यात्म तद्यतः ॥ ६॥
यतः स्याद्ब्रह्मणस्त्वन्यत्क्वचित्किंचित्कदाचन ।
तत्कारणविकल्पेन संयोगस्तस्य युज्यते ॥ ७॥
यत्र सर्वमनाद्यन्तं नानानानात्म भासते ।
ब्रह्मैव शान्तमेकात्म तत्र किं कस्य कारणम् ॥ ८॥
नेह प्रवर्तते किंचिन्न च नाम निवर्तते ।
स्थितमेकमनाद्यन्तं ब्रह्मैव ब्रह्म खात्मकम् ॥ ९॥
किं कस्य कारणं केन किमर्थं भवतु क्व वा ।
किं कस्य कारणं केन किमर्थं मास्तु वा क्वचित् ॥ १०॥
नेह शून्यं न वा शून्यं न सन्नासन्न मध्यता ।
विद्यते न महाशून्ये न नेति न न नेति च ॥ ११॥
इदं न किंचित्किंचिद्वा यन्नामास्त्यथ नास्ति वा ।
सर्वं ब्रह्मैव तद्विद्धि यत्तथैवातथैव तत् ॥ १२॥
श्रीराम उवाच ।
अतज्ञविषये ब्रह्मन्कार्ये कारणसंभवे ।
किमकारणतात्म स्यात्कथं वेति वद प्रभो ॥ १३॥
वसिष्ठ उवाच ।
अतज्ञो नाम नास्त्येव तावत्तज्ज्ञजनं प्रति ।
असतो व्योमवृक्षस्य विचारः कीदृशस्ततः ॥ १४॥
एकबोधमयाः शान्तविज्ञानघनरूपिणः ।
तज्ज्ञास्तेषामसद्रूपे कथमर्थे विचारणा ॥ १५॥
अतज्ज्ञत्वं च बोधेऽन्तरवभाति तदंगता ।
गते स्वप्नसुषुप्तेऽन्तरिव निद्रात्म केवलम् ॥ १६॥
तथाप्यभ्युपगम्यापि मूर्खनिश्चय उच्यते ।
प्रयेदमणु सर्वात्म यस्माद्ब्रह्म निरामयम् ॥ १७॥
सन्त्यकारणका एव सन्ति कारणजास्तथा ।
भावाः संविद्यथा यस्मात्कल्प्यते लभ्यते तथा ॥ १८॥
सर्वकारणसंशान्तौ सर्वानुभवशालिनाम् ।
सर्गस्य कारणं नास्ति तेन सर्गस्त्वकारणः ॥ १९॥
हृदयंगमतात्यक्तमीश्वरादि प्रकल्प्यते ।
यदत्र किंचिदुःस्वादु व्यर्थं वाग्जालमेव तत् ॥ २०॥
अन्यथानुपपत्त्यैव स्वप्नाभाकलनादृते ।
स्थूलाकारात्मिका काचिन्नास्ति दृश्यस्य दृश्यता ॥ २१॥
स्वप्नपृथ्व्याद्यनुभवे किमबुद्धस्य कारणम् ।
चित्स्वभावादृते ब्रूहि स्वप्नार्थो नाम कीदृशः ॥ २२॥
स्वप्नार्थो ह्यपरिज्ञातो महामोहभरप्रदः ।
परिज्ञातो न मोहाय यथा सर्गास्तथैव च ॥ २३॥
शुष्कतर्कहठावेशाद्यद्वाप्यनुभवोज्झितम् ।
कल्प्यते कारणं किंचित्सा मौर्ख्याभिनिवेशिता ॥ २४॥
अग्नेरौष्ण्यमपां शैत्यं प्राकाश्यं सर्वतेजसाम् ।
स्वभावो वाखिलार्थानां किमबुद्धस्य कारणम् ॥ २५॥
किं ध्यातृशतलब्धस्य ध्येयस्यैकस्य कारणम् ।
किं च गंधर्वनगरे पुरे भित्तिषु कारणम् ॥ २६॥
धर्माद्यमुत्रामूर्तत्वान्मूर्ते देहे न कारणम् ।
देहस्य कारणं किं स्यात्तत्र सर्गादिभोगिनः ॥ २७॥
भित्त्यभित्त्यादिरूपाणां ज्ञानस्य ज्ञानवादिनः ।
किं कारणमनन्तानामुत्पन्नध्वंसिनां मुहुः ॥ २८॥
स्वभावस्य स्वभावोऽसौ किल कारणमित्यपि ।
यदुच्यते स्वभावस्य सा पर्यायोक्तिकल्पता ॥ २९॥
तस्मादकारणा भ्रान्तिर्भावा भान्ति च कारणम् ।
अज्ञे ज्ञे त्वखिलं कार्यं कारणाद्भवति स्थितम् ॥ ३०॥
यद्वत्स्वप्नपरिज्ञानात्स्वप्ने द्रव्यापहारिभिः ।
न दुःखाकरणं तद्वज्जीवितं तत्त्वदर्शनात् ॥ ३१॥
सर्गादावेव नोत्पन्नं दृश्यं चिद्गगनं त्विदम् ।
स्वरूपं स्वप्नवद्भाति नान्यदत्रोपपद्यते ॥ ३२॥
अन्या न काचित्कलना दृश्यते सोपपत्तिका ।
अस्मान्न्यायादृते कस्माद्ब्रह्मैवैषानुभूतिभूः ॥ ३३॥
ऊर्म्यावर्तद्रवत्वादि शुद्धे जलघने यथा ।
तथेदं सर्गपर्यायं ब्रह्मणि ब्रह्म भासते ॥ ३४॥
स्पन्दावर्तविवर्तादि निर्मले पवने यथा ।
तथायं ब्रह्मपवने सर्गस्पन्दोऽवभासते ॥ ३५॥
यथानन्तत्वसौषिर्यशून्यत्वादि महांबरे ।
स सन्नासन्नबोधात्म तथा सर्गः परापरः ॥ ३६॥
एषु निद्रादिकेष्वेते सूपलब्धा अपि स्फुटम् ।
भावा असन्मया एवमेतेऽनन्यात्मका यतः ॥ ३७॥
सर्गप्रलयसंस्थानान्येवमात्मनि चिद्घने ।
सौम्ये स्वप्नसुषुप्ताभा शुद्धे निद्राघने यथा ॥ ३८॥
स्वप्नात्स्वप्नान्तराण्यास्ते निद्रायां मानवो यथा ।
सर्गात्सर्गान्तराण्यास्ते स्वसत्तायामजस्तथा ॥ ३९॥
पृथ्वादिरहितोऽप्येष ब्रह्माकाशो निरामयः ।
अतद्वांस्तद्वदाभाति यथा स्वप्नानुभूतिषु ॥ ४०॥
स्थिता यथास्यां पश्यन्तां शब्दा घटपटादयः ।
जाताजाताः स्थिताः सर्गास्तथानन्ये महाचिति ॥ ४१॥
पश्यन्तामेव पश्यन्ती यथा भाति तथैव च ।
यथा शब्दास्तथा सर्गाश्चितैव चितिचिन्मयः ॥ ४२॥
किं शास्त्रकं तत्र कथाविचारै-
र्निर्वासनं जीवितमेव मोक्षः ।
सर्गे त्वसत्येवप्रकारणत्वा-
त्सत्येव नास्त्येव न नाम काचित् ॥ ४३॥
एषा च सिद्धेह हि वासनेति
सा बोधसत्तैव निरन्तरैका ।
नानात्वनानारहितैव भाति
स्वप्ने चिदेवेह पुरादिरूपा ॥ ४४॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये
मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु सत्यवर्णनं
नाम सप्तसप्तत्यधिकशततमः सर्गः ॥ १७७॥ -५-
॥ अथ षष्ठः सर्गः ॥
॥ ऐन्दवोपाख्यानम् ॥
श्रीराम उवाच ।
पदार्था द्विविधाः सन्ति मूर्तामूर्ता जगत्त्रये ।
यत्र सप्रतिघाः केचित्केचिदप्रतिघा अपि ॥ १॥
तानिहाप्रतिघानाढुर्नान्योन्यं वेल्लयन्ति ये ।
तांश्च सप्रतिघानाहुरन्योन्यं वेल्लयन्ति ये ॥ २॥
इह सप्रतिघानं तु दृष्टमन्योन्यवेल्लनम् ।
नत्वप्रतिघरूपाणां केषांचिदपि किंचन ॥ ३॥
तत्र संवेदनं नाम यदिदं चंद्रमण्डले ।
इतः पतत्यप्रतिघं तत्सर्वेणानुभूयते ॥ ४॥
अर्धप्रबुद्धसंकल्पविकल्पाद्वैतकल्पितम् ।
वदाम्यभ्युपगम्येदं न तु बोधदशास्थितम् ॥ ५॥
कः प्राणमारुतः क्षोभं जनयत्याशयस्थितः ।
प्रवेशनिर्गमभयं कथं वा वद मे प्रभो ॥ ६॥
कथमप्रतिघं नाम वेदनं प्रतिघात्मकम् ।
इमं देहं चालयति भारं भारहरो यथा ॥ ७॥
यदि सप्रतिघं वस्तु वेल्लत्यप्रतिघात्मकम् ।
कथं संवित्तिमात्रेण पुंसः शैलो न वल्गति ॥ ८॥
वसिष्ठ उवाच ।
विकासमथ संकोचमत्र नाली हृदि स्थिता ।
यदा याति तदा प्राणश्च्छेदैरायाति याति च ॥ ९॥
बाह्योपस्करभस्रायां यथाकाशास्पदात्मकः ।
वायुर्यात्यपि चायाति तथात्र स्पंदनं हृदि ॥ १०॥
श्रीराम उवाच ।
बहिर्भस्रामयस्कारः संकोचनविकासनैः ।
योजयत्यान्तरं नाडीं कश्चालयति चालकः ॥ ११॥
शतं कथं भवेदेकं कथमेकं शतं भवेत् ।
कथं सचेतना एते काष्ठलोष्टूपलादयः॥ १२॥
कस्मान्न स्थावरं वस्तु प्रस्पन्द्यपि चमत्कृतम् ।
वस्तु जंगममेवेह स्पन्दिमात्रेव किं वद ॥ १३॥
वसिष्ठ उवाच ।
अन्तःसंवेदनं नाम चालयत्यान्त्रवेष्टनम् ।
बहिर्भस्रामयस्कार इव लोकेऽनुचेष्टनम् ॥ १४॥
श्रीराम उवाच ।
वाय्वन्त्रादिशरीरस्थं सर्वं सप्रतिघं मुने ।
कथमप्रतिघा संविच्चालयेदिति मे वद ॥ १५॥
संविदप्रतिघाकारा यदि सप्रतिघात्मकम् ।
चालयेदचलिप्यत्तददूरमम्भो यदिच्छया ॥ १६॥
सप्रतिघाप्रतिघयोर्मिथो यदि पदार्थयोः ।
वेल्लनं स्यात्तदिच्छैव कर्तृकर्मेन्द्रियैः क्व किम् ॥ १७॥
सप्रतिघाप्रतिघयोः शेषो नास्ति बहिर्यथा ।
तथैवान्तरहं मन्ये शेषं कथय मे मुने ॥ १८॥
अन्तःस्वयं योगिना वा यथैतदनुभूयते ।
अमूर्तस्यैव मूर्तेन वेल्लनं तद्वदाशु मे ॥ १९॥
वसिष्ठ उवाच ।
सर्वसंदेहवृक्षाणां मूलकाषमिदं वचः ।
सर्वैकतानुभूत्यर्थं शृणु श्रवणभूषणम् ॥ २०॥
नेह किंचिन्न नामास्ति वस्तु सप्रतिघं क्वचित् ।
सर्वदा सर्वमेवेदं शान्तमप्रतिघं ततम् ॥ २१॥
शुद्धं संविन्मयं सर्वं शान्तमप्रतिघात्मकम् ।
पदार्थजातं पृथ्व्यादि स्वप्नसंकल्पयोरिव ॥ २२॥
आदावन्ते च नास्तीदं कारणाभावतोऽखिलम् ।
भ्रान्त्यात्मा वर्तमानापि भाति चित्स्वप्नगा यथा ॥ २३॥
द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।
महता कारणौघेन बोधमप्रतिघं विदुः ॥ २४॥
अन्तःकरणभूतादि मृत्काष्ठदृषदादि वा ।
सर्वं शून्यमशून्यं च चेतनं विद्धि नेतरत् ॥ २५॥
तत्रैवमैन्दवाख्यानं शृणु श्रवणभूषणम् ।
मया च पूर्वमुक्तं तत्किंचान्यदभिवर्ण्यते ॥ २६॥
तथापि वर्तमानोक्तप्रश्नबोधाय तच्छृणु ।
यथेदं सर्वमद्र्यादि चिदित्येव तु भोत्स्यते ॥ २७ ।
कस्मिंश्चित्प्राक्तनेनैव जगज्जालेऽभवद्द्विजः ।
तपोवेदक्रियाधारो ब्रह्मन्निन्दुरिति स्मृतः ॥ २८॥
दश तस्याभवन्पुत्रा जगतो दिक्तटा इव ।
महाशया महात्मानो महतामास्पदां सतां ॥ २९॥
स तेषां कालवशतः पितान्तर्धिमुपाययौ ।
दशानां भगवान्रुद्र एकादश इव क्षये ॥ ३०॥
तस्यानुगमनं चक्रे भार्या वैधव्यभीतिभिः ।
अनुरक्ता दिनस्येव संध्या ताराविलोचना ॥ ३१॥
तयोस्ते तनया दुःखकलिता विपिनं गताः ।
कृतौर्ध्वदेहिकास्त्यक्त्वा व्यवहारं समाधये ॥ ३२॥
धारणानां समस्तानां का स्यादुत्तमसिद्धिदा ।
धारणा यन्मयाः सन्तः स्यामः सर्वेश्वरा वयम् ॥ ३३॥
इति ते तत्र संचिन्त्य बद्धपद्मासना दश ।
इदं संचिन्तयामासुर्निर्विघ्ने कंदरोदरे ॥ ३४॥
पद्मजाधिष्ठिताशेषजगद्धारणया स्थिताः ।
भवाम पद्मजोपेतं जगद्रूपमविघ्नतः ॥ ३५॥
इति संचिन्त्य सब्रह्म जगद्धारणया चिरम् ।
निमीलितदृशस्तस्थुस्ते चित्ररचिता इव ॥ ३६॥
अथैतद्धारणाबद्धचित्तास्ते तावदच्युताः ।
आसन्मासान्दशाष्टौ च यावत्ते तत्र देहकाः ॥ ३७॥
शुष्काः कंकालतां याताः क्रव्यादैश्चर्वितांगकाः ।
नाशमभ्याययुस्तत्र छायाभागा इअवातपैः ॥ ३८॥
अहं ब्रह्मा जगच्चेदं सर्गोऽयं भुवनान्वितः ।
इति सम्पश्यतां तेषां दीर्घकालोऽभ्यवर्तत ॥ ३९॥
तानि चित्तान्यदेहानि दशैकध्यानतस्ततः ।
सम्पन्नानि जगन्त्येव दश देहानि वै पृथक् ॥ ४०॥
इति तेषां चिदिच्छासासम्पन्ना सकलं जगत् ।
अत्यंतस्वच्छरूपैव स्थिता चाकारवर्जिता ॥ ४१॥
संविन्मयत्वाज्जगतां तेषां भूम्यचलादि तत् ।
सर्वं चिदात्मकं विद्धि नो चेदन्यत्किमुच्यताम् ॥ ४२॥
किलयत्त्रिजगज्जालं तेषां किमात्मतत्तथा ।
संविदाकाशशून्यत्वमात्रमेवेतरन्न तत् ॥ ४३॥
विद्यते न यथा किंचित्तरंगः सलिलादृते ।
संवित्तत्वादृते तद्वद्विद्यते चलनादिकम् ॥ ४४॥
ऐंदवानि यथैतानि चिन्मयानि जगन्ति खे ।
तथा चिन्मयमेतेषु काष्ठलोष्टोपलाद्यपि ॥ ४५॥
यथैवैंदवसंकल्पास्ते जगत्त्वमुपागताः ।
तथैवाब्जजसंकल्पो जगत्त्वमयमागतः ॥ ४६॥
तस्मादिहेमे गिरयो वसुधापादपा घनाः ।
महाभूतानि सर्वं च चिन्मात्रमयमाततम् ॥ ४७॥
चिद्वृक्षाश्चिन्मही चिद्द्यौश्चिदाकाशं चिदद्रयः ।
नाचित्क्वचित्संभवति तेष्वैंदवजगत्स्विव ॥ ४८॥
चिन्मात्रखकुलालेन स्वदेहचलचक्रके ।
स्वशरीरमृदा सर्गः कुतोऽयं क्रियतेऽनिशम् ॥ ४९॥
संकल्पनिर्मिते सर्गे दृषदश्चेन्नचेतनाः ।
तदत्र लोष्टशैलादि किमेतदिति कथ्यताम् ॥ ५०॥
कलनस्मृतिसंस्कारा दधत्यर्थं च नोदरे ।
प्राङ्मृष्टं कल्पनादीनामन्यैवार्थकलावताम् ॥ ५१॥
तद्धामसंविदो नाम्नि मणिराशौ मणिर्यथा ।
सर्वात्मनि तथा चित्ते कश्चिदर्थ उदेत्यलम् ॥ ५२॥
अकार्यकरणस्यार्थो न भिन्नो ब्रह्मणः क्वचित् ।
स्वभाव इति तेनेदं सर्वं ब्रह्मेति निश्चयः ॥ ५३॥
यथाप्रवृत्तं चिद्वारि वहत्यावर्ततेव नौ ।
स्वयत्नेनातितीव्रेण परात्मीयात्मना विना ॥ ५४॥
पद्मलीला जगदिव प्रकचन्ति जगन्ति यत् ।
चिन्मात्राद्ब्रह्मणः स्वस्मादन्यानि न मनागपि ॥ ५५॥
अजात्मानिरुद्धं च सन्मात्रं ब्रह्म खात्मकम् ।
शान्तं सदसतोर्मध्यं चिद्भामात्रमिदं जगत् ॥ ५६॥
यत्संविन्मयमद्र्यादिसंकल्पं जगति स्थितम् ।
तदसंविन्मयमिति वक्ताऽज्ञो ज्ञैर्विहस्यते ॥ ५७॥
जगन्त्यात्मेव संकल्पमयान्येतानि वेत्ति खे ।
खात्मकानि तथेदं च ब्रह्म संकल्पजं जगत् ॥ ५८॥
यावद्यावदियं दृष्टिः शीघ्रं शीघ्रं विलोक्यते ।
तावत्तावदिदं दुःखं शीघ्रं शीघ्रं विलीयते ॥ ५९॥
यावद्यावदियं दृष्टिः प्रेक्ष्यते न चिराच्चिता ।
तावत्तावदिदं दुःखं भवेत्प्रतिघनं घनम् ॥ ६०॥
दीर्घदुष्कृतमूढानामिमां दृष्टिमपश्यताम् ।
संसृतिर्वज्रसारेयं न कदाचित्प्रशाम्यति ॥ ६१॥
नेहाकृतिर्न च भवाभवजन्मनाशाः
सत्ता न चैव न च नाम तथास्त्यसत्ता ।
शान्तं परं कचति केवलमात्मनीत्थं
ब्रह्माथवा कचनमप्यलमत्र नास्ति ॥ ६२॥
आद्यन्तवर्जितमलभ्यलताग्रमूल-
निर्माणमूलपरिवेशमशेषमच्छम् ।
अन्तस्थनिर्गगनसर्गकपुत्रकौघं
नित्यं स्थितं ननु घनं गतजन्मनाशम् ॥ ६३॥
सन्मात्रमन्तरहिताखिलहस्तजातं
पर्यन्तहीनगणनाङ्गममुक्तरूपम् ।
आत्माम्बरात्मकमहं त्विदमेव सर्वं
सुस्तम्भरूपमजमौनमलं विकल्पैः ॥ ६४॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये
मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु ऐन्दवो
नामाष्टसप्तत्यधिकशततमः सर्गः ॥ १७८॥ -६-
॥ अथ सप्तमः सर्गः ॥
॥ ब्रह्ममयत्वप्रतिपादनम् ॥
वसिष्ठ उवाच ।
एवं चिन्मात्रमेवैकं शुद्धं सत्त्वं जगत्त्रयम् ।
संभवन्तीह भूतानि नाज्ञबुद्धानि कानिचित् ॥ १॥
तस्मात्कुतः शरीरादि वस्तु सप्रतिघं कुतः ।
यदिदं दृश्यते किंचित्तदप्रतिघमाततम् ॥ २॥
स्थितं चिद्व्योम चिद्व्योम्नि शान्ते शान्तं समं स्थितम् ।
स्थितमाकाशमाकाशे ज्ञप्तिर्ज्ञप्तौ विजृम्भते ॥ ३॥
सर्वं संविन्मयं शान्तं सत्स्वप्नं इव जाग्रति ।
स्थितमप्रतिघाकारं क्वासौ सप्रतिघां स्थितिः ॥ ४॥
क्व देह अवयवाः क्वान्त्रवेष्टनी क्वास्थिपंजरम् ।
व्योमेवाप्रतिघं विद्धि देहं सप्रतिघोषमम् ॥ ५॥
संवित्करौ शिरः संवित्संविदिन्द्रियवृन्दकम् ।
शान्तमप्रतिघं सर्वं न सप्रतिघमस्ति हि ॥ ६॥
ब्रह्मव्योम्नः स्वप्नरूपस्वभावत्वाज्जगत्स्थितेः ।
इदं सर्वं संभवति सहेतुकमहेतुकम् ॥ ७॥
न कारणं विना कार्यं भवतीत्युपपद्यते ।
यद्यथा येन निर्णीतं तत्तथा तेन लक्ष्यते ॥ ८॥
कारणेन विना कार्यं सद्वदित्युपपद्यते ।
यथा भावितमेवार्थं संविदाप्नोत्यसंशयम् ॥ ९॥
यथा संभवति स्वप्ने सर्वं सर्वत्र सर्वथा ।
चिन्मयत्वात्तथा जाग्रत्यस्ति सर्वात्मरूपता ॥ १०॥
सर्वात्मनि ब्रह्मपदे नानानात्मनि स्थिता ।
अस्त्यकारणकार्याणां सत्ता कारणजापि च ॥ ११॥
एकः सहस्रं भवति यथा ह्येते किलैन्दवाः ।
प्रयाता भूतलक्षत्वं संकल्पजगतां गणैः ॥ १२॥
सहस्रमेकं भवति संविदां च तथा हि यत् ।
सायुज्ये चक्रपाण्यादेः सर्गैरेकं भवेद्वपुः ॥ १३॥
एक एक भवत्यब्धिः स्रवन्तीनां शतैरपि ।
एक एक भवेत्काल ऋतुसंवत्सरोत्करैः ॥ १४॥
संविदाकाश एवायं देहः स्वप्न इवोदितः ।
स्वप्नाद्रिवन्निराकारः स्वानुभूतिस्फुटोऽपि च ॥ १५॥
संवित्तिरेवानुभवात्सैवाननुभवात्मिका ।
द्रष्टृदृश्यदृशा भाति चिद्व्योमैकमतो जगत् ॥ १६॥
वेदनावेदनात्मैकं निद्रास्वप्नसुषुप्तवत् ।
वातस्पन्दाविवाभिन्नौ चिद्व्योमैकमतो जगत् ॥ १७॥
द्रष्टा दृश्यं दर्शनं च चिद्भान परमार्थखम् ।
शून्यस्वप्न इवाभाति चिद्व्योमैकमतो जगत् ॥ १८॥
जगत्त्वमसदेवेशे भ्रान्त्या प्रथमसर्गतः ।
स्वप्ने भयमिवाशेषं परिज्ञात प्रशाम्यति ॥ १९॥
एकस्याः संविदः स्वप्ने यथा भानमनेकधा ।
नानापदार्थरूपेण सर्गादौ गगने तथा ॥ २०॥
बहुदीपे गृहे च्छाया बह्व्यो भान्त्येकवद्यथा ।
सर्वशक्तेस्तथैवैका भाति शक्तिरनेकधा ॥ २१॥
यत्सीकरस्फुरणमम्बुनिधौ शिवाख्य
व्योम्नीव वृक्षनिकरस्फुरणं स सर्गः ।
व्योम्नेष वृक्षनिकरो व्यतिरिक्तरूपो
ब्रह्माम्बुधौ न तु मनागपि सर्गबिन्दुः ॥ २२॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये
मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु
ब्रह्ममयत्वप्रतिपादनं नामैकोनाशीत्यधिकशततमः
सर्गः ॥ १७९॥ -७-
॥ अथ अष्टमोऽध्यायः ॥
॥ तापसोपाख्यानम् ॥
श्रीराम उवाच ।
इमं मे संशयं छिन्धि भगवन्भास्करं तमः ।
भुवनस्येव भावानां सम्यग्रूपानुभूतये ॥ १॥
कदाचिदहमेकाग्रो विद्यागेहे विपश्चिताम् ।
संसदि स्थितवान्यावत्तापसः कश्चिदागतः ॥ २॥
विद्वान् द्विजवरः श्रीमान्विदेहजनमण्डलात् ।
महातपाः कान्तियुतो दुर्वासा इव दुःसहः ॥ ३॥
स प्रविश्याभिवाद्याशु सभामाभास्वरद्युतिम् ।
उपविश्यासने तिष्ठन्नस्माभिरभिवादितः ॥ ४॥
वेदान्तसांख्यसिद्धान्तवादान्संहृत्य सत्तमम् ।
सुखोपविष्टं विश्रान्तं तमहं पृष्टवानिदम् ॥ ५॥
दीर्घाध्वना परिश्रान्तः सयत्न इव लक्ष्यसे ।
वदाद्य वदतां श्रेष्ठ कुत आगमनं कृतम् ॥ ६॥
ब्राह्मण उवाच ।
एवमेतन्महाभाग सुमहायत्नवानहम् ।
यदर्थमागतोऽस्मीह तस्याकर्णय निर्णयम् ॥ ७॥
वैदेहो नाम देशोऽस्ति सर्वसौभाग्यसंयुतः ।
स्वर्गस्यास्वरसंस्थस्य प्रतिबिम्बमिवावनौ ॥ ८॥
तत्राहं ब्राह्मणो जातः प्राप्तविद्यश्च संस्थितः ।
कुन्दावदादन्तत्वात्कुन्ददन्त इति श्रुतः ॥ ९॥
अथाहं जातवैराग्यः प्रविहर्तुं प्रवृत्तवान् ।
देवद्विजमुनीन्द्राणां संभ्रमाच्छमशान्तये ॥ १०॥
श्रीपर्वतमखण्डेऽहं कदाचित्प्राप्तवानहम् ।
तत्रावसं चिरं कालं मृदु दीर्घं तपश्चरन् ॥ ११॥
तत्रास्त्यरण्यं विदितं मुक्तं तृणवनादिभिः ।
त्यक्ततेजस्तमोभ्रादिभूमाविव नभस्तलम् ॥ १२॥
तत्रास्ति मध्ये विटपि लघुः पेलवपल्लवः ।
स्थित एषोऽम्बरे शून्ये मन्दरश्मिरिवांशुमान् ॥ १३॥
लम्बते तस्य शाखायां पुरुषः पावनाकृतिः ।
भानुर्भानाविव रश्मिगृहीतो ग्रथिताकृतिः ॥ १४॥
मौञ्जदामनि बद्धोर्ध्वपादो नित्यमवाक्षिराः ।
अष्ठीलत्वं दधदिव महाष्ठीलस्य शाल्मलेः ॥ १५॥
दृष्टः प्राप्तेन तं देशं स कदाचिन्मया पुमान् ।
विचारितो निकटतो वक्षःस्थाञ्जलिसम्पुटः ॥ १६॥
यावज्जीवत्यसौ विप्रो निःश्वसित्यहताकृतिः ।
शीतवातातपस्पर्शान्सर्वान्वेत्ति च कालजान् ॥ १७॥
अनन्तरमसावेको नोपचर्यमया बहून् ।
दिवसातपखेदेन विश्रम्भे पातितः शनैः ॥ १८॥
पृष्टश्च कोऽसि भगवन्किमर्थं दारुणं तपः ।
करोषीदं विशालाक्ष लक्ष्यालक्ष्यात्मजीवितः ॥ १९॥
अथ तेनोक्तमर्थस्ते क इवानेन तापस ।
अर्थे नातिविचित्रा हि भवन्तीच्छाः शरीरिणाम् ॥ २०॥
इत्युक्तवान्प्रयत्नेन सोऽनुबन्धेन वै मया ।
यदा पृष्टस्तदा तेन ममोक्तमिदमुत्तरम् ॥ २१॥
मथुरायामहं जातो वृद्धिं यातः पितुर्गृहे ।
बाल्ययौवनयोर्मध्ये स्थितः पदपदार्थवित् ॥ २२॥
समग्रसुखसंभारकोशो भवति भूमिपः ।
इत्यहं श्रुतवांस्तत्र भोगार्थी नवयौवनः ॥ २३॥
अथ सप्तमहाद्वीपविस्तीर्णाया भुवः पतिः ।
स्यामित्यहमुदारात्मा परिबिम्बितवांश्चिरम् ॥ २४॥
इत्यर्थेन समागत्य देशमित्थमहं स्थितः ।
अत्र द्वादशवर्षाणि समतीतानि मानद ॥ २५॥
तदकारणमित्रत्वं गच्छेष्टं देशमाशुगः ।
अहं चाभिमतप्राप्तेरित्थमेव दृढस्थितिः ॥ २६॥
इति तेनेहमुक्तः संस्तमिच्छं प्रोक्तवाञ्छृणु ।
आश्चर्यश्रवणे चेतः खेदमेति न धीमतः ॥ २७॥
साधो यावत्तया प्राप्तो न नामाभिमतो वरः ।
त्वद्रक्षापरिचर्यार्थमिह तावदहं स्थितः ॥ २८॥
मयेत्युक्ते स पाषाण मौनवानभमच्छमी ।
निमीलितेक्षणः क्षीणरूपस्त्वकलनो बहिः ॥ २९॥
तथाहं पुरतस्तस्य काष्ठमौनवतोऽवसम् ।
षण्मासान्विगतोद्वेगं वेगान्कालकृतान्सहन् ॥ ३०॥
अर्कबिम्बाद्विनिष्क्रम्य तत्प्रदेशान्तरे स्थितम् ।
एकदा दृष्टवानस्मि पुरुषं भानुभास्वरम् ॥ ३१॥
स तेन पूज्यते यावन्मनसा कर्मणा मया ।
उवाच तावद्वचनममृतस्यन्दसुन्दरम् ॥ ३२॥
शाखाप्रलम्बनपर हे ब्रह्मन्दीर्घतापस ।
तपः संहर संहारी गृहाणाभिमतं वरम् ॥ ३३॥
सप्ताब्धिद्वीपवलयां पालयिष्यसि मेदिनीम् ।
सप्तवर्षसहस्राणि देहेनानेन धर्मतः ॥ ३४॥
एवं समीहितं दत्वा स द्वितीयो दिवाकरः ।
गन्तुमस्तमथार्काब्धिमविशत्प्रोदितो यतः ॥ ३५॥
तस्मिन्याते मया प्रोक्तं तस्य शाखातपस्विनः ।
श्रुतदृष्टानुभूताग्र्यवरदस्य विवेकिनः ॥ ३६॥
सम्प्राप्ताभिमतं ब्रह्मंस्तरुशाखावलम्बनम् ।
तपस्त्यक्त्वा यथा प्राप्तं व्यवहारं समाचर ॥ ३७॥
एवमङ्गीकृतवतः पादौ तस्य मया ततः ।
मुक्तौ विटपिनस्तस्मादालानात्कालभाविव ॥ ३८॥
स्वातः पवित्रहस्तोऽसौ चक्रे जप्त्वाघमर्षणम् ।
फलेन पुण्यलब्धेन विटपाद्व्रतपारणम् ॥ ३९॥
तत्पुण्यवशतः प्राप्तैः स्वादुभिस्तैस्तरोः फलैः ।
समाश्वस्तावसंक्षुब्धावावां तत्र दिनत्रयम् ॥ ४०॥
सप्तद्वीपसमुद्रमुद्रितदिशं भोक्तुं समग्रां महीं
विप्रः पादपलम्बितेन वपुषा तप्त्वोर्ध्वपादस्तपः ।
सम्प्राप्याभिमतं वरं दिनकृतो विश्वस्य चाह्नां त्रयं
सार्धं मत्सुहृदा स्वमेव सदनं गन्तुं प्रवृत्तोऽभवत् ॥ ४१॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये
मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु ताप्सोपाख्यानं
नामाशीत्यधिकशततमः सर्गः ॥ १८०॥ -८-
॥ अथ नवमोऽध्यायः ॥
॥ गौर्याश्रमवर्णनम् ॥
कुन्ददन्त उवाच ।
आवासमन्तरे गन्तुं प्रवृत्तौ मुदिताकृती ।
मथुरानगरीं चन्द्रसूर्याविन्द्रपुरीमिव ॥ १॥
प्राप्य रोधाभिधं ग्रामं विश्रम्याम्रवणाचले ।
उषितौ द्वे दिने तस्मिन्सालीसे नगरे सुखम् ॥ २॥
अध्वानन्दितचित्ताभ्यामावाभ्यामतिवाहितः ।
द्वितीयेऽहनि शीताम्बुस्निग्धच्छायावनद्रुमाः ॥ ३॥
नदीतीरलतोन्मुक्तपुष्पप्रकरपाण्डुराः ।
तरत्तरङ्गझांकारगायनानन्दिताध्वगाः ॥ ४॥
स्निग्धद्रुमवनच्छायरणन्मृगविहंगमाः ।
स्थूलशाद्वलशाखाग्रप्रोतावश्यायमौक्तिकाः ॥ ५ ।
जंगलाद्रिपुरग्रामश्वभ्राभूपस्थलावनीः ।
समुल्लंघ्य दिने तस्मिन्सरित्स्रोतः सरांसि च ॥ ६॥
नीतवन्तौ निशामावां कदलीकानने घने ।
तुषारशिशिरे श्रान्तौ कदलीदलतल्पके ॥ ७॥
प्राप्तावावां तृतीयेऽह्नि षण्डषण्डकमण्डितम् ।
जङ्गलं जनविच्छेदविभक्तं खमिवाकृतम् ॥ ८॥
तत्र स प्रकृतं मार्गं परित्यज्य वनान्तरम् ।
प्रविशन्समुवाचेदमकार्यकरणं वचः ॥ ९॥
गच्छावोऽत्राश्रमे गौर्या मुनिमण्डलमण्डिते ।
भ्रातरो मे स्थिताः सप्त वनेष्वेवमिवार्थिनः ॥ १०॥
भ्रातरोष्टौ वयमिमे जातानेकतया तया ।
एकसंविन्मया जाता एकसंकल्पनिश्चयाः ॥ ११॥
तेन तेऽप्यत्र तपसे स्वनिश्चयसमाश्रयाः ।
स्थिता आगत्य विविधैस्तपोभिः क्षपितैनसः ॥ १२॥
तैः सार्धं भ्रातृभिः पूर्वमागत्याहमिहावसम् ।
षण्मासानाश्रमे गौर्यास्तेन दृष्टो मयैष सः ॥ १३॥
पुष्पखण्ड तरुच्छाया सुप्तमुग्धमृगार्भकः ।
पर्णोटजाग्रविश्रान्तशुकोद्ग्राहितशास्त्रदृक् ॥ १४॥
तद्ब्रह्मलोकसंकाशमेहि मुन्याश्रमं श्रिये ।
गच्छावोऽच्छतरं तत्र चेतः पुण्यैर्भविष्यति ॥ १५॥
विदुषामपि धीराणामपि तत्त्वविदामपि ।
त्वरते हि मनः पुंसामलंबुद्धिविलोकने ॥ १६॥
तेनेत्युक्ते च तावावां प्राप्तौ मुन्याश्रमं च तम् ।
यावत्तत्र महारण्ये पश्यावश्चान्तरूपिणम् ॥ १७॥
न वृक्षं नोटजं किंचिन्न गुल्मं न च मानवम् ।
न मुनिं नार्भकं नान्यन्न वेदिं न च वा द्विजम् ॥ १८॥
केवलं शून्यमेवाति तदरण्यमनन्तकम् ।
तापोपतप्तमभितो भूमौ स्थितमिवाम्बरम् ॥ १९॥
हा कष्टं किमिदं जातमिति तस्मिन्वदत्यथ ।
आवाभ्यां सुचिरं भ्रान्त्वा दृष्ट एकत्र वृक्षकः ॥ २०॥
स्निग्धच्छविर्घनच्छायः शीतलोऽम्बुधरोपमः ।
तले तस्य समाधाने संस्थितो वृद्धतापसः ॥ २१॥
आवामग्रे मुनेस्तस्य च्छायायां शाद्वलस्थले ।
उपविष्टौ चिरं यावन्नासौ ध्यानान्निवर्तते ॥ २२॥
ततश्चिरेण कालेन मयोद्वेगेन चापलात् ।
उक्तं मुने प्रबुध्यस्व ध्यानादित्युच्चकैर्वचः ॥ २३॥
शब्देनोच्चैर्मदीयेन सम्प्रबुद्धोऽभवन्मुनिः ।
सिंहोऽम्बुदरवेणेव जृम्भां कृत्वाभ्युवाच च ॥ २४॥
कौ भवन्ताविमौ साधू क्वासौ गौर्याश्रमो गतः ।
केन वाहमिहानीतः कालोऽयं कश्च वर्तते ॥ २५॥
तेनेत्युक्ते मयाप्युक्तं भगवन्विद्धि ईदृशम् ।
न किंचिदावां बुद्धोऽपि कस्माज्जानासि न स्वयम् ॥ २६॥
इति श्रुत्वा स भगवान्पुनर्ध्यानमयोऽभवत् ।
ददर्शोदन्तमखिलमस्माकं स्वात्मनस्तथा ॥ २७॥
मुहूर्तमात्रेणोवाच प्रबुध्य ध्यानतो मुनिः ।
श्रूयतामिदमाश्चर्यमार्यौ हि कार्यवेदिनौ ॥ २८॥
यमिमं पश्यथः साधू कदम्बतरुपुत्रकम् ।
मदास्पदमरण्यान्याधम्मिल्लमिव पुष्पितम् ॥ २९॥
केनापि कारणेनास्मिन्सती वागीश्वरी सती ।
अवसद्दशवर्षाणि समस्तर्तुनिषेविता ॥ ३०॥
तदा तेनेहविस्तीर्णमभवद्घनकाननम् ।
गौरिवनमिति ख्यातं भूषितं कुसुमर्तुभिः ॥ ३१॥
भृङ्गाङ्गनाजनमनोहरहारिगीत-
लीलाविलोलकलकण्ठविहंगमङ्ग ।
पुष्पाम्बुवाहशतचन्द्रनभोवितानं
राजीवरेणुकणकीर्णदिगन्तरालम् ॥ ३२॥
मन्दारकुन्दमकरन्दसुगन्धिताशं
संसूच्छ्वसत्कुसुमराशिशशाङ्कनिष्ठम् ।
संतानकस्तबकहासविकासकान्त-
मामोदिमारुतसमस्तलताङ्गनौघम् ॥ ३३॥
पुष्काकरस्य नगरं नवगीतभृङ्गं
भृङ्गाङ्गनाकुसुमखण्डकमण्डपाढ्यम् ।
चन्द्रांशुजालपरिकोमलपुष्पदोला-
दोलायमानसुरसिद्धवधूसमूहम् ॥ ३४॥
हारीतहंसशुककोकिलकोककाक-
चक्राह्वभासकलविङ्ककुलाकुलाङ्गम् ।
मेरुण्डकुक्कुटकपिञ्जलहेमचूड-
राढामयूरबककल्पितकेलिरम्यम् ॥ ३५॥
गन्धर्वयक्षसुरसिद्धकिरीटघृष्ट-
पादाब्जकर्णिककदम्बसरस्वतीकम् ।
वातायनं कनककोमलचम्पकौघ-
ताराम्बराम्बुधरपूरगृहीतगन्धम् ॥ ३६॥
मन्दानिलस्खलितपल्लवबालवल्ली-
विन्यासगुप्तदिवसाधिपरश्मिशीतम् ।
पीतं कदम्बकरवीरकनालिकेर-
तालीतमालकुलपुष्पपरागपूरैः ॥ ३७॥
कह्वारकीर्णकुमुदोत्पलपद्मखण्ड-
वल्गच्चकोरबककोककदम्बहंसम् ।
तालीसगुग्गुलकचन्दनपारिभद्र-
भद्रद्रुमोदविहारिविचित्रशक्ति ॥ ३८॥
तस्मिन्वने चिरमुवास हरार्धदेहा
केनापि कारणवशेन चिराय गौरी ।
भूत्वा प्रसन्नशशिबिम्बमुखी कदम्ब-
वागीश्वरी शशिकलेव शिवस्य मूर्ध्नि ॥ ३९॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये
मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु तापसोपाख्याने
गौर्याश्रमवर्णनं नामैकाशीत्यधिकशततमः
सर्गः ॥ १८१॥ -९-
॥ अथ दशमोऽध्यायः ॥
॥ सप्तदीपेश्वर ॥
वृद्धतापस उवाच ।
तस्मिन्नेव कदम्बेऽस्मिन्वर्षाणि स्वेच्छया दश ।
स्थित्वा गौरी जगामाथ हरवामार्धमन्दिरम् ॥ १॥
तत्स्पर्शामृतसिक्तोऽयं कदम्बतरुपुत्रकः ।
उत्सङ्ग इव चासीनो न यात्येव पुराणताम् ॥ २॥
ततो गौर्या प्रयातायां तद्वनं तादृशं महत् ।
सामान्यवनतां यातं जनवृन्दोपजीवितम् ॥ ३॥
मालवो नाम देशोऽस्ति तत्राहं पृथिवीपतिः ।
कदाचित्त्यक्तराज्य श्रीर्मुनीनामाश्रमान्भ्रमन् ॥ ४॥
इमं देशमनुप्राप्त इह चाश्रमवासिभिः ।
पूजितोऽस्य कदम्बस्य ध्याननिष्ठस्तले स्थितः ॥ ५॥
केनचित्त्वथ कालेन भ्रातृभिः सप्तभिः सह ।
भवानभ्यागतः पूर्वं तपोर्थमिममाश्रमम् ॥ ६॥
तपस्विनोऽष्टाविह ते तथा नाम तदावसन् ।
यथा तपस्विनोऽन्ये ते तेषां मान्यास्तपस्विनः ॥ ७॥
कालेनान्तरमसावेकः श्रीपर्वतं गतः ।
स्वामिनं कार्तिकेयं च द्वितीयस्तपसे गतः ॥ ८॥
वाराणसीं तृतीयस्तु चतुर्थोऽगाद्धिमाचलम् ।
इहैव ते परे धीराश्चत्वारोऽन्ये परं तपन् ॥ ९॥
सर्वेषामेव चैतेषां प्रत्येकं त्वेतदीप्सितम् ।
यथा समस्तद्वीपाया भुवोऽस्याः स्यां महीपतिः ॥ १०॥
अथ सम्पादितं तेषां सर्वेषामेतदीप्सितम् ।
तपस्तुष्टाभिरिष्टभिर्देवताभिर्वरैः ॥ ११॥
तपतस्ते ततो याता भ्रातरः सदनं निजम् ।
भूमौ धर्मयुगं भुक्त्वा वेधा ब्रह्मपुरीमिव ॥ १२॥
तद्भवद्भ्रातृभिर्भव्य वरदानविधौ तदा ।
इदं वरोद्यता यत्नात्प्रार्थिताः स्वेष्टदेवताः ॥ १३॥
देव्यस्माकमिमे सर्वे सप्तद्वीपेश्वरौ स्थितौ ।
सत्याः प्रकृतयः सन्तु सर्व आश्रमवासिनः ॥ १४॥
तमिष्टदेवतासार्थमुररीकृत्य सादरम् ।
तेषामस्त्वेवमित्युक्त्वा जगामान्तर्द्धिमीश्वरी ॥ १५॥
ते ततः सदनं यातास्तेषामाश्रमवासिनः ।
सर्व एव गताः पश्चादेक एवास्मि नो गतः ॥ १६॥
अहं केवलमेकान्ते ध्यानैकगतमानसः ।
वागीश्वरीकदम्बस्य तले तिष्ठामि शैलवत् ॥ १७॥
अथ काले वहत्यस्मिन्नृतुसंवत्सरात्मनि ।
इअदं सर्वं वनं छिन्नं जनैः पर्यन्तवासिभिः ॥ १८॥
इदं कदम्बमम्लानं जनताः पूजयन्त्यलम् ।
वागीश्वरीगृहमिति मां चैवैकसमाधिगम् ॥ १९॥
अथैनं देशमायातौ भवन्तौ दीर्घतापसौ ।
एतत्त्वत्कथितं सर्वं ध्यानदृष्टं मयाखिलम् ॥ २०॥
तस्मादुत्थाय हे साधू गच्छतं गृहमागतौ ।
तत्र ते भ्रातरः सर्वे संगता दारबन्धुभिः ॥ २१॥
अष्टानां भवतां भव्यं सदने स्वे भविष्यति ।
महात्मनां ब्रह्मलोके वसूनामिव संगमः ॥ २२॥
इत्युक्ते तेन स मया पृष्टः परमतापसः ।
संदेहादिदमाश्चर्यमार्यास्तद्वर्णयाम्यहम् ॥ २३॥
एकैव सप्तद्वीपास्ति भगवन्भूरियं किल ।
तुल्यकालं भवन्त्यष्टौ सप्तद्वीपेश्वराः कथम् ॥ २४॥
कदम्बतापस उवाच ।
असमंजसमेतावदेव नो यावदुच्यते ।
इदमन्यदसंबद्धतरं संश्रूयतां मम ॥ २५॥
एतेऽष्टौ भ्रातरस्तत्र तापसा देहसंक्षये ।
सप्तद्वीपेश्वराः सर्वे भविष्यन्ति गृहोदरे ॥ २६॥
अष्टौ ह्येते महीपीठेष्वेतेष्वेतेषु सद्मसु ।
सप्तद्वीपेश्वरा भूपा भविष्यन्तीह मे शृणु ॥ २७॥
अस्त्येतेषां किलाष्टानां भार्याष्टकमनिन्दितम् ।
दिगन्तराणां नियतं ताराष्टकमिवोज्ज्वलम् ॥ २८॥
तद्भार्याष्टकमेतेषु यातेषु तपसे चिरम् ।
बभूव दुःखितं स्त्रीणां यद्वियोगोऽहिदुःसहः ॥ २९॥
दुःखिताः प्रत्यये तेषां चक्रुस्ता दारुणं तपः ।
शतचान्द्रायणं तासां तुष्टाभूत्तेन पार्वती ॥ ३०॥
अदृश्योवाच सा तासां वचोऽन्तःपुरमन्दिरे ।
देवी सपर्यावसरे प्रत्येकं पृथगीश्वरी ॥ ३१॥
देव्युवाच ।
भर्त्रर्थमथ चात्मार्थं गृह्यतां बालिके वरः ।
चिरं क्लिष्टासि तपसा निदाघेनैव मंजरी ॥ ३२॥
इत्याकर्ण्य वचो देव्या दत्तपुष्पा चिरंटिका ।
स्ववासनानुसारेण कुर्वाणैवेश्वरीस्तवम् ॥ ३३॥
आनन्दमन्थरोवाच वचनं मृदुभाषिणी ।
आकाशसंस्थितां देवीं मयूरीवाभ्रमालिकाम् ॥ ३४॥
चिरंटिकोवाच ।
देवि देवाधिदेवेन यथ ते प्रेमशंभुना ।
भर्त्रा मम तथा प्रेम स भर्तास्तु ममामरः ॥ ३५॥
देव्युवाच ।
आसृष्टेर्नियतेर्दार्ढ्यादमरत्वं न लभ्यते ।
तपोदानैरतोऽन्यत्वं वरं वरय सुव्रते ॥ ३६॥
चिरंटिकोवाच ।
अलभ्यमेतन्मे देवि तन्मद्भर्तृर्गृहान्तरात् ।
मृतस्य मा विनिर्यातु जीवो बाह्यमपि क्षणात् ॥ ३७॥
देहपातश्च मे भर्तुर्यदा स्यादात्ममन्दिरे ।
तदेतदस्त्विति वरू दीयतामम्बिके मम ॥ ३८॥
देव्युवाच ।
एवमस्तु सुते त्वं च पत्यौ लोकान्तरास्थिते ।
भविष्यसि प्रिया भार्या देहान्ते नात्र संशयः ॥ ३९॥
इत्युक्त्वा विररामासौ गौर्या गीर्गगनोदरे ।
मेघमालाध्वनिरिव निरवद्यसमुद्यता ॥ ४०॥
देव्यां गतायां भर्तारस्तासां कालेन केनचित् ।
ते ककुब्भ्यः समाजग्मुः सर्वे प्राप्तमहावराः ॥ ४१॥
अद्यायमपि संयातु भार्याया निकटं पतिः ।
भ्रातृणां बान्धवानां च भवत्वन्योन्यसंगमः ॥ ४२॥
इदमन्यदथैतेषामसमंजसमाकुलम् ।
शृणु किंवृत्तमाश्चर्यमार्यकार्योपरोधकम् ॥ ४३॥
तप्यतां तप एतेषां पितरौ तौ वधू युतौ ।
तीर्थमुन्याश्रमश्रेणीं द्रष्टुं दुःखान्वितौ गतौ ॥ ४४॥
शरीरनैरपेक्ष्येण पुत्राणां हितकाम्यया ।
गन्तुं कलापग्रामं तं यत्नवन्तौ बभूवतुः ॥ ४५॥
तौ प्रयातौ मुनिग्राम मार्गे ददृशतुः सितम् ।
पुरुषं कपिलं ह्रस्वं भस्माङ्गं चोर्ध्वमूर्धजम् ॥ ४६॥
धूलीलवमनादृत्य तं जरत्पान्थशंकया ।
यदा तौ जग्मतुस्तेन स उवाचान्वितः क्रुधा ॥ ४७॥
सवधूक महामूर्ख तीर्थार्थी दारसंयुतः ।
मां दुर्वाससमुल्लंघ्य गच्छस्यविहितानतिः ॥ ४८॥
वधूनां ते सुतानां च गच्छतस्तपसार्जिताः ।
विपरीता भविष्यन्ति लब्धा अपि महावराः ॥ ४९॥
इत्युक्तवन्तं तं यावत्सदारोऽथ वधूयुतः ।
सन्मानं कुरुते तावन्मुनिरन्तर्धिमाययौ ॥ ५०॥
अथ तौ पितरौ तेषां सवधूकौ सुदुःखितौ ।
कृशीभूतौ दीनमुखौ निराशौ गृहमागतौ ॥ ५१॥
अतो वदाम्यहं तेषां नैकं नामासमंजसम् ।
असमंजसलक्षाणि गण्डे स्फोटाः स्फुटा इव ॥ ५२॥
चिद्व्योमसंकल्पमहापुएरेस्मि-
न्नित्थं विचित्राण्यसमंजसानि ।
निःशून्यरूपेऽपि हि संभवन्ति
दृश्ये यथा व्योमनि दृश्यजृम्भाः ॥ ५३॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये
मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु
तापसोपाख्यानान्तर्गतसप्तद्वीपेश्वरो सप्तद्वीपेश्वर
नाम व्यशीत्यधिकशततमः सर्गः ॥ १८२॥ -१०-
॥ अथ एकादशोऽध्यायः ॥
॥द्वीपसप्तकाष्टकवर्णनम् ॥
कुन्ददन्त उवाच ।
ततः पृष्टो मया तत्र स गौर्याश्रमतापसः ।
तापसंशुष्कदर्भाग्रजराजर्जरमूर्धजः ॥ १॥
एकैव सप्तद्वीपास्ति वसुधा यत्र तत्र ते ।
सप्तद्वीपेश्वरा अष्टौ भवन्ति कथमुत्तमाः ॥ २॥
यस्य जीवस्य सदनान्नास्ति निर्गमनं बहिः ।
स करोति कथं सप्तद्वीपेशत्वेन दिग्जयम् ॥ ३॥
यैर्वरा वरदैर्दत्ताः शापैस्ते तद्विरुद्धताम् ।
कथं गच्छन्ति गच्छन्ति कथं छाया हि तापताम् ॥ ४॥
मिथोऽशक्यां कथं धर्मौ स्थितिमेकत्र गच्छतः ।
आधार एवाधेयत्वं करोति कथमात्मनि ॥ ५॥
गौर्याश्रमतापस उवाच ।
सम्पश्यसि किमेतेषां भो साधो शृण्वनन्तरम् ।
अष्टमेऽस्मिन्सुसम्प्राप्ते तं प्रदेशं सबान्धवम् ॥ ६॥
इतो भवन्तौ तं देशमासाद्य सुखसंस्थितौ ।
स्वबन्धुसुखसंस्थानौ कंचित्कालं भविष्यतः ॥ ७॥
ततस्तेऽष्टौ मरिष्यन्ति भ्रातरः क्रमशो गृहे ।
बान्धवोऽथ करिष्यन्ति तेषां देहांस्तदग्निसात् ॥ ८॥
तेषां ते संविदाकाशः पृथक्पृथगवस्थिताः ।
मुहूर्तमात्रं स्थास्यन्ति सुषुप्तस्था जडा इव ॥ ९॥
एतस्मिन्नन्तरे तेषां तानि कर्माणि धर्मतः ।
एकत्र संघटिष्यन्ति वरशापात्मकानि खे ॥ १०॥
कर्माणि तान्यधिष्ठातृदेवरूपाणि पेटकम् ।
वरशापशरीराणि करिष्यन्ति पृथक् पृथक् ॥ ११॥
वरास्तेऽत्र गमिष्यन्ति सुभगाः पद्मपाणयः ।
ब्रह्मदण्डायुधाश्चन्द्रधवलाङ्गाश्चतुर्भुजाः ॥ १२॥
शापास्तत्र भविष्यन्ति त्रिनेत्राः शूलपाणयः ।
भीषणाः कृष्णमेघाभा द्विभुजा भ्रुकुटीमुखाः ॥ १३॥
वरा वदिष्यन्ति
सुदूरं गम्यतां शापाः कालोऽस्माकमुपागतः ।
ऋतूनामिव तन्नाम कः समर्थोऽतिवर्तितुम् ॥ १४॥
शापा वदिष्यन्ति
गम्यतां हे वरा दूरं कालोऽस्माकमुपागतः ।
ऋतूनामिव तन्नाम कः समर्थोऽतिवर्तितुम् ॥ १५॥
वरा वदिष्यन्ति
कृता भवन्तो मुनिना वयं दिनकृता कृताः ।
मुनीनां चाधिको देवो भगवन्तं पुरा यतः ॥ १६॥
प्रवदत्सु वरेष्वेवं शापाः क्रुद्धधियो वरान् ।
विवस्वता कृता यूयं वयं रुद्रांशतः कृताः ॥ १७॥
देवानामधिको रुद्रो रुद्रांशप्रभवो मुनिः ।
इत्युक्त्वा प्रोद्यता तेषां चक्रुःश्रुङ्गाण्यगा इव ॥ १८॥
अशापेषूद्यतशृङ्गेषु वरा इदमरातिषु ।
विहसन्तः प्रवक्ष्यन्ति प्रमेयीकृतनिश्चयम् ॥ १९॥
हे शापाः पापतां त्यक्त्वा कार्यस्यान्तो विचार्यताम् ।
यत्कार्यं कलहस्यान्ते तदेवादौ विचार्यताम् ॥ २०॥
पितामहपुरीं गत्वा कलहान्ते विनिर्णयः ।
कर्तव्योऽस्माभिरेततत्किमादौ नेह विधीयते ॥ २१॥
शापैर्वरोक्तमाकर्ण्य बाढमित्युररीकृतम् ।
को न गृह्णाति मूढोऽपि वाक्यं युक्तिसमन्वितम् ॥ २२॥
ततः शापा वरैः सार्धं यास्यन्ति ब्रह्मणः पुरम् ।
महानुभावा हि गतिः सदा संदेहनशने ॥ २३॥
प्रणामपूर्वं तत्सर्वं यथावृत्तं परस्परम् ।
ब्रह्मणे कथयिष्यन्ति श्रुत्वा तेषां स वक्ष्यति ॥ २४॥
ब्रह्मोवाच ।
वरशापाधिपा भोभो येऽन्तः सारा जयन्ति ते ।
केऽन्तःसारा इति मिथो नूनमन्विष्यतां स्वयम् ॥ २५॥
इति श्रुत्वा प्रविष्टास्ते सारतां समवेक्षितुम् ।
वराणां हृदयं शापाः शापानां हृदयं वराः ॥ २६॥
ते परस्परमन्विष्य स्वयं हृदयसारताम् ।
ज्ञात्वा च समवायेन प्रवक्ष्यन्ति पितामहम् ॥ २७॥
शापा वक्ष्यन्ति
जिताः प्रजानाथ वयं नान्तःसारा वयं यतः ।
अन्तःसारा वरा एव वज्रस्तम्भा इवाचलाः ॥ २८॥
वयं किलेमे भगवन्वराः शापाश्च सर्वदा ।
ननु संविन्मया एव देहोऽन्योऽस्माकमस्ति नो ॥ २९॥
वरदस्य हि या संविद्वरो दत्त इति स्थिता ।
सैवार्थिनि मया लब्धो वरोऽयमिति तिष्ठति ॥ ३०॥
विज्ञप्तिमात्रवचनं देहं सैव फलं ततः ।
पश्यत्यनुभवत्यत्ति देशकालशतभ्रमैः ॥ ३१॥
वरदात्मा गृहीतत्वाच्चित्कालान्तरसंभृता ।
यदा तदान्तःसारासौ दुर्जया न तु शापजा ॥ ३२॥
वरप्रदानं वरदैर्वरदानां वरार्थिभिः ।
यदा सुचिरमभ्यस्तं वराणां सारता तदा ॥ ३३॥
यदेव सुचिरं संविदभ्यस्यति तदेव सा ।
सारमेवाशु भवति भवत्याशु च तन्मयी ॥ ३४॥
शुद्धानामतिशुद्धैव संविज्जयति संविदाम् ।
अशुद्धानां त्वशुद्धैव कालात्साम्यं न विद्यते ॥ ३५॥
क्षणांशेनापि यो ज्येष्ठो न्यायस्तेनावपूर्यते ।
नार्थे न्यायान्तरं किंचित्कर्तुमुत्सहते मदम् ॥ ३६॥
समेनोभयकोटिस्थं मिश्रं वस्तु भवेत्समम् ।
वरशापविलासेन क्षीरमिश्रं यथा पयः ॥ ३७॥
समाभ्यां वरशापाभ्यामथवा चिद्द्विरूपताम् ।
स्वयमेवानुभवति स्वप्नेष्विव पुरात्मिका ॥ ३८॥
शिक्षितं त्वत्त एवेति यत्तदेव तव प्रभो ।
पुनः प्रतीपं पठितं शीघ्रं यामो नमोऽस्तु ते ॥ ३९॥
इत्युक्त्वा स स्वयंशापः क्वापि शापगणो ययौ ।
प्रशान्ते तिमिरे दृष्टे व्योम्नि केशोण्ड्रकं यथा ॥ ४०॥
अथान्यो वरपूगोऽत्र गृहनिर्गमरोधकः ।
स्थानिस्थानमिवादेशः समानार्थोऽभ्यपूरयत् ॥ ४१॥
शापस्थानका वदिष्यन्ति
सप्तद्वीपेशजीवानां निर्याणं शवसद्मनः ।
देवेश विद्मो न वयमन्धकूपादिवाम्भसाम् ॥ ४२॥
सप्तद्वीपेश्वरानेतानिमे द्वीपेषु सद्मसु ।
कारयन्ति वरा वर्या वीरा दिग्विजयं रणे ॥ ४३॥
तदेवमनिवार्येऽस्मिन्विरोधे विबुधेश्वर ।
यदनुष्ठेयमस्माभिस्तदादिश शिवाय नः ॥ ४४॥
ब्रह्मोवाच ।
सप्तद्वीपेश्वरवरा गृहरोधवराश्च हे ।
कामः सम्पन्न एवेह भवतां भवतामपि ॥ ४५॥
व्रजतैतदपेक्षत्वं यावन्नेष्टावपि क्षणात् ।
चिरं चिराय सदने सप्तद्वीपेश्वराः स्थिताः ॥ ४६॥
समनन्तरमेवैते देहपातात्स्वसद्मसु ।
सप्तद्वीपेश्वराः सर्वे सम्पन्नाः परमं वराः ॥ ४७॥
सर्वे वरा वदिष्यन्ति
कुतो भूमण्डलान्यष्टौ सप्तद्वीपानि भूतयः ।
एकमेवेह भूपीठं श्रुतं दृष्टं च नेतरत् ॥ ४८॥
कथं चैतानि तिष्ठन्ति कस्मिंश्चिद्गृहकोशके ।
पद्माक्षकोशके सूक्ष्मे कथं भान्ति मतंगजाः ॥ ४९॥
ब्रह्मोवाच ।
युक्तं युष्माभिरस्माभिः सर्वं व्योमात्मकं जगत् ।
स्थितं चित्परमाण्वन्तरन्तःस्वप्नोऽनुभूयते ॥ ५०॥
भाति यत्परमस्याणोरन्तस्थस्वगृहोदरे ।
स्फुरितं तत्किमाश्चर्यं कः स्मयः प्रकृतेः क्रमे ॥ ५१॥
मृतेरनन्तरं भाति यथास्थितमिदं जगत् ।
शून्यात्मैव घनाकारं तस्मिन्नैव क्षणे चितः ॥ ५२॥
अणावपि जगन्माति यत्र तत्र गृहोदरे ।
सप्तद्वीपा वसुमती कचतीति किमद्भुतम् ॥ ५३॥
यद्भातीदं च चित्तत्वं जगत्वं जगत्क्वचित् ।
चिन्मात्रमेव तद्भाति शून्यत्वेन यथाम्बरम् ॥ ५४॥
इति ते ब्रह्मणा प्रोक्ता वरदेन वरास्ततः ।
तानाधिभौतिकभ्रान्तिमयान्संत्यज्य देहकान् ॥ ५५॥
प्रणम्याजं समं जग्मुरातिवाहिकदेहिनः ।
सप्तद्वीपे च देवानां गृहकोशान्कचज्जनान् ॥ ५६॥
यावत्ते तत्र सम्पन्ना सप्तद्वीपाधिनायकाः ।
अष्टावपीष्टापुष्टानां दिनाष्टकमहीभुजाम् ॥ ५७ ॥।
ते परस्परमज्ञाता अज्ञाश्चान्योन्यबन्धवः ।
अन्योन्यभूमण्डलगा अन्योन्याभिमते हिताः ॥ ५८॥
तेषां कश्चिद्गृहस्यान्तरेव तारुण्यसुन्दरः ।
उज्जयिन्यां महापुर्यां राजधान्यां सुखे स्थितः ॥ ५९॥
शाकद्वीपास्पदः कश्चिन्नागलोकजिगीषया ।
विचरत्यब्धिजठरे सर्वदिग्विजयोद्यतः ॥ ६०॥
कुशद्वीपराजधान्यां निराधिः सकलप्रजाः ।
कृतदिग्विजयः कश्चित्सुप्तः कान्तावलम्बितः ॥ ६१॥
शाल्मलिद्वीपशैलेन्द्रशिरःपुर्याः सरोवरे ।
जललीलारतः कश्चित्सहविद्याधरीगणैः ॥ ६२॥
क्रौञ्चद्वीपे हेमपुरे सप्तद्वीपविवर्धिते ।
प्रवृत्तो वाजिमेधेन कश्चिद्यष्टुं दिनाष्टकम् ॥ ६३॥
उद्यतः शाल्मलिद्वीपे कश्चिद्द्वीपान्तचारिणा ।
योद्धुमुद्धृतदिग्दन्तिदन्ताकृष्टकुलाचलः ॥ ६४॥
गोमेदद्वीपकः कश्चित्पुष्करद्वीपराट् सुताम् ।
समानेतुं वशाद्याति कषत्सेनोऽष्टमोऽभवत् ॥ ६५॥
पुष्करद्वीपकः कश्चिल्लोकालोकाद्रिभूभुजः ।
दूतेन सह निर्यातो धनभूमिदिदृक्षया ॥ ६६॥
प्रत्येकमित्थमेतेषां द्वीपद्वीपाधिनाथताम् ।
कुर्वतां स्वगृहाकाशे दृष्ट्वा स्वप्रतिभोचिताम् ॥ ६७॥
त्यक्ताभिमानिकाकारा द्विविधास्ते वरास्ततः ।
तत्संविद्भिर्गृहेष्वन्तरेकतां खानि खैरिव ॥ ६८॥
यास्यन्ति ते भविष्यन्ति सम्प्राप्ताभिमताश्चिरम् ।
सप्तद्वीपेश्वरास्तुष्टा नन्वष्टावपि तुष्टिमत् ॥ ६९॥
इत्येते प्रविकसितोदितक्रियार्थाः
प्राप्स्यन्ति प्रविततबुद्धयस्तपोभिः ।
अन्तर्यत्स्फुरति विदस्तदेव बाह्ये
नाप्तं कैस्तदुचितकर्मभिः किलेति ॥ ७०॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये
मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु
तापसोपाख्यानान्तर्गत द्वीपसप्तकाष्टकवर्णनं
नाम त्रिसप्तत्यधिकशततमः सर्गः ॥ १८३॥ -११-
॥ अथ द्वादशोऽध्यायः ॥
॥ कुन्ददन्तोपदेशः ॥
कुन्ददन्त उवाच ।
इत्युक्तवानसौ पृष्टः कदम्बतलतापसः ।
सप्तद्वीपा भुवोऽष्टौ ताः कथं भ्राता गृहेष्विति ॥ १॥
कदम्बतापस उवाच ।
चिद्धातुरीदृगेवायं यदेश व्योमरूप्यपि ।
सर्वगो यत्र यत्रास्ते तत्र तत्रात्मनि स्वयम् ॥ २॥
आत्मानमित्थं त्रैलोक्यरूपेणान्येन वा निजम् ।
परिपश्यति रूपं स्वमत्यजन्नेव खात्मकम् ॥ ३॥
कुन्ददन्त उवाच ।
एकस्मिन्विमले शान्ते शिवे परमकारणे ।
कथं स्वभावसंसिद्धा नानाता वास्तवी स्थिता ॥ ४॥
कदम्बतापस उवाच ।
सर्वं शान्तं चिदाकाशं नानास्तीह न किंचन ।
दृश्यमानमपि स्फारमावर्तात्मा यथाम्भसि ॥ ५॥
असत्स्वेषु पदार्थेषु पदार्था इति भान्ति यत् ।
चित्खं स्वप्नसुषुप्तात्म तत्तस्याच्छं निजं वपुः ॥ ६॥
सस्पन्दोऽपि हि निःस्पन्दः पर्वतोऽपि न पर्वतः ।
यथा स्वप्नेषु चिद्भावःस्वभोऽर्थगतस्तथा ॥ ७॥
न स्वभावा न चैवार्थाः सन्ति सर्वात्मकोचिते ।
सर्गादौ कचितं रूपं यद्यथा तत्तथा स्थितम् ॥ ८॥
न च नाम परं रूपं कचनाकचनात्मकम् ।
द्रव्यात्मा चिच्च चिद्व्योम स्थितमित्थं हि केवलम् ॥ ९॥
एकैव चिद्यथा स्वप्ने सेनायां जनलक्षताम् ।
गतेवाच्छैव कचति तथैवास्याः पदार्थता ॥ १०॥
यत्स्वतः स्वात्मनि स्वच्छे चित्खं कचकचायते ।
तत्तेनैव तदाकारं जगदित्यनुभूयते ॥ ११॥
असत्यपि यथा वह्नावुष्णसंविद्धि भासते ।
संविन्मात्रात्मके व्योम्नि तथार्थः स्वस्वभासकः ॥ १२॥
असत्यपि यथा स्तम्भे स्वप्ने खे स्तम्भता विदः ।
तथेदमस्या नानात्वमनन्यदपि चान्यवत् ॥ १३॥
आदिसर्गे पदार्थत्वं तत्स्वभावाच्छमेव च ।
चिद्व्योम्ना यद्यथा बुद्धं तत्तथाद्यापि विन्दते ॥ १४॥
पुष्पे पत्रे फले स्तम्भे तरुरेव यथा ततः ।
सर्व सर्वत्र सर्वात्म परमेव तथाऽपरम् ॥ १५॥
परमार्थाम्बराम्भोधावापः सर्ग परंपरा ।
परमार्थ महाकाशे शून्यता सर्गसंविदः ॥ १६॥
परमार्थश्च सर्गश्च पर्यायौ तरुवृक्षवत् ।
बोधादेतदबोधात्तु द्वैतं दुःखाय केवलम् ॥ १७॥
परमार्थो जगच्चेदकमित्येव निश्चयः ।
अध्यात्मशास्त्रबोधेन भवेत्सैषा हि मुक्तता ॥ १८॥
संकल्पस्य वपुर्ब्रह्म संकल्पकचिदाकृतेः ।
तदेव जगतो रूपं तस्माद्ब्रह्मात्मकं जगत् ॥ १९॥
यतो वाचो निवर्तन्ते न निवर्तन्त एव वा ।
विधयः प्रतिषेधाश्च भावाभावदृशस्तथा ॥ २०॥
अमौनमौनं जीवात्म यत्पाषाणवदासनम् ।
यत्सदेवासदाभासां तद्ब्रह्माभिधमुच्यते ॥ २१॥
सर्वस्मिन्नेकसुघने ब्रह्मण्येव निरामये ।
का प्रवृत्तिर्निवृत्तिः का भावाभावादिवस्तुनः ॥ २२॥
एकस्यामेव निद्रायां सुषुप्तस्वप्नविभ्रमाः ।
यदा भान्त्यविचित्रायां चित्रा इव निरन्तराः ॥ २३॥
एतस्यां चित्खसत्तायां तथा मूलकसर्गकाः ।
बहवो भान्त्यचित्रायां चित्रा इव निरन्तराः ॥ २४॥
द्रव्ये द्रव्यान्तरश्लिष्टं यत्कार्यान्तरमाक्षिपेत् ।
तद्वदन्तस्तथाभूतचित्सारं स्फुरणं मिथः ॥ २५॥
सर्वे पदार्थाश्चित्सारमात्रमप्रतिघाः सदा ।
यथा भान्ति तथा भान्ति चिन्मात्रैकात्मतावशात् ॥ २६ ।
चिन्मात्रैकात्मसारत्वाद्यथासंवेदनं स्थिताः ।
निःस्पन्दा निर्मनस्काराः स्फुरन्ति द्रव्यशक्तयः ॥ २७॥
अविद्यमानमेवेदं दृश्यतेऽथानुभूयते ।
जगत्स्वप्न इवाशेषं सरुद्रोपेन्द्रपद्मजम् ॥ २८॥
विचित्राः खलु दृश्यन्ते चिज्जले स्पन्दरीतयः ।
हर्षामर्षविषादोत्थजङ्गमस्थावरात्मनि ॥ २९॥
स्वभाववाताधूतस्य जगज्जालचमत्कृतेः ।
हा चिन्मरीचिपांश्वभ्रनीहारस्य विसारिता ॥ ३०॥
यथा केशोण्ड्रकं व्योम्नि भाति व्यामलचक्षुषः ।
तथैवेयं जगद्भान्तिर्भात्यनात्मविदोऽम्बरे ॥ ३१॥
यावत्संकल्पितं तावद्यथा संकल्पितं तथा ।
यथा संकल्पनगरं कचतीदं जगत्तथा ॥ ३२॥
संकल्पनगरे यावत्संकल्पसकला स्थितिः ।
भवत्येवाप्यसद्रूपा सतीवानुभवे स्थिता ॥ ३३॥
प्रवहत्येव नियतिर्नियतार्थप्रदायिनी ।
स्थावरं जङ्गमं चैव तिष्ठत्येव यथाक्रमम् ॥ ३४॥
जायते जङ्गमं जीवात्स्थावरं स्थावरादपि ।
नियत्याधो वहत्यम्बु गच्छत्यूर्ध्वमथानलः ॥ ३५॥
वहन्ति देहयन्त्राणि ज्योतींषि प्रतपन्ति च ।
वायवो नित्यगतयः स्थिताः शैलादयः स्थिराः ॥ ३६॥
ज्योतिर्मयं निवृत्तं तु धारासाराम्बरीकृतम् ।
युगसंवत्सराद्यात्म कालचक्रं प्रवर्तते ॥ ३७॥
भूतलैकान्तराब्ध्यद्रिसंनिवेशः स्थितायते ।
भावाभावोग्रहोत्सर्गद्रव्यशक्तिश्च तिष्ठति ॥ ३८॥
कुन्ददन्त उवाच ।
प्राग्दृष्टं स्मृतिमायाति तत्स्वसंकल्पनान्यतः ।
भाति प्रथमसर्गे तु कस्य प्राग्दृष्टभासनम् ॥ ३९॥
तापस उवाच ।
अपूर्वं दृश्यते सर्वं स्वप्ने स्वमरणं यथा ।
प्राग्दृष्टं दृष्टमित्येव तत्रैवाभ्यासतः स्मृतिः ॥ ४०॥
चित्त्वाच्चिद्व्योम्नि कचति जगत्संकल्पपत्तनम् ।
न सन्नासदिदं तस्माद्भाताभातं यतः स्वतः ॥ ४१॥
चित्प्रसादेन संकल्पस्वप्नाद्यद्यानुभूयते ।
शुद्धं चिद्व्योम संकल्पपुरं मा स्मर्यतां कथम् ॥ ४२॥
हर्षामर्षविनिर्मुक्तैर्दुःखेन च सुखेन च ।
प्रकृतेनैव मार्गेण ज्ञश्चक्रैरिव गम्यते ॥ ४३॥
निद्राव्यपगमे स्वप्ननगरे यादृशं स्मृतौ ।
चिद्व्योमात्म परं विद्धि तादृशं त्रिजगद्भ्रमम् ॥ ४४॥
संविदाभासमात्रं यज्जगदित्यभिशब्दितम् ।
तत्संविद्व्योम संशान्तं केवलं विद्धि नेतरत् ॥ ४५॥
यस्मिन्सर्वं यतः सर्वं यत्सर्वं सर्वतश्च यत् ।
सर्वं सर्वतया सर्वं तत्सर्वं सर्वदा स्थितम् ॥ ४६॥
यथेयं संसृतिर्ब्राह्मी भवतो यद्भविष्यति ।
यथा भानं च दृश्यस्य तदेतत्कथितं मया ॥ ४७॥
उत्तिष्ठतं व्रजतमास्पदमह्नि पद्मं
भृङ्गाविवाभिमतमाशु विधीयतां स्वम् ।
तिष्ठामि दुःखमलमस्तसमाधिसंस्थं
भूयः समाधिमहमङ्ग चिरं विशामि ॥ ४८॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये
मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु
तापसोपाख्यानान्तर्गत कुन्ददन्तोपदेशो नाम
चतुःशीत्यधिकशततमः सर्गः ॥ १८४॥ -१२-
॥ अथ त्रयोदशोऽध्यायः ॥
॥ कुन्ददन्तप्रबोधः ॥
कुन्ददन्त उवाच ।
जरन्मुनिरपीत्युक्त्वा ध्यानमीलितलोचनः ।
आसीदस्पन्दितप्राणमनाश्चित्र इवार्पितः ॥ १॥
आवाभ्यां प्रणयोदारैः प्रार्थितोऽपि पुनःपुनः ।
वाक्यैः संसारमविदन्न वचो दत्तवान्पुनः ॥ २॥
आवां प्रदेशतस्तस्माच्चलित्वा मन्दमुत्सुकौ ।
दिनैः कतिपयैः प्राप्तौ गृहं मुदितबान्धवम् ॥ ३॥
अथ तत्रोत्सवं कृत्वा कथाः प्रोच्य चिरंतनीः ।
स्थितास्तावद्वयं यावत्सप्तापि भ्रातरोऽथ ते ॥ ४॥
क्रमेण विलयं प्राप्ताः प्रलयेष्वर्णवा इव ।
मुक्तोऽसौ मे सखैवैक एकार्णव इवाष्टकः ॥ ५॥
ततः कालेन सोऽप्यस्तं दिनान्तेऽर्क इवागतः ।
अहं दुःखप्रीतात्मा परं वैधुर्यमागतः ॥ ६॥
ततोऽहं दुःखितो भूयः कदम्बतरुतापसम् ।
गतो दुःखोपघाताय तज्ज्ञानं प्रष्टुमादृतः ॥ ७॥
तत्र मासत्रयेणासौ समाधिविरतोऽभवत् ।
प्रणतेन मया पृष्टः सन्निदं प्रोक्तवानथ ॥ ८॥
कदम्बतापस उवाच ।
अहं समाधिविरतः स्थातुं शक्नोमि न क्षणम् ।
समाधिमेव प्रविश्याम्यहमाशु कृतत्वरः ॥ ९॥
परमार्थोपदेशस्ते नाभ्यासेन विनानघ ।
लगत्यत्र परां युक्तिमिमां शृणु ततः कुरु ॥ १०॥
अयोध्यानाम पूरस्ति तत्रास्ति वसुधाधिपः ।
नाम्ना दशरथस्तस्य पुत्रो राम इति श्रुतः ॥ ११॥
सकाशं तत्र गच्छ त्वं तस्मै कुलगुरुः किल ।
वसिष्ठाख्यो मुनिश्रेष्ठः कथयिष्यति संसदि ॥ १२॥
मोक्षोपायकथां दिव्यां तां श्रुत्वा सुचिरं द्विज ।
विश्रान्तिमेष्यसि परे पदेऽहमिव पावने ॥ १३॥
इत्युक्त्वा स समाधानरसायनमहार्णवम् ।
विंवशाहमिमं देशं त्वत्सकाशमुपागतः ॥ १४॥
एषोऽहमेतद्वृत्तं मे सर्वं कथितवानहम् ।
यथावृत्तं यथादृष्टं यथाश्रुतमखण्डितम् ॥ १५॥
श्रीराम उवाच ।
सकुन्ददन्त इत्यादिकथाकथनकोविदः ।
स्थितस्ततः प्रभृत्येव मत्समीपगतः सदा ॥ १६॥
स एष कुन्ददन्ताख्यो द्विजः पार्श्वे समास्थितः ।
श्रुतवान्संहितामेतां मोक्षोपायाभिधामिह ॥ १७॥
स एष कुन्ददन्ताख्यो मम पार्श्वगतो द्विजः ।
अद्य निःसंशयो जातो न वेति परिपृच्छ्यताम् ॥ १८॥
श्रीवाल्मीकिरुवाच ।
इत्युक्ते राघवेणाथ प्रोवाच वदतांवरः ।
स वसिष्ठो मुनिश्रेष्ठः कुन्ददन्तं विलोकयन् ॥ १९॥
श्रीवसिष्ठ उवाच ।
कुन्ददन्त द्विजवर कथ्यतां किं त्वयानघ ।
बुद्धं श्रुतवता ज्ञेयं मदुक्तं मोक्षदं परम् ॥ २०॥
कुन्ददन्त उवाच ।
सर्वसंशयविच्छेदि चेत एव जयाय मे ।
सर्वसंशयविच्छेदो ज्ञातं ज्ञेयमखण्डितम् ॥ २१॥
ज्ञातं ज्ञातव्यममलं दृष्टं द्रष्टव्यमक्षतम् ।
प्राप्तं प्राप्तव्यमखिलं विश्रान्तोऽस्मि परे पदे ॥ २२॥
बुद्धेयं त्वदिदं सर्वं परमार्थघनं घनम् ।
अनन्येनात्मनो व्योम्नि जगद्रूपेण जृम्भितम् ॥ २३॥
सर्वात्मकतया सर्वरूपिणः सर्वगात्मनः ।
सर्वं सर्वेण सर्वत्र सर्वदा संभवत्यलम् ॥ २४॥
संभवन्ति जगत्यन्तः सिद्धार्थकणकोटरे ।
न संभवन्ति च यथा ज्ञानमेतदशेषतः ॥ २५॥
गृहेऽन्तः संभवत्येव सप्तद्वीपा वसुंधरा ।
गेहं च शून्यमेवास्ते सत्यमेतदसंशयम् ॥ २६॥
यद्यद्यदा वस्तु यथोदितात्म
भातीह भूतैरनुभूयते च ।
तत्तत्तदा सर्वघनस्तथास्ते
ब्रह्मेत्थमाद्यन्तविमुक्तमस्ति ॥ २७॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये
मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु
तापसोपाख्यानान्तर्गत कुन्ददन्तप्रबोधो सप्तद्वीपेश्वर
नाम पञ्चाशीत्यधिकशततमः सर्गः ॥ १८५॥ -१३-
॥ अथ चतुर्दशोऽध्यायः ॥
॥ सर्वं खल्विदं ब्रह्मेतिप्रतिपादनयोगोपदेशः ॥
श्रीवाल्मीकिरुवाच ।
कुन्ददन्ते वदत्येवं वसिष्ठो भगवान्मुनिः ।
उवाचेदमनिन्द्यात्मा परमार्थोचितं वचः ॥ १॥
श्रीवसिष्ठ उवाच ।
बत विज्ञानविश्रान्तिरस्य जाता महात्मनः ।
करामलकवद्विश्वं ब्रह्मेति परिपश्यति ॥ २॥
किलेदं भ्रान्तिमात्रात्म विश्वं ब्रह्मेति भात्यजम् ।
भ्रान्तिर्ब्रह्मैव च ब्रह्म शान्तमेकमनामयम् ॥ ३॥
यद्यथा येन यत्रास्ति यादृग्यावद्यदा यतः ।
तत्तथा तेन तत्रास्ति तादृक्तावत्तदा ततः ॥ ४॥
शिवं शान्तमजं मौनममौनमजरं ततम् ।
सुशून्याशून्यमभवमनादिनिधनं ध्रुवम् ॥ ५॥
यस्या यस्यास्त्ववस्थायाः क्रियते संविदा भरः ।
सा सा सहस्रशाखत्वमेति सेकैर्यथा लता ॥ ६॥
परो ब्रह्माण्डमेवाणुश्चिद्व्योम्नोन्तः स्थितो यतः ।
परमाणुरेव ब्रह्माण्डमन्तः स्थितजगद्यतः ॥ ७॥
तस्माच्चिदाकाशमनादिमध्य-
मखण्डितं सौम्यमिदं समस्तम् ।
निर्वाणमस्तं गतजातिबन्धो
यथास्थितं तिष्ठ निरामयात्मा ॥ ८॥
स्वयं दृश्यं स्वयं द्रष्टृ स्वयं चित्त्वं स्वयं जडम् ।
स्वयं किंचिन्न किंचिच्च ब्रह्मात्मन्येव संस्थितम् ॥ ९॥
यथा यत्र जगत्येतत्स्वयं ब्रह्म खमात्मनि ।
स्वरूपमजहच्छान्तं यत्र सम्पद्यते तथा ॥ १०॥
ब्रह्म दृश्यमिति द्वैतं न कदाचिद्यथास्थितम् ।
एकत्वमेतयोर्विद्धि शून्यत्वाकाशयोरिव ॥ ११॥
दृश्यमेव परं ब्रह्म परं ब्रह्मैव दृश्यता ।
एतन्न शान्तं नाऽशान्तं नानाकारं न चाकृतिः ॥ १२॥
यादृक्प्रबोधे स्वप्नादिस्तादृग्देहो निराकृतिः ।
संविन्मात्रात्मा प्रतिघः स्वानुभूतोऽप्यसन्म्यः ॥ १३॥
संविन्मयो यथा जन्तुर्निद्रात्मास्ते जडोऽभवत् ।
जडीभूता तथैवास्ते संवित्स्थावरनामिका ॥ १४॥
स्थावरत्वाज्जडाच्चित्त्वं जंगमात्म प्रयाति चित् ।
जीवः सुषुप्तात्मा स्वप्नं जाग्रच्चैव जगच्छतैः ॥ १५॥
आमोक्षमेषा जीवस्य भुव्यम्भस्यनिलेऽनले ।
खे खात्मभिर्जगल्लक्षैः स्वप्नाभैर्भासते स्थितिः ॥ १६॥
चिच्चिनोति तथा जाड्यं नरो निद्रास्थितिर्यथा ।
चिनोति जडतां चित्त्वं न नाम जडतावशात् ॥ १७॥
चिता वेदन वेत्तारं स्थावरं क्रियते वपुः ।
चिता वेदन वेत्तारं जङ्गमं क्रियते वपुः ॥ १८॥
यथा पुंसो नखाः पादवेकमेव शरीरकम् ।
तथैकमेवाप्रतिघं चितः स्थावरजङ्गमम् ॥ १९॥
आदिसर्गे स्वप्न इव यत्प्रथामागतं स्थितम् ।
चितो रूपं जगदिति तत्तथैवान्त उच्यते ॥ २०॥
तच्चैवाप्रतिघं शान्तं यथास्थितमवस्थितम् ।
न प्रथामागतं किंचिन्नासीदप्रथितं हितम् ॥ २१॥
अयमादिरयं चान्तः सर्गस्येत्यवभासते ।
चितः सुघननिद्रायाः सुषुप्तस्वप्नकोष्ठतः ॥ २२॥
स्थित एको ह्यनाद्यन्तः परमार्थघनो यतः ।
प्रलयस्थितिसर्गाणां न नामाप्यस्ति मां प्रति ॥ २३॥
प्रलयस्थितिसर्गादि दृश्यमानं न विद्यते ।
एतन्न चात्मनश्चान्यच्चित्रे चित्रवधूर्यथा ॥ २४॥
कर्तव्यचित्रसेनास्माद्यथा चित्रान्न भिद्यते ।
नानाऽनानैव प्रतिघा चित्तत्त्वे सर्गता तथा ॥ २५॥
विभागहीनयाप्येष भागश्चिद्धननिद्रया ।
सुषुप्तान्मुच्यते मोक्ष इति स्वप्नस्तु चित्तकम् ॥ २६॥
प्रलयोऽयमियं सृष्टिरयं स्वप्नो घनस्त्वयम् ।
भासोऽप्रतिघरूपस्य चित्सहस्ररुचेरिति ॥ २७॥
चिन्निद्रायाः स्वप्नमयो भागश्चित्तमुदाहृतम् ।
तदेव मुच्यते भूतं जीवो देवससुरादिदृक् ॥ २८॥
एष एव परिज्ञातः सुषुप्तिर्भवति स्वयम् ।
यदा तदा मोक्ष इति प्रोच्यते मोक्षकांक्षिभिः ॥ २९॥
श्रीराम उवाच ।
चित्तं देवासुराद्यात्म चिन्निद्रा स्वात्मदर्शनम् ।
कियत्प्रमाणं भगवन्कथमस्योदरे जगत् ॥ ३०॥
श्रीवसिष्ठ उवाच ।
विद्धि चित्तं नरं देवमसुरं स्थावरं स्त्रियम् ।
नागं नगं पिशाचादि खगकीटादिराक्षसम् ॥ ३१॥
प्रमाणं तस्य चानन्तं विद्धि यद्यत्र रेणुताम् ।
आब्रह्मस्तम्बपर्यन्तं जगद्याति सहस्रशः ॥ ३२॥
यदेतदादित्यपथादूर्ध्वं संयाति वेदनम् ।
एतच्चितं भूतमेतदपर्यन्तामलाकृति ॥ ३३॥
एतदुग्रं चितो रूपमस्यान्तर्भुवनर्द्धयः ।
यदायान्ति तदा सर्गश्चित्तादागत उच्यते ॥ ३४॥
चित्तमेव विदुर्जीवं तदाद्यन्तविवर्जितम् ।
खं घटेष्विव देहेषु चास्ते नास्ते तदिच्छया ॥ ३५॥
निम्नोन्नतान्भुवो भागान् गृह्णाति च जहाति च ।
सरित्प्रवाहोऽङ्ग यथा शरीराणि तथा मनः ॥ ३६॥
अस्य त्वात्मपरिज्ञानादेष देहादिसंभ्रमः ।
शाम्यत्याश्ववबोधेन मरुवाःप्रत्ययो यथा ॥ ३७॥
जगत्यन्तरणुर्यत्र तत्प्रमाणं हि चेतसः ।
सदेव च पुमांस्तस्मात्पुंसामन्तः स्थितं जगत् ॥ ३८॥
यावत्किंचिदिदं दृश्यं तच्चित्तं स्वप्नभूष्विव ।
तदेव च पुमांस्तस्मात्को भेदो जगदात्मनोः ॥ ३९॥
चिदेवायं पदार्थौघो नास्त्यन्यस्मिन्पदार्थता ।
व्यतिरिक्ता स्वप्न इव हेम्नीव कटकादिता ॥ ४०॥
यथैकदेशे सर्वत्र स्फुरन्त्यापोऽम्बुधौ पृथक् ।
ब्रह्मण्यनन्या नित्यस्थाश्चितो दृश्यात्मिकास्तथा ॥ ४१॥
यथा द्रवत्वमम्भोधावापो जठरकोशगाः ।
स्फुरन्त्येवंविदाऽनन्याः पदार्थौघास्तथापरे ॥ ४२॥
यथा स्थितजगच्छालभञ्जिकाकाशरूपधृक् ।
चित्स्तम्भोयमपस्पन्दः स्थित आद्यन्तवर्जितः ॥ ४३॥
यथास्थितमिदं विश्वं संविद्व्योम्नि व्यवस्थितम् ।
स्वरूपमत्यजच्छान्तं स्वप्नभूमाविवाखिलम् ॥ ४४॥
समता सत्यता सत्ता चैकता निर्विकारिता ।
आधाराधेयतान्योन्यं चैतयोर्विश्वसंविदोः ॥ ४५॥
स्वप्नसंकल्पसंसारवरशापदृशामिह ।
सरोब्धिसरिदम्बूनामिअवान्यत्वं न वाथवा ॥ ४६॥
श्रीराम उवाच ।
वरशापार्थसंवित्तौ कार्यकारणता कथम् ।
उपादानं विना कार्यं नास्त्येव किल कथ्यताम् ॥ ४७॥
श्रीवसिष्ठ उवाच ।
स्ववदातचिदाकाशकचनं जगदुच्यते ।
स्फुरणे पयसामब्धावावर्तचलनं यथा ॥ ४८॥
ध्वनन्तोऽब्धिजलानीव भान्ति भावाश्चिदात्मकाः ।
संकल्पादीनि नामानि तेषामाहुर्मनीषिणः ॥ ४९॥
कालेनाभ्यासयोगेन विचारेण समेन च ।
जातेर्वा सात्त्विकत्वेन सात्त्विकेनामलात्मना ॥ ५०॥
सम्यग्ज्ञानवतो ज्ञस्य यथा भूतार्थदर्शिनः ।
बुद्धिर्भवति चिन्मात्ररूपा द्वैतैक्यवर्जिता ॥ ५१॥
निरावरणविज्ञानमयी चिद्ब्रह्मरूपिणी ।
संवित्प्रकाशमात्रैकदेहादेहविवर्जिता ॥ ५२॥
सोऽयं पश्यत्यशेषेण यावत्संकल्पमात्रकम् ।
स्वमात्मकचनं शान्तमनन्यत्परमार्थतः ॥ ५३॥
अस्या इदं हि संकल्पमात्रमेवाखिलं जगत् ।
यथासंकल्पनगरं यथा स्वप्नमहापुरम् ॥ ५४॥
आत्मा स्वसंकल्पवरः स्ववदातो यथा यथा ।
यद्यथा संकल्पयति तथा भवति तस्य तत् ॥ ५५॥
संकल्पनगरे बालः शिलाप्रोड्डयनं यथा ।
सत्यं वेत्त्यनुभूयाशु स्वविधेयनियन्त्रणम् ॥ ५६॥
स्वसंकल्पात्मभूतेऽस्मिन्परमात्मा जगत्त्रये ।
वरशापादिकं सत्यं वेत्त्यनन्यत्तथात्मनः ॥ ५७॥
स्वसंकल्पपुरे तैलं यथा सिद्ध्यति सैकतात् ।
कल्पनात्सर्गसंकल्पैर्वरादीह तथात्मनः ॥ ५८॥
अनिरावरणज्ञप्तेर्यतः शान्ता न भेदधीः ।
ततः संकल्पनाद्वैताद्वराद्यस्य न सिद्ध्यति ॥ ५९॥
या यथा कलना रूढा तावत्साद्यापि संस्थिता ।
न परावर्तिता यावद्यत्नात्कल्पनयान्यया ॥ ६०॥
ब्रह्मण्यवयवोन्मुक्ते द्वितैकत्वे तथा स्थिरे ।
यथा सावयवे तत्त्वे विचित्रावयवक्रमः ॥ ६१॥
श्रीराम उवाच ।
अनिरावरणाज्ञानात्केवलं धर्मचारिणः ।
शापादीन्सम्प्रयच्छन्ति यथा ब्रह्मंस्तथा वद ॥ ६२॥
वसिष्ठ उवाच ।
संकल्पयति यन्नाम सर्गादौ ब्रह्म ब्रह्मणि ।
तत्तदेवानुभवति यस्मात्तत्तास्ति नेतरत् ॥ ६३॥
ब्रह्म वेत्ति यदात्मानं स ब्रह्मायं प्रजापतिः ।
स च नो ब्रह्मणो भिन्नं द्रवत्वमिव वारिणः ॥ ६४॥
संकल्पयति यन्नाम प्रथमोऽसौ प्रजापतिः ।
तत्तदेवाशु भवति तस्येदं कल्पनं जगत् ॥ ६५॥
निराधारं निरालम्बं व्योमात्म व्योम्नि भासते ।
दुर्दृष्टेरिव केशोण्ड्रं दृष्टमुक्तावलीव च ॥ ६६॥
संकल्पिताः प्रजास्तेन धर्मो दानं तपो गुणाः ।
वेदाः शास्त्राणि भूतानि पञ्च ज्ञानोपदेशनाः ॥ ६७॥
तपस्विनोऽथ वादैश्च यद्ध्युरविलम्बितम् ।
यद्यद्वेदविदस्तत्स्यादिति तेनाथ कल्पितम् ॥ ६८॥
इदं चिद्ब्रह्मच्छिद्रं खं वायुश्चेष्टाग्निरुष्णता ।
द्रवोऽम्भः कठिनं भूमिरिति तेनाथ कल्पिताः ॥ ६९॥
चिद्धातुरीदृशो वासौ यद्यत्खात्मापि चेतति ।
तत्तथानुभवत्याशु त्वमहं स इवाखिलम् ॥ ७०॥
यद्यथा वेत्ति चिद्व्योम तत्तथा तद्भवत्यलम् ।
स्वप्ने त्वमहमादीव सदात्माप्यसदात्मकम् ॥ ७१॥
शिलानृतं यथा सत्यं संकल्पनगरे तथा ।
जगत्संकल्पनगरे सत्यं ब्रह्मण ईप्सितम् ॥ ७२॥
चित्स्वभावेन शुद्धेन यद्बुद्धं यच्च यादृशम् ।
तदशुद्धोऽन्यथा कर्तुं न शक्तः कीटको यथा ॥ ७३॥
अभ्यस्तं बहुलं संवित्पश्यतीतरदल्पकम् ।
स्वप्ने जाग्रत्स्वरूपे च वर्तमानेऽखिलं च सत् ॥ ७४॥
सदा चिद्व्योम चिद्व्योम्नि कचदेकमिदं निजम् ।
द्रष्टृदृश्यात्मकं रूपं पश्यदाभाति नेतरत् ॥ ७५॥
एकं द्रष्टा च दृश्यं च चिन्नभः सर्वगं यतः ।
तस्माद्यथेष्टं यद्यत्र दृष्टं तत्तत्र सत्सदा ॥ ७६॥
वाय्वङ्गगस्पन्दनवज्जलाङ्गद्रवभाववत् ।
यथा ब्रह्मणि ब्रह्मत्वं तथाजस्याङ्गगं जगत् ॥ ७७॥
ब्रह्मैवाहं विराडात्मा विराडात्मवपुर्जगत् ।
भेदो न ब्रह्मजगतोः शून्यत्वाम्बरयोरिव ॥ ७८॥
यथा प्रपाते पयसो विचित्राः कणपङ्क्तयः ।
विचित्रदेशकालान्ता निपतन्त्युत्पतन्ति च ॥ ७९॥
निपत्त्यैवैकयाऽऽकल्पं मनोबुद्ध्यादिवर्जिताः ।
आत्मन्येवात्मनो भान्ति तथा या ब्रह्मसंविदः ॥ ८०॥
तांभि स्वयं स्वदेहेषु बुद्ध्यादिपरिकल्पनाः ।
कृत्वोररीकृता सर्गश्रीरद्भिर्द्रवता यथा ॥ ८१॥
तदेवं जगदित्यस्ति दुर्बोधेन मम त्विदम् ।
अकारणकमद्वैतमजातं कर्म केवलम् ॥ ८२॥
अस्तस्थितिः शरीरेऽस्मिन्यादृग्रूपानुभूयतेः ।
उपलादौ जडा सत्ता तादृशी परमात्मनः ॥ ८३॥
यथैकस्यां सुनिद्रायां सुषुप्तस्वप्नकौ स्थितौ ।
तथैते सर्गसंहारभासौ ब्रह्मणि संस्थिते ॥ ८४॥
सुषुप्तस्वप्नयोर्भातः प्रकाशतमसी यथा ।
एकस्यामेव निद्रायां सर्गासर्गो तथा परे ॥ ८५॥
यथा नरोऽनुभवति निद्रायां दृषदः स्थितिम् ।
परमात्मानुभवति तथैतज्जडसंस्थितिम् ॥ ८६॥
अङ्गष्ठस्याथवाङ्गुल्या वाताद्यस्पर्शने सति ।
योऽन्यचित्तस्यानुभवो दृषदादौ स आत्मनः ॥ ८७॥
व्योमोपलजलादीनां यथा देहानुभूतयः ।
तथास्माकमचित्तानामद्य नानानुभूतयः ॥ ८८॥
काले कल्पेषु भान्त्येता यथाहोरात्रसंविदः ।
तथाऽसंख्याः परे भान्ति सर्गसंहारसंविदः ॥ ८९॥
आलोकरूपमननानुभवैषणेच्छा
मुक्तात्मनि स्फुरति वारिघने स्वभावात् ।
आवर्तवीचिवलयादि यथा तथायं
शान्ते परे स्फुरति संहृतिसर्गपूगः ॥ ९० ।
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये
मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु
सर्वं खल्विदं ब्रह्मेतिप्रतिपादनयोगोपदेशो
नाम षडशीत्यधिकशततमः ॥ १८६॥ -१४-
॥ ब्रह्मगीता स्कन्दपुराणान्तर्गता ॥
श्रीस्कन्दपुराणे सूतसंहितायां चतुर्थस्य
यज्ञवैभवखण्डस्योपरिभागे ब्रह्मगीतासूपनिषत्सु
ब्रह्मगीतिर्नाम प्रथमोऽध्यायः ॥ १-६०
वेदार्थविचारो नाम द्वितीयोऽध्यायः ॥ १-६०
साक्षिशिवस्वरूपकथनं नाम तृतीयोऽध्ययः ॥ १-११८
तलवकारोपनिषद्व्याख्याकथनं नाम चतुर्थोऽध्यायः ॥ १-१५४
आदेशकथनं नाम पञ्चमोऽध्यायः ॥ १-१९६
दहरोपासनविवरणं नाम षष्ठोऽध्यायः ॥ १-५८
वस्तुस्वरूपविचारो नाम सप्तमोऽध्यायः ॥ १-९५
कैवल्योपनिषद्विवरणे तत्त्ववेदनविधिर्नामाष्टमोऽध्यायः १-५५
बृहादारण्यकोपनिषद्व्याख्याने नवमोऽध्यायः ॥ १-५७
बृहादारण्यकव्याख्याकथनं नाम दशमोऽध्यायः ॥ १-५६
कठवल्लीश्वेताश्वेतरव्याख्यायामेकादशोऽध्यायः ॥ १-७२
शिवस्याहम्प्रत्यायाश्रत्वं नाम द्वादशोऽध्यायः ॥ १-७७
॥ अथ प्रारभ्यते स्कन्दपुराणान्तर्गतसूतसंहितायां ब्रह्मगीता ॥
॥ प्रथमोऽध्यायः ॥
। ब्रह्मगीतिः ।
मुनय ऊचुः -
भवता सर्वमाख्यातं सङ्क्षेपाद्विस्तरादपि ।
इदानीं श्रोतुमिच्छामो ब्रह्मगीतामनुत्तमाम् ॥ १॥
सर्वविज्ञानरत्नानामाकरस्य महात्मनः ।
कृष्णद्वैपायनस्यैव भवाञ्छिष्यः सुशिक्षितः ॥ २॥
त्वयैवाविदितं किञ्चिन्नास्ति सत्यं प्रभाषितम् ।
यदि प्रसन्नो भगवांस्तन्नो वक्तुमिहार्हसि ॥ ३॥
सूत उवाच -
वक्ष्ये तामादरेणैव ब्रह्मगीतामनुत्तमाम् ।
श्रद्धया सहिता यूयं शृणुत ब्रह्मवित्तमाः ॥ ४॥
पुरा कल्पान्तरे देवाः सर्वे सम्भूय सादरम् ।
विचार्य सुचिरं कालं वेदानामर्थमुत्तमम् ॥ ५॥
संशयाविष्टचित्तास्तु तपस्तप्त्वा महत्तरम् ।
अभिजग्मुर्विधातारं प्रष्टुं देवा मुनीश्वराः ॥ ६॥
यत्रास्ते जगतां नाथः सर्वज्ञः सर्ववित्प्रभुः ।
महाकारुणिकः श्रीमान्ब्रह्मा भक्तहिते रतः ॥ ७॥
मेरुशृङ्गे वरे रम्ये सर्वयोगिसमावृते ।
यक्षराक्षसगन्धर्वसिद्धाद्यैश्च सुसेविते ॥ ८॥
नानारत्नसमाकीर्णे नानाधातुविचित्रिते ।
शकुन्तसङ्घसङ्घृष्टे नानातीर्थसमावृते ॥ ९॥
गुहाकोटिसमायुक्ते गिरिप्रस्रवणैर्युते ।
मधुरादिरसैः षड्भिः समृद्धेऽतीव शोभने ॥ १०॥
तत्र ब्रह्मवनं नाम शतयोजनमायतम् ।
शतयोजनविस्तीर्णं दीर्घिकाभिः सुसंयुतम् ॥ ११॥
नानापशुसमायुक्तं नानापक्षिसमाकुलम् ।
स्वादुपानीयसंयुक्तं फलमूलैश्च संयुतम् ॥ १२॥
भ्रमद्भ्रमरसञ्छन्नसुगन्धकुसुमद्रुमम् ।
मन्दानिलसमायुक्तं मन्दातपसमायुतम् ॥ १३॥
निशाकरकरैर्युक्तं वनमस्ति महत्तरम् ।
तत्र जाम्बूनदमयं तरुणादित्यसन्निभम् ॥ १४॥
नवप्राकारसंयुक्तमशीतिद्वारसंयुतम् ।
महाबलसमोपेतैर्द्वारपालैश्च कोटिभिः ॥ १५॥
खड्गतोमरचापादिशस्त्रयुक्तैश्च रक्षितम् ।
पुष्पप्रकरसङ्कीर्णं पूर्णकुम्भैश्च संयुतम् ॥ १६॥
ज्वलद्दीपैः समायुक्तं पुष्पमालाविराजितम् ।
विचित्रचित्रसंयुक्तभित्तिकोटिसुशोभितम् ॥ १७॥
मुक्तादामसमायुक्तं वितानैर्मौक्तिकैर्युतम् ।
अभ्रगामिध्वजैर्युक्तं प्रांशुतोरणसंयुतम् ॥ १८॥
नृत्यगीतादिभिर्युक्तमप्सरोगणसेवितम् ।
नानाविधमहावाद्यैर्नानातालैश्च संयुतम् ॥ १९॥
मृदुमध्योग्रशब्दाढ्यं नानाकाहलसंयुतम् ।
वेदघोषसमायुक्तं स्मृतिघोषसमन्वितम् ॥ २०॥
पुराणघोषसंयुक्तमितिहासरवान्वितम् ।
सर्वविद्यारवैर्युक्तं सर्वज्ञैश्च समावृतम् ॥ २१॥
अगाधजलपर्यन्तमवरोधसमन्वितम् ।
रथकोटिसमायुक्तं कोटिकोटिगजावृतम् ॥ २२॥
कोटिकोटिसहस्रैश्च महाश्वैश्च विराजितम् ।
अस्त्रशस्त्रादिसंयुक्तैरसङ्ख्यातबलान्वितैः ॥ २३॥
असङ्ख्यातैर्भटैर्नित्यं रक्षितं पुरमुत्तमम् ।
अस्ति पुण्यवतां प्राप्यमप्राप्यं पापकर्मणाम् ॥ २४॥
तस्मिन्नन्तःपुरे शुद्धे सहस्रस्थूणसंयुते ।
सर्वलक्षणसंयुक्ते सर्वालङ्कारसंयुते ॥ २५॥
मृदुतोरणसंयुक्ते कल्पवृक्षसमन्विते ।
कण्ठीरवमुखैर्युक्ते षट्पदस्वनसंयुते ॥ २६॥
मृदुतल्पसमोपेते रत्ननिर्मितमण्डपे ।
देव्या चापि सरस्वत्या वर्णविग्रहया सह ॥ २७॥
सर्वशब्दार्थभूतस्तु ब्रह्मा निवसति प्रभुः ।
तत्र देवा द्विजा गत्वा ददृशुर्लोकनायकम् ॥ २८॥
नानारत्नसमोपेतं विचित्रमुकुटोज्ज्वलम् ।
रत्नकुण्डलसंयुक्तं प्रसन्नवदनं शुभम् ॥ २९॥
नानारत्नसमोपेतहाराभरणभूषितम् ।
महार्हमणिसंयुक्तकेयूरकरसंयुतम् ॥ ३०॥
विचित्रकटकोपेतमङ्गुलीयकशोभितम् ।
उत्तरीयकसंयुक्तं शुक्लयज्ञोपवीतिनम् ॥ ३१॥
नानारत्नसमोपेतं तुन्दबन्धविराजितम् ।
चन्दनागरुकर्पूरक्षोददिग्धतनूरुहम् ॥ ३२॥
सुगन्धकुसुमोत्पन्ननानामालाविभूषितम् ।
शुक्लवस्त्रपरीधानं तप्तजाम्बूनदप्रभम् ॥ ३३॥
स्वभासा सकलं नित्यं भासयन्तं परात्परम् ।
सुरासुरमुनीन्द्रैश्च वन्द्यमानपदाम्बुजम् ॥ ३४॥
तं दृष्ट्वा सर्वकर्तारं साक्षिणं तमसः परम् ।
महाप्रीतिसमोपेताः प्रसन्नवदनेक्षणाः ॥ ३५॥
सञ्जातपुलकैर्युक्ता विवशा गद्गदस्वराः ।
प्रकाशितसुखाब्ध्यन्तर्निमग्ना निर्मलावृतम् ॥ ३६॥
निरस्तनिखिलध्वान्ताः प्रणम्य वसुधातले ।
शिरस्यञ्जलिमाधाय सर्वे देवाः समाहिताः ॥ ३७॥
तुष्टुवुर्हृष्टमीशानं सर्वलोकपितामहम् ।
मुक्तिदं पुण्यनिष्ठानां दुःखदं पापकर्मणाम् ॥ ३८॥
देवा ऊचुः -
ब्रह्मणे ब्रह्मविज्ञानदुग्धोदधिविधायिने ।
ब्रह्मतत्त्वदिदृक्षूणां ब्रह्मदाय नमो नमः ॥ ३९॥
कष्टसागरमग्नानां संसारोत्तारहेतवे ।
साक्षिणे सर्वभूतानां साक्ष्यहीनाय वै नमः ॥ ४०॥
सर्वधात्रे विधात्रे च सर्वद्वन्द्वापहारिणे ।
सर्वावस्थासु सर्वेषां साक्षिणे वै नमो नमः ॥ ४१॥
परात्परविहीनाय पराय परमेष्ठिने ।
परिज्ञातवतामात्मस्वरूपाय नमो नमः ॥ ४२॥
पद्मजाय पवित्राय पद्मनाभसुताय च ।
पद्मपुष्पेण पूज्याय नमः पद्मधराय च ॥ ४३॥
सुरज्येष्ठाय सूर्यादिदेवतातृप्तिकारिणे ।
सुरासुरनरादीनां सुखदाय नमो नमः ॥ ४४॥
वेधसे विश्वनेत्राय विशुद्धज्ञानरूपिणे ।
वेदवेद्याय वेदान्तविधये वै नमो नमः ॥ ४५॥
विधये विधिहीनाय विधिवाक्यविधायिने ।
विध्युक्तकर्मनिष्ठानां नमो विद्याप्रदायिने ॥ ४६॥
विरिञ्चाय विशिष्टाय विशिष्टार्तिहराय च ।
विषण्णानां विषादाब्धिविनाशाय नमो नमः ॥ ४७॥
नमो हिरण्यगर्भाय हिरण्यगिरिवर्तिने ।
हिरण्यदानलभ्याय हिरण्यातिप्रियाय च ॥ ४८॥
शतानन्दाय शान्ताय शाङ्करज्ञानदायिने ।
शमादिसहितस्यैव ज्ञानदाय नमो नमः ॥ ४९॥
शम्भवे शम्भुभक्तानां शङ्कराय शरीरिणाम् ।
शाङ्करज्ञानहीनानां शत्रवे वै नमो नमः ॥ ५०॥
नमः स्वयम्भुवे नित्यं स्वयम्भुब्रह्मदायिने ।
स्वयं ब्रह्मस्वरूपाय स्वतन्त्राय परात्मने ॥ ५१॥
द्रुहिणाय दुराचारनिरतस्य दुरात्मनः ।
दुःखदायान्यजन्तूनामात्मदाय नमो नमः ॥ ५२॥
वन्द्यहीनाय वन्द्याय वरदाय परस्य च ।
वरिष्ठाय वरिष्ठानां चतुर्वक्त्राय वै नमः ॥ ५३॥
प्रजापतिसमाख्याय प्रजानां पतये सदा ।
प्राजापत्यविरक्तस्य नमः प्रज्ञानदायिने ॥ ५४॥
पितामहाय पित्रादिकल्पनारहिताय च ।
पिशुनागम्यदेहाय पेशलाय नमो नमः ॥ ५५॥
जगत्कर्त्रे जगद्गोप्त्रे जगद्धन्त्रे परात्मने ।
जगद्दृश्यविहीनाय चिन्मात्रज्योतिषे नमः ॥ ५६॥
विश्वोत्तीर्णाय विश्वाय विश्वहीनाय साक्षिणे ।
स्वप्रकाशैकमानाय नमः पूर्णपरात्मने ॥ ५७॥
स्तुत्याय स्तुतिहीनाय स्तोत्ररूपाय तत्त्वतः ।
स्तोतॄणामपि सर्वेषां सुखदाय नमो नमः ॥ ५८॥
सूत उवाच -
एवं ब्रह्माणमादित्याः स्तुत्वा भक्तिपुरःसरम् ।
पृष्टवन्तस्तु सर्वेषां वेदानामर्थमादरात् ॥ ५९॥
ब्रह्माऽपि ब्रह्मविन्मुख्यः सर्ववेदैरभिष्टुतः ।
प्राह गम्भीरया वाचा वेदानामर्थमुत्तमम् ॥ ६०॥
इति श्रीस्कन्दपुराणे सूतसंहितायां चतुर्थस्य
यज्ञवैभवखण्डस्योपरिभागे ब्रह्मगीतासूपनिषत्सु
ब्रह्मगीतिर्नाम प्रथमोऽध्यायः ॥ १॥
॥ अथ द्वितीयोऽध्यायः ॥
॥ वेदार्थविचारः ॥
ब्रह्मोवाच -
अवाच्य एव वेदार्थः सर्वथा सर्वचेतनैः ।
तथाऽपि वक्ष्ये भक्तानां युष्माकं शृणुतादरात् ॥ १॥
आत्मसंज्ञः शिवः शुद्ध एक एवाद्वयः सदा ।
अग्रे सर्वमिदं देवा आसीत्तन्मात्रमास्तिकाः ॥ २॥
ततो नान्यन्मिषत्किञ्चित्स पुनः कालपाकतः ।
प्राणिनां कर्मसंस्कारात्स्वशक्तिगतसत्त्वतः ॥ ३॥
स ऐक्षत जगत्सर्वं नु सृजा इति शङ्करः ।
स पुनः सकलानेताँल्लोकानात्मीयशक्तितः ॥ ४॥
यथापूर्वं क्रमेणैव सुरा असृजत प्रभुः ।
तं हरं केचिदिच्छन्ति केचिद्विष्णुं सुरोत्तमाः ॥ ५॥
केचिन्मामेव चेच्छन्ति केचिदिन्द्रादिदेवताः ।
केचित्प्रधानं त्रिगुणं स्वतन्त्रं केवलं जडम् ॥ ६॥
अणवः केचिदिच्छन्ति शब्दं केचन मोहिताः ।
क्षणप्रध्वंसिविज्ञानं केचन भ्रान्तचेतसः ॥ ७॥
शून्यसंज्ञं सुराः केचिन्निरुपाख्यं विमोहिताः ।
केचिद्भूतानि चेच्छन्ति निसर्गं केचन भ्रमात् ॥ ८॥
तत्र तत्रैव तर्कांश्च प्रवदन्ति यथाबलम् ।
सर्वे वादाः श्रुतिस्मृत्योर्विरुद्धा इति मे मतिः ॥ ९॥
पापिष्ठानां तु जन्तूनां तत्र तत्र सुरर्षभाः ।
प्राक्संसारवशादेव जायते रुचिरास्तिकाः ॥ १०॥
तेऽपि कालविपाकेन श्रद्धया पूतयाऽपि च ।
पुरातनेन पुण्येन देवतानां प्रसादतः ॥ ११॥
कालेन महता देवाः सोपानक्रमतः पुनः ।
वेदमार्गमिमं मुख्यं प्राप्नुवन्ति चिरन्तनम् ॥ १२॥
प्राक्संसारवशादेव ये विचिन्त्य बलाबले ।
विवशा वेदमापन्नास्तेऽपि कैवल्यभागिनः ॥ १३॥
वेदमार्गमिमं मुक्त्वा मार्गमन्यं समाश्रितः ।
हस्तस्थं पायसं त्यक्त्वा लिहेत्कूर्परमात्मनः ॥ १४॥
विदा वेदेन जन्तूनां मुक्तिर्मार्गान्तरेण चेत् ।
तमसाऽपि विना लोकं ते पश्यन्ति घटादिकम् ॥ १५॥
तस्माद्वेदोदितो ह्यर्थः सत्यं सत्यं मयोदितम् ।
अन्येन वेदितो ह्यर्थो न सत्यः परमार्थतः ॥ १६॥
परमार्थो द्विधा प्रोक्तो मया हे स्वर्गवासिनः ।
एकः स्वभावतः साक्षात्परमार्थः सदैव तु ॥ १७॥
स शिवः सत्यचैतन्यसुखानन्तस्वलक्षणः ।
अपरः कल्पितः साक्षाद्ब्रह्मण्यध्यस्तमायया ॥ १८॥
कल्पितानामवस्तूनां मध्ये केचन मायया ।
परमार्थतया क्लृप्ताः व्यवहारे सुरर्षभाः ॥ १९॥
व्यवहारे तु सङ्क्लृप्ताः केचनापरमार्थतः ।
आकाशादि जगच्छुक्तिरूपे ते कथिते मया ॥ २०॥
व्यावहारिकसत्यार्थं साक्षात्सत्यार्थचिद्घनम् ।
उभयं वक्ति वेदस्तु मार्गा नैवं वदन्ति हि ॥ २१॥
स्वप्नावस्थासु सङ्क्लृप्तसत्यार्थेन समानिमान् ।
अर्थानेवामनन्त्यन्ये मार्गा हे स्वर्गवासिनः ॥ २२॥
जाग्रत्काले तु सङ्क्लृप्तसत्यार्थेन समानिमान् ।
मार्गा एवामनन्त्यर्था का कथा सत्यचिद्घने ॥ २३॥
तस्मादेकैकया दृष्ट्या मार्गाः सत्यार्थभाषिणः ।
दृष्ट्यान्तरेण ते भ्रान्ता इति सम्यङ्निरूपणम् ॥ २४॥
चैतन्यापेक्षया चेत्यं व्योमादि सकलं जगत् ।
असत्यं सत्यरूपं तत्कुम्भकुड्याद्यपेक्षया ॥ २५॥
कुम्भकुड्यादयो भावा अपि व्योमाद्यपेक्षया ।
असत्याः सत्यरूपास्ते शुक्तिरूपाद्यपेक्षया ॥ २६॥
जाग्रदित्युदितावस्थामपेक्ष्य स्वपनाभिधा ।
अवस्थाऽसत्यरूपा हि न सत्या हि दिवौकसः ॥ २७॥
तथाऽपि स्वप्नदृष्टं तु वस्तु स्वर्गनिवासिनः ।
सूचकं हि भवत्येव जाग्रत्सत्यार्थसिद्धये ॥ २८॥
तथैव मार्गाः सुभ्रान्ता अपि वेदोदितस्य तु ।
अर्थस्य प्राप्तिसिद्ध्यार्था भवन्त्येव न संशयः ॥ २९॥
तस्माद्वेदेतरा मार्गा नैव त्याज्या निरूपणे ।
वेदनिष्ठस्तु तान्मार्गान्कदाचिदपि न स्पृशेत् ॥ ३०॥
वेदनिष्ठस्तु मार्गांस्तान्मोहेनापि स्पृशेद्यदि ।
प्रायश्चित्ती भवत्येव नात्र कार्या विचारणा ॥ ३१॥
एकस्यामपि तैः सार्धं पङ्क्तौ वेदैकसंस्थितः ।
मोहेनापि न भुञ्जीत भुक्त्वा चान्द्रायणं चरेत् ॥ ३२॥
इज्यादानविवाहादिकार्यमध्ययनं श्रुतेः ।
यदि तैर्मोहतः कुर्यात्कुर्याच्चान्द्रायणत्रयम् ॥ ३३॥
धर्माधर्मादिविज्ञानं नाददीत श्रुतौ स्थितः ।
तेभ्यो मोहादपि प्राज्ञाः श्रेयस्कामी कदाचन ॥ ३४॥
वेदबाह्येषु मार्गेषु संस्कृता ये नराः सुराः ।
ते हि पाषण्डिनः साक्षात्तथा तैः सहवासिनः ॥ ३५॥
कलौ जगद्विधातारं शिवं सत्यादिलक्षणम् ।
नार्चयिष्यन्ति वेदेन पाषण्डोपहता जनाः ॥ ३६॥
वेदसिद्धं महादेवं साम्बं चन्द्रार्धशेखरम् ।
नार्चयिष्यन्ति वेदेन पाषण्डोपहता जनाः ॥ ३७॥
वेदोक्तेनैव मार्गेण भस्मनेव त्रिपुण्ड्रकम् ।
धूलनं नाचरिष्यन्ति पाषण्डोपहता जनाः ॥ ३८॥
रुद्राक्षधारणं भक्त्या वेदोक्तेनैवे वर्त्मना ।
न करिष्यन्ति मोहेन पाषण्डोपहता जनाः ॥ ३९॥
लिङ्गे दिने दिने देवं शिवरुद्रादिसंज्ञितम् ।
नार्चयिष्यन्ति वेदेन पाषण्डोपहता जनाः ॥ ४०॥
देवकार्यं न कुर्वन्ति पितृकार्यं विशेषतः ।
औपासनं न कुर्वन्ति पाषण्डोपहता जनाः ॥ ४१॥
पञ्चयज्ञं न कुर्वन्ति तथैवातिथिपूजनम् ।
वैश्वदेवं न कुर्वन्ति पाषण्डोपहता जनाः ॥ ४२॥
वेदबाह्येन मार्गेण पूजयन्ति जनार्दनम् ।
निन्दन्ति शङ्करं मोहात्पाषण्डोपहता जनाः ॥ ४३॥
ब्रह्माणं केशवं रुद्रं भेदभावेन मोहिताः ।
पश्यन्त्येकं न जानन्ति पाषण्डोपहता जनाः ॥ ४४॥
अदक्षिणमनभ्यङ्गमधौतचरणं तथा ।
कुर्वन्त्यनग्निकं श्राद्धं पाषण्डोपहता जनाः ॥ ४५॥
एकादश्यामथाष्टम्यां चतुर्दश्यां विशेषतः ।
उपवासं न कुर्वन्ति पाषण्डोपहता जनाः ॥ ४६॥
शतरुद्रीयचमकैस्तथा पौरुषसूक्तकैः ।
नाभिषिञ्चन्ति देवेशं पाषण्डोपहता जनाः ॥ ४७॥
चिरन्तनानि स्थानानि शिवस्य परमात्मनः ।
न द्रक्ष्यन्ति महाभक्त्या पाषण्डोपहता जनाः ॥ ४८॥
श्रीमद्दक्षिणकैलासे वर्तनं श्रद्धया सह ।
वत्सरं न करिष्यन्ति पाषण्डोपहता जनाः ॥ ४९॥
श्रीमद्व्याघ्रपुरे पुण्ये वर्तनं भुक्तिमुक्तिदम् ।
वत्सरं न करिष्यन्ति पाषण्डोपहता जनाः ॥ ५०॥
अन्येषु च विशिष्टेषु शिवस्थानेषु वर्तनम् ।
वत्सरं न करिष्यन्ति पाषण्डोपहता जनाः ॥ ५१॥
दिने दिने तु वेदान्तमहावाक्यार्थनिर्णयम् ।
आचार्यान्न करिष्यन्ति पाषण्डोपहता जनाः ॥ ५२॥
सन्न्यासं परहंसाख्यं नाङ्गीकुर्वन्ति मोहिताः ।
प्रद्वेषं च करिष्यन्ति पाषण्डोपहता जनाः ॥ ५३॥
अन्यानि यानि कर्माणि वेदेनैवोदितानि तु ।
नाचरिष्यन्ति तान्येव पाषण्डोपहता जनाः ॥ ५४॥
स्मार्तान्यपि च कर्माणि यानि यानि सुरोत्तमाः ।
नाचरिष्यन्ति तान्येव पाषण्डोपहता जनाः ॥ ५५॥
ऊर्ध्वपुण्ड्रं ललाटे तु वर्तुलं चार्धचन्द्रकम् ।
धारयिष्यन्ति मोहेन पाषण्डोपहता जनाः ॥ ५६॥
शङ्खचक्रगदावज्रैरङ्कनं विग्रहे स्वके ।
मोहेनैव करिष्यन्ति पाषण्डोपहता जनाः ॥ ५७॥
मनुष्याणां च नाम्ना तु तेषामाकारतोऽपि च ।
लाञ्छिताश्च भविष्यन्ति पाषण्डोपहता जनाः ॥ ५८॥
बहुनोक्तेन किं वेदमर्यादाभेदनं सुराः ।
श्रद्धयैव करिष्यन्ति पाषण्डोपहता जनाः ॥ ५९॥
धीरा विशिष्टाश्च महेश्वरस्य
प्रसादयुक्ताश्च महत्तमाश्च ।
वेदोदितं केवलमेव देवा
मुदा करिष्यन्ति विमुक्तिसिद्ध्यै ॥ ६०॥
इति ब्रह्मगीतासूपनिषत्सु
वेदार्थविचारो नाम द्वितीयोऽध्यायः ॥ २॥
॥ अथ तृतीयोऽध्यायः ॥
॥ साक्षिशिवस्वरूपकथनम् ॥
ब्रह्मोवाच -
सर्वात्मा शङ्करो नाम साक्ष्येव सकलस्य तु ।
साक्ष्यभावे जगत्साक्ष्यं कथं भाति सुरोत्तमाः ॥ १॥
स्वतो भानविहीनं हि जगत्सर्वं चराचरम् ।
जडताऽजडता चास्य जगतो भानवत्तया ॥ २॥
भानं विज्ञानतो जन्यमिति कैश्चिदुदीर्यते ।
तन्न सङ्गतमेव स्याज्जन्यं चेज्जडमेव तत् ।
जडानामेव जन्यत्वं कुम्भादीनां हि सम्मतम् ॥ ३॥
विज्ञानं चापि भानस्य नैवोत्पादकमिष्यते ।
ज्ञानस्य भानरूपेण परिणामो न सिध्यति ॥ ४॥
अविक्रियत्वाज्ज्ञानस्य यदि तस्यापि विक्रिया ।
तर्हि क्षीरादिवच्चेत्यं भवेत्तन्नैव वेदनम् ॥ ५॥
तथा भानस्य विज्ञानं नैवारम्भकमिष्यते ।
अद्रव्यत्वाद्गुणत्वेन परैरङ्गीकृतत्वतः ॥ ६॥
असद्रूपस्य भानस्य ज्ञानं नारम्भकं भवेत् ।
वन्ध्यासूनोरपि ज्ञानं तदा ह्यारम्भकं भवेत् ॥ ७॥
प्रागसद्रूपभानस्य ज्ञानं नारम्भकं भवेत् ।
असतः प्राक्त्वपूर्वाणां विशेषाणामभावतः ॥ ८॥
अतो विज्ञानजन्यत्वं नास्ति भानस्य सर्वदा ॥ ९॥
ज्ञानस्यापि न जन्यत्वमस्ति हे स्वर्गवासिनः ।
उक्तन्यायेन जन्यत्वप्रतीतिर्भ्रान्तिरेव हि ॥ १०॥
भानस्यापि तथा भ्रान्तिर्जन्यत्वप्रतिभा सुराः ।
भावत्वे सत्यजन्यत्वाद्भानं नित्यं सुरोत्तमाः ॥ ११॥
यज्जगद्भासकं भानं नित्यं भाति स्वतः सुराः ।
स एव जगतः साक्षी सर्वात्मा शङ्कराभिधः ॥ १२॥
तेन कल्पितसम्बन्धादज्ञानं भाति न स्वतः ।
अज्ञानजन्यं चित्तं च रागद्वेषादयस्तथा ।
अज्ञानस्पृष्टचैतन्यादेवं भान्ति न च स्वतः ॥ १३॥
प्राणश्चापि तथा बाह्यकरणानि वपुस्तथा ।
चित्तवृत्त्यभिसम्बन्धद्वारेणैव दृगन्वयात् ॥ १४॥
विभान्ति न स्वतो बाह्यविषयाश्च तथैव च ॥ १५॥
अनुमानादिवृत्तिस्थं चैतन्यं सुरसत्तमाः ।
अर्थानामपि केषां चिद्भासकं तेन शङ्करः ॥ १६॥
सर्वावभासकः प्रोक्तस्तेन भातमिदं जगत् ।
अतो रूपाणि तेनैव पश्यतीशेन मानवः ॥ १७॥
शृणोत्यनेन शब्दांश्च गन्धानाजिघ्रति प्रियान् ।
अनेनैव सदा वाचं व्याकरोति तु मानवः ।
अनेन स्वादु चास्वादु विजानाति च मानवः ॥ १८॥
शङ्कराख्यं तु विज्ञानं बहुधा शब्द्यते बुधैः ।
केचिधृदयमित्याहुर्ब्राह्मणा हे सुरोत्तमाः ॥ १९॥
मन इत्यपरे सन्तः संज्ञानमिति केचन ।
आज्ञानमिति विद्वांसः केचिद्धे स्वर्गवासिनः ॥ २०॥
विज्ञानमिति चाप्यन्ये प्रज्ञानमिति केचन ।
मेधेति ब्राह्मणाः केचिद्दृष्टिरित्यपरे बुधाः ॥ २१॥
धृतिरित्यपरे प्राज्ञा मतिरित्यपि केचन ।
मनीषेति महाप्राज्ञा जूतिरित्यपरे बुधाः ॥ २२॥
स्मृतिरित्यास्तिकाः केचित्सङ्कल्प इति केचन ।
क्रतुरित्यपरे प्राज्ञाः काम इत्यपरे जनाः ॥ २३॥
वश इत्यास्तिकाः केचित्सर्वाण्येतानि सन्ततम् ।
प्रज्ञानस्य शिवस्यास्य नामध्येयान्यसंशयम् ॥ २४॥
एष ब्रह्मैष एवेन्द्र एष एव प्रजापतिः ।
एष एव हि देवाश्च भूतानि भवनानि च ॥ २५॥
अण्डजा जारुजाश्चैव स्वेदजा उद्भिजा अपि ।
अश्वा गावश्च मर्त्याश्च हस्तिपूर्वास्तथैव च ॥ २६॥
स्थावरं जङ्गमं चैव तथाऽन्यदपि किञ्चन ।
सर्वमेतदयं शम्भुः प्रज्ञानघनलक्षणः ॥ २७॥
प्रतिष्ठा सर्ववस्तूनां प्रज्ञैषा पारमेश्वरी ।
प्रज्ञानमेव तद्ब्रह्म शिवरुद्रादि संज्ञितम् ॥ २८॥
एवंरूपपरिज्ञानादेव मर्त्योऽमृतो भवेत् ।
न कर्मणा न प्रजया न चान्येनापि केनचित् ॥ २९॥
ब्रह्मवेदनमात्रेण ब्रह्माप्नोत्येव मानवः ।
अत्र नास्त्येव सन्देहस्त्रिर्वः शपथयाम्यहम् ॥ ३०॥
तद्विद्याविषयं ब्रह्म सत्यज्ञानसुखाद्वयम् ।
संसारके गुहावाच्ये मायाज्ञानादिसंज्ञिते ।
निहितं ब्रह्म यो वेद परमव्योमसंज्ञिते ॥ ३१॥
सोऽश्नुते सकलान्कामानक्रमेण सुरर्षभाः ।
विदितब्रह्मरूपेण जीवन्मुक्तो न संशयः ॥ ३२॥
प्रत्यगज्ञानविज्ञानमायाशक्तेस्तु साक्षिणम् ।
एकं ब्रह्म च सम्पश्यन्साक्षाद्ब्रह्मविदुत्तमः ॥ ३३॥
ब्रह्मरूपात्मनस्तस्मादेतस्माच्छक्तिमिश्रितात् ।
अपञ्चीकृत आकाशः सम्भूतो रज्जुसर्पवत् ॥ ३४॥
आकाशाद्वायुसञ्ज्ञस्तु स्पर्शोऽपञ्चीकृतः पुनः ।
वायोरग्निस्तथा चाग्नेराप अद्भ्यो वसुन्धरा ॥ ३५॥
तानि भूतानि सूक्ष्माणि पञ्चीकृत्य शिवाज्ञया ।
तेभ्य एव सुरा सृष्टं ब्रह्माण्डाख्यमिदं मया ॥ ३६॥
भुवनानि विशिष्टानि निर्मितानि शिवाज्ञया ।
ब्रह्माण्डस्योदरे देवा देवाश्च विविधा अमी ॥ ३७॥
देवादयो मनुष्याश्च तथा पश्वादयो जनाः ।
तत्तत्कर्मानुरूपेण मया सृष्टाः शिवाज्ञया ॥ ३८॥
अस्थिस्नाय्वादिरूपं यच्छरीरं भाति देहिनाम् ।
तस्मात्प्राणमयो ह्यात्मा विभिन्नश्चान्तरो यतः ॥ ३९॥
योऽयं प्राणमयो ह्यात्मा भाति सर्वशरीरिणाम् ।
ततो मनोमयो ह्यात्मा विभिन्नश्चान्तरत्वतः ॥ ४०॥
योऽयं मनोमयो ह्यात्मा भाति सर्वशरीरिणाम् ।
विज्ञानमय आत्मा च ततोऽन्यश्चान्तरो यतः ॥ ४१॥
विज्ञानमय आत्मा यो विभाति सकलात्मनाम् ।
आनन्दमय आत्मा च ततोऽन्यश्चान्तरो यतः ॥ ४२॥
योऽयमन्नमयः सोऽयं पूर्णः प्राणमयेन तु ।
मनोमयेन प्राणोऽपि तथा पूर्णः स्वभावतः ॥ ४३॥
तथा मनोमयो ह्यात्मा पूर्णो ज्ञानमयेन तु ।
आनन्देन सदा पूर्णस्तथा ज्ञानमयः सुराः ॥ ४४॥
तथाऽऽनन्दमयश्चापि ब्रह्मणाऽन्येन साक्षिणा ।
सर्वान्तरेण सम्पूर्णो ब्रह्म नान्येन केनचित् ॥ ४५॥
यदिदं ब्रह्म पुच्छाख्यं सत्यज्ञानाद्वयात्मकम् ।
स रसः सर्वदा साक्षान्नान्यथा सुरपुङ्गवाः ॥ ४६॥
एतमेव रसं साक्षाल्लब्ध्वा देही सनातनम् ।
सुखी भवति सर्वत्र नान्यथा सुरसत्तमाः ॥ ४७॥
असत्यस्मिन्परानन्दे स्वात्मभूतेऽखिलात्मनाम् ।
को जीवति नरो देवाः को वा नित्यं विचेष्टते ॥ ४८॥
तस्मात्सर्वात्मनां चित्ते भासमानो रसो हरः ।
आनन्दयति दुःखाढ्यं जीवात्मानं कृपाबलात् ॥ ४९॥
यदा ह्येवैष एतस्मिन्नदृश्यत्वादिलक्षणे ।
निर्भेदं परमेकत्वं विन्दते सुरसत्तमाः ॥ ५०॥
तदैवाभयमत्यन्तं कल्याणं परमामृतम् ।
स्वात्मभूतं परं ब्रह्म स याति स्वर्गवासिनः ॥ ५१॥
यदा ह्येवैष एतस्मिन्नल्पमत्यन्तरं नरः ।
विजानाति तदा तस्य भयं स्यान्नात्र संशयः ॥ ५२॥
सर्वेषामात्मभूतं यद्ब्रह्म सत्यादिलक्षणम् ।
उदास्ते तत्सुरश्रेष्ठा यथाजातजनं प्रति ॥ ५३॥
सम्यग्ज्ञानैकनिष्ठानां तदेव परमं पदम् ।
तदा स्वात्मतया भाति केवलं कृपया सुराः ॥ ५४॥
तत्त्वेवाधीतवेदस्य सहाङ्गैः सुरपुङ्गवाः ।
मननेन विहीनस्य भयहेतुः सदा भवेत् ॥ ५५॥
भीषाऽस्मात्पवते वायुर्भीषोदेति दिवाकरः ।
भीषाऽस्मादग्निरिन्द्रश्च मृत्युर्धावति पञ्चमः ॥ ५६॥
अस्यैवानन्दलेशेन स्तम्बान्ता विष्णुपूर्वकाः ।
भवन्ति सुखिनो देवास्तारतम्यक्रमेण तु ॥ ५७॥
तत्तत्पदविरक्तस्य श्रोत्रियस्य प्रसादिनः ।
स्वरूपभूत आनन्दः स्वयं भाति पदे यथा ॥ ५८॥
अयमेव शिवः साक्षादादित्यहृदये तथा ।
अन्येषां हृदये चैव भाति साक्षितया स्वयम् ॥ ५९॥
विहाय साक्ष्यं देहादि मायान्तं तु विवेकतः ।
सर्वसाक्षिणमात्मानं यः पश्यति स पश्यति ॥ ६०॥
रुद्रनारायणादीनां स्तम्बान्तानां च साक्षिणम् ।
एवं तर्कप्रमाणाभ्यां यः पश्यति स पश्यति ॥ ६१॥
यस्यैवं तर्कमानाभ्यामस्ति विज्ञानमास्तिकाः ।
स लोकादखिलादस्माद्विभिद्यात्मानमात्मना ॥ ६२॥
अन्नादीनखिलान्कोशानाभासेन विभासितान् ।
उपसङ्क्रामतीशस्य प्रसादादेव केवलात् ॥ ६३॥
यतो वाचो निवर्तन्ते निमित्तानामभावतः ।
निर्विशेषे शिवे शब्दः कथं देवाः प्रवर्तते ॥ ६४॥
विशेषं कञ्चिदाश्रित्य खलु शब्दः प्रवर्तते ।
यस्मादेतन्मनः सूक्ष्मां व्यावृत्तं सर्वगोचरम् ॥ ६५॥
यस्माच्छ्रोत्रत्वगक्ष्यादिखानि कर्मेन्द्रियाणि च ।
व्यावृत्तानि पराग्वस्तुविषयाणि सुरोत्तमाः ॥ ६६॥
तद्ब्रह्मानन्दमद्वन्द्वं निर्गुणं सत्यचिद्घनम् ।
विदित्वा स्वात्मरूपेण न बिभेति कुतश्चन ॥ ६७॥
एवं यस्तु विजानाति स्वगुरोरुपदेशतः ।
स साध्वसाधुकर्मभ्यां सदा न तपति प्रभुः ॥ ६८॥
तप्यतापकरूपेण विभातमखिलं जगत् ।
प्रत्यगात्मतया भाति ज्ञानाद्वेदान्तवाक्यजात् ॥ ६९॥
कर्ता कारयिता कर्म करणं कार्यमास्तिकः ।
सर्वमात्मतया भाति प्रसादात्परमेश्वरात् ॥ ७०॥
प्रमाता च प्रमाणं च प्रमेयं प्रमितिस्तथा ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ७१॥
नियोज्यश्च नियोगश्च साधनानि नियोजकः ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ७२॥
भोक्ता भोजयिता भोगो भोगोपकरणानि च ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ७३॥
ग्राहकश्च तथा ग्राह्यं ग्रहणं सर्वतोमुखम् ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ७४॥
अन्यथाज्ञानमज्ञानं संशयज्ञानमेव च ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ७५॥
घटज्ञानं पटज्ञानं कुड्यादिज्ञानमेव च ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ७६॥
घटः कुड्यं कुसूलं च पटः पात्रं च पर्वतः ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ७७॥
पातालाद्याश्च लोकाश्च सत्यलोकादयोऽपि च ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ७८॥
ब्रह्माण्डं तत्र क्लृप्तानामण्डानां शतकोटयः ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ७९॥
समुद्राश्च तटाकाश्च नद्यः सर्वनदा अपि ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ८०॥
मेरुमन्दारपूर्वाश्च पर्वताश्च महत्तराः ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ८१॥
वनानि वनदेशाश्च वन्यानि विविधानि च ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ८२॥
वृक्षाश्च विविधाः क्षुद्रतृणगुल्मादयोऽपि च ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ८३॥
आकाशादीनि भूतानि भौतिकान्यखिलान्यपि ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ८४॥
शब्दस्पर्शादितन्मात्ररूपाणि सकलानि च ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ८५॥
कृमिकीटपतङ्गाश्च क्षुद्रा अपि च जन्तवः ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ८६॥
पशवश्च मृगाश्चैव पन्नगाः पापयोनयः ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ८७॥
मनुष्याश्चैव मातङ्गा अश्वा उष्ट्राः खरा अपि ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ८८॥
यक्षराक्षसगन्धर्वप्रमुखाः सिद्धकिन्नराः ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ८९॥
कर्मदेवाश्च देवाश्च देवराजो विराट् स्वराट् ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ९०॥
अहं च मद्विभूतिश्च विष्णुभक्ताश्च देहिनः ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ९१॥
विष्णुर्विष्णुविभूतिश्च विष्णुभक्ताश्च देहिनः ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ९२॥
रुद्रो रुद्रविभूतिश्च रुद्रभक्ताश्च देहिनः ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ९३॥
ईश्वरस्तद्विभूतिश्च तदीयाः सर्वदेहिनः ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ९४॥
सदाशिवसमाख्यस्तु शिवस्तस्य विभूतयः ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ९५॥
दिशश्च विदिशश्चैव साभ्रं नक्षत्रमण्डलम् ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ९६॥
वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ९७॥
मत्स्यः कूर्मो वराहश्च नारसिंहोऽथ वामनः ।
तद्भक्ताश्च तथा भान्ति प्रसादात्पारमेश्वरात् ॥ ९८॥
आश्रमाश्च तथा वर्णाः सङ्करा विविधा अपि ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ ९९॥
निषिद्धं चानिषिद्धं च निषेधा विधयोऽपि च ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ १००॥
शरीरमिन्द्रियं प्राणो मनो बुद्धिरहङ्कृतिः ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ १०१॥
कामक्रोधादयः सर्वे तथा शान्त्यादयोऽपि च ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ १०२॥
जीवात्मा परमात्मा च तयोर्भेदश्च भेदकः ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ १०३॥
जडशक्तिप्रभेदाश्च चिच्छक्तिस्तद्भिदाऽपि च ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ १०४॥
अस्तिशब्दोदिता अर्था नास्तिशब्दोदिता अपि ।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् ॥ १०५॥
आत्मा नाम सुराः स्वेन भासा यो भाति सन्ततम् ।
तमेव त्वमहंशब्दप्रत्ययाभ्यां तु जन्तवः ॥ १०६॥
व्यवहारे विजानन्ति न जानन्त्येव तेऽर्थतः ।
अर्थतश्चास्य वेत्तारो न विद्यन्तेऽद्वयत्वतः ॥ १०७॥
एवमात्मानमद्वैतमात्मना वेद यः स्थिरम् ।
सोऽयमर्थमिमं नित्यं गायन्नास्ते स्वभावतः ॥ १०८॥
यथा नर्तनमीशस्य स्वभावाल्लोकरक्षकम् ।
तथा विद्या विनोदाख्या गीतिर्लोकोपकारिणी ॥ १०९॥
यथैवादिगुरोर्गीतिर्लोकानां हितकारिणी ।
तथैवास्य गुरोर्गीतिर्लोकानां हितकाम्यया ॥ ११०॥
आप्तकामस्य रुद्रस्य गीतिर्व्याख्यानलक्षणा ।
परोपकारिणी तद्वद्गीतिरस्यापि सद्गुरोः ॥ १११॥
लौकिकेष्वपि गानेषु प्रसादं कुरुते शिवः ।
किं पुनर्वैदिके गाने ततो गानं समाश्रयेत् ॥ ११२॥
व्याख्यागानेष्वशक्तस्तु शिवमुद्दिश्य भक्तितः ।
लौकिकीमपि वा गीतिं कुर्यान्नित्यमतन्द्रितः ॥ ११३॥
गीतिज्ञानं शिवप्राप्तेः सुतरां कारणं भवेत् ।
गीतिज्ञानेन योगः स्याद्योगादेव शिवैक्यता ॥ ११४॥
गीतिज्ञो यदि योगेन न याति परमेश्वरम् ।
प्रतिबन्धकबाहुल्यात्तस्यैवानुचरो भवेत् ॥ ११५॥
केवलं लौकिकं गानं न कुर्यान्मोहतोऽपि वा ।
यदि कुर्यात्प्रमादेन प्रायश्चित्ती भवेद्विजः ॥ ११६॥
अतस्तु संसारविनाशने रतः
श्रुतिप्रमाणेन च तर्कवर्त्मना ।
प्रबोधमासाद्य शिवस्य तं पुनः
सदैव गायन्विचरेदिमां महीम् ॥ ११७॥
इत्युपनिषत्परतत्त्वविषया वः
सत्यमुदिता सकलदुःखनिहन्त्री ।
कष्टहृदयस्य मनुजस्य न देया
भक्तिसहितस्य तु शिवस्य खलु देया ॥ ११८॥
इति ब्रह्मगीतासूपनिषत्सु
साक्षिशिवस्वरूपकथनं नाम तृतीयोऽध्यायः ॥ ३॥
॥ अथ चतुर्थोऽध्यायः ॥
॥ तलवकारोपनिषद्व्याख्याकथनम् ॥
ब्रह्मोवाच -
अस्ति देवः स्वतः सिद्धः साक्षी सर्वस्य सर्वदा ।
संसारार्णवमग्नानां साक्षात्संसारमोचकः ॥ १॥
सर्वेषां तु मनस्तेन प्रेरितं नियमेन तु ।
विषये गच्छति प्राणश्चेष्टते वाग्वदत्यपि ॥ २॥
चक्षुः पश्यति रूपाणि श्रोत्रं शब्दं शृणोत्यपि ।
अन्यानि खानि सर्वाणि तेनैव प्रेरितानि तु ॥ ३॥
स्वं स्वं विषयमुद्दिश्य प्रवर्तन्ते निरन्तरम् ।
प्रवर्तकत्वं चाप्यस्य मायया न स्वभावतः ॥ ४॥
इन्द्रियाणां तु सत्ता च नैव स्वाभाविकी मता ।
तप्तायः पिण्डवत्तस्य सत्त्ययैव सुरर्षभाः ॥ ५॥
श्रोत्रमात्मनि चाध्यस्तं स्वयं देवो महेश्वरः ।
अनुप्रविश्य श्रोत्रस्य ददाति श्रोत्रतां हरः ॥ ६॥
मन आत्मनि चाध्यस्तं प्रविश्य परमेश्वरः ।
मनस्त्वं तस्य सत्त्वस्थो ददाति नियमेन तु ॥ ७॥
वाचो वाक्त्वमनुप्राप्य प्राणस्य प्रणतां हरः ।
ददाति नियमेनैव चक्षुष्ट्वं चक्षुषस्तथा ॥ ८॥
अन्येषामिन्द्रियाणां तु कल्पितानामपीश्वरः ।
तत्तद्रूपमनुप्राप्य ददाति नियमेन तु ॥ ९॥
तत्र चक्षुश्च वाक्चैव मनश्चान्यानि खानि च ।
न गच्छन्ति स्वयञ्ज्योतिःस्वभावे परमात्मनि ॥ १०॥
स देवो विदितादन्यस्तथैवाविदितादपि।
वाचा च मनसा चैव चक्षुषा च तथैव च ॥ ११॥
श्रोत्रेणापि सुरश्रेष्ठाः प्राणेनान्येन केनचित् ।
न शक्यो गोचरीकर्तुं सत्यमेव मयोदितम् ॥ १२॥
यस्येदमखिलं नित्यं गोचरं रूपवद्रवेः ।
तदेव परमं ब्रह्म वित्त यूयं सनातनम् ॥ १३॥
एवं जानन्ति ये धीरास्तर्कतश्च प्रमाणतः ।
गुरूक्त्या स्वानुभूत्या च भवन्ति खलु तेऽमृताः ॥ १४॥
सुज्ञातमिति तद्ब्रह्म मनुध्वं यदि हे सुराः ।
दभ्रमेव हि तत्साक्षि ब्रह्म वेद्यं कथं भवेत् ॥ १५॥
यस्य स्वात्मतया ब्रह्म विदितं कर्मतां विना ।
तस्य तज्ज्ञानकर्तृत्वविहीनस्य मतं हि तत् ॥ १६॥
यस्यामतं तस्य मतं मतं यस्य न वेद सः ।
अविज्ञातं विजानतां विज्ञातमविजानताम् ॥ १७॥
ब्रह्मज्ञाने घटज्ञाने भ्रान्तिज्ञानेऽपि चास्तिकाः ।
नैव कर्तृ न कर्मापि ब्रह्म चित्केवलं भवेत् ॥ १८॥
यस्य कर्तृतया भातं ब्रह्माकर्तृ सुरोत्तमाः ।
तस्य ब्रह्मामतं यस्मात्कर्म तस्य मतं हि तत् ॥ १९॥
यस्य कर्मतया भातं ब्रह्माकर्म सुरोत्तमाः ।
तस्य ब्रह्मामतं यस्मात्कर्म तस्य मतं हि तत् ॥ २०॥
अकर्त्रविषयप्रत्यक्प्रकाशः स्वात्मनैव तु ।
विना तर्कप्रमाणाभ्यां ब्रह्म यो वेद वेद सः ॥ २१॥
एवंरूपपरिज्ञानमपि दृश्यतयैव तु ।
यस्य भाति स तत्साक्षी ब्रूत ब्रह्मात्मवित्कथम् ॥ २२॥
ब्रह्माविद्याऽपि ज्ञाता चेद्वेद्या भवति कुम्भवत् ।
अवेद्यं ब्रह्म वेद्यं स्याद्वेद्यविद्याभिसङ्गमात् ॥ २३॥
वेत्ताऽपि विद्यासम्बन्धात्सविशेषो भवेद्ध्रुवम् ।
निर्विशेषं परं ब्रह्म ततो विद्वान्न चात्मवित् ॥ २४॥
विद्याया आश्रयत्वेन विषयत्वेन वा भवेत् ।
ब्रह्म नैवान्यथा तत्र ब्रह्म ब्रह्म भवेत्कथम् ॥ २५॥
ब्रह्मसम्बन्धहीना चेद्विद्या ब्रह्म तु वेदितुम् ।
अशक्यं तत्र हे देवाः को वा ब्रह्मात्मविद्भवेत् ॥ २६॥
ब्रह्मण्यध्यस्तमायादिनिवृत्तिं कुरुते तु सा ।
विद्या यदि न मायायाः प्रत्यगात्मन्यसम्भवात् ॥ २७॥
प्रत्यगात्मा परं ज्योतिर्माया सा तु महत्तमः ।
तथा सति कथं मायासम्भवः प्रत्यगात्मनि ॥ २८॥
तस्मात्तर्कप्रमाणाभ्यां स्वानुभूत्या च चिद्घने ।
स्वप्रकाशैकसंसिद्धेर्नास्ति माया परात्मनि ॥ २९॥
व्यावहारिकदृष्ट्येयं विद्याऽविद्या न चान्यथा ।
तत्त्वदृष्ट्या तु नास्त्येव तत्त्वमेवास्ति केवलम् ॥ ३०॥
व्यावहारिकदृष्टिस्तु प्रकाशाव्यभिचारतः ।
प्रकाश एव सततं तस्मादद्वैतमेव हि ॥ ३१॥
अद्वैतमिति चोक्तिश्च प्रकाशाव्यभिचारतः ।
प्रकाश एव सततं तस्मान्मौनं हि युज्यते ॥ ३२॥
प्रत्यक्षादि प्रमाणैश्च तर्कैः श्रुत्या तथैव च ।
स्वगुरोरुपदेशेन प्रसादेन शिवस्य तु ॥ ३३॥
अर्जितैरपि धर्मैश्च कालपाकेन धार्मिकाः ।
अर्थो महानयं भाति शाङ्करः पुरुषस्य तु ॥ ३४॥
यस्य प्रकाशितः साक्षादयमर्थो महत्तरः ।
तस्य नास्ति क्रियाः सर्वा ज्ञानं चाप्यद्वयत्वतः ॥ ३५॥
अयमर्थो महान्यस्य स्वत एव प्रकाशितः ।
न स जीवो न च ब्रह्म न चान्यदपि किञ्चन ॥ ३६॥
अयमर्थो महान्यस्य स्वत एव प्रकाशितः ।
न तस्य वर्णा विद्यन्ते नाश्रमाश्च तथैव च ॥ ३७॥
अयमर्थो महान्यस्य स्वत एव प्रकाशितः ।
न तस्य धर्मोऽधर्मश्च न निषेधो विधिर्न च ॥ ३८॥
एतमर्थं महान्तं यः प्राप्तः शम्भोः प्रसादतः ।
स शम्भुरेव नैवान्य इति मे निश्चिता मतिः ॥ ३९॥
एतमर्थं महान्तं यः प्राप्तः शम्भोः प्रसादतः ।
तस्याहं वैभवं वक्तुं न शक्तः सत्यमीरितम् ॥ ४०॥
एतमर्थं महान्तं यः प्राप्तः शम्भोः प्रसादतः ।
वैभवं तस्य विष्णुश्च न शक्तो वक्तुमास्तिकाः ॥ ४१॥
एतमर्थं महान्तं यः प्राप्तः शम्भोः प्रसादतः ।
वैभवं तस्य रुद्रश्च न शक्तो वक्तुमास्तिकाः ॥ ४२॥
एतमर्थं महान्तं यः प्राप्तः शम्भोः प्रसादतः ।
वैभवं तस्य वेदाश्च न शक्ता वक्तुमास्तिकाः ॥ ४३॥
अस्मिन्देहे यदि ज्ञातः पुरोक्तोऽर्थोमहानयम् ।
स साक्षात्सत्यमद्वैतं निर्वाणं याति मानवः ॥ ४४॥
अस्मिन्देहे न विज्ञातः पुरोक्तोऽर्थो महान्यदि ।
विनष्टिरेव महती तस्य नैव परा गतिः ॥ ४५॥
स्वशरीरेऽन्यदेहेषु समं निश्चित्य तं दृढम् ।
अथ धीरा न जायन्ते ह्यमृताश्च भवन्ति हि ॥ ४६॥
बद्धो मुक्तो महाविद्वानज्ञ इत्यादिभेदतः ।
एक एव सदा भाति नानेव स्वप्नवत्स्वयम् ॥ ४७॥
अतः स्वमुक्त्यैवान्येषामाभासानामपि ध्रुवम् ।
मुक्तिं जानाति हे देवा आत्मनामात्मविद्वरः ॥ ४८॥
स्वसंसारदशायां तु स्वभ्रान्त्या सर्वदेहिनाम् ।
आभासानां च संसारं वेद मुक्तिं तथैव च ॥ ४९॥
प्रारब्धकर्मपर्यन्तं कदाचित्परमात्मवित्।
जगज्जीवादिकं वेद कदाचिन्नैव वेद तत् ॥ ५०॥
कदाचिद्ब्रह्म जानाति प्रतीतमखिलं सुराः ।
कदाचिन्नैव जानाति स्वभावादेव तत्त्ववित् ॥ ५१॥
जगज्जीवादिरूपेण यदा ब्रह्म विभासते ।
तदा दुःखादिभोगोऽपि भाति चाभासरूपतः ॥ ५२॥
यदा ब्रह्मात्मना सर्वं विभाति स्वत एव तु ।
तदा दुःखादिभोगोऽयमाभासो न विभासते ॥ ५३॥
जगज्जीवादिरूपेण पश्यन्नपि परात्मवित् ।
न तत्पश्यति तद्रूपं ब्रह्मवस्त्वेव पश्यति ॥ ५४॥
ब्रह्मणोऽन्यत्सदा नास्ति वस्तुतोऽवस्तुतोऽपि च ।
तथा सति शिवादन्यत्कथं पश्यति तत्त्ववित् ॥ ५५॥
ब्रह्मरूपेण वा साक्षाज्जगज्जीवात्मनाऽथवा ।
यथा यथा प्रथा साक्षाद्ब्रह्म भाति तथा तथा ॥ ५६॥
यथा यथाऽवभासोऽयं स्वभावादेव भासते ।
तथा तथाऽनुसन्धानं योगिनः स्वात्मवेदनम् ॥ ५७॥
नामतश्चार्थतश्चापि महादेवो यदि प्रभुः ।
किं जहाति तदा विद्वान्किं गृह्णाति सुरर्षभाः ॥ ५८॥
ग्राह्यं वा शङ्करादन्यत्त्याज्यं वा यदि विद्यते ।
महत्त्वं तस्य हीयेत स्वभावो न विहन्यते ॥ ५९॥
महत्त्वं नैव धर्मोऽस्य भेदाभावात्परात्मनः ।
धर्मधर्मित्ववार्ता च भेदे सति हि विद्यते ॥ ६०॥
भेदोऽभेदस्तथा भेदाभेदः साक्षात्परात्मना ।
नास्ति स्वात्मातिरेकेण स्वयमेवास्ति सर्वदा ॥ ६१॥
ब्रह्मैव विद्यते साक्षाद्वस्तुतोऽवस्तुतोऽपि च ।
तथा सति शिवज्ञानी किं गृह्णाति जहाति किम् ॥ ६२॥
मायया विद्यते सर्वमिति केचन मोहिताः ।
शिवरूपातिरेकेण नास्ति माया च वस्तुतः ॥ ६३॥
मायया वा शिवादन्यद्विद्यते चेच्छिवस्य तु ।
महत्त्वं परमं साक्षाद्धीयते सुरपुङ्गवाः ॥ ६४॥
महत्त्वस्य तु सङ्कोचो नास्ति सम्यङ्निरूपणे ।
अस्ति चेदप्रमाणं स्याच्छ्रुतिः सत्यार्थवादिनी ॥ ६५॥
तस्मादस्ति महादेव एव साक्षात्स्वयम्प्रभुः ।
आनन्दरूपः सम्पूर्णो न ततोऽन्यत्तु किञ्चन ॥ ६६॥
इयमेव तु तर्काणां निष्ठाकाष्ठा सुरोत्तमाः ।
प्रत्यक्षादिप्रमाणानां वेदान्तानामपीश्वराः ॥ ६७॥
स्मृतीनां च पुराणानां भारतस्य तथैव च ।
वेदानुसारिविद्यानामन्यासामास्तिकोत्तमाः ॥ ६८॥
शैवागमानां सर्वेषां विष्णुप्रोक्तागमस्य च ।
अस्मदुक्तागमस्यापि सुराः सूक्ष्मनिरूपणे ॥ ६९॥
बुद्धागमानां सर्वेषां तथैवार्हागमस्य च ।
यक्षगन्धर्वसिद्धादिनिर्मितस्यागमस्य च ॥ ७०॥
परमाद्वैतविज्ञानं कस्य मर्त्यस्य सिध्यति ।
कस्य देवस्य वा साक्षाच्छिवस्यैव हि सिध्यति ॥ ७१॥
परमाद्वैतविज्ञानं शिवस्यामिततेजसः ।
स्वभावसिद्धं देव्याश्च शिवाया आस्तिकोत्तमाः ॥ ७२॥
प्रसादादेव रुद्रस्य शिवायाश्च तथैव च ।
परमाद्वैतविज्ञानं विष्णोः साक्षान्ममापि च ॥ ७३॥
विराट्सञ्ज्ञस्य देवस्य स्वराट्सञ्ज्ञस्य चात्मनः ।
सम्राट्सञ्ज्ञस्य चान्येषां प्रसाद्दाएव वेदनम् ॥ ७४॥
युष्माकमपि सर्वेषां शिवस्य परमात्मनः ।
परमाद्वैतविज्ञानं प्रसादादेव नान्यथा ॥ ७५॥
यक्षराक्षसगन्धर्वसिद्धादीनामपीश्वराः ।
परमाद्वैतविज्ञानं प्रसादादेव शूलिनः ॥ ७६॥
मनुष्याणां च सर्वेषां पश्वादीनां तथैव च ।
परमाद्वैतविज्ञानं प्रसादादेव शूलिनः ॥ ७७॥
प्रसादे सति कीटो वा पतङ्गो वा नरोऽथ वा ।
देवो वा दानवो वाऽपि लभते ज्ञानमुत्तमम् ॥ ७८॥
एष एव हि जन्तूनां परज्ञानं ददाति च ।
न विष्णुर्नाहमन्यश्च सत्यमेव मयोदितम् ॥ ७९॥
आदाने च तथा दाने न स्वतन्त्रो महान् हरिः ।
तथैवाहं सुरश्रेष्ठाः सत्यमेव मयोदितम् ॥ ८०॥
स्वतन्त्रः शिव एवायं स हि संसारमोचकः ।
तं विना न मयोद्धर्तुं शक्यते संसृतेर्जनः ॥ ८१॥
विष्णुना च परेणापि महादेवं घृणानिधिम् ।
विना जन्तुं समुद्धर्तुं शक्यते न हि सत्तमाः ॥ ८२॥
दर्वीन्यायेन संसारादुद्धरामि जनानिमान् ।
न स्वातन्त्र्येण हे देवाः साक्षाद्विष्णुस्तथैव च ॥ ८३॥
देवदेवस्य रुद्रस्य स्वरूपं तस्य वैभवम् ।
को वा जानाति नास्त्येव स्वयं जानाति वा न वा ॥ ८४॥
दुर्विज्ञेयो महादेवो महतामपि देहिनाम् ।
प्रसादेन विना देवाः सत्यमेव मयोदितम् ॥ ८५॥
पुरा सुराणां सर्वेषामसुराणां दुरात्मनाम् ।
महामोहेन सङ्ग्रामः सञ्जातो दुर्निवारकः ॥ ८६॥
असुरैः पीडिता देवा बलवद्भिः सुरा भृशम् ।
तान्दृष्ट्वा भगवानीशः सर्वज्ञः करुणाकरः ॥ ८७॥
देवानां विजयं देवा असुराणां पराजयम् ।
ददौ तेन सुरैः शीघ्रमसुरास्तु पराजिताः ॥ ८८॥
अविज्ञाय महादेववैभवं परिमोहिताः ।
वयं विजयमापन्ना असुराश्च पराजिताः ॥ ८९॥
इत्यहम्मानसञ्छन्नाः सर्वे देवाः पुरातनाः ।
अतीव प्रीतिमापन्ना अभवन्सुरपुङ्गवाः ॥ ९०॥
पुनर्विश्वाधिको रुद्रो भगवान्करुणानिधिः ।
स्वस्य दर्शयितुं तेषां दुर्ज्ञेयत्वं तथैव च ॥ ९१॥
तेषां भ्रान्तिनिवृत्यर्थमपि साक्षान्महेश्वरः ।
आविर्बभूव सर्वज्ञो यक्षरूपेण हे सुराः ॥ ९२॥
तं दृष्ट्वा यक्षमत्यन्तं विस्मयेन सहामराः ।
विचार्य सर्वे सम्भूय किमिदं यक्षमित्यपि ॥ ९३॥
पुनरग्निं समाहूय देवाः सर्वे विमोहिताः ।
अब्रुवंस्त्वं विजानीहि किमेतद्यक्षमित्यपि ॥ ९४॥
अग्निस्तथा करोमीति प्रोच्य यक्षं गतोऽभवत् ।
यक्षरूपो महादेवः कोऽसीत्याहानलं प्रति ॥ ९५॥
अग्निर्वा अहमस्मीति यक्षं प्रत्याह सोऽपि च ।
सोऽपि प्रोवाच भगवांस्त्वयि किं वीर्यमित्यपि ॥ ९६॥
इदं सर्वं दहेयं यदिदं भूम्यां व्यवस्थितम् ।
इत्याहाग्निस्तृणं तस्मै निधाय परमेश्वरः ॥ ९७॥
एतद्दहेति भगवान्स्मयमानोऽभ्यभाषत ।
अग्निः सर्वजवेनैव तद्दग्धुं तृणमास्तिकाः ॥ ९८॥
अशक्तो लज्जया युक्तो भीतोऽगच्छत्सुरान्प्रति ।
माया तस्यैव विज्ञातुं न शक्यं वैभवं सुराः ॥ ९९॥
वित्त यूयं महायासादित्याहाग्निः सुरान्प्रति ।
तच्छ्रुत्वा वायुमाहूय विजानीहीति चाब्रुवन् ॥ १००॥
सोऽपि गत्वा तथा तेन यक्षरूपेण शम्भुना ।
भृशं प्रतिहतो भूत्वा तथाऽगच्छत्सुरान्प्रति ॥ १०१॥
पुनरिन्द्रः स्वयं मोहादहन्ताकञ्चुकावृतः ।
विज्ञातुं यक्षमगमत्स तत्रैव तिरोदधे ॥ १०२॥
इन्द्रोऽतीव विषण्णस्तु महातापसमन्वितः ।
विद्यारूपामुमां देवीं ध्यात्वा कारुणिकोत्तमाम् ॥ १०३॥
लौकिकैर्वैदिकैः स्तोत्रैस्तुष्टाव परमेश्वरीम् ।
सा शिवा करुणामूर्तिर्जगन्माता त्रयीमयी ॥ १०४॥
शिवाभिन्ना परानन्दा शङ्करस्यापि शङ्करी ।
स्वेच्छया हिमवत्पुत्री स्वभक्तजनवत्सला ॥ १०५॥
महादेवस्य माहात्म्यं दुर्ज्ञेयं सर्वजन्तुभिः ।
इति दर्शयितुं देवी तत्रैवाविरभूत्स्वयम् ॥ १०६॥
तामाराध्य शिवामिन्द्रः शोभमानां तु सर्वतः ।
उमां पर्वतराजेन्द्रकन्यकामाह वज्रभृत् ॥ १०७॥
किमेतद्यक्षमत्रैव प्रादुर्भूतं तिरोहितम् ।
वक्तुमर्हसि देवेशि मम कारुणिकोत्तमे ॥ १०८॥
देवी परमकारुण्याद्ब्रह्म मे पतिरत्र तु ।
प्रादुर्भूतं तिरोभूतमित्याहादेषनायिका ॥ १०९॥
दुर्विज्ञेयो महादेवो विष्णोः साक्षादजस्य च ।
अन्येषामपि देवानां तवापि मघवन्भृशम् ॥ ११०॥
प्रदर्शयितुमीशानो दुर्ज्ञेयत्वं स्वकं परम् ।
आविर्भूतो न चान्येन कारणेन सुराधिप ॥ १११॥
स एव सर्वदेवानां तवापि विजयप्रदः ।
पराजयकरोऽन्येषां तमेव शरणं व्रज ॥ ११२॥
इत्युक्त्वा सा महादेवी चिद्रूपा सर्वसाक्षिणी ।
भक्तानां पाशहन्त्री तु तत्रैवान्तर्हिताऽभवत् ॥ ११३॥
पुनर्देवा महादेवं महाकारुणिकोत्तमम् ।
दुर्विज्ञेयं सुरश्रेष्ठाः स्वतन्त्रं भक्तिमुक्तिदम् । भुक्तिमुक्तिदम्?
विदुः सुनिश्चितं त्यक्त्वा मात्सर्यं भवकारणम् ॥ ११४॥
प्रसादे सति विज्ञातुं शक्यते परमेश्वरः ।
प्रसादेन विना नैव शक्यते सर्वजन्तुभिः ॥ ११५॥
प्रसादेन विना विष्णुर्न जानाति महेश्वरम् ।
तथा चाहं न जानामि देवताः सकला अपि ॥ ११६॥
प्रसादस्य तु सिद्ध्यर्थं खलु सर्वं सुरर्षभाः ।
प्रसादेन विना देवं ये जानन्ति सुरर्षभाः ॥ ११७॥
ते जानन्ति विना घ्राणं गन्धं हस्तेन केवलम् ।
प्रसादो नाम रुद्रस्य कर्मसाम्ये तु देहिनाम् ॥ ११८॥
देशिकालोकनाज्जातो विशिष्टातिशयः सुराः ।
प्रसादस्य स्वरूपं तु मया नारायणेन च ॥ ११९॥
रुद्रेणापि सुरा वक्तुं न शक्यं कल्पकोटिभिः ।
केवलं लिङ्गगम्यं तु न प्रत्यक्षं शिवस्य च ॥ १२०॥
शिवायाश्च हरेः साक्षान्मम चान्यस्य चास्तिकाः ।
प्रहर्षः स्वरनेत्राङ्गविक्रिया कम्पनं तथा ॥ १२१॥
स्तोभः शरीरपातश्च भ्रमणं चोद्गतिस्तथा ।
आकाशेऽवस्थितिर्देवाः शरीरान्तरसंस्थितिः ॥ १२२॥
अदर्शनं च देहस्य प्रकाशत्वेन भासनम् ।
अनधीतस्य शास्त्रस्य स्वत एव प्रकाशनम् ॥ १२३॥
निग्रहानुग्रहे शक्तिः पर्वतादेश्च भेदनम् ।
एवमादीनि लिङ्गानि प्रसादस्य सुरर्षभाः ॥ १२४॥
तीव्रात्तीव्रतरः शम्भोः प्रसादो न समो भवेत् ।
एवंरूपः प्रसादश्च शिवया च शिवेन च ॥ १२५॥
ज्ञायते न मया नान्यैर्नैव नारायणेन च ।
अतः सर्वं परित्यज्य शिवादन्यत्तु दैवतम् ॥ १२६॥
तमेव शरणं गच्छेत्सद्यो मुक्तिं यदीच्छति ।
विष्णुभक्त्या च मद्भक्त्या नास्ति नास्ति परा गतिः ॥ १२७॥
शम्भुभक्त्यैव सर्वेषां सत्यमेव मयोदितम् ।
शम्भुभक्तस्य देहेऽस्मिन्प्रसादो गम्यते यथा ॥ १२८॥
न तथा विष्णुभक्तस्य न मद्भक्तस्य देहिनः ।
तस्मान्मुमुमुक्षुर्मां विष्णुमपि त्यक्त्वा महेश्वरम् ॥ १२९॥
आश्रयेत्सर्वभावेन प्रसादं कुरुते हि सः ।
प्रसादे सति देवेशो दुर्ज्ञेयोऽपि सुरर्षभाः ॥ १३०॥
शक्यते मनुजैर्द्रष्टुं प्रत्यगात्मतया सदा ।
प्रसादे सति देवेशो दुर्ज्ञेयोऽपि सुरर्षभाः ॥ १३१॥
शक्यते मनुजैर्द्रष्टुं सदा मूर्त्यात्मनैव तु ।
प्रसादे सति देवेशो दुर्ज्ञेयोऽपि सुरर्षभाः ॥ १३२॥
शक्यते मनुजैर्द्रष्टुं सदा सर्वात्मरूपतः ।
सर्वसाक्षिणमात्मानं विदित्वा सकलं जगत् ॥ १३३॥
साक्षिमात्रतया नित्यं यः पश्यति स पश्यति ।
परमाद्वैतनिष्ठा हि निष्ठाकाष्ठा सुदुर्लभा ॥ १३४॥
शिवादन्यतया भ्रान्त्या द्वैतं वा वेद चेत्पशुः ।
परमाद्वैतविज्ञानी स्वयं तु परदेवता ॥ १३५॥
तस्यैव परमा मुक्तिर्न हि संशयकारणम् ।
गौतमस्य मुनेः शापाद्दधीचस्य च शापतः ॥ १३६॥
जन्मान्तरकृतात्पापादयमर्थो न रोचते ।
महापापवतां नॄणां परमाद्वैतवेदने ॥ १३७॥
प्रद्वेषो जायते साक्षाद्वेदजन्ये शिवेऽपि च ।
महापावतां नॄणां शिवज्ञानस्य साधने ॥ १३८॥
सर्वाङ्गोद्धूलने तिर्यक्त्रिपुण्ड्रस्य च धारणे ।
रुद्राक्षधारणे रुद्रलिङ्गस्यैव तु पूजने ॥ १३९॥
प्रद्वेषो जायते नित्यं शिवशब्दजपेऽपि च ।
अनेकजन्मसिद्धानां श्रौतस्मार्तानुवर्तिनाम् ॥ १४०॥
परमाद्वैतविज्ञानं जायते सुरपुङ्गवाः ।
परमाद्वैतविज्ञानी मयाऽऽराध्यः सदैव तु ॥ १४१॥
नारायणेन रुद्रेण तथा देवैर्विशेषतः ।
परमाद्वैतविज्ञानी यत्र कुत्र स्थितः सुराः ॥ १४२॥
तत्र सन्निहिता मुक्तिर्नात्र कार्या विचारणा ।
परमाद्वैतविज्ञाननिष्ठस्यैव महात्मनः ॥ १४३॥
शुश्रूषा क्रियते येन तत्पादौ मम मस्तके ।
परमाद्वैतविज्ञाननिष्ठस्य परयोगिनः ॥ १४४॥
समं देवा न पश्यामि न हरिर्न महेश्वरः ।
परमाद्वैतविज्ञाननिष्ठाय परयोगिने ॥ १४५॥
शरीरमर्थं प्राणांश्च प्रदद्याच्छ्रद्धया सह ।
परमाद्वैतविज्ञाननिष्ठस्य परयोगिनः ॥ १४६॥
शुश्रूषा शुद्धविद्यायाः साधनं हि न संशयः ।
वेदबाह्येषु तन्त्रेषु नराणां वासनाऽपि च ॥ १४७॥
कुतर्कवासना लोकवासना च सुरर्षभाः ।
पुत्रमित्रकलत्रादौ वासना चार्थवासना ॥ १४८॥
देहेन्द्रियमनोबुद्धिप्राणादावपि वासना ।
पाण्डित्यवासना भोगवासना कान्तिवासना ॥ १४९॥
प्रद्वेषवासना रुद्रवेदनारायणादिषु ।
ज्ञानसाधनभूतेषु त्रिपुण्ड्रोद्धलनादिषु ॥ १५०॥
प्रद्वेषवासना पापवासना सुरपुङ्गवाः ।
परमाद्वैतविज्ञानजन्मनः प्रतिबन्धकम् ॥ १५१॥
तस्मान्मुमुक्षुः श्रद्धालुर्वासनामखिलामिमाम् ।
विसृज्य परमाद्वैतज्ञाननिष्ठो भवेत्सदा ॥ १५२॥
वेदोदितमहाद्वैतपरिज्ञानस्य वैभवम् ।
न शक्यं वक्तुमस्माभिस्तस्मादेवोपरम्यते ॥ १५३॥
कथितमखिलदुःखध्वंसकं वः समस्तं
परमसुखशिवात्मप्रापकं सद्य एव ।
विगतसकलदोषा वेदवेदान्तनिष्ठा
हृदयकुहरनिष्ठं कर्तुमर्हन्ति चैतत् ॥ १५४॥
इति ब्रह्मगीतासूपनिषत्सु
तलवकारोपनिषद्व्याख्याकथनं
नाम चतुर्थोऽध्यायः ॥ ४॥
॥ अथ पञ्चमोऽध्यायः ॥
॥ आदेशकथनम् ॥
ब्रह्मोवाच ।
अतीवगुह्यमादेशमनन्तार्थप्रकाशकम् ।
वक्ष्ये युष्माकमद्याहं शृणुत श्रद्धया सह ॥ १॥
यस्य श्रवणमात्रेण श्रुतमेवाश्रुतं भवेत् ।
अमतं च मतं ज्ञातमविज्ञातं च सत्तमाः ॥ २॥
एकेनैव तु पिण्डेन मृत्तिकाया यथा सुराः ।
विज्ञातं मृण्मयं सर्वं मृदभिन्नत्वतः सदा ॥ ३॥
एकेन लोहमणिना सर्वं लोहमयं यथा ।
विज्ञातं स्याद्यथैकेन नखानां कृन्तनेन च ॥ ४॥
सर्वं कार्ष्णायसं ज्ञातं तदभिन्नत्वतः सुराः ।
कार्यं तु कारणाभिन्नं न भिन्नं नोभयात्मकम् ॥ ५॥
भिन्नपक्षे तु सद्वाऽसत्कार्यं सदसदेव वा ।
सच्चेत्कारणसत्ता वा कार्यसत्ताऽथवा परा ॥ ६॥
यदि कारणसत्तैव कार्यसत्ता न चापरा ।
तर्हि कारणसत्तैका कथं सत्ताभिदा भवेत् ॥ ७॥
सत्तैकाऽपि भवेद्भिन्नं कारणात्कार्यसञ्ज्ञितम् ।
इति वार्ता च वार्तैव कार्यसञ्ज्ञमसत्खलु ॥ ८॥
सत्ताहीनस्य कार्यस्यासत्त्वमेव हि युज्यते ।
प्राप्तेऽसत्त्वे तु कार्यस्य सत्कार्योक्तिर्वृथा भवेत् ॥ ९॥
नैव कारणसत्तैव कार्यसत्ताऽपरैव चेत् ।
तर्हि सा कार्यसत्ता तु तया कारणसत्तया ॥ १०॥
सद्रूपेणैव भिन्ना स्यादसद्रूपेण वा भवेत् ।
सद्रूपेणेति चेदेका सत्ता भिन्ना न सा भवेत् ॥ ११॥
असद्रूपेण सा भिन्ना कार्यसत्ता तया यदि ।
तर्हि सा नैव सत्ता स्यादसत्त्वादेव शून्यवत् ॥ १२॥
यद्यसत्कार्यमिष्येत न कार्यं तर्हि तद्भवेत् ।
वन्ध्यापुत्रो न कस्यापि वस्तुनः कार्यमिष्यते ॥ १३॥
प्रध्वंसोऽपि न कार्यं स्यात्तस्योत्पत्तेरसम्भवात् ।
नास्ति कारकसम्बन्धः प्रध्वंसस्य सुरोत्तमाः ।
शून्यवन्निरुपाख्यत्वात्ततो नास्ति जनिक्रिया ॥ १४॥
असत्त्वेऽपि विशेषोऽस्ति कार्यस्येति मतिर्यदि ॥ १५॥
को विशेषोऽस्य सम्बन्धः कारकैर्यदि तन्न हि ।
विशेषे सति सम्बन्धः सम्बन्धोऽस्य स एव हि ॥ १६॥
जनिक्रियाश्रयत्वं चेद्विशेषोऽस्य तदाऽपि तु ।
पूर्वोक्तदोषः सम्प्राप्तस्तस्य नास्ति निवारकः ॥ १७॥
सत्तासम्बन्धवत्त्वं चेद्विशेषोऽस्य न तत्पटु ।
तदाऽपि दोषः पूर्वोक्तः प्राप्नोत्येव न संशयः ॥ १८॥
अतोऽसतो न कार्यत्वं सदसत्त्वं न सङ्गतम् ।
उक्तदोषद्वयापत्तेरतः कार्यं तु कारणात् ।
अभिन्नमेव भेदस्यासम्भवादेव वस्तुतः ॥ १९॥
भेदाभेदसमाख्या तु सुतरां नैव सिध्यति ।
कारणात्कार्यजातस्य भेदाभावाच्च वस्तुतः ॥ २०॥
कार्यकारणभेदश्च कारकव्यावृतिस्तथा ।
उत्पत्तिश्च विनाशश्च तथैवार्थक्रियाऽपि च ॥ २१॥
नामरूपविशेषश्च सर्वं भ्रान्त्या प्रसिध्यति ॥ २२॥
अतः सर्वो विकारश्च वाचा केवलमास्तिकाः ।
अस्तीत्यारभ्यते नामधेयमात्रं हि सत्सदा ॥ २३॥
प्रातीतिकेन रूपेण विकारोऽसत्य एव हि ।
कारणाकार एवास्य सत्यः साक्षात्सदा सुराः ॥ २४॥
कारणाभिन्नरूपेण कार्यं कारणमेव हि ।
सद्रूपेण सदा सत्यं भेदेनोक्तिर्मृषा खलु ॥ २५॥
अतः कारणविज्ञानात्सर्वविज्ञानमास्तिकाः ।
सुतरामुपपन्नं हि न सन्देहोऽस्ति कश्चन ॥ २६॥
तच्च कारणमेकं हि न भिन्नं नोभयात्मकम् ।
भेदः सर्वत्र मिथ्यैव धर्म्यादेरनिरूपणात् ॥ २७॥
भेदे ज्ञाते हि धर्म्यादिविभागस्य च वेदनम् ।
विभेदेनैव धर्म्यादौ विज्ञाते भेदवेदनम् ॥ २८॥
भेदानिरूपणादेव भेदाभेदो न सङ्गतः ।
अतश्च कारणं नित्यमेकमेवाद्वयं सुराः ॥ २९॥
कुलालादेर्मृदादेश्च भेदे दृष्टेऽपि भूतले ।
अचैतन्यान्मृदादेस्तु कुलालादिरपेक्ष्यते ॥ ३०॥
अत्र कारणमद्वैतं शुद्धं चैतन्यमेव हि ।
तेन नापेक्षते ह्यन्यत्कारणं चेतनात्मकम् ॥ ३१॥
स्वयं चेतनमप्येतत्कारणं न कुलालवत् ।
अपेक्षते मृदा तुल्यमचिद्रूपं तु कारणम् ॥ ३२॥
प्रतीत्या केवलं शक्तिरचिद्रूपा तमोमयी ।
सर्वप्रकारैर्विद्वद्भिरनिरूप्याऽस्ति शाङ्करी ॥ ३३॥
तया दुर्घटकारिण्या तादात्म्येनैव सङ्गतम् ।
कारणं सकलस्रष्टृ सर्वसंहर्तृ चास्तिकाः ॥ ३४॥
पालकं च सदा सच्च चिद्रूपत्वात्सुरोत्तमाः ।
चिद्रूपस्य तु सत्यत्वं युक्तमेवास्तिकाः सदा ॥ ३५॥
अचिद्रूपाहिरज्ज्वादेर्मृषात्वं सम्मतं खलु ।
अतस्तत्कारणं देवाः सदेवैकं च शाश्वतम् ॥ ३६॥
इदं सर्वं जगत्पूर्वं सदेवाऽसीत्सुरर्षभाः ।
असदासीदिति भ्रान्ता वदन्ति सुरपुङ्गवाः ॥ ३७॥
असन्न कारणं युक्तं वस्तुतत्त्वनिरूपणे ।
वन्ध्यापुत्रोऽपि सर्वेषां कारणं स्यात्स्वयं खलु ॥ ३८॥
स्वशक्त्याऽसच्च सर्वेषां कारणं भवतीति चेत् ।
शक्तिरप्यसतो नास्ति सतो बीजस्य दर्शनात् ॥ ३९॥
अङ्कुरोत्पादिका शक्तिः सद्रूपस्यैव दृश्यते ।
खलु बीजस्य सर्वत्र नासतस्तददर्शनात् ॥ ४०॥
साऽपि शक्तिः सती किंवाऽसती सदसती तु वा ।
सती चेत्सा सती शक्तिः कथं वन्ध्यासुताश्रया ।
आश्रयत्वं सतो दृष्टं खलु लोके न चासतः ॥ ४१॥
साऽसती चेत्कथं शक्तिः कार्यनिर्वाहिकाऽसती ॥ ४२॥
वन्ध्यापुत्रः स्वयं नैव कार्यनिर्वाहकः खलु ।
निर्वाहकत्वधर्मश्च सत एव हि दृश्यते ॥ ४३॥
शक्तिः सदसती सा चेद्दोषद्वयसमागमः ।
अतः स्वशक्त्या चासत्तु सर्वेषां नैव कारणम् ॥ ४४॥
तस्मात्सोऽयमसद्वादो जल्पमात्रं न युक्तिमान् ।
अतः सदेव सर्वेषां कारणं नासदास्तिकाः ॥ ४५॥
सृष्टेस्तु प्रागिदं सर्वं सदेवाऽऽसीत्तु कारणम् ।
तच्च कारणमाद्यन्तविनिर्मुक्तं सदद्वयम् ॥ ४६॥
पूर्वकल्पप्रपञ्चोत्थसंस्कारेणानुरञ्जितम् ।
कालकर्मविपाकेन सत्त्ववृत्तिसमाश्रितम् ॥ ४७॥
सृष्ट्यर्थमैक्षत प्राज्ञा बहु स्यामिति शक्तिमत् ।
पुनस्तत्पूर्वसंस्कारादाकाशं वायुमादितः ॥ ४८॥
सृष्ट्वा तेजस्ततः सृष्ट्वा पुनः सृष्ट्वा त्वपस्ततः ।
अन्नशब्दोदितां देवाः ससर्ज पृथिवीं पराम् ॥ ४९॥
तत्पुनः कारणं ब्रह्म तानि भूतानि पञ्च च ।
एकैकं द्विविधं कृत्वा तेषां मध्ये सुरोत्तमाः ॥ ५०॥
अंशान्पञ्च समादाय तेषामेकैकमास्तिकाः ।
कृत्वा चतुर्धा तेष्वंशानादाय चतुरः सुराः ॥ ५१॥
यथाक्रमेण भूतानां चतुरस्तांश्च कारणम् ।
यथाक्रमेण भूतार्धेनैकेनैकं करोति तत् ॥ ५२॥
एवमंशान्तरानेतानादाय चतुरः स्वयम् ।
एकं भूतान्तरार्धेन करोति क्रमशः सुराः ॥ ५३॥
एवं भूतानि सर्वाणि पञ्चीकृत्य सुरर्षभाः ।
अण्डानि भुवनान्याशु करोति ब्रह्म कारणम् ॥ ५४॥
अण्डजं जारजं चैव स्वेदजं चोद्भिजं तथा ।
करोति कालपाकेन प्राणिकर्मवशेन च ॥ ५५॥
ब्रह्म सर्वत्र चिद्रूपेणैवानुप्राप्य सात्त्विकाः ।
पृथङ्नामानि रूपाणि कुरुते पूर्वकल्पवत् ॥ ५६॥
इदं सर्वं जगत्सत्यमिव भातमपि स्वतः ।
कारणव्यतिरेकेण नास्त्येवात्र न संशयः ॥ ५७॥
यद्ग्ने रोहितं रूपं तद्रूपं तेजसः सदा ।
यच्छुक्लं तदपां रूपं यत्कृष्णं भौममेव तत् ॥ ५८॥
नास्ति रूपातिरेकेण सदा सोऽग्निः सुरर्षभाः ।
वाचारम्भणमात्रो हि विकारो वह्निसञ्ज्ञितः ॥ ५९॥
त्रीणि रूपाणि हे देवा एव सत्यं न चानलः ।
यद्भानो रोहितं रूपं तद्रूपं तेजसः सदा ॥ ६०॥
यच्छुक्लं तदपां रूपं यत्कृष्णं भौममेव तत् ।
नास्ति रूपातिरेकेण सदाऽऽदित्यो न संशयः ॥ ६१॥
भ्रान्त्या केवलमादित्य इत्याहुरविवेकिनः ।
एवं चन्द्रश्च विज्ञेयो विद्युच्च सुरपुङ्गवाः ॥ ६२॥
घटकुड्यादयो भावा भूतानि भुवनानि च ।
सर्वं ब्रह्मातिरेकेण नास्ति ब्रह्मैव सत्सदा ॥ ६३॥
पूर्वपूर्वभ्रमोत्पन्नवासनाया बलेन तु ।
देहेन्द्रियादिसङ्घातेऽहम्मतिर्जायते दृढम् ॥ ६४॥
देहेन्द्रियादयो भावा नाहमर्था निरूपणे ।
भौतिकत्वाच्च भूतांशैः सदैवाप्यायितत्वतः ॥ ६५॥
मृदम्भसा यथा भित्तिर्निर्मिता वै मृदम्भसा ।
आप्यायते तथा भुक्तैर्भूतैर्देहादयोऽपि च ॥ ६६॥
अतो देहादिसङ्घातेऽहम्ममेत्यादिकां मतिम् ।
विसृज्य साक्षिचैतन्ये विद्वान्कुर्यादहम्मतिम् ॥ ६७॥
दध्नः सर्पिर्यथा जातं मन्थनेन सुरर्षभाः ।
तथा बुद्ध्यादयो भावा भूतेभ्यश्चोद्भवन्ति हि ॥ ६८॥
भौतिकं देहसङ्घातं विसृज्य मतिमान्पुनः ।
सर्वसाक्षिणि चिद्रूपे कुर्यान्नित्यमहम्मतिम् ॥ ६९॥
अन्नेनाप्यायतेऽभुक्ते नाधीतं तस्य भासते ।
ततोऽपि बुद्धिरन्नस्य कार्यमेव न संशयः ॥ ७०॥
अतोऽपि बुद्धिमन्नस्य कार्यं त्यक्त्वा विविक्तधीः ।
सर्वसाक्षिणि चिद्रूपे कुर्यान्नित्यमहम्मतिम् ॥ ७१॥
देहेन्द्रियादिसङ्घातेऽहम्ममेत्यादिकां मतिम् ।
त्यक्त्वा स्वात्मनि चिद्रूपे यदाऽपीतो भवत्ययम् ॥ ७२॥
तदा स्वपिति दुःखादिदर्शनं च न विद्यते ।
स्वात्मरूपसुखप्राप्तिरेवं दृष्टाऽस्य देहिनः ॥ ७३॥
अतोऽपि मतिमान्नित्यं त्यक्त्वा देहादिगां धियम् ।
सर्वसाक्षिणि चिद्रूपे साक्षात्कुर्यादहम्मतिम् ॥ ७४॥
यदिदं साक्षिणा वेद्यं तत्सर्वं ब्रह्म केवलम् ।
तत्सत्यं पूर्णचैतन्यं तत्त्वमर्थो न संशयः ॥ ७५॥
त्वंशब्दार्थो य आभाति सोऽहंशब्दार्थ एव हि ।
योऽहंशब्दार्थ आभाति स त्वंशब्दार्थ एव हि ॥ ७६॥
त्वमहंशब्दलक्ष्यार्थः साक्षात्प्रत्यक्चितिः परा ।
तच्छब्दस्य च लक्ष्यार्थः सैव नात्र विचारणा ॥ ७७॥
त्वमहंशब्दवाच्यार्थस्यैव देहादिवस्तुनः ।
न तच्छब्दार्थतां वक्ति श्रुतिस्तत्त्वमसीति सा ॥ ७८॥
तदर्थैक्यविरुद्धांशं त्यक्त्वा वाच्यगतं श्रुतिः ।
अविरुद्धचिदाकारं लक्षयित्वा ब्रवीति हि ॥ ७९॥
तदर्थे च त्वमर्थैक्यविरुद्धांशं विनैव तु ।
कारणत्वादिवाच्यस्थं लक्षयित्वा तु केवलम् ॥ ८०॥
चिदाकारं पुनस्तस्य त्वमर्थैक्यं ब्रवीति च ।
तत्त्वंशब्दार्थलक्ष्यस्य चिन्मात्रस्य परात्मनः ॥ ८१॥
एकत्वं यत्स्वतःसिद्धं स हि वाक्यार्थ आस्तिकाः ।
इतोऽन्यथा यो वाक्यार्थः सोऽवाक्यार्थो न संशयः ॥ ८२॥
एकत्वप्रमितिं वाक्यं न करोति सुरर्षभाः ।
व्यावहारिकमज्ञानं बाधते विद्ययैव तु ॥ ८३॥
सदा प्रमितमेकत्वं स्वत एव न चान्यतः ।
अतो न प्रमितिं वाक्यं कुरुतेऽज्ञानबाधकम् ॥ ८४॥
वस्तुतो नास्ति चाज्ञानं चित्प्रकाशविरोधतः ।
अतो वाक्यं न चाज्ञानबाधकं च निरूपणे ॥ ८५॥
एकत्वं यत्पुरा प्रोक्तं तत्स्वयं सेद्धुमर्हति ।
न प्रमाणेन मानानि तस्मिन्कुण्ठीभवन्ति हि ॥ ८६॥
व्यावहारिकमज्ञानमपि ब्रह्मैव वस्तुतः ।
अज्ञानमिति वार्ताऽपि त्वर्थसद्भाव एव हि ॥ ८७॥
सत एव हि सद्भावो नासतः सूक्ष्मदर्शने ।
सदसत्कोटिनिर्मुक्तमित्युक्तिश्चार्थभासने ।
खलु नाभासते भानं ब्रह्म वस्त्वेव केवलम् ॥ ८८॥
भानसम्बन्धतोऽभानमिति वार्ताऽप्यसङ्गता ॥ ८९॥
सम्बन्धिरूपसद्भावे सति सम्बन्धसम्भवः ।
सद्भावे सति सम्बन्धिरूपं ब्रह्मैव केवलम् ॥ ९०॥
अनिरूपितरूपेण सद्भाव इति चेन्मतम् ।
अनिरूपितरूपस्य रूपं तु ब्रह्म केवलम् ।
ब्रह्मैव रूपं नैवान्यन्न रूपमपरस्य हि ॥ ९१॥
अस्ति चेदपरस्यापि रूपं तर्हि सुरोत्तमाः ।
रूपरूपेण रूपं च ब्रह्मरूपं भवेत्खलु ॥ ९२॥
ब्रह्मरूपेण नान्यस्य रूपं रूपान्तरेण चेत् ॥ ९३॥
तर्हि रूपान्तरं रूपाद्भिन्नं वाऽभिन्नमेव वा ।
भिन्नाभिन्नं न वा भिन्नं यदि रूपाद्विभेदतः ॥ ९४॥
तुच्छवत्तदरूपं स्यादभिन्नं चेत्तदेव तत् ।
उक्तदोषद्वयापत्तेर्भिन्नाभिन्नं न तद्भवेत् ॥ ९५॥
अत एव सुरश्रेष्ठा अनिरूपितरूपतः ।
सद्भाव इति वार्ता च वार्तैव खलु केवलम् ॥ ९६॥
तस्मादज्ञानमेवैतद्ब्रह्मैव सततोदितम् ।
अज्ञानमयमेवेदं सर्वमित्यपि भाषणम् ।
नैव भाषणमज्ञानाभावादेव शिवं विना ॥ ९७॥
तस्मादज्ञानमज्ञानकार्यं च सुरपुङ्गवाः ॥ ९८॥
एकं ब्रह्मैव नैवान्यदिति मे निश्चिता मतिः ।
ऐतदात्म्यमिदं सर्वमित्याह हि परा श्रुतिः ॥ ९९॥
साक्षादर्थस्वभावेन श्रुतिः सेयं प्रवर्तते ।
श्रोतुश्चित्ताविपाकेन विषण्णा विवशा श्रुतिः ॥ १००॥
क्वचित्कदाचिदन्यार्थं वक्ति च ब्रह्मणः पृथक् ।
साध्यसाधनसम्बन्धकथनं फलभाषणम् ॥ १०१॥
जगद्वैचित्र्यनिर्देशो धर्माधर्मार्थभाषणम् ।
वर्णाश्रमविभागोक्तिस्तद्धर्मोक्तिस्तथैव च ॥ १०२॥
शोभनाशोभनोक्तिश्च भूतभौतिकभाषणम् ।
शब्दानां भेदनिर्देशस्तथाऽर्थानां च भाषणम् ॥ १०३॥
आत्मनोऽन्यस्य सर्वस्य सद्भावोक्तिः सुरर्षभाः ।
मिथ्यात्वभाषणं तस्य मायासद्भावभाषणम् ॥ १०४॥
मायात्वोक्तिश्च मायाया बन्ध इत्यभिभाषणम् ।
गुरुशिष्यकथोक्तिश्च ब्रह्मविद्याभिभाषणम् ॥ १०५॥
शास्त्राणामपि निर्देशस्तर्काणामपि भाषणम् ।
अन्यद्वितर्कजालं यत्तदुक्तिश्च समासतः ।
अन्यार्थेन परं ब्रह्म श्रुतिः साध्वी न तत्परा ॥ १०६॥
चित्तपाकानुगुण्येन श्रोतॄणां परमा श्रुतिः ।
सोपानक्रमतो देवा मन्दं मन्दं हितं नृणाम् ॥ १०७॥
उपदिश्य विषण्णाऽपि पुनः पक्वाधिकारिणः ।
ऐतदात्म्यमिदं सर्वमित्याह परमाद्वयम् ॥ १०८॥
जगज्जीवेश्वरत्वादिविचित्रविभवं विना ।
केवलं चित्सदानन्दब्रह्मात्मैक्यपरा श्रुतिः ॥ १०९॥
जगज्जीवेश्वरत्वादि सर्वं ब्रह्मैव केवलम् ।
इति स्वपूर्णताज्ञानं परमाद्वैतवेदनम् ॥ ११०॥
इतोऽन्यद्यत्परिज्ञानं तदज्ञानं न संशयः ।
विचारेणायमेवार्थस्त्वयमेवाविचारणे ॥ १११॥
न कदाचिद्विशेषोऽस्तीत्येतज्ज्ञानं सुदुर्लभम् ॥ ११२॥
यथा यथा स्वभावेन यद्यद्भाति सुरर्षभाः ।
तथा तथा शिवो भाति स्वयमेव न चापरः ॥ ११३॥
यथा यथा प्रभा साक्षाच्छाम्भवी सा न चापरा ।
इति निश्चयविज्ञानं परमाद्वैतवेदनम् ॥ ११४॥
यथा यथाऽवभासोऽयं शिव एवेति पश्यति ।
तथा तथा महादेवं भजतेऽयत्नतस्तु सः ॥ ११५॥
यथा यथा प्रथा पुंसस्तद्वस्तुष्वनवस्थिता ।
तथा तथाऽनुसन्धानं स्वभावेनैव पूजनम् ॥ ११६॥
शिवरूपतया सर्वं यो वेद स हि तत्त्ववित् ।
अशिवं वेद यत्किञ्चित्स एव परिमोहितः ॥ ११७॥
शिवादन्यतया किञ्चिदपि यो वेद सोऽधमः ।
शिवस्यैवापचारं हि कुरुते स पशुर्नरः ॥ ११८॥
शिवरूपतया सर्वं यस्य भाति स्वभावतः ।
स्वेच्छाचारः समाचारस्तस्य चार्चा च शूलिनः ॥ ११९॥
यथा यथा प्रभा शम्भोः प्रथा सा सा तदर्चनम् ।
इत्ययत्नेन विज्ञानात्पूज्यते परमेश्वरः ॥ १२०॥
क्रीडया जगदाकारा नान्यतश्चात्मदेवता ।
क्रीडयैवात्मनाऽऽत्मानं भुङ्क्ते सा तद्धि वेदनम् ॥ १२१॥
इन्द्रियाकारभासा सा विषयाकारभासनम् ।
क्रीडया देवता भुङ्क्ते स्वत इत्यर्चनं मतम् ॥ १२२॥
परमाद्वैतविज्ञानमिदं भवभयापहम् ।
भवप्रसादतो लभ्यं भावनारहितं परम् ॥ १२३॥
यथा नक्तन्दृशः सूर्यप्रकाशो नावभासते ।
तथेदं परमाद्वैतं मनुष्याणां न भासते ॥ १२४॥
प्रसादादेव रुद्रस्य श्रद्धया स्वस्य धैर्यतः ।
देशिकालोकनाच्चैव कर्मसाम्ये प्रकाशते ॥ १२५॥
बहुप्रकारं बहुशः श्रुतिः साध्वी सनातनी ।
एवमेतं महायासादर्थं वदति दुःखिनाम् ॥ १२६॥
शिव एवास्ति नैवान्यदिति यो निश्चयः स्थिरः ।
सदा स एव सिद्धान्तः पूर्वपक्षास्तथा परे ॥ १२७॥
अयमेव हि वेदार्थो नापरः परमास्तिकाः ।
गृह्णामि परशुं तप्तं सत्यमेव न संशयः ॥ १२८॥
अयमेव हि सत्यार्थो नापरः परमास्तिकाः ।
विश्वासार्थं शिवं स्पृष्ट्वा त्रिर्वः शपथयाम्यहम् ॥ १२९॥
अयमेव हि वेदार्थो नापरः परमास्तिकाः ।
अन्यथा चेत्सुराः सत्यं मूर्धा मेऽत्र पतिष्यति ॥ १३०॥
अयमेव हि सत्यार्थो नापरः परमास्तिकाः ।
अत्रैव सन्निधिं देवो विश्वासार्थं करिष्यति ॥ १३१॥
सूत उवाच -
एवमुक्त्वा तु भगवान्ब्रह्मा सर्वहिते रतः ।
प्रणम्य दण्डवद्भूमौ भक्त्या परवशोऽभवत् ॥ १३२॥
अस्मिन्नवसरे श्रीमाञ्शङ्करः शशिशेखरः ।
नीलकण्ठो विरूपाक्षः साम्बः साक्षाद्घृणानिधिः ॥ १३३॥
ब्रह्मविष्णुमहेशाद्यैरुपास्यो गुणमूर्तिभिः ।
आविर्बभूव सर्वज्ञस्तत्रैव सुरसन्निधौ ॥ १३४॥
आसनं विमलं दिव्यं शिवार्हं हैममद्भुतम् ।
आगतं तत्र भगवानास्ते तस्मिन्यथासुखम् ॥ १३५॥
विष्णुर्विश्वजगत्कर्ता शिवस्यामिततेजसः ।
बुद्ध्वोद्योगं महाप्रीतस्तत्र सन्निहितोऽभवत् ॥ १३६॥
पुष्पवृष्टिरभवत्पुनः पुनः
शब्दितं च मुनिभिः सनातनैः ।
शुद्धवेदवचनैः सुशोभनै-
र्भक्तिमद्भिरपि पूजनं कृतम् ॥ १३७॥
उच्चमन्दमृदुतीव्रकाहलैः
शब्दितं च पटहादिभिस्तथा ।
तालमानकुशलैस्तथा परै-
र्भेरिकादिकुशलैः सुघोषितम् ॥ १३८॥
अप्सरोभिरपि नर्तनं कृतं
गायनैश्च सहितैर्महत्तरैः ।
गीतमाशु कविभिश्च कीर्तितं
स्थानमीशदृशिगोचरं द्विजाः ॥ १३९॥
विस्मिताश्च मुनयश्च केचन
श्रद्धयैव शिरसा च नर्तिताः ।
मुष्टियुद्धमपि कुर्युरास्तिकाः
श्रद्धयैव परया च केचन ॥ १४०॥
मस्तकेन मनुजानतिप्रियान्
पृष्ठतश्च चरणेन पाणिना ।
दण्डरज्जुशिबिकादिभिस्तथा
केचिदश्वनिकरैर्वहन्ति च ॥ १४१॥
बन्धनं च निगडैश्च गर्विता
मोचनं च मनुजानतिप्रियान् ।
कुर्युरस्त्रनिकरैश्च केचन
च्छेदनं च विवशाश्च केचन ॥ १४२॥
अन्योन्यमालिङ्गनमाचरन्ति
प्रियेण केचिन्मुनयश्च केचित् ।
धावन्ति वेगेन पटं विसृज्य
प्रियेण चान्यानपि ताडयन्ति ॥ १४३॥
विलोक्य सर्वं शिवया शिवोऽपि
प्रहृष्टचित्तस्तु निवार्य सर्वान् ।
हरिं विरञ्चिं च सुरानशेषा-
नतिप्रियेणैव निरीक्ष्य विप्राः ॥ १४४॥
उवाच सत्यं करुणानिधानः
श्रुतिप्रमाणैकसुनिश्चितार्थः ।
हिताय लोकस्य सुरासुराद्यैः
प्रपूजनीयश्च सदा महेशः ॥ १४५॥
ईश्वर उवाच :
अहं हि सर्वं न च किञ्चिदन्य-
न्निरूपणायामनिरूपणायाम् ।
इयं हि वेदस्य परा हि निष्ठा
ममानुभूतिश्च न संशयश्च ॥ १४६॥
अहं सदाऽधश्च यथाऽहमूर्ध्वं
त्वहं पुरस्तादहमेव पश्चात् ।
अहं च सव्येतरमास्तिकास्तथा
त्वहं सदैवोत्तरतोऽन्तरालम् ॥ १४७॥
परोक्षरूपेण सुसंस्थितोऽहं
तथाऽपरोक्षेण सुसंस्थितोऽहम् ।
अनात्मरूपेण सुसंस्थितोऽहं
सदात्मरूपेण सुसंस्थितोऽहम् ॥ १४८॥
जैवेन रूपेण सुसंस्थितोऽहम्
तथेशरूपेण सुसंस्थितोऽहम् ।
अज्ञानरूपेण सुसंस्थितोऽहम्
विज्ञानरूपेण सुसंस्थितोऽहम् ॥ १४९॥
संसाररूपेण सुसंस्थितोऽहम्
कैवल्यरूपेण सुसंस्थितोऽहम् ।
शिष्यादिरूपेण सुसंस्थितोऽहम्
गुर्वादिरूपेण सुसंस्थितोऽहम् ॥ १५०॥
वेदादिरूपेण सुसंस्थितोऽहं
स्मृत्यादिरूपेण सुसंस्थितोऽहम् ।
पुराणरूपेण सुसंस्थितोऽहं
कल्पादिरूपेण सुसंस्थितोऽहम् ॥ १५१॥
प्रमातृरूपेण सुसंस्थितोऽहं
प्रमाणरूपेण सुसंस्थितोऽहम् ।
प्रमेयरूपेण सुसंस्थितोऽहं
मितिस्वरूपेण सुसंस्थितोऽहम् ॥ १५२॥
कर्तृस्वरूपेण सुसंस्थितोऽहं
क्रियास्वरूपेण सुसंस्थितोऽहम् ।
तद्धेतुरूपेण सुसंस्थितोऽहं
फलस्वरूपेण सुसंस्थितोऽहम् ॥ १५३॥
भोक्तृस्वरूपेण सुसंस्थितोऽहं
भोगस्वरूपेण सुसंस्थितोऽहम् ।
तद्धेतुस्वरूपेण सुसंस्थितोऽहं
भोग्यस्वरूपेण सुसंस्थितोऽहम् ॥ १५४॥
पुण्यस्वरूपेण सुसंस्थितोऽहं
पापस्वरूपेण सुसंस्थितोऽहम् ।
सुखस्वरूपेण सुसंस्थितोऽहं
दुःखस्वरूपेण सुसंस्थितोऽहम् ॥ १५५॥
रुद्रप्रभेदेन सुसंस्थितोऽहं
विष्णुप्रभेदेन सुसंस्थितोऽहम् ।
ब्रह्मप्रभेदेन सुसंस्थितोऽहं
देवप्रभेदेन सुसंस्थितोऽहम् ॥ १५६॥
मर्त्यप्रभेदेन सुसंस्थितोऽहं
तिर्यक्प्रभेदेन सुसंस्थितोऽहं
कृमिप्रभेदेन सुसंस्थितोऽहं
कीटप्रभेदेन सुसंस्थितोऽहम् ॥ १५७॥
वृक्षप्रभेदेन सुसंस्थितोऽहं
गुल्मप्रभेदेन सुसंस्थितोऽहम् ।
लताप्रभेदेन सुसंस्थितोऽहं
तृणप्रभेदेन सुसंस्थितोऽहम् ॥ १५८॥
कलाप्रभेदेन सुसंस्थितोऽहं
घटप्रभेदेन सुसंस्थितोऽहम् ।
पटप्रभेदेन सुसंस्थितोऽहं
कुड्यादिभेदेन सुसंस्थितोऽहम् ॥ १५९॥
अन्नप्रभेदेन सुसंस्थितोऽहं
पानप्रभेदेन सुसंस्थितोऽहम् ।
वनप्रभेदेन सुसंस्थितोऽहं
गिरिप्रभेदेन सुसंस्थितोऽहम् ॥ १६०॥
नदीप्रभेदेन सुसंस्थितोऽहं
नदप्रभेदेन सुसंस्थितोऽहम् ।
समुद्रप्रभेदेन सुसंस्थितोऽहं
तटप्रभेदेन सुसंस्थितोऽहम् ॥ १६१॥
तडागभेदेन सुसंस्थितोऽहं
अभ्रप्रभेदेन सुसंस्थितोऽहम् ।
नक्षत्रभेदेन सुसंस्थितोऽहं
ग्रहप्रभेदेन सुसंस्थितोऽहम् ॥ १६२॥
मेघप्रभेदेन सुसंस्थितोऽहं
विद्युत्प्रभेदेन सुसंस्थितोऽहम् ।
यक्षप्रभेदेन सुसंस्थितोऽहं
रक्षःप्रभेदेन सुसंस्थितोऽहम् ॥ १६३॥
गन्धर्वभेदेन सुसंस्थितोऽहं
सिद्धप्रभेदेन सुसंस्थितोऽहम् ।
अण्डप्रभेदेन सुसंस्थितोऽहं
लोकप्रभेदेन सुसंस्थितोऽहम् ॥ १६४॥
देशप्रभेदेन सुसंस्थितोऽहं
ग्रामप्रभेदेन सुसंस्थितोऽहम् ।
गृहप्रभेदेन सुसंस्थितोऽहं
मठप्रभेदेन सुसंस्थितोऽहम् ॥ १६५॥
कटप्रभेदेन सुसंस्थितोऽहं
प्राकारभेदेन सुसंस्थितोऽहम् ।
पुरप्रभेदेन सुसंस्थितोऽहं
पुरीप्रभेदेन सुसंस्थितोऽहम् ॥ १६६॥
व्योमादिभेदेन सुसंस्थितोऽहं
शब्दादिभेदेन सुसंस्थितोऽहम् ।
शरीरभेदेन सुसंस्थितोऽहं
प्राणप्रभेदेन सुसंस्थितोऽहम् ॥ १६७॥
श्रोत्रादिभेदेन सुसंस्थितोऽहं
पदादिभेदेन सुसंस्थितोऽहम् ।
मनःप्रभेदेन सुसंस्थितोऽहं
बुद्धिप्रभेदेन सुसंस्थितोऽहम् ॥ १६८॥
अहम्प्रभेदेन सुसंस्थितोऽहं
चित्तप्रभेदेन सुसंस्थितोऽहम् ।
सङ्घातभेदेन सुसंस्थितोऽहं
जन्मादिभेदेन सुसंस्थितोऽहम् ॥ १६९॥
जाग्रत्प्रभेदेन सुसंस्थितोऽहं
स्वप्नप्रभेदेन सुसंस्थितोऽहम् ।
सुषुप्तिभेदेन सुसंस्थितोऽहं
तुरीयभेदेन सुसंस्थितोऽहम् ॥ १७०॥
दृश्यप्रभेदेन सुसंस्थितोऽहं
द्रष्टृप्रभेदेन सुसंस्थितोऽहम् ।
साक्षिस्वरूपेण सुसंस्थितोऽहं
सर्वस्वरूपेण सुसंस्थितोऽहम् ॥ १७१॥
अस्तिनास्तिवचनेन भाषितं
भातिशब्दपरिभाषितं तथा ।
भानहीनपरिभाषितं च मे
रूपमेव हि न संशयः क्वचित् ॥ १७२॥
शब्दगोचरतया स्थितं सदा
शब्दगोचरविहीनरूपतः ।
यत्स्थितं तदहमेव सन्ततं
प्रत्ययेऽपि गतिरेवमेव हि ॥ १७३॥
नित्यशुद्धपरिबुद्धमुक्ततां
यस्य नित्यमिति वक्ति वाक् श्रुतेः ।
तस्य सत्यसुखबोधपूर्णता
तथ्यमेव मम नास्ति संशयः ॥ १७४॥
यत्स्वरूपमहमात्मना तथा
यत्स्वरूपमिदमात्मनैव तु ।
भाति तत्तु मम चिद्वपुः सदा
भाति नान्यदिति निश्चयो मम ॥ १७५॥
अहं समस्तं मम रूपतः पृथङ्
न किञ्चिदस्तीति सुनिश्चयः कृतः ।
मया तु वेदान्तवचोभिरञ्जसा
पितामहेनापि च सत्यमीरितम् ॥ १७६॥
अत्र संशयमतिर्विनश्यति
भ्रष्ट एव परमार्थदर्शनात् ।
अत्र निश्चयमतिस्तु मुच्यते
कष्टरूपभवपाशबन्धनात् ॥ १७७॥
सूत उवाच ।
एवमुक्त्वा महादेवः साम्बः संसारमोचकः ।
समालिङ्ग्य महाविष्णुं ब्रह्माणमपि सादरम् ॥ १७८॥
विलोक्य देवानखिलान्विशुद्धेनैव चेतसा ।
भद्रमस्तु सुरश्रेष्ठा युष्माकमिति चाब्रवीत् ॥ १७९॥
देवाश्च देवदेवेशं प्रसन्नं करुणानिधिम् ।
पूजयामासुराह्लादात्पत्रपुष्पफलादिभिः ॥ १८०॥
विष्णुर्विश्वजगत्कर्ता विश्वेशाङ्घ्रिसरोरुहम् ।
स्वमूर्ध्नि भक्त्या निक्षिप्य पुनः परवशोऽभवत् ॥ १८१॥
पितामहोऽपि सर्वात्मा शिवपादाम्बुजद्वयम् ।
स्वमूर्ध्नि भक्त्या निक्षिप्य पुनः परवशोऽभवत् ॥ १८२॥
देवदेवो महादेवः साम्बः संसारमोचकः ।
ननर्त परमं भावमैश्वरं सम्प्रदर्शयन् ॥ १८३॥
करतालं महादेवी करुणासागरा परा ।
चकार परमप्रीत्या समालोक्य महेश्वरम् ॥ १८४॥
विष्णुर्ब्रह्मा सुराः सर्वे तत्र सन्निहिता जनाः ।
सर्वे सन्तोषतस्तत्र नृत्यन्ति स्म यथाबलम् ॥ १८५॥
देवदेवो महादेवो महानन्दोदधिर्द्विजाः ।
विलोक्य सर्वान्सुप्रीतस्तत्रैवान्तर्हितोऽभवत् ॥ १८६॥
विष्णुर्ब्रह्माणमालिङ्ग्य विलोक्य सकलान्सुरान् ।
प्रसन्नः पद्मया सार्धं वैकुण्ठमगमत्प्रभुः ॥ १८७॥
ब्रह्माऽपि विस्मयापन्नो विलोक्य सकलान्सुरान् ।
अवशः सन्पुनश्चाह श्रद्धयैव तु केवलम् ॥ १८८॥
ब्रह्मोवाच ।
विद्याः सर्वा नृणां साक्षात्संसारस्य प्रवर्तिकाः ।
आत्मविद्या तु संसारतमसः प्रतिघातिनी ॥ १८९॥
आत्मविद्याविहीनस्य शोकसागर एव हि ।
मुक्तिरेवात्मनिष्ठस्य नास्ति संशयकारणम् ॥ १९०॥
यत्रान्यत्पश्यति प्राणी शृणोत्यन्यत्तथैव च ।
अन्यज्जानाति चाल्पं तद्यदल्पं मर्त्यमेव तत् ॥ १९१॥
यत्र पश्यति नान्यच्च न शृणोत्यन्यदास्तिकाः ।
अन्यच्च न विजानाति स भूमा सुरपुङ्गवाः ॥ १९२॥
यो वै भूमा सुखं तद्धि तद्धि कैवल्यमुत्तमम् ।
नाल्पे चास्ति सुखं तस्मान्महाद्वैतपरो भवेत् ॥ १९३॥
महाद्वैतपरस्यास्य न नाशो जन्म नैव च ।
नैव गत्यागती नान्यद्बन्धनं न विमोचनम् ॥ १९४॥
अत्रैव लीयते सम्यक्सर्वमात्मतया स्वतः ।
घृतकाठिन्यवत्स्वप्नप्रपञ्चप्रतिभासवत् ॥ १९५॥
सर्वमेतदतिशोभनं परं केवलं करुणयैव भाषितम् ।
देवदेवचरणप्रसादतो नेतरद्धि कथनीयमस्ति वः ॥ १९६॥
इति ब्रह्मगीतासूपनिषत्सु
आदेशकथनं नाम पञ्चमोऽध्यायः ॥ ५॥
॥ अथ षष्ठोऽध्यायः ॥
॥ दहरोपासनविवरणम् ॥
ब्रह्मोवाच ।
अस्मिन्ब्रह्मपुरे वेश्म दहरं यदिदं सुराः ।
पुण्डरीकं तु तन्मध्य आकाशो दहरोऽस्ति तु ॥ १॥
स शिवः सच्चिदानन्दः सोऽन्वेष्टव्यो मुमुक्षिभिः ।
स विजिज्ञासितव्यश्च विना सङ्कोचमास्तिकाः ॥ २॥
स्वाभिव्यञ्जकसङ्कोचत्सङ्कोचप्रतिभाऽऽत्मनः ।
न स्वरूपेण चिद्रूपं सर्वव्यापि सदा खलु ॥ ३॥
ज्ञातरूपेण चाज्ञातस्वरूपेण च साक्षिणः ।
सर्वं भाति तदाभाति ततस्तद्व्यापि सर्वदा ॥ ४॥
स्वयं सेद्धुमशक्यं हि जडात्मकमिदं जगत् ।
चित्सम्बन्धबलेनैव खलु भाति न चान्यथा ॥ ५॥
अतोऽवभास्यं सकलं व्याप्य तद्भासकः शिवः ।
स्वतो व्यापी न चाव्यापी सङ्कोचश्चान्यसङ्गमात् ॥ ६॥
यावान्वा अयमाकाशस्तावानाकाश आन्तरः ।
द्यावापृथ्वी उभे अस्मिन्नन्तरेव समाहिते ॥ ७॥
उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ ।
नक्षत्राणि च विद्युच्च यच्चास्तित्वेन भासते ॥ ८॥
यच्च नास्तितया भाति सर्वं तस्मिन्समाहितम् ।
अतः सर्वाश्रयः शम्भुः सर्वव्यापी स्वभावतः ॥ ९॥
एष आत्मा परो व्यापी पाप्मभिः सकलैः सदा ।
असौ चा(ना)पहतः साक्षी विमृत्युर्विजरः सुराः ॥ १०॥
विशोको विजिघत्सोऽपिपासः सत्यादिलक्षणः ।
सत्यकामस्तथा सत्यसङ्कल्पश्च सुरर्षभाः ॥ ११॥
यथा कर्मजिता लोकाः क्षीयन्ते भुवि सत्तमाः ।
तथा पुण्यजिता लोकाः क्षीयन्ते हि परत्र च ॥ १२॥
येऽविदित्वा परात्मानं व्रजन्ति सकलाः क्रियाः ।
तेषां सर्वेषु लोकेषु कामचारो न विद्यते ॥ १३॥
ये विदित्वा परात्मानं व्रजन्तीव क्रियाः स्थिताः ।
तेषां सर्वेषु लोकेषु कामचारस्तु विद्यते ॥ १४॥
यथा हिरण्यं निहितं क्षेत्रज्ञानविवर्जिताः ।
उपर्युपरि गच्छन्त्यो न विन्देयुः प्रजा इमाः ॥ १५॥
तथा सुषुप्तौ गच्छन्तो ब्रह्मलोकं स्वयम्प्रभम् ।
न विन्दन्ति महामोहादहो मोहस्य वैभवम् ॥ १६॥
अयं हृदि स्थितः साक्षी सर्वेषामविशेषतः ।
तेनायं हृदयं प्रोक्तं शिवः संसारमोचकः ॥ १७॥
य एवं वेद स स्वर्गं लोकमेति न संशयः ।
अस्माच्छरीरादुत्थाय सुषुप्तौ यः सुरर्षभाः ॥ १८॥
परं ज्योतिःस्वरूपं तं शिवं सम्पद्यते सुराः ।
अभिनिष्पद्यते स्वेन रूपेणैव स्वभावतः ॥ १९॥
एष आत्मा न चैवान्यः सत्यमेव मयोदितम् ।
एतदेवामृतं साक्षादभयं ब्रह्म हे सुराः ॥ २०॥
य आत्मा दहराकाशः स सेतुर्विधृतिः सुराः ।
असम्भेदाय लोकानामेषामेतं महेश्वरम् ॥ २१॥
अहोरात्रे न तरतो न मृत्युर्न जराऽपि च ।
न शोको नैव सुकृतं न दुष्कृतमपीश्वराः ॥ २२॥
अतः सर्वे निवर्तन्ते पाप्मानः सुरपुङ्गवाः ।
एषोऽपहतपाप्मा हि ब्रह्मलोकः स्वयम्प्रभः ॥ २३॥
तस्माद्वै सेतुमेतं तु तीर्त्वाऽन्धः सन्सुरर्षभाः ।
भवत्यनन्धो विद्धः सन्नविद्धस्तद्वदेव तु ॥ २४॥
य एषो दहराकाश इत्युक्तः परमेश्वरः ।
स देहादिविशेषेभ्यः पृथग्भूतः सनातनः ॥ २५॥
जाग्रत्स्वप्नसुषुप्ताख्याऽवस्था या भाति देहिनाम् ।
तस्या अपि महादेवः साक्षी भिन्नः स्वयम्प्रभः ॥ २६॥
तस्मिन्नध्यस्तरूपेण सा विभाति न भाति च ॥ २७॥
स्वदृश्येन शरीरेण सशरीरस्य सर्वदा ।
प्रियाप्रियाभ्यां सम्बन्धो भवत्येव न संशयः ॥ २८॥
अशरीरं वाव सन्तं विद्यया न प्रियाप्रिये ।
स्पृशतः सत्यमेवोक्तं नात्र सन्देहकारणम् ॥ २९॥
य एष दहराकाशः स एव सुरपुङ्गवाः ।
नामरूपस्य निर्माता तदेव ब्रह्म शाश्वतम् ॥ ३०॥
अमृतं च तदेवैतत्स आत्मा सर्वदेहिनाम् ।
ततो नान्यत्परं किञ्चिन्नापरं चास्ति किञ्चन ॥ ३१॥
स एव सर्वरूपेण विभाति न विभाति च ।
अहो रुद्रस्य देवस्य पूर्णता को नु वेद ताम् ॥ ३२॥
यथा मृत्स्वविकारेषु तत्तद्रूपेण संस्थिता ।
तथा सर्वत्र तत्साक्षी तत्तद्रूपेण संस्थितः ॥ ३३॥
यथा वारिविकारेषु जलं तत्तत्स्वरूपतः ।
तथा सर्वत्र तत्साक्षी तत्तद्रूपेण संस्थितः ॥ ३४॥
यथाऽग्निः स्वविकारेषु तत्तद्रूपेण संस्थितः ।
तथा सर्वत्र तत्साक्षी तत्तद्रूपेण संस्थितः ॥ ३५॥
यथा वा स्वविकारेषु वायुस्तत्तत्स्वरूपतः ।
तथा सर्वत्र तत्साक्षी तत्तद्रूपेण संस्थितः ॥ ३६॥
यथा वा सर्वगं व्योम स्वाकाराणैव संस्थितम् ।
तथा सर्वात्मकः साक्षी साक्षिरूपेण संस्थितः ॥ ३७॥
घटाकाशादिभेदेन विभिन्नोऽप्यविभागवान् ।
आकाशस्तद्वदीशानो विभिन्नोऽप्यविभागवान् ॥ ३८॥
महादेवोऽविभागेन विभागेन च भासते ।
अन्यथा चेन्महादेवो महादेवः कथं भवेत् ॥ ३९॥
महादेवो महादेव एव नैवामहानयम् ।
तथा सति महादेव एव सर्वं न चापरम् ॥ ४०॥
येन केनापि रूपेण यद्यद्भाति न भाति च ।
तेन तेनैव रूपेण शिव एवावभासते ॥ ४१॥
यथाभातेन रूपेण शिव एवेति या मतिः ।
सा शिवा परमा संविन्नापरा न हि संशयः ॥ ४२॥
अहमिति शिवसत्यचिद्घनः
स्फुरति सदा पृथगस्ति नैव वस्तु ।
इदमिति वपुषा च तेन बन्धनं
न हि मनुजस्य विमोचनं च किञ्चित् ॥ ४३॥
शिव इति सकलं यदा विभासते
न च मरणं जननं तदाऽस्ति किञ्चित् ।
इति हृदये वचनं मदीयमेत-
न्निशितमतिः सततं निधाय तिष्ठेत् ॥ ४४॥
परमशिवः परमेश्वरः प्रसन्नो
यदि विमला परमानुभूतिरेषा ।
न हि सकलैर्विमलैरुपायवृन्दै-
र्न च हरिणा न मया न चापरेण ॥ ४५॥
परमशिवः परमेश्वरः स्वतन्त्रो
यदि कुरुते मनुजस्य वेदनं हि तत् ।
परमपदं विमलं प्रयाति मर्त्यो
यदि कुरुते न शिवः प्रयाति बन्धम् ॥ ४६॥
दिनकरकिरणैर्हि शार्वरं तमो
निबिडतरं झटिति प्रणाशमेति ।
घनतरभवकारणान्तरं तमः
शिवदिनकृत्प्रभया न चापरेण ॥ ४७॥
हरिरहमप्यपरे सुरासुराद्याः
परमशिवप्रभया तिरस्कृताश्च ।
रविकिरणैरखिलान्यहानि यद्वत्
परमशिवः स्वत एव बोधकारी ॥ ४८॥
शिवचरणस्मरणेन पूजया च
स्वकतमसः परिमुच्यते हि जन्तुः ।
न हि मरणप्रभवप्रणाशहेतुः
शिवचरणस्मरणादृतेऽस्ति किञ्चित् ॥ ४९॥
परमशिवः खलु नः समस्तहेतुः
परमशिवः खलु नः समस्तमेतत् ।
परमशिवः खलु नः स्बरूपभूतः
परमशिवः खलु नः प्रमाणभूतः ॥ ५०॥
परमशिवः सकलागमादिनिष्ठः
परमशिवः परमानुभूतिगम्यः ।
परमशिवः परमानुभूतिरूपः
परमशिवः परमानुभूतिदश्च ॥ ५१॥
परमशिवसमुद्रेऽहं हरिः सर्वदेवा
मनुजपशुमृगाद्याः शीकरा एव सत्यम् ।
विमलमतिभिरेवं वेदवेदान्तनिष्ठै-
र्हृदयकुहरनिष्ठं वेदितुं शक्यते हि ॥ ५२॥
मायाबलेनैव हरिं शिवेन
समानमाहुः पुरुषाधमाश्च ।
मोहेन केचिन्मम साम्यमाहु-
र्माया तु शैवी खलु दुस्तरेयम् ॥ ५३॥
खद्योतो यदि चण्डभानुसदृशस्तुल्यो हरिः शम्भुना
किम्पाको यदि चन्दनेन सदृशस्तुल्योऽहमीशेन च ।
अज्ञानं यदि वेदनेन सदृशं देवेन तुल्या जनाः
किं वक्ष्ये सुरपुङ्गवा अहमहो मोहस्य दुश्चेष्टितम् ॥ ५४॥
अतः शिवेनैव समस्तमेत-
द्भवत्यनन्तेन न चापरेण ।
शिवस्वभावेन शिवः समस्तं
शिवप्रभावेन जगद्विचित्रम् ॥ ५५॥
तत्त्वदृक्सकलमद्वयं सदा
पश्यति स्म परिमोहितः पुमान् ।
कष्टशिष्टघटकुड्यरूपतः
कष्टमेव खलु तस्य वेदनम् ॥ ५६॥
इदं जगदिति स्वतः सकलजन्तोः प्रतीतिर्दृढा
परं जगदिति स्फुरत्यमलबोधस्वभावेन च ।
इदं हि परिवेदनं विमलचित्तस्य पुंसः सदा
भवं तरति मानवः परमबोधेन चैतेन हि ॥ ५७॥
छन्दोगश्रुतिमस्तके विनिहितं विज्ञानमेतन्मया
जन्तूनामविवेकिनामतितरामज्ञानविध्वस्तये ।
कारुण्यादमराधिपा अतिशुभब्रह्मामृतावाप्तये
देवानामधिपाधिपस्य वचनादुक्तं महेशस्य च ॥ ५८॥
इति ब्रह्मगीतासूपनिषत्सु दहरोपासनविवरणं
नाम षष्ठोऽध्यायः ॥ ६॥
॥ अथ सप्तमोऽध्यायः ॥
॥ वस्तुस्वरूपविचारः ॥
ब्रह्मोवाच ।
अस्ति तत्त्वं परं साक्षादक्षरं क्षरवस्तुनाम् ।
अधिष्ठानमनौपम्यमवाङ्मनसगोचरम् ॥ १॥
तस्मिन्सुविदिते सर्वं विज्ञातं स्यादिदं सुराः ।
तदात्मकत्वात्सर्वस्य नास्त्येव हि भिदा स्वतः ॥ २॥
द्वे विद्ये वेदितव्ये हि परा चैवापरापि च ।
तत्रापरा तु विद्यैषा ऋग्वेदो यजुरेव च ॥ ३॥
सामवेदस्तथाऽथर्ववेदः शिक्षा सुरर्षभाः ।
कल्पो व्याकरणं चैव निरुक्तं छन्द एव च ।
ज्योतिषं च तथाऽनात्मविषया अपि बुद्धयः ॥ ४॥
अथैषा परविद्या सा यया तत्परमक्षरम् ।
गम्यते सुदृढं प्राज्ञैः साक्षाच्छम्भोः प्रसादिभिः ॥ ५॥
यत्तदद्रेश्यमग्राह्यमगोत्रं रूपवर्जितम् ।
अचक्षुः श्रोत्रमत्यर्थं तदपाणिपदं सदा ॥ ६॥
नित्यं विभुं सर्वगतं सुसूक्ष्मं च तदव्ययम् ।
यद्भूतयोनिं धीमन्तः परिपश्यन्ति चात्मना ॥ ७॥
यथोर्णनाभिः सृजते गृह्णते च सुरर्षभाः ।
यथा पृथ्व्यामोषधयः सम्भवन्ति यथा सतः ॥ ८॥
पुरुषात्केशलोमानि तथा चैवाक्षरात्सुराः ।
विश्वं सम्भवतीहैव तत्सर्वं स्वपनोपमम् ॥ ९॥
तपसा चीयते ब्रह्म तदन्नमभिजायते ।
अन्नात्प्राणो मनः सत्यं लोकाः कर्मसु चामृतम् ॥ १०॥
यः सर्वज्ञः सर्वविद्यो यस्य ज्ञानमयं तपः ॥ ११॥
तस्मादेतत्सुरा ब्रह्म नामरूपान्नपूर्वकम् ।
जायते सत्यवत्स्वप्नप्रपञ्चोपममेव तत् ॥ १२॥
तदेतदक्षरं सत्यं तद्विज्ञाय विमुच्यते ।
कर्मणा नास्ति तत्प्राप्तिः संसारस्य विनाशनम् ।
प्लवा ह्येते सुरा यज्ञा अदृढाश्च न संशयः ॥ १३॥
एभिरेव परं श्रेय इति जानन्ति ये जनाः ।
ते मूढा अनिशं मृत्युं जरां चैवापियन्ति हि ॥ १४॥
कर्मनिष्ठाः स्वयं धीरा मर्त्याः पण्डितमानिनः ॥ १५॥
मूढा एव न विद्वांसस्तेषां नास्ति परा गतिः ।
अन्धेनैव यथा चान्धा नीयमानाः सुदारुणे ॥ १६॥
अन्धकूपे पतन्त्येव तथा कर्मरता जनाः ।
कर्मनिष्ठा स्वयं सर्वे कृतार्था इति मोहिताः ॥ १७॥
अभिमन्यन्ति ते कर्मक्षये वश्यं पतन्ति हि ।
विना नास्ति परं ज्ञानं तेषां कैवल्यमुत्तमम् ॥ १८॥
इष्टापूर्तं मन्यमाना वरिष्ठमिति ये जनाः ।
ते मूढाः परमं श्रेयो नैव यान्ति न संशयः ॥ १९॥
अनेकजन्मसंसिद्धः श्रौतस्मार्तपरायणः ।
अनित्यमिति विज्ञाय जगद्वैराग्यमाप्नुयात् ॥ २०॥
ज्ञानादेव हि संसारविनाशो नैव कर्मणा ।
इति ज्ञात्वा शिवज्ञानसिद्ध्यर्थं पुनरास्तिकाः ॥ २१॥
श्रोत्रियं ब्रह्मनिष्ठं च गुरुं गच्छेत्प्रियेण च ।
गुरुस्तस्मै परां विद्यां दद्याच्च सुरपुङ्गवाः ॥ २२॥
विस्फुलिङ्गा यथा चाग्नेः सुदीप्तात्प्रभवन्ति च ।
अपियन्ति तथा भावा अक्षरे शिवसञ्ज्ञके ॥ २३॥
दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः ।
अप्राणो ह्यमनाः शुभ्रो मायाया जीवतः परः ॥ २४॥
एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापश्च भूमिर्विश्वस्य धारिणी ॥ २५॥
अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ
दिशः श्रोत्रे वाग्विवृताश्च वेदाः ।
वायुः प्राणो हृदयं विश्वमस्य
पद्भ्यां भूमिः शङ्करोऽयं हि सत्यः ॥ २६॥
तस्मादग्निः समिधो यस्य सूर्यः
सोमाद्वृष्टिश्चौषधयः पृथिव्याम् ।
पुमान् रेतः सिञ्चति योषितायां
बह्वीः प्रजा बहुधा सम्प्रसूताः ॥ २७॥
तस्मादृचः साम यजूंषि दीक्षा
यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च ।
संवत्सरो यजमानश्च लोकः
सोमो यत्र पवते यत्र सूर्यः ॥ २८॥
तस्माद्देवा बहुधा सम्प्रसूताः
साध्या मर्त्याः पशवः पक्षिणश्च ।
प्राणापानौ व्रीहियवौ तपश्च
श्रद्धा सत्यं ब्रह्मचर्यं विधिश्च ॥ २९॥
तस्मात्प्राणा अर्चिषः सप्त होमाः
सुरश्रेष्ठाः समिधः सप्त चैव ।
लोकाः सर्वे चोद्भवन्त्याशु पूर्वं
यथा तद्वत्स्वप्नतुल्यं तथाऽपि ॥ ३०॥
अतः समुद्रा गिरयश्च नद्य-
स्तथा सर्वा ओषधयो रसाश्च ।
सर्वस्यात्मा सर्वसाक्षी परात्मा
नित्यानन्दोऽयं पुराणः सुपूर्णः ॥ ३१॥
इदं सकलमास्तिकाः पुरुष एव नैवापरं
न किञ्चिदपरं ततः सकलमस्ति सत्यं हि तत् ।
इदं हि मम वेदनं मुनिगणस्य शम्भोर्हरे-
र्न कश्चिदपि संशयः श्रुतिमतस्य युक्तः खलु ॥ ३२॥
अहो विषयमायया मरणपूर्वदुःखोदधौ
पतन्ति मनुजा अमी परशिवस्य विद्यां विना ।
तरन्ति जननार्णवं परशिवस्य विद्याबला-
दिदं तु शिववेदनं शिवपदस्य देवाबलात् ॥ ३३॥
गुहायां निहितं साक्षादक्षरं वेद चेन्नरः ।
छित्त्वाऽविद्यामहाग्रन्थिं शिवं गच्छेत्सनातनम् ॥ ३४॥
तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ्मनः ।
तदेतदमृतं सत्यं तद्वेद्धव्यं मनीषिभिः ॥ ३५॥
धनुस्तारं शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते ।
अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥ ३६॥
लक्ष्यं सर्वगतं चैव शरोऽयं सर्वतोमुखः ।
वेद्धा सर्वगतश्चैव विद्धं लक्ष्यं न संशयः ॥ ३७॥
आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।
ध्याननिर्मथनाभ्यासाद्देव पश्येन्निगूढवत् ॥ ३८॥
द्यौरन्तरिक्षं भूमिश्च मनः प्राणः सुरोत्तमाः ।
यस्मिन्नोतं तमेवैकं विद्यात्प्राज्ञः समाहितः ॥ ३९॥
ब्रह्मैकविषयां वाचं वदेत्सततमास्तिकाः ।
अन्या वाचस्त्यजेदेष सेतुरेवामृतस्य च ॥ ४०॥
यः सर्वज्ञः सर्वविद्यो यस्यैष महिमा भुवि ।
दिव्ये ब्रह्मपुरे व्योम्नि शिवः साक्षात्प्रतिष्ठितः ॥ ४१॥
मनोमयः प्राणशरीरनेता
प्रतिष्ठितः सर्वहृदम्बुजान्तः ।
तद्विज्ञानेन परिमुच्यन्ति धीरा
यद्भाति चानन्दवपुः स्वभावात् ॥ ४२॥
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ ४३॥
हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् ।
तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः ॥ ४४॥
न तत्र सूर्यश्चन्द्रश्च तारका विद्युतोऽनलः ।
विभान्ति शङ्करे साक्षात्स्वयम्भाने चिदात्मके ॥ ४५॥
तमेव सकलं भान्तमनुभाति स्वभावतः ।
तस्य भासा सर्वमिदं विभाति तत एव हि ॥ ४६॥
न तत्र चन्द्रार्कवपुः प्रकाशते
न वान्ति वाताः सकलाश्च देवताः ।
स एष देवः कृतभूतभावनः
स्वयं विशुद्धो विरजः प्रकाशते ॥ ४७॥
ब्रह्मैवेदममृतं तत्पुरस्ता-
द्ब्रह्मानन्तं परमं चैव पश्चात् ।
ब्रह्मानन्तं परमं दक्षिणे च
ब्रह्मानन्तं परमं चोत्तरे च ॥ ४८॥
द्वौ सुपर्णौ शरीरेऽस्मिन्
जीवेशाख्यौ सह स्थितौ ।
तयोर्जीवः फलं भुङ्क्ते
कर्मणो न महेश्वरः ॥ ४९॥
केवलं साक्षिरूपेण विना भोगं महेश्वरः ।
प्रकाशते स्वयम्भेदः कल्पितो मायया तयोः ॥ ५०॥
यथाकाशो घटाकाशमहाकाशमभेदतः ।
कल्पितः परचिज्जीवः शिवरूपेण कल्पितः ॥ ५१॥
तत्त्वतश्चिच्छिवः साक्षाच्चिज्जीवश्च ततः सदा ।
चिच्चिदाकारतोऽभिन्ना न भिन्न चित्त्वहानितः ॥ ५२॥
चितश्चिन्न चिदाकाराद्भिद्यते जडरूपतः ।
भिद्यते चेज्जडे भेदश्चिदेका सर्वदा खलु ॥ ५३॥
तर्कतश्च प्रमाणाच्च चिदेकत्वे व्यवस्थिते ।
अपि पापवतां पुंसां विपरीता मतिर्भवेत् ॥ ५४॥
श्रौतस्मार्तसमाचारैर्विशुद्धस्य महात्मनः ।
प्रसादादेव रुद्रस्य चिदेकत्वे मतिर्भवेत् ॥ ५५॥
चिदेकत्वपरिज्ञानान्न शोचति न मुह्यति ।
अद्वैतं परमानन्दं शिवं याति तु केवलम् ॥ ५६॥
शिवस्थाने शरीरेऽस्मिन्स्थितोऽपि स्वात्ममायया ।
दुःखादिसागरे मग्नो मुह्यमानश्च शोचति ॥ ५७॥
स्वस्मादन्यतया भातमीशं स्वेनैव सेवितम् ।
अधिष्ठानं समस्तस्य जगतः सत्यचिद्घनम् ॥ ५८॥
अहमस्मीति निश्चित्य वीतशोको भवत्ययम् ।
अस्य चिन्मात्ररूपस्य स्वस्य सर्वस्य साक्षिणः ॥ ५९॥
महिमानं यदा वेद परमाद्वैतलक्षणम् ।
तदैव विद्यया साक्षाद्वीतशोको भवत्ययम् ॥ ६०॥
ब्रह्मयोनिं सदा पूर्णं रुक्मवर्णं महेश्वरम् ।
अपश्यन्नेव पश्यन्तं कर्तृत्वेन प्रकाशितम् ॥ ६१॥
अनेककोटिभिः कल्पैरर्जितैः पुण्यकर्मभिः ।
तर्कतश्च प्रमाणाच्च प्रसादात्परमेश्वरात् ॥ ६२॥
पश्यति श्रद्धया चापि यदा विद्वान्सुरर्षभाः ।
पुण्यपापे विधूयायमसक्तः सर्वहेतुभिः ॥ ६३॥
सर्वाकारतया साम्यं परमाद्वैतलक्षणम् ।
उपैति नात्र सन्देहः कर्तव्यश्च मनीषिभिः ॥ ६४॥
चिन्मात्रं हि सदा रूपमुभयोः शिवजीवयोः ।
तथा सति कथं साम्यं चिन्मात्रे भेदवर्जिते ॥ ६५॥
उपाधियुक्तरूपे तु तयोः साम्यं भवेद्यदि ।
तदाऽपि नैव साम्यं स्याज्जीवस्य परमात्मनः ॥ ६६॥
महाकाशसमत्वं तु घटाकाशस्य सर्वथा ।
यथा नास्ति तथा साम्यं न जीवस्य शिवेन तु ॥ ६७॥
अस्तु वा साम्यमीशेन जीवस्यास्य तदाऽपि तु ।
कर्मणा विद्यया वा तत्साम्यं सिध्यति नान्यथा ॥ ६८॥
कर्मणा चेद्विनाशः स्यात्कर्मसाध्यं हि नश्वरम् ।
विद्ययैव तु चेत्साम्यं पुरस्तादेव चास्ति हि ॥ ६९॥
पुरस्तादेव सिद्धस्य बोधकं खलु वेदनम् ।
अभूतार्थस्य चोत्पत्तिं न करोति कदाचन ॥ ७०॥
तत्रैवं सति साम्यं तु तयोः सर्वात्मनैव तु ।
पुरस्तादेव चास्त्येव तदाऽपि शिवजीवयोः ॥ ७१॥
पुरस्तादेव कैवल्यं लक्षणैकत्वतोऽस्ति च ।
तथा सति शिवो भिन्नो विद्ययाऽभिन्नवत्स्थितः ॥ ७२॥
विद्यया तद्विनाशेन स्वसाम्यं याति नान्यथा ।
अतः साम्यं तयोः साक्षादैक्यमेव न चेतरत् ॥ ७३॥
एवं जीवः स्वकं रूपं शिवं पश्यति चेद्दृढम् ।
स्वात्मन्येव रतिं क्रीडामन्यच्च कुरुते सदा ॥ ७४॥
बहिश्चेष्टा च मय्येव शिवे सत्यसुखात्मके ।
इति जानाति सर्वं तु स्वात्मनैव हि भासते ॥ ७५॥
स्वात्मनैव स्वयं सर्वं यदा पश्यति निर्भयः ।
तदा मुक्तो न मुक्तश्च बद्धस्य हि विमुक्तता ॥ ७६॥
एवं रूपा परा विद्या सत्येन तपसाऽपि च ।
ब्रह्मचर्यादिभिर्धर्मैर्लभ्या वेदोक्तवर्त्मना ॥ ७७॥
शरीरेऽन्तः स्वयञ्ज्योतिःस्वरूपं स्वकमैश्वरम् ।
क्षीणदोषाः प्रपश्यन्ति नेतरे माययाऽऽवृताः ॥ ७८॥
एवं रूपपरिज्ञानं यस्यास्ति परयोगिनः ।
कुत्रचिद्गमनं नास्ति तस्य सम्पूर्णरूपिणः ॥ ७९॥
आकाशमेकं सम्पूर्णं कुत्रचिन्नैव गच्छति ।
तद्वत्स्वात्मविभुत्वज्ञः कुत्रचिन्नैव गच्छति ॥ ८०॥
न चक्षुषा गृह्यते नापि वाचा
नान्यैर्देवैस्तपसा कर्मणा वा ।
ज्ञानप्रसादेन विशुद्धसत्त्वः
स निष्कलं पश्यति रूपमैशम् ॥ ८१॥
ध्यानेन परमेशस्य साम्बमूर्तिधरस्य च ।
स्वनिष्कलपरिज्ञानं जायते नान्यहेतुना ॥ ८२॥
एष आत्मा सुसूक्ष्मोऽपि वेदितव्योऽग्र्यया धिया ।
पञ्चधा सन्निविष्टोऽसुर्यस्मिन्सर्वाश्रये सुराः ॥ ८३॥
संविभाति स्वचित्तेन यं यं लोकं विशुद्धधीः ।
सदा कामयते यांश्च तज्जयत्यखिलं ततः ॥ ८४॥
तस्मादात्मविदं साक्षादीश्वरं भवतारकम् ।
अर्चयेद्भूतिकामस्तु स्वशरीरेण चार्थतः ॥ ८५॥
नायमात्मा प्रवचनेन लभ्यो
न मेधया न बहुना श्रुतेन ।
यमेवैष वृणुते तेन लभ्य-
स्तस्यैष आत्मा विवृणुते तनुं स्वाम् ॥ ८६॥
नायमात्मा बलहीनेन लभ्यः
प्रमादतस्तपसो नान्यलिङ्गात् ।
एतैर्यत्नं यः करोत्येव धीमां-
स्तस्यात्माऽयं विशते ब्रह्म धाम ॥ ८७॥
सम्प्राप्यैनमृषयो ज्ञानतृप्ताः
कृतात्मानो वीतशोकाः प्रशान्ताः ।
ते सर्वगं सर्वशः प्राप्य धीरा
युक्तात्मानः सर्वमेवाविशन्ति ॥ ८८॥
वेदान्तविज्ञानसुनिश्चितार्थाः
सन्न्यासयोगाद्यतयः शुद्धसत्त्वाः ।
ते ब्रह्मलोके तु परान्तकाले
परामृतात्परिमुच्यन्ति सर्वे ॥ ८९॥
गताः कलाः पञ्चदश प्रतिष्ठा
देवाश्च सर्वे प्रतिदेवताश्च ।
कर्माणि विज्ञानमयश्च आत्मा
परेऽव्यये सर्व एकीभवन्ति ॥ ९०॥
यथा नद्यः स्यन्दमानाः समुद्रे
अस्तं यान्ति नामरूपे विहाय ।
तथा विद्वान्नामरूपाद्विमुक्तः
परात्परं पुरुषं ब्रह्म याति ॥ ९१॥
स यो ह वै तत्परमं ब्रह्म वेद सुरर्षभाः ।
ब्रह्मैव भवति ज्ञानान्नास्ति संशयकारणम् ॥ ९२॥
सुनिश्चितं परं ब्रह्म वेद चेत्स्वानुभूतितः ।
कुले भवति नाब्रह्मवित्तस्य सुरपुङ्गवाः ॥ ९३॥
शोकं तरति पाप्मानं गुहाग्रन्थिर्विनश्यति ।
अमृतो भवति प्राज्ञः सत्यमेव मयोदितम् ॥ ९४॥
सर्वमुक्तमतिशोभनं मया
शोकमोहपटलस्य भेदकम् ।
आशु सत्यसुखबोधवस्तुदं
वेदमाननिरतस्य भासते ॥ ९५॥
इति ब्रह्मगीतासूपनिषत्सु वस्तुस्वरूपविचारो
नाम सप्तमोऽध्यायः ॥ ७॥
॥ अथ अष्टमोऽध्याः ॥
॥ कैवल्योपनिषद्विवरणे तत्त्ववेदनविधिः ॥
ब्रह्मोवाच -
अस्ति तत्त्वं परं साक्षाच्छिवरुद्रादिसंज्ञितम् ।
तदवश्यं महायासाद्वेदितव्यं मनीषिभिः ॥ १॥
तद्विद्या यतिभिः सेव्या निगूढातीव शोभना ।
अचिरात्सर्वपापघ्नी परब्रह्मप्रदा नृणाम् ॥ २॥
श्रद्धया परया (च महा) भक्त्या ध्यानेन च सुरोत्तमाः ।
योगेन च परा विद्या लभ्या सा नैव कर्मणा ।
न प्रजाभिर्न चार्थेन त्यागेनैषां सुरर्षभाः ॥ ३॥
ये वेदान्तमहावाक्यश्रवणोत्पन्नविद्यया ।
सुनिश्चितार्था यतयो विशुद्धहृदया भृशम् ॥ ४॥
ब्रह्मदृश्ये शरीरेऽस्मिन्नन्तकाले परस्य तु ।
अज्ञानाख्यस्य ते सर्वे मुच्यन्ति हि परामृतात् ॥ ५॥
अतो विद्याऽऽप्तिसिद्ध्यर्थं मुमुक्षुर्मतिमत्तमः ॥ ६॥
विविक्तं देशमाश्रित्य सुखासीनो महाशुचिः ।
समग्रीवशिरःकायः सितभस्मावगुण्ठितः ॥ ७॥
इन्द्रियाणि समस्तानि निरुध्य सुरपुङ्गवाः ।
प्रणम्य स्वगुरुं भक्त्या विचिन्त्य हृदयाम्बुजम् ॥ ८॥
विशुद्धं विरजं तस्य मध्ये विशदमीश्वरम् ।
अनन्तं शुद्धमव्यक्तमचिन्त्यं सर्वजन्तुभिः ॥ ९॥
शिवं प्रशान्तममृतं वेदयोनिं सुरर्षभाः ।
आदिमध्यान्तनिर्मुक्तमेकं साक्षाद्विभुं तथा ॥ १०॥
अरूपं सच्चिदानन्दमद्भुतं परमेश्वरं ।
उमासहायमोमर्थं प्रभुं साक्षात्त्रिलोचनम् ।
नीलकण्ठं प्रशा(भा)न्तस्तं(स्थं) ध्यायेन्नित्यमतन्द्रितः ॥ ११॥
एवं ध्यानपरः साक्षान्मुनिर्ब्रह्मात्मविद्यया ॥ १२॥
भूतयोनिं समस्तस्य साक्षिणं तमसः परम् ।
गच्छत्येव न सन्देहः सत्यमुक्तं मया सुराः ॥ १३॥
योऽयं ध्येयश्च विज्ञेयः शिवः संसारमोचकः ।
स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट् ॥ १४॥
स एव विष्णुः स प्राणः स कालोऽग्निः स चन्द्रमाः ।
स एव सर्वं यद्भूतं यच्च भव्यं समासतः ॥ १५॥
स एव विद्याविद्या च न ततोऽन्यत्तु किञ्चन ।
ज्ञात्वा तं मृत्युमत्येति नान्यः पन्था विमुक्तये ॥ १६॥
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
सम्पश्यन्ब्रह्म परमं याति नान्येन हेतुना ॥ १७॥
आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।
ध्याननिर्मथनादेव पा(शा)पान्दहति पण्डितः ॥ १८॥
स एव भगवानीशो माययैवात्मभूतया ।
मुह्यमान इव स्थित्वा स्वस्वातन्त्र्यबलेन तु ॥ १९॥
शरीरमिदमास्थाय करोति सकलं पुनः ।
जाग्रत्संज्ञमिदं धाम प्रकल्प्य स्वीयमायया ॥ २०॥
राजपुत्रादिवत्तस्मिन्क्रीडया केवलं हरः ।
अन्नपानादिभिः स्त्रीभिस्तृप्तिमेति सुरर्षभाः ॥ २१॥
स्वप्नकाले तथा शम्भुर्जीवत्वेन प्रकाशितः ।
सुखदुःखादिकान्भोगान्भुङ्क्ते स्वेनैव निर्मितान् ॥ २२॥
सुषुप्तिकाले सकले विलीने तमसाऽऽवृतः ।
स्वस्वरूपमहानन्दं भुङ्क्ते विश्व(दृश्य)विवर्जितः ॥ २३॥
पुनः पूर्वक्रियायोगाज्जीवत्वेन प्रकाशितः ।
जाग्रत्संज्ञमिदं धाम याति स्वप्नमथापि वा ॥ २४॥
पुरत्रयमिदं पुंसो भोगायैव विनिर्मितम् ।
भोगश्चास्य सदा क्रीडा न दुःखाय कदाचन ॥ २५॥
विश्वाधिको महानन्दः स्वतन्त्रो निरुपद्रवः ।
असक्तः सर्वदोषैश्च कथं दुःखी भवेद्धरः ॥ २६॥
स न जीवः शिवादन्यो यो भुङ्क्ते कर्मणां फलम् ।
भेदाभावाच्चितश्चेत्यं न कर्मफलमर्हति ॥ २७॥
अतः सर्वजगत्साक्षी चिद्रूपः परमेश्वरः ।
अद्वितीयो महानन्दः क्रीडया भोगमर्हति ॥ २८॥
धामत्रयमिदं शम्भोर्न दुःखाय कदाचन ।
क्रीडारामतया भाति न चोद्यार्हो महेश्वरः ॥ २९॥
इदं धामत्रयं शम्भोर्विभेदेन न विद्यते ।
शम्भुरेव तथा भाति न ह्यन्यत्परमेश्वरात् ॥ ३०॥
जाग्रत्स्वप्नसुषुप्त्याख्यावस्थारूपेण भाति यः ।
स विश्वतैजसप्राज्ञसमाख्याः क्रमशो भवेत् ॥ ३१॥
विश्वो हि स्थूलभुङ्नित्यं तैजसः प्रविविक्तभुक् ।
प्राज्ञस्त्वानन्दभुक्साक्षी केवलः सुखलक्षणः ॥ ३२॥
त्रिषु धामसु यद्भोग्यं भोक्ता यश्च प्रकीर्तितः ।
उभयं ब्रह्म यो वेद स भुञ्जानो न लिप्यते ॥ ३३॥
अश्वमेधसहस्राणि ब्रह्महत्याशतानि च ।
कुर्वन्नपि न लिप्येत यद्येकत्वं प्रपश्यति ॥ ३४॥
जीवरूप इव स्थित्वा यः क्रीडति पुरत्रये ।
स न जीवः सदा शम्भुः सत्यमेव न संशयः ॥ ३५॥
ततस्तु जातं सकलं विचित्रं सत्यवत्सुराः ।
स सत्योऽसत्यसाक्षित्वात्साक्षित्वाच्चित्सुखं तथा ॥ ३६॥
प्रेमास्पदत्वादद्वैतो भेदाभावात्सुरर्षभाः ।
तस्मिन्नैव लयं याति पुरत्रयमिदं ततः ॥ ३७॥
न जीवो जीववद्भाति साक्षाद्ब्रह्मैव केवलम् ।
अज्ञानाज्जीवरूपेण भासते न स्वभावतः ॥ ३८॥
ब्रह्मणो जायते प्राणो मनः सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापश्च भूमिर्विश्वस्य धारिणी ॥ ३९॥
यत्परं ब्रह्म सर्वात्मा विश्वस्यायतनं महत् ।
सूक्ष्मात्सूक्ष्मतमं नित्यं तत्त्वंशब्दार्थ एव हि ॥ ४०॥
यस्त्वंशब्दस्य लक्ष्यार्थः स तच्छब्दार्थ एव हि ।
तत्त्वंशब्दौ स्वतःसिद्धे चिन्मात्रे पर्यवस्यतः ॥ ४१॥
यः पदद्वयलक्ष्यार्थस्तस्मिन्भेदः प्रकल्पितः ।
मायाविद्यात्मकोपाधिभेदेनैव न वस्तुतः ॥ ४२॥
स्वतःसिद्धैकताज्ञानं व्युदस्य श्रुतिरादरात् ।
स्वभावसिद्धमेकत्वं बोधयत्यधिकारिणः ॥ ४३॥
जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चत्वेन भाति यत् ।
तद्ब्रह्माहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते ॥ ४४॥
यस्तु ब्रह्म विजानाति स्वात्मना सुदृढं नरः ।
तस्य स्वानुभवस्त्वेवं स्वभावादनुवर्तते ॥ ४५॥
त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यस्तथा ।
तेभ्यो विलक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः ॥ ४६॥
मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् ।
मयि सर्वं लयं याति तद्ब्रह्माद्वयमस्म्यहम् ॥ ४७॥
अणोरणीयानहमेव तद्व-
न्महानहं विश्वमहं विशुद्धः ।
पुरातनोऽहं पुरुषोऽहमीशो
हिरण्मयोऽहं शिवरूपमस्मि ॥ ४८॥
अपाणिपादोऽहमचिन्त्यशक्तिः
पश्याम्यचक्षुश्च शृणोम्यकर्णः ।
अहं विजानामि विविक्तरूपो
न चास्ति वेत्ता मम चित्सदाऽहम् ॥ ४९॥
वेदैरनेकैरहमेव वेद्यो
वेदान्तकृद्वेदविदेव चाहम् ।
न पुण्यपापे मम नास्ति नाशो
न जन्म देहेन्द्रियबुद्धयश्च ॥ ५०॥
न भूमिरापो मम नैव वह्नि-
र्न चानिलो मेऽस्ति न चाम्बरं च ।
सदाऽहमेवाहमिति स्फुरामि
स्वभावतश्चेदमिति स्फुरामि ॥ ५१॥
अभातरूपेण तथैव सर्वदा
विभातरूपेण च भानरूपतः ।
अभानरूपेण च सर्वरूपतः
स्फुरामि देवोऽहमतः पुरातनः ॥ ५२॥
एवं विदित्वा परमात्मरूपं
गुहाशयं निष्कलमद्वितीयम् ।
समस्तभानं सदसद्विहीनं
प्रयाति शुद्धं परमात्मरूपम् ॥ ५३॥
अतश्च वेदान्तवचोभिरञ्जसा
मुमुक्षुभिर्नित्यमशेषनायकः ।
गुरूपदेशेन च तर्कतस्तथा
विचिन्तनीयश्च विशेषतः शिवः ॥ ५४॥
कैवल्योपनिषत्परा परकृपायुक्ता यदुच्चैर्मुदा
प्रोवाच प्रतितौजसैरपि हरिब्रह्मादिभिश्चादृतम् ।
हे देवा अहमुक्तवानतिशुभब्रह्मापरोक्षाय त-
त्सर्वेषामधिकारिणां मतमिदं वित्तातिभक्त्या सह ॥ ५५॥
इति ब्रह्मगीतासूपनिषत्सु कैवल्योपनिषद्विवरणे
तत्त्ववेदनविधिर्नामाष्टमोऽध्यायः ॥ ८॥
॥ अथ नवमो।ध्यायः ॥
॥ बृहादारण्यकोपनिषद्व्याख्यानम् ॥
ब्रह्मोवाच ।
प्रत्यग्रूपः शिवः साक्षात्परानन्दस्वलक्षणः ।
परप्रेमास्पदत्वेन प्रतीतत्वात्सुरर्षभाः ।
परप्रेमास्पदानन्दः सुरा आनन्द एव हि ॥ १॥
प्रियो भवति भार्यायाः पतिः सोऽयं सुरर्षभाः ॥ २॥
पतिर्न पत्युः कामाय प्रियो भवति सर्वथा ।
किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम् ॥ ३॥
जायायास्तु न कामाय न हि जाया प्रिया मता ।
किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम् ॥ ४॥
पुत्राणां तु न कामाय प्रियाः पुत्रा भवन्ति च ।
किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम् ॥ ५॥
ब्रह्मणस्त्वेव कामाय न ब्रह्म भवति प्रियम् ।
किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम् ॥ ६॥
क्षत्रस्यैव तु कामाय न क्षत्रं भवति प्रियम् ।
किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम् ॥ ७॥
वित्तस्यैव तु कामाय न वित्तं भवति प्रियम् ।
किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम् ॥ ८॥
लोकानामेव कामाय न भवन्ति प्रियाश्च ते ।
किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम् ॥ ९॥
देवानामपि कामाय प्रिया देवा भवन्ति न ।
किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम् ॥ १०॥
वेदानामेव कामाय प्रिया वेदा भवन्ति न ।
किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम् ॥ ११॥
भूतान्यपि च भूतानां कामाय न भवन्ति च ।
किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम् ॥ १२॥
सर्वस्यैव तु कामाय न सर्वं भवति प्रियम् ।
किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम् ॥ १३॥
अतः प्रियतमो ह्यात्मा सुखवत्सुखलक्षणः ।
सुखाभिलाषिभिः सोऽयं त्यक्त्वा कर्माणि सादरम् ॥ १४॥
द्रष्टव्यस्तु सुरा नित्यं श्रोतव्यश्च तथैव च ।
मन्तव्यश्च विचिन्त्यश्च सर्वं तद्दर्शनादिभिः ॥ १५॥
दुःखराशेर्विनाशाय परमाद्वैतविद्भवेत् ॥ १६॥
परमाद्वैतविज्ञानात्संसारः प्रविणश्यति ।
स्वतःसिद्धाद्वयानन्दः स्वयमेव विभाति च ॥ १७॥
परादात्तं सुरा ब्रह्म स्वतोऽन्यद्ब्रह्म वेद यः ।
तथा परादात्क्षत्रं तं लोका अपि तथैव च ॥ १८॥
देवा वेदाश्च भूतानि परादुः खलु तं पशुम् ।
स्वस्वरूपात्परं किञ्चिदपि पश्यन्प्रणश्यति ॥ १९॥
ब्रह्मक्षत्रादिभेदेन प्रतीता ह्यखिला अमी ।
वर्णास्तथाऽऽश्रमाः सर्वे सङ्कराः सकला अपि ॥ २०॥
देवगन्धर्वपूर्वाश्च भूतानि भुवनानि च ।
अस्ति नास्तीति शब्दार्थौ तथैवान्यच्च किञ्चन ॥ २१॥
मायाविद्यातमोमोहप्रभेदा अखिला अपि ।
सर्वमात्मैव नैवान्यदन्यबुद्धिर्हि संसृतिः ॥ २२॥
निर्विकल्पे परे तत्त्वे विद्यया बुद्धिविश्रमः ।
सा हि संसारविच्छित्तिर्नापरा पुरुषाधिका ॥ २३॥
प्रतीतमविशेषेण सकलं ब्रह्म यः पुमान् ।
वेद तं शिरसा नित्यं प्रणयामि जगद्गुरुम् ॥ २४॥
वेदा बहुमुखा भान्ति स्मृतयश्च तथैव च ।
पुराणानि समस्तानि बुद्धार्हाद्यागमान्तराः ॥ २५॥
शैवाश्च वैष्णवाश्चैव मदुक्ता आगमा अपि ।
अपभ्रंशाः समस्ताश्च केवलं लौकिकी मतिः ॥ २६॥
तर्काश्च विविधाः सूक्ष्माः स्थूलाश्च सकला अपि ।
परस्परविरोधेन प्रभान्ति सकलात्मनाम् ॥ २७॥
तेषामेवाविरोधे तु कालो याति च धीमताम् ।
कथञ्चित्कालसद्भावेऽप्यविरोधो न सिध्यति ॥ २८॥
अतः सर्वं परित्यज्य मनसो मलकारणम् ।
यथाभातेन रूपेण शिवं पश्येत्सुनिश्चलः ॥ २९॥
क्रिमिकीटपतङ्गेभ्यः पशवः प्रज्ञयाऽधिकाः ।
पश्वादिभ्यो नराः प्राज्ञास्तेषु केचन कोविदाः ॥ ३०॥
तथा तेभ्यश्च गन्धर्वाः पितरो मतिमत्तमाः ।
अन्ये च तारतम्येन पण्डिता उतरोत्तरम् ॥ ३१॥
यूयं सत्त्वोत्कटाः प्राज्ञाः सर्वेषामपि हे सुराः ।
युष्मभ्योऽहं महाप्राज्ञो मत्तः प्राज्ञो जनार्दनः ॥ ३२॥
जनार्दनादपि प्राज्ञः शङ्करो गुणमूर्तिषु ।
ततः प्राज्ञतमः साक्षाच्छिवः साम्बः सनातनः ॥ ३३॥
स एव साक्षात्सर्वज्ञस्ततोऽन्यो नास्ति कश्चन ।
तस्माद्विद्यामिमां त्यक्त्वा ब्रह्म सर्वं विलोकयेत् ॥ ३४॥
आयासस्तावदत्यल्पः फलं मुक्तिरिहैव तु ।
तथाऽपि परमाद्वैतं नैव वाञ्छन्ति मानवाः ॥ ३५॥
कदाचिदपि चित्तस्य भयं किञ्चिन्न विद्यते ।
तथाऽपि परमाद्वैतं नैव वाञ्छन्ति मानवाः ॥ ३६॥
स्वस्वरूपातिरेकेण नास्ति मानं विरोधि च ।
तथाऽपि परमाद्वैतं नैव वाञ्छन्ति मानवाः ॥ ३७॥
स्वस्वरूपातिरेकेण तर्कश्च न हि विद्यते ।
तथाऽपि परमाद्वैतं नैव वाञ्छन्ति मानवाः ॥ ३८॥
श्रुतिस्मृतिपुराणानि प्राहुरेकत्वमात्मनः ।
तथाऽपि परमाद्वैतं नैव वाञ्छन्ति मानवाः ॥ ३९॥
अनुग्राहकतर्कश्च कुरुते तर्कवेदनम् ।
तथाऽपि परमाद्वैतं नैव वाञ्छन्ति मानवाः ॥ ४०॥
शिवागमेषु चाद्वैतं बभाषे परमेश्वरः ।
तथाऽपि परमाद्वैतं नैव वाञ्छन्ति मानवाः ॥ ४१॥
नारायणोऽपि चाद्वैतं बभाषे स्वागमेषु च ।
तथाऽपि परमाद्वैतं नैव वाञ्छन्ति मानवाः ॥ ४२॥
अहं चावोचमद्वैतं मदुक्तेष्वागमेषु च ।
तथाऽपि परमाद्वैतं नैव वाञ्छन्ति मानवाः ॥ ४३॥
अन्ये च योगिनः सर्वे प्राहुरद्वैतमात्मनः ।
तथाऽपि परमाद्वैतं नैव वाञ्छन्ति मानवाः ॥ ४४॥
विशुद्धज्ञानिनां देवा निष्ठाऽप्यद्वैतगोचरा ।
तथाऽपि परमाद्वैतं नैव वाञ्छन्ति मानवाः ॥ ४५॥
केचित्सामान्यमद्वैतं वदन्ति भ्रान्तचेतसः ।
विशेषं द्वैतमाश्रित्य न तेषामस्ति वेदनम् ॥ ४६॥
द्वैतमेव हि सर्वत्र प्रवदन्ति हि केचन ।
न ते मनुष्याः कीटाश्च पतङ्गाश्च घटा हि ते ॥ ४७॥
अविशेषेण सर्वं तु यः पश्यति महेश्वरम् ।
स एव साक्षाद्विज्ञानी स शिवः स तु दुर्लभः ॥ ४८॥
जगदिति प्रतिभा व्यवहारतः
परतरः परमः परमार्थतः ।
इति मतिर्न भवत्यपि कस्यचि-
च्छशिधरस्मरणेन हि सिध्यति ॥ ४९॥
जगदिति प्रतिभाऽपि च शाङ्करी
मतिमतामिति मे सुविनिश्चयः ।
इति मतिर्विमला च शुभावहा
शशिधरस्मरणेन हि सिध्यति ॥ ५०॥
जगदिति प्रतिभासमपेक्ष्य च
श्रुतिरपि प्रियहेतुमिहाह हि ।
न हि जगत्प्रतिभा न च सा श्रुतिः
प्रियकरः सकलश्च न वस्तुतः ॥ ५१॥
इति मतिर्विमला ननु जायते
यदि जनः शिव एव स तादृशः ।
न हि कृतिः सकला महात्मनो
यदि कृतिः पशुरेव स मानवः ॥ ५२॥
न हि जनिर्मरणं गमनागमौ
न हि मलं विमलं न च वेदनम् ।
शिवमिदं सकलं विभासते
स्फुटतरं परमस्य तु योगिनः ॥ ५३॥
विसृज्य सन्देहमशेषमास्तिकाः
प्रतीतमेतन्निखिलं जडाजडम् ।
गुरूपदेशेन शिवं विलोकये-
द्विलोकनं चापि शिवं विलोकयेत् ॥ ५४॥
विलोकनं चापि शिवं विलोकय-
न्विलोकनं चापि विसृज्य केवलम् ।
स्वभावभूतः स्वचिताऽवशिष्यते
चिताऽवशेषश्च न तस्य तत्त्वतः ॥ ५५॥
निष्ठा तस्य महात्मनः सुरवरा वक्तुं मया शक्यते
न प्रौढेन शिवेन वा मुनिगणैर्नारायणेनापि च ।
वेदेनापि पुरातनेन परया शक्त्या परेणाथ वा
मूकीभावमुपैति तत्र विदुषां निष्ठा हि तादृग्विधा ॥ ५६॥
सर्वमुक्तमिति वः सुरर्षभाः
केवलेन करुणाबलेन च ।
वेद एव सकलार्थबोधकः
शेष एव वचनं च तस्य मे ॥ ५७॥
इति ब्रह्मगीतासूपनिषत्सु बृहदारण्यकोपनिषद्व्याख्याने
नवमोऽध्यायः ॥ ९॥
॥ अथ दशमोऽध्यायः ॥
॥ बृहादारण्यकव्याख्याकथनम् ॥
ब्रह्मोवाच ।
अस्ति सर्वान्तरः साक्षी प्रत्यगात्मा स्वयम्प्रभः ।
तदेव ब्रह्म सम्पूर्णमपरोक्षतमं सुराः ॥ १॥
प्राणापानादिभेदस्य यः सत्तास्फुरणप्रदः ।
यस्य सन्निधिमात्रेण चेष्टते सकलं सुराः ॥ २॥
यश्च सर्वस्य चेष्टायामसक्तो निष्क्रियः स्वयम् ।
स हि सर्वान्तरः साक्षादात्मा नान्यः सुरर्षभाः ॥ ३॥
योऽयं सर्वान्तरः स्वात्मा सोऽहमर्थो न विग्रहः ।
दृश्यत्वादस्य देहस्य द्रष्टा योऽस्य स एव सः ॥ ४॥
योऽयं सर्वान्तरः स्वात्मा सोऽयं न प्राणपूर्वकः ।
दृश्यत्वात्प्राणपूर्वस्य द्रष्टा योऽस्य स एव सः ॥ ५॥
दृष्टेर्द्रष्टा श्रुतेः श्रोता मतेर्मन्ता च यः सुराः ।
विज्ञातेरपि विज्ञाता स हि सर्वान्तरः परः ॥ ६॥
अतोऽन्यदार्तं सकलं न सत्यं तु निरूपणे ।
स एव सर्वं नैवान्यदिति सम्यङ्निरूपणे ॥ ७॥
यथा पृथिव्यामोतं च प्रोतं च सकलं सुराः ।
तथाऽप्सु सकलं देवा ओतं प्रोतं न संशयः ॥ ८॥
आपश्च वायौ हे देवा ओताः प्रोतास्तथैव च ।
अन्तरिक्षेषु वायुश्च लोकेषु सुरपुङ्गवाः ॥ ९॥
अन्तरिक्षाश्च लोकाश्च तथा गन्धर्वकेषु च ।
लोकेष्वादित्यलोकेषु स्थिता गन्धर्वसञ्ज्ञिताः ॥ १०॥
चन्द्रलोकेषु चादित्यलोका ओतास्तथैव च ।
चन्द्रलोकाश्च नक्षत्रलोकेषु सुरपुङ्गवाः ॥ ११॥
देवलोकेषु नक्षत्रलोका ओतास्तथैव च ।
देवलोकाश्च हे देवा इन्द्रलोकेषु संस्थिताः ॥ १२॥
प्राजापत्येषु लोकेषु स्थिता ऐन्द्राः सुरर्षभाः ।
प्राजापत्यास्तथा लोका ब्रह्मलोकेषु संस्थिताः ॥ १३॥
विष्णुलोकेषु हे देवा ब्रह्मलोकाः सुसंस्थिताः ।
विष्णुलोकास्तथा ओता रुद्रलोकेषु हे सुराः ॥ १४॥
रुद्रलोकाः स्थिता लोकेष्वीश्वरस्य सुरर्षभाः ।
सदाशिवस्य लोकेषु स्थिता ह्यैशाः सुरर्षभाः ॥ १५॥
ओताः प्रोताश्च ते लोका ब्रह्मसञ्ज्ञे परे शिवे ।
एवं सर्वे सदा साक्षिस्वरूपे प्रत्यगात्मनि ॥ १६॥
सर्वान्तरतमे प्रोता ओता अध्यासतः स्थिताः ॥ १७॥
सर्वाधिष्ठानरूपस्तु प्रत्यगात्मा स्वयम्प्रभः ।
न कस्मिंश्चित्स्थितः साक्षी सत्स्वरूपः सुरर्षभाः ॥ १८॥
यस्मिन्नध्यस्तरूपेण स्थितं सर्वं निरूपणे ।
स एव सकलं नान्यदिति सम्यङ्निरूपणे ॥ १९॥
योऽयमात्मा स्वयं भाति सत्तयाऽन्यविवर्जितः ।
स एव साक्षात्सर्वेषामन्तर्यामी न चापरः ॥ २०॥
पृथिव्यामपि यस्तिष्ठन्पृथिव्या अन्तरः सदा ।
यं न वेद सुराः पृथ्वी शरीरं यस्य भूरपि ॥ २१॥
योऽन्तरो यमयत्येतां भूमिं निष्क्रियरूपतः ।
एष एव हि नः साक्षादन्तर्यामी परामृतः ॥ २२॥
अप्सु तिष्ठन्नपां देवा अन्तरो यं न ता विदुः ।
आपः शरीरं यस्यैता योऽन्तरो यमयत्यपः ।
एष एव हि नः साक्षादन्तर्यामी परामृतः ॥ २३॥
एवमग्नेश्च यो नेता चान्तरिक्षस्य हे सुराः ॥ २४॥
वायुपूर्वस्य सर्वस्य चेतनाचेतनस्य च ।
एष एव हि नः साक्षादन्तर्यामी परामृतः ॥ २५॥
अदृष्टोऽयं सुरा द्रष्टा श्रोतैवायं तथाऽश्रुतः ।
अमतश्च तथा मन्ता विज्ञाता केवलं सुराः ॥ २६॥
रविसोमाग्निपूर्वेषु विनष्टेष्वयमास्तिकाः ।
चित्तसाक्षितया भाति स्वप्रकाशेन केवलम् ॥ २७॥
चित्तव्यापारनाशे तु तदभावं सुरर्षभाः ।
स्वप्रकाशेन जानाति सुषुप्तौ वेद तामपि ॥ २८॥
आविर्भावतिरोभावरहितस्तु स्वयम्प्रभः ।
भावाभावात्मकं सर्वं सदाऽयं वेद केवलः ॥ २९॥
भावाभावात्मना वेद्यं समस्तं सुरपुङ्गवाः ।
वेत्तैवायं न चैवान्यदिति सम्यङ्निरूपणम् ॥ ३०॥
एवं द्वैतं विचारेण स्वात्मना वेद यः पुमान् ।
स योगी सर्वदा द्वैतं पश्यन्नपि न पश्यति ॥ ३१॥
द्रष्टुर्दृष्टेर्न नाशोऽस्ति दृश्यमेव विनश्यति ।
तच्च द्वैतं दृशेर्दृश्यं नास्ति द्रष्टाऽस्ति केवलम् ॥ ३२॥
एषाऽस्य परमा सम्पद्गतिश्च परमाऽस्य तु ।
एषोऽस्य परमो लोक एतद्धि परमं सुखम् ॥ ३३॥
अहिनिर्ल्वयनीं मुक्तां यथाऽहिः स्वात्मना पुनः ।
न पश्यति तथा विद्वान्न देहेऽहम्मतिर्भवेत् ॥ ३४॥
सर्वाधारे स्वतःसिद्धे शिवसञ्ज्ञे तु निर्मले ।
प्रत्यग्रूपे परानन्दे नेह नानाऽस्ति किञ्चन ॥ ३५॥
मृत्योः स मृत्युमाप्नोति इह नानेव पश्यति ।
तस्मादध्यस्तमज्ञानं तत्कार्यं चात्मरूपतः ॥ ३६॥
एकधैव महायासाद्द्रष्टव्यो हि मुमुक्षुभिः ।
अयमात्माऽप्रमेयश्च विरजश्च महान्ध्रुवः ॥ ३७॥
तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः ।
नानुध्यायाद्बहूञ्छब्दान्वाचो विग्लापनं हि तत् ॥ ३८॥
स वा एष महानात्मा जन्मनाशादिवर्जितः ।
वशी सर्वस्य लोकस्य सर्वस्येशान एव च ॥ ३९॥
सर्वस्याधिपतिः शुद्धो न भूयान्साधुकर्मणा ।
कर्मणाऽसाधुना नैव कनीयान्सुरपुङ्गवाः ॥ ४०॥
एष सर्वेश्वरः साक्षाद्भूताधिपतिरेव च ।
भूतपालश्च लोकानामसम्भेदाय हे सुराः ॥ ४१॥
एष सेतुर्विधरणस्तमेव ब्राह्मणोत्तमाः ।
वेदानुवचनेनापि यज्ञेन सकलेन च ॥ ४२॥
दानेन तपसा देवास्तथैवानशनेन च ।
वेत्तुमिच्छति यो विद्वान्स मुनिर्नेतरो जनः ॥ ४३॥
नेति नेतीति निष्कृष्टो य एष सर्वसाधकः ।
सोऽयमात्मा सदाऽग्राह्यस्वरूपो न हि गृह्यते ॥ ४४॥
तथाऽशीर्यस्वभावश्च हे देवा नैव शीर्यते ।
असङ्गरूपो भगवान्सर्वदा न हि सज्जते ॥ ४५॥
एष नित्यो महिमा ब्राह्मणस्य
न वर्धते कर्मणा नो कनीयान् ।
तस्यैव स्यात्पदवित्तं विदित्वा
न लिप्यते कर्मणा पापकेन ॥ ४६॥
तस्माद्ब्रह्मज्ञानलाभाय विद्वा-
ञ्शान्तो दान्तः सत्यवादी भवेच्च ।
कर्मत्यागी सर्ववेदान्तसिद्धं
विद्याहेतुं सन्ततं त्वभ्युपेयात् ॥ ४७॥
त्रिपुण्ड्रमुद्धूलनमास्तिकोत्तमाः
सदाऽऽचरेच्छङ्करवेदने रतः ।
शिवादिशब्दं च जपेद्विशेषतः
प्रपूजयेद्भक्तिपुरःसरं हरम् ॥ ४८॥
साधनैः सकलैः सहितः सुरा
वेदनेन समस्तमिदं जगत् ।
देवरूपतयैव तु निश्चितं
वेदहस्ततलस्थितबिल्ववत् ॥ ४९॥
नैनं पाप्मा तरति ब्रह्मनिष्ठं
सर्वं पापं तरति प्राकृतं च ।
नैनं पाप्मा तपति ब्रह्मनिष्ठं
सर्वं पापं तपति प्राकृतं च ॥ ५०॥
इत्थं ब्रह्म स्वात्मभूतं विदित्वा
श्रद्धापूर्वं देहमेतं स्वकीयम् ।
अर्थं सर्वं क्षेत्रजातं समस्तं
दद्यादस्मै देशिकेन्द्राय मर्त्यः ॥ ५१॥
यश्चातृणत्त्यवितथेन कर्णा-
वदुःखं कुर्वन्नमृतं सम्प्रयच्छन् ।
तं विद्यात्पितरं मातरं च
तस्मै न द्रुह्येत्कृतमस्य जानन् ॥ ५२॥
स्वदेशिकस्यैव तु नामकीर्तनं
भवेदनन्तस्य शिवस्य चिन्तनम् ।
स्वदेशिकस्यैव तु पूजनं तथा
भवेदनन्तस्य शिवस्य पूजनम् ॥ ५३॥
स्वदेशिकस्यैव तु नामकीर्तनं
शिवादिशब्दस्य तु कीर्तनं भवेत् ।
स्वदेशिकस्यैव तु बाधनं तथा
भवेदनन्तस्य शिवस्य बाधनम् ॥ ५४॥
तस्माद्विद्वान्सर्वमेतद्विहाय
श्रद्धायुक्तः सद्गुरुं सत्यनिष्ठम् ।
विद्याकोशं वेदवेदान्तनिष्ठं
गच्छेन्नित्यं सत्यधर्मादियुक्तः ॥ ५५॥
वक्तव्यं सकलं मया परकृपायुक्तेन सङ्कीर्तितं
कर्तव्यं सकलं सुरा न हि मुनेर्ब्रह्मात्मनिष्ठस्य तु ।
स्मर्तव्यं सकलं तथा न हि सदा ब्रह्मैव सच्चित्सुखं
सम्पूर्णं सततोदितं समरसं शश्वत्स्वयं भासते ॥ ५६॥
इति ब्रह्मगीतासूपनिषत्सु बृहदारण्यकव्याख्याकथनं नाम
दशमोऽध्यायः ॥ १०॥
॥ अथ एकादशोऽध्यायः ॥
॥ कठवल्लीश्वेताश्वतरव्याख्यायाम् ॥
ब्रह्मोवाच ।
अस्ति तत्त्वं परं साक्षाद्दुर्दर्शं गूढमुत्तमम् ।
अनुप्रविष्टं सर्वत्र गुहायां निहितं परम् ॥ १॥
तद्विदित्वा महाधीरो हर्षशोकौ जहाति च ।
धर्मादिभ्यः परं तत्तु भूताद्भव्याच्च सत्तमाः ॥ २॥
यदामनन्ति वेदाश्च तपांसि परमं पदम् ।
ब्रह्मचर्यं यदिच्छन्तश्चरन्ति शिव एव सः ॥ ३॥
एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् ।
एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ ४॥
एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् ।
एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ ५॥
न जायते म्रियते वा विपश्चि-
न्नायं कुतश्चिन्न बभूव कश्चित् ।
अजो नित्यः शाश्वतोऽयं पुराणो
न हन्यते हन्यमाने शरीरे ॥ ६॥
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।
तावुभौ न विजानीतो नायं हन्ति न हन्यते ॥ ७॥
अणोरणीयान्महतो महीया-
नात्माऽस्य जन्तोर्निहितो गुहायाम् ।
तमक्रतुः पश्यति वीतशोको
धातुप्रसादान्महिमानमस्य ॥ ८॥
दूरं व्रजति चासीनः शयानो याति सर्वतः ।
कस्तं साक्षान्महादेवं मदन्यो ज्ञातुमर्हति ॥ ९॥
अशरीरं शरीरेषु ह्यनवस्थेष्ववस्थितम् ।
महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ १०॥
नायमात्मा प्रवचनेन लभ्यो
न मेधया न बहुना श्रुतेन ।
यमेवैष वृणुते तेन लभ्य-
स्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ ११॥
नाविरतो दुश्चरितान्नाशान्तो नासमाहितः ।
नाशान्तमानसो वाऽपि प्रज्ञानेनैनमाप्नुयात् ॥ १२॥
यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः ।
क इत्थं वेद देवो वा मनुष्योऽन्यश्च यत्र सः ॥ १३॥
ऋतौ पिबन्तौ सुकृतस्य लोके
गुहां प्रविष्टौ परमे परार्धे ।
छायातपौ ब्रह्मविदो वदन्ति
शरीरभृच्छङ्करसञ्ज्ञितौ तौ ॥ १४॥
शरीरभृत्कर्मफलं भुङ्क्ते योजयिता शिवः ।
प्रतीतितो विरुद्धौ तौ भेदस्त्वौपाधिकस्तयोः ॥ १५॥
आत्मानं रथिनं विद्याच्छरीरं रथमेव तु ।
बुद्धिं तु सारथिं विद्यान्मनः प्रग्रहमेव च ॥ १६॥
इन्द्रियाणि हयान्विद्याद्विषयानपि गोचरान् ।
आत्मेन्द्रियमनोयुक्तं विद्याद्भोक्तारमास्तिकाः ॥ १७॥
यस्त्वविज्ञानवान्मर्त्योऽयुक्तेन मनसा सदा ।
तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥ १८॥
यस्तु विज्ञानवान्मर्त्यो युक्तेन मनसा सदा ।
तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥ १९॥
यस्त्वविज्ञानवान्मर्त्यो ह्यमनस्कः सदाऽशुचिः ।
न स तत्पदमाप्नोति संसारं चाधिगच्छति ॥ २०॥
यस्तु विज्ञानवान्मर्त्यः समनस्कः सदा शुचिः ।
स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥ २१॥
विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः ।
सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥ २२॥
पदं यत्परमं विष्णोस्तदेवाखिलदेहिनाम् ।
पदं परममद्वैतं स शिवः साम्बविग्रहः ॥ २३॥
रुद्रविष्णुप्रजेशानामन्येषामपि देहिनाम् ।
ऋते साम्बं महादेवं किं भवेत्परमं पदम् ॥ २४॥
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ २५॥
महतः परमव्यक्तमव्यक्तात्पुरुषः परः ।
पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः ॥ २६॥
पुरुषो नाम सम्पूर्णः शिवः सत्यादिलक्षणः ।
साम्बमूर्तिधरो नान्यो रुद्रो विष्णुरजोऽपि वा ॥ २७॥
एष सर्वेषु भूतेषु गूढात्मा न प्रकाशते ।
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ २८॥
यच्चेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि ।
महत्यात्मनी विज्ञानं तद्यच्छेच्छान्त आत्मनि ॥ २९॥
अशब्दमस्पर्शमरूपमव्ययं
तथाऽरसं नित्यमगन्धवच्च यत् ।
अनाद्यनन्तं महतः परं ध्रुवं
निचाय्य तं मृत्युमुखात्प्रमुच्यते ॥ ३०॥
पराञ्चि खानि व्यतृणन्महेश-
स्तस्मात्पराङ्पश्यति नात्मरूपम् ।
कश्चिद्धीरः प्रत्यगात्मानमैक्ष्य-
दावृत्तचक्षुरमृतत्वमिच्छन् ॥ ३१॥
पराञ्चः कामाननुनयन्ति बाला
मृत्योः पाशं तेऽपियन्ति स्वमोहात् ।
अथ धीरा अमृतत्वं विदित्वा
ध्रुवं तत्त्वं यान्ति कामैरसक्ताः ॥ ३२॥
येन रूपान् रसान्गन्धाञ्शब्दान्स्पर्शांश्च मैथुनान् ।
एतेनैव विजानाति किमत्र परिशिष्यते ॥ ३३॥
जाग्रत्स्वप्नसुषुप्ताख्यं पुरं येनानुपश्यति ।
महान्तं परमात्मानं मत्वा धीरो न शोचति ॥ ३४॥
जाग्रदादित्रयं यस्तु विजानाति चिदात्मना ।
ततो भेदेन नैवास्ति पुरत्रयमिदं सदा ॥ ३५॥
चैतन्यमात्रो भगवाञ्शिव एव स्वयम्प्रभः ।
पुरत्रयात्मना भाति न भाति च महाप्रभुः ॥ ३६॥
इहामुत्र स्थितं तत्त्वं सदेकं न ततोऽपरम् ।
मृत्योः स मृत्युमाप्नोति योऽन्यं देवं प्रपश्यति ॥ ३७॥
अग्निर्यथैको भुवनं प्रविष्टो
रूपं रूपं प्रतिरूपो बभूव ।
एकस्तथा सर्वभूतान्तरात्मा
रूपं रूपं प्रतिरूपो बहिश्च ॥ ३८॥
वायुर्यथैको भुवनं प्रविष्टो
रूपं रूपं प्रतिरूपो बभूव ।
एकस्तथा सर्वभूतान्तरात्मा
रूपं रूपं प्रतिरूपो बहिश्च ॥ ३९॥
सूर्यो यथा सर्वलोकस्य चक्षु-
र्न लिप्यते चाक्षुषैर्बाह्यदोषैः ।
एकस्तथा सर्वभूतान्तरात्मा
न लिप्यते लोकदुःखेन बाह्यः ॥ ४०॥
एको वशी सर्वभूतान्तरात्मा
एकं रूपं बहुधा यः करोति ।
तमात्मस्थं येऽनुपश्यन्ति धीरा-
स्तेषां सुखं शाश्वतं नेतरेषाम् ॥ ४१॥
येनैव नित्याश्च सचेतनश्च
यस्मिन्विभक्ताः प्रविभान्ति मोहात् ।
तमात्मस्थं येऽनुपश्यन्ति धीरा-
स्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ ४२॥
तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम् ।
कथं नु तद्विजानीयत्किमु भाति विभाति वा ॥ ४३॥
आदित्यचन्द्रानलतारकाद्या
न भान्ति यस्मिन्ननिशं महान्तः ।
प्रकाशमानं तमनुप्रभान्ति
प्रभानमस्यैव हि नेतरेषाम् ॥ ४४॥
ऊर्ध्वमूलस्त्ववाक्शाख एषोऽश्वत्थः सनातनः ।
तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ॥ ४५॥
तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन ।
एतद्वै तत्सुरश्रेष्ठाः सम्यगेव मयोदितम् ॥ ४६॥
इदं सर्वं जगत्साक्षाच्छिवः कम्पयते ध्रुवम् ।
महद्भयमिदं वज्रं विदित्वा मुच्यते नरः ॥ ४७॥
तपत्यस्य भयादग्निर्भयात्तपति भास्करः ।
भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः ॥ ४८॥
वर्तमाने शरीरेऽस्मिन्न शक्तो बोद्धुमीश्वरम् ।
नरः सर्वेषु लोकेषु शरीरित्वाय कल्पते ॥ ४९॥
यथाऽऽदर्शे स्वकं रूपं यथावन्निर्मले नरः ।
तथा पश्यति देहेस्मिन्नात्मानं ब्रह्म केवलम् ॥ ५०॥
जन्मनाशवतां खानां पृथग्भावं परात्मनः ।
तेषां जन्मविनाशौ च विदित्वाऽनात्मरूपतः ॥ ५१॥
पश्चादनात्मरूपेण विदितं केवलात्मना ।
विदित्वा स्वानुभूत्येव स धीरस्तु न शोचति ॥ ५२॥
इन्द्रियेभ्यो मनः श्रेष्ठं मनसः सत्त्वमुत्तमम् ।
सत्त्वादपि महानात्मा महतोऽव्यक्तमुत्तमम् ॥ ५३॥
अव्यक्तात्तु परः साक्षाद्व्यापकोऽलिङ्ग एव च ।
यं विदित्वा नरः साक्षादमृतत्वं हि गच्छति ॥ ५४॥
न सन्दृशे तिष्ठति रूपमस्य
न चक्षुषा पश्यति कश्चिदेनम् ।
हृदा मनीषा मनसाऽभिक्लृप्तः
साक्षादात्मा शक्यते वेदितुं सः ॥ ५५॥
एवं साक्षात्सच्चिदानन्दरूपं
भावाभावाशेषलोकस्य हेतुम् ।
श्रुत्या युक्त्या ब्रह्म जानन्ति मर्त्या
विद्यायोगादेव मुक्ता भवन्ति ॥ ५६॥
विद्यावेद्यं ब्रह्म यद्वेदसिद्धं
तस्याचिन्त्या काचिदस्त्येव शक्तिः ।
शक्त्या भिन्नं तद्भवत्यद्वयं
सत्सत्यानन्दासङ्गबोधैकरूपम् ॥ ५७॥
एकं रूपं ब्रह्मणो जीवरूपं
भोग्यं विश्वं ब्रह्मणस्त्वन्यरूपम् ।
अन्यद्रूपं ब्रह्मणः सर्वशास्त्रं
प्रज्ञामात्रं शुद्धरूपं परस्य ॥ ५८॥
सर्वाजीवे सर्वसंस्थे बृहन्ते
तस्मिञ्जीवो भ्राम्यते ब्रह्मचक्रे ।
ब्रह्मात्मानं प्रेरितारं च युक्त्या
मत्वा चैकं याति मर्त्योऽमृतत्वम् ॥ ५९॥
ज्ञाज्ञौ जीवाजीवसञ्ज्ञौ प्रतीत्या
श्रुत्या युक्त्या स्वानुभूत्या ह्यभिन्नौ ।
माया भोक्तुर्भोगहेतुः परात्मा
रूपैरेभिर्विश्वरूपो ह्यकर्ता ॥ ६०॥
क्षरं माया चाक्षरं जीवरूपं
क्षरात्मना भिद्यते देव एकः ।
तस्य ध्यानाद्योजनातत्त्वभावा-
द्भूयश्चान्ते विश्वमायानिवृत्तिः ॥ ६१॥
ज्ञात्वा देवं सर्वपाशापहानिः
क्षीणैः क्लेशैर्जन्ममृत्युप्रहाणिः ।
तस्य ध्यानान्मूलमायाविभेदे
विश्वैश्वर्यं याति कैवल्यरूपम् ॥ ६२॥
एतज्ज्ञेयं नित्यमेवात्मसंस्थं
नातः परं वेदितव्यं हि किञ्चित् ।
भोक्ता भोग्यं प्रेरितारं च मत्वा
सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत् ॥ ६३॥
वह्नेर्यथा योनिगतस्य मूर्ति-
र्न दृश्यते नैव च लिङ्गनाशः ।
स भूय एवेन्धनयोनिगृह्य-
स्तद्वोभयं वै प्रणवेन देहे ॥ ६४॥
स्वदेहमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।
ध्याननिर्मथनाभ्यासाद्देवं पश्येन्निगूढवत् ॥ ६५॥
तिलेषु तैलं दधिनीव सर्पि-
रापः स्रोतःस्वरणीषु चाग्निः ।
एवमात्माऽऽत्मनि गृह्यतेऽसौ
सत्येनैवं तपसा योऽनुवेत्ति ॥ ६६॥
सर्वव्यापिनमात्मानं क्षीरे सर्पिरिवार्पितम् ।
आत्मविद्यातपोमूलं तद्ब्रह्मोपनिषत्परम् ॥ ६७॥
यज्ञज्ञानादिभिः पुण्यैर्योगसिद्धिर्भविष्यति ।
योगात्सञ्जायते ज्ञानं ज्ञानान्मुक्तिर्न कर्मणा ॥ ६८॥
अत्याश्रमिभ्यः शान्तेभ्यो वक्तव्यं ब्रह्मवेदनम् ।
नाप्रशान्ताय दातव्यं नापुत्राय कदाचन ॥ ६९॥
अग्निरित्यादिभिर्मन्त्रैर्भस्मनोद्धूलनं तथा ।
त्रिपुण्ड्रधारणं चापि वदन्त्यत्याश्रमं बुधाः ॥ ७०॥
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ ७१॥
श्रुतिवचनेन मयैव समस्त
परमकृपाबलतः पठितं च ।
यदि विदितं स नरः स्वकमोहं
तरति शिवं विशति प्रियरूपम् ॥ ७२॥
इति ब्रह्मगीतासूपनिषत्सु
कठवल्लीश्वेताश्वतरव्याख्यायामेकादशोऽध्यायः ॥ ११॥
॥ अथ द्वादशोऽध्यायः ।
॥ शिवस्याहम्प्रत्ययाश्रत्वम् ॥
ब्रह्मोवाच।
वक्ष्ये सारतरं साक्षात्सर्वशास्त्रार्थसङ्ग्रहम् ।
श्रद्धया सहिता यूयं शृणुतातीव शोभनम् ॥ १॥
अस्ति तावदहंशब्दप्रत्ययालम्बनं सुराः ।
सर्वेषां नः परं ज्ञानं स एवात्मा न संशयः ॥ २॥
सोऽयं स्वाविद्यया साक्षाच्छिवः सन्नपि वस्तुतः ।
स्वशिवत्वमविज्ञाय संसारीवावभासते ॥ ३॥
वेदोदितेन मार्गेण पारम्पर्यक्रमेण तु ।
मुमुक्षुत्वं दृढं प्राप्य पुनः शान्त्यादिसाधनैः ॥ ४॥
सहितः शिवभक्त्या च गुरोः पादौ प्रणम्य च ।
वेदान्तानां महावाक्यश्रवणेन तथैव च ॥ ५॥
मननेन तथा देवा ध्यानेन परमात्मनः ।
प्रत्यग्ब्रह्मैकताज्ञानं लब्ध्वा याति शिवं परम् ॥ ६॥
प्रत्यगात्मानमद्वन्द्वमहंशब्दोपलक्षितम् ।
शिवरूपेण सम्पश्यन्नेव याति स्वपूर्णताम् ॥ ७॥
शिवरूपतया भातेऽहंशब्दार्थे मुनीश्वराः ।
अविद्या विलयं याति विद्यया परयैव तु ॥ ८॥
विद्यया परयाऽविद्यानिवृत्तौ ब्रह्म केवलम् ।
शिष्यते खलु नाभावो भावो नान्यस्तथाऽपि च ॥ ९॥
व्यवहारदृशाऽविद्या तन्निवृत्तिश्च कथ्यते ।
तत्त्वदृष्ट्या तु नाविद्या तन्निवृत्तिश्च हे सुराः ॥ १०॥
ब्रह्मरूपतया ब्रह्म केवलं प्रतिभासते ।
जगद्रूपतयाऽप्येतद्ब्रह्मैव प्रतिभासते ॥ ११॥
विद्याविद्यादिभेदेन भावाभावादिभेदतः ।
गुरुशिष्यादिभेदेन ब्रह्मैव प्रतिभासते ॥ १२॥
ब्रह्म सर्वमिति ज्ञानं ब्रह्मप्राप्तेस्तु साधनम् ।
जगन्मायेति विज्ञानमज्ञानं फलतो भवेत् ॥ १३॥
तथाऽपि परमाद्वैतज्ञानस्येदं तु वेदनम् ।
उपकारकमत्यन्तं तद्दृष्ट्वा वक्ति च श्रुतिः ॥ १४॥
यथा भातस्वरूपेण सत्यत्वेन जगच्छ्रुतिः ।
अङ्गीकृत्य हितं नॄणां कदाचिद्वक्ति सादरम् ॥ १५॥
सत्यत्वेन जगद्भानं संसारस्य प्रवर्तकम् ।
असत्यत्वेन भानं तु संसारस्य निवर्तकम् ॥ १६॥
अतः संसारनाशाय कदाचित्परमा श्रुतिः ।
जगत्सर्वमिदं माया वदत्यत्यन्तनिर्मला ॥ १७॥
अतीव पक्वचित्तस्य चित्तपाकमपेक्ष्य सा ।
सर्वं ब्रह्मेति कल्याणी श्रुतिर्वदति सादरम् ॥ १८॥
ब्रह्मैव केवलं शुद्धं विद्यते तत्त्वदर्शने ।
न च विद्या न चाविद्या जगच्च न चापरम् ॥ १९॥
अतः परमनिर्वाणनिष्ठस्य परयोगिनः ।
यथा यथाऽवभासोऽयं शिव एव न चापरम् ॥ २०॥
भूतपूर्वानुसन्धानात्कथ्यते न च वस्तुतः ।
यथा यथाऽवभासोऽयं शिव इत्यपि वेदनम् ॥ २१॥
न हि निर्वाणनिष्ठस्य शिवस्य परयोगिनः ।
यथा यथेति यत्किञ्चिद्भासते परमार्थतः ॥ २२॥
तथा तथाऽवभासेन स्वेन रूपेण केवलम् ।
स्तिमितोदधिवद्योगी स्वयं तिष्ठति नान्यथा ॥ २३॥
परनिर्वाणनिष्ठस्य योगिनः परमां स्थितिम् ।
स्वयं च न विजानाति न हरिर्न महेश्वरः ॥ २४॥
न मया च परिज्ञातुं शक्यते योगिनः स्थितिः ।
नापि वेदेन मानेन न च स्मृतिपुराणकैः ॥ २५॥
अहो निर्वाणनिष्ठस्य योगिनः परमा स्थितिः ।
यादृशी परमा निष्ठा तादृश्येव हि केवलम् ॥ २६॥
एवंरूपा परा निष्ठा शिवस्यास्ति स्वभावतः ।
शिवायाश्चाम्बिकाभर्तुः प्रसादेन हरेरपि ॥ २७॥
तथा ममापि चान्येषां न चोद्योर्हो महेश्वरः ।
तादृग्रूपो महादेवः खलु साक्षात्सनातनः ॥ २८॥
ईदृशी परमा निष्ठा गुरोः साक्षान्निरीक्षणात् ।
कर्मसाम्ये त्वनायासात्सिध्यत्येव न संशयः ॥ २९॥
देशिकं देवदेवेशं शिवं विद्याद्विचक्षणः ।
तदिष्टं सर्वयत्नेन प्रकुर्यात्सर्वदाऽऽदरात् ॥ ३०॥
स्वस्यानिष्टमपि प्राज्ञः प्रकुर्याद्गुरुणोदितः ।
गुरोरिष्टं प्रकुर्वाणः परं निर्वाणमृच्छति ॥ ३१॥
स्वाश्रमं च स्वजातिं च स्वकीर्तिं च तथैव च ।
स्वादृष्टं लोकविद्विष्टं बन्धुपुत्रादिसङ्गमम् ॥ ३२॥
गृहक्षेत्रधनादीनां हानिं क्लेशं सुखं तथा ।
अनवेक्ष्य गुरोरिष्टं कुर्यान्नित्यमतन्द्रितः ॥ ३३॥
गुरौ प्रीते शिवः साक्षात्प्रसन्नः प्रतिभासते ।
गुरोर्देहे महादेवः साम्बः सन्निहितः सदा ॥ ३४॥
गुरोरनिष्टं मोहाद्वा न कुर्यात्कुरुते यदि ।
पच्यते नरके तीव्रे यावदाभूतसम्प्लवम् ॥ ३५॥
शिवे क्रुद्धे गुरुस्त्राता गुरौ क्रुद्धे न कश्चन ।
तस्मादिष्टं गुरोः कुर्यात्कायेन मनसा गिरा ॥ ३६॥
गुरुर्नामात्मनो नान्यः सत्यमेव न संशयः ।
आत्मलाभात्परो लाभो नास्ति नास्ति न संशयः ॥ ३७॥
अनात्मरूपं देहादि यो ददाति पिता तु सः ।
न गुरुः कथितः प्राज्ञैः क्लेशहेतुप्रदो हि सः ॥ ३८॥
अष्टैश्वर्यप्रदस्तद्वद्गन्धर्वादिपदप्रदाः ।
सार्वभौमप्रदश्चापि न गुरुः क्लेशदो हि सः ॥ ३९॥
मन्त्रतन्त्रादिदस्तद्वल्लौकिकोपायदस्तथा ।
न गुरुः कथितः प्राज्ञैः क्लेशहेतुप्रदो हि सः ॥ ४०॥
सत्यवत्सकलं भातं निश्चित्यासत्यरूपतः ।
सर्वसाक्षितयाऽऽत्मानं विभज्य परचेतनम् ॥ ४१॥
यस्त्वं तदिति वेदान्तप्रदीपेन स्वकं निजम् ।
शिवत्वं बोधयत्येष गुरुः साक्षान्न चापरः ॥ ४२॥
दृश्यरूपमिदं सर्वं दृग्रूपेण विलाप्य च ।
दृग्रूपं ब्रह्म यो वक्ति स गुरुर्नापरः पुमान् ॥ ४३॥
परमाद्वैतविज्ञानं कृपयैव ददाति यः ।
सोऽयं गुरुगुरुः साक्षाच्छिव एव न संशयः ॥ ४४॥
तादृशं देशिकं साक्षाद्वेदान्ताम्बुजभास्करम् ।
तोषयेत्सर्वयत्नेन श्रेयसे भूयसे नरः ॥ ४५॥
सर्ववेदान्तवाक्यानामर्थः सङ्ग्रहरूपतः ।
कथितश्च मया देवा मामाह परमेश्वरः ॥ ४६॥
सर्वज्ञः सर्ववित्साक्षादाप्तकामः कृपाकरः ।
सर्वदोषविनिर्मुक्तः सत्यमेवाब्रवीन्मम ॥ ४७॥
यथाऽऽह सर्ववेदानामर्थं सर्वज्ञ ईश्वरः ।
तथैव कथितोऽस्माभिः सत्यमेव न संशयः ॥ ४८॥
स्वप्रकाशस्वरूपस्य स्वतःशुद्धस्य शूलिनः ।
करामलकवत्सर्वं प्रत्यक्षं हि न संशयः ॥ ४९॥
वेदानामन्यथैवार्थं ये वदन्ति विमोहिताः ।
महासाहसिका एव ते नरा न हि संशयः ॥ ५०॥
मदुक्तार्थप्रकारेण विना ये प्रवदन्ति ते ।
अन्धकूपे निरालम्बे पतन्त्येव न संशयः ॥ ५१॥
वेदार्थः परमाद्वैतं नेतरत्सुरपुङ्गवाः ।
नो चेदत्रैव मे मूर्धा पतिष्यति न संशयः ॥ ५२॥
अन्यथा वेदवाक्यानामर्थ इत्यभिशङ्कया ।
अनिश्चितार्थश्चेन्मूर्धा युष्माकं च पतिष्यति ॥ ५३॥
अतः परं न वक्तव्यं विद्यते सुरपुङ्गवाः ।
सत्यमेव मया प्रोक्तं शम्भोः पादौ स्पृशाम्यहम् ॥ ५४॥
सूत उवाच ।
एवमुक्त्वा महातेजा ब्रह्मा च सुरपुङ्गवान् ।
प्रत्यग्भूतं परानन्दं पार्वतीपतिमीश्वरम् ॥ ५५॥
परमाद्वैतरूपं तं भवरोगस्य भेषजम् ।
स्मृत्वा नत्वा पुनः स्तुत्वा भक्त्या परवशोऽभवत् ॥ ५६॥
देवाश्च देवदेवेशं स्मृत्वा साम्यं त्रियम्बकम् ।
प्रणम्य दण्डवद्भूमौ विवशा अभवन्मुदा ॥ ५७॥
देवदेवो महादेवो महाकारुणिकोत्तमः ।
तत्रैवाविरभूद्देव्या सह सत्यतपोधनाः ॥ ५८॥
विष्णुश्च पद्मया सार्धं तत्रैव ब्रह्मवित्तमाः ।
आगतो भगवान्द्रष्टुमशेषसुरनायकम् ॥ ५९॥
पुष्पवृष्टिरभवद्यथा पुरा
स्वस्तिपूर्ववचनानि चाभवन् ।
तत्र भक्तिसहितेन विष्णुना
पद्मया च परिपूजितः शिवः ॥ ६०॥
शङ्करोपि शशिशेखरः पर-
स्त्वम्बयैव सहितः सनातनः ।
तत्र नृत्यमकरोदतिप्रभुः
स्वस्वरूपपरवेदनप्रियात् ॥ ६१॥
सर्वलोकजननी शिवा परा
पापनाशकरबोधदायिनी ।
ब्रह्मवज्रधरपूर्वकानिमा-
न्स्वानुभूतिसहितेन चक्षुषा ॥ ६२॥
विलोक्य कारुण्यबलेन केवलं
प्रबोधयामास सुरोत्तमानिमान् ।
पुनः प्रजानाथपुरःसराः सुराः
प्रनृत्यमानं तु शिवं शिवामपि ॥ ६३॥
त्वक्चक्षुषैव ददृशुः श्रुतिमस्तकोत्थ-
विज्ञानरूपपरलोचनगोचरार्हम् ।
भक्त्या पुनः परमकारुणिकं महान्तं
पञ्चाक्षरेण भवपाशहरेण पूज्यम् ॥ ६४॥
तुष्टवुः श्रुतिवचोभिरादरा-
न्नष्टकष्टभवपाशबन्धनाः ।
इष्टसिद्धिरभवद्धि यः सुराः
इत्यवोचदशुभापहः शिवः ॥ ६५॥
शाङ्करी च शरणागतप्रिया
बन्धहेतुमलनाशकारिणी ।
मत्प्रसादबललब्धवेदना
इत्यवोचदभवन्नतिप्रिया ॥ ६६॥
केशवोऽपि सुरपुङ्गवान्प्रति
प्राह शम्भुरयमद्भुतः प्रभुः ।
सर्ववेदशिरसामगोचरः
प्रीत एव भवतामिति द्विजाः ॥ ६७॥
देवोऽपि कारुण्यरसार्द्रमानसः
सुरानशेषानजपूर्वकान्प्रति ।
उवाच गीतामतिशोभनामिमां
ममानुकूलामपि यः पठेद्विजः ॥ ६८॥
स याति मामेव निरस्तबन्धनः
परा शिवा वाचि सदैव वर्तते ।
दिवाकरेणापि समश्च तेजसा
श्रिया मुकुन्देन समः सदा भवेत् ॥ ६९॥
एषा गीता ब्रह्मगीताभिधाना
श्रुत्या युक्ता सर्वगीतोत्तमा च ।
वेदाकारा वेदनिष्ठैर्द्विजेन्द्रै-
र्भक्त्या पाठ्या नैव शूद्रादिभिश्च ॥ ७०॥
इत्येवं परमशिवः प्रभाष्य नाथः
शिष्टानामशुभहरः पुरत्रयारिः ।
भक्तानाममलसुखप्रबोधकारी
तत्रैव स्फुरणसुखे तिरो बभूव ॥ ७१॥
दैवी सा सकलजगद्विचित्रचित्रा
कारुण्यादखिलसुरानजं विलोक्य ।
सुप्रीता परमसुखप्रबोधरूपा
तत्रैव स्फुरणसुखे तिरो बभूव ॥ ७२॥
विष्णुर्लक्ष्म्या साकमाश्वास्य देवान्
हृष्टस्तुष्टः स्वस्य वैकुण्ठमाप ।
ब्रह्मा देवानात्मविद्याभियुक्तां-
स्त्यक्त्वा रुद्रध्याननिष्ठो बभूव ॥ ७३॥
देवाः सर्वे दण्डवद्भूमिभागे
भक्त्या सार्धं पद्मयोनिं प्रणम्य ।
हृष्टात्मानः सत्यबोधैकनिष्ठाः
सद्यः स्वं स्वं देशमीयुर्द्विजेन्द्राः ॥ ७४॥
ईत्थं साक्षाद्ब्रह्मगीतं भवद्भिः
शुद्धज्ञानैरादरेण श्रुतैव ।
मत्तः श्रद्धाभक्तियुक्तस्य विप्रा
नित्यं देया नेतरस्यातिशुद्धा ॥ ७५॥
इति परशिवभक्त्या प्राप्तविद्यस्तु सूतः
सुखघनशिवतत्त्वप्रापिकामेव गीताम् ।
मुनिगणहितबुद्ध्याऽऽभाष्य निर्वाणरूपं
परतरमवलोक्य प्रज्ञया मौनमाप ॥ ७६॥
मुनयश्च गुरुं परवेदिनं
प्रणिपत्य समस्तहितप्रदम् ।
हृदयस्थमहम्पदलक्षितं
परतत्त्वतयैव विदुः स्थिरम् ॥ ७७॥
इति श्रीब्रह्मगीतासूपनिषत्सु शिवस्याहम्प्रत्ययाश्रत्वं
नाम द्वदशोऽध्यायः ॥ १२॥
॥ इति ब्रह्मगीता समाप्ता ॥
॥ ब्राह्मणगीता ॥
अध्यायः २१
ब्राह्मण उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
निबोध दश होतॄणां विधानमिह यादृशम् ॥ १॥
सर्वमेवात्र विज्ञेयं चित्तं ज्ञानमवेक्षते ।
रेतः शरीरभृत्काये विज्ञाता तु शरीरभृत् ॥ २॥
शरीरभृद्गार्हपत्यस्तस्मादन्यः प्रणीयते ।
ततश्चाहवनीयस्तु तस्मिन्सङ्क्षिप्यते हविः ॥ ३॥
ततो वाचस्पतिर्जज्ञे समानः पर्यवेक्षते ।
रूपं भवति वै व्यक्तं तदनुद्रवते मनः ॥ ४॥
ब्राह्मण्युवाच
कस्माद्वागभवत्पूर्वं कस्मात्पश्चान्मनोऽभवत् ।
मनसा चिन्तितं वाक्यं यदा समभिपद्यते ॥ ५॥
केन विज्ञानयोगेन मतिश्चित्तं समास्थिता ।
समुन्नीता नाध्यगच्छत्को वैनां प्रतिषेधति ॥ ६॥
ब्राह्मण उवाच
तामपानः पतिर्भूत्वा तस्मात्प्रेष्यत्यपानताम् ।
तां मतिं मनसः प्राहुर्मनस्तस्मादवेक्षते ॥ ७॥
प्रश्नं तु वान्मनसोर्मां यस्मात्त्वमनुपृच्छसि ।
तस्मात्ते वर्तयिष्यामि तयोरेव समाह्वयम् ॥ ८॥
उभे वान्मनसी गत्वा भूतात्मानमपृच्छताम् ।
आवयोः श्रेष्ठमाचक्ष्व छिन्धि नौ संशयं विभो ॥ ९॥
मन इत्येव भगवांस्तदा प्राह सरस्वतीम् ।
अहं वै कामधुक्तुभ्यमिति तं प्राह वागथ ॥ १०॥
स्थावरं जङ्गमं चैव विद्ध्युभे मनसी मम ।
स्थावरं मत्सकाशे वै जङ्गमं विषये तव ॥ ११॥
यस्तु ते विषयं गच्छेन्मन्त्रो वर्णः स्वरोऽपि वा ।
तन्मनो जङ्गमं नाम तस्मादसि गरीयसी ॥ १२॥
यस्मादसि च मा वोचः स्वयमभ्येत्य शोभने ।
तस्मादुच्छ्वासमासाद्य न वक्ष्यसि सरस्वति ॥ १३॥
प्राणापानान्तरे देवी वाग्वै नित्यं स्म तिष्ठति ।
प्रेर्यमाणा महाभागे विना प्राणमपानती ।
प्रजापतिमुपाधावत्प्रसीद भगवन्निति ॥ १४॥
ततः प्राणः प्रादुरभूद्वाचमाप्याययन्पुनः ।
तमादुच्छ्वासमासाद्य न वाग्वदति कर्हि चित् ॥ १५॥
घोषिणी जातनिर्घोषा नित्यमेव प्रवर्तते ।
तयोरपि च घोषिण्योर्निर्घोषैव गरीयसी ॥ १६॥
गौरिव प्रस्रवत्येषा रसमुत्तमशालिनी ।
सततं स्यन्दते ह्येषा शाश्वतं ब्रह्मवादिनी ॥ १७॥
दिव्यादिव्य प्रभावेन भारती गौः शुचिस्मिते ।
एतयोरन्तरं पश्य सूक्ष्मयोः स्यन्दमानयोः ॥ १८॥
अनुत्पन्नेषु वाक्येषु चोद्यमाना सिसृक्षया ।
किं नु पूर्वं ततो देवी व्याजहार सरस्वती ॥ १९॥
प्राणेन या सम्भवते शरीरे
प्राणादपानम्प्रतिपद्यते च ।
उदान भूता च विसृज्य देहं
व्यानेन सर्वं दिवमावृणोति ॥ २०॥
ततः समाने प्रतितिष्ठतीह
इत्येव पूर्वं प्रजजल्प चापि ।
तस्मान्मनः स्थावरत्वाद्विशिष्टं
तथा देवी जङ्गमत्वाद्विशिष्टा ॥ २१॥
इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि एकविंशोऽध्यायः ॥
अध्यायः २२
ब्राह्मण उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
सुभगे सप्त होतॄणां विधानमिह यादृशम् ॥ १॥
घ्राणं चक्षुश्च जिह्वा च त्वक्ष्रोत्रं चैव पञ्चमम् ।
मनो बुद्धिश्च सप्तैते होतारः पृथगाश्रिताः ॥ २॥
सूक्ष्मेऽवकाशे सन्तस्ते न पश्यन्तीतरेतरम् ।
एतान्वै सप्त होतॄंस्त्वं स्वभावाद्विद्धि शोभने ॥ ३॥
ब्राह्मण्युवाच
सूक्ष्मेऽवकाशे सन्तस्ते कथं नान्योन्य दर्शिनः ।
कथं स्वभावा भगवन्नेतदाचक्ष्व मे विभो ॥ ४॥
ब्राह्मण उवाच
गुणाज्ञानमविज्ञानं गुणि ज्ञानमभिज्ञता ।
परस्परगुणानेते न विजानन्ति कर्हि चित् ॥ ५॥
जिह्वा चक्षुस्तथा श्रोत्रं त्वन्मनो बुद्धिरेव च ।
न गन्धानधिगच्छन्ति घ्राणस्तानधिगच्छति ॥ ६॥
घ्राणं चक्षुस्तथा श्रोत्रं त्वन्मनो बुद्धिरेव च ।
न रसानधिगच्छन्ति जिह्वा तानदिघच्छति ॥ ७॥
घ्राणं जिह्वा तथा श्रोत्रं त्वन्मनो बुद्धिरेव च ।
न रूपाण्यधिगच्छन्ति चक्षुस्तान्यधिगच्छति ॥ ८॥
घ्राणं जिह्वा च चक्षुश्च श्रोत्रं बुद्धिर्मनस्तथा ।
न स्पर्शानधिगच्छन्ति त्वक्च तानधिगच्छति ॥ ९॥
घ्राणं जिह्वा च चक्षुश् च त्वन्मनो बुद्धिरेव च ।
न शब्दानधिगच्छन्ति श्रोत्रं तानधिगच्छति ॥ १०॥
घ्राणं जिह्वा च चक्षुश्च त्वक्ष्रोत्रं बुद्धिरेव च ।
संशयान्नाधिगच्छन्ति मनस्तानधिगच्छति ॥ ११॥
घ्राणं जिह्वा च चक्षुश्च त्वक्ष्रोत्रं मन एव च ।
न निष्ठामधिगच्छन्ति बुद्धिस्ताम् अधिगच्छति ॥ १२॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
इन्द्रियाणां च संवादं मनसश्चैव भामिनि ॥ १३॥
मन उवाच
न घ्राति मामृते घ्राणं रसं जिह्वा न बुध्यते ।
रूपं चक्षुर्न गृह्णाति त्वक्स्पर्शं नावबुध्यते ॥ १४॥
न श्रोत्रं बुध्यते शब्दं मया हीनं कथं चन ।
प्रवरं सर्वभूतानामहमस्मि सनातनम् ॥ १५॥
अगाराणीव शून्यानि शान्तार्चिष इवाग्नयः ।
इन्द्रियाणि न भासन्ते मया हीनानि नित्यशः ॥ १६॥
काष्ठानीवार्द्र शुष्काणि यतमानैरपीन्द्रियैः ।
गुणार्थान्नाधिगच्छन्ति मामृते सर्वजन्तवः ॥ १७॥
इन्द्रियाण्यूचुः
एवमेतद्भवेत्सत्यं यथैतन्मन्यते भवान् ।
ऋतेऽस्मानस्मदर्थांस्तु भोगान्भुङ्क्ते भवान्यदि ॥ १८॥
यद्यस्मासु प्रलीनेषु तर्पणं प्राणधारणम् ।
भोगान्भुङ्क्ते रसान्भुङ्क्ते यथैतन्मन्यते तथा ॥ १९॥
अथ वास्मासु लीनेषु तिष्ठत्सु विषयेषु च ।
यदि सङ्कल्पमात्रेण भुङ्क्ते भोगान्यथार्थवत् ॥ २०॥
अथ चेन्मन्यसे सिद्धिमस्मदर्थेषु नित्यदा ।
घ्राणेन रूपमादत्स्व रसमादत्स्व चक्षुषा ॥ २१॥
श्रोत्रेण गन्धमादत्स्व निष्ठामादत्स्व जिह्वया ।
त्वचा च शब्दमादत्स्व बुद्ध्या स्पर्शमथापि च ॥ २२॥
बलवन्तो ह्यनियमा नियमा दुर्बलीयसाम् ।
भोगानपूर्वानादत्स्व नोच्छिष्टं भोक्तुमर्हसि ॥ २३॥
यथा हि शिष्यः शास्तारं श्रुत्यर्थमभिधावति ।
ततः श्रुतमुपादाय श्रुतार्थमुपतिष्ठति ॥ २४॥
विषयानेवमस्माभिर्दर्शितानभिमन्यसे ।
अनागतानतीतांश्च स्वप्ने जागरणे तथा ॥ २५॥
वैमनस्यं गतानां च जन्तूनामल्पचेतसाम् ।
अस्मदर्थे कृते कार्ये दृश्यते प्राणधारणम् ॥ २६॥
बहूनपि हि सङ्कल्पान्मत्वा स्वप्नानुपास्य च ।
बुभुक्षया पीड्यमानो विषयानेव धावसि ॥ २७॥
अगारमद्वारमिव प्रविश्य
सङ्कल्पभोगो विषयानविन्दन् ।
प्राणक्षये शान्तिमुपैति नित्यं
दारु क्षयेऽग्निर्ज्वलितो यथैव ॥ २८॥
कामं तु नः स्वेषु गुणेषु सङ्गः
कामच नान्योन्य गुणोपलब्धिः ।
अस्मानृते नास्ति तवोपलब्धिस्
त्वामप्यृतेऽस्मान्न भजेत हर्षः ॥ २९॥
इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि द्वाविंशोऽध्यायः ॥
अध्यायः २३
ब्राह्मण उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
सुभगे पञ्च होतॄणां विधानमिह यादृशम् ॥ १॥
प्राणापानावुदानश्च समानो व्यान एव च ।
पञ्च होतॄनथैतान्वै परं भावं विदुर्बुधाः ॥ २॥
ब्राह्मण्युवाच
स्वभावात्सप्त होतार इति ते पूर्विका मतिः ।
यथा वै पञ्च होतारः परो भावस्तथोच्यताम् ॥ ३॥
ब्राह्मण उवाच
प्राणेन सम्भृतो वायुरपानो जायते ततः ।
अपाने सम्भृतो वायुस्ततो व्यानः प्रवर्तते ॥ ४॥
व्यानेन सम्भृतो वायुस्तदोदानः प्रवर्तते ।
उदाने सम्भृतो वायुः समानः सम्प्रवर्तते ॥ ५॥
तेऽपृच्छन्त पुरा गत्वा पूर्वजातं प्रजापतिम् ।
यो नो ज्येष्ठस्तमाचक्ष्व स नः श्रेष्ठो भविष्यति ॥ ६॥
ब्रह्मोवाच
यस्मिन्प्रलीने प्रलयं व्रजन्ति
सर्वे प्राणाः प्राणभृतां शरीरे ।
यस्मिन्प्रचीर्णे च पुनश् चरन्ति
स वै श्रेष्ठो गच्छत यत्र कामः ॥ ७॥
प्राण उवाच
मयि प्रलीने प्रलयं व्रजन्ति
सर्वे प्राणाः प्राणभृतां शरीरे ।
मयि प्रचीर्णे च पुनश् चरन्ति
श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥ ८॥
ब्राह्मण उवाच
प्राणः प्रलीयत ततः पुनश्च प्रचचार ह ।
समानश्चाप्युदानश्च वचोऽब्रूतां ततः शुभे ॥ ९॥
न त्वं सर्वमिदं व्याप्य तिष्ठसीह यथा वयम् ।
न त्वं श्रेष्ठोऽसि नः प्राण अपानो हि वशे तव ।
प्रचचार पुनः प्राणस्तमपानोऽभ्यभाषत ॥ १०॥
मयि प्रलीने प्रलयं व्रजन्ति
सर्वे प्राणाः प्राणभृतां शरीरे ।
मयि प्रचीर्णे च पुनश् चरन्ति
श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥ ११॥
व्यानश्च तमुदानश्च भाषमाणमथोचतुः ।
अपान न त्वं श्रेष्ठोऽसि प्राणो हि वशगस्तव ॥ १२॥
अपानः प्रचचाराथ व्यानस्तं पुनरब्रवीत् ।
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना ॥ १३॥
मयि प्रलीने प्रलयं व्रजन्ति
सर्वे प्राणाः प्राणभृतां शरीरे ।
मयि प्रचीर्णे च पुनश् चरन्ति
श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥ १४॥
प्रालीयत ततो व्यानः पुनश्च प्रचचार ह ।
प्राणापानावुदानश्च समानश् च तमब्रुवन् ।
न त्वं श्रेष्ठोऽसि नो व्यान समानो हि वशे तव ॥ १५॥
प्रचचार पुनर्व्यानः समानः पुनरब्रवीत् ।
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना ॥ १६॥
मयि प्रलीने प्रलयं व्रजन्ति
सर्वे प्राणाः प्राणभृतां शरीरे ।
मयि प्रचीर्णे च पुनश् चरन्ति
श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥ १७॥
ततः समानः प्रालिल्ये पुनश्च प्रचचार ह ।
प्राणापानावुदानश्च व्यानश् चैव तमब्रुवन् ।
समानन त्वं श्रेष्ठोऽसि व्यान एव वशे तव ॥ १८॥
समानः प्रचचाराथ उदानस्तमुवाच ह ।
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना ॥ १९॥
मयि प्रलीने प्रलयं व्रजन्ति
सर्वे प्राणाः प्राणभृतां शरीरे ।
मयि प्रचीर्णे च पुनश् चरन्ति
श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥ २०॥
ततः प्रालीयतोदानः पुनश्च प्रचचार ह ।
प्राणापानौ समानश्च व्यानश् चैव तमब्रुवन् ।
उदान न त्वं श्रेष्ठोऽसि व्यान एव वशे तव ॥ २१॥
ततस्तानब्रवीद्ब्रह्मा समवेतान्प्रजापतिः ।
सर्वे श्रेष्ठा न वा श्रेष्ठाः सर्वे चान्योन्य धर्मिणः ।
सर्वे स्वविषये श्रेष्ठाः सर्वे चान्योन्य रक्षिणः ॥ २२॥
एकः स्थिरश्चास्थिरश्च विशेषात्पञ्च वायवः ।
एक एव ममैवात्मा बहुधाप्युपचीयते ॥ २३॥
परस्परस्य सुहृदो भावयन्तः परस्परम् ।
स्वस्ति व्रजत भद्रं वो धारयध्वं परस्परम् ॥ २४॥
इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि त्रयोविंशोऽध्यायः ॥
अध्यायः २४
ब्राह्मण उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
नारदस्य च संवादमृषेर्देवमतस्य च ॥ १॥
देवमत उवाच
जन्तोः सञ्जायमानस्य किं नु पूर्वं प्रवर्तते ।
प्राणोऽपानः समानो वा व्यानो वोदान एव च ॥ २॥
नारद उवाच
येनायं सृज्यते जन्तुस्ततोऽन्यः पूर्वमेति तम् ।
प्राणद्वन्द्वं च विज्ञेयं तिर्यगं चोर्ध्वगं च यत् ॥ ३॥
देवमत उवाच
केनायं सृज्यते जन्तुः कश्चान्यः पूर्वमेति तम् ।
प्राणद्वन्द्वं च मे ब्रूहि तिर्यगूर्ध्वं च निश्चयात् ॥ ४॥
नारद उवाच
सङ्कल्पाज्जायते हर्षः शब्दादपि च जायते ।
रसात्सञ्जायते चापि रूपादपि च जायते ॥ ५॥
स्पर्शात्सञ्जायते चापि गन्धादपि च जायते ।
एतद्रूपमुदानस्य हर्षो मिथुन सम्भवः ॥ ६॥
कामात्सञ्जायते शुक्रं कामात्सञ्जायते रसः ।
समानव्यान जनिते सामान्ये शुक्रशोणिते ॥ ७॥
शुक्राच्छोणित संसृष्टात्पूर्वं प्राणः प्रवर्तते ।
प्राणेन विकृते शुक्रे ततोऽपानः प्रवर्तते ॥ ८॥
प्राणापानाविदं द्वन्द्वमवाक्चोर्ध्वं च गच्छतः ।
व्यानः समानश्चैवोभौ तिर्यग्द्वन्द्वत्वमुच्यते ॥ ९॥
अग्निर्वै देवताः सर्वा इति वेदस्य शासनम् ।
सञ्जायते ब्राह्मणेषु ज्ञानं बुद्धिसमन्वितम् ॥ १०॥
तस्य धूमस्तमो रूपं रजो भस्म सुरेतसः ।
सत्त्वं सञ्जायते तस्य यत्र प्रक्षिप्यते हविः ॥ ११॥
आघारौ समानो व्यानश्चेति यज्ञविदो विदुः ।
प्राणापानावाज्यभागौ तयोर्मध्ये हुताशनः ।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ १२॥
निर्द्वन्द्वमिति यत्त्वेतत्तन्मे निगदतः शृणु ॥ १३॥
अहोरात्रमिदं द्वन्द्वं तयोर्मध्ये हुताशनः ।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ १४॥
उभे चैवायने द्वन्द्वं तयोर्मध्ये हुताशनः ।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ १५॥
उभे सत्यानृते द्वन्द्वं तयोर्मध्ये हुताशनः ।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ १६॥
उभे शुभाशुभे द्वन्द्वं तयोर्मध्ये हुताशनः ।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ १७॥
सच्चासच्चैव तद्द्वन्द्वं तयोर्मध्ये हुताशनः ।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ १८॥
प्रथमं समानो व्यानो व्यस्यते कर्म तेन तत् ।
तृतीयं तु समानेन पुनरेव व्यवस्यते ॥ १९॥
शान्त्यर्थं वामदेवं च शान्तिर्ब्रह्म सनातनम् ।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ २०॥
इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि चतुर्विंशोऽध्यायः ॥
अध्यायः २५
ब्राह्मण उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
चातुर्होत्र विधानस्य विधानमिह यादृशम् ॥ १॥
तस्य सर्वस्य विधिवद्विधानमुपदेक्ष्यते ।
शृणु मे गदतो भद्रे रहस्यमिदमुत्तमम् ॥ २॥
करणं कर्म कर्ता च मोक्ष इत्येव भामिनि ।
चत्वार एते होतारो यैरिदं जगदावृतम् ॥ ३॥
होतॄणां साधनं चैव शृणु सर्वमशेषतः ।
घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पञ्चमम् ।
मनो बुद्धिश्च सप्तैते विज्ञेया गुणहेतवः ॥ ४॥
गन्धो रसश्च रूपं च शब्दः स्पर्शश्च पञ्चमः ।
मन्तव्यमथ बोद्धव्यं सप्तैते कर्महेतवः ॥ ५॥
घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः ।
मन्ता बोद्धा च सप्तैते विज्ञेयाः कर्तृहेतवः ॥ ६॥
स्वगुणं भक्षयन्त्येते गुणवन्तः शुभाशुभम् ।
अहं च निर्गुणोऽत्रेति सप्तैते मोक्षहेतवः ॥ ७॥
विदुषां बुध्यमानानां स्वं स्वस्थानं यथाविधि ।
गुणास्ते देवता भूताः सततं भुञ्जते हविः ॥ ८॥
अदन्ह्यविद्वानन्नानि ममत्वेनोपपद्यते ।
आत्मार्थं पाचयन्नित्यं ममत्वेनोपहन्यते ॥ ९॥
अभक्ष्य भक्षणं चैव मद्य पानं च हन्ति तम् ।
स चान्नं हन्ति तच्चान्नं स हत्वा हन्यते बुधः ॥ १०॥
अत्ता ह्यन्नमिदं विद्वान्पुनर्जनयतीश्वरः ।
स चान्नाज्जायते तस्मिन्सूक्ष्मो नाम व्यतिक्रमः ॥ ११॥
मनसा गम्यते यच्च यच्च वाचा निरुध्यते ।
श्रोत्रेण श्रूयते यच्च चक्षुषा यच्च दृश्यते ॥ १२॥
स्पर्शेन स्पृश्यते यच्च घ्राणेन घ्रायते च यत् ।
मनःषष्ठानि संयम्य हवींष्येतानि सर्वशः ॥ १३॥
गुणवत्पावको मह्यं दीप्यते हव्यवाहनः ।
योगयज्ञः प्रवृत्तो मे ज्ञानब्रह्म मनोद्भवः ।
प्राणस्तोत्रोऽपान शस्त्रः सर्वत्यागसु दक्षिणः ॥ १४॥
कर्मानुमन्ता ब्रह्मा मे कर्ताध्वर्युः कृतस्तुतिः ।
कृतप्रशास्ता तच्छास्त्रमपवर्गोऽस्य दक्षिणा ॥ १५॥
ऋचश्चाप्यत्र शंसन्ति नारायण विदो जनाः ।
नारायणाय देवाय यदबध्नन्पशून्पुरा ॥ १६॥
तत्र सामानि गायन्ति तानि चाहुर्निदर्शनम् ।
देवं नारायणं भीरु सर्वात्मानं निबोध मे ॥ १७॥
इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि पञ्चविंशोऽध्यायः ॥
अध्यायः २६
ब्राह्मण उवाच
एकः शास्ता न द्वितीयोऽस्ति शास्ता
यथा नियुक्तोऽस्मि तथा चरामि ।
हृद्येष तिष्ठन्पुरुषः शास्ति शास्ता
तेनैव युक्तः प्रवणादिवोदकम् ॥ १॥
एको गुरुर्नास्ति ततो द्वितीयो
यो हृच्छयस्तमहमनुब्रवीमि ।
तेनानुशिष्टा गुरुणा सदैव
पराभूता दानवाः सर्व एव ॥ २॥
एको बन्धुर्नास्ति ततो द्वितीयो
यो हृच्छयस्तमहमनुब्रवीमि ।
तेनानुशिष्टा बान्धवा बन्धुमन्तः
सप्तर्षयः सप्त दिवि प्रभान्ति ॥ ३॥
एकः श्रोता नास्ति ततो द्वितीयो
यो हृच्छयस्तमहमनुब्रवीमि ।
तस्मिन्गुरौ गुरु वासं निरुष्य
शक्रो गतः सर्वलोकामरत्वम् ॥ ४॥
एको द्वेष्टा नास्ति ततो द्वितीयो
यो हृच्छयस्तमहमनुब्रवीमि ।
तेनानुशिष्टा गुरुणा सदैव
लोकद्विष्टाः पन्नगाः सर्व एव ॥ ५॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
प्रजापतौ पन्नगानां देवर्षीणां च संविदम् ॥ ६॥
देवर्षयश्च नागाश्च असुराश्च प्रजापतिम् ।
पर्यपृच्छन्नुपासीनाः श्रेयो नः प्रोच्यताम् इति ॥ ७॥
तेषां प्रोवाच भगवाञ्श्रेयः समनुपृच्छताम् ।
ओमित्येकाक्षरं ब्रह्म ते श्रुत्वा प्राद्रवन्दिशः ॥ ८॥
तेषां प्राद्रवमाणानामुपदेशार्थमात्मनः ।
सर्पाणां दशने भावः प्रवृत्तः पूर्वमेव तु ॥ ९॥
असुराणां प्रवृत्तस्तु दम्भभावः स्वभावजः ।
दानं देवा व्यवसिता दममेव महर्षयः ॥ १०॥
एकं शास्तारमासाद्य शब्देनैकेन संस्कृताः ।
नाना व्यवसिताः सर्वे सर्पदेवर्षिदानवाः ॥ ११॥
शृणोत्ययं प्रोच्यमानं गृह्णाति च यथातथम् ।
पृच्छतस्तावतो भूयो गुरुरन्योऽनुमन्यते ॥ १२॥
तस्य चानुमते कर्म ततः पश्चात्प्रवर्तते ।
गुरुर्बोद्धा च शत्रुश्च द्वेष्टा च हृदि संश्रितः ॥ १३॥
पापेन विचरँल्लोके पापचारी भवत्ययम् ।
शुभेन विचरँल्लोके शुभचारी भवत्युत ॥ १४॥
कामचारी तु कामेन य इन्द्रियसुखे रतः ।
व्रतवारी सदैवैष य इन्द्रियजये रतः ॥ १५॥
अपेतव्रतकर्मा तु केवलं ब्रह्मणि श्रितः ।
ब्रह्मभूतश्चरँल्लोके ब्रह्म चारी भवत्ययम् ॥ १६॥
ब्रह्मैव समिधस्तस्य ब्रह्माग्निर्ब्रह्म संस्तरः ।
आपो ब्रह्म गुरुर्ब्रह्म स ब्रह्मणि समाहितः ॥ १७॥
एतदेतादृशं सूक्ष्मं ब्रह्मचर्यं विदुर्बुधाः ।
विदित्वा चान्वपद्यन्त क्षेत्रज्ञेनानुदर्शिनः ॥ १८॥
इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि षड्विंशोऽध्यायः ॥
अध्यायः २७
ब्राह्मण उवाच
सङ्कल्पदंश मशकं शोकहर्षहिमातपम् ।
मोहान्ध कारतिमिरं लोभव्याल सरीसृपम् ॥ १॥
विषयैकात्ययाध्वानं कामक्रोधविरोधकम् ।
तदतीत्य महादुर्गं प्रविष्टोऽस्मि महद्वनम् ॥ २॥
ब्राह्मण्युवाच
क्व तद्वनं महाप्राज्ञ के वृक्षाः सरितश्च काः ।
गिरयः पर्वताश् चैव कियत्यध्वनि तद्वनम् ॥ ३॥
न तदस्ति पृथग्भावे किं चिदन्यत्ततः समम् ।
न तदस्त्यपृथग्भावे किं चिद्दूरतरं ततः ॥ ४॥
तस्माद्ध्रस्वतरं नास्ति न ततोऽस्ति बृहत्तरम् ।
नास्ति तस्माद्दुःखतरं नास्त्यन्यत्तत्समं सुखम् ॥ ५॥
न तत्प्रविश्य शोचन्ति न प्रहृष्यन्ति च द्विजाः ।
न च बिभ्यति केषां चित्तेभ्यो बिभ्यति के च न ॥ ६॥
तस्मिन्वने सप्त महाद्रुमाश् च
फलानि सप्तातिथयश् च सप्त ।
सप्ताश्रमाः सप्त समाधयश् च
दीक्षाश्च सप्तैतदरण्यरूपम् ॥ ७॥
पञ्च वर्णानि दिव्यानि पुष्पाणि च फलानि च ।
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥ ८॥
सुवर्णानि द्विवर्णानि पुष्पाणि च फलानि च ।
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥ ९॥
चतुर्वर्णाणि दिव्यानि पुष्पाणि च फलानि च ।
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥ १०॥
शङ्कराणित्रि वर्णानि पुष्पाणि च फलानि च ।
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥ ११॥
सुरभीण्येकवर्णानि पुष्पाणि च फलानिच ।
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥ १२॥
बहून्यव्यक्तवर्णानि पुष्पाणि च फलानिच ।
विसृजन्तौ महावृक्षौ तद्वनं व्याप्य तिष्ठतः ॥ १३॥
एको ह्यग्निः सुमना ब्राह्मणोऽत्र
पञ्चेन्द्रियाणि समिधश्चात्र सन्ति ।
तेभ्यो मोक्षाः सप्त भवन्ति दीक्षा
गुणाः फलान्यतिथयः फलाशाः ॥ १४॥
आतिथ्यं प्रतिगृह्णन्ति तत्र सप्तमहर्षयः ।
अर्चितेषु प्रलीनेषु तेष्वन्यद्रोचते वनम् ॥ १५॥
प्रतिज्ञा वृक्षमफलं शान्तिच्छाया समन्वितम् ।
ज्ञानाश्रयं तृप्तितोयमन्तः क्षेत्रज्ञभास्करम् ॥ १६॥
योऽधिगच्छन्ति तत्सन्तस्तेषां नास्ति भयं पुनः ।
ऊर्ध्वं चावाक्च तिर्यक्च तस्य नान्तोऽधिगम्यते ॥ १७॥
सप्त स्त्रियस्तत्र वसन्ति सद्यो
अवाङ्मुखा भानुमत्यो जनित्र्यः ।
ऊर्ध्वं रसानां ददते प्रजाभ्यः
सर्वान्यथा सर्वमनित्यतां च ॥ १८॥
तत्रैव प्रतितिष्ठन्ति पुनस्तत्रोदयन्ति च ।
सप्त सप्तर्षयः सिद्धा वसिष्ठप्रमुखाः सह ॥ १९॥
यशो वर्चो भगश्चैव विजयः सिद्धितेजसी ।
एवमेवानुवर्तन्ते सप्त ज्योतींषि भास्करम् ॥ २०॥
गिरयः पर्वताश्चैव सन्ति तत्र समासतः ।
नद्यश्च सरितो वारिवहन्त्यो ब्रह्म सम्भवम् ॥ २१॥
नदीनां सङ्गमस्तत्र वैतानः समुपह्वरे ।
स्वात्म तृप्ता यतो यान्ति साक्षाद्दान्ताः पितामहम् ॥ २२॥
कृशाशाः सुव्रताशाश्च तपसा दग्धकिल्बिषाः ।
आत्मन्यात्मानमावेश्य ब्रह्माणं समुपासते ॥ २३॥
ऋचमप्यत्र शंसन्ति विद्यारण्यविदो जनाः ।
तदरण्यमभिप्रेत्य यथा धीरमजायत ॥ २४॥
एतदेतादृशं दिव्यमरण्यं ब्राह्मणा विदुः ।
विदित्वा चान्वतिष्ठन्त क्षेत्रज्ञेनानुदर्शितम् ॥ २५॥
इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि सप्तविंशोऽध्यायः ॥
अध्यायः २८
ब्राह्मण उवाच
गन्धान्न जिघ्रामि रसान्न वेद्मि
रूपं न पश्यामि न च स्पृशामि ।
न चापि शब्दान्विविधाञ्शृणोमि
न चापि सङ्कल्पमुपैमि किं चित् ॥ १॥
अर्थानिष्टान्कामयते स्वभावः
सर्वान्द्वेष्यान्प्रद्विषते स्वभावः ।
कामद्वेषावुद्भवतः स्वभावात्
प्राणापानौ जन्तु देहान्निवेश्य ॥ २॥
तेभ्यश्चान्यांस्तेष्वनित्यांश्च भावान्
भूतात्मानं लक्षयेयं शरीरे ।
तस्मिंस्तिष्ठन्नास्मि शक्यः कथं चित्
कामक्रोधाभ्यां जरया मृत्युना च ॥ ३॥
अकामयानस्य च सर्वकामान्
अविद्विषाणस्य च सर्वदोषान् ।
न मे स्वभावेषु भवन्ति लेपास्
तोयस्य बिन्दोरिव पुष्करेषु ॥ ४॥
नित्यस्य चैतस्य भवन्ति नित्या
निरीक्षमाणस्य बहून्स्वभावान् ।
न सज्जते कर्मसु भोगजालं
दिवीव सूर्यस्य मयूखजालम् ॥ ५॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
अध्वर्यु यति संवादं तं निबोध यशस्विनि ॥ ६॥
प्रोक्ष्यमाणं पशुं दृष्ट्वा यज्ञकर्मण्यथाब्रवीत् ।
यतिरध्वर्युमासीनो हिंसेयमिति कुत्सयन् ॥ ७॥
तमध्वर्युः प्रत्युवाच नायं छागो विनश्यति ।
श्रेयसा योक्ष्यते जन्तुर्यदि श्रुतिरियं तथा ॥ ८॥
यो ह्यस्य पार्थिवो भागः पृथिवीं स गमिष्यति ।
यदस्य वारिजं किं चिदपस्तत्प्रतिपद्यते ॥ ९॥
सूर्यं चक्षुर्दिशः श्रोत्रे प्राणोऽस्य दिवमेव च ।
आगमे वर्तमानस्य न मे दोषोऽस्ति कश् चन ॥ १०॥
यतिरुवाच
प्राणैर्वियोगे छागस्य यदि श्रेयः प्रपश्यसि ।
छागार्थे वर्तते यज्ञो भवतः किं प्रयोजनम् ॥ ११॥
अनु त्वा मन्यतां माता पिता भ्राता सखापि च ।
मन्त्रयस्वैनमुन्नीय परवन्तं विशेषतः ॥ १२॥
य एवमनुमन्येरंस्तान्भवान्प्रष्टुमर्हति ।
तेषामनुमतं श्रुत्वा शक्या कर्तुं विचारणा ॥ १३॥
प्राणा अप्यस्य छागस्य प्रापितास्ते स्वयोनिषु ।
शरीरं केवलं शिष्टं निश्चेष्टमिति मे मतिः ॥ १४॥
इन्धनस्य तु तुल्येन शरीरेण विचेतसा ।
हिंसा निर्वेष्टु कामानामिन्धनं पशुसञ्ज्ञितम् ॥ १५॥
अहिंसा सर्वधर्माणामिति वृद्धानुशासनम् ।
यदहिंस्रं भवेत्कर्म तत्कार्यमिति विद्महे ॥ १६॥
अहिंसेति प्रतिज्ञेयं यदि वक्ष्याम्यतः परम् ।
शक्यं बहुविधं वक्तुं भवतः कार्यदूषणम् ॥ १७॥
अहिंसा सर्वभूतानां नित्यमस्मासु रोचते ।
प्रत्यक्षतः साधयामो न परोक्षमुपास्महे ॥ १८॥
अध्वर्युरुवाच
भूमेर्गन्धगुणान्भुङ्क्ष्व पिबस्यापोमयान्रसान् ।
ज्योतिषां पश्यसे रूपं स्पृशस्यनिलजान्गुणान् ॥ १९॥
शृणोष्याकाशजं शब्दं मनसा मन्यसे मतिम् ।
सर्वाण्येतानि भूतानि प्राणा इति च मन्यसे ॥ २०॥
प्राणादाने च नित्योऽसि हिंसायां वर्तते भवान् ।
नास्ति चेष्टा विना हिंसां किं वा त्वं मन्यसे द्विज ॥ २१॥
यतिरुवाच
अक्षरं च क्षरं चैव द्वैधी भावोऽयमात्मनः ।
अक्षरं तत्र सद्भावः स्वभावः क्षर उच्यते ॥ २२॥
प्राणो जिह्वा मनः सत्त्वं स्वभावो रजसा सह ।
भावैरेतैर्विमुक्तस्य निर्द्वन्द्वस्य निराशिषः ॥ २३॥
समस्य सर्वभूतेषु निर्ममस्य जितात्मनः ।
समन्तात्परिमुक्तस्य न भयं विद्यते क्व चित् ॥ २४॥
अध्वर्युरुवाच
सद्भिरेवेह संवासः कार्यो मतिमतां वर ।
भवतो हि मतं श्रुत्वा प्रतिभाति मतिर्मम ॥ २५॥
भगवन्भगवद्बुद्ध्या प्रतिबुद्धो ब्रवीम्यहम् ।
मतं मन्तुं क्रतुं कर्तुं नापराधोऽस्ति मे द्विज ॥ २६॥
ब्राह्मण उवाच
उपपत्त्या यतिस्तूष्णीं वर्तमानस्ततः परम् ।
अध्वर्युरपि निर्मोहः प्रचचार महामखे ॥ २७॥
एवमेतादृशं मोक्षं सुसूक्ष्मं ब्राह्मणा विदुः ।
विदित्वा चानुतिष्ठन्ति क्षेत्रज्ञेनानुदर्शिना ॥ २८॥
इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि अष्टाविंशोऽध्यायः ॥
अध्यायः २९
ब्राह्मण उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
कार्तवीर्यस्य संवादं समुद्रस्य च भामिनि ॥ १॥
कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् ।
येन सागरपर्यन्ता धनुषा निर्जिता मही ॥ २॥
स कदा चित्समुद्रान्ते विचरन्बलदर्पितः ।
अवाकिरच्छरशतैः समुद्रमिति नः श्रुतम् ॥ ३॥
तं समुद्रो नमस्कृत्य कृताञ्जलिरुवाच ह ।
मा मुञ्च वीर नाराचान्ब्रूहि किं करवाणि ते ॥ ४॥
मदाश्रयाणि भूतानि त्वद्विसृष्टैर्महेषुभिः ।
वध्यन्ते राजशार्दूल तेभ्यो देह्यभयं विभो ॥ ५॥
अर्जुव उवाच
मत्समो यदि सङ्ग्रामे शरासनधरः क्व चित् ।
विद्यते तं ममाचक्ष्व यः समासीत मां मृधे ॥ ६॥
समुद्र उवाच
महर्षिर्जमदग्निस्ते यदि राजन्परिश्रुतः ।
तस्य पुत्रस्तवातिथ्यं यथावत्कर्तुमर्हति ॥ ७॥
ततः स राजा प्रययौ क्रोधेन महता वृतः ।
स तमाश्रममागम्य रममेवान्वपद्यत ॥ ८॥
स राम प्रतिकूलानि चकार सह बन्धुभिः ।
आयासं जनयामास रामस्य च महात्मनः ॥ ९॥
ततस्तेजः प्रजज्वाल राजस्यामित तेजसः ।
प्रदहद्रिपुसैन्यानि तदा कमललोचने ॥ १०॥
ततः परशुमादाय स तं बाहुसहस्रिणम् ।
चिच्छेद सहसा रामो बाहुशाखमिव द्रुमम् ॥ ११॥
तं हतं पतितं दृष्ट्वा समेताः सर्वबान्धवाः ।
असीनादाय शक्तीश्च भार्गवं पर्यवारयन् ॥ १२॥
रामोऽपि धनुरादाय रथमारुह्य स त्वरः ।
विसृजञ्शरवर्षाणि व्यधमत्पार्थिवं बलम् ॥ १३॥
ततस्तु क्षत्रियाः के चिज्जमदग्निं निहत्य च ।
विविशुर्गिरिदुर्गाणि मृगाः सिंहार्दिता इव ॥ १४॥
तेषां स्वविहितं कर्म तद्भयान्नानुतिष्ठताम् ।
प्रजा वृषलतां प्राप्ता ब्राह्मणानामदर्शनात् ॥ १५॥
त एते द्रमिडाः काशाः पुण्ड्राश्च शबरैः सह ।
वृषलत्वं परिगता व्युत्थानात्क्षत्रधर्मतः ॥ १६॥
ततस्तु हतवीरासु क्षत्रियासु पुनः पुनः ।
द्विजैरुत्पादितं क्षत्रं जामदग्न्यो न्यकृन्तत ॥ १७॥
एव विंशतिमेधान्ते रामं वागशरीरिणी ।
दिव्या प्रोवाच मधुरा सर्वलोकपरिश्रुता ॥ १८॥
राम राम निवर्तस्व कं गुणं तात पश्यसि ।
क्षत्रबन्धूनिमान्प्राणैर्विप्रयोज्य पुनः पुनः ॥ १९॥
तथैव तं महात्मानमृचीकप्रमुखास्तदा ।
पितामहा महाभाग निवर्तस्वेत्यथाब्रुवन् ॥ २०॥
पितुर्वधममृष्यंस्तु रामः प्रोवाच तानृषीन् ।
नार्हन्तीह भवन्तो मां निवारयितुमित्युत ॥ २१॥
पितर ऊचुः
नार्हसे क्षत्रबन्धूंस्त्वं निहन्तुं जयतां वर ।
न हि युक्तं त्वया हन्तुं ब्राह्मणेन सता नृपान् ॥ २२॥
इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि एकोनत्रिंशोऽध्यायः ॥
अध्यायः ३०
पितर ऊचुः
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
श्रुत्वा च तत्तथा कार्यं भवता द्विजसत्तम ॥ १॥
अलर्को नाम राजर्षिरभवत्सुमहातपाः ।
धर्मज्ञः सत्यसन्धश्च महात्मा सुमहाव्रतः ॥ २॥
स सागरान्तां धनुषा विनिर्जित्य महीमिमाम् ।
कृत्वा सुदुष्करं कर्म मनः सूक्ष्मे समादधे ॥ ३॥
स्थितस्य वृक्षमूलेऽथ तस्य चिन्ता बभूव ह ।
उत्सृज्य सुमहद्राज्यं सूक्ष्मं प्रति महामते ॥ ४॥
अलर्क उवाच
मनसो मे बलं जातं मनो जित्वा ध्रुवो जयः ।
अन्यत्र बाणानस्यामि शत्रुभिः परिवारितः ॥ ५॥
यदिदं चापलान्मूर्तेः सर्वमेतच्चिकीर्षति ।
मनः प्रति सुतीक्ष्णाग्रानहं मोक्ष्यामि सायकान् ॥ ६॥
मन उवाच
नेमे बाणास्तरिष्यन्ति मामलर्क कथं चन ।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ ७॥
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि ।
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ ८॥
अलक उवाच
आघ्राय सुबहून्गन्धांस्तानेव प्रतिगृध्यति ।
तस्माद्घ्राणं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥ ९॥
घ्राण उवाच
नेमे बाणास्तरिष्यन्ति मामलर्क कथं चन ।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ १०॥
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि ।
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ ११॥
अलर्क उवाच
इयं स्वादून्रसान्भुक्त्वा तानेव प्रतिगृध्यति ।
तस्माज्जिह्वां प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥ १२॥
जिव्हा उवाच
नेमे बाणास्तरिष्यन्ति मामलर्क कथं चन ।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ १३॥
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि ।
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ १४॥
अलर्क उवाच
सृष्ट्वा त्वग्विविधान्स्पर्शांस्तानेव प्रतिगृध्यति ।
तस्मात्त्वचं पाटयिष्ये विविधैः कङ्कपत्रभिः ॥ १५॥
त्वगुवाच
नेमे बाणास्तरिष्यन्ति मामलर्क कथं चन ।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ १६॥
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि ।
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ १७॥
अलर्क उवाच
श्रुत्वा वै विविधाञ्शब्दांस्तानेव प्रतिगृध्यति ।
तस्माच्छ्रोत्रं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥ १८॥
श्रोत्रमुवाच
नेमे बाणास्तरिष्यन्ति मामलर्क कथं चन ।
तवैव मर्म भेत्स्यन्ति ततो हास्यसि जीवितम् ॥ १९॥
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि ।
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ २०॥
अलर्क उवाच
दृष्ट्वा वै विविधान्भावांस्तानेव प्रतिगृध्यति ।
तस्माच्चक्षुः प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥ २१॥
चक्षुरुवाच
नेमे बाणास्तरिष्यन्ति मामालर्क कथं चन ।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ २२॥
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यति ।
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ २३॥
अलर्क उवाच
इयं निष्ठा बहुविधा प्रज्ञया त्वध्यवस्यति ।
तस्माद्बुद्धिं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥ २४॥
बुद्धिरुवाच
नेमे बाणास्तरिष्यन्ति मामलर्क कथं चन ।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ २५॥
ब्राह्मण उवाच
ततोऽलर्कस्तपो घोरमास्थायाथ सुदुष्करम् ।
नाध्यगच्छत्परं शक्त्या बाणमेतेषु सप्तसु ।
सुसमाहित चित्तास्तु ततोऽचिन्तयत प्रभुः ॥ २६॥
स विचिन्त्य चिरं कालमलर्को द्विजसत्तम ।
नाध्यगच्छत्परं श्रेयो योगान्मतिमतां वरः ॥ २७॥
स एकाग्रं मनः कृत्वा निश्चलो योगमास्थितः ।
इन्द्रियाणि जघानाशु बाणेनैकेन वीर्यवान् ॥ २८॥
योगेनात्मानमाविश्य संसिद्धिं परमां ययौ ।
विस्मितश्चापि राजर्षिरिमां गाथां जगाद ह ।
अहो कष्टं यदस्माभिः पूर्वं राज्यमनुष्ठितम् ।
इति पश्चान्मया ज्ञातं योगान्नास्ति परं सुखम् ॥ २९॥
इति त्वमपि जानीहि राम मा क्षत्रियाञ् जहि ।
तपो घोरमुपातिष्ठ ततः श्रेयोऽभिपत्स्यसे ॥ ३०॥
ब्राह्मण उवाच
इत्युक्तः स तपो घोरं जामदग्न्यः पितामहैः ।
आस्थितः सुमहाभागो ययौ सिद्धिं च दुर्गमाम् ॥ ३१॥
इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि त्रिंशोऽध्यायः ॥
अध्यायः ३१
ब्राह्मण उवाच
त्रयो वै रिपवो लोके नव वै गुणतः स्मृताः ।
हर्षः स्तम्भोऽभिमानश्च त्रयस्ते सात्त्विका गुणाः ॥ १॥
शोकः क्रोधोऽतिसंरम्भो राजसास्ते गुणाः स्मृताः ।
स्वप्नस्तन्द्री च मोहश्च त्रयस्ते तामसा गुणाः ॥ २॥
एतान्निकृत्य धृतिमान्बाणसन्धैरतन्द्रितः ।
जेतुं परानुत्सहते प्रशान्तात्मा जितेन्द्रियः ॥ ३॥
अत्र गाथाः कीर्तयन्ति पुराकल्पविदो जनाः ।
अम्बरीषेण या गीता राज्ञा राज्यं प्रशासता ॥ ४॥
समुदीर्णेषु दोषेषु वध्यमानेषु साधुषु ।
जग्राह तरसा राज्यमम्बरीष इति श्रुतिः ॥ ५॥
स निगृह्य महादोषान्साधून्समभिपूज्य च ।
जगाम महतीं सिद्धिं गाथां चेमां जगाद ह ॥ ६॥
भूयिष्ठं मे जिता दोषा निहताः सर्वशत्रवः ।
एको दोषोऽवशिष्टस्तु वध्यः स न हतो मया ॥ ७॥
येन युक्तो जन्तुरयं वैतृष्ण्यं नाधिगच्छति ।
तृष्णार्त इव निम्नानि धावमानो न बुध्यते ॥ ८॥
अकार्यमपि येनेह प्रयुक्तः सेवते नरः ।
तं लोभमसिभिस्तीक्ष्णैर्निकृन्तन्तं निकृन्तत ॥ ९॥
लोभाद्धि जायते तृष्णा ततश्चिन्ता प्रसज्यते ।
स लिप्समानो लभते भूयिष्ठं राजसान्गुणान् ॥ १०॥
स तैर्गुणैः संहतदेहबन्धनः
पुनः पुनर्जायति कर्म चेहते ।
जन्म क्षये भिन्नविकीर्ण देहः
पुनर्मृत्युं गच्छति जन्मनि स्वे ॥ ११॥
तस्मादेनं सम्यगवेक्ष्य लोभं
निगृह्य धृत्यात्मनि राज्यमिच्छेत् ।
एतद्राज्यं नान्यदस्तीति विद्याद्
यस्त्वत्र राजा विजितो ममैकः ॥ १२॥
इति राज्ञाम्बरीषेण गाथा गीता यशस्विना ।
आधिराज्यं पुरस्कृत्य लोभमेकं निकृन्तता ॥ १३॥
इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि एकत्रिंशोऽध्यायः ॥
अध्यायः ३२
ब्राह्मण उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
ब्राह्मणस्य च संवादं जनकस्य च भामिनि ॥ १॥
ब्राह्मणं जनको राजा सन्नं कस्मिंश्चिदागमे ।
विषये मे न वस्तव्यमिति शिष्ट्यर्थमब्रवीत् ॥ २॥
इत्युक्तः प्रत्युवाचाथ ब्राह्मणो राजसत्तमम् ।
आचक्ष्व विषयं राजन्यावांस्तव वशे स्थितः ॥ ३॥
सोऽन्यस्य विषये राज्ञो वस्तुमिच्छाम्यहं विभो ।
वचस्ते कर्तुमिच्छामि यथाशास्त्रं महीपते ॥ ४॥
इत्युक्तः स तदा राजा ब्राह्मणेन यशस्विना ।
मुहुरुष्णं च निःश्वस्य न स तं प्रत्यभाषत ॥ ५॥
तमासीनं ध्यायमानं राजानममितौजसम् ।
कश्मलं सहसागच्छद्भानुमन्तमिव ग्रहः ॥ ६॥
समाश्वास्य ततो राजा व्यपेते कश्मले तदा ।
ततो मुहूर्तादिव तं ब्राह्मणं वाक्यमब्रवीत् ॥ ७॥
जनक उवाच
पितृपैतामहे राज्ये वश्ये जनपदे सति ।
विषयं नाधिगच्छामि विचिन्वन्पृथिवीमिमाम् ॥ ८॥
नाध्यगच्छं यदा पृथ्व्यां मिथिला मार्गिता मया ।
नाध्यगच्छं यदा तस्यां स्वप्रजा मार्गिता मया ॥ ९॥
नाध्यगच्छं यदा तासु तदा मे कश्मलोऽभवत् ।
ततो मे कश्मलस्यान्ते मतिः पुनरुपस्थिता ॥ १०॥
तया न विषयं मन्ये सर्वो वा विषयो मम ॥ ११॥
आत्मापि चायं न मम सर्वा वा पृथिवी मम ।
उष्यतां यावदुत्साहो भुज्यतां यावदिष्यते ॥ ११॥
ब्राह्मण उवाच
पितृपैतामहे राज्ये वश्ये जनपदे सति ।
ब्रूहि कां बुद्धिमास्थाय ममत्वं वर्जितं त्वया ॥ १२॥
कां वा बुद्धिं विनिश्चित्य सर्वो वै विषयस्तव ।
नावैषि विषयं येन सर्वो वा विषयस्तव ॥ १३॥
जनक उवाच
अन्तवन्त इहारम्भा विदिता सर्वकर्मसु । var इहावस्था
नाध्यगच्छमहं यस्मान्ममेदमिति यद्भवेत् ॥ १४॥
कस्येदमिति कस्य स्वमिति वेद वचस्तथा ।
नाध्यगच्छमहं बुद्ध्या ममेदमिति यद्भवेत् ॥ १५॥
एतां बुद्धिं विनिश्चित्य ममत्वं वर्जितं मया ।
शृणु बुद्धिं तु यां ज्ञात्वा सर्वत्र विषयो मम ॥ १६॥
नाहमात्मार्थमिच्छामि गन्धान्घ्राणगतानपि ।
तस्मान्मे निर्जिता भूमिर्वशे तिष्ठति नित्यदा ॥ १७॥
नाहमात्मार्थमिच्छामि रसानास्येऽपि वर्ततः ।
आपो मे निर्जितास्तस्माद्वशे तिष्ठन्ति नित्यदा ॥ १८॥
नाहमात्मार्थमिच्छामि रूपं ज्योतिश्च चक्षुषा ।
तस्मान्मे निर्जितं ज्योतिर्वशे तिष्ठति नित्यदा ॥ १९॥
नाहमात्मार्थमिच्छामि स्पर्शांस्त्वचि गताश् च ये ।
तस्मान्मे निर्जितो वायुर्वशे तिष्ठति नित्यदा ॥ २०॥
नाहमात्मार्थमिच्छामि शब्दाञ्श्रोत्रगतानपि ।
तस्मान्मे निर्जिताः शब्दा वशे तिष्ठन्ति नित्यदा ॥ २१॥
नाहमात्मार्थमिच्छामि मनो नित्यं मनोऽन्तरे ।
मनो मे निर्जितं तस्माद्वशे तिष्ठति नित्यदा ॥ २२॥
देवेभ्यश्च पितृभ्यश्च भूतेभ्योऽतिथिभिः सह ।
इत्यर्थं सर्व एवेमे समारम्भा भवन्ति वै ॥ २३॥
ततः प्रहस्य जनकं ब्राह्मणः पुनरब्रवीत् ।
त्वज्जिज्ञासार्थमद्येह विद्धि मां धर्ममागतम् ॥ २४॥
त्वमस्य ब्रह्म नाभस्य बुद्ध्यारस्यानिवर्तिनः ।
सत्त्वनेमि निरुद्धस्य चक्रस्यैकः प्रवर्तकः ॥ २५॥
इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि द्वात्रिंशोऽध्यायः ॥
अध्यायः ३३
ब्राह्मण उवाच
नाहं तथा भीरु चरामि लोके
तथा त्वं मां तर्कयसे स्वबुद्ध्या ।
विप्रोऽस्मि मुक्तोऽस्मि वनेचरोऽस्मि
गृहस्थ धर्मा ब्रह्म चारी तथास्मि ॥ १॥
नाहमस्मि यथा मां त्वं पश्यसे चक्षुषा शुभे ।
मया व्याप्तमिदं सर्वं यत्किं चिज्जगती गतम् ॥ २॥
ये के चिज्जन्तवो लोके जङ्गमाः स्थावराश् च ह ।
तेषां मामन्तकं विद्धि दारूणामिव पावकम् ॥ ३॥
राज्यं पृथिव्यां सर्वस्यामथ वापि त्रिविष्टपे ।
तथा बुद्धिरियं वेत्ति बुद्धिरेव धनं मम ॥ ४॥
एकः पन्था ब्राह्मणानां येन गच्छन्ति तद्विदः ।
गृहेषु वनवासेषु गुरु वासेषु भिक्षुषु ।
लिङ्गैर्बहुभिरव्यग्रैरेका बुद्धिरुपास्यते ॥ ५॥
नाना लिङ्गाश्रमस्थानां येषां बुद्धिः शमात्मिका ।
ते भावमेकमायान्ति सरितः सागरं यथा ॥ ६॥
बुद्ध्यायं गम्यते मार्गः शरीरेण न गम्यते ।
आद्यन्तवन्ति कर्माणि शरीरं कर्मबन्धनम् ॥ ७॥
तस्मात्ते सुभगे नास्ति परलोककृतं भयम् ।
मद्भावभावनिरता ममैवात्मानमेष्यसि ॥ ८॥
इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि त्रयस्त्रिंचोऽध्यायः ॥
अध्यायः ३४
ब्राह्मण्युवाच
नेदमल्पात्मना शक्यं वेदितुं नाकृतात्मना ।
बहु चाल्पं च सङ्क्षिप्तं विप्लुतं च मतं मम ॥ १॥
उपायं तु मम ब्रूहि येनैषा लभ्यते मतिः ।
तन्मन्ये कारणतमं यत एषा प्रवर्तते ॥ २॥
ब्राह्मण उवाच
अरणीं ब्राह्मणीं विद्धि गुरुरस्योत्तरारणिः ।
तपः श्रुतेऽभिमथ्नीतो ज्ञानाग्निर्जायते ततः ॥ ३॥
ब्राह्मण्युवाच
यदिदं ब्रह्मणो लिङ्गं क्षेत्रज्ञमिति सञ्ज्ञितम् ।
ग्रहीतुं येन तच्छक्यं लक्षणं तस्य तत्क्व नु ॥ ४॥
ब्राह्मण्युवाच
अलिङ्गो निर्गुणश्चैव कारणं नास्य विद्यते ।
उपायमेव वक्ष्यामि येन गृह्येत वा न वा ॥ ५॥
सम्यगप्युपदिष्टश्च भ्रमरैरिव लक्ष्यते ।
कर्म बुद्धिरबुद्धित्वाज्ज्ञानलिङ्गैरिवाश्रितम् ॥ ६॥
इदं कार्यमिदं नेति न मोक्षेषूपदिश्यते ।
पश्यतः शृण्वतो बुद्धिरात्मनो येषु जायते ॥ ७॥
यावन्त इह शक्येरंस्तावतोऽंशान्प्रकल्पयेत् ।
व्यक्तानव्यक्तरूपांश्च शतशोऽथ सहस्रशः ॥ ८॥
सर्वान्नानात्व युक्तांश्च सर्वान्प्रत्यक्षहेतुकान् ।
यतः परं न विद्येत ततोऽभ्यासे भविष्यति ॥ ९॥
वासुदेव उवाछ
ततस्तु तस्या ब्राह्मण्या मतिः क्षेत्रज्ञसङ्क्षये ।
क्षेत्रज्ञादेव परतः क्षेत्रज्ञोऽन्यः प्रवर्तते ॥ १०॥
अर्जुन उवाच
क्व नु सा ब्राह्मणी कृष्ण क्व चासौ ब्राह्मणर्षभः ।
याभ्यां सिद्धिरियं प्राप्ता तावुभौ वद मेऽच्युत ॥ ११॥
वासुदेव उवाच
मनो मे ब्राह्मणं विद्धि बुद्धिं मे विद्धि ब्राह्मणीम् ।
क्षेत्रज्ञ इति यश्चोक्तः सोऽहमेव धनञ्जय ॥ १२॥
इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि चतुस्त्रिंशोऽध्यायः ॥
॥ इति ब्राह्मणगीता समाप्ता ॥
॥ श्रीमद्भगवद्गीता ॥
॥ ॐ श्री परमात्मने नमः ॥
॥ अथ श्रीमद्भगवद्गीता ॥
अथ प्रथमोऽध्यायः । अर्जुनविषादयोगः
धृतराष्ट्र उवाच ।
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥ १-१॥
सञ्जय उवाच ।
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥ १-२॥
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ १-३॥
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथः ॥ १-४॥
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ १-५॥
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ १-६॥
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥ १-७॥
भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः ।
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥ १-८॥
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ १-९॥
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ १-१०॥
अयनेषु च सर्वेषु यथाभागमवस्थिताः ।
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ १-११॥
तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥ १-१२॥
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १-१३॥
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥ १-१४॥
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ १-१५॥
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ १-१६॥
काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥ १-१७॥
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥ १-१८॥
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
नभश्च पृथिवीं चैव तुमुलोऽभ्यनुनादयन् ॥ १-१९॥ orलो व्यनु
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः ।
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ॥ १-२०॥
हृषीकेशं तदा वाक्यमिदमाह महीपते ।
अर्जुन उवाच ।
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥ १-२१॥
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् ।
कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ॥ १-२२॥
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥ १-२३॥
सञ्जय उवाच ।
एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ १-२४॥
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥ १-२५॥
तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् ।
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ॥ १-२६॥
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि ।
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥ १-२७॥
कृपया परयाविष्टो विषीदन्निदमब्रवीत् ।
अर्जुन उवाच ।
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥ १-२८॥
सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥ १-२९॥
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ।
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥ १-३०॥
निमित्तानि च पश्यामि विपरीतानि केशव ।
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥ १-३१॥
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥ १-३२॥
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥ १-३३॥
आचार्याः पितरः पुत्रास्तथैव च पितामहाः ।
मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ॥ १-३४॥
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ।
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥ १-३५॥
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥ १-३६॥
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् ।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ १-३७॥
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥ १-३८॥
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ।
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥ १-३९॥
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ।
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥ १-४०॥
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ॥ १-४१॥
सङ्करो नरकायैव कुलघ्नानां कुलस्य च ।
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥ १-४२॥
दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः ।
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥ १-४३॥
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ।
नरके नियतं वासो भवतीत्यनुशुश्रुम ॥ १-४४॥orनरकेऽनियतं
अहो बत महत्पापं कर्तुं व्यवसिता वयम् ।
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥ १-४५॥
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ।
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥ १-४६॥
सञ्जय उवाच ।
एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् ।
विसृज्य सशरं चापं शोकसंविग्नमानसः ॥ १-४७॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
अर्जुनविषादयोगो नाम प्रथमोऽध्यायः ॥ १॥
अथ द्वितीयोऽध्यायः । साङ्ख्ययोगः
सञ्जय उवाच ।
तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् ।
विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ २-१॥
श्रीभगवानुवाच ।
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥ २-२॥
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ।
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥ २-३॥
अर्जुन उवाच ।
कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन ।
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ २-४॥
गुरूनहत्वा हि महानुभावान्
श्रेयो भोक्तुं भैक्ष्यमपीह लोके ।
हत्वार्थकामांस्तु गुरूनिहैव
भुञ्जीय भोगान् रुधिरप्रदिग्धान् ॥ २-५॥
न चैतद्विद्मः कतरन्नो गरीयो
यद्वा जयेम यदि वा नो जयेयुः ।
यानेव हत्वा न जिजीविषामस्-
तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ २-६॥
कार्पण्यदोषोपहतस्वभावः
पृच्छामि त्वां धर्मसम्मूढचेताः ।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे
शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥ २-७॥
न हि प्रपश्यामि ममापनुद्याद्
यच्छोकमुच्छोषणमिन्द्रियाणाम् ।
अवाप्य भूमावसपत्नमृद्धं
राज्यं सुराणामपि चाधिपत्यम् ॥ २-८॥
सञ्जय उवाच ।
एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप ।
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥ २-९॥
तमुवाच हृषीकेशः प्रहसन्निव भारत ।
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥ २-१०॥
श्रीभगवानुवाच ।
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ २-११॥
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।
न चैव न भविष्यामः सर्वे वयमतः परम् ॥ २-१२॥
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ २-१३॥
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ।
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥ २-१४॥
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥ २-१५॥
नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ २-१६॥
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ २-१७॥
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥ २-१८॥
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ २-१९॥
न जायते म्रियते वा कदाचिन्
नायं भूत्वा भविता वा न भूयः ।
अजो नित्यः शाश्वतोऽयं पुराणो
न हन्यते हन्यमाने शरीरे ॥ २-२०॥
वेदाविनाशिनं नित्यं य एनमजमव्ययम् ।
कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥ २-२१॥
वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णा-
न्यन्यानि संयाति नवानि देही ॥ २-२२॥
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ २-२३॥
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ २-२४॥
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ।
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥ २-२५॥
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।
तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥ २-२६॥
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥ २-२७॥
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।
अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ २-२८॥
आश्चर्यवत्पश्यति कश्चिदेन-
माश्चर्यवद्वदति तथैव चान्यः ।
आश्चर्यवच्चैनमन्यः शृणोति
श्रुत्वाप्येनं वेद न चैव कश्चित् ॥ २-२९॥
देही नित्यमवध्योऽयं देहे सर्वस्य भारत ।
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥ २-३०॥
स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ।
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥ २-३१॥
यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् ।
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥ २-३२॥
अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि ।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥ २-३३॥
अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् ।
सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥ २-३४॥
भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः ।
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥ २-३५॥
अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः ।
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥ २-३६॥
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ २-३७॥
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥ २-३८॥
एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु ।
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥ २-३९॥
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ २-४०॥
व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन ।
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥ २-४१॥
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः ।
वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥ २-४२॥
कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् ।
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥ २-४३॥
भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् ।
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥ २-४४॥
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥ २-४५॥
यावानर्थ उदपाने सर्वतः सम्प्लुतोदके ।
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ २-४६॥
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ २-४७॥
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥ २-४८॥
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय ।
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥ २-४९॥
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ २-५०॥
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥ २-५१॥
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ २-५२॥
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ।
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥ २-५३॥
अर्जुन उवाच ।
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ॥ २-५४॥
श्रीभगवानुवाच ।
प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् ।
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥ २-५५॥
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ २-५६॥
यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ।
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ २-५७॥
यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ २-५८॥
विषया विनिवर्तन्ते निराहारस्य देहिनः ।
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥ २-५९॥
यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ।
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ २-६०॥
तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ २-६१॥
ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते ।
सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ॥ २-६२॥
क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः ।
स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ २-६३॥
रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन् । orवियुक्तैस्तु
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥ २-६४॥
प्रसादे सर्वदुःखानां हानिरस्योपजायते ।
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥ २-६५॥
नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ।
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥ २-६६॥
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ।
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥ २-६७॥
तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ २-६८॥
या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ २-६९॥
आपूर्यमाणमचलप्रतिष्ठं
समुद्रमापः प्रविशन्ति यद्वत् ।
तद्वत्कामा यं प्रविशन्ति सर्वे
स शान्तिमाप्नोति न कामकामी ॥ २-७०॥
विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः ।
निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ॥ २-७१॥
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥ २-७२॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
साङ्ख्ययोगो नाम द्वितीयोऽध्यायः ॥ २॥
अथ तृतीयोऽध्यायः । कर्मयोगः
अर्जुन उवाच ।
ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।
तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥ ३-१॥
व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे ।
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥ ३-२॥
श्रीभगवानुवाच ।
लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।
ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥ ३-३॥
न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते ।
न च संन्यसनादेव सिद्धिं समधिगच्छति ॥ ३-४॥
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् ।
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ ३-५॥
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥ ३-६॥
यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ।
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥ ३-७॥
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।
शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥ ३-८॥
यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः ।
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥ ३-९॥
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥ ३-१०॥
देवान्भावयतानेन ते देवा भावयन्तु वः ।
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ ३-११॥
इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः ।
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥ ३-१२॥
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ।
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥ ३-१३॥
अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः ।
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ ३-१४॥
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् ।
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ ३-१५॥
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥ ३-१६॥
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।
आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥ ३-१७॥
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ ३-१८॥
तस्मादसक्तः सततं कार्यं कर्म समाचर ।
असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ॥ ३-१९॥
कर्मणैव हि संसिद्धिमास्थिता जनकादयः ।
लोकसङ्ग्रहमेवापि सम्पश्यन्कर्तुमर्हसि ॥ ३-२०॥
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ ३-२१॥
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ ३-२२॥
यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ ३-२३॥
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ।
सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥ ३-२४॥
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।
कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रहम् ॥ ३-२५॥
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।
जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥ ३-२६॥
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥ ३-२७॥
तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥ ३-२८॥
प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु ।
तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ॥ ३-२९॥
मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥ ३-३०॥
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ।
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥ ३-३१॥
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ॥ ३-३२॥
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ।
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥ ३-३३॥
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥ ३-३४॥
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ ३-३५॥
अर्जुन उवाच ।
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः ।
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥ ३-३६॥
श्रीभगवानुवाच ।
काम एष क्रोध एष रजोगुणसमुद्भवः ।
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ ३-३७॥
धूमेनाव्रियते वह्निर्यथादर्शो मलेन च ।
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥ ३-३८॥
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।
कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥ ३-३९॥
इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते ।
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥ ३-४०॥
तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ।
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥ ३-४१॥
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ ३-४२॥
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना ।
जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥ ३-४३॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
कर्मयोगो नाम तृतीयोऽध्यायः ॥ ३॥
अथ चतुर्थोऽध्यायः । ज्ञानकर्मसंन्यासयोगः
श्रीभगवानुवाच ।
इमं विवस्वते योगं प्रोक्तवानहमव्ययम् ।
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥ ४-१॥
एवं परम्पराप्राप्तमिमं राजर्षयो विदुः ।
स कालेनेह महता योगो नष्टः परन्तप ॥ ४-२॥
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ।
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥ ४-३॥
अर्जुन उवाच ।
अपरं भवतो जन्म परं जन्म विवस्वतः ।
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥ ४-४॥
श्रीभगवानुवाच ।
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।
तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥ ४-५॥
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् ।
प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥ ४-६॥
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ ४-७॥
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ ४-८॥
जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ।
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ ४-९॥
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।
बहवो ज्ञानतपसा पूता मद्भावमागताः ॥ ४-१०॥
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ ४-११॥
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ ४-१२॥
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः ।
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥ ४-१३॥
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ।
इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥ ४-१४॥
एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ।
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥ ४-१५॥
किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः ।
तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ ४-१६॥
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥ ४-१७॥
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।
स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ ४-१८॥
यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः ।
ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥ ४-१९॥
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।
कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः ॥ ४-२०॥
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ ४-२१॥
यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः ।
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥ ४-२२॥
गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ।
यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥ ४-२३॥
ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ ४-२४॥
दैवमेवापरे यज्ञं योगिनः पर्युपासते ।
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥ ४-२५॥
श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति ।
शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥ ४-२६॥
सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ।
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥ ४-२७॥
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥ ४-२८॥
अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे ।
प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥ ४-२९॥
अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति ।
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥ ४-३०॥
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् ।
नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥ ४-३१॥
एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ।
कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥ ४-३२॥
श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप ।
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ ४-३३॥
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ ४-३४॥
यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ।
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥ ४-३५॥ var अशेषाणि
अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।
सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥ ४-३६॥
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ ४-३७॥
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।
तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ ४-३८॥
श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः ।
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ ४-३९॥
अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ।
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ ४-४०॥
योगसंन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् ।
आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥ ४-४१॥
तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः ।
छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥ ४-४२॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
ज्ञानकर्मसंन्यासयोगो नाम चतुर्थोऽध्यायः ॥ ४॥
अथ पञ्चमोऽध्यायः । संन्यासयोगः
अर्जुन उवाच ।
संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥ ५-१॥
श्रीभगवानुवाच ।
संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ ।
तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥ ५-२॥
ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति ।
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥ ५-३॥
साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः ।
एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥ ५-४॥
यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।
एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥ ५-५॥
संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।
योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥ ५-६॥
योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥ ५-७॥
नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् ।
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ॥ ५-८॥
प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि ।
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥ ५-९॥
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ ५-१०॥
कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥ ५-११॥
युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् ।
अयुक्तः कामकारेण फले सक्तो निबध्यते ॥ ५-१२॥
सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी ।
नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ ५-१३॥
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ ५-१४॥
नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः ।
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ ५-१५॥
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥ ५-१६॥
तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः ।
गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ ५-१७॥
विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ ५-१८॥
इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।
निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥ ५-१९॥
न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् ।
स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः ॥ ५-२०॥
बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् ।
स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥ ५-२१॥
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ ५-२२॥
शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् ।
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥ ५-२३॥
योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः ।
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥ ५-२४॥
लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः ।
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥ ५-२५॥
कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ।
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ ५-२६॥
स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः ।
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ ५-२७॥
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ।
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥ ५-२८॥
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ ५-२९॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
संन्यासयोगो नाम पञ्चमोऽध्यायः ॥ ५॥
अथ षष्ठोऽध्यायः । आत्मसंयमयोगः
श्रीभगवानुवाच ।
अनाश्रितः कर्मफलं कार्यं कर्म करोति यः ।
स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥ ६-१॥
यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव ।
न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन ॥ ६-२॥
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।
योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ ६-३॥
यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते ।
सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते ॥ ६-४॥
उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ ६-५॥
बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः ।
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥ ६-६॥
जितात्मनः प्रशान्तस्य परमात्मा समाहितः ।
शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥ ६-७॥
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः ।
युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥ ६-८॥
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु ।
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥ ६-९॥
योगी युञ्जीत सततमात्मानं रहसि स्थितः ।
एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥ ६-१०॥
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ।
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥ ६-११॥
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ।
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥ ६-१२॥
समं कायशिरोग्रीवं धारयन्नचलं स्थिरः ।
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ ६-१३॥
प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः ।
मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥ ६-१४॥
युञ्जन्नेवं सदात्मानं योगी नियतमानसः ।
शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥ ६-१५॥
नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः ।
न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥ ६-१६॥
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥ ६-१७॥
यदा विनियतं चित्तमात्मन्येवावतिष्ठते ।
निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥ ६-१८॥
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥ ६-१९॥
यत्रोपरमते चित्तं निरुद्धं योगसेवया ।
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥ ६-२०॥
सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् ।
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥ ६-२१॥
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।
यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ॥ ६-२२॥
तं विद्याद् दुःखसंयोगवियोगं योगसंज्ञितम् ।
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥ ६-२३॥
सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः ।
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥ ६-२४॥
शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया ।
आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥ ६-२५॥
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ।
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ ६-२६॥
प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् ।
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ ६-२७॥
युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः ।
सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥ ६-२८॥
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ ६-२९॥
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ ६-३०॥
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ।
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥ ६-३१॥
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।
सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ ६-३२॥
अर्जुन उवाच ।
योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन ।
एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥ ६-३३॥
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् ।
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥ ६-३४॥
श्रीभगवानुवाच ।
असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ ६-३५॥
असंयतात्मना योगो दुष्प्राप इति मे मतिः ।
वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥ ६-३६॥
अर्जुन उवाच ।
अयतिः श्रद्धयोपेतो योगाच्चलितमानसः ।
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥ ६-३७॥
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति ।
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥ ६-३८॥
एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः ।
त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥ ६-३९॥
श्रीभगवानुवाच ।
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते ।
न हि कल्याणकृत्कश्चिद् दुर्गतिं तात गच्छति ॥ ६-४०॥
प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः ।
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ ६-४१॥
अथवा योगिनामेव कुले भवति धीमताम् ।
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥ ६-४२॥
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् ।
यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥ ६-४३॥
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः ।
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥ ६-४४॥
प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः ।
अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥ ६-४५॥
तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः ।
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥ ६-४६॥
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ।
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ॥ ६-४७॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
आत्मसंयमयोगो नाम षष्ठोऽध्यायः ॥ ६॥
अथ सप्तमोऽध्यायः । ज्ञानविज्ञानयोगः
श्रीभगवानुवाच ।
मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ ७-१॥
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ।
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥ ७-२॥
मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥ ७-३॥
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ ७-४॥
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ ७-५॥
एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ ७-६॥
मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय ।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ ७-७॥
रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः ।
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ ७-८॥
पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ ।
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥ ७-९॥
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥ ७-१०॥
बलं बलवतां चाहं कामरागविवर्जितम् ।
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ ७-११॥
ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥ ७-१२॥
त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् ।
मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥ ७-१३॥
दैवी ह्येषा गुणमयी मम माया दुरत्यया ।
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ ७-१४॥
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।
माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥ ७-१५॥
चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ ७-१६॥
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥ ७-१७॥
उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥ ७-१८॥
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥ ७-१९॥
कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः ।
तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥ ७-२०॥
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति ।
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ ७-२१॥
स तया श्रद्धया युक्तस्तस्याराधनमीहते ।
लभते च ततः कामान्मयैव विहितान्हि तान् ॥ ७-२२॥
अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ।
देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥ ७-२३॥
अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः ।
परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥ ७-२४॥
नाहं प्रकाशः सर्वस्य योगमायासमावृतः ।
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥ ७-२५॥
वेदाहं समतीतानि वर्तमानानि चार्जुन ।
भविष्याणि च भूतानि मां तु वेद न कश्चन ॥ ७-२६॥
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत ।
सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप ॥ ७-२७॥
येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ।
ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥ ७-२८॥
जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ।
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥ ७-२९॥
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥ ७-३०॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः ॥ ७॥
अथ अष्टमोऽध्यायः । अक्षरब्रह्मयोगः
अर्जुन उवाच ।
किं तद् ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ।
अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥ ८-१॥
अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन ।
प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥ ८-२॥
श्रीभगवानुवाच ।
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते ।
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥ ८-३॥
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् ।
अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ ८-४॥
अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् ।
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥ ८-५॥
यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् ।
तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ ८-६॥
तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च ।
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः ॥ ८-७॥ orसंशयम्
अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ।
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ ८-८॥
कविं पुराणमनुशासितार-
मणोरणीयंसमनुस्मरेद्यः ।
सर्वस्य धातारमचिन्त्यरूप-
मादित्यवर्णं तमसः परस्तात् ॥ ८-९॥
प्रयाणकाले मनसाऽचलेन
भक्त्या युक्तो योगबलेन चैव ।
भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्
स तं परं पुरुषमुपैति दिव्यम् ॥ ८-१०॥
यदक्षरं वेदविदो वदन्ति
विशन्ति यद्यतयो वीतरागाः ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति
तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥ ८-११॥
सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च ।
मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् ॥ ८-१२॥
ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ।
यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ ८-१३॥
अनन्यचेताः सततं यो मां स्मरति नित्यशः ।
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ ८-१४॥
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ।
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥ ८-१५॥
आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन ।
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ ८-१६॥
सहस्रयुगपर्यन्तमहर्यद् ब्रह्मणो विदुः ।
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥ ८-१७॥
अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥ ८-१८॥
भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ।
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥ ८-१९॥
परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः ।
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ ८-२०॥
अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् ।
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ ८-२१॥
पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।
यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ॥ ८-२२॥
यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः ।
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ ८-२३॥
अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ।
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥ ८-२४॥
धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् ।
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ ८-२५॥
शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते ।
एकया यात्यनावृत्तिमन्ययावर्तते पुनः ॥ ८-२६॥
नैते सृती पार्थ जानन्योगी मुह्यति कश्चन ।
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ ८-२७॥
वेदेषु यज्ञेषु तपःसु चैव
दानेषु यत्पुण्यफलं प्रदिष्टम् ।
अत्येति तत्सर्वमिदं विदित्वा
योगी परं स्थानमुपैति चाद्यम् ॥ ८-२८॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
अक्षरब्रह्मयोगो नामाष्टमोऽध्यायः ॥ ८॥
अथ नवमोऽध्यायः । राजविद्याराजगुह्ययोगः
श्रीभगवानुवाच ।
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ ९-१॥
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ ९-२॥
अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप ।
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ ९-३॥
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ ९-४॥
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥ ९-५॥
यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ ९-६॥
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ ९-७॥
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः ।
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ ९-८॥
न च मां तानि कर्माणि निबध्नन्ति धनञ्जय ।
उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ ९-९॥
मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् ।
हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ ९-१०॥
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ९-११॥
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ ९-१२॥
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ ९-१३॥
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः ।
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥ ९-१४॥
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते ।
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ ९-१५॥
अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् ।
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥ ९-१६॥
पिताहमस्य जगतो माता धाता पितामहः ।
वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव च ॥ ९-१७॥
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् ।
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥ ९-१८॥
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ।
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ ९-१९॥
त्रैविद्या मां सोमपाः पूतपापा
यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।
ते पुण्यमासाद्य सुरेन्द्रलोक-
मश्नन्ति दिव्यान्दिवि देवभोगान् ॥ ९-२०॥
ते तं भुक्त्वा स्वर्गलोकं विशालं
क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।
एवं त्रयीधर्ममनुप्रपन्ना
गतागतं कामकामा लभन्ते ॥ ९-२१॥
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ ९-२२॥
येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः ।
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ ९-२३॥
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥ ९-२४॥
यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः ।
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥ ९-२५॥
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ ९-२६॥
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ ९-२७॥
शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः ।
संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥ ९-२८॥
समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ।
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥ ९-२९॥
अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ ९-३०॥
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति ।
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ ९-३१॥
मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः ।
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥ ९-३२॥
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ।
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥ ९-३३॥
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥ ९-३४॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः ॥ ९॥
अथ दशमोऽध्यायः । विभूतियोगः
श्रीभगवानुवाच ।
भूय एव महाबाहो शृणु मे परमं वचः ।
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ १०-१॥
न मे विदुः सुरगणाः प्रभवं न महर्षयः ।
अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥ १०-२॥
यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ।
असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥ १०-३॥
बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः ।
सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥ १०-४॥
अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः ।
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥ १०-५॥
महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा ।
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥ १०-६॥
एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः ।
सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥ १०-७॥
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।
इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥ १०-८॥
मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् ।
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ १०-९॥
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ १०-१०॥
तेषामेवानुकम्पार्थमहमज्ञानजं तमः ।
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ १०-११॥
अर्जुन उवाच ।
परं ब्रह्म परं धाम पवित्रं परमं भवान् ।
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ १०-१२॥
आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा ।
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥ १०-१३॥
सर्वमेतदृतं मन्ये यन्मां वदसि केशव ।
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ॥ १०-१४॥
स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम ।
भूतभावन भूतेश देवदेव जगत्पते ॥ १०-१५॥
वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः ।
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥ १०-१६॥
कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् ।
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥ १०-१७॥
विस्तरेणात्मनो योगं विभूतिं च जनार्दन ।
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥ १०-१८॥
श्रीभगवानुवाच ।
हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः ।
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥ १०-१९॥
अहमात्मा गुडाकेश सर्वभूताशयस्थितः ।
अहमादिश्च मध्यं च भूतानामन्त एव च ॥ १०-२०॥
आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् ।
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥ १०-२१॥
वेदानां सामवेदोऽस्मि देवानामस्मि वासवः ।
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥ १०-२२॥
रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् ।
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥ १०-२३॥
पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ।
सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥ १०-२४॥
महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् ।
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥ १०-२५॥
अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः ।
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥ १०-२६॥
उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् ।
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ १०-२७॥
आयुधानामहं वज्रं धेनूनामस्मि कामधुक् ।
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥ १०-२८॥
अनन्तश्चास्मि नागानां वरुणो यादसामहम् ।
पितॄणामर्यमा चास्मि यमः संयमतामहम् ॥ १०-२९॥
प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् ।
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥ १०-३०॥
पवनः पवतामस्मि रामः शस्त्रभृतामहम् ।
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥ १०-३१॥
सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन ।
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥ १०-३२॥
अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च ।
अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ॥ १०-३३॥
मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् ।
कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥ १०-३४॥
बृहत्साम तथा साम्नां गायत्री छन्दसामहम् ।
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥ १०-३५॥
द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् ।
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥ १०-३६॥
वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः ।
मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥ १०-३७॥
दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् ।
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥ १०-३८॥
यच्चापि सर्वभूतानां बीजं तदहमर्जुन ।
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥ १०-३९॥
नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप ।
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥ १०-४०॥
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।
तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम् ॥ १०-४१॥
अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ।
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥ १०-४२॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
विभूतियोगो नाम दशमोऽध्यायः ॥ १०॥
अथैकादशोऽध्यायः । विश्वरूपदर्शनयोगः
अर्जुन उवाच ।
मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् ।
यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ ११-१॥
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥ ११-२॥
एवमेतद्यथात्थ त्वमात्मानं परमेश्वर ।
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥ ११-३॥
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ।
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥ ११-४॥
श्रीभगवानुवाच ।
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः ।
नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ ११-५॥
पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा ।
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥ ११-६॥
इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् ।
मम देहे गुडाकेश यच्चान्यद् द्रष्टुमिच्छसि ॥ ११-७॥
न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा ।
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥ ११-८॥
सञ्जय उवाच ।
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः ।
दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ ११-९॥
अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् ।
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥ ११-१०॥
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ।
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥ ११-११॥
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता ।
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥ ११-१२॥
तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा ।
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥ ११-१३॥
ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः ।
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥ ११-१४॥
अर्जुन उवाच ।
पश्यामि देवांस्तव देव देहे
सर्वांस्तथा भूतविशेषसङ्घान् ।
ब्रह्माणमीशं कमलासनस्थ-
मृषींश्च सर्वानुरगांश्च दिव्यान् ॥ ११-१५॥
अनेकबाहूदरवक्त्रनेत्रं
पश्यामि त्वां सर्वतोऽनन्तरूपम् ।
नान्तं न मध्यं न पुनस्तवादिं
पश्यामि विश्वेश्वर विश्वरूप ॥ ११-१६॥
किरीटिनं गदिनं चक्रिणं च
तेजोराशिं सर्वतो दीप्तिमन्तम् ।
पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्
दीप्तानलार्कद्युतिमप्रमेयम् ॥ ११-१७॥
त्वमक्षरं परमं वेदितव्यं
त्वमस्य विश्वस्य परं निधानम् ।
त्वमव्ययः शाश्वतधर्मगोप्ता
सनातनस्त्वं पुरुषो मतो मे ॥ ११-१८॥
अनादिमध्यान्तमनन्तवीर्य-
मनन्तबाहुं शशिसूर्यनेत्रम् ।
पश्यामि त्वां दीप्तहुताशवक्त्रं
स्वतेजसा विश्वमिदं तपन्तम् ॥ ११-१९॥
द्यावापृथिव्योरिदमन्तरं हि
व्याप्तं त्वयैकेन दिशश्च सर्वाः ।
दृष्ट्वाद्भुतं रूपमुग्रं तवेदं
लोकत्रयं प्रव्यथितं महात्मन् ॥ ११-२०॥
अमी हि त्वां सुरसङ्घा विशन्ति
केचिद्भीताः प्राञ्जलयो गृणन्ति ।
स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः
स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ ११-२१॥
रुद्रादित्या वसवो ये च साध्या
विश्वेऽश्विनौ मरुतश्चोष्मपाश्च ।
गन्धर्वयक्षासुरसिद्धसङ्घा
वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥ ११-२२॥
रूपं महत्ते बहुवक्त्रनेत्रं
महाबाहो बहुबाहूरुपादम् ।
बहूदरं बहुदंष्ट्राकरालं
दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ॥ ११-२३॥
नभःस्पृशं दीप्तमनेकवर्णं
व्यात्ताननं दीप्तविशालनेत्रम् ।
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा
धृतिं न विन्दामि शमं च विष्णो ॥ ११-२४॥
दंष्ट्राकरालानि च ते मुखानि
दृष्ट्वैव कालानलसन्निभानि ।
दिशो न जाने न लभे च शर्म
प्रसीद देवेश जगन्निवास ॥ ११-२५॥
अमी च त्वां धृतराष्ट्रस्य पुत्राः
सर्वे सहैवावनिपालसङ्घैः ।
भीष्मो द्रोणः सूतपुत्रस्तथासौ
सहास्मदीयैरपि योधमुख्यैः ॥ ११-२६॥
वक्त्राणि ते त्वरमाणा विशन्ति
दंष्ट्राकरालानि भयानकानि ।
केचिद्विलग्ना दशनान्तरेषु
सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥ ११-२७॥
यथा नदीनां बहवोऽम्बुवेगाः
समुद्रमेवाभिमुखा द्रवन्ति ।
तथा तवामी नरलोकवीरा
विशन्ति वक्त्राण्यभिविज्वलन्ति ॥ ११-२८॥
यथा प्रदीप्तं ज्वलनं पतङ्गा
विशन्ति नाशाय समृद्धवेगाः ।
तथैव नाशाय विशन्ति लोकास्-
तवापि वक्त्राणि समृद्धवेगाः ॥ ११-२९॥
लेलिह्यसे ग्रसमानः समन्ताल्-
लोकान्समग्रान्वदनैर्ज्वलद्भिः ।
तेजोभिरापूर्य जगत्समग्रं
भासस्तवोग्राः प्रतपन्ति विष्णो ॥ ११-३०॥
आख्याहि मे को भवानुग्ररूपो
नमोऽस्तु ते देववर प्रसीद ।
विज्ञातुमिच्छामि भवन्तमाद्यं
न हि प्रजानामि तव प्रवृत्तिम् ॥ ११-३१॥
श्रीभगवानुवाच ।
कालोऽस्मि लोकक्षयकृत्प्रवृद्धो
लोकान्समाहर्तुमिह प्रवृत्तः ।
ऋतेऽपि त्वां न भविष्यन्ति सर्वे
येऽवस्थिताः प्रत्यनीकेषु योधाः ॥ ११-३२॥
तस्मात्त्वमुत्तिष्ठ यशो लभस्व
जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् ।
मयैवैते निहताः पूर्वमेव
निमित्तमात्रं भव सव्यसाचिन् ॥ ११-३३॥
द्रोणं च भीष्मं च जयद्रथं च
कर्णं तथान्यानपि योधवीरान् ।
मया हतांस्त्वं जहि मा व्यथिष्ठा
युध्यस्व जेतासि रणे सपत्नान् ॥ ११-३४॥
सञ्जय उवाच ।
एतच्छ्रुत्वा वचनं केशवस्य
कृताञ्जलिर्वेपमानः किरीटी ।
नमस्कृत्वा भूय एवाह कृष्णं
सगद्गदं भीतभीतः प्रणम्य ॥ ११-३५॥
अर्जुन उवाच ।
स्थाने हृषीकेश तव प्रकीर्त्या
जगत्प्रहृष्यत्यनुरज्यते च ।
रक्षांसि भीतानि दिशो द्रवन्ति
सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥ ११-३६॥
कस्माच्च ते न नमेरन्महात्मन्
गरीयसे ब्रह्मणोऽप्यादिकर्त्रे ।
अनन्त देवेश जगन्निवास
त्वमक्षरं सदसत्तत्परं यत् ॥ ११-३७॥
त्वमादिदेवः पुरुषः पुराणस्-
त्वमस्य विश्वस्य परं निधानम् ।
वेत्तासि वेद्यं च परं च धाम
त्वया ततं विश्वमनन्तरूप ॥ ११-३८॥
वायुर्यमोऽग्निर्वरुणः शशाङ्कः
प्रजापतिस्त्वं प्रपितामहश्च ।
नमो नमस्तेऽस्तु सहस्रकृत्वः
पुनश्च भूयोऽपि नमो नमस्ते ॥ ११-३९॥
नमः पुरस्तादथ पृष्ठतस्ते
नमोऽस्तु ते सर्वत एव सर्व ।
अनन्तवीर्यामितविक्रमस्त्वं
सर्वं समाप्नोषि ततोऽसि सर्वः ॥ ११-४०॥
सखेति मत्वा प्रसभं यदुक्तं
हे कृष्ण हे यादव हे सखेति ।
अजानता महिमानं तवेदं
मया प्रमादात्प्रणयेन वापि ॥ ११-४१॥
यच्चावहासार्थमसत्कृतोऽसि
विहारशय्यासनभोजनेषु ।
एकोऽथवाप्यच्युत तत्समक्षं
तत्क्षामये त्वामहमप्रमेयम् ॥ ११-४२॥
पितासि लोकस्य चराचरस्य
त्वमस्य पूज्यश्च गुरुर्गरीयान् ।
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो
लोकत्रयेऽप्यप्रतिमप्रभाव ॥ ११-४३॥
तस्मात्प्रणम्य प्रणिधाय कायं
प्रसादये त्वामहमीशमीड्यम् ।
पितेव पुत्रस्य सखेव सख्युः
प्रियः प्रियायार्हसि देव सोढुम् ॥ ११-४४॥
अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा
भयेन च प्रव्यथितं मनो मे ।
तदेव मे दर्शय देव रूपं
प्रसीद देवेश जगन्निवास ॥ ११-४५॥
किरीटिनं गदिनं चक्रहस्तं
इच्छामि त्वां द्रष्टुमहं तथैव ।
तेनैव रूपेण चतुर्भुजेन
सहस्रबाहो भव विश्वमूर्ते ॥ ११-४६॥
श्रीभगवानुवाच ।
मया प्रसन्नेन तवार्जुनेदं
रूपं परं दर्शितमात्मयोगात् ।
तेजोमयं विश्वमनन्तमाद्यं
यन्मे त्वदन्येन न दृष्टपूर्वम् ॥ ११-४७॥
न वेदयज्ञाध्ययनैर्न दानैर्-
न च क्रियाभिर्न तपोभिरुग्रैः ।
एवंरूपः शक्य अहं नृलोके
द्रष्टुं त्वदन्येन कुरुप्रवीर ॥ ११-४८॥
मा ते व्यथा मा च विमूढभावो
दृष्ट्वा रूपं घोरमीदृङ्ममेदम् ।
व्यपेतभीः प्रीतमनाः पुनस्त्वं
तदेव मे रूपमिदं प्रपश्य ॥ ११-४९॥
सञ्जय उवाच ।
इत्यर्जुनं वासुदेवस्तथोक्त्वा
स्वकं रूपं दर्शयामास भूयः ।
आश्वासयामास च भीतमेनं
भूत्वा पुनः सौम्यवपुर्महात्मा ॥ ११-५०॥
अर्जुन उवाच ।
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन ।
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥ ११-५१॥
श्रीभगवानुवाच ।
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम ।
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥ ११-५२॥
नाहं वेदैर्न तपसा न दानेन न चेज्यया ।
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥ ११-५३॥
भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥ ११-५४॥
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः ।
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥ ११-५५॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
विश्वरूपदर्शनयोगो नामैकादशोऽध्यायः ॥ ११॥
अथ द्वादशोऽध्यायः । भक्तियोगः
अर्जुन उवाच ।
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥ १२-१॥
श्रीभगवानुवाच ।
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ।
श्रद्धया परयोपेताः ते मे युक्ततमा मताः ॥ १२-२॥
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ।
सर्वत्रगमचिन्त्यञ्च कूटस्थमचलन्ध्रुवम् ॥ १२-३॥
सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः ।
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥ १२-४॥
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ।
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥ १२-५॥
ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः ।
अनन्येनैव योगेन मां ध्यायन्त उपासते ॥ १२-६॥
तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।
भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् ॥ १२-७॥
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय ।
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥ १२-८॥
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् ।
अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ॥ १२-९॥
अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव ।
मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ॥ १२-१०॥
अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः ।
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥ १२-११॥
श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते ।
ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥ १२-१२॥
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ।
निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥ १२-१३॥
सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः ।
मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥ १२-१४॥
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥ १२-१५॥
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ।
सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥ १२-१६॥
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति ।
शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ॥ १२-१७॥
समः शत्रौ च मित्रे च तथा मानापमानयोः ।
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ १२-१८॥
तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् ।
अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ॥ १२-१९॥
ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते ।
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥ १२-२०॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
भक्तियोगो नाम द्वादशोऽध्यायः ॥ १२॥
अथ त्रयोदशोऽध्यायः । क्षेत्रक्षेत्रज्ञविभागयोगः
अर्जुन उवाच ।
प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च ।
एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ॥ १३-१॥
श्रीभगवानुवाच ।
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ १३-२॥
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ १३-३॥
तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् ।
स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥ १३-४॥
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् ।
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥ १३-५॥
महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च ।
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥ १३-६॥
इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः ।
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥ १३-७॥
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् ।
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ १३-८॥
इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च ।
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ १३-९॥
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥ १३-१०॥
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।
विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ १३-११॥
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥ १३-१२॥
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते ।
अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥ १३-१३॥
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ १३-१४॥
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥ १३-१५॥
बहिरन्तश्च भूतानामचरं चरमेव च ।
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥ १३-१६॥
अविभक्तं च भूतेषु विभक्तमिव च स्थितम् ।
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ १३-१७॥
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ।
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥ १३-१८॥
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः ।
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥ १३-१९॥
प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि ।
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ॥ १३-२०॥
कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते ।
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ १३-२१॥
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् ।
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥ १३-२२॥
उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः ।
परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ॥ १३-२३॥
य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह ।
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥ १३-२४॥
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।
अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥ १३-२५॥
अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते ।
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥ १३-२६॥
यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् ।
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥ १३-२७॥
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ १३-२८॥
समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् ।
न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥ १३-२९॥
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।
यः पश्यति तथात्मानमकर्तारं स पश्यति ॥ १३-३०॥
यदा भूतपृथग्भावमेकस्थमनुपश्यति ।
तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ १३-३१॥
अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः ।
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥ १३-३२॥
यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते ।
सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥ १३-३३॥
यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ।
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ १३-३४॥
क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा ।
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥ १३-३५॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
क्षेत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्यायः ॥ १३॥
अथ चतुर्दशोऽध्यायः । गुणत्रयविभागयोगः
श्रीभगवानुवाच ।
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् ।
यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥ १४-१॥
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ १४-२॥
मम योनिर्महद् ब्रह्म तस्मिन्गर्भं दधाम्यहम् ।
सम्भवः सर्वभूतानां ततो भवति भारत ॥ १४-३॥
सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः ।
तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ॥ १४-४॥
सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ।
निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥ १४-५॥
तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् ।
सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥ १४-६॥
रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् ।
तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ १४-७॥
तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् ।
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥ १४-८॥
सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत ।
ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ॥ १४-९॥
रजस्तमश्चाभिभूय सत्त्वं भवति भारत ।
रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥ १४-१०॥
सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते ।
ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥ १४-११॥
लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा ।
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥ १४-१२॥
अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च ।
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥ १४-१३॥
यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् ।
तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥ १४-१४॥
रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते ।
तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥ १४-१५॥
कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् ।
रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥ १४-१६॥
सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च ।
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ १४-१७॥
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ।
जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥ १४-१८॥
नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति ।
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥ १४-१९॥
गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् ।
जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ॥ १४-२०॥
अर्जुन उवाच ।
कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो ।
किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ॥ १४-२१॥
श्रीभगवानुवाच ।
प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव ।
न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ॥ १४-२२॥
उदासीनवदासीनो गुणैर्यो न विचाल्यते ।
गुणा वर्तन्त इत्येवं योऽवतिष्ठति नेङ्गते ॥ १४-२३॥
समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः ।
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥ १४-२४॥
मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः ।
सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥ १४-२५॥
मां च योऽव्यभिचारेण भक्तियोगेन सेवते ।
स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ॥ १४-२६॥
ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च ।
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥ १४-२७॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः ॥ १४॥
अथ पञ्चदशोऽध्यायः । पुरुषोत्तमयोगः
श्रीभगवानुवाच ।
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ १५-१॥
अधश्चोर्ध्वं प्रसृतास्तस्य शाखा
गुणप्रवृद्धा विषयप्रवालाः ।
अधश्च मूलान्यनुसन्ततानि
कर्मानुबन्धीनि मनुष्यलोके ॥ १५-२॥
न रूपमस्येह तथोपलभ्यते
नान्तो न चादिर्न च सम्प्रतिष्ठा ।
अश्वत्थमेनं सुविरूढमूलं
असङ्गशस्त्रेण दृढेन छित्त्वा ॥ १५-३॥
ततः पदं तत्परिमार्गितव्यं
यस्मिन्गता न निवर्तन्ति भूयः ।
तमेव चाद्यं पुरुषं प्रपद्ये ।
यतः प्रवृत्तिः प्रसृता पुराणी ॥ १५-४॥
निर्मानमोहा जितसङ्गदोषा
अध्यात्मनित्या विनिवृत्तकामाः ।
द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैर्-
गच्छन्त्यमूढाः पदमव्ययं तत् ॥ १५-५॥
न तद्भासयते सूर्यो न शशाङ्को न पावकः ।
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥ १५-६॥
ममैवांशो जीवलोके जीवभूतः सनातनः ।
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ १५-७॥
शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः ।
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥ १५-८॥
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।
अधिष्ठाय मनश्चायं विषयानुपसेवते ॥ १५-९॥
उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् ।
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥ १५-१०॥
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् ।
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥ १५-११॥
यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ १५-१२॥
गामाविश्य च भूतानि धारयाम्यहमोजसा ।
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥ १५-१३॥
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥ १५-१४॥
सर्वस्य चाहं हृदि सन्निविष्टो
मत्तः स्मृतिर्ज्ञानमपोहनञ्च ।
वेदैश्च सर्वैरहमेव वेद्यो
वेदान्तकृद्वेदविदेव चाहम् ॥ १५-१५॥
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ १५-१६॥
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ १५-१७॥
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ १५-१८॥
यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ।
स सर्वविद्भजति मां सर्वभावेन भारत ॥ १५-१९॥
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।
एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥ १५-२०॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुन संवादे
पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः ॥ १५॥
अथ षोडशोऽध्यायः । दैवासुरसम्पद्विभागयोगः
श्रीभगवानुवाच ।
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ १६-१॥
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ।
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥ १६-२॥
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ।
भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ १६-३॥
दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च ।
अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥ १६-४॥
दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता ।
मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ॥ १६-५॥
द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च ।
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥ १६-६॥
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ।
न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ १६-७॥
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।
अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ॥ १६-८॥
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥ १६-९॥
काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः ।
मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ॥ १६-१०॥
चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः ।
कामोपभोगपरमा एतावदिति निश्चिताः ॥ १६-११॥
आशापाशशतैर्बद्धाः कामक्रोधपरायणाः ।
ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥ १६-१२॥
इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् ।
इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥ १६-१३॥
असौ मया हतः शत्रुर्हनिष्ये चापरानपि ।
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥ १६-१४॥
आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया ।
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥ १६-१५॥
अनेकचित्तविभ्रान्ता मोहजालसमावृताः ।
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥ १६-१६॥
आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः ।
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥ १६-१७॥
अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः ।
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥ १६-१८॥
तानहं द्विषतः क्रूरान्संसारेषु नराधमान् ।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ १६-१९॥
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ १६-२०॥
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ १६-२१॥
एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः ।
आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥ १६-२२॥
यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः ।
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥ १६-२३॥
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ।
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥ १६-२४॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्यायः ॥ १६॥
अथ सप्तदशोऽध्यायः । श्रद्धात्रयविभागयोगः
अर्जुन उवाच ।
ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः ।
तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥ १७-१॥
श्रीभगवानुवाच ।
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।
सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥ १७-२॥
सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत ।
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥ १७-३॥
यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः ।
प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥ १७-४॥
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः ।
दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ॥ १७-५॥
कर्षयन्तः शरीरस्थं भूतग्राममचेतसः ।
मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् ॥ १७-६॥
आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः ।
यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥ १७-७॥
आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः ।
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥ १७-८॥
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः ।
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥ १७-९॥
यातयामं गतरसं पूति पर्युषितं च यत् ।
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥ १७-१०॥
अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ।
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥ १७-११॥
अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् ।
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥ १७-१२॥
विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् ।
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ १७-१३॥
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् ।
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥ १७-१४॥
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥ १७-१५॥
मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः ।
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥ १७-१६॥
श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः ।
अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥ १७-१७॥
सत्कारमानपूजार्थं तपो दम्भेन चैव यत् ।
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥ १७-१८॥
मूढग्राहेणात्मनो यत्पीडया क्रियते तपः ।
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥ १७-१९॥
दातव्यमिति यद्दानं दीयतेऽनुपकारिणे ।
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥ १७-२०॥
यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः ।
दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥ १७-२१॥
अदेशकाले यद्दानमपात्रेभ्यश्च दीयते ।
असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥ १७-२२॥
ॐतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥ १७-२३॥
तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः ।
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥ १७-२४॥
तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः ।
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥ १७-२५॥
सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते ।
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥ १७-२६॥
यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते ।
कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥ १७-२७॥
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥ १७-२८॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः ॥ १७॥
अथाष्टादशोऽध्यायः । मोक्षसंन्यासयोगः
अर्जुन उवाच ।
संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् ।
त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥ १८-१॥
श्रीभगवानुवाच ।
काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः ।
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ १८-२॥
त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः ।
यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥ १८-३॥
निश्चयं शृणु मे तत्र त्यागे भरतसत्तम ।
त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ॥ १८-४॥
यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ।
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ १८-५॥
एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च ।
कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥ १८-६॥
नियतस्य तु संन्यासः कर्मणो नोपपद्यते ।
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥ १८-७॥
दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् ।
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥ १८-८॥
कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन ।
सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥ १८-९॥
न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते ।
त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥ १८-१०॥
न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः ।
यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥ १८-११॥
अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् ।
भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥ १८-१२॥
पञ्चैतानि महाबाहो कारणानि निबोध मे ।
साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥ १८-१३॥
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।
विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥ १८-१४॥
शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः ।
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥ १८-१५॥
तत्रैवं सति कर्तारमात्मानं केवलं तु यः ।
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥ १८-१६॥
यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते ।
हत्वाऽपि स इमाँल्लोकान्न हन्ति न निबध्यते ॥ १८-१७॥
ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना ।
करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः ॥ १८-१८॥
ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः ।
प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि ॥ १८-१९॥
सर्वभूतेषु येनैकं भावमव्ययमीक्षते ।
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥ १८-२०॥
पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् ।
वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥ १८-२१॥
यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् ।
अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥ १८-२२॥
नियतं सङ्गरहितमरागद्वेषतः कृतम् ।
अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ॥ १८-२३॥
यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः ।
क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥ १८-२४॥
अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् ।
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥ १८-२५॥
मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः ।
सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते ॥ १८-२६॥
रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः ।
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥ १८-२७॥
अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः ।
विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥ १८-२८॥
बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु ।
प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ॥ १८-२९॥
प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये ।
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥ १८-३०॥
यया धर्ममधर्मं च कार्यं चाकार्यमेव च ।
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥ १८-३१॥
अधर्मं धर्ममिति या मन्यते तमसावृता ।
सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥ १८-३२॥
धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः ।
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥ १८-३३॥
यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन ।
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥ १८-३४॥
यया स्वप्नं भयं शोकं विषादं मदमेव च ।
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥ १८-३५॥
सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ ।
अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ॥ १८-३६॥
यत्तदग्रे विषमिव परिणामेऽमृतोपमम् ।
तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥ १८-३७॥
विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् ।
परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥ १८-३८॥
यदग्रे चानुबन्धे च सुखं मोहनमात्मनः ।
निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥ १८-३९॥
न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ॥ १८-४०॥
ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप ।
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥ १८-४१॥
शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ।
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥ १८-४२॥
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥ १८-४३॥
कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् ।
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥ १८-४४॥
स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः ।
स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ॥ १८-४५॥
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ।
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ॥ १८-४६॥
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ १८-४७॥
सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् ।
सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥ १८-४८॥
असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः ।
नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ॥ १८-४९॥
सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे ।
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ १८-५०॥
बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च ।
शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥ १८-५१॥
विविक्तसेवी लघ्वाशी यतवाक्कायमानसः ।
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥ १८-५२॥
अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् ।
विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥ १८-५३॥
ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति ।
समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥ १८-५४॥
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः ।
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥ १८-५५॥
सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः ।
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥ १८-५६॥
चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः ।
बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ॥ १८-५७॥
मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि ।
अथ चेत्त्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि ॥ १८-५८॥
यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे ।
मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥ १८-५९॥
स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा ।
कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् ॥ १८-६०॥
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥ १८-६१॥
तमेव शरणं गच्छ सर्वभावेन भारत ।
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥ १८-६२॥
इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया ।
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥ १८-६३॥
सर्वगुह्यतमं भूयः शृणु मे परमं वचः ।
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥ १८-६४॥
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥ १८-६५॥
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ १८-६६॥
इदं ते नातपस्काय नाभक्ताय कदाचन ।
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥ १८-६७॥
य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥ १८-६८॥
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ।
भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥ १८-६९॥
अध्येष्यते च य इमं धर्म्यं संवादमावयोः ।
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥ १८-७०॥
श्रद्धावाननसूयश्च शृणुयादपि यो नरः ।
सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् ॥ १८-७१॥
कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा ।
कच्चिदज्ञानसम्मोहः प्रनष्टस्ते धनञ्जय ॥ १८-७२॥
अर्जुन उवाच ।
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत ।
स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ॥ १८-७३॥
सञ्जय उवाच ।
इत्यहं वासुदेवस्य पार्थस्य च महात्मनः ।
संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥ १८-७४॥
व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् ।
योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ॥ १८-७५॥
राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् ।
केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥ १८-७६॥
तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः ।
विस्मयो मे महान् राजन्हृष्यामि च पुनः पुनः ॥ १८-७७॥
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ १८-७८॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
मोक्षसंन्यासयोगो नाम अष्टादशोऽध्यायः ॥ १८॥
ॐ
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम् ।
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम् ।
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥
॥ श्री परमात्मने नमः ॥
॥ अथ श्रीगीतामाहात्म्यप्रारम्भः ॥
श्री गणेशाय नमः ॥ श्रीराधारमणाय नमः ॥
धरोवाच ।
भगवन्परेमेशान भक्तिरव्यभिचारिणी ।
प्रारब्धं भुज्यमानस्य कथं भवति हे प्रभो ॥ १॥
श्री विष्णुरुवाच ।
प्रारब्धं भुज्यमानो हि गीताभ्यासरतः सदा ।
स मुक्तः स सुखी लोके कर्मणा नोपलिप्यते ॥ २॥
महापापादिपापानि गीताध्यानं करोति चेत् ।
क्वचित्स्पर्शं न कुर्वन्ति नलिनीदलमम्बुवत् ॥ ३॥
गीतायाः पुस्तकं यत्र यत्र पाठः प्रवर्तते ।
तत्र सर्वाणि तीर्थाणि प्रयागादीनि तत्र वै ॥ ४॥
सर्वे देवाश्च ऋषयो योगिनः पन्नगाश्च ये ।
गोपाला गोपिका वापि नारदोद्धवपार्षदैः ॥
सहायो जायते शीघ्रं यत्र गीता प्रवर्तते ५॥
यत्र गीताविचारश्च पठनं पाठनं शृतम् ।
तत्राहं निश्चितं पृथ्वि निवसामि सदैव हि ॥ ६॥
गीताश्रयेऽहं तिष्ठामि गीता मे चोत्तमं गृहम् ।
गीताज्ञानमुपाश्रित्य त्रींलोकान्पालयाम्यहम् ॥ ७॥
गीता मे परमा विद्या ब्रह्मरूपा न संशयः ।
अर्धमात्राक्षरा नित्या स्वानिर्वाच्यपदात्मिका ॥ ८॥
चिदानन्देन कृष्णेन प्रोक्ता स्वमुखतोऽर्जुनम् ।
वेदत्रयी परानन्दा तत्त्वार्थज्ञानसंयुता ॥ ९॥
योऽष्टादशजपो नित्यं नरो निश्चलमानसः ।
ज्ञानसिद्धिं स लभते ततो याति परं पदम् ॥ १०॥
पाठेऽसमर्थः सम्पूर्णे ततोऽर्धं पाठमाचरेत् ।
तदा गोदानजं पुण्यं लभते नात्र संशयः ॥ ११॥
त्रिभागं पठमानस्तु गङ्गास्नानफलं लभेत् ।
षडंशं जपमानस्तु सोमयागफलं लभेत् ॥ १२॥
एकाध्यायं तु यो नित्यं पठते भक्तिसंयुतः ।
रुद्रलोकमवाप्नोति गणो भूत्वा वसेच्चिरम् ॥ १३॥
अध्यायं श्लोकपादं वा नित्यं यः पठते नरः ।
स याति नरतां यावन्मन्वन्तरं वसुन्धरे ॥ १४॥
गीतायाः श्लोकदशकं सप्त पञ्च चतुष्टयम् ।
द्वौ त्रीनेकं तदर्धं वा श्लोकानां यः पठेन्नरः ॥ १५॥
चन्द्रलोकमवाप्नोति वर्षाणामयुतं ध्रुवम् ।
गीतापाठसमायुक्तो मृतो मानुषतां व्रजेत् ॥ १६॥
गीताभ्यासं पुनः कृत्वा लभते मुक्तिमुत्तमाम् ।
गीतेत्युच्चारसंयुक्तो म्रियमाणो गतिं लभेत् ॥ १७॥
गीतार्थश्रवणासक्तो महापापयुतोऽपि वा ।
वैकुण्ठं समवाप्नोति विष्णुना सह मोदते ॥ १८॥
गीतार्थं ध्यायते नित्यं कृत्वा कर्माणि भूरिशः ।
जीवन्मुक्तः स विज्ञेयो देहान्ते परमं पदम् ॥ १९॥
गीतामाश्रित्य बहवो भूभुजो जनकादयः ।
निर्धूतकल्मषा लोके गीतायाताः परं पदम् ॥ २०॥
गीतायाः पठनं कृत्वा माहात्म्यं नैव यः पठेत् ।
वृथा पाठो भवेत्तस्य श्रम एव ह्युदाहृतः ॥ २१॥
एतन्माहात्म्यसंयुक्तं गीताभ्यासं करोति यः ।
स तत्फलमवाप्नोति दुर्लभां गतिमाप्नुयात् ॥ २२॥
सूत उवाच ।
माहात्म्यमेतद्गीताया मया प्रोक्त सतातनम् ।
गीतान्ते च पठेद्यस्तु यदुक्तं तत्फलं लभेत् ॥ २३॥
॥ इति श्रीवाराहपुराणे श्रीगीतामाहात्म्यं सम्पूर्णम् ॥
॥ अथ श्रीमद्भगवद्गीताध्यानादि ॥
श्री गणेशाय नमः ॥ श्रीगोपालकृष्णाय नमः ॥
अथ ध्यानम् ।
अथ करन्यासः।
ॐ अस्य श्रीमद्भगवद्गीतामालामन्त्रस्य
भगवान्वेदव्यास ऋषिः ॥ अनुष्टुप् छन्दः ॥
श्रीकृष्ण परमात्मा देवता ॥
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे इति बीजम् ॥
सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज इति शक्तिः ॥
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुच इति कीलकम् ॥
नैनं छिन्दन्ति शस्त्राणि नैनं दहति
पावक इत्यङ्गुष्ठाभ्यां नमः ॥
न चैनं क्लेदयन्त्यापो न शोषयति मारुत इति तर्जनीभ्यां नमः ॥
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य
एव च इति मध्यमाभ्यां नमः ॥
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातन इत्यनामिकाभ्यां नमः ॥
पश्य मे पार्थ् रूपाणि शतशोऽथ
सहस्रश इति कनिष्ठिकाभ्यां नमः ॥
नानाविधानि दिव्यानि नानावर्णाकृतीनि
च इति करतलकरपृष्ठाभ्यां नमः ॥
इति करन्यासः ॥
अथ हृदयादिन्यासः ॥
नैनं छिन्दन्ति शस्त्राणि नैनं दहति
पावक इति हृदयाय नमः ॥
न चैनं क्लेदयन्त्यापो न शोषयति मारुत इति शिरसे स्वाहा ॥
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य
एव चेति शिखायै वषट् ॥
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातन इति कवचाय हुम् ॥
पश्य मे पार्थ् रूपाणि शतशोऽथ
सहस्रश इति नेत्रत्रयाय वौषट् ॥
नानाविधानि दिव्यानि नानावर्णाकृतीनि
चेति अस्त्राय फट् ॥
श्रीकृष्णप्रीत्यर्थे पाठे विनियोगः ॥
ॐ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं
व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम् ।
अद्वैतामृतवर्षिणीं भगवतीमष्टादशाध्यायिनीं
अम्ब त्वामनुसन्दधामि भगवद्गीते भवेद्वेषिणीम् ॥ १॥
नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रनेत्र ।
येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः ॥ २॥
प्रपन्नपारिजातायतोत्रवेत्रैकपाणये ।
ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः ॥ ३॥
वसुदेवसुतं देवं कंसचाणूरमर्दनम् ।
देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥ ४॥
भीष्मद्रोणतटा जयद्रथजला गान्धारनीलोत्पला
शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला ।
अश्वत्थामविकर्णघोरमकरा दुर्योधनावर्तिनी
सोत्तीर्णा खलु पाण्डवै रणनदी कैवर्तकः केशवः ॥ ५॥
पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटं
नानाख्यानककेसरं हरिकथासम्बोधनाबोधितम् ।
लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा
भूयाद्भारतपङ्कजं कलिमलप्रध्वंसि नः श्रेयसे ॥ ६॥
मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम् ।
यत्कृपा तमहं वन्दे परमानन्दमाधवम् ॥ ७॥
अथ गीतामाहात्म्यम् ।
गीताशास्त्रमिदं पुण्यं यः पठेत्प्रयतः पुमान् ।
विष्णोः पदमवाप्नोति भयशोकादिवर्जितः ॥ १॥
गीताध्ययनशीलस्य प्राणायामपरस्य च ।
नैव सन्ति हि पापानि पूर्वजन्मकृतानि च ॥ २॥
मलनिर्मोचनं पुंसां जलस्नानं दिने दिने ।
सकृद्गीताम्भसि स्नानं संसारमलनाशनम् ॥ ३॥
गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः ।
या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता ॥ ४॥
भारतामृतसर्वस्वं विष्णोर्वक्त्राद्विनिःसृतम् ।
गीतागङ्गोदकं पीत्वा पुनर्जन्म न विद्यते ॥ ५॥
सर्वोपनिषदो गावो दोग्धा गोपाल नन्दनः ।
पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत् ॥ ६॥
एकं शास्त्रं देवकीपुत्रगीतमेको
देवो देवकीपुत्र एव ।
एको मन्त्रस्तस्य नामानि यानि
कर्माप्येकं तस्य देवस्य सेवा ॥ ७॥
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥
यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवैः
वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः ।
ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो
यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ॥ ८॥
॥ इति ध्यानम् ॥
॥ श्रीमद्भगवद्गीताष्टोत्तरम् ॥
ॐ श्रीमद्भगवद्गीतायै नमः ।
ॐ श्रीकृष्णामृतवाण्यै नमः ।
ॐ पार्थाय प्रतिबोधितायै नमः ।
ॐ व्यासेन ग्रथितायै नमः ।
ॐ सञ्जयवर्णितायै नमः ।
ॐ महाभारतमध्यस्थितायै नमः ।
ॐ कुरुक्षेत्रे उपदिष्टायै नमः ।
ॐ भगवत्यै नमः ।
ॐ अम्बारूपायै नमः ।
ॐ अद्वैतामृतवर्षिण्यै नमः । १०।
ॐ भवद्वेषिण्यै नमः ।
ॐ अष्टादशाध्याय्यै नमः ।
ॐ सर्वोपनिषत्सारायै नमः ।
ॐ ब्रह्मविद्यायै नमः ।
ॐ योगशास्त्ररूपायै नमः ।
ॐ श्रीकृष्णार्जुनसंवादरूपायै नमः ।
ॐ श्रीकृष्णहृदयायै नमः ।
ॐ सुन्दर्यै नमः ।
ॐ मधुरायै नमः ।
ॐ पुनीतायै नमः । २०।
ॐ कर्ममर्मप्रकाशिन्यै नमः ।
ॐ कामासक्तिहरायै नमः ।
ॐ तत्त्वज्ञानप्रकाशिन्यै नमः ।
ॐ निश्चलभक्तिविधायिन्यै नमः ।
ॐ निर्मलायै नमः ।
ॐ कलिमलहारिण्यै नमः ।
ॐ रागद्वेषविदारिण्यै नमः ।
ॐ मोदकारिण्यै नमः ।
ॐ भवभयहारिण्यै नमः ।
ॐ तारिण्यै नमः । ३०।
ॐ परमानन्दप्रदायै नमः ।
ॐ अज्ञाननाशिन्यै नमः ।
ॐ आसुरभावविनाशिन्यै नमः ।
ॐ दैवीसम्पत्प्रदायै नमः ।
ॐ हरिभक्तप्रियायै नमः ।
ॐ सर्वशास्त्रस्वामिन्यै नमः ।
ॐ दयासुधावर्षिण्यै नमः ।
ॐ हरिपदप्रेमप्रदायिन्यै नमः ।
ॐ श्रीप्रदायै नमः ।
ॐ विजयप्रदायै नमः । ४०।
ॐ भूतिदायै नमः ।
ॐ नीतिदायै नमः ।
ॐ सनातन्यै नमः ।
ॐ सर्वधर्मस्वरूपिण्यै नमः ।
ॐ समस्तसिद्धिदायै नमः ।
ॐ सन्मार्गदर्शिकायै नमः ।
ॐ त्रिलोकीपूज्यायै नमः ।
ॐ अर्जुनविषादहारिण्यै नमः ।
ॐ प्रसादप्रदायै नमः ।
ॐ नित्यात्मस्वरूपदर्शिकायै नमः । ५०।
ॐ अनित्यदेहसंसाररूपदर्शिकायै नमः ।
ॐ पुनर्जन्मरहस्यप्रकटिकायै नमः ।
ॐ स्वधर्मप्रबोधिन्यै नमः ।
ॐ स्थितप्रज्ञलक्षणदर्शिकायै नमः ।
ॐ कर्मयोगप्रकाशिकायै नमः ।
ॐ यज्ञभावनाप्रकाशिन्यै नमः ।
ॐ विविधयज्ञप्रदर्शिकायै नमः ।
ॐ चित्तशुद्धिदायै नमः ।
ॐ कामनाशोपायबोधिकायै नमः ।
ॐ अवतारतत्त्वविचारिण्यै नमः । ६०।
ॐ ज्ञानप्राप्तिसाधनोपदेशिकायै नमः ।
ॐ ध्यानयोगबोधिन्यै नमः ।
ॐ मनोनिग्रहमार्गप्रदीपिकायै नमः ।
ॐ सर्वविधसाधकहितकारिण्यै नमः ।
ॐ ज्ञानविज्ञानप्रकाशिकायै नमः ।
ॐ परापरप्रकृतिबोधिकायै नमः ।
ॐ सृष्टिरहस्यप्रकटिकायै नमः ।
ॐ चतुर्विधभक्तलक्षणदर्शिकायै नमः ।
ॐ भुक्तिमुक्तिदायै नमः ।
ॐ जीवजगदीश्वरस्वरूपबोधिकायै नमः । ७०।
ॐ प्रणवध्यानोपदेशिकायै नमः ।
ॐ कर्मोपासनफलदर्शिकायै नमः ।
ॐ राजविद्यायै नमः ।
ॐ राजगुह्यायै नमः ।
ॐ प्रत्यक्षावगमायै नमः ।
ॐ धर्म्यायै नमः ।
ॐ सुलभायै नमः ।
ॐ योगक्षेमकारिण्यै नमः ।
ॐ भगवद्विभूतिविस्तारिकायै नमः ।
ॐ विश्वरूपदर्शनयोगयुक्तायै नमः । ८०।
ॐ भगवदैश्वर्यप्रदर्शिकायै नमः ।
ॐ भक्तिदायै नमः ।
ॐ भक्तिविवर्धिन्यै नमः ।
ॐ भक्तलक्षणबोधिकायै नमः ।
ॐ सगुणनिर्गुणप्रकाशिन्यै नमः ।
ॐ क्षेत्रक्षेत्रज्ञविवेककारिण्यै नमः ।
ॐ दृढवैराग्यकारिण्यै नमः ।
ॐ गुणत्रयविभागदर्शिकायै नमः ।
ॐ गुणातीतपुरुषलक्षणदर्शिकायै नमः ।
ॐ अश्वत्थवृक्षवर्णनकारिण्यै नमः । ९०।
ॐ संसारवृक्षच्छेदनोपायबोधिन्यै नमः ।
ॐ त्रिविधश्रद्धास्वरूपप्रकाशिकायै नमः ।
ॐ त्यागसंन्यासतत्त्वदर्शिकायै नमः९३।
ॐ यज्ञदानतपःस्वरूपबोधिन्यै नमः ।
ॐ ज्ञानकर्मकर्तृस्वरूपबोधिकायै नमः ।
ॐ शरणागतिरहस्यप्रदर्शिकायै नमः ।
ॐ आश्चर्यरूपायै नमः ।
ॐ विस्मयकारिण्यै नमः ।
ॐ आह्लादकारिण्यै नमः ।
ॐ भक्तिहीनजनागम्यायै नमः । १००।
ॐ जगत उद्धारिण्यै नमः ।
ॐ दिव्यदृष्टिप्रदायै नमः ।
ॐ धर्मसंस्थापिकायै नमः ।
ॐ भक्तजनसेव्यायै नमः ।
ॐ सर्वदेवस्तुतायै नमः ।
ॐ ज्ञानगङ्गायै नमः ।
ॐ श्रीकृष्णप्रियतमायै नमः ।
ॐ सर्वमङ्गलायै नमः । १०८।
॥ इति स्वामीतेजोमयानन्दरचिता
श्रीमद्भगवद्गीताष्टोत्तरशतनामावली ॥
॥ श्रीमद्भगवद्गीतासहस्रनामस्तोत्रम् ॥
॥ श्रीः ॥
ॐ परमात्मने नमः
ॐ धर्मक्षेत्राय नमः ।
ॐ कुरुक्षेत्राय नमः ।
ॐ युयुत्सवे नमः ।
ॐ पाण्डुपुत्राचार्याय नमः ।
ॐ धीमते नमः ।
ॐ शूराय नमः ।
ॐ महेष्वासाय नमः ।
ॐ महारथाय नमः ।
ॐ वीर्यवते नमः । १०
ॐ विक्रान्ताय नमः ।
ॐ उत्तमौजसे नमः ।
ॐ भीष्माय नमः ।
ॐ समितिञ्जयाय नमः ।
ॐ नानाशस्त्रप्रहरणाय नमः ।
ॐ युद्धविशारदाय नमः ।
ॐ महास्यन्दनस्थिताय नमः ।
ॐ माधवाय नमः ।
ॐ पाञ्चजन्याय नमः ।
ॐ हृषीकेशाय नमः । २०
ॐ भीमकर्मणे नमः ।
ॐ अनन्तविजयाय नमः ।
ॐ परमेष्वासाय नमः ।
ॐ अपराजिताय नमः ।
ॐ महाबाहवे नमः ।
ॐ अच्युताय नमः ।
ॐ गुडाकेशरथस्थापकाय नमः ।
ॐ पार्थप्रदर्शकाय नमः ।
ॐ कृष्णाय नमः ।
ॐ केशवाय नमः । ३०
ॐ गोविन्दाय नमः ।
ॐ मधुसूदनाय नमः ।
ॐ जनार्दनाय नमः ।
ॐ वार्ष्णेयाय नमः ।
ॐ अर्जुनविषादहर्त्रे नमः ।
ॐ भगवते नमः ।
ॐ परन्तपाय नमः ।
ॐ पूजार्हाय नमः ।
ॐ अरिसूदनाय नमः ।
ॐ महानुभावाय नमः । ४०
ॐ प्रपन्नशासकाय नमः ।
ॐ गीतावतारकाय नमः ।
ॐ आत्मतत्त्वनिरूपकाय नमः ।
ॐ धीराय नमः ।
ॐ मात्रास्पर्शविवेचकाय नमः ।
ॐ विषयाव्यथिताय नमः ।
ॐ पुरुषर्षभाय नमः ।
ॐ समदुःखसुखाय नमः ।
ॐ अमृताय नमः ।
ॐ सते नमः । ५०
ॐ सदसद्विभाजकाय नमः ।
ॐ सदसद्विदे नमः ।
ॐ तत्त्वदर्शिने नमः ।
ॐ अविनाशिने नमः ।
ॐ अविनाश्याय नमः ।
ॐ अव्ययाय नमः ।
ॐ सर्वशरीरिणे नमः ।
ॐ नित्याय नमः ।
ॐ अप्रमेयाय नमः ।
ॐ अहन्त्रे नमः । ६०
ॐ अहताय नमः ।
ॐ अविज्ञाताय नमः ।
ॐ अजाय नमः ।
ॐ शाश्वताय नमः ।
ॐ पुराणाय नमः ।
ॐ अच्छेद्याय नमः ।
ॐ अदाह्याय नमः ।
ॐ अक्लेद्याय नमः ।
ॐ अशोष्याय नमः ।
ॐ सर्वगताय नमः । ७०
ॐ स्थाणवे नमः ।
ॐ अचलाय नमः ।
ॐ सनातनाय नमः ।
ॐ अव्यक्ताय नमः ।
ॐ अचिन्त्याय नमः ।
ॐ अविकार्याय नमः ।
ॐ अशोच्याय नमः ।
ॐ जन्ममृत्युरहिताय नमः ।
ॐ व्यक्ताव्यक्तभूतविदे नमः ।
ॐ आश्चर्यवद्दृश्याय नमः । ८०
ॐ आश्चर्यवदुदिताय नमः ।
ॐ आश्चर्यवच्छ्रुताय नमः ।
ॐ श्रवणादिवेद्याय नमः ।
ॐ सर्वदेहव्यापिने नमः ।
ॐ अवध्याय नमः ।
ॐ क्षत्त्रधर्मनियामकाय नमः ।
ॐ क्षत्त्रयुद्धप्रशंसिने नमः ।
ॐ स्वधर्मत्यागगर्हिणे नमः ।
ॐ अकीर्तिनिन्दकाय नमः ।
ॐ सम्भाविताय नमः । ९०
ॐ बहुमताय नमः ।
ॐ समलाभालाभाय नमः ।
ॐ समजयाजयाय नमः ।
ॐ साङ्ख्ययोगप्रवक्त्रे नमः ।
ॐ कर्मयोगप्रशंसिने नमः ।
ॐ व्यवसायिने नमः ।
ॐ अव्यवसायिविनिन्दकाय नमः ।
ॐ विपश्चिते नमः ।
ॐ वेदवादपरविदूराय नमः ।
ॐ व्यवसायबुद्धिविधायिने नमः । १००
ॐ निस्त्रैगुण्याय नमः ।
ॐ निर्द्वन्द्वाय नमः ।
ॐ नित्यसत्त्वस्थाय नमः ।
ॐ निर्योगक्षेमाय नमः ।
ॐ आत्मवते नमः ।
ॐ विज्ञानफलप्रवक्त्रे नमः ।
ॐ कर्माधिकारबोधकाय नमः ।
ॐ फलसङ्गगर्हिणे नमः ।
ॐ योगस्थाय नमः ।
ॐ त्यक्तसहाय नमः । ११०
ॐ सिद्ध्यसिद्धिसमाय नमः ।
ॐ योगविदे नमः ।
ॐ योगबुद्धिनिरताय नमः ।
ॐ प्रहीणसुकृतदुष्कृताय नमः ।
ॐ योगिप्रशंसिने नमः ।
ॐ मनीषिणे नमः ।
ॐ जन्मबन्धविनिर्मुक्ताय नमः ।
ॐ अनामयपदाय नमः ।
ॐ व्यतितीर्णमोहाय नमः ।
ॐ श्रुतश्रोतव्यनिर्विण्णाय नमः । १२०
ॐ स्थितबुद्धये नमः ।
ॐ योगिने नमः ।
ॐ केशवाय नमः ।
ॐ स्थितप्रज्ञप्रबोधिने नमः ।
ॐ त्यक्तकामाय नमः ।
ॐ आत्मतुष्टाय नमः ।
ॐ स्थितप्रज्ञाय नमः ।
ॐ अनुद्विज्ञाय नमः ।
ॐ विगतस्पृहाय नमः ।
ॐ वीतरागाय नमः । १३०
ॐ वीतभयाय नमः ।
ॐ वीतक्रोधाय नमः ।
ॐ स्थितधिये नमः ।
ॐ मुनये नमः ।
ॐ सर्वाभिस्नेहरहिताय नमः ।
ॐ शुभानभिनन्दिने नमः ।
ॐ अशुभद्वेषरहिताय नमः ।
ॐ संहृतसर्वेन्द्रियाय नमः ।
ॐ प्रतिष्ठितप्रज्ञाय नमः ।
ॐ विनिवृत्तविषयाय नमः । १४०
ॐ निराहाराय नमः ।
ॐ अदुःखाय नमः ।
ॐ प्रसन्नचेतसे नमः ।
ॐ शान्ताय नमः ।
ॐ सुखिने नमः ।
ॐ निगृहीतमनसे नमः ।
ॐ अहृतप्रज्ञाय नमः ।
ॐ योगफलप्रकाशकाय नमः ।
ॐ रसवर्जिताय नमः ।
ॐ विपश्चिते नमः । १५०
ॐ संयतेन्द्रियाय नमः ।
ॐ युक्ताय नमः ।
ॐ विषयध्यानदूषणाय नमः ।
ॐ अरागविषयसेविने नमः ।
ॐ वश्येन्द्रियाय नमः ।
ॐ प्रसन्नाय नमः ।
ॐ विधेयात्मने नमः ।
ॐ संयमिने नमः ।
ॐ सर्वभूतनिशाजागराय नमः ।
ॐ विषयानिशानिद्राणाय नमः । १६०
ॐ आपूर्यमाणाय नमः ।
ॐ अचलप्रतिष्ठाय नमः ।
ॐ समुद्रसदृशाय नमः ।
ॐ अकामिने नमः ।
ॐ विलीनसर्वकामाय नमः ।
ॐ निर्ममाय नमः ।
ॐ निरहङ्काराय नमः ।
ॐ ब्रह्मनिष्ठाय नमः ।
ॐ ब्रह्मनिष्ठानिबर्हणाय नमः ।
ॐ ब्रह्मणे नमः । १७०
ॐ निर्वाणाय नमः ।
ॐ ज्ञानज्यायसे नमः ।
ॐ पार्थप्रार्थितनिर्णयाय नमः ।
ॐ मोहध्वंसिने नमः ।
ॐ अनघाय नमः ।
ॐ नैष्कर्म्यनिर्णेत्रे नमः ।
ॐ सिद्धिमार्गविधायिने नमः ।
ॐ प्रकृतिकारितकर्मणे नमः ।
ॐ अकर्मकृते नमः ।
ॐ विषयध्यायिविगर्हणाय नमः । १८०
ॐ मिथ्याचारविदे नमः ।
ॐ नियतमनसे नमः ।
ॐ नियतधीन्द्रियाय नमः ।
ॐ कर्मयोगिनिर्णायकाय नमः ।
ॐ अकर्मर्हकाय नमः ।
ॐ कर्मबन्धविवेचकाय नमः ।
ॐ यज्ञकर्मविधायिने नमः ।
ॐ यज्ञसृजे नमः ।
ॐ प्रजापतये नमः ।
ॐ इष्टकामदुहे नमः । १९०
ॐ कर्माराध्यदेवाय नमः ।
ॐ कर्मफलदाय नमः ।
ॐ यज्ञभाविताय नमः ।
ॐ स्तेननिवेदिने नमः ।
ॐ यज्ञशिष्टाशिशंसिने नमः ।
ॐ अघभोजिबोधकाय नमः ।
ॐ कर्मचक्रप्रवर्तकाय नमः ।
ॐ ब्रह्मोद्भवाय नमः ।
ॐ ब्रह्मप्रतिष्ठाबोधकाय नमः ।
ॐ मोघजीविविवेचकाय नमः । २००
ॐ आत्मरतये नमः ।
ॐ आत्मतृप्ताय नमः ।
ॐ आत्मसन्तुष्टाय नमः ।
ॐ कार्यरहिताय नमः ।
ॐ कार्याकार्यार्थहीनाय नमः ।
ॐ अकृतानार्थरहिताय नमः ।
ॐ अर्थव्यपाश्रयवर्जिताय नमः ।
ॐ कर्मकृते नमः ।
ॐ कर्मासङ्गहीनाय नमः ।
ॐ असङ्गकर्मशंसिने नमः । २१०
ॐ अनेकादिकर्माराधिताय नमः ।
ॐ लोकसङ्ग्रहविधायिने नमः ।
ॐ श्रेष्ठाय नमः ।
ॐ लोकप्रमाणाय नमः ।
ॐ अवाप्तव्यरहिताय नमः ।
ॐ अतन्द्रिताय नमः ।
ॐ मनुष्यानुवर्तिताय नमः ।
ॐ लोकानुत्सादहेतवे नमः ।
ॐ असङ्करकारिणे नमः ।
ॐ प्रजोपघातप्रभीताय नमः । २२०
ॐ विद्वत्कर्मविधायिने नमः ।
ॐ बुद्धिभेदपरिहर्त्रे नमः ।
ॐ कर्मजोषकाय नमः ।
ॐ विदुषे नमः ।
ॐ कर्मकर्तृबोधिने नमः ।
ॐ अहङ्कारनिरीहाय नमः ।
ॐ अकर्त्रे नमः ।
ॐ गुणकर्मविभागविदे नमः ।
ॐ गुणसङ्गवर्जिताय नमः ।
ॐ कृत्स्नविदे नमः । २३०
ॐ कृत्स्नविदविचालकाय नमः ।
ॐ संन्यस्तसर्वकर्मणे नमः ।
ॐ निराशिषे नमः ।
ॐ विगतज्वराय नमः ।
ॐ स्वकर्मानुष्ठायिशंसिने नमः ।
ॐ अनसूयवे नमः ।
ॐ अननुष्ठायिनिन्दकाय नमः ।
ॐ प्रकृतिप्राबल्यविदे नमः ।
ॐ रागद्वेषावंशवदाय नमः ।
ॐ अपरिपन्थिने नमः । २४०
ॐ स्वधर्मश्लाघिने नमः ।
ॐ परधर्मभीताय नमः ।
ॐ अजाय नमः ।
ॐ अव्ययात्मने नमः ।
ॐ भूतेश्वराय नमः ।
ॐ मायाधिष्ठात्रे नमः ।
ॐ मायामयसंभवाय नमः ।
ॐ धर्मग्लानिभिदे नमः ।
ॐ अधर्मोत्थित्यसहनाय नमः ।
ॐ साधुपरत्राणपराय नमः । २५०
ॐ पापहेतुविदे नमः ।
ॐ ज्ञानवैरिविबोधकाय नमः ।
ॐ कामाधिष्ठानवेदिने नमः ।
ॐ कामप्रहाणबोधिने नमः ।
ॐ परात्पराय नमः ।
ॐ आदियोगविदे नमः ।
ॐ योगपरम्पराप्रवक्त्रे नमः ।
ॐ भक्तप्रियाय नमः ।
ॐ बहुजन्मविदे नमः ।
ॐ दुष्कृद्विनाशनाय नमः । २६०
ॐ धर्मसंस्थापकाय नमः ।
ॐ दिव्यजन्मने नमः ।
ॐ दिव्यकर्मणे नमः ।
ॐ तत्त्वविद्गम्याय नमः ।
ॐ प्रपन्नानुरूपफलदाय नमः ।
ॐ सर्वप्रकारप्रपन्नाय नमः ।
ॐ चातुर्वर्ण्यविधायिने नमः ।
ॐ गुणकर्मविभाजकाय नमः ।
ॐ कर्त्रे नमः ।
ॐ अकर्त्रे नमः । २७०
ॐ कर्मालिप्ताय नमः ।
ॐ फलस्पृहाहीनाय नमः ।
ॐ कर्माकर्मविकर्मविदे नमः ।
ॐ कर्मज्ञशंसिने नमः ।
ॐ कामादिहीनसमारम्भाय नमः ।
ॐ ज्ञानाग्निदग्धकर्मणे नमः ।
ॐ फलसङ्गत्यागिने नमः ।
ॐ नित्यतृप्ताय नमः ।
ॐ निराश्रयाय नमः ।
ॐ अकिञ्चित्कराय नमः । २८०
ॐ यतचित्ताय नमः ।
ॐ यतात्मने नमः ।
ॐ त्यक्तसर्वपरिग्रहाय नमः ।
ॐ अकिल्बिषाय नमः ।
ॐ लब्धसन्तुष्टाय नमः ।
ॐ द्वन्द्वातीताय नमः ।
ॐ विमत्सराय नमः ।
ॐ गतसङ्गाय नमः ।
ॐ मुक्ताय नमः ।
ॐ ज्ञानावस्थितचेतसे नमः । २९०
ॐ यज्ञाय नमः ।
ॐ अग्नये नमः ।
ॐ हुताय नमः ।
ॐ दैवयज्ञाराध्याय नमः ।
ॐ यज्ञोपहुतयज्ञाग्नये नमः ।
ॐ संयमाग्निहुतेन्द्रियाय नमः ।
ॐ इन्द्रियाग्निहुतविषयाय नमः ।
ॐ संयमाग्निहुतसर्वकर्मणे नमः ।
ॐ द्रव्यतपोयोगयज्ञगम्याय नमः ।
ॐ स्वाध्यायज्ञानयज्ञवेद्याय नमः । ३००
ॐ संशितव्रतयतिप्रपन्नाय नमः ।
ॐ प्राणायामपरप्रणयिने नमः ।
ॐ यज्ञगम्यब्रह्मणे नमः ।
ॐ अयज्ञगर्हिणे नमः ।
ॐ यज्ञज्ञानशंसिने नमः ।
ॐ ज्ञानयज्ञपराय नमः ।
ॐ ज्ञानसम्पातिसर्वकर्मणे नमः ।
ॐ ज्ञानोपायप्रदर्शकाय नमः ।
ॐ तत्त्वदर्शिने नमः ।
ॐ ज्ञानविधूतमोहाय नमः । ३१०
ॐ ब्रह्मात्मदृष्टसर्वभूताय नमः ।
ॐ ज्ञानप्लवसन्तीर्णसर्वपापाय नमः ।
ॐ ज्ञानाग्निदग्धकर्मणे नमः ।
ॐ योगसंसिद्धाय नमः ।
ॐ पवित्रतमज्ञानवेद्याय नमः ।
ॐ ज्ञानाधिगतपरशमयाय नमः ।
ॐ श्रद्धासंयमवेद्याय नमः ।
ॐ संशयात्मगर्हिणे नमः ।
ॐ योगसंन्यस्तकर्मणे नमः ।
ॐ ज्ञानसंच्छिन्नसंशयाय नमः । ३२०
ॐ आत्मवते नमः ।
ॐ कर्मानिबद्धाय नमः ।
ॐ संशयच्छेदिने नमः ।
ॐ योगाचार्याय नमः ।
ॐ भारतोत्थापकाय नमः ।
ॐ कर्मयोगप्रियाय नमः ।
ॐ समसाङ्ख्यायोगाय नमः ।
ॐ योगज्ञशंसिने नमः ।
ॐ योगगम्यसंन्यासविदे नमः ।
ॐ विशुद्धात्मने नमः । ३३०
ॐ विजितात्मने नमः ।
ॐ सर्वभूतात्मने नमः ।
ॐ कर्मलेपरहिताय नमः ।
ॐ अकर्त्रात्मविदे नमः ।
ॐ इन्द्रियार्थवृत्तिसाक्षिणे नमः ।
ॐ त्यक्तसङ्गहितकर्मणे नमः ।
ॐ पापालिप्ताय नमः ।
ॐ असङ्गकर्मशुद्धात्मने नमः ।
ॐ शान्तिनिष्ठापराय नमः ।
ॐ संन्यस्तसर्वकर्मणे नमः । ३४०
ॐ अकुर्वते नमः ।
ॐ अकारयते नमः ।
ॐ देहिने नमः ।
ॐ सर्वत्रसमदर्शिने नमः ।
ॐ साम्यस्थितमानसे नमः ।
ॐ जितसर्गाय नमः ।
ॐ ब्रह्मनिष्ठाय नमः ।
ॐ प्रियप्राप्त्यप्रहृष्टाय नमः ।
ॐ अप्रियप्राप्त्यनुद्विग्नाय नमः ।
ॐ स्थिरबुद्धये नमः । ३५०
ॐ असंमूढाय नमः ।
ॐ ब्रह्मविदे नमः ।
ॐ स्वभावप्रवर्तितकर्मफलाय नमः ।
ॐ अनात्तसुकृतदुष्कृताय नमः ।
ॐ मुग्धजन्तुविकल्पिताय नमः ।
ॐ ज्ञाननाशिताज्ञानात्मप्रकाराय नमः ।
ॐ तद्बुद्ध्यादिगम्याय नमः ।
ॐ तदात्मगम्याय नमः ।
ॐ तत्परायणगम्याय नमः ।
ॐ ज्ञाननिर्धूतकल्मषाय नमः । ३६०
ॐ ह्यस्पर्शासक्तात्मने नमः ।
ॐ आत्मविदे नमः ।
ॐ ब्रह्मयोगयुक्तात्मने नमः ।
ॐ अक्षय्यसुखविदे नमः ।
ॐ संस्पर्शसुखानाहृताय नमः ।
ॐ बुधाय नमः ।
ॐ कामादिवेगसहिष्णवे नमः ।
ॐ सुखिने नमः ।
ॐ अन्तस्सुखाय नमः ।
ॐ अन्तरारामाय नमः । ३७०
ॐ अन्तर्ज्योतिषे नमः ।
ॐ अधिगतब्रह्मनिर्वाणाय नमः ।
ॐ छिन्नद्वैधाय नमः ।
ॐ यतात्मने नमः ।
ॐ सर्वभूतहितरताय नमः ।
ॐ विदितात्मने नमः ।
ॐ समाधिगम्याय नमः ।
ॐ यज्ञभोक्त्रे नमः ।
ॐ तपोभोक्त्रे नमः ।
ॐ सर्वलोकमहेश्वराय नमः । ३८०
ॐ सर्वभूतसुहृदये नमः ।
ॐ शान्तिदाय नमः ।
ॐ कर्मसंन्यसिशंसिने नमः ।
ॐ संन्यस्तसङ्कल्पाय नमः ।
ॐ आरुरुक्षूपायबोधकाय नमः ।
ॐ योगारूढशमविधायिने नमः ।
ॐ योगारूढलक्षकाय नमः ।
ॐ आत्मोद्धारबन्धुज्ञाय नमः ।
ॐ अनात्मशत्रुशंसकाय नमः ।
ॐ जितात्मने नमः । ३९०
ॐ प्रशान्ताय नमः ।
ॐ शीतोष्णादिसमाहितात्मने नमः ।
ॐ ज्ञानविज्ञानतृप्तात्मने नमः ।
ॐ कूटस्थाय नमः ।
ॐ समलोष्टाश्मकाञ्चनाय नमः ।
ॐ सुहृदादिसमबुद्धये नमः ।
ॐ समबुद्धिशंसिनेयोगस्थानविधायिने नमः ।
ॐ एकाकिने नमः ।
ॐ अपरिग्रहाय नमः ।
ॐ योगासनसन्दर्शकाय नमः । ४००
ॐ योगफलविदे नमः ।
ॐ संयमप्रकारप्रकटनाय नमः ।
ॐ योगिगम्यसंस्थात्मने नमः ।
ॐ योगियात्राव्याहर्त्रे नमः ।
ॐ युक्तलक्षकाय नमः ।
ॐ योगपरभूमिकानिगादकाय नमः ।
ॐ विषयोपरतिविधायिने नमः ।
ॐ योगिप्राप्यपरसुखाय नमः ।
ॐ सर्वभूतस्थात्मदर्शिने नमः ।
ॐ आत्मस्थसर्वदर्शिने नमः । ४१०
ॐ विद्वत्सन्निहिताय नमः ।
ॐ विद्ववदवियुक्ताय नमः ।
ॐ परमयोगिधर्मज्ञाय नमः ।
ॐ मनोनिग्रहमार्गविदे नमः ।
ॐ योगभ्रष्टगतिविदे नमः ।
ॐ कल्याणारम्भशंसिने नमः ।
ॐ लोकद्वायानुगृहीतयोगभ्रष्टाय नमः ।
ॐ अभ्यासफलप्रापकाय नमः ।
ॐ अनेकजन्मयोगगम्याय नमः ।
ॐ योगफलसमाप्तिभूमये नमः । ४२०
ॐ परापरप्रकृत्यधिष्ठात्रे नमः ।
ॐ जगज्जन्मादिहेतवे नमः ।
ॐ परात्पराय नमः ।
ॐ सर्वाधिष्ठानाय नमः ।
ॐ रसाय नमः ।
ॐ शशिसूर्यप्रभात्मने नमः ।
ॐ प्रणवात्मने नमः ।
ॐ शब्दात्मने नमः ।
ॐ पौरुषात्मने नमः ।
ॐ पुण्यगन्धात्मने नमः । ४३०
ॐ तेजसे नमः ।
ॐ जीवनाय नमः ।
ॐ तपसे नमः ।
ॐ सनातनबीजाय नमः ।
ॐ बुद्धये नमः ।
ॐ कामादिवर्जितबलाय नमः ।
ॐ धर्माविरुद्धकामाय नमः ।
ॐ सर्वभावाधिष्ठात्रे नमः ।
ॐ सर्वभावास्पृष्टाय नमः ।
ॐ सर्वजगदज्ञाताय नमः । ४४०
ॐ दुरत्ययमायिने नमः ।
ॐ प्रपन्नतीर्णमायाय नमः ।
ॐ नराधमाप्रपन्नाय नमः ।
ॐ बहुजन्मप्राप्यज्ञानगम्याय नमः ।
ॐ सुदुर्लभमहात्मवेद्याय नमः ।
ॐ प्रकृतिनियतार्थितदेवाय नमः ।
ॐ भक्तश्रद्धाविधायिने नमः ।
ॐ कर्मफलविधात्रे नमः ।
ॐ भक्तगम्याय नमः ।
ॐ अबुद्ध्यविदिताय नमः । ४५०
ॐ आतीतातिविदे नमः ।
ॐ अपापसेव्याय नमः ।
ॐ आर्तजनाश्रयाय नमः ।
ॐ जिज्ञासुसेविताय नमः ।
ॐ अर्थार्थिप्रार्थिताय नमः ।
ॐ ज्ञानिजनाविनाभूताय नमः ।
ॐ ज्ञानिप्रियाय नमः ।
ॐ प्रियज्ञानिने नमः ।
ॐ ज्ञानिरूपाय नमः ।
ॐ ज्ञान्यास्थितोत्तमगतये नमः । ४६०
ॐ युक्तचेतोविदिताय नमः ।
ॐ अक्षरब्रह्मणे नमः ।
ॐ अध्यात्मादिविदे नमः ।
ॐ अधियज्ञाय नमः ।
ॐ प्रयाणकालस्मृतिप्राप्याय नमः ।
ॐ सर्वकालस्मर्तव्याय नमः ।
ॐ कवये नमः ।
ॐ अनुशासित्रे नमः ।
ॐ अणोरणीयसे नमः ।
ॐ सर्वधात्रे नमः । ४७०
ॐ अचिन्त्यरूपाय नमः ।
ॐ आदित्यवर्णाय नमः ।
ॐ तमसःपरस्मै नमः ।
ॐ योगबलप्राप्याय नमः ।
ॐ वेदविदुतिताय नमः ।
ॐ वीतरागगम्याय नमः ।
ॐ ब्रह्मचर्यवरणीयाय नमः ।
ॐ ओंकारगम्याय नमः ।
ॐ योगिसुलभाय नमः ।
ॐ अनन्यचेतःसुलभाय नमः । ४८०
ॐ अपुनरावृत्तिपदाय नमः ।
ॐ अव्यक्तसनातनभावाय नमः ।
ॐ अनन्यभक्तिलभ्याय नमः ।
ॐ अन्तःस्थितभूताय नमः ।
ॐ कर्मबन्धरहिताय नमः ।
ॐ प्रकृत्यवष्टम्भाय नमः ।
ॐ सर्वव्यापिने नमः ।
ॐ ज्योतिरादिगतिगम्याय नमः ।
ॐ कृष्णगत्यगम्याय नमः ।
ॐ शुक्लकृष्णगतिशंसिने नमः । ४९०
ॐ राजविद्यागुरवे नमः ।
ॐ राजविद्याविषयाय नमः ।
ॐ सर्वजगद्व्यापिने नमः ।
ॐ अव्यक्तमूर्तये नमः ।
ॐ सर्वभूताधाराय नमः ।
ॐ अनाधाराय नमः ।
ॐ भूतास्पृष्टाय नमः ।
ॐ भूतभावनाय नमः ।
ॐ भूतभृते नमः ।
ॐ कल्पान्तलीनभूतप्रभृतये नमः । ५००
ॐ कल्पादिसृष्टभूतप्रभृताय नमः ।
ॐ उदासीनवदासीनाय नमः ।
ॐ चराचरप्रकृत्यध्यक्षाय नमः ।
ॐ जगद्विपरिवर्तकाय नमः ।
ॐ मानुषतनुमोहितमूढाय नमः ।
ॐ आसुराज्ञातपरभवाय नमः ।
ॐ महात्मने नमः ।
ॐ दैवप्रकृतिकीर्तिताय नमः ।
ॐ महात्मनमस्यिताय नमः ।
ॐ ज्ञानयज्ञेज्याय नमः । ५१०
ॐ एकत्वेनज्ञाताय नमः ।
ॐ पृथक्त्वनविदिताय नमः ।
ॐ विश्वतोमुखाय नमः ।
ॐ क्रतवे नमः ।
ॐ यज्ञाय नमः ।
ॐ स्वधायै नमः ।
ॐ औषधाय नमः ।
ॐ मन्त्राय नमः ।
ॐ आज्याय नमः ।
ॐ अग्नये नमः । ५२०
ॐ हुताय नमः ।
ॐ जगत्पित्रे नमः ।
ॐ जगन्मात्रे नमः ।
ॐ जगद्धात्रे नमः ।
ॐ जगत्पितामहाय नमः ।
ॐ जगद्वेद्याय नमः ।
ॐ जगत्पवित्राय नमः ।
ॐ ओंकाराय नमः ।
ॐ ऋचे नमः ।
ॐ साम्ने नमः । ५३०
ॐ यजुषे नमः ।
ॐ जगद्गतये नमः ।
ॐ जगद्भर्त्रे नमः ।
ॐ जगत्प्रभवे नमः ।
ॐ जगत्साक्षिणे नमः ।
ॐ जगन्निवासाय नमः ।
ॐ जगच्छरणाय नमः ।
ॐ जगत्सहृदे नमः ।
ॐ जगत्प्रभवाय नमः ।
ॐ जगत्प्रलयाय नमः । ५४०
ॐ जगत्स्थानाय नमः ।
ॐ जगद्बीजाय नमः ।
ॐ असते नमः ।
ॐ त्रैविद्येष्टाय नमः ।
ॐ सोमपप्रार्थितस्वर्गदाय नमः ।
ॐ त्रयीधर्मप्रसाद्याय नमः ।
ॐ अनन्यभावोपासिताय नमः ।
ॐ भक्तयोगक्षेमनिर्वाहिणे नमः ।
ॐ यज्ञभोक्त्रे नमः ।
ॐ यज्ञप्रभवे नमः । ५५०
ॐ देवव्रतदेवभावदाय नमः ।
ॐ पितृव्रतपितृभावदाय नमः ।
ॐ भूतेज्यभूतभावदाय नमः ।
ॐ तपते नमः ।
ॐ वर्षनिग्राहकाय नमः ।
ॐ वर्षोत्सर्जकाय नमः ।
ॐ अमृताय नमः ।
ॐ मृत्यवे नमः ।
ॐ सते नमः ।
ॐ आत्मयाज्यात्मभावदाय नमः । ५६०
ॐ भक्त्युपहृतप्राशिने नमः ।
ॐ अपर्णीयकर्तव्याय नमः ।
ॐ अपर्णीयाशितव्याय नमः ।
ॐ अपर्णीयहोतव्याय नमः ।
ॐ अपर्णीयदातव्याय नमः ।
ॐ अपर्णीयतप्तव्याय नमः ।
ॐ आत्मार्पितकर्मफलमोचनाय नमः ।
ॐ सर्वभूतसमाय नमः ।
ॐ अद्वेष्याय नमः ।
ॐ प्रियवर्जिताय नमः । ५७०
ॐ भक्ताश्रिताय नमः ।
ॐ भक्ताश्रयिणे नमः ।
ॐ अनन्यभक्तिप्रशंसिने नमः ।
ॐ भक्ताप्रणाशप्रतिज्ञापकाय नमः ।
ॐ पापयोनिपरगतिप्रदाय नमः ।
ॐ व्यपाश्रितजातिविमुखाय नमः ।
ॐ प्रशंसितब्रह्मक्षत्राय नमः ।
ॐ भक्तिपूर्वमननादिविधायिने नमः ।
ॐ सुरगणाद्यविदितप्रभाय नमः ।
ॐ देवाद्यादये नमः । ५८०
ॐ पापप्रमोचनपरमार्थज्ञानाय नमः ।
ॐ देवाद्यविदितव्यक्तये नमः ।
ॐ स्वयंविदितस्वतत्त्वाय नमः ।
ॐ भूतभावनाय नमः ।
ॐ बुद्ध्याविंशतिप्रभवाय नमः ।
ॐ मनोजनितमहर्षये नमः ।
ॐ मनुप्रभवाय नमः ।
ॐ भावान्वितभजनीयाय नमः ।
ॐ मुक्तिप्रकारप्रबोधकाय नमः ।
ॐ ज्ञानदीपनाशितभक्ताज्ञानाय नमः । ५९०
ॐ परब्रह्मणे नमः ।
ॐ परधाम्ने नमः ।
ॐ शाश्वतपुरुषाय नमः ।
ॐ नारदाद्युक्ततत्त्वाय नमः ।
ॐ भूतेशाय नमः ।
ॐ देवदेवाय नमः ।
ॐ जगत्पतये नमः ।
ॐ दिव्यात्मविभूतये नमः ।
ॐ विभूतिव्याप्तसर्वलोकाय नमः ।
ॐ पार्थप्रार्थितविभूतिज्ञानाय नमः । ६००
ॐ अनन्तविभूतये नमः ।
ॐ सर्वभूताशयस्थितात्मने नमः ।
ॐ भूतादये नमः ।
ॐ भूतमध्याय नमः ।
ॐ भूतान्ताय नमः ।
ॐ विष्णवे नमः ।
ॐ अंशुमते नमः ।
ॐ मरीचये नमः ।
ॐ शशिने नमः ।
ॐ सामवेदाय नमः । ६१०
ॐ वासवाय नमः ।
ॐ मनसे नमः ।
ॐ चेतनायै नमः ।
ॐ शङ्कराय नमः ।
ॐ वित्तेशाय नमः ।
ॐ पावकाय नमः ।
ॐ मेरवे नमः ।
ॐ बृहस्पतये नमः ।
ॐ स्कन्दाय नमः ।
ॐ सागराय नमः । ६२०
ॐ भृगवे नमः ।
ॐ एकाक्षराय नमः ।
ॐ जपयज्ञाय नमः ।
ॐ हिमालयाय नमः ।
ॐ अश्वत्थाय नमः ।
ॐ नारदाय नमः ।
ॐ चित्ररथाय नमः ।
ॐ कपिलमुनये नमः ।
ॐ उच्चैःश्रवसे नमः ।
ॐ ऐरावताय नमः । ६३०
ॐ नराधिपाय नमः ।
ॐ वज्राय नमः ।
ॐ कामदुहे नमः ।
ॐ प्रजनकन्दर्पाय नमः ।
ॐ वासुकये नमः ।
ॐ अनन्ताय नमः ।
ॐ मृगेन्द्राय नमः ।
ॐ वैनतेयाय नमः ।
ॐ पवनाय नमः ।
ॐ रामाय नमः । ६४०
ॐ मकराय नमः ।
ॐ जाह्नव्यै नमः ।
ॐ सर्गादाय नमः ।
ॐ सर्गमध्याय नमः ।
ॐ सर्गान्ताय नमः ।
ॐ अध्यात्मविद्यारूपाय नमः ।
ॐ वादाय नमः ।
ॐ अकाराय नमः ।
ॐ वरुणाय नमः ।
ॐ अर्यम्णे नमः । ६५०
ॐ यमाय नमः ।
ॐ प्रह्लादाय नमः ।
ॐ कालाय नमः ।
ॐ द्वन्द्वाय नमः ।
ॐ अक्षयकालाय नमः ।
ॐ विश्वतोमुखधात्रे नमः ।
ॐ सर्वोद्भवाय नमः ।
ॐ सर्वहरमृत्यवे नमः ।
ॐ कीर्तये नमः ।
ॐ श्रियै नमः । ६६०
ॐ वाचे नमः ।
ॐ स्मृत्यै नमः ।
ॐ मेधायै नमः ।
ॐ धृत्यै नमः ।
ॐ क्षमायै नमः ।
ॐ बृहत्साम्ने नमः ।
ॐ गायत्र्यै नमः ।
ॐ मार्गशीर्षाय नमः ।
ॐ कुसुमाकराय नमः ।
ॐ द्यूताय नमः । ६७०
ॐ तेजस्वितेजसे नमः ।
ॐ जयाय नमः ।
ॐ व्यवसायाय नमः ।
ॐ सत्त्वाय नमः ।
ॐ वासुदेवाय नमः ।
ॐ धनञ्जयाय नमः ।
ॐ व्यासाय नमः ।
ॐ उशनसे नमः ।
ॐ नानाविधरूपाय नमः ।
ॐ नानावर्णाकृतिरूपाय नमः । ६८०
ॐ अदृष्टपूर्वाश्चर्यदर्शनाय नमः ।
ॐ देहस्थकृत्स्नजगते नमः ।
ॐ दण्डाय नमः ।
ॐ नीतये नमः ।
ॐ मौनाय नमः ।
ॐ ज्ञानाय नमः ।
ॐ सर्वभूतबीजाय नमः ।
ॐ व्याप्तचराचराय नमः ।
ॐ स्वतेजःसम्भूतविभूत्यादिमते नमः ।
ॐ एकांशविष्टब्धकृत्स्नजगते नमः । ६९०
ॐ कमलपत्राक्षाय नमः ।
ॐ अव्ययमहात्म्याय नमः ।
ॐ पार्थप्रार्थितविश्वरूपप्रदर्शकाय नमः ।
ॐ शतरूपाय नमः ।
ॐ सहस्ररूपाय नमः ।
ॐ पार्थप्रत्तदिव्यचक्षुषे नमः ।
ॐ अनेकवक्त्रनयनाय नमः ।
ॐ अनेकाद्भुतदर्शनाय नमः ।
ॐ अनेकदिव्याभरणाय नमः ।
ॐ दिव्यानेकोद्यतायुधाय नमः । ७००
ॐ दिव्यमालाम्बरधराय नमः ।
ॐ दिव्यगन्धानुलेपनाय नमः ।
ॐ सर्वाश्चर्यमयाय नमः ।
ॐ अनन्तदेवाय नमः ।
ॐ विश्वतोमुखाय नमः ।
ॐ युगपदुत्थितसहस्रसूर्यभासे नमः ।
ॐ एकस्थप्रविभक्तकृत्स्नजगते नमः ।
ॐ प्रणतधनञ्जयभाषिताय नमः ।
ॐ स्वदेहदृष्टब्रह्मादये नमः ।
ॐ अनेकबाहवे नमः । ७१०
ॐ अनेकोदराय नमः ।
ॐ अनेकवक्त्राय नमः ।
ॐ अनेकनेत्राय नमः ।
ॐ अनन्तरूपाय नमः ।
ॐ सर्वतोदृष्टाय नमः ।
ॐ अदृष्टान्तमध्यादये नमः ।
ॐ विश्वेश्वराय नमः ।
ॐ विश्वरूपाय नमः ।
ॐ किरीटिने नमः ।
ॐ गदिने नमः । ७२०
ॐ चक्रिणे नमः ।
ॐ सर्वतोदीप्ततेजोराशये नमः ।
ॐ दुर्निरीक्षाय नमः ।
ॐ दीप्तानलार्कद्युतये नमः ।
ॐ अप्रमेयाय नमः ।
ॐ अक्षराय नमः ।
ॐ परवेदितव्याय नमः ।
ॐ विश्वनिधानाय नमः ।
ॐ अव्ययाय नमः ।
ॐ शाश्वतधर्मगोप्त्रे नमः । ७३०
ॐ सनातनपुरुषाय नमः ।
ॐ आदिमध्यान्तरहिताय नमः ।
ॐ अनन्तवीर्याय नमः ।
ॐ अनन्तबाहवे नमः ।
ॐ शशिसूर्यनेत्राय नमः ।
ॐ दीप्तहुताशवक्त्राय नमः ।
ॐ स्वतेजस्तप्तविश्वाय नमः ।
ॐ महर्षिस्तुताय नमः ।
ॐ विस्मितरुद्रादिवीक्षिताय नमः ।
ॐ महारूपाय नमः । ७४०
ॐ बहुदंष्ट्राकरालरूपाय नमः ।
ॐ नभःस्पृशे नमः ।
ॐ दीप्ताय नमः ।
ॐ अनेकवर्णाय नमः ।
ॐ व्यत्ताननाय नमः ।
ॐ दीप्तविशालनेत्राय नमः ।
ॐ पार्थभीकरदर्शनाय नमः ।
ॐ दंष्ट्राकरालमुखाय नमः ।
ॐ जगन्निवासाय नमः ।
ॐ व्याप्तद्यावापृथिव्यन्तराय नमः । ७५०
ॐ व्याप्तसर्वदिशे नमः ।
ॐ उग्ररूपव्यथितलोकत्रयाय नमः ।
ॐ सुरसङ्घाविष्टाय नमः ।
ॐ भीष्मादिप्रविष्टवक्त्राय नमः ।
ॐ दशनान्तरलग्नयोधमुख्याय नमः ।
ॐ दशनचूर्णितजनोत्तमाङ्गाय नमः ।
ॐ वक्त्राभिमुखविद्रुतनरलोकवीराय नमः ।
ॐ ज्वलद्वदनग्रस्तसमस्तलोकाय नमः ।
ॐ उग्रतेजःप्रतप्तसमस्तजगते नमः ।
ॐ उग्ररूपाय नमः । ७६०
ॐ देववराय नमः ।
ॐ अप्रज्ञातप्रवृत्तये नमः ।
ॐ कालाय नमः ।
ॐ लोकक्षयकृते नमः ।
ॐ प्रवृद्धाय नमः ।
ॐ लोकसमाहृतिप्रवृत्तये नमः ।
ॐ प्रत्यनीकस्थयोधसंहर्त्रे नमः ।
ॐ सव्यसाचिसमुत्थापकाय नमः ।
ॐ भीतभीतकिरीटिप्रणताय नमः ।
ॐ अर्जुनाभिष्टुताय नमः । ७७०
ॐ रक्षोभयङ्कराय नमः ।
ॐ सिद्धसङ्घनमस्कृताय नमः ।
ॐ गरीयसे नमः ।
ॐ ब्रह्मकर्त्रे नमः ।
ॐ जगन्निवासाय नमः ।
ॐ आदिदेवाय नमः ।
ॐ पुराणपुरुषाय नमः ।
ॐ विश्वनिधानाय नमः ।
ॐ पृष्टतोनमस्कृताय नमः ।
ॐ सर्वतोनमस्कृताय नमः । ७८०
ॐ सर्वस्मै नमः ।
ॐ वेत्त्रे नमः ।
ॐ वेद्याय नमः ।
ॐ विश्वव्यापकाय नमः ।
ॐ अनन्तरूपाय नमः ।
ॐ वायवे नमः ।
ॐ यमाय नमः ।
ॐ अग्नये नमः ।
ॐ वरुणाय नमः ।
ॐ शशाङ्काय नमः । ७९०
ॐ प्रजापतये नमः ।
ॐ प्रपितामहाय नमः ।
ॐ सहस्रकृत्वःप्रणताय नमः ।
ॐ पुर्वेनमस्कृताय नमः ।
ॐ अनन्तवीर्याय नमः ।
ॐ अमितविक्रमाय नमः ।
ॐ व्याप्तसर्वस्वरूपाय नमः ।
ॐ अज्ञातमहिम्ने नमः ।
ॐ प्रमादावधृतसखिभावाय नमः ।
ॐ प्रमादावहसाहिताय नमः । ८००
ॐ अर्जुनक्षामिताय नमः ।
ॐ अच्युताय नमः ।
ॐ अप्रमेयाय नमः ।
ॐ चराचरपित्रे नमः ।
ॐ लोकपूज्याय नमः ।
ॐ समाभ्यधिकरहिताय नमः ।
ॐ अप्रमितभावाय नमः ।
ॐ पार्थप्रार्थितपूर्वरूपदर्शनाय नमः ।
ॐ सहस्रबाहवे नमः ।
ॐ विश्वमूर्तये नमः । ८१०
ॐ प्रसादप्रदर्शितविश्वरूपाय नमः ।
ॐ वेदाद्यवेद्यविश्वरूपाय नमः ।
ॐ पार्थभीतिप्रणाशनाय नमः ।
ॐ सौम्यवपुषे नमः ।
ॐ महात्मने नमः ।
ॐ अनन्यभक्तिपरितुष्टाय नमः ।
ॐ भक्त्येकदृश्याय नमः ।
ॐ भक्त्येकगम्याय नमः ।
ॐ गुणपूर्णाय नमः ।
ॐ नित्ययुक्तोपासिताय नमः । ८२०
ॐ अक्षराय नमः ।
ॐ अनिर्देश्याय नमः ।
ॐ अव्यक्ताय नमः ।
ॐ सर्वगाय नमः ।
ॐ अचिन्त्याय नमः ।
ॐ कूटस्थाय नमः ।
ॐ अचलाय नमः ।
ॐ ध्रुवाय नमः ।
ॐ नियतेन्द्रियग्रामगम्याय नमः ।
ॐ सर्वभूतहितरताय नमः । ८३०
ॐ अव्यक्तासक्तचित्तगम्याय नमः ।
ॐ कर्मसंन्यासिसमुपास्याय नमः ।
ॐ सगुणध्यायिसन्तारकाय नमः ।
ॐ समाधिविधायिने नमः ।
ॐ अभ्यासप्रशंसकाय नमः ।
ॐ अभ्यासोपायकर्माराध्याय नमः ।
ॐ क्षमिणे नमः ।
ॐ सततसन्तुष्टाय नमः ।
ॐ दृढनिश्चयाय नमः ।
ॐ प्रियभक्ताय नमः । ८४०
ॐ समशत्रुमित्राय नमः ।
ॐ सममानापमानाय नमः ।
ॐ सङ्गविवर्जिताय नमः ।
ॐ तुल्यनिन्दास्तुतये नमः ।
ॐ मौनिने नमः ।
ॐ अकारणसन्तुष्टाय नमः ।
ॐ अनिकेताय नमः ।
ॐ स्थिरमतये नमः ।
ॐ सर्वकर्मफलत्यागप्रीणिताय नमः ।
ॐ अद्वेष्टे नमः । ८५०
ॐ सर्वभूतमित्राय नमः ।
ॐ करुणाय नमः ।
ॐ भक्तियोगपरमाय नमः ।
ॐ क्षेत्रक्षेत्रज्ञविदे नमः ।
ॐ सर्वक्षेत्रक्षेत्रज्ञाय नमः ।
ॐ ऋषिगीताय नमः ।
ॐ छन्दोगीताय नमः ।
ॐ ब्रह्मसूत्रपदगीताय नमः ।
ॐ सविकारक्षेत्रदर्शिने नमः ।
ॐ अमानिने नमः । ८६०
ॐ अदम्भिने नमः ।
ॐ अहिंसकाय नमः ।
ॐ क्षान्ताय नमः ।
ॐ ऋजवे नमः ।
ॐ आचार्योपासकाय नमः ।
ॐ शुचये नमः ।
ॐ स्थिराय नमः ।
ॐ निगृहीतात्मने नमः ।
ॐ विरक्ताय नमः ।
ॐ अनहङ्कृताय नमः । ८७०
ॐ जन्मादिदोषदर्शिने नमः ।
ॐ असक्ताय नमः ।
ॐ अनभिष्वक्ताय नमः ।
ॐ इष्टानिष्टसमाचित्ताय नमः ।
ॐ अनन्ययोगभक्तिग्राहाय नमः ।
ॐ विविक्तदेशसेविताय नमः ।
ॐ अध्यात्मज्ञाननित्याय नमः ।
ॐ गुणभोक्त्रे नमः ।
ॐ भूतबाह्याय नमः ।
ॐ भूतान्तराय नमः । ८८०
ॐ अचराय नमः ।
ॐ ज्ञानोपायप्रदर्शकाय नमः ।
ॐ अनादिमते नमः ।
ॐ परब्रह्मणे नमः ।
ॐ सदसदादिपदानुक्ताय नमः ।
ॐ सर्वतःपाणिपादाय नमः ।
ॐ सर्वतोऽक्षिशिरोमुखाय नमः ।
ॐ सर्वःश्रुतिमते नमः ।
ॐ सर्ववारकाय नमः ।
ॐ सर्वेन्द्रियगुणाभासाय नमः । ८९०
ॐ सर्वेन्द्रियविवर्जिताय नमः ।
ॐ असक्ताय नमः ।
ॐ सर्वभृते नमः ।
ॐ निर्गुणाय नमः ।
ॐ चराय नमः ।
ॐ सूक्ष्माय नमः ।
ॐ अविज्ञेयाय नमः ।
ॐ दूरस्थाय नमः ।
ॐ अन्तिकस्थाय नमः ।
ॐ भूताविभक्ताय नमः । ९००
ॐ विभक्तवत्स्थिताय नमः ।
ॐ भूतभर्त्रे नमः ।
ॐ ग्रसिष्णवे नमः ।
ॐ प्रभविष्णवे नमः ।
ॐ ज्योतिषांज्योतिषे नमः ।
ॐ तमःपराय नमः ।
ॐ ज्ञानाय नमः ।
ॐ ज्ञेयाय नमः ।
ॐ ज्ञानगम्याय नमः ।
ॐ सर्वहृदयस्थिताय नमः । ९१०
ॐ प्रकृतिपुरुषविवेचकाय नमः ।
ॐ उपद्रष्टे नमः ।
ॐ अनुमन्त्रे नमः ।
ॐ भर्त्रे नमः ।
ॐ भोक्त्रे नमः ।
ॐ महेश्वराय नमः ।
ॐ परमात्मने नमः ।
ॐ परपुरुषाय नमः ।
ॐ ध्यानाद्युपायविदिताय नमः ।
ॐ सर्वभूतसमाय नमः । ९२०
ॐ परमेश्वराय नमः ।
ॐ अविनाशिने नमः ।
ॐ प्रकृतिकर्तृत्वविदे नमः ।
ॐ अकर्त्रात्मदर्शिने नमः ।
ॐ भूताधाराय नमः ।
ॐ भूतविस्तारिणे नमः ।
ॐ शरीरस्थाय नमः ।
ॐ अकर्त्रे नमः ।
ॐ अलिप्ताय नमः ।
ॐ सर्वगताकाशसूक्ष्माय नमः । ९३०
ॐ कृत्स्नक्षेत्रप्रकाशकाय नमः ।
ॐ ज्ञानचक्षुषे नमः ।
ॐ उत्तमज्ञानगुरवे नमः ।
ॐ ज्ञानप्राप्यसाधर्म्याय नमः ।
ॐ ब्रह्मयोनये नमः ।
ॐ सर्वभूतसम्भवाय नमः ।
ॐ रजोगुणानिबद्धाय नमः ।
ॐ सर्वमोहनतमःकार्यरहिताय नमः ।
ॐ सत्त्वाभिभूततमोरजसे नमः ।
ॐ रजस्तमोऽनभिभूतसत्त्वाय नमः । ९४०
ॐ विवृद्धसत्त्वप्रकृतये नमः ।
ॐ रजोजातस्मृहादिहीनाय नमः ।
ॐ तमोमूलमोहहीनाय नमः ।
ॐ प्रवृद्धसत्त्वादिप्रलयगातिविदे नमः ।
ॐ सात्विकादिकर्मफलविदे नमः ।
ॐ गुणत्रयकार्यविवेचकाय नमः ।
ॐ सत्त्वस्थादिस्थितिविदे नमः ।
ॐ गुणातीतात्मज्ञानगम्याय नमः ।
ॐ सर्वमूर्तिबीजप्रदाय नमः ।
ॐ बन्धहेतुगुणत्रयविदे नमः । ९५०
ॐ निर्मलसत्त्वप्रधानाय नमः ।
ॐ सुखसङ्गहीनाय नमः ।
ॐ गुणातीतलिङ्गज्ञाय नमः ।
ॐ गुणातीताय नमः ।
ॐ प्रवृत्तप्रकाशादिद्वेषरहिताय नमः ।
ॐ निवृत्तप्रकाशादिकाङ्क्षाहीनाय नमः ।
ॐ उदासीनवदासीनाय नमः ।
ॐ गुणाविचाल्याय नमः ।
ॐ स्वस्थाय नमः ।
ॐ समलोष्टाश्मकाञ्चनाय नमः । ९६०
ॐ तुल्यप्रियाप्रियाय नमः ।
ॐ तुल्यनिन्दात्मसंस्तुतये नमः ।
ॐ मानापमानतुल्याय नमः ।
ॐ तुल्यमित्रारिपक्षाय नमः ।
ॐ सर्वारम्भपरित्यागिने नमः ।
ॐ ब्रह्मप्रतिष्ठायै नमः ।
ॐ अमृतप्रतिष्ठायै नमः ।
ॐ शाश्वतधर्मप्रतिष्ठायै नमः ।
ॐ अश्वत्थमूलाय नमः ।
ॐ अश्वत्थरूपविदे नमः । ९७०
ॐ अश्वत्थच्छेदस्त्रविदे नमः ।
ॐ मार्गितव्यपदाय नमः ।
ॐ पुराणप्रवृत्तिप्रसारकाय नमः ।
ॐ प्रपत्तव्यपुरुषाय नमः ।
ॐ निर्मानमोहाय नमः ।
ॐ जितसङ्गदोषाय नमः ।
ॐ अध्यात्मनित्याय नमः ।
ॐ विनिवृत्तकामाय नमः ।
ॐ प्राणिदेहाश्रितवैश्वानराय नमः ।
ॐ चतुर्विधान्नपाचकाय नमः । ९८०
ॐ सर्वहृत्सन्निविष्टाय नमः ।
ॐ स्मृत्यादिविदायिने नमः ।
ॐ द्वन्द्वमुक्ताय नमः ।
ॐ अव्ययपदाय नमः ।
ॐ सूर्याद्यभास्यभारूपाय नमः ।
ॐ अंशभूतजीवाय नमः ।
ॐ जीवविषयसेवाविवेचकाय नमः ।
ॐ ज्ञानचक्षुर्वेद्यतत्त्वभूताय नमः ।
ॐ अकृतात्मागम्याय नमः ।
ॐ आदित्यादितेजसे नमः । ९९०
ॐ गामाविष्टाय नमः ।
ॐ भूतधात्रे नमः ।
ॐ ओषधिपोषकाय नमः ।
ॐ सोमाय नमः ।
ॐ सर्ववेदवेद्याय नमः ।
ॐ वेदान्तकृते नमः ।
ॐ वेदविदे नमः ।
ॐ क्षराक्षरविवेचकाय नमः ।
ॐ पुरुषोत्तमाय नमः ।
ॐ परमात्मने नमः । १०००
ॐ लोकभृते नमः ।
ॐ लोकेश्वराय नमः ।
ॐ क्षरातीताय नमः ।
ॐ अक्षरोत्तमाय नमः ।
ॐ लोकवेदप्रथितपुरुषोत्तमाय नमः ।
ॐ सर्ववित्सेविताय नमः ।
ॐ सर्वभावसेविताय नमः ।
ॐ गुह्यतमशास्त्राचार्याय नमः ।
ॐ कृतकृत्यताविधायिने नमः ।
ॐ दैवासुरसम्पद्विवेचकाय नमः । १०१०
ॐ दैवसम्पत्सम्पन्नाय नमः ।
ॐ दैवसम्पदभिगम्याय नमः ।
ॐ आसुरसम्पदनासाद्याय नमः ।
ॐ आसुरस्वभावबोधकाय नमः ।
ॐ कामादित्यागतत्पराय नमः ।
ॐ नरकद्वारविदूराय नमः ।
ॐ विमुक्तकामगम्याय नमः ।
ॐ शास्त्रत्यागासहनाय नमः ।
ॐ कामकारनिराकर्त्रे नमः ।
ॐ कार्यव्यवस्थापकशास्त्रतात्पर्याय नमः । १०२०
ॐ शास्त्रविहिततर्कप्रशंसाय नमः ।
ॐ श्रद्धात्रयविवेक्त्रे नमः ।
ॐ स्वभावसिद्धश्रद्धाविदे नमः ।
ॐ सात्विकाद्याराध्याय नमः ।
ॐ सात्विकाहारानिरताय नमः ।
ॐ राजसाहारविरक्ताय नमः ।
ॐ तामसाहारजिगुप्सकाय नमः ।
ॐ सात्विकयज्ञप्रियाय नमः ।
ॐ राजसेज्यारहिताय नमः ।
ॐ तामसयज्ञगर्हकाय नमः । १०३०
ॐ शारीरतपःपराय नमः ।
ॐ वाङ्मयतपोवेद्याय नमः ।
ॐ मानसतपोगम्याय नमः ।
ॐ सात्विकादितपोविवेचकाय नमः ।
ॐ सात्विकदानाराध्याय नमः ।
ॐ देशकालपात्ररूपाय नमः ।
ॐ सदसदर्थविवेक्त्रे नमः ।
ॐ गाणसंन्यससंशिने नमः ।
ॐ त्यागस्वरूपबोधकाय नमः ।
ॐ असङ्गयज्ञादिविधायिने नमः । १०४०
ॐ सात्विकादित्यागविदे नमः ।
ॐ कर्मकारणविदे नमः ।
ॐ अकर्त्रात्मने नमः ।
ॐ केवलाय नमः ।
ॐ अनहङ्कृतभावाय नमः ।
ॐ अलिप्तबुद्धये नमः ।
ॐ कर्मानिबद्धाय नमः ।
ॐ कर्मचोदनाविज्ञाय नमः ।
ॐ कर्मसङ्ग्रहसंविदिने नमः ।
ॐ रजसदानापूजिताय नमः । १०५०
ॐ तामसदानावज्ञायिने नमः ।
ॐ ओंतत्सदितिनिर्देश्याय नमः ।
ॐ कर्मारम्भनिर्दिष्टनामत्रयाय नमः ।
ॐ सात्विकज्ञानवीक्षिताय नमः ।
ॐ सात्विककर्माराधिताय नमः ।
ॐ सात्विकर्त्राराध्याय नमः ।
ॐ राजसंज्ञानदूराय नमः ।
ॐ रजसकर्तृदूराय नमः ।
ॐ तामसज्ञानदवीयसाय नमः ।
ॐ तामसकर्मदवीयसाय नमः । १०६०
ॐ तामसकर्तृदविष्टाय नमः ।
ॐ सात्विकबुद्धिगम्याय नमः ।
ॐ राजसबुद्धिदूराय नमः ।
ॐ तामसबुद्धिदवीयसाय नमः ।
ॐ सात्विकादिधातृविदे नमः ।
ॐ सात्विकसुखसंविदे नमः ।
ॐ रजससुखविमुखाय नमः ।
ॐ तमससुखजुगुप्सकाय नमः ।
ॐ ब्राह्मणादिकर्मविभाजकाय नमः ।
ॐ स्वकर्मसमाराधिताय नमः । १०७०
ॐ सिद्धिप्रियाय नमः ।
ॐ स्वधर्मप्रवणाय नमः ।
ॐ परधर्मप्रद्वेषिणे नमः ।
ॐ सहजधर्मत्यागनिषेधकाय नमः ।
ॐ असङ्गफलशंसिने नमः ।
ॐ त्यक्तैविषयाय नमः ।
ॐ रागद्वेषव्युदासिने नमः ।
ॐ सर्वभूतहृदयस्थिताय नमः ।
ॐ सर्वभूतभ्रामकाय नमः ।
ॐ सर्वभावगम्यशरणाय नमः । १०८०
ॐ सर्वप्रसन्नाय नमः ।
ॐ विविक्तसेविने नमः ।
ॐ यतवाचे नमः ।
ॐ यतमानसाय नमः ।
ॐ ध्यानयोगपराय नमः ।
ॐ वैराग्यश्रिताय नमः ।
ॐ मुक्तकामक्रोधाय नमः ।
ॐ प्रसन्नात्मने नमः ।
ॐ भक्त्येकगम्याय नमः ।
ॐ शाश्वतपदाय नमः । १०९०
ॐ ज्ञानैकपदाय नमः ।
ॐ कर्मसंन्यसस्थानाय नमः ।
ॐ सर्वदुर्गतारकाय नमः ।
ॐ शाश्वताय नमः ।
ॐ सर्वेष्टाय नमः ।
ॐ सर्वहिताय नमः ।
ॐ भक्तप्रपत्तव्याय नमः ।
ॐ शरणागतत्राणपरायणाय नमः ।
ॐ गीताध्यानसन्तुष्टाय नमः ।
ॐ गीताश्रवणप्रणीताय नमः । ११००
॥ इति श्रीमद्भगवद्गीतासहस्रनामावली सम्पूर्णा ॥
॥ श्रीमद् गीतासारः अग्निपुराणान्तर्गतः ॥
अग्निरुवाच --
गीतासारं प्रवक्ष्यामि सर्वगीतोत्तमोत्तमम् ।
कृष्णोऽर्जुनाय यमाह पुरा वै भुक्तिमुक्तिदम् ॥ ३८१.१ ॥
श्रीभगवानुवाच --
गतासुरगतासुर्वा न शोच्यो देहवानजः ।
आत्माऽजरोऽमरोऽभेद्यस्तस्माच्छोकादिकं त्यजेत् ॥ ३८१.२ ॥
ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते ।
सङ्गात् कामस्ततः क्रोधः क्रोधात्सम्मोह एव च ॥ ३८१.३ ॥
सम्मोहात् स्मृतिविभ्रंशो बुद्धिनाशात् प्रणश्यति ।
दुःसङ्गहानिः सत्सङ्गान्मोक्षकामी च कामनुत् ॥ ३८१.४ ॥
कामत्यागादात्मनिष्ठः स्थिरप्रज्ञस्तदोच्यते ।
या निशा सर्वभूतानां तस्यां जागर्ति संयमी ॥ ३८१.५ ॥
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ।
आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥ ३८१.६ ॥
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
तत्त्ववित्तु महावाहो गुणकर्मविभागयोः ॥ ३८१.७ ॥
गुणा गुणेषु वर्तन्ते इति मत्वा न सज्जते ।
सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यति ॥ ३८१.८ ॥
ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुतेऽर्जुन ।
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ॥ ३८१.९ ॥
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ।
सर्वभूतेषु चात्मानां सर्वभूतानि चात्मनि ॥ ३८१.११ ॥
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ।
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ ३८१.११ ॥
न हि कल्याणकृत् कश्चिद्दुर्गतिं तात गच्छति ।
दैवी ह्येषा गुणमयी मम माया दुरत्यया ॥ ३८१.१२ ॥
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ।
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ ३८१.१३ ॥
चतुर्विधा भजन्ते मां ज्ञानी चैकत्वमास्थितः ।
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते ॥ ३८१.१४ ॥
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ।
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् ॥ ३८१.१५ ॥
अधियज्ञोऽहमेवात्र देहे देहभृतां वर ।
अन्तकाले स्मरन्माञ्च मद्भावं यात्यसंशयः ॥ ३८१.१६ ॥
यं यं भावं स्मरन्नन्ते त्यजेद्देहं तमाप्नुयात् ।
प्राणं न्यस्य भ्रुवोर्मध्ये अन्ते प्राप्नोति मत्परम् ॥ ३८१.१७ ॥
ओमित्येकाक्षरं ब्रह्म वदन् देहं त्यजन् तथा ।
ब्रह्मादिस्तम्भपर्यन्ताः सर्वे मम विभूतयः ॥ ३८१.१८ ॥
श्रीमन्तश्चोर्जिताः सर्वे ममांशाः प्राणिनः स्मृताः ।
अहमेको विश्वरुप इति ज्ञात्वा विमुच्यते ॥ ३८१.१९ ॥
क्षेत्रं शरीरं यो वेत्ति क्षेत्रज्ञः स प्रकीर्तितः ।
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ ३८१.२१ ॥
महाभूतान्यहङ्गारो बुद्धिरव्यक्तमेव च ।
इन्द्रियाणि दशौकञ्च पञ्च चेन्द्रियगोचराः ॥ ३८१.२१ ॥
इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः ।
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥ ३८१.२२ ॥
अमानित्वमदम्भित्वमहिसा क्षान्तिरार्जवम् ।
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ ३८१.२३ ॥
इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च ।
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ ३८१.२४ ॥
आसक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।
नित्यञ्च समचित्तत्त्वमिष्टानिष्टोपपत्तिषु ॥ ३८१.२५ ॥
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।
विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ ३८१.२६ ॥
अध्यात्मज्ञाननिष्ठत्वन् तत्त्वज्ञानानुदर्शनम् ।
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥ ३८१.२७ ॥
ज्ञेयं यत्तत् प्रवक्ष्यामि यत् ज्ञात्वाऽमृतमश्नुते ।
अनादि परमं ब्रह्म सत्त्वं नाम तदुच्यते ॥ ३८१.२८ ॥
सर्वतः पाणिपादां तत् सर्वतोऽक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ ३८१.२९ ॥
सर्वेन्द्रियगुणाभासं सर्वेन्दियविवर्जितम् ।
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥ ३८१.३१ ॥
बहिरन्तश्च भूतानामचरञ्चरमेव च ।
सूक्षमत्वात्तदविज्ञेयं दूरस्थञ्चान्तिकेऽपि यत् ॥ ३८१.३१ ॥
अविभक्तञ्च भूतेषु विभक्तमिव च स्थितम् ।
भूतभर्तृ च विज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ ३८१.३२ ॥
ज्योतिषामपि तज्जयोतिस्तमसः परमुच्यते ।
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य घिष्ठितम् ॥ ३८१.३३ ॥
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।
अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥ ३८१.३४ ॥
अन्ये त्वेवमजानन्तो श्रुत्वान्येभ्य उपासते ।
तेऽपि चाशु तरन्त्येव मृत्युं श्रुतिपरायणाः ॥ ३८१.३५ ॥ BG 13.25 चातितर
सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च ।
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ ३८१.३६ ॥
गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते ।
मानावमानमित्रारितुल्यस्त्यागी स निर्गुणः ॥ ३८१.३७ ॥
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ ३८१.३८ ॥
द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च ।
अहिंसादिः क्षमा चैव दैवीसम्पत्तितो नृणाम् ॥ ३८१.३९ ॥
न शौचं नापि वाचारो ह्यासुरीसम्पदोद्भवः ।
नरकत्वात् क्रोधलोभकामस्तस्मात्त्रयं त्यजेत् ॥ ३८१.४१ ॥
यज्ञस्तपस्तथा दानं सत्त्वाद्यैस्त्रिविधं स्मृतम् ।
आयुः सत्त्वबलारोग्यसुखायान्नन्तु सात्त्विकम् ॥ ३८१.४१ ॥
दुःखशोकामयायान्नं तीक्ष्णरूक्षन्तु राजसम् ।
अमेध्योच्छिष्टपूत्यन्नं तामसं नीरसादिकम् ॥ ३८१.४२ ॥
यष्टव्यो विधिना यज्ञो निष्कामाय स सात्त्विकः ।
यज्ञः फलाय दम्भात्मी राजसस्तामसः क्रतुः ॥ ३८१.४३ ॥ var दम्भार्थं
श्रद्धामन्त्रादिविध्युक्तं तपः शारीरमुच्यते ।
देवादिपूजाऽहिंसादि वाङ्मयं तप उच्यते ॥ ३८१.४४ ॥
अनुद्वेगकरं वाक्यं सत्यं स्वाध्यायसज्जपः ।
मानसं चित्तसंशुद्धेर्मौनमात्मविनिग्रहः ॥ ३८१.४५ ॥
सात्त्विकञ्च तपोऽकामं फलाद्यर्थन्तु राजसम् ।
तामसं परपीडायै सात्त्विकं दानमुच्यते ॥ ३८१.४६ ॥
देशादौ चैव दातव्यमुपकाराय राजसम् ।
अदेशादाववज्ञातं तामसं दानमीरितम् ॥ ३८१.४७ ॥
ओंतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।
यज्ञदानादिकं कर्म भुक्तिमुक्तिप्रदं नृणाम् ॥ ३८१.४८ ॥
अनिष्टमिष्टं मिश्रञ्च त्रिविंधं कर्मणः फलम् ।
भवत्यत्यागिनां प्रेत्य न तु सन्न्यासिनां क्वचित् ॥ ३८१.४९ ॥
तामसः कर्मसंयोगात् मोहात्क्लेशभयादिकात् ।
राजसः सात्त्विकोऽकामात् पञ्चैते कर्महेतवः ॥ ३८१.५१ ॥
अधिष्ठानं तथा कर्ता करणञ्च पृथग्विधम् ।
त्रिविधाश्च पृथक् चेष्टा दैवञ्चैवात्र पञ्चमम् ॥ ३८१.५१ ॥
एकं ज्ञानं सात्त्विकं स्यात् पृथग् ज्ञानन्तु राजसम् ।
अतत्त्वार्थन्तामसं स्यात् कर्माकामाय सात्त्विकम् ॥ ३८१.५२ ॥
कामाय राजसं कर्म मोहात् कर्म तु तामसम् ।
सिद्ध्यसिद्ध्योः समः कर्ता सात्त्विको राजसोऽत्यपि ॥ ३८१.५३ ॥
शठोऽलसस्तामसः स्यात् कार्यादिधीश्च सात्त्विकी ।
कार्यार्थं सा राजसी स्याद्विपरीता तु तामसी ॥ ३८१.५४ ॥
मनोधृतिः सात्त्विकी स्यात् प्रीतिकामेति राजसी ।
तामसी तु प्रशोकादौ सुखं सत्त्वात्तदन्तगम् ॥ ३८१.५५ ॥
सुखं तद्राजसञ्चाग्रे अन्ते दुःखन्तु तामसम् ।
अतः प्रवृत्तिर्भूतानां येन सर्वमिदन्ततम् ॥ ३८१.५६ ॥
स्वकर्मणा तमभ्यर्च्य विष्णुं सिद्धिञ्च विन्दति ।
कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा ॥ ३८१.५७ ॥
ब्रह्मादिस्तम्भपर्यन्तं जगद्विष्णुञ्च वेत्ति यः ।
सिद्धिमाप्नोति भगवद्भक्तो भागवतो ध्रुवम् ॥ ३८१.५८ ॥
इत्यादिमहापुराणे आग्नेये गीतासारो नामैकाशीत्यधिकत्रिशततमोऽध्यायः ॥
॥ भिक्षुगीता ११ ॥
द्विज उवाच ।
नायं जनो मे सुखदुःखहेतुर्न देवतात्मा ग्रहकर्मकालाः ।
मनः परं कारणमामनन्ति संसारचक्रं परिवर्तयेद्यत् ॥ ४२॥
मनो गुणान्वै सृजते बलीयस्ततश्च कर्माणि विलक्षणानि ।
शुक्लानि कृष्णान्यथ लोहितानि तेभ्यः सवर्णाः सृतयो भवन्ति ॥ ४३॥
अनीह आत्मा मनसा समीहता हिरण्मयो मत्सख उद्विचष्टे ।
मनः स्वलिङ्गं परिगृह्य कामान्जुषन्निबद्धो गुणसङ्गतोऽसौ ॥ ४४॥
दानं स्वधर्मो नियमो यमश्च श्रुतं च कर्माणि च सद्व्रतानि ।
सर्वे मनोनिग्रहलक्षणान्ताः परो हि योगो मनसः समाधिः ॥ ४५॥
समाहितं यस्य मनः प्रशान्तं दानादिभिः किं वद तस्य कृत्यम् ।
असंयतं यस्य मनो विनश्यद्दानादिभिश्चेदपरं किमेभिः ॥ ४६॥
मनोवशेऽन्ये ह्यभवन्स्म देवा मनश्च नान्यस्य वशं समेति ।
भीष्मो हि देवः सहसः सहीयान्युञ्ज्याद्वशे तं स हि देवदेवः ॥ ४७॥
तम्दुर्जयं शत्रुमसह्यवेगमरुन्तुदं तन्न विजित्य केचित् ।
कुर्वन्त्यसद्विग्रहमत्र मर्त्यैर्मित्राण्युदासीनरिपून्विमूढाः ॥ ४८॥
देहं मनोमात्रमिमं गृहीत्वा ममाहमित्यन्धधियो मनुष्याः ।
एषोऽहमन्योऽयमिति भ्रमेण दुरन्तपारे तमसि भ्रमन्ति ॥ ४९॥
जनस्तु हेतुः सुखदुःखयोश्चेत्किमात्मनश्चात्र हि भौमयोस्तत् ।
जिह्वां क्वचित्सन्दशति स्वदद्भिस्तद्वेदनायां कतमाय कुप्येत् ॥ ५०॥
दुःखस्य हेतुर्यदि देवतास्तु किमात्मनस्तत्र विकारयोस्तत् ।
यदङ्गमङ्गेन निहन्यते क्वचित्क्रुध्येत कस्मै पुरुषः स्वदेहे ॥ ५१॥
आत्मा यदि स्यात्सुखदुःखहेतुः किमन्यतस्तत्र निजस्वभावः ।
न ह्यात्मनोऽन्यद्यदि तन्मृषा स्यात्क्रुध्येत कस्मान्न सुखं न दुःखम् ॥ ५२॥
ग्रहा निमित्तं सुखदुःखयोश्चेत्किमात्मनोऽजस्य जनस्य ते वै ।
ग्रहैर्ग्रहस्यैव वदन्ति पीडां क्रुध्येत कस्मै पुरुषस्ततोऽन्यः ॥ ५३॥
कर्मास्तु हेतुः सुखदुःखयोश्चेत्किमात्मनस्तद्धि जडाजडत्वे ।
देहस्त्वचित्पुरुषोऽयं सुपर्णः क्रुध्येत कस्मै न हि कर्म मूलम् ॥ ५४॥
कालस्तु हेतुः सुखदुःखयोश्चेत्किमात्मनस्तत्र तदात्मकोऽसौ ।
नाग्नेर्हि तापो न हिमस्य तत्स्यात्क्रुध्येत कस्मै न परस्य द्वन्द्वम् ॥ ५५॥
न केनचित्क्वापि कथञ्चनास्य द्वन्द्वोपरागः परतः परस्य ।
यथाहमः संसृतिरूपिणः स्यादेवं प्रबुद्धो न बिभेति भूतैः ॥ ५६॥
एतां स आस्थाय परात्मनिष्ठामध्यासितां पूर्वतमैर्महर्षिभिः ।
अहं तरिष्यामि दुरन्तपारं तमो मुकुन्दाङ्घ्रिनिषेवयैव ॥ ५७॥
श्रीभगवानुवाच ।
निर्विद्य नष्टद्रविणे गतक्लमः प्रव्रज्य गां पर्यटमान इत्थम् ।
निराकृतोऽसद्भिरपि स्वधर्मादकम्पितोऽमूं मुनिराह गाथाम् ॥ ५८॥
सुखदुःखप्रदो नान्यः पुरुषस्यात्मविभ्रमः ।
मित्रोदासीनरिपवः संसारस्तमसः कृतः ॥ ५९॥
तस्मात्सर्वात्मना तात निगृहाण मनो धिया ।
मय्यावेशितया युक्त एतावान्योगसङ्ग्रहः ॥ ६०॥
य एतां भिक्षुणा गीतां ब्रह्मनिष्ठां समाहितः ।
धारयञ्छ्रावयञ्छृण्वन्द्वन्द्वैर्नैवाभिभूयते ॥ ६१॥
इति श्रीमद्भागवतपुराणान्तर्गतम् अध्याय २३ स्कंध ११ भिक्षुगीता ॥
॥ श्रीमद्भागवतान्तर्गतं भूमिगीतम् ॥
श्रीशुक उवाच ।
दृष्ट्वात्मनि जये व्यग्रान्नृपान्हसति भूरियम् ।
अहो मा विजिगीषन्ति मृत्योः क्रीडनका नृपाः ॥ १२.३.०१॥
काम एष नरेन्द्राणां मोघः स्याद्विदुषामपि ।
येन फेनोपमे पिण्डे येऽतिविश्रम्भिता नृपाः ॥ १२.३.०२॥
पूर्वं निर्जित्य षड्वर्गं जेष्यामो राजमन्त्रिणः ।
ततः सचिवपौराप्त करीन्द्रानस्य कण्टकान् ॥ १२.३.०३॥
एवं क्रमेण जेष्यामः पृथ्वीं सागरमेखलाम् ।
इत्याशाबद्धहृदया न पश्यन्त्यन्तिकेऽन्तकम् ॥ १२.३.०४॥
समुद्रावरणां जित्वा मां विशन्त्यब्धिमोजसा ।
कियदात्मजयस्यैतन्मुक्तिरात्मजये फलम् ॥ १२.३.०५॥
यां विसृज्यैव मनवस्तत्सुताश्च कुरूद्वह ।
गता यथागतं युद्धे तां मां जेष्यन्त्यबुद्धयः ॥ १२.३.०६॥
मत्कृते पितृपुत्राणां भ्रातृणां चापि विग्रहः ।
जायते ह्यसतां राज्ये ममताबद्धचेतसाम् ॥ १२.३.०७॥
ममैवेयं मही कृत्स्ना न ते मूढेति वादिनः ।
स्पर्धमाना मिथो घ्नन्ति म्रियन्ते मत्कृते नृपाः ॥ १२.३.०८॥
पृथुः पुरूरवा गाधिर्नहुषो भरतोऽर्जुनः ।
मान्धाता सगरो रामः खट्वाङ्गो धुन्धुहा रघुः ॥ १२.३.०९॥
तृणबिन्दुर्ययातिश्च शर्यातिः शन्तनुर्गयः ।
भगीरथः कुवलयाश्वः ककुत्स्थो नैषधो नृगः ॥ १२.३.१०॥
हिरण्यकशिपुर्वृत्रो रावणो लोकरावणः ।
नमुचिः शम्बरो भौमो हिरण्याक्षोऽथ तारकः ॥ १२.३.११॥
अन्ये च बहवो दैत्या राजानो ये महेश्वराः ।
सर्वे सर्वविदः शूराः सर्वे सर्वजितोऽजिताः ॥ १२.३.१२॥
ममतां मय्यवर्तन्त कृत्वोच्चैर्मर्त्यधर्मिणः ।
कथावशेषाः कालेन ह्यकृतार्थाः कृता विभो ॥ १२.३.१३॥
कथा इमास्ते कथिता महीयसां विताय लोकेषु यशः परेयुषाम् ।
विज्ञानवैराग्यविवक्षया विभो वचोविभूतीर्न तु पारमार्थ्यम् ॥ १२.३.१४॥
यस्तूत्तमःश्लोकगुणानुवादः सङ्गीयतेऽभीक्ष्णममङ्गलघ्नः ।
तमेव नित्यं शृणुयादभीक्ष्णं कृष्णेऽमलां भक्तिमभीप्समानः ॥ १२.३.१५॥
॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे
तृतीयोऽध्यायान्तर्गतं भूमिगीतं समाप्तम् ॥ १२.३॥
॥ श्रीमद्भागवतान्तर्गतम् भ्रमरगीतम् ॥
श्रीशुक उवाच ।
तं वीक्ष्य कृषानुचरं व्रजस्त्रियः
प्रलम्बबाहुं नवकञ्जलोचनम् ।
पीताम्बरं पुष्करमालिनं लसन्
मुखारविन्दं परिमृष्टकुण्डलम् ॥ १०.४७.१॥
सुविस्मिताः कोऽयमपीव्यदर्शनः
कुतश्च कस्याच्युतवेषभूषणः ।
इति स्म सर्वाः परिवव्रुरुत्सुकास्
तमुत्तमःश्लोकपदाम्बुजाश्रयम् ॥ १०.४७.२॥
तं प्रश्रयेणावनताः सुसत्कृतं
सव्रीडहासेक्षणसूनृतादिभिः ।
रहस्यपृच्छन्नुपविष्टमासने
विज्ञाय सन्देशहरं रमापतेः ॥ १०.४७.३॥
जानीमस्त्वां यदुपतेः पार्षदं समुपागतम् ।
भर्त्रेह प्रेषितः पित्रोर्भवान्प्रियचिकीर्षया ॥ १०.४७.४॥
अन्यथा गोव्रजे तस्य स्मरणीयं न चक्ष्महे ।
स्नेहानुबन्धो बन्धूनां मुनेरपि सुदुस्त्यजः ॥ १०.४७.५॥
अन्येष्वर्थकृता मैत्री यावदर्थविडम्बनम् ।
पुम्भिः स्त्रीषु कृता यद्वत्सुमनःस्विव षट्पदैः ॥ १०.४७.६॥
निःस्वं त्यजन्ति गणिका अकल्पं नृपतिं प्रजाः ।
अधीतविद्या आचार्यमृत्विजो दत्तदक्षिणम् ॥ १०.४७.७॥
खगा वीतफलं वृक्षं भुक्त्वा चातिथयो गृहम् ।
दग्धं मृगास्तथारण्यं जारा भुक्त्वा रतां स्त्रियम् ॥ १०.४७.८॥
इति गोप्यो हि गोविन्दे गतवाक्कायमानसाः ।
कृष्णदूते समायाते उद्धवे त्यक्तलौकिकाः ॥ १०.४७.९॥
गायन्त्यः प्रीयकर्माणि रुदन्त्यश्च गतह्रियः ।
तस्य संस्मृत्य संस्मृत्य यानि कैशोरबाल्ययोः ॥ १०.४७.१०॥
काचिन्मधुकरं दृष्ट्वा ध्यायन्ती कृष्णसङ्गमम् ।
प्रियप्रस्थापितं दूतं कल्पयित्वेदमब्रवीत् ॥ १०.४७.११॥
गोप्युवाच ।
मधुप कितवबन्धो मा स्पृशङ्घ्रिं सपत्न्याः
कुचविलुलितमालाकुङ्कुमश्मश्रुभिर्नः ।
वहतु मधुपतिस्तन्मानिनीनां प्रसादं
यदुसदसि विडम्ब्यं यस्य दूतस्त्वमीदृक् ॥ १०.४७.१२॥
सकृदधरसुधां स्वां मोहिनीं पाययित्वा
सुमनस इव सद्यस्तत्यजेऽस्मान्भवादृक् ।
परिचरति कथं तत्पादपद्मं नु पद्मा
ह्यपि बत हृतचेता ह्युत्तमःश्लोकजल्पैः ॥ १०.४७.१३॥
किमिह बहु षडङ्घ्रे गायसि त्वं यदूनां
अधिपतिमगृहाणामग्रतो नः पुराणम् ।
विजयसखसखीनां गीयतां तत्प्रसङ्गः
क्षपितकुचरुजस्ते कल्पयन्तीष्टमिष्टाः ॥ १०.४७.१४॥
दिवि भुवि च रसायां काः स्त्रियस्तद्दुरापाः
कपटरुचिरहासभ्रूविजृम्भस्य याः स्युः ।
चरणरज उपास्ते यस्य भूतिर्वयं का
अपि च कृपणपक्षे ह्युत्तमःश्लोकशब्दः ॥ १०.४७.१५॥
विसृज शिरसि पादं वेद्म्यहं चातुकारैर्
अनुनयविदुषस्तेऽभ्येत्य दौत्यैर्मुकुन्दात् ।
स्वकृत इह विषृष्टापत्यपत्यन्यलोका
व्यसृजदकृतचेताः किं नु सन्धेयमस्मिन् ॥ १०.४७.१६॥
मृगयुरिव कपीन्द्रं विव्यधे लुब्धधर्मा
स्त्रियमकृत विरूपां स्त्रीजितः कामयानाम् ।
बलिमपि बलिमत्त्वावेष्टयद्ध्वाङ्क्षवद्यस्
तदलमसितसख्यैर्दुस्त्यजस्तत्कथार्थः ॥ १०.४७.१७॥
यदनुचरितलीलाकर्णपीयूषविप्रुट्
सकृददनविधूतद्वन्द्वधर्मा विनष्टाः ।
सपदि गृहकुटुम्बं दीनमुत्सृज्य दीना
बहव इह विहङ्गा भिक्षुचर्यां चरन्ति ॥ १०.४७.१८॥
वयमृतमिव जिह्मव्याहृतं श्रद्दधानाः
कुलिकरुतमिवाज्ञाः कृष्णवध्वो हरिण्यः ।
ददृशुरसकृदेतत्तन्नखस्पर्शतीव्र
स्मररुज उपमन्त्रिन्भण्यतामन्यवार्ता ॥ १०.४७.१९॥
प्रियसख पुनरागाः प्रेयसा प्रेषितः किं
वरय किमनुरुन्धे माननीयोऽसि मेऽङ्ग ।
नयसि कथमिहास्मान्दुस्त्यजद्वन्द्वपार्श्वं
सततमुरसि सौम्य श्रीर्वधूः साकमास्ते ॥ १०.४७.२०॥
अपि बत मधुपुर्यामार्यपुत्रोऽधुनास्ते
स्मरति स पितृगेहान्सौम्य बन्धूंश्च गोपान् ।
क्वचिदपि स कथा नः किङ्करीणां गृणीते
भुजमगुरुसुगन्धं मूर्ध्न्यधास्यत्कदा नु ॥ १०.४७.२१॥
श्रीशुक उवाच ।
अथोद्धवो निशम्यैवं कृष्णदर्शनलालसाः ।
सान्त्वयन्प्रियसन्देशैर्गोपीरिदमभाषत ॥ १०.४७.२२॥
श्रीउद्धव उवाच ।
अहो यूयं स्म पूर्णार्था भवत्यो लोकपूजिताः ।
वासुदेवे भगवति यासामित्यर्पितं मनः ॥ १०.४७.२३॥
दानव्रततपोहोम जपस्वाध्यायसंयमैः ।
श्रेयोभिर्विविधैश्चान्यैः कृष्णे भक्तिर्हि साध्यते ॥ १०.४७.२४॥
भगवत्युत्तमःश्लोके भवतीभिरनुत्तमा ।
भक्तिः प्रवर्तिता दिष्ट्या मुनीनामपि दुर्लभा ॥ १०.४७.२५॥
दिष्ट्या पुत्रान्पतीन्देहान्स्वजनान्भवनानि च ।
हित्वावृनीत यूयं यत्कृष्णाख्यं पुरुषं परम् ॥ १०.४७.२६॥
सर्वात्मभावोऽधिकृतो भवतीनामधोक्षजे ।
विरहेण महाभागा महान्मेऽनुग्रहः कृतः ॥ १०.४७.२७॥
श्रूयतां प्रियसन्देशो भवतीनां सुखावहः ।
यमादायागतो भद्रा अहं भर्तू रहस्करः ॥ १०.४७.२८॥
श्रीभगवानुवाच ।
भवतीनां वियोगो मे न हि सर्वात्मना क्वचित् ।
यथा भूतानि भूतेषु खं वाय्वग्निर्जलं मही ।
तथाहं च मनःप्राण भूतेन्द्रियगुणाश्रयः ॥ १०.४७.२९॥
आत्मन्येवात्मनात्मानं सृजे हन्म्यनुपालये ।
आत्ममायानुभावेन भूतेन्द्रियगुणात्मना ॥ १०.४७.३०॥
आत्मा ज्ञानमयः शुद्धो व्यतिरिक्तोऽगुणान्वयः ।
सुषुप्तिस्वप्नजाग्रद्भिर्मायावृत्तिभिरीयते ॥ १०.४७.३१॥
येनेन्द्रियार्थान्ध्यायेत मृषा स्वप्नवदुत्थितः ।
तन्निरुन्ध्यादिन्द्रियाणि विनिद्रः प्रत्यपद्यत ॥ १०.४७.३२॥
एतदन्तः समाम्नायो योगः साङ्ख्यं मनीषिणाम् ।
त्यागस्तपो दमः सत्यं समुद्रान्ता इवापगाः ॥ १०.४७.३३॥
यत्त्वहं भवतीनां वै दूरे वर्ते प्रियो दृशाम् ।
मनसः सन्निकर्षार्थं मदनुध्यानकाम्यया ॥ १०.४७.३४॥
यथा दूरचरे प्रेष्ठे मन आविश्य वर्तते ।
स्त्रीणां च न तथा चेतः सन्निकृष्टेऽक्षिगोचरे ॥ १०.४७.३५॥
मय्यावेश्य मनः कृत्स्नं विमुक्ताशेषवृत्ति यत् ।
अनुस्मरन्त्यो मां नित्यमचिरान्मामुपैष्यथ ॥ १०.४७.३६॥
या मया क्रीडता रात्र्यां वनेऽस्मिन्व्रज आस्थिताः ।
अलब्धरासाः कल्याण्यो मापुर्मद्वीर्यचिन्तया ॥ १०.४७.३७॥
श्रीशुक उवाच ।
एवं प्रियतमादिष्टमाकर्ण्य व्रजयोषितः ।
ता ऊचुरुद्धवं प्रीतास्तत्सन्देशागतस्मृतीः ॥ १०.४७.३८॥
गोप्य ऊचुः ।
दिष्ट्याहितो हतः कंसो यदूनां सानुगोऽघकृत् ।
दिष्ट्याप्तैर्लब्धसर्वार्थैः कुशल्यास्तेऽच्युतोऽधुना ॥ १०.४७.३९॥
कच्चिद्गदाग्रजः सौम्य करोति पुरयोषिताम् ।
प्रीतिं नः स्निग्धसव्रीड हासोदारेक्षणार्चितः ॥ १०.४७.४०॥
कथं रतिविशेषज्ञः प्रियश्च पुरयोषिताम् ।
नानुबध्येत तद्वाक्यैर्विभ्रमैश्चानुभाजितः ॥ १०.४७.४१॥
अपि स्मरति नः साधो गोविन्दः प्रस्तुते क्वचित् ।
गोष्ठिमध्ये पुरस्त्रीणाम्ग्राम्याः स्वैरकथान्तरे ॥ १०.४७.४२॥
ताः किं निशाः स्मरति यासु तदा प्रियाभिर्
वृन्दावने कुमुदकुन्दशशाङ्करम्ये ।
रेमे क्वणच्चरणनूपुररासगोष्ठ्याम्
अस्माभिरीडितमनोज्ञकथः कदाचित् ॥ १०.४७.४३॥
अप्येष्यतीह दाशार्हस्तप्ताः स्वकृतया शुचा ।
सञ्जीवयन्नु नो गात्रैर्यथेन्द्रो वनमम्बुदैः ॥ १०.४७.४४॥
कस्मात्कृष्ण इहायाति प्राप्तराज्यो हताहितः ।
नरेन्द्रकन्या उद्वाह्य प्रीतः सर्वसुहृद्वृतः ॥ १०.४७.४५॥
किमस्माभिर्वनौकोभिरन्याभिर्वा महात्मनः ।
श्रीपतेराप्तकामस्य क्रियेतार्थः कृतात्मनः ॥ १०.४७.४६॥
परं सौख्यं हि नैराश्यं स्वैरिण्यप्याह पिङ्गला ।
तज्जानतीनां नः कृष्णे तथाप्याशा दुरत्यया ॥ १०.४७.४७॥
क उत्सहेत सन्त्यक्तुमुत्तमःश्लोकसंविदम् ।
अनिच्छतोऽपि यस्य श्रीरङ्गान्न च्यवते क्वचित् ॥ १०.४७.४८॥
सरिच्छैलवनोद्देशा गावो वेणुरवा इमे ।
सङ्कर्षणसहायेन कृष्णेनाचरिताः प्रभो ॥ १०.४७.४९॥
पुनः पुनः स्मारयन्ति नन्दगोपसुतं बत ।
श्रीनिकेतैस्तत्पदकैर्विस्मर्तुं नैव शक्नुमः ॥ १०.४७.५०॥
गत्या ललितयोदार हासलीलावलोकनैः ।
माध्व्या गिरा हृतधियः कथं तं विस्मराम हे ॥ १०.४७.५१॥
हे नाथ हे रमानाथ व्रजनाथार्तिनाशन ।
मग्नमुद्धर गोविन्द गोकुलं वृजिनार्णवात् ॥ १०.४७.५२॥
श्रीशुक उवाच ।
ततस्ताः कृष्णसन्देशैर्व्यपेतविरहज्वराः ।
उद्धवं पूजयां चक्रुर्ज्ञात्वात्मानमधोक्षजम् ॥ १०.४७.५३॥
उवास कतिचिन्मासान्गोपीनां विनुदन्शुचः ।
कृष्णलीलाकथां गायन्रमयामास गोकुलम् ॥ १०.४७.५४॥
यावन्त्यहानि नन्दस्य व्रजेऽवात्सीत्स उद्धवः ।
व्रजौकसां क्षणप्रायाण्यासन्कृष्णस्य वार्तया ॥ १०.४७.५५॥
सरिद्वनगिरिद्रोणीर्वीक्षन्कुसुमितान्द्रुमान् ।
कृष्णं संस्मारयन्रेमे हरिदासो व्रजौकसाम् ॥ १०.४७.५६॥
दृष्ट्वैवमादि गोपीनां कृष्णावेशात्मविक्लवम् ।
उद्धवः परमप्रीतस्ता नमस्यन्निदं जगौ ॥ १०.४७.५७॥
एताः परं तनुभृतो भुवि गोपवध्वो
गोविन्द एव निखिलात्मनि रूढभावाः ।
वाञ्छन्ति यद्भवभियो मुनयो वयं च
किं ब्रह्मजन्मभिरनन्तकथारसस्य ॥ १०.४७.५८॥
क्वेमाः स्त्रियो वनचरीर्व्यभिचारदुष्टाः
कृष्णे क्व चैष परमात्मनि रूढभावः । ।
नन्वीश्वरोऽनुभजतोऽविदुषोऽपि साक्षाच्
छ्रेयस्तनोत्यगदराज इवोपयुक्तः ॥ १०.४७.५९॥
नायं श्रियोऽङ्ग उ नितान्तरतेः प्रसादः
स्वर्योषितां नलिनगन्धरुचां कुतोऽन्याः ।
रासोत्सवेऽस्य भुजदण्डगृहीतकण्ठ
लब्धाशिषां य उदगाद्व्रजवल्लभीनाम् ॥ १०.४७.६०॥
आसामहो चरणरेणुजुषामहं स्यां
वृन्दावने किमपि गुल्मलतौषधीनाम् ।
या दुस्त्यजं स्वजनमार्यपथं च हित्वा
भेजुर्मुकुन्दपदवीं श्रुतिभिर्विमृग्याम् ॥ १०.४७.६१॥
या वै श्रियार्चितमजादिभिराप्तकामैर्
योगेश्वरैरपि यदात्मनि रासगोष्ठ्याम् ।
कृष्णस्य तद्भगवतः चरणारविन्दं
न्यस्तं स्तनेषु विजहुः परिरभ्य तापम् ॥ १०.४७.६२॥
वन्दे नन्दव्रजस्त्रीणां पादरेणुमभीक्ष्णशः ।
यासां हरिकथोद्गीतं पुनाति भुवनत्रयम् ॥ १०.४७.६३॥
श्रीशुक उवाच ।
अथ गोपीरनुज्ञाप्य यशोदां नन्दमेव च ।
गोपानामन्त्र्य दाशार्हो यास्यन्नारुरुहे रथम् ॥ १०.४७.६४॥
तं निर्गतं समासाद्य नानोपायनपाणयः ।
नन्दादयोऽनुरागेण प्रावोचन्नश्रुलोचनाः ॥ १०.४७.६५॥
मनसो वृत्तयो नः स्युः कृष्ण पादाम्बुजाश्रयाः ।
वाचोऽभिधायिनीर्नाम्नां कायस्तत्प्रह्वणादिषु ॥ १०.४७.६६॥
कर्मभिर्भ्राम्यमाणानां यत्र क्वापीश्वरेच्छया ।
मङ्गलाचरितैर्दानै रतिर्नः कृष्ण ईश्वरे ॥ १०.४७.६७॥
एवं सभाजितो गोपैः कृष्णभक्त्या नराधिप ।
उद्धवः पुनरागच्छन्मथुरां कृष्णपालिताम् ॥ १०.४७.६८॥
कृष्णाय प्रणिपत्याह भक्त्युद्रेकं व्रजौकसाम् ।
वसुदेवाय रामाय राज्ञे चोपायनान्यदात् ॥ १०.४७.६९॥
॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे
पूर्वार्धे उद्धवप्रतियाने सप्तचत्वारिशोऽध्यायान्तर्गतं भ्रमरगीतं
समाप्तम् ॥ १०.४७॥
॥ मङ्किगीता ॥
अध्यायः १७१
युधिस्थिर
ईहमानः समारम्भान्यदि नासादयेद्धनम् ।
धनतृष्णाभिभूतश्च किं कुर्वन्सुखमाप्नुयात् ॥ १॥
भीष्म
सर्वसाम्यमनायासः सत्यवाक्यं च भारत ।
निर्वेदश्चाविवित्सा च यस्य स्यात्स सुखी नरः ॥ २॥
एतान्येव पदान्याहुः पञ्च वृद्धाः प्रशान्तये ।
एष स्वर्गश्च धर्मश्च सुखं चानुत्तमं सताम् ॥ ३॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
निर्वेदान्मङ्किना गीतं तन्निबोध युधिष्ठिर ॥ ४॥
ईहमानो धनं मङ्किर्भग्नेहश्च पुनः पुनः ।
केन चिद्धनशेषेण क्रीतवान्दम्य गोयुगम् ॥ ५॥
सुसम्बद्धौ तु तौ दम्यौ दमनायाभिनिःसृतौ ।
आसीनमुष्ट्रं मध्येन सहसैवाभ्यधावताम् ॥ ६॥
तयोः सम्प्राप्तयोरुष्ट्रः स्कन्धदेशममर्षणः ।
उत्थायोत्क्षिप्य तौ दम्यौ प्रससार महाजवः ॥ ७॥
ह्रियमाणौ तु तौ दम्यौ तेनोष्ट्रेण प्रमाथिना ।
म्रियमाणौ च सम्प्रेक्ष्य मङ्किस्तत्राब्रवीदिदम् ॥ ८॥
न चैवाविहितं शक्यं दक्षेणापीहितुं धनम् ।
युक्तेन श्रद्धया सम्यगीहां समनुतिष्ठता ॥ ९॥
कृतस्य पूर्वं चानर्थैर्युक्तस्याप्यनुतिष्ठतः ।
इमं पश्यत सङ्गत्या मम दैवमुपप्लवम् ॥ १०॥
उद्यम्योद्यम्य मे दम्यौ विषमेनेव गच्छति ।
उत्क्षिप्य काकतालीयमुन्माथेनेव जम्बुकः ॥ ११॥
मनी वोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम ।
शुद्धं हि दैवमेवेदमतो नैवास्ति पौरुषम् ॥ १२॥
यदि वाप्युपपद्येत पौरुषं नाम कर्हि चित् ।
अन्विष्यमाणं तदपि दैवमेवावतिष्ठते ॥ १३॥
तस्मान्निर्वेद एवेह गन्तव्यः सुखमीप्सता ।
सुखं स्वपिति निर्विण्णो निराशश्चार्थसाधने ॥ १४॥
अहो सम्यक्षुकेनोक्तं सर्वतः परिमुच्यता ।
प्रतिष्ठता महारण्यं जनकस्य निवेशनात् ॥ १५॥
यः कामान्प्राप्नुयात्सर्वान्यश्चैनान्केवलांस्त्यजेत् ।
प्रापनात्सर्वकामानां परित्यागो विशिष्यते ॥ १६॥
नान्तं सर्वविवित्सानां गतपूर्वोऽस्ति कश् चन ।
शरीरे जीविते चैव तृष्णा मन्दस्य वर्धते ॥ १७॥
निवर्तस्व विवित्साभ्यः शाम्य निर्विद्य मामक ।
असकृच्चासि निकृतो न च निर्विद्यसे तनो ॥ १८॥
यदि नाहं विनाश्यस्ते यद्येवं रमसे मया ।
मा मां योजय लोभेन वृथा त्वं वित्तकामुक ॥ १९॥
सञ्चितं सञ्चितं द्रव्यं नष्टं तव पुनः पुनः ।
कदा विमोक्ष्यसे मूढ धनेहां धनकामुक ॥ २०॥
अहो नु मम बालिश्यं योऽहं क्रीदनकस्तव ।
किं नैव जातु पुरुषः परेषां प्रेष्यतामियात् ॥ २१॥
न पूर्वे नापरे जातु कामानामन्तमाप्नुवन् ।
त्यक्त्वा सर्वसमारम्भान्प्रतिबुद्धोऽस्मि जागृमि ॥ २२॥
नूनं ते हृदयं कामवज्र सारमयं दृधम् ।
यदनर्थशताविष्टं शतधा न विदीर्यते ॥ २३॥
त्यजामि कामत्वां चैव यच्च किं चित्प्रियं तव ।
तवाहं सुखमन्विच्छन्नात्मन्युपलभे सुखम् ॥ २४॥
कामजानामि ते मूलं सङ्कल्पात्किल जायसे ।
न त्वां सङ्कल्पयिष्यामि समूलो न भविष्यति ॥ २५॥
ईहा धनस्य न सुखा लब्ध्वा चिन्ता च भूयसी ।
लब्धानाशो यथा मृत्युर्लब्धं भवति वा न वा ॥ २६॥
परेत्य यो न लभते ततो दुःखतरं नु किम् ।
न च तुष्यति लब्धेन भूय एव च मार्गति ॥ २७॥
अनुतर्षुल एवार्थः स्वादु गाङ्गमिवोदकम् ।
मद्विलापनमेतत्तु प्रतिबुद्धोऽस्मि सन्त्यज ॥ २८॥
य इमं मामकं देहं भूतग्रामः समाश्रितः ।
स यात्वितो यथाकामं वसतां वा यथासुखम् ॥ २९॥
न युष्मास्विह मे प्रीतिः कामलोभानुसारिषु ।
तस्मादुत्सृज्य सर्वान्वः सत्यमेवाश्रयाम्यहम् ॥ ३०॥
सर्वभूतान्यहं देहे पश्यन्मनसि चात्मनः ।
योगे बुद्धिं श्रुते सत्त्वं मनो ब्रह्मणि धारयन् ॥ ३१॥
विहरिष्याम्यनासक्तः सुखी लोकान्निरामयः ।
यथा मा त्वं पुनर्नैवं दुःखेषु प्रनिधास्यसि ॥ ३२॥
त्वया हि मे प्रनुन्नस्य गतिरन्या न विद्यते ।
तृष्णा शोकश्रमाणां हि त्वं कामप्रभवः सदा ॥ ३३॥
धननाशोऽधिकं दुःखं मन्ये सर्वमहत्तरम् ।
ज्ञातयो ह्यवमन्यन्ते मित्राणि च धनच्युतम् ॥ ३४॥
अवज्ञान सहस्रैस्तु दोषाः कस्ततराधने ।
धने सुखकला या च सापि दुःखैर्विधीयते ॥ ३५॥
धनमस्येति पुरुषं पुरा निघ्नन्ति दस्यवः ।
क्लिश्यन्ति विविधैर्दन्दैर्नित्यमुद्वेजयन्ति च ॥ ३६॥
मन्दलोलुपता दुःखमिति बुद्धिं चिरान्मया ।
यद्यदालम्बसे कामतत्तदेवानुरुध्यसे ॥ ३७॥
अतत्त्वज्ञोऽसि बालश्च दुस्तोषोऽपूरणोऽनलः ।
नैव त्वं वेत्थ सुलभं नैव त्वं वेत्थ दुर्लभम् ॥ ३८॥
पातालमिव दुष्पूरो मां दुःखैर्योक्तुमिच्छसि ।
नाहमद्य समावेष्टुं शक्यः कामपुनस्त्वया ॥ ३९॥
निर्वेदमहमासाद्य द्रव्यनाशाद्यदृच्छया ।
निर्वृतिं परमां प्राप्य नाद्य कामान्विचिन्तये ॥ ४०॥
अतिक्लेशान्सहामीह नाहं बुध्याम्यबुद्धिमान् ।
निकृतो धननाशेन शये सर्वाङ्गविज्वरः ॥ ४१॥
परित्यजामि कामत्वां हित्वा सर्वमनोगतीः ।
न त्वं मया पुनः कामनस्योतेनेव रंस्यसे ॥ ४२॥
क्षमिष्येऽक्षममाणानां न हिंसिष्ये च हिंसितः ।
द्वेष्य मुक्तः प्रियं वक्ष्याम्यनादृत्य तदप्रियम् ॥ ४३॥
तृप्तः स्वस्थेन्द्रियो नित्यं यथा लब्धेन वर्तयन् ।
न सकामं करिष्यामि त्वामहं शत्रुमात्मनः ॥ ४४॥
निर्वेदं निर्वृतिं तृप्तिं शान्तिं सत्यं दमं क्षमाम् ।
सर्वभूतदयां चैव विद्धि मां शरणागतम् ॥ ४५॥
तस्मात्कामश्च लोभश्च तृष्णा कार्पण्यमेव च ।
त्यजन्तु मां प्रतिष्ठन्तं सत्त्वस्थो ह्यस्मि साम्प्रतम् ॥ ४६॥
प्रहाय कामं लोभं च क्रोधं पारुष्यमेव च ।
नाद्य लोभवशं प्राप्तो दुःखं प्राप्स्याम्यनात्मवान् ॥ ४७॥
यद्यत्त्यजति कामानां तत्सुखस्याभिपूर्यते ।
कामस्य वशगो नित्यं दुःखमेव प्रपद्यते ॥ ४८॥
कामान्व्युदस्य धुनुते यत्किं चित्पुरुषो रजः ।
कामक्रोधोद्भवं दुःखमह्रीररतिरेव च ॥ ४९॥
एष ब्रह्म प्रविष्टोऽहं ग्रीस्मे शीतमिव ह्रदम् ।
शाम्यामि परिनिर्वामि सुखमासे च केवलम् ॥ ५०॥
यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् ।
तृष्णा क्षयसुखस्यैते नार्हतः सोदशीं कलाम् ॥ ५१॥
आत्मना सप्तमं कामं हत्वा शत्रुमिवोत्तमम् ।
प्राप्यावध्यं ब्रह्म पुरं राजेव स्यामहं सुखी ॥ ५२॥
एतां बुद्धिं समास्थाय मङ्किर्निर्वेदमागतः ।
सर्वान्कामान्परित्यज्य प्राप्य ब्रह्म महत्सुखम् ॥ ५३॥
दम्य नाश कृते मङ्किरमरत्वं किलागमत् ।
अछिनत्काममूलं स तेन प्राप महत्सुखम् ॥ ५४॥
॥ इति मङ्किगीता समाप्ता ॥
॥ उल्लापनगीतम् ॥
मदालसोपाख्यान - बालोल्लापनगीतम्
******************
सा वै मदालसा पुत्रं बालमुत्तनशायिनम् ।
उल्लापनच्छलेनाह रुदमनमविस्वरम् ॥ १०॥
शुद्धोऽसि रे तात न तेऽस्ति नाम
कृतं हि ते कल्पनयाधुनैव ।
पञ्चात्मकं देहमिदं तवैत-
न्नैवास्य त्वं रोदिषि कस्य हेतोः ॥ ११॥
न वा भवान्रोदिति वै स्वजन्मा
शब्दोऽयमासाद्य महीशसूनुम् ।
विकल्प्यमाना विविधा गुणास्ते
ऽगुणाश्च भौताः सकलेन्द्रियेषु ॥ १२॥
भूतानि भूतैः परिदुर्बलानि
वृद्धिं समायान्ति यथेह पुंसः ।
अन्नाम्बुदानादिभिरेव कस्य
न तेऽस्ति वृद्धिर्न च तेऽस्ति हानिः ॥ १३॥
त्वं कञ्चुके शीर्यमाणे निजेऽस्मिं-
स्तस्मिंश्च देहे मूढतां मा व्रजेथाः ।
शुभाशुभैः कर्माभिर्देहमेत-
नादादिमूढैः कञ्चुकस्तेपि नद्धः ॥ १४॥
तातेति किञ्चित्तनयेति किञ्चि-
दम्वेति किञ्चिद्दयितेति किञ्चित् ।
ममेति किञ्चिन्न ममेति किञ्चित्
त्वं भूतसङ्घं बहु मानयेथाः ॥ १५॥
दुःखानि दुःखोपशमाय भोगान्
सुखाय जानाति विमूढचेताः ।
तान्येव दुःखानि पुनः सुखानि
जानात्यविद्वान् सुविमूढचेताः ॥ १६॥
हासोऽस्थिसन्दर्शनमक्षियुग्म-
मत्युज्ज्वलं तर्जनमङ्गनायाः ।
कुचादि पीनं पिशितं घनं तत्
स्थानं रतेः किं नरकं न योषित् ॥ १७॥
यानं क्षितौ यानगतञ्च देहं
देहेऽपि चान्यः पुरुषो निविष्टः ।
ममत्वबुद्धिर्न तथा यथा स्वे
देहेऽतिमात्रं बत मूढतैषा ॥ १८॥
त्यज धर्ममधर्मञ्च उभे सत्यानृते त्यज ।
उभे सत्यानृते त्यक्त्वा येन त्यजसि तत्त्यज ॥
इति श्रीमार्कण्डेयपुराणान्तर्गतं मदालसोपाख्याने बालोल्लापनगीतम् समाप्ता ॥
॥ श्रीमद्भागवतान्तर्गतम् महिशीगीतम् ॥
महिष्य ऊचुः ।
कुररि विलपसि त्वं वीतनिद्रा न शेषे
स्वपिति जगति रात्र्यामीश्वरो गुप्तबोधः ।
वयमिव सखि कच्चिद्गाढनिर्विद्धचेता
नलिननयनहासोदारलीलेक्षितेन ॥ १०.९०.१५॥
नेत्रे निमीलयसि नक्तमदृष्टबन्धुस्
त्वं रोरवीषि करुणं बत चक्रवाकि ।
दास्यं गत वयमिवाच्युतपादजुष्टां
किं वा स्रजं स्पृहयसे कवरेण वोढुम् ॥ १०.९०.१६॥
भो भोः सदा निष्टनसे उदन्वन्नलब्धनिद्रोऽधिगतप्रजागरः ।
किम्वा मुकुन्दापहृतात्मलाञ्छनः प्राप्तां दशां त्वं च
गतो दुरत्ययाम् ॥ १०.९०.१७॥
त्वं यक्ष्मणा बलवतासि गृहीत इन्दो
क्षीणस्तमो न निजदीधितिभिः क्षिणोषि ।
कच्चिन्मुकुन्दगदितानि यथा वयं त्वं
विस्मृत्य भोः स्थगितगीरुपलक्ष्यसे नः ॥ १०.९०.१८॥
किं न्वाचरितमस्माभिर्मलयानिल तेऽप्रियम् ।
गोविन्दापाङ्गनिर्भिन्ने हृदीरयसि नः स्मरम् ॥ १०.९०.१९॥
मेघ श्रीमंस्त्वमसि दयितो यादवेन्द्रस्य नूनं
श्रीवत्साङ्कं वयमिव भवान्ध्यायति प्रेमबद्धः ।
अत्युत्कण्ठः शवलहृदयोऽस्मद्विधो बाष्पधाराः
स्मृत्वा स्मृत्वा विसृजसि मुहुर्दुःखदस्तत्प्रसङ्गः ॥ १०.९०.२०॥
प्रियरावपदानि भाषसे मृतसञ्जीविकयानया गिरा ।
करवाणि किमद्य ते प्रियं वद मे वल्गितकण्ठ कोकिल ॥ १०.९०.२१॥
न चलसि न वदस्युदारबुद्धे क्षितिधर चिन्तयसे महान्तमर्थम् ।
अपि बत वसुदेवनन्दनाङ्घ्रिं वयमिव कामयसे स्तनैर्विधर्तुम् ॥ १०.९०.२२॥
शुष्यद्ध्रदाः करशिता बत सिन्धुपत्न्यः
सम्प्रत्यपास्तकमलश्रिय इष्टभर्तुः ।
यद्वद्वयं मधुपतेः प्रणयावलोकं
अप्राप्य मुष्टहृदयाः पुरुकर्शिताः स्म ॥ १०.९०.२३॥
हंस स्वागतमास्यतां पिब पयो ब्रूह्यङ्ग शौरेः कथां
दूतं त्वां नु विदाम कच्चिदजितः स्वस्त्यास्त उक्तं पुरा ।
किं वा नश्चलसौहृदः स्मरति तं कस्माद्भजामो वयं
क्षौद्रालापय कामदं श्रियमृते सैवैकनिष्ठा स्त्रियाम् ॥ १०.९०.२४॥
॥ इति श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशसाहस्र्यां
पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे
श्रीकृष्णचरितानुवर्णनं नाम नवतितमोऽध्यायान्तर्गतं
महिशीगीतं समाप्तम् ॥ १०.९०॥
॥ श्रीविष्णु नृसिंह अथवा अग्निपुराणान्तर्गत यमगीता ॥
॥ अथ प्रारभ्यते विष्णुपुराणान्तर्गता यमगीता ॥
मैत्रेय उवाच -
यथावत्कथितं सर्वं यत्पृष्टोऽसि मया द्विज ।
श्रोतुमिच्छाम्यहं त्वेकं तद्भवान्प्रब्रवीतु मे ॥ १ ॥
सप्तद्वीपानि पातालवीथ्यश्च सुमहामुने ।
सप्तलोका येऽन्तरस्था ब्रह्माण्डस्यस्य सर्वतः ॥ २ ॥
स्थूलैः सूक्ष्मैस्तथा स्थूलसूक्ष्मैः सूक्ष्मस्थूलैस्तथा ।
स्थूलास्थूलतरैश्चैतत्सर्वं प्राणिभिरावृतम् ॥ ३ ॥
अङ्गुलस्याष्टभागोऽपि न सोऽस्ति मुनिसत्तम ।
न सन्ति प्राणिनो यत्र कर्मबन्धनिबन्धनाः ॥ ४ ॥
सर्वे चैते वशं यान्ति यमस्य भगवन्किल ।
आयुषोऽन्तेन ते यान्ति यातनास्तत्प्रचोदिताः ॥ ५ ॥
यातनाभ्यः परिभ्रष्टा देवाद्यास्वथ योनिषु ।
जन्तवः परिवर्तन्ते शास्त्राणामेष निर्णयः ॥ ६ ॥
सोऽहमिच्छामि तच्छ्रोतुं यमस्य वशवर्तिनः ।
न भवन्ति नरा येन तत्कर्म कथयामलम् ॥ ७ ॥
पराशर उवाच -
अयमेव मुने प्रश्नो नकुलेन महात्मना ।
पृष्टः पितामहः प्राह भीष्मो यत्तच्छ्रुणुष्व मे ॥ ८ ॥
भीष्म उवाच -
पुरा ममागतो वत्स सखा कालिंगको द्विजः ।
स मामुवाच पृष्टो वै मया जातिस्मरो मुनिः ॥ ९ ॥
तेनाख्यातमिदं चेदमित्थं चैतद्भविष्यति ।
तथा च तदभूद्वत्स यथोक्तं तेन धीमता ॥ १० ॥
स पृष्टश्च मया भूयः श्रद्दधानवता द्विजः ।
यद्यदाह न तद्दृष्टमन्यथा हि मया क्वचित् ॥ ११ ॥
एकदा तु मया पृष्टं यदेतद्भवतोदितम् ।
प्राह कालिंगको विप्रः स्मृत्वा तस्य मुनेर्वचः ॥ १२ ॥
जातिस्मरेण कथितो रहस्यः परमो मम ।
यमकिंकरयोर्योऽभूत्संवादस्तं ब्रवीमि ते ॥ १३ ॥
कालिंग उवाच -
स्वपुरुषमभिवीक्ष्य पाशहस्तं
वदति यमः किल तस्य कर्णमूले ।
परिहर मधुसूदनं प्रपन्नान्
प्रभुरहमस्मि नृणां न वैष्णवानाम् ॥ १४ ॥
अहममरगणार्चितेन धात्रा
यम इति लोकहिताहिते नियुक्तः ।
हरिगुरुवशगोऽस्मि न स्वतन्त्रः
प्रभवति संयमनि ममापि विष्णुः ॥ १५ ॥
कटकमुकुटकर्णिकादिभेदैः
कनकमभेदमपीष्यते यथैकम् ।
सुरपशुमनुजादिकल्पनाभि-
र्हरिरखिलाभिरुदीयते तथैकः ॥ १६ ॥
क्षितिजलपरमाणवोऽनिलान्ते
पुनरपि यान्ति यथैकतां धरित्र्या ।
सुरपशुमनुजादयस्तथान्ते
गुणकलुषेण सनातनेन तेन ॥ १७ ॥
हरिममरगणार्चितांघ्रिपद्मं
प्रणमति यः परमार्थतो हि मर्त्यः ।
तमथ गतसमस्तपापबन्धं
व्रज परिहृत्य यथाग्निमाज्यसिक्तम् ॥ १८ ॥
इति यमवचनं निशम्य पाशी
यमपुरुषमुवाच धर्मराजम् ।
कथय मम विभोः समस्तधातु-
र्भवति हरेः खलु यादृशोऽस्य भक्तः ॥ १९ ॥
यम उवाच -
न चलति निजवर्णधर्मतो
यः सममतिरात्मसुहृद्विपक्षपक्षे ।
न हरति न च हन्ति किंचिदुच्चैः
सितमनसं तमवेहि विष्णुभक्तम् ॥ २० ॥
कलिकलुषमलेन यस्य नात्मा
विमलमतेर्मलिनीकृतोऽस्तमोहे ।
मनसि कृतजनार्दनं मनुष्यं
सत्तमवेहि हरेरतीवभक्तम् ॥ २१ ॥
कनकमपि रहस्यवेक्ष्य बुद्ध्या
तृणमिव यः समवैति वै परस्वम् ।
भवति च भगवत्यनन्यचेताः
पुरुषवरं तमवेहि विष्णुभक्तम् ॥ २२ ॥
स्फटिकगिरिशिलामलः क्व विष्णु-
र्मनसि नृणां क्व च मत्सरादिदोषः ।
न हि तुहिनमयूखरश्मिपुञ्जे
भवति हुताशनदीप्तिजः प्रतापः ॥ २३ ॥
विमलमतिविमत्सरः प्रशान्तः
शुचिचरितोऽखिलसत्त्वमित्रभूतः ।
प्रियहितवचनोऽस्तमानमायो
वसति सदा हृदि तस्य वासुदेवः ॥ २४ ॥
वसति हृदि सनातने च तस्मिन्
भवतिपुमाञ्जगतोऽस्य सौम्यरूपः ।
क्षितिरसमतिरम्यमात्मनोऽन्तः
कथयति चारुतयैव शालपोतः ॥ २५ ॥
यमनियमविधूतकल्मषाणा-
मनुदिनमच्युतसक्तमानसानाम् ।
अपगतमदमानमत्सराणां
व्रज भट दूरतरेण मानवानाम् ॥ २६ ॥
हृदि यदि भगवाननादिरास्ते
हरिरसिशंखगदाधरोऽव्ययात्मा ।
तदघमघविघातकर्तृभिन्नम्
भवति कथं सति वान्धकारमर्के ॥ २७ ॥
हरति परधनं निहन्ति जन्तून्
वदति तथानिशनिष्ठुराणि यश्च ।
अशुभजनितदुर्मदस्य पुंसः
कलुषमतेर्हृदि तस्य नास्त्यनन्तः ॥ २८ ॥
न सहति परमं पदं विनिन्दां
कलुषमतिः कुरुते सतामसाधुः ।
न यजति न ददाति यश्च सन्तं
मनसि न तस्य जनार्दनोऽधमस्य ॥ २९ ॥
परमसुहृदि बान्धवे कलत्रे
सुततनयापितृमातृभृत्यवर्गे ।
शठमतिरुपयाति योऽर्थतृष्णां
तमधमचेष्टमवेहि नास्य भक्तम् ॥ ३० ॥
अशुभमतिरसत्प्रवृत्तिसक्तः
सततमनार्यविशालसंगमत्तः ।
अनुदिनकृतपापबन्धयत्नः
पुरुषपशुर्न हि वासुदेवभक्तः ॥ ३१ ॥
सकलमिदमहं च वासुदेवः
परमपुमान्परमेश्वरः स एकः ।
इति मतिरमला भवत्यनन्ते
हृदयगते व्रज तान्विहाय दूरात् ॥ ३२ ॥
कमलनयन वासुदेव विष्णो
धरणिधराच्युत शंखचक्रपाणे ।
भव शरणमितीरयन्ति ये वै
त्यज भट दूरतरेण तानपापान् ॥ ३३ ॥
वसति मनसि यस्य सोऽव्ययात्मा
पुरुषवरस्य न तस्य दृष्टिपाते ।
तव गतिरथवा ममास्ति चक्र-
प्रतिहतवीर्यवलस्य सोऽन्यलोक्यः ॥ ३४ ॥
कालिंग उवाच -
इति निजभटशासनाय देवो
रवितनयः स किलाह धर्मराजः ।
मम कथितमिदं च तेन तुभ्यं
कुरुवर सम्यगिदं मयापि चोक्तम् ॥ ३५ ॥
भीष्म उवाच -
नकुलैतन्ममाख्यातं पूर्वं तेन द्विजन्मना ।
कलिंगदेशादभ्येत्य प्रीयता सुमहात्मना ॥ ३६ ॥
मयाप्येतद्यथान्यायं सम्यग्वत्स तवोदितम् ।
यथा विष्णुमृते नान्यत्त्राणं संसारसागरे ॥ ३७
किंकरा दण्डपाशौ वा न यमो न च यातनाः ।
समर्थास्तस्य यस्यात्मा केशवालम्बनः सदा ॥ ३८ ॥
पराशर उवाच -
एतन्मुने तवाख्यातं गीतं वैवस्वतेन यत् ।
त्वत्प्रश्नानुगतं सम्यक्किमन्यच्छ्रोतुमिच्छसि ॥ ३९ ॥
॥ इति विष्णुपुराणान्तर्गता यमगीता समाप्ता ॥
॥ अथ प्रारभ्यते नृसिंहपुराणान्तर्गता यमगीता ॥
व्यास उवाच -
मृत्युश्च किंकराश्चैव विष्णुदूतैः प्रपीडिताः ।
स्वराज्ञस्तेऽनुनिर्वेशं गत्वा संचक्रुशुर्भृशम् ॥ १ ॥
मृत्युकिंकराः ऊचुः -
शृणु राजन्वचोऽस्माकं तवाग्रे यद्ब्रवीमहे ।
त्वदादेशाद्वयं गत्वा मृत्युं संस्थाप्य दूरतः ॥ २ ॥
ब्राह्मणस्य समीपं च भृगोः पौत्रस्य सत्तमः ।
तं ध्यायमानं कमपि देवमेवाग्रमानसम् ॥ ३ ॥
गन्तुं न शक्तास्तत्पार्श्वं वयं सर्वे महामते ।
यावत्तावन्महाकायैः पुरुषैर्मुशलैर्हताः ॥ ४ ॥
वयं निवृत्तास्तद्वीक्ष्य मृत्युस्तत्र गतः पुनः ।
अस्मान्निर्भर्त्स्य तत्रायं तैर्नरैर्मुशलैर्हतः ॥ ५ ॥
एवमत्र तमानेतुं ब्राह्मणं तपसि स्थितम् ।
अशक्ता वयमेवात्र मृत्युना सह वै प्रभो ॥ ६ ॥
तद्ब्रवीमि महाभाग यद्ब्रह्म ब्राह्मणस्य तु ।
देवं कं ध्यायते विप्रः के वा ते यैर्हता वयम् ॥ ७ ॥
व्यास उवाच -
इत्युक्तः किंकरैः सर्वैर्मृत्युना च महामते ।
ध्यात्वा क्षणं महाबुद्धिः प्राह वैवस्वतो यमः ॥ ८ ॥
यम उवाच -
शृण्वन्तु किंकराः सर्वे मृत्युश्चान्ये च मे वचः ।
सत्यमेतत्प्रवक्ष्यामि ज्ञानं यद्योगमार्गतः ॥ ९ ॥
भृगोः पौत्रो महाभागो मार्कण्डेयो महामतिः ।
स ज्ञात्वाद्यात्मनः कालं गतो मृत्युजिगीषया ॥ १० ॥
भृगुणोक्तेन मार्गेण स तेपे परमं तपः ।
हरिमाराध्य मेधावी जपन्वै द्वादशाक्षरम् ॥ ११ ॥
एकाग्रेणैव मनसा ध्यायते हृदि केशवम् ।
सततं योगयुक्तस्तु स मुनिस्तत्र किंकराः ॥ १२ ॥
हरिध्यानमहादक्षा बलं तस्य महामुनेः ।
नान्यद्वै प्राप्तकालस्य बलं पश्यामि किंकराः ॥ १३ ॥
हृदिस्थे पुण्डरीकाक्षे सततं भक्तवत्सले ।
पश्यन्तं विष्णुभूतं नु को हि स्यात्केशवाश्रयम् ॥ १४ ॥
तेऽपि वै पुरुषा विष्णोर्यैर्यूयं ताडिता भृशम् ।
अत ऊर्ध्वं न गन्तव्यं यत्र वै वैष्णवाः स्थिताः ॥ १५ ॥
न चित्रं ताडनं तत्र अहं मन्ये महात्मभिः ।
भवतां जीवनं चित्रं यक्षैर्दत्तं कृपालुभिः ॥ १६ ॥
नारायणपरं विप्रं कस्तं वीक्षितुमुत्सहेत् ।
युष्माभिश्च महापापैर्मार्कण्डेयं हरिप्रियम् ।
समानेतुं कृतो यत्नः समीचीनं न तत्कृतम् ॥ १७ ॥
नरसिंहं महादेवं ये नराः पर्युपासते ।
तेषां पार्श्वं न गन्तव्यं युष्माभिर्मम शासनात् ॥ १८ ॥
व्यास उवाच -
स एवं किंकरानुक्त्वा मृत्युं च पुरतः स्थितम् ।
यमो निरीक्ष्य च जनं नरकस्थं प्रपीडितम् ॥ १९ ॥
कृपया परया युक्तो विष्णुभक्त्या विशेषतः ।
जनस्यानुग्रहार्थाय तेनोक्ता चागिरः शृणु ॥ २० ॥
नरके पच्यमानस्य यमेन परिभाषितम् ।
किं त्वया नार्चितो देवः केशवः क्लेशनाशनः ॥ २१ ॥
उदकेनाप्यलाभे तु द्रव्याणां पूजितः प्रभुः ।
यो ददाति स्वकं लोकं स त्वया किं न पूजितः ॥ २२ ॥
नरसिंहो हृषीकेशः पुण्डरीकनिभेक्षणः ।
स्मरणान्मुक्तिदो नॄणां स त्वया किं न पूजितः ॥ २३ ॥
इत्युक्त्वा नारकान्सर्वान्पुनराह स किंकरान् ।
वैवस्वतो यमः साक्षाद्विष्णुभक्तिसमन्वितः ॥ २४ ॥
नारदाय स विश्वात्मा प्राहैवं विष्णुरव्ययः ।
अन्येभ्यो वैष्णवेभ्यश्च सिद्धेभ्यः सततं श्रुतम् ॥ २५ ॥
तद्वः प्रीत्या प्रवक्ष्यामि हरिवाक्यमनुत्तमम् ।
शिक्षार्थं किंकराः सर्वे शृणुत प्रणता हरेः ॥ २६ ॥
हे कृष्ण कृष्ण कृष्णेति यो मां स्मरति नित्यशः ।
जलं भित्त्वा यथा पद्मं नरकादुद्धराम्यहम् ॥ २७ ॥
पुण्डरीकाक्ष देवेश नरसिंह त्रिविक्रम ।
त्वामहं शरणं प्राप्त इति यस्तं समुद्धर ॥ २८ ॥
त्वां प्रपन्नोऽस्मि शरणं देवदेव जनार्दन ।
इति यः शरणं प्राप्तस्तं क्लेशादुद्धराम्यहम् ॥ २९ ॥
व्यास उवाच -
इत्युदीरितमाकर्ण्य हरिवाक्यं यमेन च ।
नारकाः कृष्ण कृष्णेति नारसिंहेति चुक्रुशुः ॥ ३० ॥
यथा यथा हरेर्नाम कीर्तयन्त्यत्र नारकाः ।
तथा तथा हरेर्भक्तिमुद्वहन्तोऽब्रुवन्निदम् ॥ ३१ ॥
नारका ऊचुः -
नमो भगवते तस्मै केशवाय महात्मने ।
यन्नामकीर्तनात्सद्यो नरकाग्निः प्रशाम्यति ॥ ३२ ॥
भक्तप्रियाय देवाय रक्षाय हरये नमः ।
लोकनाथाय शान्ताय यज्ञेशायादिमूर्तये ॥ ३३ ॥
अनन्तायाप्रमेयाय नरसिंहाय ते नमः ।
नारायणाय गुरवे शंखचक्रगदाभृते ॥ ३४ ॥
वेदप्रियाय महते विक्रमाय नमो नमः ।
वाराहायाप्रतर्क्याय वेदांगाय महीभृते ॥ ३५ ॥
नमो द्युतिमते नित्यं ब्राह्मणाय नमो नमः ।
वामनाय बहुज्ञाय वेदवेदांगधारिणे ॥ ३६ ॥
बलिबन्धनदत्ताय वेदपालाय ते नमः ।
विष्णवे सुरनाथाय व्यापिने परमात्मने ॥ ३७ ॥
चतुर्भुजाय शुद्धाय शुद्धद्रव्याय ते नमः ।
जामदग्न्याय रामाय दुष्टक्षत्रान्तकारिणे ॥ ३८ ॥
रामाय रावणान्ताय नमस्तुभ्यं महात्मने ।
अस्मानुद्धर गोविन्द पूतिगन्धान्नमोऽस्तु ते ॥ ३९ ॥
इति नृसिंहपुराणे यमगीताध्यायः ॥
॥ इति यमगीता समाप्ता ॥
॥ अथ प्रारभ्यते अग्निपुराणान्तर्गता यमगीता ॥
अग्निरुवाच -
यमगीतां प्रवक्ष्यामि उक्ता या नाचिकेतसे ।
पठतां शृण्वतां भुक्त्यै मुक्त्यै मोक्षार्थिनं सताम् ॥ १ ॥
यम उवाच -
आसनं शयनं यानपरिधानगृहादिकम् ।
वांछन्त्यहोऽतिमोहेन सुस्थिरं स्वयमस्थिरः ॥ २ ॥
भोगेषु शक्तिः सततं तथैवात्मावलोकनम् ।
श्रेयः परं मनुष्याणां कपिलोद्गीतमेव हि ॥ ३ ॥
सर्वत्र समदर्शित्वं निर्ममत्वमसंगता ।
श्रेयः परं मनुष्याणां गीतं पंचशिखेन हि ॥ ४ ॥
आगर्भजन्मबाल्यादिवयोऽवस्थादिवेदनम् ।
श्रेयः परं मनुष्याणां गंगाविष्णुप्रगीतकम् ॥ ५ ॥
आध्यात्मिकादिदुःखानामाद्यन्तादिप्रतिक्रिया ।
श्रेयः परं मनुष्याणां जनकोद्गीतमेव च ॥ ६ ॥
अभिन्नयोर्भेदकरः प्रत्ययो यः परात्मनः ।
तच्छान्तिपरमं श्रेयो ब्रह्मोद्गीतमुदाहृतम् ॥ ७ ॥
कर्तवयमिति यत्कर्म ऋग्यजुःसामसंज्ञितम् ।
कुरुते श्रेयसे संगान् जैगीषव्येण गीयते ॥ ८ ॥
हानिः सर्वविधित्सानामात्मनः सुखहैतुकी ।
श्रेयः परं मनुष्याणां देवलोद्गीतमीरितम् ॥ ९ ॥
कामत्यागात्तु विज्ञानं सुखं ब्रह्मपरं पदम् ।
कामिनां न हि विज्ञानं सनकोद्गीतमेव तत् ॥ १० ॥
प्रवृत्तं च निवृत्तं च कार्यं कर्मपरोऽब्रवीत् ।
श्रेयसा श्रेय एतद्धि नैष्कर्म्य ब्रह्म तद्दहरिः ॥ ११ ॥
पुमांश्चाधिगतज्ञानो भेदं नाप्नोति सत्तमः ।
ब्रह्मणा विष्णुसंज्ञेन परमेणाव्ययेन च ॥ १२ ॥
ज्ञानं विज्ञानमास्तिक्यं सौभाग्यं रूपमुत्तमम् ।
तपसा लक्ष्यते सर्वं मनसा यद्यदिच्छति ॥ १३ ॥
नास्ति विष्णुसमं ध्येयं तपो नानशनात्परम् ।
नास्त्यारोग्यसमं धन्यं नास्ति गंगासमा सरित् ॥ १४ ॥
न सोऽस्ति बान्धवः कश्चिद्विष्णुं मुक्त्वा जगद्गुरुम् ।
अधश्चोर्ध्वं हरिश्चाग्रे देहेन्द्रियमनोमुखे ॥ १५ ॥
इत्येव संस्मरन्प्राणान्यस्त्यजेत्स हरिर्भवेत् ।
यत्तद्ब्रह्म यतः सर्वं यत्सर्वं तस्य संस्थितम् ॥ १६ ॥
अग्राह्यकमनिर्देश्यं सुप्रतीकं च यत्परम् ।
परापरस्वरूपेण विष्णुः सर्वहृदि स्थितः ॥ १७ ॥
यज्ञेशं यज्ञपुरुषं केचिदिच्छन्ति तत्परम् ।
केचिद्विष्णुं हरं केचित्केचिद्ब्रह्माणमीश्वरम् ॥ १८ ॥
इन्द्रादिनामभिः केचित्सूर्यं सोमं च कालकम् ।
ब्रह्मादिस्तम्बपर्यन्तं जगद्विष्णुं वदन्ति च ॥ १९ ॥
स विष्णुः परमं ब्रह्म यतो नावर्तते पुनः ।
सुवर्णादिमहादानपुण्यतीर्थावगाहनैः ॥ २० ॥
ध्यानैर्व्रतैः पूजया च धर्मश्रुत्या तदाप्नुयात् ।
आत्मानं रथिनं विद्धि शरीरं रथमेव च ॥ २१ ॥
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ।
इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् ॥ ॥ २२ ॥
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ।
यस्त्वविज्ञानवान्भवत्ययुक्येन मनसा सदा ॥ २३ ॥
न तत्पदमवाप्नोति संसारं चाधिगच्छति ।
यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा ॥ २४ ॥
स तत्पदमवाप्नोति यस्माद्भूयो न जायते ।
विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः ॥ २५ ।
सोऽध्वानं परमाप्नोति तद्विष्णोः परमं पदम् ।
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ॥ २६ ॥
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ।
महतः परमव्यक्तमव्यक्तात्पुरुषः परः ॥ २७ ॥
पुरुषान्न परं किंचित् सा काष्ठा सा परा गतिः ।
एषु सर्वेषु भूतेषु गूढात्मा न प्रकाशते ॥ २८ ॥
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ।
यच्छेद्वाङ्मनसी प्राज्ञः तद्यच्छेज्ज्ञानमात्मनि ॥ २९ ॥
ज्ञानमात्मनि महति नियच्छेच्छान्त आत्मनि ।
ज्ञात्वा ब्रह्मात्मनोर्योगं यमाद्यैर्ब्रह्म सद्भवेत् ॥ ३० ॥
अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ ।
यमाश्च नियमाः पंचं शौचं संतोषसत्तमः ॥ ३१ ॥
स्वाध्यायेश्वरपूजा च आसनं पद्मकादिकम् ।
प्राणायामो वायुजयः प्रत्याहारः स्वनिग्रहः ॥ ३२ ॥
शुभे ह्येकत्र विषये चेतसो यत्प्रधारणम् ।
निश्चलत्वात्तु धीमद्भिर्धारणा द्विज कथ्यते ॥ ३३ ॥
पौनः पुन्येन तत्रैव विषयेष्वेव धारणा ।
ध्यानं स्मृतं समाधिस्तु अहंब्रह्मात्मसंस्थितिः ॥ ३४ ॥
घटध्वंसाद्यथाकाशमभिन्नं नभसा भवेत् ।
मुक्तो जीवो ब्रह्मणैवं सद्ब्रह्म ब्रह्म वै भवेत् ॥ ३५ ॥
आत्मानं मन्यते ब्रह्म जीवो ज्ञानेन नान्यथा ।
जीवो ह्यज्ञानतत्कार्यमुक्तः स्यादजरामरः ॥ ३६ ॥
अग्निरुवाच -
वसिष्ठ यमगीतोक्ता पठतां भुक्तिमुक्तिदा ।
आत्यन्तिको लयः प्रोक्तो वेदान्तब्रह्मधीमयः ॥ ३७ ॥
॥ इति अग्निपुराणान्तर्गता यमगीता समाप्ता ॥
युधिष्ठिर उवाच
धर्माधर्मविमुक्तं यद्विमुक्तं सर्वसंश्रयात् ।
जन्ममृत्युविमुक्तं च विमुक्तं पुण्यपापयोः ॥ १॥
यच्छिवं नित्यमभयं नित्यं चाक्षरमव्ययम् ।
शुचि नित्यमनायासं तद्भवान्वक्तुमर्हति ॥ २॥
भीष्म उवाच
अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम् ।
याज्ञवल्क्यस्य संवादं जनकस्य च भारत ॥ ३॥
याज्ञवल्क्यमृषिश्रेष्ठं दैवरातिर्मया यशः ।
पप्रच्छ जनको राजा प्रश्नं प्रश्नविदां वरः ॥ ४॥
कतीन्द्रियाणि विप्रर्षे कति प्रकृतयः स्मृताः ।
किमव्यक्तं परं ब्रह्म तस्माच्च परतस्तु किम् ॥ ५॥
प्रभवं चाप्ययं चैव कालसङ्ख्यां तथैव च ।
वक्तुमर्हसि विप्रेन्द्र त्वदनुग्रह काङ्क्षिणः ॥ ६॥
अज्ञानात्परिपृच्छामि त्वं हि ज्ञानमयो निधिः ।
तदहं श्रोतुमिच्छामि सर्वमेतदसंशयम् ॥ ७॥
याज्ञवल्क्य उवाच
श्रूयतामवनी पाल यदेतदनुपृच्छसि ।
योगानां परमं ज्ञानं साङ्ख्यानां च विशेषतः ॥ ८॥
न तवाविदितं किं चिन्मां तु जिज्ञासते भवान् ।
पृष्टेन चापि वक्तव्यमेष धर्मः सनातनः ॥ ९॥
अस्तौ प्रकृतयः प्रोक्ता विकाराश्चापि सोदश ।
अथ सप्त तु व्यक्तानि प्राहुरध्यात्मचिन्तकाः ॥ १०॥
अव्यक्तं च महांश्चैव तथाहङ्कार एव च ।
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥ ११॥
एताः प्रकृतयस्त्वस्तौ विकारानपि मे शृणु ।
श्रोत्रं त्वक्चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम् ॥ १२॥
शब्दस्पर्शौ च रूपं च रसो गन्धस्तथैव च ।
वाक्च हस्तौ च पादौ च पायुर्मेध्रं तथैव च ॥ १३॥
एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु ।
बुद्धीन्द्रियाण्यथैतानि सविशेषाणि मैथिल ॥ १४॥
मनः सोदशकं प्राहुरध्यात्मगतिचिन्तकाः ।
त्वं चैवान्ये च विद्वांसस्तत्त्वबुद्धिविशारदाः ॥ १५॥
अव्यक्ताच्च महानात्मा समुत्पद्यति पार्तिव ।
प्रथमं सर्गमित्येतदाहुः प्राधानिकं बुधाः ॥ १६॥
महतश्चाप्यहङ्कार उत्पद्यति नराधिप ।
द्वितीयं सर्गमित्याहुरेतद्बुद्ध्यात्मकं स्मृतम् ॥ १७॥
अहङ्काराच्च सम्भूतं मनो भूतगुणात्मकम् ।
तृतीयः सर्ग इत्येष आहङ्कारिक उच्यते ॥ १८॥
मनसस्तु समुद्भूता महाभूता नराधिप ।
चतुर्थं सर्गमित्येतन्मानसं परिचक्षते ॥ १९॥
शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च ।
पञ्चमं सर्गमित्याहुर्भौतिकं भूतचिन्तकाः ॥ २०॥
श्रोत्रं त्वक्चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम् ।
सर्गं तु सस्थमित्याहुर्बहु चिन्तात्मकं स्मृतम् ॥ २१॥
अधः श्रोत्रेन्द्रिय ग्राम उत्पद्यति नराधिप ।
सप्तमं सर्गमित्याहुरेतदैन्द्रियकं स्मृतम् ॥ २२॥
ऊर्ध्वस्रोतस्तथा तिर्यगुत्पद्यति नराधिप ।
अस्तमं सर्गमित्याहुरेतदार्जवकं बुधाः ॥ २३॥
तिर्यक्स्रोतस्त्वधः स्रोत उत्पद्यति नराधिप ।
नवमं सर्गमित्याहुरेतदार्जवकं बुधाः ॥ २४॥
एतानि नव सर्गाणि तत्त्वानि च नराधिप ।
चतुर्विंशतिरुक्तानि यथा श्रुतिनिदर्शनात् ॥ २५॥
अत ऊर्ध्वं महाराज गुणस्यैतस्य तत्त्वतः ।
महात्मभिरनुप्रोक्तां कालसङ्ख्यां निबोध मे ॥ २६॥
३११/२९९
याज्ञवल्क्य उवाच
अव्यक्तस्य नरश्रेष्ठ कालसङ्ख्यां निबोध मे ।
पञ्च कल्पसहस्राणि द्विगुणान्यहरुच्यते ॥ १॥
रात्रिरेतावती चास्य प्रतिबुद्धो नराधिप ।
सृजत्योषधिमेवाग्रे जीवनं सर्वदेहिनाम् ॥ २॥
ततो ब्रह्माणमसृजद्धैरण्यान्द समुद्भवम् ।
सा मूर्तिः सर्वभूतानामित्येवमनुशुश्रुम ॥ ३॥
संवत्सरमुषित्वान्दे निष्क्रम्य च महामुनिः ।
सन्दधेऽर्धं महीं कृत्स्नां दिवमर्धं प्रजापतिः ॥ ४॥
द्यावापृथिव्योरित्येष राजन्वेदेषु पथ्यते ।
तयोः शकलयोर्मध्यमाकाशमकरोत्प्रभुः ॥ ५॥
एतस्यापि च सङ्ख्यानं वेदवेदाङ्गपारगैः ।
दश कल्पसहस्राणि पादोनान्यहरुच्यते ।
रात्रिमेतावतीं चास्य प्राहुरध्यात्मचिन्तकाः ॥ ६॥
सृजत्यहङ्कारमृषिर्भूतं दिव्यात्मकं तथा ।
चतुरश्चापरान्पुत्रान्देहात्पूर्वं महानृषिः ।
ते वै पितृभ्यः पितरः श्रूयन्ते राजसत्तम ॥ ७॥
देवाः पितॄणां च सुता देवैर्लोकाः समावृताः ।
चराचरा नरश्रेष्ठ इत्येवमनुशुश्रुम ॥ ८॥
परमेष्ठी त्वहङ्कारोऽसृजद्भूतानि पञ्चधा ।
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥ ९॥
एतस्यापि निशामाहुस्तृतीयमिह कुर्वतः ।
पञ्च कल्पसहस्राणि तावदेवाहरुच्यते ॥ १०॥
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ।
एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु ।
यैराविष्टानि भूतानि अहन्यहनि पार्थिव ॥ ११॥
अन्योन्यं स्पृहयन्त्येते अन्योन्यस्य हिते रताः ।
अन्योन्यमभिमन्यन्ते अन्योन्यस्पर्धिनस्तथा ॥ १२॥
ते वध्यमाना अन्योन्यं गुणैर्हारिभिरव्ययाः ।
इहैव परिवर्तन्ते तिर्यग्योनिप्रवेशिनः ॥ १३॥
त्रीणि कल्पसहस्राणि एतेषां अहरुच्यते ।
रत्रिरेतावती चैव मनसश्च नराधिप ॥ १४॥
मनश्चरति राजेन्द्र चरितं सर्वमिन्द्रियैः ।
न चेन्द्रियाणि पश्यन्ति मन एवात्र पश्यति ॥ १५॥
चक्षुः पश्यति रूपाणि मनसा तु न चक्षुषा ।
मनसि व्याकुले चक्षुः पश्यन्नपि न पश्यति ।
तथेन्द्रियाणि सर्वाणि पश्यन्तीत्यभिचक्षते ॥ १६॥
मनस्युपरते राजन्निन्द्रियोपरमो भवेत् ।
न चेन्द्रियव्युपरमे मनस्युपरमो भवेत् ।
एवं मनः प्रधानानि इन्द्रियाणि विभावयेत् ॥ १७॥
इन्द्रियाणां हि सर्वेषामीश्वरं मन उच्यते ।
एतद्विशन्ति भूतानि सर्वाणीह महायशः ॥ १८॥
३१२/३००
याज्ञवल्क्य उवाच
तत्त्वानां सर्ग सङ्ख्या च कालसङ्ख्या तथैव च ।
मया प्रोक्तानुपूर्व्येण संहारमपि मे शृणु ॥ १॥
यथा संहरते जन्तून्ससर्ज च पुनः पुनः ।
अनादिनिधनो ब्रह्मा नित्यश्चाक्षर एव च ॥ २॥
अहः क्षयमथो बुद्ध्वा निशि स्वप्नमनास्तथा ।
चोदयामास भवगानव्यक्तोऽहं कृतं नरम् ॥ ३॥
ततः शतसहस्रांशुरव्यक्तेनाभिचोदितः ।
कृत्वा द्वादशधात्मानमादित्यो ज्वलदग्निवत् ॥ ४॥
चतुर्विधं प्रजा जालं निर्दहत्याशु तेजसा ।
जराय्वन्द स्वेदजातमुद्भिज्जं च नराधिप ॥ ५॥
एतदुन्मेष मात्रेण विनिष्टं स्थानु जङ्गमम् ।
कूर्मपृष्ठसमा भूमिर्भवत्यथ समन्ततः ॥ ६॥
जगद्दग्ध्वामित बलः केवलं जगतीं ततः ।
अम्भसा बलिना क्षिप्रमापूर्यत समन्ततः ॥ ७॥
ततः कालाग्निमासाद्य तदम्भो याति सङ्क्षयम् ।
विनस्तेऽम्भसि राजेन्द्र जाज्वलीत्यनलो महा ॥ ८॥
तमप्रमेयोऽतिबलं ज्वलमानं विभावसुम् ।
ऊष्मानं सर्वभूतानां सप्तार्चिषमथाञ्जसा ॥ ९॥
भक्षयामास बलवान्वायुरस्तात्मको बली ।
विचरन्नमितप्राणस्तिर्यगूर्ध्वमधस्तथा ॥ १०॥
तमप्रतिबलं भीममाकाशं ग्रसतेऽऽत्मना ।
आकाशमप्यतिनदन्मनो ग्रसति चारिकम् ॥ ११॥
मनो ग्रसति सर्वात्मा सोऽहङ्कारः प्रजापतिः ।
अहङ्कारं महानात्मा भूतभव्य भविष्यवित् ॥ १२॥
तमप्यनुपमात्मानं विश्वं शम्भः प्रजापतिः ।
अनिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः ॥ १३॥
सर्वतः पानि पादान्तः सर्वतोऽक्षिशिरोमुखः ।
सर्वतः श्रुतिमाँल्लोके सर्वमावृत्य तिष्ठति ॥ १४॥
हृदयं सर्वभूतानां पर्वणोऽङ्गुष्ठ मात्रकः ।
अनुग्रसत्यनन्तं हि महात्मा विश्वमीश्वरः ॥ १५॥
ततः समभवत्सर्वमक्षयाव्ययमव्रणम् ।
भूतभव्य मनुष्याणां स्रष्टारमनघं तथा ॥ १६॥
एषोऽप्ययस्ते राजेन्द्र यथावत्परिभासितः ।
अध्यात्ममधिभूतं च अधिदैवं च श्रूयताम् ॥ १७॥
३१३/३०१
याज्ञवल्क्य उवाच
पादावध्यात्ममित्याहुर्ब्राह्मणास्तत्त्वदर्शिनः ।
गन्तव्यमधिभूतं च विष्णुस्तत्राधिदैवतम् ॥ १॥
पायुरध्यात्ममित्याहुर्यथातत्त्वार्थ दर्शिनः ।
विसर्गमधिभूतं च मित्रस्तत्राधिदैवतम् ॥ २॥
उपस्थोऽध्यात्ममित्याहुर्यथायोगनिदर्शनम् ।
अधिभूतं तथानन्दो दैवतं च प्रजापतिः ॥ ३॥
हस्तावध्यात्ममित्याहुर्यथा साङ्ख्यनिदर्शनम् ।
कर्तव्यमधिभूतं तु इन्द्रस्तत्राधिदैवतम् ॥ ४॥
वागध्यात्ममिति प्राहुर्यथा श्रुतिनिदर्शनम् ।
वक्तव्यमधिभूतं तु वह्निस्तत्राधिदैवतम् ॥ ५॥
चक्षुरध्यात्ममित्याहुर्यथा श्रुतिनिदर्शनम् ।
रूपमत्राधिभूतं तु सूर्यस्तत्राधिदैवतम् ॥ ६॥
श्रोत्रमध्यात्ममित्याहुर्यथा श्रुतिनिदर्शनम् ।
शब्दस्तत्राधिभूतं तु दिशस्तत्राधिदैवतम् ॥ ७॥
जिह्वामध्यात्ममित्याहुर्यथातत्त्वनिदर्शनम् ।
रस एवाधिभूतं तु आपस्तत्राधिदैवतम् ॥ ८॥
घ्राणमध्यात्ममित्याहुर्यथा श्रुतिनिदर्शनम् ।
गन्ध एवाधिभूतं तु पृथिवी चाधिदैवतम् ॥ ९॥
त्वगध्यात्ममिति प्राहुस्तत्त्वबुद्धिविशारदाः ।
स्पर्श एवाधिभूतं तु पवनश्चाधिदैवतम् ॥ १०॥
मनोऽध्यात्ममिति प्राहुर्यथा श्रुतिनिदर्शनम् ।
मन्तव्यमधिभूतं तु चन्द्रमाश्चाधिदैवतम् ॥ ११॥
अहङ्कारिकमध्यात्ममाहुस्तत्त्वनिदर्शनम् ।
अभिमानोऽधिबूतं तु भवस्तत्राधिदैवतम् ॥ १२॥
बुद्धिरध्यात्ममित्याहुर्यथा वेद निदर्शनम् ।
बोद्धव्यमधिभूतं तु क्षेत्रज्ञोऽत्राधिदैवतम् ॥ १३॥
एषा ते व्यक्ततो राजन्विभूतिरनुवर्णिता ।
आदौ मध्ये तथा चान्ते यथातत्त्वेन तत्त्ववित् ॥ १४॥
प्रकृतिर्गुणान्विकुरुते स्वच्छन्देनात्म काम्यया ।
क्रीदार्थं तु महाराज शतशोऽथ सहस्रशः ॥ १५॥
यथा दीपसहस्राणि दीपान्मर्थाय्प्रकुर्वते ।
प्रकृतिस्तथा विकुरुते पुरुषस्य गुणान्बहून् ॥ १६॥
सत्त्वमानन्द उद्रेकः प्रीतिः प्राकाश्यमेव च ।
सुखं शुद्धित्वमारोग्यं सन्तोषः श्रद्दधानता ॥ १७॥
अकार्पण्यमसंरम्भः क्षमा धृतिरहिंसता ।
समता सत्यमानृण्यं मार्दवं ह्रीरचापलम् ॥ १८॥
शौचमार्जवमाचारमलौल्यं हृद्य सम्भ्रमः ।
इष्टानिष्ट वियोगानां कृतानामविकत्थनम् ॥ १९॥
दानेन चानुग्रहणमस्पृहार्थे परार्थता ।
सर्वभूतदया चैव सत्त्वस्यैते गुणाः स्मृताः ॥ २०॥
रजोगुणानां सङ्घातो रूपमैश्वर्यविग्रहे ।
अत्याशित्वमकारुण्यं सुखदुःखोपसेवनम् ॥ २१॥
परापवादेषु रतिर्विवादानां च सेवनम् ।
अहङ्कारस्त्वसत्कारश्चैन्ता वैरोपसेवनम् ॥ २२॥
परितापोऽपहरणं ह्रीनाशोऽनार्जवं तथा ।
भेदः परुषता चैव कामक्रोधौ मदस्तथा ।
दर्पो द्वेषोऽतिवादश्च एते प्रोक्ता रजोगुणाः ॥ २३॥
तामसानां तु सङ्घातं प्रवक्ष्याम्युपधार्यताम् ।
मोहोऽप्रकाशस्तामिस्रमन्धतामिस्र सञ्ज्ञितम् ॥ २४॥
मरणं चान्धतामिस्रं तामिस्रं क्रोध उच्यते ।
तमसो लक्षणानीह भक्षाणामभिरोचनम् ॥ २५॥
भोजनानानपर्याप्तिस्तथा पेयेष्वतृप्तता ।
गन्धवासो विहारेषु शयनेष्वासनेषु च ॥ २६॥
दिवा स्वप्ने विवादे च प्रमादेषु च वै रतिः ।
नृत्यवादित्रगीतानामज्ञानाच्छ्रद्दधानता ।
द्वेषो धर्मविशेषाणामेते वै तामसा गुणाः ॥ २७॥
३१४/३०२
याज्ञवल्क्य उवाच
एते प्रधानस्य गुणास्त्रयः पुरुषसत्तम ।
कृत्स्नस्य चैव जगतस्तिष्ठन्त्यनपगाः सदा ॥ १॥
शतधा सहस्रधा चैव तथा शतसहस्रधा ।
कोतिशश्च करोत्येष प्रत्यगात्मानमात्मना ॥ २॥
सात्त्विकस्योत्तमं स्थानं राजसस्येह मध्यमम् ।
तामसस्याधमं स्थानं प्राहुरध्यात्मचिन्तकाः ॥ ३॥
केलवेनेह पुण्येन गतिमूर्ध्वामवाप्नुयात् ।
पुण्यपापेनमानुष्यमधर्मेणाप्यधो गतिम् ॥ ४॥
द्वन्द्वमेषां त्रयाणां तु संनिपातं च तत्त्वतः ।
सत्त्वस्य रजसश्चैव तमसश्च शृणुष्व मे ॥ ५॥
सत्त्वस्य तु रजो दृष्टं रजसश्च तमस्तथा ।
तमसश्च तथा सत्त्वं सत्त्वस्याव्यक्तमेव च ॥ ६॥
अव्यक्तसत्त्वसंयुक्तो देवलोकमवाप्नुयात् ।
रजः सत्त्वसमायुक्तो मनुष्येषूपपद्यते ॥ ७॥
रजस्तमो भ्यां संयुक्तस्तिर्यग्योनिषु जायते ।
रजस्तामससत्त्वैश्च युक्तो मानुष्यमाप्नुयात् ॥ ८॥
पुण्यपापवियुक्तानां स्थानमाहुर्मनीसिनाम् ।
शास्वतं चाव्ययं चैव अक्षरं चाभयं च यत् ॥ ९॥
ज्ञानिनां सम्भवं श्रेष्ठं स्थानमव्रणमच्युतम् ।
अतीन्द्रियमबीलं च जन्ममृत्युतमो नुदम् ॥ १०॥
अव्यक्तस्थं परं यत्तत्पृष्ठस्तेऽहं नराधिप ।
स एष प्रकृतिष्ठो हि तस्थुरित्यभिधीयते ॥ ११॥
अचेतनश्चैष मतः प्रकृतिष्ठश्च पार्थिव ।
एतेनाधिष्ठितश्चैव सृजते संहरत्यपि ॥ १२॥
जनक उवाच
अनादिनिधनावेतावुभावेव महामुने ।
अमूर्तिमन्तावचलावप्रकम्प्यौ च निर्व्रनौ ॥ १३॥
अग्राह्यावृषिशार्दूल कथमेको ह्यचेतनः ।
चेतनावांस्तथा चैकः क्षेत्रज्ञ इति भासितः ॥ १४॥
त्वं हि विप्रेन्द्र कार्त्स्न्येन मोक्षधर्ममुपाससे ।
साकल्यं मोक्षधर्मस्य श्रोतुमिच्छामि तत्त्वतः ॥ १५॥
अस्तित्वं केवलत्वं च विना भावं तथैव च ।
तथैवोत्क्रमण स्थानं देहिनोऽपि वियुज्यतः ॥ १६॥
कालेन यद्धि प्राप्नोति स्थानं तद्ब्रूहि मे द्विज ।
साङ्ख्यज्ञानं च तत्त्वेन पृथ योगं तथैव च ॥ १७॥
अरिष्टानि च तत्त्वेन वक्तुमर्हसि सत्तम ।
विदितं सर्वमेतत्ते पानावामलकं यथा ॥ १८॥
३१५/३०३
याज्ञवल्क्य उवाच
न शक्यो निर्गुणस्तात गुणी कर्तुं विशां पते ।
गुणवांश्चाप्यगुणवान्यथातत्त्वं निबोध मे ॥ १॥
गुणैर्हि गुणवानेव निर्गुणश्चागुणस्तथा ।
प्राहुरेवं महात्मानो मुनयस्तत्त्वदर्शिनः ॥ २॥
गुणस्वभावस्त्वव्यक्तो गुणानेवाभिवर्तते ।
उपयुङ्क्ते च तानेव स चैवाज्ञः स्वभावतः ॥ ३॥
अव्यक्तस्तु न जानीते पुरुषो ज्ञः स्वभावतः ।
न मत्तः परमस्तीति नित्यमेवाभिमन्यते ॥ ४॥
अनेन कारणेनैतदव्यक्तं स्यादचेतनम् ।
नित्यत्वादक्षरत्वाच्च क्षराणां तत्त्वतोऽन्यथा ॥ ५॥
यदाज्ञानेन कुर्वीत गुणसर्गं पुनः पुनः ।
यदात्मानं न जानीते तदाव्यक्तमिहोच्यते ॥ ६॥
कर्तृत्वाच्चापि तत्त्वानां तत्त्वधर्मी तथोच्यते ।
कर्तृत्वाच्चैव योनीनां योनिधर्मा तथोच्यते ॥ ७॥
कर्तृत्वात्प्रकृतीनां तु तथा प्रकृतिधर्मिता ।
कर्तृत्वाच्चापि बीजानां बीजधर्मी तथोच्यते ॥ ८॥
गुणानां प्रसवत्वाच्च तथा प्रसव धर्मवान् ।
कर्तृत्वात्प्रलयानां च तथा प्रलय धर्मिता ॥ ९॥
बीलत्वात्प्रकृतित्वाच्च प्रलयत्वात्तथैव च ।
उपेक्षकत्वादन्यत्वादभिमानाच्च केवलम् ॥ १०॥
मन्यन्ते यतयः शुद्धा अध्यात्मविगतज्वराः ।
अनित्यं नित्यमव्यक्तमेवमेतद्धि शुश्रुम ॥ ११॥
अव्यक्तैकत्वमित्याहुर्नानात्वं पुरुषस्तथा ।
सर्वभूतदयावन्तः केवलं ज्ञानमास्थिताः ॥ १२॥
अन्यः स पुरुषोऽव्यक्तस्त्वध्रुवो ध्रुवसञ्ज्ञिकः ।
यथा मुञ्ज इषीकायास्तथैवैतद्धि जायते ॥ १३॥
अन्यं च मशकं विद्यादन्यच्चोदुम्बरं तथा ।
न चोदुम्बर संयोगैर्मशकस्तत्र लिप्यते ॥ १४॥
अन्य एव तथा मत्स्यस्तथान्यदुदकं स्मृतम् ।
न चोदकस्य स्पर्शेन मत्स्यो लिप्यति सर्वशः ॥ १५॥
अन्यो ह्यग्निरुखाप्यन्या नित्यमेवमवैहि भोः ।
न चोपलिप्यते सोऽग्निरुखा संस्पर्शनेन वै ॥ १६॥
पुष्करं त्वन्यदेवात्र तथान्यदुदकं स्मृतम् ।
न चोदकस्य स्पर्शेन लिप्यते तत्र पुष्करम् ॥ १७॥
एतेषां सह संवासं विवासं चैव नित्यशः ।
यथातथैनं पश्यन्ति न नित्यं प्राकृता जनाः ॥ १८॥
ये त्वन्यथैव पश्यन्ति न सम्यक्तेषु दर्शनम् ।
ते व्यक्तं निरयं घोरं प्रविशन्ति पुनः पुनः ॥ १९॥
साङ्ख्यदर्शनमेतत्ते परिसङ्ख्यातमुत्तमम् ।
एवं हि परिसङ्ख्याय साङ्ख्याः केवलतां गताः ॥ २०॥
ये त्वन्ये तत्त्वकुशलास्तेषामेतन्निदर्शनम् ।
अतः परं प्रवक्ष्यामि योगानामपि दर्शनम् ॥ २१॥
३१६/३०४
याज्ञवल्क्य उवाच
साङ्ख्यज्ञानं मया प्रोक्तं योगज्ञानं निबोध मे ।
यथा श्रुतं यथादृष्टं तत्त्वेन नृपसत्तम ॥ १॥
नास्ति साङ्क्य समं ज्ञानं नास्ति योगसमं बलम् ।
तावुभावेकचर्यौ तु उभावनिधनौ स्मृतौ ॥ २॥
पृथक्पृथक्तु पश्यन्ति येऽल्पबुद्धिरता नराः ।
वयं तु राजन्पश्याम एकमेव तु निश्चयात् ॥ ३॥
यदेव योगाः पश्यन्ति तत्साङ्ख्यैरपि दृश्यते ।
एकं साङ्क्यं च योगं च यः पश्यति स तत्त्ववित् ॥ ४॥
रुद्र प्रधानानपरान्विद्धि योगान्परन्तप ।
तेनैव चाथ देहेन विचरन्ति दिशो दश ॥ ५॥
यावद्धि प्रलयस्तात सूक्ष्मेणास्त गुणेन वै ।
योगेन लोकान्विचरन्सुखं संन्यस्य चानघ ॥ ६॥
वेदेषु चास्त गुणितं योगमाहुर्मनीषिणः ।
सूक्ष्ममस्तगुणं प्राहुर्नेतरं नृपसत्तम ॥ ७॥
द्विगुणं योगकृत्यं तु योगानां प्राहुरुत्तमम् ।
सगुणं निर्गुणं चैव यथाशास्त्रनिदर्शनम् ॥ ८॥
धारणा चैव मनसः प्राणायामश्च पार्थिव ।
प्राणायामो हि सगुणो निर्गुणं धारणं मनः ॥ ९॥
यत्र दृश्येत मुञ्चन्वै प्राणान्मैथिल सत्तम ।
वाताधिक्यं भवत्येव तस्माद्धि न समाचरेत् ॥ १०॥
निशायाः प्रथमे यामे चोदना द्वादश स्मृताः ।
मध्ये सुप्त्वा परे यामे द्वादशैव तु चोदनाः ॥ ११॥
तदेवमुपशान्तेन दान्तेनैकान्त शीलना ।
आत्मारामेण बुद्धेन योक्तव्योऽऽत्मा न संशयः ॥ १२॥
पञ्चानामिन्द्रियाणां तु दोषानाक्षिप्य पञ्चधा ।
शब्दं स्पर्शं तथारूपं रसं गन्धं तथैव च ॥ १३॥
प्रतिभामपवर्गं च प्रतिसंहृत्य मैथिल ।
इन्द्रियग्राममखिलं मनस्यभिनिवेश्य ह ॥ १४॥
मनस्तथैवाहङ्कारे प्रतिष्ठाप्य नराधिप ।
अहङ्कारं तथा बुद्धौ बुद्धिं च प्रकृतावपि ॥ १५॥
एवं हि परिसङ्ख्याय ततो ध्यायेत केवलम् ।
विरजस्क मलं नित्यमनन्तं शुद्धमव्रणम् ॥ १६॥
तस्थुषं पुरुषं सत्त्वमभेद्यमजरामरम् ।
शाश्वतं चाव्ययं चैव ईशानं ब्रह्म चाव्ययम् ॥ १७॥
युक्तस्य तु महाराज लक्षणान्युपधारयेत् ।
लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत् ॥ १८॥
निवाते तु यथा दीपो ज्वलेत्स्नेहसमन्वितः ।
निश्चलोर्ध्व शिखस्तद्वद्युक्तमाहुर्मनीषिणः ॥ १९॥
पाषाण इव मेघोत्थैर्यथा बिन्दुभिराहतः ।
नालं चालयितुं शक्यस्तथायुक्तस्य लक्षणम् ॥ २०॥
शङ्खदुन्दुभिनिर्घोषैर्विविधैर्गीतवादितैः ।
क्रियमाणैर्न कम्पेत युक्तस्यैतन्निदर्शनम् ॥ २१॥
तैलपात्रं यथा पूर्णं कराभ्यां गृह्य पूरुषः ।
सोपानमारुहेद्भीतस्तर्ज्यमानोऽसि पानिभिः ॥ २२॥
संयतात्मा भयात्तेषां न पात्राद्बिन्दुमुत्सृजेत् ।
तथैवोत्तरमाणस्य एकाग्रमनसस्तथा ॥ २३॥
स्थिरत्वादिन्द्रियाणां तु निश्चलत्वात्तथैव च ।
एवं युक्तस्य तु मुनेर्लक्षणान्युपधारयेत् ॥ २४॥
स युक्तः पश्यति ब्रह्म यत्तत्परममव्ययम् ।
महतस्तमसो मध्ये स्थितं ज्वलनसंनिभम् ॥ २५॥
एतेन केवलं याति त्यक्त्वा देहमसाक्षिकम् ।
कालेन महता राजञ्श्रुतिरेषा सनातनी ॥ २६॥
एतद्धि योगं योगानां किमन्यद्योगलक्षणम् ।
विज्ञाय तद्धि मन्यन्ते कृतकृत्या मनीषिणः ॥ २७॥
३१७/३०५
याज्ञवल्क्य उवाच
तथैवोत्क्रममाणं तु शृणुष्वावहितो नृप ।
पद्भ्यामुत्क्रममाणस्य वैष्नवं स्थानमुच्यते ॥ १॥
जङ्घाभ्यां तु वसून्देवानाप्नुयादिति नः श्रुतम् ।
जानुभ्यां च महाभागान्देवान्साध्यानवाप्नुयात् ॥ २॥
पायुनोत्क्रममाणस्तु मैत्रं स्थानमवाप्नुयात् ।
पृथिवीं जघनेनाथ ऊरुभ्यां तु प्रजापतिम् ॥ ३॥
पार्श्वाभ्यां मरुतो देवान्नासाभ्यामिन्दुमेव च ।
बाहुभ्यामिन्द्रमित्याहुरुरसा रुद्रमेव च ॥ ४॥
ग्रीवायास्तमृषिश्रेष्ठं नरमाप्नोत्यनुत्तमम् ।
विश्वे देवान्मुखेनाथ दिशः श्रोत्रेण चाप्नुयात् ॥ ५॥
घ्राणेन गन्धवहनं नेत्राभ्यां सूर्यमेव च ।
भ्रूभ्यां चैवाश्विनौ देवौ ललातेन पितॄनथ ॥ ६॥
ब्रह्माणमाप्नोति विभुं मूर्ध्ना देवाग्रजं तथा ।
एतान्युत्क्रमण स्थानान्युक्तानि मिथिलेश्वर ॥ ७॥
अरिष्टानि तु वक्ष्यामि विहितानि मनीसिभिः ।
संवत्सरवियोगस्य सम्भवेयुः शरीरिणः ॥ ८॥
योऽरुन्धतीं न पश्येत दृष्टपूर्वां कदा चन ।
तथैव ध्रुवमित्याहुः पूर्णेन्दुं दीपमेव च ।
खण्डाभासं दक्षिणतस्तेऽपि संवत्सरायुषः ॥ ९॥
परचक्षुषि चात्मानं ये न पश्यन्ति पार्थिव ।
आत्मछाया कृती भूतं तेऽपि संवत्सरायुषः ॥ १०॥
अतिद्युतिरतिप्रज्ञा अप्रज्ञा चाद्युतिस्तथा ।
प्रकृतेर्विक्रियापत्तिः सो मासान्मृत्युलक्षणम् ॥ ११॥
दैवतान्यवजानाति ब्राह्मणैश् च विरुध्यते ।
कृष्ण श्याव छवि छायः सो मासान्मृत्युलक्षणम् ॥ १२॥
शीर्णनाभि यथा चक्रं छिद्रं सोमं प्रपश्यति ।
तथैव च सहस्रांशुं सप्तरात्रेण मृत्युभाज् ॥ १३॥
शवगन्धमुपाघ्राति सुरभिं प्राप्य यो नरः ।
देवतायतनस्थस्तु सो रात्रेण स मृत्युभाज् ॥ १४॥
कर्णनासावनमनं दन्तदृष्टिविरागिता ।
सञ्ज्ञा लोपो निरूस्मत्वं सद्यो मृत्युनिदर्शनम् ॥ १५॥
अकस्माच्च स्रवेद्यस्य वाममक्षिनराधिप ।
मूर्धतश्चोत्पतेद्धूमः सद्यो मृत्युनिदर्शनम् ॥ १६॥
एतावन्ति त्वरिष्टानि विदित्वा मानवोऽऽत्मवान् ।
निशि चाहनि चात्मानं योजयेत्परमात्मनि ॥ १७॥
प्रतीक्षमाणस्तत्कालं यत्कालं प्रति तद्भवेत् ।
अथास्य नेष्टं मरणं स्थातुमिच्छेदिमां क्रियाम् ॥ १८॥
सर्वगन्धान्रसांश्चैव धारयेत समाहितः ।
तथा हि मृत्युं जयति तत्परेणान्तरात्मना ॥ १९॥
ससाङ्ख्य धारणं चैव विदित्वा मनुजर्षभ ।
जयेच्च मृत्युं योगेन तत्परेणान्तरात्मना ॥ २०॥
गच्छेत्प्राप्याक्षयं कृत्स्नमजन्म शिवमव्ययम् ।
शाश्वतं स्थानमचलं दुष्प्रापमकृतात्मभिः ॥ २१॥
३१८/३०६
याज्ञवल्क्य उवाच
अव्यक्तस्थं परं यत्तत्पृष्टस्तेऽहं नराधिप ।
परं गुह्यमिमं प्रश्नं शृणुष्वावहितो नृप ॥ १॥
यथार्षेणेह विधिना चरतावमतेन ह ।
मयादित्यादवाप्तानि यजूंसि मिथिलाधिप ॥ २॥
महता तपसा देवस्तपिष्ठः सेवितो मया ।
प्रीतेन चाहं विभुना सूर्येणोक्तस्तदानघ ॥ ३॥
वरं वृणीष्व विप्रर्षे यदिष्टं ते सुदुर्लभम् ।
तत्ते दास्यामि प्रीतात्मा मत्प्रसादो हि दुर्लभः ॥ ४॥
ततः प्रनम्य शिरसा मयोक्तस्तपतां वरः ।
यजूंसि नोपयुक्तानि क्षिप्रमिच्छामि वेदितुम् ॥ ५॥
ततो मां भगवानाह वितरिष्यामि ते द्विज ।
सरस्वतीह वाग्भूता शरीरं ते प्रवेक्ष्यति ॥ ६॥
ततो मामाह भगवानास्यं स्वं विवृतं कुरु ।
विवृतं च ततो मेऽऽस्यं प्रविष्टा च सरस्वती ॥ ७॥
ततो विदह्यमानोऽहं प्रविष्टोऽम्भस्तदानघ ।
अविज्ञानादमर्षाच्च भास्करस्य महात्मनः ॥ ८॥
ततो विदह्यमानं मामुवाच भगवान्रविः ।
मुहूर्तं सह्यतां दाहस्ततः शीती भविष्यति ॥ ९॥
शीती भूतं च मां दृष्ट्वा भगवानाह भास्करः ।
प्रतिष्ठास्यति ते वेदः सोत्तरः सखिलो द्विज ॥ १०॥
कृत्स्नं शतपथं चैव प्रणेष्यसि द्विजर्षभ ।
तस्यान्ते चापुनर्भावे बुद्धिस्तव भविष्यति ॥ ११॥
प्राप्स्यसे च यदिष्टं तत्साङ्क्य योगेप्सितं पदम् ।
एतावदुक्त्वा भगवानस्तमेवाभ्यवर्तत ॥ १२॥
ततोऽनुव्याहृतं श्रुत्वा गते देवे विभावसौ ।
गृहमागत्य संहृष्टोऽचिन्तयं वै सरस्वतीम् ॥ १३॥
ततः प्रवृत्तातिशुभा स्वरव्यञ्जन भूषिता ।
ओङ्कारमादितः कृत्वा मम देवी सरस्वती ॥ १४॥
ततोऽहमर्घ्यं विधिवत्सरस्वत्यै न्यवेदयम् ।
तपतां च वरिष्ठाय निषण्णस्तत्परायनः ॥ १५॥
ततः शतपथं कृत्स्नं सहरस्य ससङ्ग्रहम् ।
चक्रे सपरिशेषं च हर्षेण परमेण ह ॥ १६॥
कृत्वा चाध्ययनं तेषां शिष्याणां शतमुत्तमम् ।
विप्रियार्थं सशिष्यस्य मातुलल्स्य महात्मनः ॥ १७॥
ततः सशिष्येण मया सूर्येणेव गभस्तिभिः ।
व्याप्तो यज्ञो महाराज पितुस्तव महात्मनः ॥ १८॥
मिषतो देवलस्यापि ततोऽर्धं हृतवानहम् ।
स्ववेद दक्षिणायाथ विमर्दे मातुलेन ह ॥ १९॥
सुमन्तु नाथ पैलेन तथ जैमिनिना च वै ।
पित्रा ते मुनिभिश्चैव ततोऽहमनुमानितः ॥ २०॥
दश पञ्च च प्राप्तानि यजूंस्यर्कान्मयानघ ।
तथैव लोमहर्षाच्च पुराणमवधारितम् ॥ २१॥
बीजमेतत्पुरस्कृत्य देवीं चैव सरस्वतीम् ।
सूर्यस्य चानुभावेन प्रवृत्तोऽहं नराधिप ॥ २२॥
कर्तुं शतपथं वेदमपूर्वं कारितं च मे ।
यथाभिलसितं मार्थं तथा तच्चोपपादितम् ॥ २३॥
शिष्याणामखिलं कृत्स्नमनुज्ञातं ससङ्ग्रहम् ।
सर्वे च शिष्याः शुचयो गताः परमहर्षिताः ॥ २४॥
शाखाः पञ्चदशेमास्तु विद्या भास्करदर्शिताः ।
प्रतिष्ठाप्य यथाकामं वेद्यं तदनुचिन्तयम् ॥ २५॥
किमत्र ब्रह्मण्यमृतं किं च वेद्यमनुत्तमम् ।
चिन्तये तत्र चागत्य गन्धर्वो मामपृच्छत ॥ २६॥
विश्वावसुस्ततो राजन्वेदान्तज्ञानकोविदः ।
चतुर्विंशतिकान्प्रश्नान्पृष्ट्वा वेदस्य पार्थिव ।
पञ्चविंशतिमं प्रश्नं पप्रच्छान्विक्षिकीं तथा ॥ २७॥
विश्वा विश्वं तथाश्वाश्वं मित्रं वरुणमेव च ।
ज्ञानं ज्ञेयं तथाज्ञोऽज्ञः कस्तपा अपता तथा ।
सूर्यादः सूर्य इति च विद्याविद्ये तथैव च ॥ २८॥
वेद्यावेद्यं तथा राजन्नचलं चलमेव च ।
अपूर्वमक्षयं क्षय्यमेतत्प्रश्नमनुत्तमम् ॥ २९॥
अथोक्तश्च मया राजन्राजा गन्धर्वसत्तमः ।
पृष्टवाननुपूर्वेण प्रश्नमुत्तममर्थवत् ॥ ३०॥
मुहूर्तं मृष्यतां तावद्यावदेनं विचिन्तये ।
बाधमित्येव कृत्वा स तूस्नीं गन्धर्व आस्थितः ॥ ३१॥
ततोऽन्वचिन्तयमहं भूयो देवीं सरस्वतीम् ।
मनसा स च मे प्रश्नो दध्नो घृतमिवोद्धृतम् ॥ ३२॥
तत्रोपनिषदं चैव परिशेषं च पार्थिव ।
मघ्नामि मनसा तात दृष्ट्वा चान्वीक्षिकीं पराम् ॥ ३३॥
चतुर्थी राजशार्दूल विद्यैषा साम्परायिकी ।
उदीरिता मया तुभ्यं पञ्चविंशेऽधि धिष्ठिता ॥ ३४॥
अथोतस्तु मया राजन्राजा विश्वावसुस्तदा ।
श्रूयतां यद्भवानस्मान्प्रश्नं सम्पृष्टवानिह ॥ ३५॥
विश्वा विश्वेति यदिदं गन्धर्वेन्द्रानुपृच्छसि ।
विश्वाव्यक्तं परं विद्याद्भूतभव्य भयङ्करम् ॥ ३६॥
त्रिगुणं गुणकर्तृत्वादशिश्वो निष्कलस्तथा ।
अश्वस्तथैव मिथुनमेवमेवानुदृश्यते ॥ ३७॥
अव्यक्तं प्रकृतिं प्राहुः पुरुषेति च निर्गुणम् ।
तथैव मित्रं पुरुषं वरुणं प्रकृतिं तथा ॥ ३८॥
ज्ञानं तु प्रकृतिं प्राहुर्ज्ञेयं निष्कलमेव च ।
अज्ञश्च ज्ञश्च पुरुषस्तस्मान्निष्कल उच्यते ॥ ३९॥
कस्तपा अतपाः प्रोक्ताः कोऽसौ पुरुष उच्यते ।
तपाः प्रकृतिरित्याहुरतपा निष्कलः स्मृतः ॥ ४०॥
तथैवावेद्यमव्यक्तं वेधः पुरुष उच्यते ।
चलाचलमिति प्रोक्तं त्वया तदपि मे शृणु ॥ ४१॥
चलां तु प्रकृतिं प्राहुः कारणं क्षेप सर्गयोः ।
अक्षेप सर्गयोः कर्ता निश्चलः पुरुषः स्मृतः ॥ ४२॥
अजावुभावप्रजनुचाक्षयौ चाप्युभावपि ।
अजौनित्यावुभौ प्राहुरध्यात्मगतिनिश्चयाः ॥ ४३॥
अक्षयत्वात्प्रजनने अजमत्राहुरव्ययम् ।
अक्षयं पुरुषं प्राहुः क्षयो ह्यस्य न विद्यते ॥ ४४॥
गुणक्षयत्वात्प्रकृतिः कर्तृत्वादक्षयं बुधाः ।
एषा तेऽऽन्वीक्षिकी विद्या चतुर्थी साम्परायिकी ॥ ४५॥
विद्योपेतं धनं कृत्वा कर्मणा नित्यकर्मणि ।
एकान्तदर्शना वेदाः सर्वे विश्वावसो स्मृताः ॥ ४६॥
जायन्ते च म्रियन्ते च यस्मिन्नेते यतश्च्युताः ।
वेदार्थं ये न जानन्ति वेद्यं गन्धर्वसत्तम ॥ ४७॥
साङ्गोपाङ्गानपि यदि पञ्च वेदानधीयते ।
वेद वेद्यं न जानीते वेद भारवहो हि सः ॥ ४८॥
यो घृतार्थी खरी क्षीरं मथेद्गन्धर्वसत्तम ।
विष्ठां तत्रानुपश्येत न मन्दं नापि वा घृतम् ॥ ४९॥
तथा वेद्यमवेद्यं च वेद विद्यो न विन्दति ।
स केवलं मूढ मतिर्ज्ञानभार वहः स्मृतः ॥ ५०॥
द्रष्टव्यौ नित्यमेवैतौ तत्परेणान्तरात्मना ।
यथास्य जन्म निधने न भवेतां पुनः पुनः ॥ ५१॥
अजस्रं जन्म निधनं चिन्तयित्वा त्रयीमिमाम् ।
परित्यज्य क्षयमिह अक्षयं धर्ममास्थितः ॥ ५२॥
यदा तु पश्यतेऽत्यन्तमहन्यहनि काश्यप ।
तदा स केवली भूतः सद्विंसमनुपश्यति ॥ ५३॥
अन्यश्च शश्वदव्यक्तस्तथान्यः पञ्चविंशकः ।
तस्य द्वावनुपश्येत तमेकमिति साधवः ॥ ५४॥
तेनैतन्नाभिजानन्ति पञ्चविंशकमच्युतम् ।
जन्ममृत्युभयाद्योगाः साङ्ख्याश्च परमैषिणः ॥ ५५॥
विश्वावसुरुवाच
पञ्चविंशं यदेतत्ते प्रोक्तं ब्राह्मणसत्तम ।
तथा तन्न तथा वेति तद्भवान्वक्तुमर्हति ॥ ५६॥
जैगीसव्यस्यासितस्य देवलस्य च मे श्रुतम् ।
पराशरस्य विप्रर्षेर्वार्षगण्यस्य धीमतः ॥ ५७॥
भिक्षोः पञ्चशिखस्याथ कपिलस्य शुकस्य च ।
गौतमस्यार्ष्टिषेणस्य गर्गस्य च महात्मनः ॥ ५८॥
नारदस्यासुरेश्चैव पुलस्त्यस्य च धीमतः ।
सनत्कुमारस्य ततः शुक्रस्य च महात्मनः ॥ ५९॥
कश्यपस्य पितुश्चैव पूर्वमेव मया श्रुतम् ।
तदनन्तरं च रुद्रस्य विश्वरूपस्य धीमतः ॥ ६०॥
दैवतेभ्यः पितृभ्यश्च दैत्येभ्यश्च ततस्ततः ।
प्राप्तमेतन्मया कृत्स्नं वेद्यं नित्यं वदन्त्युत ॥ ६१॥
तस्मात्तद्वै भवद्बुद्ध्या श्रोतुमिच्छामि ब्राह्मण ।
भवान्प्रवर्हः शास्त्राणां प्रगल्भश्चातिबुद्धिमान् ॥ ६२॥
न तवाविदितं किं चिद्भवाञ्श्रुतिनिधिः स्मृतः ।
कथ्यते देवलोके च पितृलोके च ब्राह्मण ॥ ६३॥
ब्रह्मलोकगताश्चैव कथयन्ति महर्षयः ।
पतिश्च तपतां शश्वदादित्यस्तव भासते ॥ ६४॥
साङ्ख्यज्ञानं त्वया ब्रह्मन्नवाप्तं कृत्स्नमेव च ।
तथैव योगज्ञानं च याज्ञवल्क्य विशेषतः ॥ ६५॥
निःसन्दिग्धं प्रबुद्धस्त्वं बुध्यमानश्चराचरम् ।
श्रोतुमिच्छामि तज्ज्ञानं घृतं मन्दमयं यथा ॥ ६६॥
याज्ञवल्क्य उवाच
कृत्स्नधारिणमेव त्वां मन्ये गन्धर्वसत्तम ।
जिज्ञाससि च मां राजंस्तन्निबोध यथा श्रुतम् ॥ ६७॥
अबुध्यमानां प्रकृतिं बुध्यते पञ्चविंशकः ।
न तु बुध्यति गन्धर्व प्रकृतिः पञ्चविंशकम् ॥ ६८॥
अनेनाप्रतिबोधेन प्रधानं प्रवदन्ति तम् ।
साङ्ख्ययोगाश्च तत्त्वज्ञा यथा श्रुतिनिदर्शनात् ॥ ६९॥
पश्यंस्तथैवापश्यंश्च पश्यत्यन्यस्तथानघ ।
सद्विंशः पञ्चविंशं च चतुर्विंशं च पश्यति ।
न तु पश्यति पश्यंस्तु यश्चैनमनुपश्यति ॥ ७०॥
पञ्चविंशोऽभिमन्येत नान्योऽस्ति परमो मम ।
न चतुर्विंशकोऽग्राह्यो मनुजैर्ज्ञानदर्शिभिः ॥ ७१॥
मत्स्येवोदकमन्वेति प्रवर्तति प्रवर्तनात् ।
यथैव बुध्यते मत्स्यस्तथैषोऽप्यनुबुध्यते ।
सस्नेहः सह वासाच्च साभिमानश्चनित्यशः ॥ ७२॥
स निमज्जति कालस्य यदैकत्वं न बुध्यते ।
उन्मज्जति हि कालस्य ममत्वेनाभिसंवृतः ॥ ७३॥
यदा तु मन्यतेऽन्योऽहमन्य एष इति द्विजः ।
तदा स केवली भूतः सद्विंशमनुपश्यति ॥ ७४॥
अन्यश्च राजन्नवरस्तथान्यः पञ्चविंशकः ।
तत्स्थत्वादनुपश्यन्ति एक एवेति साधवः ॥ ७५॥
तेनैतन्नाभिनन्दन्ति पञ्चविंशकमच्युतम् ।
जन्ममृत्युभयाद्भीता योगाः साङ्ख्याश्च काश्यप ।
सद्विंसमनुपश्यन्ति शुचयस्तत्परायनाः ॥ ७६॥
यदा स केवली भूतः सद्विंशमनुपश्यति ।
तदा स सर्वविद्विद्वान्न पुनर्जन्म विन्दति ॥ ७७॥
एवमप्रतिबुद्धश्च बुध्यमानश् च तेऽनघ ।
बुद्धश्चोक्तो यथातत्त्वं मया श्रुतिनिदर्शनात् ॥ ७८॥
पश्यापश्यं योऽनुपश्येत्क्षेमं तत्त्वं च काश्यप ।
केवलाकेवलं चाद्यं पञ्चविंशात्परं च यत् ॥ ७९॥
विश्वावसुरुवाच
तथ्यं शुभं चैतदुक्तं त्वया भोः
सम्यक्क्षेम्यं देवताद्यं यथावत् ।
स्वस्त्य क्षयं भवतश्चास्तु नित्यं
बुद्ध्या सदा बुधि युक्तं नमस्ते ॥ ८०॥
याज्ञवल्क्य उवाच
एवमुक्त्वा सम्प्रयातो दिवं स
विभ्राजन्वै श्रीमत दर्शनेन ।
तुष्टश्च तुष्ट्या परयाभिनन्द्य
प्रदक्षिणं मम कृत्वा महात्मा ॥ ८१॥
ब्रह्मादीनां खेचराणां क्षितौ च
ये चाधस्तात्संवसन्ते नरेन्द्र ।
तत्रैव तद्दर्शनं दर्शयन्वै
सम्यक्क्षेम्यं ये पथं संश्रिता वै ॥ ८२॥
साङ्ख्याः सर्वे साङ्ख्यधर्मे रताश् च
तद्वद्योगा योगधर्मे रताश् च ।
ये चाप्यन्ये मोक्षकामा मनुष्यास्
तेषामेतद्दर्शनञ्ज्ञान दृष्टम् ॥ ८३॥
ज्ञानान्मोक्षो जायते पूरुषानां
नास्त्यज्ञानादेवमाहुर्नरेन्द्र ।
तस्माज्ज्ञानं तत्त्वतोऽन्वेषितव्यं
येनात्मानं मोक्षयेज्जन्ममृत्योः ॥ ८४॥
प्राप्य ज्ञानं ब्राह्मणात्क्षत्रियाद्वा
वैश्याच्छूद्रादपि नीचादभीक्ष्णम् ।
श्रद्धातव्यं श्रद्दधानेन नित्यं
न श्रद्धिनं जन्ममृत्यू विशेताम् ॥ ८५॥
सर्वे वर्णा ब्राह्मणा ब्रह्मजाश् च
सर्वे नित्यं व्याहरन्ते च ब्रह्म ।
तत्त्वं शास्त्रं ब्रह्म बुद्ध्या ब्रवीमि
सर्वं विश्वं ब्रह्म चैतत्समस्तम् ॥ ८६॥
ब्रह्मास्यतो ब्राह्मणाः सम्प्रसूता
बाहुभ्यां वै क्षत्रियाः सम्प्रसूताः ।
नाभ्यां वैश्याः पादतश्चापि शूद्राः
सर्वे वर्णा नान्यथा वेदितव्याः ॥ ८७॥
अज्ञानतः कर्म योनिं भजन्ते
तां तां राजंस्ते यथा यान्त्यभावम् ।
तथा वर्णा ज्ञानहीनाः पतन्ते
घोरादज्ञानात्प्राकृतं योनिजालम् ॥ ८८॥
तस्माज्ज्ञानं सर्वतो मार्गितव्यं
सर्वत्रस्थ चैतदुक्तं मया ते ।
तस्थौ ब्रह्मा तस्थिवांश्चापरो यस्
तस्मै नित्यं मोक्षमाहुर्द्विजेन्द्राः ॥ ८९॥
यत्ते पृष्ठं तन्मया चोपदिष्टं
याथातथ्यं तद्विशोको भवस्व ।
राजन्गच्छस्वैतदर्थस्य पारं
सम्यक्प्रोक्तं स्वस्ति तेऽस्त्वत्र नित्यम् ॥ ९०॥
भीष्म उवाच
स एवमनुशास्तस्तु याज्ञवल्क्येन धीमता ।
प्रीतिमानभवद्राजा मिथिलाधिपतिस्तदा ॥ ९१॥
गते मुनिवरे तस्मिन्कृते चापि प्रदक्षिणे ।
दैवरातिर्नरपतिरासीनस्तत्र मोक्षवित् ॥ ९२॥
गोकोतिं स्पर्शयामास हिरण्यस्य तथैव च ।
रत्नाञ्जलिमथैकं च ब्राह्मणेभ्यो ददौ तदा ॥ ९३॥
विदेहराज्यं च तथा प्रतिष्ठाप्य सुतस्य वै ।
यति धर्ममुपासंश्चाप्यवसन्मिथिलाधिपः ॥ ९४॥
साङ्ख्यज्ञानमधीयानो योगशास्त्रं च कृत्स्नशः ।
धर्माधर्मौ च राजेन्द्र प्राकृतं परिगर्हयन् ॥ ९५॥
अनन्तमिति कृत्वा स नित्यं केवलमेव च ।
धर्माधर्मौ पुण्यपापे सत्यासत्ये तथैव च ॥ ९६॥
जन्ममृत्यू च राजेन्द्र प्राकृतं तदचिन्तयत् ।
ब्रह्माव्यक्तस्य कर्मेदमिति नित्यं नराधिप ॥ ९७॥
पश्यन्ति योगाः साङ्ख्याश्च स्वशास्त्रकृतलक्षणाः ।
इष्टानिष्ट वियुक्तं हि तस्थौ ब्रह्म परात्परम् ।
नित्यं तमाहुर्विद्वांसः शुचिस्तस्माच्छुचिर्भव ॥ ९८॥
दीयते यच्च लभते दत्तं यच्चानुमन्यते ।
ददाति च नरश्रेष्ठ प्रतिगृह्णाति यच्च ह ।
ददात्यव्यक्तमेवैतत्प्रतिगृह्णाति तच्च वै ॥ ९९॥
आत्मा ह्येवात्मनो ह्येकः कोऽन्यस्त्वत्तोऽधिको भवेत् ।
एवं मन्यस्व सततमन्यथा मा विचिन्तय ॥ १००॥
यस्याव्यक्तं न विदितं सगुणं निर्गुणं पुनः ।
तेन तीर्थानि यज्ञाश्च सेवितव्याविपश्चिता ॥ १०१॥
न स्वाध्यायैस्तपोभिर्वा यज्ञैर्वा कुरुनन्दन ।
लभतेऽव्यक्तसंस्थानं ज्ञात्वाव्यक्तं महीपते ॥ १०२॥
तथैव महतः स्थानमाहङ्कारिकमेव च ।
अहङ्कारात्परं चापि स्थानानि समवाप्नुयात् ॥ १०३॥
ये त्वव्यक्तात्परं नित्यं जानते शास्त्रतत्पराः ।
जन्ममृत्युवियुक्तं च वियुक्तं सदसच्च यत् ॥ १०४॥
एतन्मयाप्तं जनकात्पुरस्तात्
तेनापि चाप्तं नृप याज्ञवल्क्यात् ।
ज्ञानं विशिष्टं न तथा हि यज्ञा
ज्ञानेन दुर्गं तरते न यज्ञैः ॥ १०५॥
दुर्गं जन्म निधनं चापि राजन्
न भूतिकं ज्ञानविदो वदन्ति ।
यज्ञैस्तपोभिर्नियमैर्व्रतैश् च
दिवं समासाद्य पतन्ति भूमौ ॥ १०६॥
तस्मादुपासस्व परं महच्छुचि
शिवं विमोक्षं विमलं पवित्रम् ।
क्षेत्रज्ञवित्पार्थिव ज्ञानयज्ञम्
उपास्य वै तत्त्वमृषिर्भविष्यसि ॥ १०७॥
उपनिषदमुपाकरोत्तदा वै जनक नृपस्य पुरा हि याज्ञवल्क्यः ।
यदुपगणितशाश्वताव्ययं तच्-
छुभममृतत्वमशोकमृच्छतीति ॥ १०८॥
॥ युगलगीत श्रीमद्भागवतान्तर्गतम् ॥
श्रीशुक उवाच ।
गोप्यः कृष्णे वनं याते तमनुद्रुतचेतसः ।
कृष्णलीलाः प्रगायन्त्यो निन्युर्दुःखेन वासरान् ॥ १॥
श्रीगोप्य ऊचुः ।
वामबाहुकृतवामकपोलो वल्गितभ्रुरधरार्पितवेणुम् ।
कोमलाङ्गुलिभिराश्रितमार्गं गोप्य ईरयति यत्र मुकुन्दः ॥ २॥
व्योमयानवनिताः सह सिद्धैर्विस्मितास्तदुपधार्य सलज्जाः ।
काममार्गणसमर्पितचित्ताः कश्मलं ययुरपस्मृतनीव्यः ॥ ३॥
हन्त चित्रमबलाः शृणुतेदं हारहास उरसि स्थिरविद्युत् ।
नन्दसूनुरयमार्तजनानां नर्मदो यर्हि कूजितवेणुः ॥ ४॥
वृन्दशो व्रजवृषा मृगगावो वेणुवाद्यहृतचेतस आरात् ।
दन्तदष्टकवला धृतकर्णा निद्रिता लिखितचित्रमिवासन् ॥ ५॥
बर्हिणस्तबकधातुपलाशैर्बद्धमल्लपरिबर्हविडम्बः ।
कर्हिचित्सबल आलि स गोपैर्गाः समाह्वयति यत्र मुकुन्दः ॥ ६॥
तर्हि भग्नगतयः सरितो वै तत्पदाम्बुजरजोऽनिलनीतम् ।
स्पृहयतीर्वयमिवाबहुपुण्याः प्रेमवेपितभुजाः स्तिमितापः ॥ ७॥
अनुचरैः समनुवर्णितवीर्य आदिपूरुष इवाचलभूतिः ।
वनचरो गिरितटेषु चरन्तीर्वेणुनाह्वयति गाः स यदा हि ॥ ८॥
वनलतास्तरव आत्मनि विष्णुं व्यञ्जयन्त्य इव पुष्पफलाढ्याः ।
प्रणतभारविटपा मधुधाराः प्रेमहृष्टतनवो ववृषुः स्म ॥ ९॥
दर्शनीयतिलको वनमाला दिव्यगन्धतुलसीमधुमत्तैः ।
अलिकुलैरलघु गीतामभीष्टमाद्रियन्यर्हि सन्धितवेणुः ॥ १०॥
सरसि सारसहंसविहङ्गाश्चारुगीताहृतचेतस एत्य ।
हरिमुपासत ते यतचित्ता हन्त मीलितदृशो धृतमौनाः ॥ ११॥
सहबलः स्रगवतंसविलासः सानुषु क्षितिभृतो व्रजदेव्यः ।
हर्षयन्यर्हि वेणुरवेण जातहर्ष उपरम्भति विश्वम् ॥ १२॥
महदतिक्रमणशङ्कितचेता मन्दमन्दमनुगर्जति मेघः ।
सुहृदमभ्यवर्षत्सुमनोभिश्छायया च विदधत्प्रतपत्रम् ॥ १३॥
विविधगोपचरणेषु विदग्धो वेणुवाद्य उरुधा निजशिक्षाः ।
तव सुतः सति यदाधरबिम्बे दत्तवेणुरनयत्स्वरजातीः ॥ १४॥
सवनशस्तदुपधार्य सुरेशाः शक्रशर्वपरमेष्ठिपुरोगाः ।
कवय आनतकन्धरचित्ताः कश्मलं ययुरनिश्चिततत्त्वाः ॥ १५॥
निजपदाब्जदलैर्ध्वजवज्र नीरजाङ्कुशविचित्रललामैः ।
व्रजभुवः शमयन्खुरतोदं वर्ष्मधुर्यगतिरीडितवेणुः ॥ १६॥
व्रजति तेन वयं सविलास वीक्षणार्पितमनोभववेगाः ।
कुजगतिं गमिता न विदामः कश्मलेन कवरं वसनं वा ॥ १७॥
मणिधरः क्वचिदागणयन्गा मालया दयितगन्धतुलस्याः ।
प्रणयिनोऽनुचरस्य कदांसे प्रक्षिपन्भुजमगायत यत्र ॥ १८॥
क्वणितवेणुरववञ्चितचित्ताः कृष्णमन्वसत कृष्णगृहिण्यः ।
गुणगणार्णमनुगत्य हरिण्यो गोपिका इव विमुक्तगृहाशाः ॥ १९॥
कुन्ददामकृतकौतुकवेषो गोपगोधनवृतो यमुनायाम् ।
नन्दसूनुरनघे तव वत्सो नर्मदः प्रणयिणां विजहार ॥ २०॥
मन्दवायुरुपवात्यनकूलं मानयन्मलयजस्पर्शेन ।
वन्दिनस्तमुपदेवगणा ये वाद्यगीतबलिभिः परिवव्रुः ॥ २१॥
वत्सलो व्रजगवां यदगध्रो वन्द्यमानचरणः पथि वृद्धैः ।
कृत्स्नगोधनमुपोह्य दिनान्ते गीतवेणुरनुगेडितकीर्तिः ॥ २२॥
उत्सवं श्रमरुचापि दृशीनामुन्नयन्खुररजश्छुरितस्रक् ।
दित्सयैति सुहृदासिष एष देवकीजठरभूरुडुराजः ॥ २३॥
मदविघूर्णितलोचन ईषत्मानदः स्वसुहृदां वनमाली ।
बदरपाण्डुवदनो मृदुगण्डं मण्डयन्कनककुण्डललक्ष्म्या ॥ २४॥
यदुपतिर्द्विरदराजविहारो यामिनीपतिरिवैष दिनान्ते ।
मुदितवक्त्र उपयाति दुरन्तं मोचयन्व्रजगवां दिनतापम् ॥ २५॥
॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
दशमस्कन्धे पूर्वार्धे वृन्दावनक्रीडायां गोपिकायुगलगीतं
नाम पञ्चत्रिंशोऽध्यायः ॥ १०.३५॥
॥ अथ युधिष्ठिरगीता ॥
अध्याय २९५
जनमेजय उवाच ।
एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् ।
प्रतिलभ्य ततः कृष्णां किमकुर्वन्त पाण्डवाः ॥ १॥
वैशम्पायन उवाच ।
एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् ।
विहाय काम्यकं राजा सह भ्रातृभिरच्युतः ॥ २॥
पुनर्द्वैतवनं रम्यमाजगाम युधिष्ठिरः ।
स्वादुमूलफलं रम्यं मार्कण्डेयाश्रमं प्रति ॥ ३॥
अनुगुप्त फलाहाराः सर्व एव मिताशनाः ।
न्यवसन्पाण्डवास्तत्र कृष्णया सह भारत ॥ ४॥
वसन्द्वैतवने राजा कुन्तीपुत्रो युधिष्ठिरः ।
भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ ॥ ५॥
ब्राह्मणार्थे पराक्रान्ता धर्मात्मानो यतव्रताः ।
क्लेशमार्छन्त विपुलं सुखोदर्कं परन्तपाः ॥ ६॥
अजातशत्रुमासीनं भ्रतृभिः सहितं वने ।
आगम्य ब्राह्मणस्तूर्णं सन्तप्त इदमब्रवीत् ॥ ७॥
अरणी सहितं मह्यं समासक्तं वनस्पतौ ।
मृगस्य घर्षमाणस्य विषाणे समसज्जत ॥ ८॥
तदादाय गतो राजंस्त्वरमाणो महामृगः ।
आश्रमात्त्वरितः शीघ्रं प्लवमानो महाजवः ॥ ९॥
तस्य गत्वा पदं शीघ्रमासाद्य च महामृगम् ।
अग्निहोत्रं न लुप्येत तदानयत पाण्डवाः ॥ १०॥
ब्राह्मणस्य वचो श्रुत्वा सन्तप्तोऽथ युधिष्ठिरः ।
धनुरादाय कौन्तेयः प्राद्रवद्भ्रातृभिः सह ॥ ११॥
सन्नद्धा धन्विनः सर्वे प्राद्रवन्नरपुङ्गवाः ।
ब्राह्मणार्थे यतन्तस्ते शीघ्रमन्वगमन्मृगम् ॥ १२॥
कर्णिनालीकनाराचानुत्सृजन्तो महारथाः ।
नाविध्यन्पाण्डवास्तत्र पश्यन्तो मृगमन्तिकात् ॥ १३॥
तेषां प्रयतमानानां नादृश्यत महामृगः ।
अपश्यन्तो मृगं श्रान्ता दुःखं प्राप्ता मनस्विनः ॥ १४॥
शीतलछायमासाद्य न्यग्रोधं गहने वने ।
क्षुत्पिपासापरीताङ्गाः पाण्डवाः समुपाविशन् ॥ १५॥
तेषां समुपविष्टानां नकुलो दुःखितस्तदा ।
अब्रवीद्भ्रातरं ज्येष्ठममर्षात्कुरुसत्तम ॥ १६॥
नास्मिन्कुले जातु ममज्ज धर्मो
न चालस्यादर्थलोपो बभूव ।
अनुत्तराः सर्वभूतेषु भूयः
सम्प्राप्ताः स्मः संशयं केन राजन् ॥ १७॥
२९६
युधिष्ठिर उवाच ।
नापदामस्ति मर्यादा न निमित्तं न कारणम् ।
धर्मस्तु विभजत्यत्र उभयोः पुण्यपापयोः ॥ १॥
भीम उवाच ।
प्रातिकाम्यनयत्कृष्णां सभायां प्रेष्यवत्तदा ।
न मया निहतस्तत्र तेन प्राप्ताः स्म संशयम् ॥ २॥
अर्जुन उवाच ।
वाचस्तीक्ष्णास्थि भेदिन्यः सूतपुत्रेण भाषिताः ।
अतितीक्ष्णा मया क्षान्तास्तेन प्राप्तः स्म संशयम् ॥ ३॥
सहदेव उवाच ।
शकुनिस्त्वां यदाजैषीदक्षद्यूतेन भारत ।
स मया न हतस्तत्र तेन प्राप्ताः स्म संशयम् ॥ ४॥
वैशम्पायन उवाच ।
ततो युधिष्ठिरो राजा नकुलं वाक्यमब्रवीत् ।
आरुह्य वृक्षं माद्रेय निरीक्षस्व दिशो दश ॥ ५॥
पानीयमन्तिके पश्य वृक्षान्वाप्युदकाश्रयान् ।
इमे हि भ्रातरः श्रान्तास्तव तात पिपासिताः ॥ ६॥
नकुलस्तु तथेत्युक्त्वा शीघ्रमारुह्य पादमम् ।
अब्रवीद्भ्रातरं ज्येष्ठमभिवीक्ष्य समन्ततः ॥ ७॥
पश्यामि बहुलान्राजन्वृक्षानुदकसंश्रयान् ।
सारसानां च निर्ह्रादमत्रोदकमसंशयम् ॥ ८॥
ततोऽब्रवीत्सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः ।
गच्छ सौम्य ततः शीघ्रं तूर्णं पानीयमानय ॥ ९॥
नकुलस्तु तथेत्युक्त्वा भ्रातुर्ज्येष्ठस्य शासनात् ।
प्राद्रवद्यत्र पानीयं शीघ्रं चैवान्वपद्यत ॥ १०॥
स दृष्ट्वा विमलं तोयं सारसैः परिवारितम् ।
पातु काकस्ततो वाचमन्तरिक्षात्स शुश्रुवे ॥ ११॥
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः ।
प्रश्नानुक्त्वा तु माद्रेय ततः पिब हरस्व च ॥ १२॥
अनादृत्य तु तद्वाक्यं नकुलः सुपिपासितः ।
अपिबच्छीतलं तोयं पीत्वा च निपपात ह ॥ १३॥
चिरायमाणे नकुले कुन्तीपुत्रो युधिष्ठिरः ।
अब्रवीद्भ्रातरं वीरं सहदेवमरिन्दमम् ॥ १४॥
भ्राता चिरायते तात सहदेव तवाग्रजः ।
तं चैवानय सोदर्यं पानीयं च त्वमानय ॥ १५॥
सहदेवस्तथेत्युक्त्वा तां दिशं प्रत्यपद्यत ।
ददर्श च हतं भूमौ भ्रातरं नकुलं तदा ॥ १६॥
भ्रातृशोकाभिसन्तप्तस्तृषया च प्रपीडितः ।
अभिदुद्राव पानीयं ततो वागभ्यभाषत ॥ १७॥
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः ।
प्रश्नानुक्त्वा यथाकामं ततः पिब हरस्व च ॥ १८॥
अनादृत्य तु तद्वाक्यं सहदेवः पिपासितः ।
अपिबच्छीतलं तोयं पीत्वा च निपपात ह ॥ १९॥
अथाब्रवीत्स विजयं कुन्तीपुत्रो युधिष्ठिरः ।
भ्रातरौ ते चिरगतौ बीभत्सो शत्रुकर्शन ।
तौ चैवानय भद्रं ते पानीयं च त्वमानय ॥ २०॥
एवमुक्तो गुडाकेशः प्रगृह्य सशरं धनुः ।
आमुक्तखड्गो मेधावी तत्सरो प्रत्यपद्यत ॥ २१॥
यतः पुरुषशार्दूलौ पानीय हरणे गतु ।
तौ ददर्श हतौ तत्र भ्रातरौ श्वेतवाहनः ॥ २२॥
प्रसुप्ताविव तौ दृष्ट्वा नरसिंहः सुदुःखितः ।
धनुरुद्यम्य कौन्तेयो व्यलोकयत तद्वनम् ॥ २३॥
नापश्यत्तत्र किं चित्स भूतं तस्मिन्महावने ।
सव्यसाची ततः श्रान्तः पानीयं सोऽभ्यधावत ॥ २४॥
अभिधावंस्ततो वाचमन्तरिक्षात्स शुश्रुवे ।
किमासीदसि पानीयं नैतच्छक्यं बलात्त्वया ॥ २५॥
कौन्तेय यदि वैशम्पायन उवाच । प्रश्नान्मयोक्तान्प्रतिपत्स्यसे ।
ततः पास्यसि पानीयं हरिष्यसि च भारत ॥ २६॥
वारितस्त्वब्रवीत्पार्थो दृश्यमानो निवारय ।
यावद्बाणैर्विनिर्भिन्नः पुनर्नैवं वदिष्यसि ॥ २७॥
एवमुक्त्वा ततः पार्थः शरैरस्त्रानुमन्त्रितैः ।
ववर्ष तां दिशं कृत्स्नां शब्दवेधं च दर्शयन् ॥ २८॥
कर्णिनालीकनाराचानुत्सृजन्भरतर्षभ ।
अनेकैरिषुसङ्घातैरन्तरिक्षं ववर्ष ह ॥ २९॥
यक्ष उवाच ।
किं विघातेन ते पार्थ प्रश्नानुक्त्वा ततः पिब ।
अनुक्त्वा तु ततः प्रश्नान्पीत्वैव न भविष्यसि ॥ ३०॥
वैशम्पायन उवाच ।
स त्वमोघानिषून्मुक्त्वा तृष्णयाभिप्रपीडितः ।
अविज्ञायैव तान्प्रश्नान्पीत्वैव निपपात ह ॥ ३१॥
अथाब्रवीद्भीमसेनं कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च बीभत्सुश्चापराजितः ॥ ३२॥
चिरं गतास्तोयहेतोर्न चागच्छन्ति भारत ।
तांश्चैवानय भद्रं ते पानीयं च त्वमानय ॥ ३३॥
भीमसेनस्तथेत्युक्त्वा तां दिशं पत्यपद्यत ।
यत्र ते पुरुषव्याघ्रा भ्रातरोऽस्य निपातिताः ॥ ३४॥
तान्दृष्ट्वा दुःखितो भीमस्तृषया च प्रपीडितः ।
अमन्यत महाबाहुः कर्म तद्यक्षरक्षसाम् ।
स चिन्तयामास तदा योद्धव्यं ध्रुवमद्य मे ॥ ३५॥
पास्यामि तावत्पानीयमिति पार्थो वृकोदरः ।
ततोऽभ्यधावत्पानीयं पिपासुः पुरुषर्षभः ॥ ३६॥
यक्ष उवाच ।
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः ।
प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ॥ ३७॥
वैशम्पायन उवाच ।
एवमुक्तस्ततो भीमो यक्षेणामित तेजसा ।
अविज्ञायैव तान्प्रश्नान्पीत्वैव निपपात ह ॥ ३८॥
ततः कुन्तीसुतो राजा विचिन्त्य पुरुषर्षभः ।
समुत्थाय महाबाहुर्दह्यमानेन चेतसा ॥ ३९॥
अपेतजननिर्घोषं प्रविवेश महावनम् ।
रुरुभिश्च वराहैश्च पक्षिभिश्च निषेवितम् ॥ ४०॥
नीलभास्वरवर्णैश्च पादपैरुपशोभितम् ।
भ्रमरैरुपगीतं च पक्षिभिश्च महायशः ॥ ४१॥
स गच्छन्कानने तस्मिन्हेमजालपरिष्कृतम् ।
ददर्श तत्सरो श्रीमान्विश्वकर्म कृतं यथा ॥ ४२॥
उपेतं नलिनी जालैः सिन्धुवारैश्च वेतसैः ।
केतकैः करवीरैश्च पिप्पलैश्चैव संवृतम् ।
श्रमार्तस्तदुपागम्य सरो दृष्ट्वाथ विस्मितः ॥ ४३॥
२९७
वैशम्पायन उवाच ।
स ददर्श हतान्भ्रातॄँल्लोकपालानिव च्युतान् ।
युगान्ते समनुप्राप्ते शक्र प्रतिमगौरवान् ॥ १॥
विप्रकीर्णधनुर्बाणं दृष्ट्वा निहतमर्जुनम् ।
भीमसेनं यमौ चोभौ निर्विचेष्टान्गतायुरः ॥ २॥
स दीर्घमुष्णं निःश्वस्य शोकबाष्पपरिप्लुतः ।
बुद्ध्या विचिन्तयामास वीराः केन निपातिताः ॥ ३॥
नैषां शस्त्रप्रहारोऽस्ति पदं नेहास्ति कस्य चित् ।
भूतं महदिदं मन्ये भ्रातरो येन मे हताः ।
एकाग्रं चिन्तयिष्यामि पीत्वा वेत्स्यामि वा जलम् ॥ ४॥
स्यात्तु दुर्योधनेनेदमुपांशु विहितं कृतम् ।
गन्धार राजरचितं सततं जिह्मबुद्धिना ॥ ५॥
यस्य कार्यमकार्यं वा सममेव भवत्युत ।
कस्तस्य विश्वसेद्वीरो दुर्मतेरकृतात्मनः ॥ ६॥
अथ वा पुरुषैर्गूढैः प्रयोगोऽयं दुरात्मनः ।
भवेदिति महाबाहुर्बहुधा समचिन्तयत् ॥ ७॥
तस्यासीन्न विषेणेदमुदकं दूषितं यथा ।
मुखवर्णाः प्रसन्ना मे भ्रातॄणां इत्यचिन्तयत् ॥ ८॥
एकैकशश्चौघबलानिमान्पुरुषसत्तमान् ।
कोऽन्यः प्रतिसमासेत कालान्तकयमादृते ॥ ९॥
एतेनाध्यवसायेन तत्तोयमवगाढवान् ।
गाहमानश्च तत्तोयमन्तरिक्षात्स शुश्रुवे ॥ १०॥
यक्ष उवाच ।
अहं बकः शैवलमत्स्यभक्षो
मया नीताः प्रेतवशं तवानुजाः ।
त्वं पञ्चमो भविता राजपुत्र
न चेत्प्रश्नान्पृच्छतो व्याकरोषि ॥ ११॥
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः ।
प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ॥ १२॥
युधिष्ठिर उवाच ।
रुद्राणां वा वसूनां वा मरुतां वा प्रधानभाक् ।
पृच्छामि को भवान्देवो नैतच्छकुनिना कृतम् ॥ १३॥
हिमवान्पारियात्रश् च विन्ध्यो मलय एव च ।
चत्वारः पर्वताः केन पातिता भुवि तेजसा ॥ १४॥
अतीव ते महत्कर्मकृतं बलवतां वर ।
यन्न देवा न गन्धर्वा नासुरा न च राक्षसाः ।
विषहेरन्महायुद्धे कृतं ते तन्महाद्भुतम् ॥ १५॥
न ते जानामि यत्कार्यं नाभिजानामि काङ्क्षितम् ।
कौतूहलं महज्जातं साध्वसं चागतं मम ॥ १६॥
येनास्म्युद्विग्नहृदयः समुत्पन्न शिरो ज्वरः ।
पृच्छामि भगवंस्तस्मात्को भवानिह तिष्ठति ॥ १७॥
यक्ष उवाच ।
यक्षोऽहमस्मि भद्रं ते नास्मि पक्षी जले चरः ।
मयैते निहताः सर्वे भ्रातरस्ते महौजसः ॥ १८॥
वैशम्पायन उवाच ।
ततस्तामशिवां श्रुत्वा वाचं स परुषाक्षराम् ।
यक्षस्य ब्रुवतो राजन्नुपक्रम्य तदा स्थितः ॥ १९॥
विरूपाक्षं महाकायं यक्षं तालसमुच्छ्रयम् ।
ज्वलनार्कप्रतीकाशमधृष्यं पर्वतोपमम् ॥ २०॥
सेतुमाश्रित्य तिष्ठन्तं ददर्श भरतर्षभः ।
मेघगन्मीरया वाचा तर्जयन्तं महाबलम् ॥ २१॥
यक्ष उवाच ।
इमे ते भ्रातरो राजन्वार्यमाणा मयासकृत् ।
बलात्तोयं जिहीर्षन्तस्ततो वैशम्पायन उवाच । सूदिता मया ॥ २२॥
न पेयमुदकं राजन्प्राणानिह परीप्सता ।
पार्थ मा साहसं कार्षीर्मम पूर्वपरिग्रहः ।
प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ॥ २३॥
युधिष्ठिर उवाच ।
नैवाहं कामये यक्ष तव पूर्वपरिग्रहम् ।
कामनैतत्प्रशंसन्ति सन्तो हि पुरुषाः सदा ॥ २४॥
यदात्मना स्वमात्मानं प्रशंसेत्पुरुषः प्रभो ।
यथा प्रज्ञं तु ते प्रश्नान्प्रतिवक्ष्यामि पृच्छ माम् ॥ २५॥
यक्ष उवाच ।
किं स्विदादित्यमुन्नयति केच तस्याभितश्चराः ।
कश्चैनमस्तं नयति कस्मिंश्च प्रतितिष्ठति ॥ २६॥
युधिष्ठिर उवाच ।
ब्रह्मादित्यमुन्नयति देवास्तस्याभितश्चराः ।
धर्मश्चास्तं नयति च सत्ये च प्रतितिष्ठति ॥ २७॥
यक्ष उवाच ।
केन स्विच्छ्रोत्रियो भवति केन स्विद्विन्दते महत् ।
केन द्वितीयवान्भवति राजन्केन च बुद्धिमान् ॥ २८॥
युधिष्ठिर उवाच ।
श्रुतेन श्रोत्रियो भवति तपसा विन्दते महत् ।
धृत्या द्वितीयवान्भवति बुद्धिमान्वृद्धसेवया ॥ २९॥
यक्ष उवाच ।
किं ब्राह्मणानां देवत्वं कश्च धर्मः सतां इव ।
कश्चैषां मानुषो भावः किमेषामसतां इव ॥ ३०॥
युधिष्ठिर उवाच ।
स्वाध्याय एषां देवत्वं तप एषां सतां इव ।
मरणं मानुषो भावः परिवादोऽसतां इव ॥ ३१॥
यक्ष उवाच ।
किं क्षत्रियाणां देवत्वं कश्च धर्मः सतां इव ।
कश्चैषां मानुषो भावः किमेषामसतां इव ॥ ३२॥
युधिष्ठिर उवाच ।
इष्वस्त्रमेषां देवत्वं यज्ञ एषां सतां इव ।
भयं वैशम्पायन उवाच । मानुषो भावः परित्यागोऽसतां इव ॥ ३३॥
यक्ष उवाच ।
किमेकं यज्ञियं साम किमेकं यज्ञियं यजुः ।
का चैका वृश्चते यज्ञं कां यज्ञो नातिवर्तते ॥ ३४॥
युधिष्ठिर उवाच ।
प्राणो वैशम्पायन उवाच । यज्ञियं साम मनो वै यज्ञियं यजुः ।
वागेका वृश्चते यज्ञं तां यज्ञो नातिवर्तते ॥ ३५॥
यक्ष उवाच ।
किं स्विदापततां श्रेष्ठं बीजं निपततां वरम् ।
किं स्वित्प्रतिष्ठमानानां किं स्वित्प्रवदतां वरम् ॥ ३६॥
युधिष्ठिर उवाच ।
वर्षमापततां श्रेष्ठं बीजं निपततां वरम् ।
गावः प्रतिष्ठमानानां पुत्रः प्रवदतां वरः ॥ ३७॥
यक्ष उवाच ।
इन्द्रियार्थाननुभवन्बुद्धिमाँल्लोकपूजितः ।
संमतः सर्वभूतानामुच्छ्वसन्को न जीवति ॥ ३८॥
युधिष्ठिर उवाच ।
देवतातिथिभृत्यानां पितॄणामात्मनश्च यः ।
न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति ॥ ३९॥
यक्ष उवाच ।
किं स्विद्गुरुतरं भूमेः किं स्विदुच्चतरं च खात् ।
किं स्विच्छीघ्रतरं वायोः किं स्विद्बहुतरं नृणाम् ॥ ४०॥
युधिष्ठिर उवाच ।
माता गुरुतरा भूमेः पिता उच्चरतश्च खात् ।
मनो शीघ्रतरं वायोश्चिन्ता बहुतरी नृणाम् ॥ ४१॥
यक्ष उवाच ।
किं स्वित्सुप्तं न निमिषति किं स्विज्जातं न चोपति ।
कस्य स्विद्धृदयं नास्ति किं स्विद्वेगेन वर्घते ॥ ४२॥
युधिष्ठिर उवाच ।
मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति ।
अश्मनो हृदयं नास्ति नदीवेगेन वर्धते ॥ ४३॥
यक्ष उवाच ।
किं स्वित्प्रवसतो मित्रं किं स्विन्मित्रं गृहे सतः ।
आतुरस्य च किं मित्रं किं स्विन्मित्रं मरिष्यतः ॥ ४४॥
युधिष्ठिर उवाच ।
सार्थः प्रवसतो मित्रं भार्या मित्रं गृहे सतः ।
आतुरस्य भिषन्मित्रं दानं मित्रं मरिष्यतः ॥ ४५॥
यक्ष उवाच ।
किं स्विदेको विचरति जातः को जायते पुनः ।
किं स्विद्धिमस्य भैषज्यं किं स्विदावपनं महत् ॥ ४६॥
युधिष्ठिर उवाच ।
सूर्य एको विचरति चन्द्रमा जायते पुनः ।
अग्निर्हिमस्य भैषज्यं भूमिरापवनं महत् ॥ ४७॥
यक्ष उवाच ।
किं स्विदेकपदं धर्म्यं किं स्विदेकपदं यशः ।
किं स्विदेकपदं स्वर्ग्यं किं स्विदेकपदं सुखम् ॥ ४८॥
युधिष्ठिर उवाच ।
दाक्ष्यमेकपदं धर्म्यं दानमेकपदं यशः ।
सत्यमेकपदं स्वर्ग्यं शीलमेकपदं सुखम् ॥ ४९॥
यक्ष उवाच ।
किं स्विदात्मा मनुष्यस्य किं स्विद्दैवकृतः सखा ।
उपजीवनं किं स्विदस्य किं स्विदस्य परायणम् ॥ ५०॥
युधिष्ठिर उवाच ।
पुत्र आत्मा मनुष्यस्य भार्या दैवकृतः सखा ।
उपजीवनं च पर्जन्यो दानमस्य परायणम् ॥ ५१॥
यक्ष उवाच ।
धन्यानामुत्तमं किं स्विद्धनानां किं स्विदुत्तमम् ।
लाभानामुत्तमं किं स्वित्किं सुखानां तथोत्तमम् ॥ ५२॥
युधिष्ठिर उवाच ।
धन्यानामुत्तमं दाक्ष्यं धनानामुत्तमं श्रुतम् ।
लाभानां श्रेष्ठमारोग्यं सुखानां तुष्टिरुत्तमा ॥ ५३॥
यक्ष उवाच ।
कश्च धर्मः परो लोके कश्च धर्मः सदा फलः ।
किं नियम्य न शोचन्ति कैश्च सन्धिर्न जीर्यते ॥ ५४॥
युधिष्ठिर उवाच ।
आनृशंस्यं परो धर्मस्त्रयीधर्मः सदा फलः ।
अनो यम्य न शोचन्ति सद्भिः सन्धिर्न जीर्यते ॥ ५५॥
यक्ष उवाच ।
किं नु हित्वा प्रियो भवति किं नु हित्वा न शोचति ।
किं नु हित्वार्थवान्भवति किं नु हित्वा सुखी भवेत् ॥ ५६॥
युधिष्ठिर उवाच ।
मानं हित्वा प्रियो भवति क्रोधं हित्वा न शोचति ।
कामं हित्वार्थवान्भवति लोभं हित्वा सुखू भवेत् ॥ ५७॥
यक्ष उवाच ।
मृतं कथं स्यात्पुरुषः कथं राष्ट्रं मृतं भवेत् ।
श्राधं मृतं कथं च स्यात्कथं यज्ञो मृतो भवेत् ॥ ५८॥
युधिष्ठिर उवाच ।
मृतो दरिद्रः पुरुषो मृतं राष्ट्रमराजकम् ।
मृतमश्रोत्रियं श्राद्धं मृतो यज्ञो त्वदक्षिणः ॥ ५९॥
यक्ष उवाच ।
का दिक्किमुदकं प्रोक्तं किमन्नं पार्थ किं विषम् ।
श्राद्धस्य कालमाख्याहि ततः पिब हरस्व च ॥ ६०॥
युधिष्ठिर उवाच ।
सन्तो दिग्जलमाकाशं गौरन्नं प्रार्थना विषम् ।
श्राद्धस्य ब्राह्मणः कालः कथं वा यक्ष मन्यसे ॥ ६१॥
यक्ष उवाच ।
व्याख्याता मे त्वया प्रश्ना याथातथ्यं परन्तप ।
पुरुषं त्विदानीमाख्याहि यश्च सर्वधनी नरः ॥ ६२॥
युधिष्ठिर उवाच ।
दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः ।
यावत्स शब्दो भवति तावत्पुरुष उच्यते ॥ ६३॥
तुल्ये प्रियाप्रिये यस्य सुखदुःखे तथैव च ।
अतीतानागते चोभे स वैशम्पायन उवाच । सर्वधनी नरः ॥ ६४॥
यक्ष उवाच ।
व्याख्यातः पुरुषो राजन्यश्च सर्वधनी नरः ।
तस्मात्तवैको भ्रातॄणां यमिच्छसि स जीवतु ॥ ६५॥
युधिष्ठिर उवाच ।
श्यामो य एष रक्ताक्षो बृहच्छाल इवोद्गतः ।
व्यूढोरस्को महाबाहुरङ्कुलो यक्ष जीवतु ॥ ६६॥
यक्ष उवाच ।
प्रियस्ते भीमसेनोऽयमर्जुनो वः परायणम् ।
स कस्मान्नकुलं राजन्सापत्नं जीवमिच्छसि ॥ ६७॥
यस्य नागसहस्रेण दश सङ्ख्येन वैशम्पायन उवाच । बलम् ।
तुल्यं तं भीममुत्सृज्य नकुलं जीवमिच्छसि ॥ ६८॥
तथैनं मनुजाः प्राहुर्भीमसेनं प्रियं तव ।
अथ केनानुभावेन सापत्नं जीवमिच्छसि ॥ ६९॥
यस्य बाहुबलं सर्वे पाण्डवाः समुपाश्रिताः ।
अर्जुनं तमपाहाय नकुलं जीवमिच्छसि ॥ ७०॥
युधिष्ठिर उवाच ।
आनृशंस्य परो धर्मः परमार्थाच्च मे मतम् ।
आनृशंस्यं चिकीर्षामि नकुलो यक्ष जीवतु ॥ ७१॥
धर्मशीलः सदा राजा इति मां मानवा विदुः ।
स्वधर्मान्न चलिष्यामि नकुलो यक्ष जीवतु ॥ ७२॥
यथा कुन्ती तथा माद्री विशेषो नास्ति मे तयोः ।
मातृभ्यां सममिच्छामि नकुलो यक्ष जीवतु ॥ ७३॥
यक्ष उवाच ।
यस्य तेऽर्थाच्च कामाच्च आनृशंस्यं परं मतम् ।
अस्मात्ते भ्रातरः सर्वे जीवन्तु भरतर्षभ ॥ ७४॥
२९८
वैशम्पायन उवाच ।
ततस्ते यक्षवचनादुदतिष्ठन्त पाण्डवाः ।
क्षुत्पिपासे च सर्वेषां क्षणे तस्मिन्व्यगच्छताम् ॥ १॥
युधिष्ठिर उवाच ।
रसस्येकेन पादेन तिष्ठन्तमपराजितम् ।
पृच्छामि को भवान्देवो न मे यक्षो मतो भवान् ॥ २॥
वसूनां वा भवानेको रुद्राणामथ वा भवान् ।
अथ वा मरुतां श्रेष्ठो वर्जी वा त्रिदशेश्वरः ॥ ३॥
मम हि भ्रातर इमे सहस्रशतयोधिनः ।
न तं योगं प्रपश्यामि येन स्युर्विनिपातिताः ॥ ४॥
सुखं प्रतिविबुद्धानामिन्द्रियाण्युपलक्षये ।
स भवान्सुहृदस्माकमथ वा नः पिता भवान् ॥ ५॥
यक्ष उवाच ।
अहं ते जनकस्तात धर्मो मृदु पराक्रम ।
त्वां दिदृक्षुरनुप्राप्तो विद्धि मां भरतर्षभ ॥ ६॥
यशो सत्यं दमः शौचमार्जवं ह्रीरचापलम् ।
दानं तपो ब्रह्मचर्यमित्येतास्तनवो मम ॥ ७॥
अहिंसा समता शान्तिस्तपो शौचममत्सरः ।
द्वाराण्येतानि मे विद्धि प्रियो ह्यसि सदा मम ॥ ८॥
दिष्ट्या पञ्चसु रक्तोऽसि दिष्ट्या ते षट्पदी जिता ।
द्वे पूर्वे मध्यमे द्वे च द्वे चान्ते साम्परायिके ॥ ९॥
धर्मोऽहमस्मि भद्रं ते जिज्ञासुस्त्वमिहागतः ।
आनृशंस्येन तुष्टोऽस्मि वरं दास्यामि तेऽनघ ॥ १०॥
वरं वृणीष्व राजेन्द्र दाता ह्यस्मि तवानघ ।
ये हि मे पुरुषा भक्ता न तेषामस्ति दुर्गतिः ॥ ११॥
युधिष्ठिर उवाच ।
अरणी सहितं यस्य मृग आदाय गच्छति ।
तस्याग्नयो न लुप्येरन्प्रथमोऽस्तु वरो मम ॥ १२॥
धर्म उवाच ।
अरणी सहितं तस्य ब्राह्मणस्य हृतं मया ।
मृगवेषेण कौन्तेय जिज्ञासार्थं तव प्रभो ॥ १३॥
वैशम्पायन उवाच ।
ददानीत्येव भवगानुत्तरं प्रत्यपद्यत ।
अन्यं वरय भद्रं ते वरं त्वममरोपम ॥ १४॥
युधिष्ठिर उवाच ।
वर्षाणि द्वादशारण्ये त्रयोदशमुपस्थितम् ।
तत्र नो नाभिजानीयुर्वसतो मनुजाः क्व चित् ॥ १५॥
वैशम्पायन उवाच ।
ददानीत्येव भगवानुत्तरं प्रत्यपद्यत ।
भूयो चाश्वासयामास कौन्तेयं सत्यविक्रमम् ॥ १६॥
यद्यपि स्वेन रूपेण चरिष्यथ महीमिमाम् ।
न वो विज्ञास्यते कश्चित्त्रिषु लोकेषु भारत ॥ १७॥
वर्षं त्रयोदशं चेदं मत्प्रसादात्कुरूर्वहाः ।
विराटनगरे गूढा अविज्ञाताश्चरिष्यथ ॥ १८॥
यद्वः सङ्कल्पितं रूपं मनसा यस्य यादृशम् ।
तादृशं तादृशं सर्वे छन्दतो धारयिष्यथ ॥ १९॥
अरिणी सहितं चेदं ब्राह्मणाय प्रयच्छत ।
जिज्ञासार्थं मया ह्येतदाहृतं मृगरूपिणा ॥ २०॥
तृतीयं गृह्यतां पुत्र वरमप्रतिमं महत् ।
त्वं हि मत्प्रभवो राजन्विदुरश्च ममांश भाक् ॥ २१॥
युधिष्ठिर उवाच ।
देवदेवो मया दृष्टो भवान्साक्षात्सनातनः ।
यं ददासि वरं तुष्टस्तं ग्रहीष्याम्यहं पितः ॥ २२॥
जयेयं लोभमोहौ च क्रोधं चाहं सदा विभो ।
दाने तपसि सत्ये च मनो मे सततं भवेत् ॥ २३॥
धर्म उवाच ।
उपपन्नो गुणैः सर्वैः स्वभावेनासि पाण्डव ।
भवान्धर्मः पुनश्चैव यथोक्तं ते भविष्यति ॥ २४॥
वैशम्पायन उवाच ।
इत्युक्त्वान्तर्दधे धर्मो भगवाँल्लोकभावनः ।
समेताः पाण्डवाश्चैव सुखसुप्ता मनस्विनः ॥ २५॥
अभ्येत्य चाश्रमं वीराः सर्व एव गतक्लमाः ।
आरणेयं ददुस्तस्मै ब्राह्मणाय तपस्विने ॥ २६॥
इदं समुत्थान समागमं महत्
पितुश्च पुत्रस्य च कीर्तिवर्धनम् ।
पठन्नरः स्याद्विजीतेन्द्रियो वशी
सपुत्रपौत्रः शतवर्ष भाग्भवेत् ॥ २७॥
न चाप्यधर्मे न सुहृद्विभेदने
परस्वहारे परदारमर्शने ।
कदर्य भावे न रमेन्मनो सदा
नृणां सदाख्यानमिदं विजानताम् ॥ २८॥
२९९
२९५
जनमेजय उवाच ।
एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् ।
प्रतिलभ्य ततः कृष्णां किमकुर्वन्त पाण्डवाः ॥ १॥
वैशम्पायन उवाच ।
एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् ।
विहाय काम्यकं राजा सह भ्रातृभिरच्युतः ॥ २॥
पुनर्द्वैतवनं रम्यमाजगाम युधिष्ठिरः ।
स्वादुमूलफलं रम्यं मार्कण्डेयाश्रमं प्रति ॥ ३॥
अनुगुप्त फलाहाराः सर्व एव मिताशनाः ।
न्यवसन्पाण्डवास्तत्र कृष्णया सह भारत ॥ ४॥
वसन्द्वैतवने राजा कुन्तीपुत्रो युधिष्ठिरः ।
भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ ॥ ५॥
ब्राह्मणार्थे पराक्रान्ता धर्मात्मानो यतव्रताः ।
क्लेशमार्छन्त विपुलं सुखोदर्कं परन्तपाः ॥ ६॥
अजातशत्रुमासीनं भ्रतृभिः सहितं वने ।
आगम्य ब्राह्मणस्तूर्णं सन्तप्त इदमब्रवीत् ॥ ७॥
अरणी सहितं मह्यं समासक्तं वनस्पतौ ।
मृगस्य घर्षमाणस्य विषाणे समसज्जत ॥ ८॥
तदादाय गतो राजंस्त्वरमाणो महामृगः ।
आश्रमात्त्वरितः शीघ्रं प्लवमानो महाजवः ॥ ९॥
तस्य गत्वा पदं शीघ्रमासाद्य च महामृगम् ।
अग्निहोत्रं न लुप्येत तदानयत पाण्डवाः ॥ १०॥
ब्राह्मणस्य वचो श्रुत्वा सन्तप्तोऽथ युधिष्ठिरः ।
धनुरादाय कौन्तेयः प्राद्रवद्भ्रातृभिः सह ॥ ११॥
सन्नद्धा धन्विनः सर्वे प्राद्रवन्नरपुङ्गवाः ।
ब्राह्मणार्थे यतन्तस्ते शीघ्रमन्वगमन्मृगम् ॥ १२॥
कर्णिनालीकनाराचानुत्सृजन्तो महारथाः ।
नाविध्यन्पाण्डवास्तत्र पश्यन्तो मृगमन्तिकात् ॥ १३॥
तेषां प्रयतमानानां नादृश्यत महामृगः ।
अपश्यन्तो मृगं श्रान्ता दुःखं प्राप्ता मनस्विनः ॥ १४॥
शीतलछायमासाद्य न्यग्रोधं गहने वने ।
क्षुत्पिपासापरीताङ्गाः पाण्डवाः समुपाविशन् ॥ १५॥
तेषां समुपविष्टानां नकुलो दुःखितस्तदा ।
अब्रवीद्भ्रातरं ज्येष्ठममर्षात्कुरुसत्तम ॥ १६॥
नास्मिन्कुले जातु ममज्ज धर्मो
न चालस्यादर्थलोपो बभूव ।
अनुत्तराः सर्वभूतेषु भूयः
सम्प्राप्ताः स्मः संशयं केन राजन् ॥ १७॥
२९६
युधिष्ठिर उवाच ।
नापदामस्ति मर्यादा न निमित्तं न कारणम् ।
धर्मस्तु विभजत्यत्र उभयोः पुण्यपापयोः ॥ १॥
भीम उवाच ।
प्रातिकाम्यनयत्कृष्णां सभायां प्रेष्यवत्तदा ।
न मया निहतस्तत्र तेन प्राप्ताः स्म संशयम् ॥ २॥
अर्जुन उवाच ।
वाचस्तीक्ष्णास्थि भेदिन्यः सूतपुत्रेण भाषिताः ।
अतितीक्ष्णा मया क्षान्तास्तेन प्राप्तः स्म संशयम् ॥ ३॥
सहदेव उवाचा ।
शकुनिस्त्वां यदाजैषीदक्षद्यूतेन भारत ।
स मया न हतस्तत्र तेन प्राप्ताः स्म संशयम् ॥ ४॥
वैशम्पायन उवाच ।
ततो युधिष्ठिरो राजा नकुलं वाक्यमब्रवीत् ।
आरुह्य वृक्षं माद्रेय निरीक्षस्व दिशो दश ॥ ५॥
पानीयमन्तिके पश्य वृक्षान्वाप्युदकाश्रयान् ।
इमे हि भ्रातरः श्रान्तास्तव तात पिपासिताः ॥ ६॥
नकुलस्तु तथेत्युक्त्वा शीघ्रमारुह्य पादमम् ।
अब्रवीद्भ्रातरं ज्येष्ठमभिवीक्ष्य समन्ततः ॥ ७॥
पश्यामि बहुलान्राजन्वृक्षानुदकसंश्रयान् ।
सारसानां च निर्ह्रादमत्रोदकमसंशयम् ॥ ८॥
ततोऽब्रवीत्सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः ।
गच्छ सौम्य ततः शीघ्रं तूर्णं पानीयमानय ॥ ९॥
नकुलस्तु तथेत्युक्त्वा भ्रातुर्ज्येष्ठस्य शासनात् ।
प्राद्रवद्यत्र पानीयं शीघ्रं चैवान्वपद्यत ॥ १०॥
स दृष्ट्वा विमलं तोयं सारसैः परिवारितम् ।
पातु काकस्ततो वाचमन्तरिक्षात्स शुश्रुवे ॥ ११॥
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः ।
प्रश्नानुक्त्वा तु माद्रेय ततः पिब हरस्व च ॥ १२॥
अनादृत्य तु तद्वाक्यं नकुलः सुपिपासितः ।
अपिबच्छीतलं तोयं पीत्वा च निपपात ह ॥ १३॥
चिरायमाणे नकुले कुन्तीपुत्रो युधिष्ठिरः ।
अब्रवीद्भ्रातरं वीरं सहदेवमरिन्दमम् ॥ १४॥
भ्राता चिरायते तात सहदेव तवाग्रजः ।
तं चैवानय सोदर्यं पानीयं च त्वमानय ॥ १५॥
सहदेवस्तथेत्युक्त्वा तां दिशं प्रत्यपद्यत ।
ददर्श च हतं भूमौ भ्रातरं नकुलं तदा ॥ १६॥
भ्रातृशोकाभिसन्तप्तस्तृषया च प्रपीडितः ।
अभिदुद्राव पानीयं ततो वागभ्यभाषत ॥ १७॥
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः ।
प्रश्नानुक्त्वा यथाकामं ततः पिब हरस्व च ॥ १८॥
अनादृत्य तु तद्वाक्यं सहदेवः पिपासितः ।
अपिबच्छीतलं तोयं पीत्वा च निपपात ह ॥ १९॥
अथाब्रवीत्स विजयं कुन्तीपुत्रो युधिष्ठिरः ।
भ्रातरौ ते चिरगतौ बीभत्सो शत्रुकर्शन ।
तौ चैवानय भद्रं ते पानीयं च त्वमानय ॥ २०॥
एवमुक्तो गुडाकेशः प्रगृह्य सशरं धनुः ।
आमुक्तखड्गो मेधावी तत्सरो प्रत्यपद्यत ॥ २१॥
यतः पुरुषशार्दूलौ पानीय हरणे गतु ।
तौ ददर्श हतौ तत्र भ्रातरौ श्वेतवाहनः ॥ २२॥
प्रसुप्ताविव तौ दृष्ट्वा नरसिंहः सुदुःखितः ।
धनुरुद्यम्य कौन्तेयो व्यलोकयत तद्वनम् ॥ २३॥
नापश्यत्तत्र किं चित्स भूतं तस्मिन्महावने ।
सव्यसाची ततः श्रान्तः पानीयं सोऽभ्यधावत ॥ २४॥
अभिधावंस्ततो वाचमन्तरिक्षात्स शुश्रुवे ।
किमासीदसि पानीयं नैतच्छक्यं बलात्त्वया ॥ २५॥
कौन्तेय यदि वैशम्पायन उवाच । प्रश्नान्मयोक्तान्प्रतिपत्स्यसे ।
ततः पास्यसि पानीयं हरिष्यसि च भारत ॥ २६॥
वारितस्त्वब्रवीत्पार्थो दृश्यमानो निवारय ।
यावद्बाणैर्विनिर्भिन्नः पुनर्नैवं वदिष्यसि ॥ २७॥
एवमुक्त्वा ततः पार्थः शरैरस्त्रानुमन्त्रितैः ।
ववर्ष तां दिशं कृत्स्नां शब्दवेधं च दर्शयन् ॥ २८॥
कर्णिनालीकनाराचानुत्सृजन्भरतर्षभ ।
अनेकैरिषुसङ्घातैरन्तरिक्षं ववर्ष ह ॥ २९॥
यक्ष उवाच ।
किं विघातेन ते पार्थ प्रश्नानुक्त्वा ततः पिब ।
अनुक्त्वा तु ततः प्रश्नान्पीत्वैव न भविष्यसि ॥ ३०॥
वैशम्पायन उवाच ।
स त्वमोघानिषून्मुक्त्वा तृष्णयाभिप्रपीडितः ।
अविज्ञायैव तान्प्रश्नान्पीत्वैव निपपात ह ॥ ३१॥
अथाब्रवीद्भीमसेनं कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च बीभत्सुश्चापराजितः ॥ ३२॥
चिरं गतास्तोयहेतोर्न चागच्छन्ति भारत ।
तांश्चैवानय भद्रं ते पानीयं च त्वमानय ॥ ३३॥
भीमसेनस्तथेत्युक्त्वा तां दिशं पत्यपद्यत ।
यत्र ते पुरुषव्याघ्रा भ्रातरोऽस्य निपातिताः ॥ ३४॥
तान्दृष्ट्वा दुःखितो भीमस्तृषया च प्रपीडितः ।
अमन्यत महाबाहुः कर्म तद्यक्षरक्षसाम् ।
स चिन्तयामास तदा योद्धव्यं ध्रुवमद्य मे ॥ ३५॥
पास्यामि तावत्पानीयमिति पार्थो वृकोदरः ।
ततोऽभ्यधावत्पानीयं पिपासुः पुरुषर्षभः ॥ ३६॥
यक्ष उवाच ।
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः ।
प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ॥ ३७॥
वैशम्पायन उवाच ।
एवमुक्तस्ततो भीमो यक्षेणामित तेजसा ।
अविज्ञायैव तान्प्रश्नान्पीत्वैव निपपात ह ॥ ३८॥
ततः कुन्तीसुतो राजा विचिन्त्य पुरुषर्षभः ।
समुत्थाय महाबाहुर्दह्यमानेन चेतसा ॥ ३९॥
अपेतजननिर्घोषं प्रविवेश महावनम् ।
रुरुभिश्च वराहैश्च पक्षिभिश्च निषेवितम् ॥ ४०॥
नीलभास्वरवर्णैश्च पादपैरुपशोभितम् ।
भ्रमरैरुपगीतं च पक्षिभिश्च महायशः ॥ ४१॥
स गच्छन्कानने तस्मिन्हेमजालपरिष्कृतम् ।
ददर्श तत्सरो श्रीमान्विश्वकर्म कृतं यथा ॥ ४२॥
उपेतं नलिनी जालैः सिन्धुवारैश्च वेतसैः ।
केतकैः करवीरैश्च पिप्पलैश्चैव संवृतम् ।
श्रमार्तस्तदुपागम्य सरो दृष्ट्वाथ विस्मितः ॥ ४३॥
२९७
वैशम्पायन उवाच ।
स ददर्श हतान्भ्रातॄँल्लोकपालानिव च्युतान् ।
युगान्ते समनुप्राप्ते शक्र प्रतिमगौरवान् ॥ १॥
विप्रकीर्णधनुर्बाणं दृष्ट्वा निहतमर्जुनम् ।
भीमसेनं यमौ चोभौ निर्विचेष्टान्गतायुरः ॥ २॥
स दीर्घमुष्णं निःश्वस्य शोकबाष्पपरिप्लुतः ।
बुद्ध्या विचिन्तयामास वीराः केन निपातिताः ॥ ३॥
नैषां शस्त्रप्रहारोऽस्ति पदं नेहास्ति कस्य चित् ।
भूतं महदिदं मन्ये भ्रातरो येन मे हताः ।
एकाग्रं चिन्तयिष्यामि पीत्वा वेत्स्यामि वा जलम् ॥ ४॥
स्यात्तु दुर्योधनेनेदमुपांशु विहितं कृतम् ।
गन्धार राजरचितं सततं जिह्मबुद्धिना ॥ ५॥
यस्य कार्यमकार्यं वा सममेव भवत्युत ।
कस्तस्य विश्वसेद्वीरो दुर्मतेरकृतात्मनः ॥ ६॥
अथ वा पुरुषैर्गूढैः प्रयोगोऽयं दुरात्मनः ।
भवेदिति महाबाहुर्बहुधा समचिन्तयत् ॥ ७॥
तस्यासीन्न विषेणेदमुदकं दूषितं यथा ।
मुखवर्णाः प्रसन्ना मे भ्रातॄणां इत्यचिन्तयत् ॥ ८॥
एकैकशश्चौघबलानिमान्पुरुषसत्तमान् ।
कोऽन्यः प्रतिसमासेत कालान्तकयमादृते ॥ ९॥
एतेनाध्यवसायेन तत्तोयमवगाढवान् ।
गाहमानश्च तत्तोयमन्तरिक्षात्स शुश्रुवे ॥ १०॥
यक्ष उवाच ।
अहं बकः शैवलमत्स्यभक्षो
मया नीताः प्रेतवशं तवानुजाः ।
त्वं पञ्चमो भविता राजपुत्र
न चेत्प्रश्नान्पृच्छतो व्याकरोषि ॥ ११॥
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः ।
प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ॥ १२॥
युधिष्ठिर उवाच ।
रुद्राणां वा वसूनां वा मरुतां वा प्रधानभाक् ।
पृच्छामि को भवान्देवो नैतच्छकुनिना कृतम् ॥ १३॥
हिमवान्पारियात्रश् च विन्ध्यो मलय एव च ।
चत्वारः पर्वताः केन पातिता भुवि तेजसा ॥ १४॥
अतीव ते महत्कर्मकृतं बलवतां वर ।
यन्न देवा न गन्धर्वा नासुरा न च राक्षसाः ।
विषहेरन्महायुद्धे कृतं ते तन्महाद्भुतम् ॥ १५॥
न ते जानामि यत्कार्यं नाभिजानामि काङ्क्षितम् ।
कौतूहलं महज्जातं साध्वसं चागतं मम ॥ १६॥
येनास्म्युद्विग्नहृदयः समुत्पन्न शिरो ज्वरः ।
पृच्छामि भगवंस्तस्मात्को भवानिह तिष्ठति ॥ १७॥
यक्ष उवाच ।
यक्षोऽहमस्मि भद्रं ते नास्मि पक्षी जले चरः ।
मयैते निहताः सर्वे भ्रातरस्ते महौजसः ॥ १८॥
वैशम्पायन उवाच ।
ततस्तामशिवां श्रुत्वा वाचं स परुषाक्षराम् ।
यक्षस्य ब्रुवतो राजन्नुपक्रम्य तदा स्थितः ॥ १९॥
विरूपाक्षं महाकायं यक्षं तालसमुच्छ्रयम् ।
ज्वलनार्कप्रतीकाशमधृष्यं पर्वतोपमम् ॥ २०॥
सेतुमाश्रित्य तिष्ठन्तं ददर्श भरतर्षभः ।
मेघगन्मीरया वाचा तर्जयन्तं महाबलम् ॥ २१॥
यक्ष उवाच ।
इमे ते भ्रातरो राजन्वार्यमाणा मयासकृत् ।
बलात्तोयं जिहीर्षन्तस्ततो वैशम्पायन उवाच । सूदिता मया ॥ २२॥
न पेयमुदकं राजन्प्राणानिह परीप्सता ।
पार्थ मा साहसं कार्षीर्मम पूर्वपरिग्रहः ।
प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ॥ २३॥
युधिष्ठिर उवाच ।
नैवाहं कामये यक्ष तव पूर्वपरिग्रहम् ।
कामनैतत्प्रशंसन्ति सन्तो हि पुरुषाः सदा ॥ २४॥
यदात्मना स्वमात्मानं प्रशंसेत्पुरुषः प्रभो ।
यथा प्रज्ञं तु ते प्रश्नान्प्रतिवक्ष्यामि पृच्छ माम् ॥ २५॥
यक्ष उवाच ।
किं स्विदादित्यमुन्नयति केच तस्याभितश्चराः ।
कश्चैनमस्तं नयति कस्मिंश्च प्रतितिष्ठति ॥ २६॥
युधिष्ठिर उवाच ।
ब्रह्मादित्यमुन्नयति देवास्तस्याभितश्चराः ।
धर्मश्चास्तं नयति च सत्ये च प्रतितिष्ठति ॥ २७॥
यक्ष उवाच ।
केन स्विच्छ्रोत्रियो भवति केन स्विद्विन्दते महत् ।
केन द्वितीयवान्भवति राजन्केन च बुद्धिमान् ॥ २८॥
युधिष्ठिर उवाच ।
श्रुतेन श्रोत्रियो भवति तपसा विन्दते महत् ।
धृत्या द्वितीयवान्भवति बुद्धिमान्वृद्धसेवया ॥ २९॥
यक्ष उवाच ।
किं ब्राह्मणानां देवत्वं कश्च धर्मः सतां इव ।
कश्चैषां मानुषो भावः किमेषामसतां इव ॥ ३०॥
युधिष्ठिर उवाच ।
स्वाध्याय एषां देवत्वं तप एषां सतां इव ।
मरणं मानुषो भावः परिवादोऽसतां इव ॥ ३१॥
यक्ष उवाच ।
किं क्षत्रियाणां देवत्वं कश्च धर्मः सतां इव ।
कश्चैषां मानुषो भावः किमेषामसतां इव ॥ ३२॥
युधिष्ठिर उवाच ।
इष्वस्त्रमेषां देवत्वं यज्ञ एषां सतां इव ।
भयं वैशम्पायन उवाच । मानुषो भावः परित्यागोऽसतां इव ॥ ३३॥
यक्ष उवाच ।
किमेकं यज्ञियं साम किमेकं यज्ञियं यजुः ।
का चैका वृश्चते यज्ञं कां यज्ञो नातिवर्तते ॥ ३४॥
युधिष्ठिर उवाच ।
प्राणो वैशम्पायन उवाच । यज्ञियं साम मनो वै यज्ञियं यजुः ।
वागेका वृश्चते यज्ञं तां यज्ञो नातिवर्तते ॥ ३५॥
यक्ष उवाच ।
किं स्विदापततां श्रेष्ठं बीजं निपततां वरम् ।
किं स्वित्प्रतिष्ठमानानां किं स्वित्प्रवदतां वरम् ॥ ३६॥
युधिष्ठिर उवाच ।
वर्षमापततां श्रेष्ठं बीजं निपततां वरम् ।
गावः प्रतिष्ठमानानां पुत्रः प्रवदतां वरः ॥ ३७॥
यक्ष उवाच ।
इन्द्रियार्थाननुभवन्बुद्धिमाँल्लोकपूजितः ।
संमतः सर्वभूतानामुच्छ्वसन्को न जीवति ॥ ३८॥
युधिष्ठिर उवाच ।
देवतातिथिभृत्यानां पितॄणामात्मनश्च यः ।
न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति ॥ ३९॥
यक्ष उवाच ।
किं स्विद्गुरुतरं भूमेः किं स्विदुच्चतरं च खात् ।
किं स्विच्छीघ्रतरं वायोः किं स्विद्बहुतरं नृणाम् ॥ ४०॥
युधिष्ठिर उवाच ।
माता गुरुतरा भूमेः पिता उच्चरतश्च खात् ।
मनो शीघ्रतरं वायोश्चिन्ता बहुतरी नृणाम् ॥ ४१॥
यक्ष उवाच ।
किं स्वित्सुप्तं न निमिषति किं स्विज्जातं न चोपति ।
कस्य स्विद्धृदयं नास्ति किं स्विद्वेगेन वर्घते ॥ ४२॥
युधिष्ठिर उवाच ।
मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति ।
अश्मनो हृदयं नास्ति नदीवेगेन वर्धते ॥ ४३॥
यक्ष उवाच ।
किं स्वित्प्रवसतो मित्रं किं स्विन्मित्रं गृहे सतः ।
आतुरस्य च किं मित्रं किं स्विन्मित्रं मरिष्यतः ॥ ४४॥
युधिष्ठिर उवाच ।
सार्थः प्रवसतो मित्रं भार्या मित्रं गृहे सतः ।
आतुरस्य भिषन्मित्रं दानं मित्रं मरिष्यतः ॥ ४५॥
यक्ष उवाच ।
किं स्विदेको विचरति जातः को जायते पुनः ।
किं स्विद्धिमस्य भैषज्यं किं स्विदावपनं महत् ॥ ४६॥
युधिष्ठिर उवाच ।
सूर्य एको विचरति चन्द्रमा जायते पुनः ।
अग्निर्हिमस्य भैषज्यं भूमिरापवनं महत् ॥ ४७॥
यक्ष उवाच ।
किं स्विदेकपदं धर्म्यं किं स्विदेकपदं यशः ।
किं स्विदेकपदं स्वर्ग्यं किं स्विदेकपदं सुखम् ॥ ४८॥
युधिष्ठिर उवाच ।
दाक्ष्यमेकपदं धर्म्यं दानमेकपदं यशः ।
सत्यमेकपदं स्वर्ग्यं शीलमेकपदं सुखम् ॥ ४९॥
यक्ष उवाच ।
किं स्विदात्मा मनुष्यस्य किं स्विद्दैवकृतः सखा ।
उपजीवनं किं स्विदस्य किं स्विदस्य परायणम् ॥ ५०॥
युधिष्ठिर उवाच ।
पुत्र आत्मा मनुष्यस्य भार्या दैवकृतः सखा ।
उपजीवनं च पर्जन्यो दानमस्य परायणम् ॥ ५१॥
यक्ष उवाच ।
धन्यानामुत्तमं किं स्विद्धनानां किं स्विदुत्तमम् ।
लाभानामुत्तमं किं स्वित्किं सुखानां तथोत्तमम् ॥ ५२॥
युधिष्ठिर उवाच ।
धन्यानामुत्तमं दाक्ष्यं धनानामुत्तमं श्रुतम् ।
लाभानां श्रेष्ठमारोग्यं सुखानां तुष्टिरुत्तमा ॥ ५३॥
यक्ष उवाच ।
कश्च धर्मः परो लोके कश्च धर्मः सदा फलः ।
किं नियम्य न शोचन्ति कैश्च सन्धिर्न जीर्यते ॥ ५४॥
युधिष्ठिर उवाच ।
आनृशंस्यं परो धर्मस्त्रयीधर्मः सदा फलः ।
अनो यम्य न शोचन्ति सद्भिः सन्धिर्न जीर्यते ॥ ५५॥
यक्ष उवाच ।
किं नु हित्वा प्रियो भवति किं नु हित्वा न शोचति ।
किं नु हित्वार्थवान्भवति किं नु हित्वा सुखी भवेत् ॥ ५६॥
युधिष्ठिर उवाच ।
मानं हित्वा प्रियो भवति क्रोधं हित्वा न शोचति ।
कामं हित्वार्थवान्भवति लोभं हित्वा सुखू भवेत् ॥ ५७॥
यक्ष उवाच ।
मृतं कथं स्यात्पुरुषः कथं राष्ट्रं मृतं भवेत् ।
श्राधं मृतं कथं च स्यात्कथं यज्ञो मृतो भवेत् ॥ ५८॥
युधिष्ठिर उवाच ।
मृतो दरिद्रः पुरुषो मृतं राष्ट्रमराजकम् ।
मृतमश्रोत्रियं श्राद्धं मृतो यज्ञो त्वदक्षिणः ॥ ५९॥
यक्ष उवाच ।
का दिक्किमुदकं प्रोक्तं किमन्नं पार्थ किं विषम् ।
श्राद्धस्य कालमाख्याहि ततः पिब हरस्व च ॥ ६०॥
युधिष्ठिर उवाच ।
सन्तो दिग्जलमाकाशं गौरन्नं प्रार्थना विषम् ।
श्राद्धस्य ब्राह्मणः कालः कथं वा यक्ष मन्यसे ॥ ६१॥
यक्ष उवाच ।
व्याख्याता मे त्वया प्रश्ना याथातथ्यं परन्तप ।
पुरुषं त्विदानीमाख्याहि यश्च सर्वधनी नरः ॥ ६२॥
युधिष्ठिर उवाच ।
दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः ।
यावत्स शब्दो भवति तावत्पुरुष उच्यते ॥ ६३॥
तुल्ये प्रियाप्रिये यस्य सुखदुःखे तथैव च ।
अतीतानागते चोभे स वैशम्पायन उवाच । सर्वधनी नरः ॥ ६४॥
यक्ष उवाच ।
व्याख्यातः पुरुषो राजन्यश्च सर्वधनी नरः ।
तस्मात्तवैको भ्रातॄणां यमिच्छसि स जीवतु ॥ ६५॥
युधिष्ठिर उवाच ।
श्यामो य एष रक्ताक्षो बृहच्छाल इवोद्गतः ।
व्यूढोरस्को महाबाहुरङ्कुलो यक्ष जीवतु ॥ ६६॥
यक्ष उवाच ।
प्रियस्ते भीमसेनोऽयमर्जुनो वः परायणम् ।
स कस्मान्नकुलं राजन्सापत्नं जीवमिच्छसि ॥ ६७॥
यस्य नागसहस्रेण दश सङ्ख्येन वैशम्पायन उवाच । बलम् ।
तुल्यं तं भीममुत्सृज्य नकुलं जीवमिच्छसि ॥ ६८॥
तथैनं मनुजाः प्राहुर्भीमसेनं प्रियं तव ।
अथ केनानुभावेन सापत्नं जीवमिच्छसि ॥ ६९॥
यस्य बाहुबलं सर्वे पाण्डवाः समुपाश्रिताः ।
अर्जुनं तमपाहाय नकुलं जीवमिच्छसि ॥ ७०॥
युधिष्ठिर उवाच ।
आनृशंस्य परो धर्मः परमार्थाच्च मे मतम् ।
आनृशंस्यं चिकीर्षामि नकुलो यक्ष जीवतु ॥ ७१॥
धर्मशीलः सदा राजा इति मां मानवा विदुः ।
स्वधर्मान्न चलिष्यामि नकुलो यक्ष जीवतु ॥ ७२॥
यथा कुन्ती तथा माद्री विशेषो नास्ति मे तयोः ।
मातृभ्यां सममिच्छामि नकुलो यक्ष जीवतु ॥ ७३॥
यक्ष उवाच ।
यस्य तेऽर्थाच्च कामाच्च आनृशंस्यं परं मतम् ।
अस्मात्ते भ्रातरः सर्वे जीवन्तु भरतर्षभ ॥ ७४॥
२९८
वैशम्पायन उवाच ।
ततस्ते यक्षवचनादुदतिष्ठन्त पाण्डवाः ।
क्षुत्पिपासे च सर्वेषां क्षणे तस्मिन्व्यगच्छताम् ॥ १॥
युधिष्ठिर उवाच ।
रसस्येकेन पादेन तिष्ठन्तमपराजितम् ।
पृच्छामि को भवान्देवो न मे यक्षो मतो भवान् ॥ २॥
वसूनां वा भवानेको रुद्राणामथ वा भवान् ।
अथ वा मरुतां श्रेष्ठो वर्जी वा त्रिदशेश्वरः ॥ ३॥
मम हि भ्रातर इमे सहस्रशतयोधिनः ।
न तं योगं प्रपश्यामि येन स्युर्विनिपातिताः ॥ ४॥
सुखं प्रतिविबुद्धानामिन्द्रियाण्युपलक्षये ।
स भवान्सुहृदस्माकमथ वा नः पिता भवान् ॥ ५॥
यक्ष उवाच ।
अहं ते जनकस्तात धर्मो मृदु पराक्रम ।
त्वां दिदृक्षुरनुप्राप्तो विद्धि मां भरतर्षभ ॥ ६॥
यशो सत्यं दमः शौचमार्जवं ह्रीरचापलम् ।
दानं तपो ब्रह्मचर्यमित्येतास्तनवो मम ॥ ७॥
अहिंसा समता शान्तिस्तपो शौचममत्सरः ।
द्वाराण्येतानि मे विद्धि प्रियो ह्यसि सदा मम ॥ ८॥
दिष्ट्या पञ्चसु रक्तोऽसि दिष्ट्या ते षट्पदी जिता ।
द्वे पूर्वे मध्यमे द्वे च द्वे चान्ते साम्परायिके ॥ ९॥
धर्मोऽहमस्मि भद्रं ते जिज्ञासुस्त्वमिहागतः ।
आनृशंस्येन तुष्टोऽस्मि वरं दास्यामि तेऽनघ ॥ १०॥
वरं वृणीष्व राजेन्द्र दाता ह्यस्मि तवानघ ।
ये हि मे पुरुषा भक्ता न तेषामस्ति दुर्गतिः ॥ ११॥
युधिष्ठिर उवाच ।
अरणी सहितं यस्य मृग आदाय गच्छति ।
तस्याग्नयो न लुप्येरन्प्रथमोऽस्तु वरो मम ॥ १२॥
धर्म उवाच ।
अरणी सहितं तस्य ब्राह्मणस्य हृतं मया ।
मृगवेषेण कौन्तेय जिज्ञासार्थं तव प्रभो ॥ १३॥
वैशम्पायन उवाच ।
ददानीत्येव भवगानुत्तरं प्रत्यपद्यत ।
अन्यं वरय भद्रं ते वरं त्वममरोपम ॥ १४॥
युधिष्ठिर उवाच ।
वर्षाणि द्वादशारण्ये त्रयोदशमुपस्थितम् ।
तत्र नो नाभिजानीयुर्वसतो मनुजाः क्व चित् ॥ १५॥
वैशम्पायन उवाच ।
ददानीत्येव भगवानुत्तरं प्रत्यपद्यत ।
भूयो चाश्वासयामास कौन्तेयं सत्यविक्रमम् ॥ १६॥
यद्यपि स्वेन रूपेण चरिष्यथ महीमिमाम् ।
न वो विज्ञास्यते कश्चित्त्रिषु लोकेषु भारत ॥ १७॥
वर्षं त्रयोदशं चेदं मत्प्रसादात्कुरूर्वहाः ।
विराटनगरे गूढा अविज्ञाताश्चरिष्यथ ॥ १८॥
यद्वः सङ्कल्पितं रूपं मनसा यस्य यादृशम् ।
तादृशं तादृशं सर्वे छन्दतो धारयिष्यथ ॥ १९॥
अरिणी सहितं चेदं ब्राह्मणाय प्रयच्छत ।
जिज्ञासार्थं मया ह्येतदाहृतं मृगरूपिणा ॥ २०॥
तृतीयं गृह्यतां पुत्र वरमप्रतिमं महत् ।
त्वं हि मत्प्रभवो राजन्विदुरश्च ममांश भाक् ॥ २१॥
युधिष्ठिर उवाच ।
देवदेवो मया दृष्टो भवान्साक्षात्सनातनः ।
यं ददासि वरं तुष्टस्तं ग्रहीष्याम्यहं पितः ॥ २२॥
जयेयं लोभमोहौ च क्रोधं चाहं सदा विभो ।
दाने तपसि सत्ये च मनो मे सततं भवेत् ॥ २३॥
धर्म उवाच ।
उपपन्नो गुणैः सर्वैः स्वभावेनासि पाण्डव ।
भवान्धर्मः पुनश्चैव यथोक्तं ते भविष्यति ॥ २४॥
वैशम्पायन उवाच ।
इत्युक्त्वान्तर्दधे धर्मो भगवाँल्लोकभावनः ।
समेताः पाण्डवाश्चैव सुखसुप्ता मनस्विनः ॥ २५॥
अभ्येत्य चाश्रमं वीराः सर्व एव गतक्लमाः ।
आरणेयं ददुस्तस्मै ब्राह्मणाय तपस्विने ॥ २६॥
इदं समुत्थान समागमं महत्
पितुश्च पुत्रस्य च कीर्तिवर्धनम् ।
पठन्नरः स्याद्विजीतेन्द्रियो वशी
सपुत्रपौत्रः शतवर्ष भाग्भवेत् ॥ २७॥
न चाप्यधर्मे न सुहृद्विभेदने
परस्वहारे परदारमर्शने ।
कदर्य भावे न रमेन्मनो सदा
नृणां सदाख्यानमिदं विजानताम् ॥ २८॥
अध्याय नाम
१. उपासनाप्राधान्यनिरूपणम्
२. मार्गत्रयकथनम्
३. मुख्यकर्तव्य निरूपणम्
४. ज्ञानस्वरूपकथनम्
५. हृदयविद्या
६. मनोनिग्रहोपायः
७. आत्मविचाराधिकारितदङ्गनिरूपणम्
८. आश्रमविचारः
९. ग्रन्थिभेदकथनम्
१०. सङ्धविद्या
११. ज्ञानसिद्धिसामरस्यकथनम्
१२. शक्तिविचारः
१३. संन्यासे स्त्रीपुरुषयोस्तुल्याधिकारनिरूपणम्
१४. जीवन्मुक्ति विचारः
१५. श्रवणमनननिदिध्यासननिरूपणम्
१६. भक्तिविचारः
१७. ज्ञानप्राप्तिविचारः
१८. सिद्धमहिमानुकीर्तनम्
॥ श्रीरमणगीता ॥
अथ प्रथमोऽध्यायः । (उपासनाप्राधान्यनिरूपणम्)
महर्षि रमणं नत्वा कार्तिकेयं नराकृतिम् ।
मतं तस्य प्रसन्नेन ग्रन्थेनोपनिबध्यते ॥ १॥
इषपुत्रशके राम भूमिनन्दधरामिते ।
एकोन्त्रिंशद्दिवसे द्वादशे मासि शीतले ॥ २॥
उपविष्टेषु सर्वेषु शिष्येषु नियतात्मसु ।
भगवन्तमृषि सोऽहमपृच्छं निर्णयाप्तये ॥ ३॥
प्रथमः प्रश्नः
सत्यासत्यविवेकेन मुच्यते केवलेन किम् ।
उताहो बन्धहानाय विद्यते साधनान्तरम् ॥ ४॥
द्वितीयः प्रश्नः
किमलं शास्त्रचर्चैव जिज्ञासूनां विमुक्तये ।
यथा गुरुपदेशं किमुपासनपेक्षते ॥ ५॥
तृतीय प्रश्नः
स्थितप्रज्ञः स्थितप्रज्ञमात्मानं किं समर्थयेत् ।
विदित्वा परिपूर्णत्वं ज्ञानस्योपरतेरुत ॥ ६॥
चतुर्थः प्रश्नः
ज्ञानिनं केन लिङ्गेन ज्ञातुं शक्ष्यन्ति कोविदाः ॥ ७॥
पञ्चमः प्रश्नः
ज्ञानायैव समाधिः किं कामायाप्युत कल्पते ॥ ७॥
षष्ठः प्रश्नः
कामेन योगमभ्यस्य स्थितप्रज्ञो भवेद्यदि ।
सकामोऽमुष्य साफल्यमधिगच्छति वा न वा ॥ ८॥
एवं मम गुरुः प्रश्नानकर्ण्य करुणानिधिः ।
अब्रवीत्संशयच्छेदी रमणो भगवानृषिः ॥ ९॥
प्रथमप्रश्नस्योत्तरम्
मोचयेत्सकलान् बन्धानात्मनिष्ठैव केवलम् ।
सत्यासत्यविवेकं तु प्राहुर्वैराग्यसाधनम् ॥ १०॥
सदा तिष्ठति गम्भीरो ज्ञानी केवलमात्मनि ।
नासत्यं चिन्तयेद्विश्वं न वा स्वस्य तदन्यताम् ॥ ११॥
द्वितीयप्रश्नस्योत्तरम्
न संसिद्धिर्विजिज्ञासोः केवलं शास्त्रचर्चया ।
उपासनं विना सिद्धिर्नैव स्यादिति निर्णयः ॥ १२॥
अभ्यासकाले सहजां स्थितिं प्राहुरुपासनम् ।
सिद्धिं स्थिरां यदा गच्छेत्सैव ज्ञानं तदोच्यते ॥ १३॥
विषयान्त्सम्परित्यज्य स्वस्वभावेन संस्थितिः ।
ज्ञानज्वालाकृतिः प्रोक्त्ता सहजा स्थितिरात्मनः ॥ १४॥
तृतीयप्रश्नस्योत्तरम्
निर्वासेन मौनेन स्थिरायां सहजस्थितौ ।
ज्ञानी ज्ञानिनमात्मानं निःसन्देहः समर्थयेत् ॥ १५॥
चतुर्थप्रश्नस्योत्तरम्
सर्वभूतसमत्वेन लिङ्गेन ज्ञानमूह्यताम् ।
पञ्चमप्रश्नस्योत्तरम्
कामारब्धस्समाधिस्तु कामं फलै निश्चितम् ॥ १६॥
षष्ठप्रश्नस्योत्तरम्
कामेन योगमभ्यस्य स्थितप्रज्ञो भवेद्यदि ।
स कामोऽमुष्य साफल्यं गच्छन्नपि न हर्षयेत् ॥ १७॥
॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो
वासिष्ठस्य गणपतेरुपनिबन्धे उपासनप्राधान्यनिरूपणं
नाम प्रथमोऽध्यायः ॥ १
अथ द्वितीयोऽध्यायः । (मार्गत्रयकथनम्)
ईशपुत्रशके बाणभूमिनन्दधरामिते ।
चातुर्मास्ये जगौ सारं सङ्गृह्य भगवानृषि ॥ १॥
हृदयकुहरमध्ये केवलं ब्रह्ममात्रं
ह्यहमहमिति साक्षादात्मरूपेण भाति ।
हृदि विश मनसा स्वं चिन्व्ता मज्जता वा
पवनचलनरोधादात्मनिष्ठो भव त्वम् ॥ २॥
श्लोकं भगवतो वक्त्रान्महर्षेरिममुद्गतम् ।
श्रुत्यन्तसारं यो वेद संशयो नास्य जातुचित् ॥ ३॥
अत्र श्लोके भगवता पूर्वार्धे स्थानमीरितम् ।
शारीरकस्य दृश्येऽस्मिञ्छरीरे पाञ्चभौतिके ॥ ४॥
तत्रैव लक्षणं चोक्तं द्वैतमीशा च वारितम् ।
उक्तं चाप्यपरोक्षत्वं नानालिङ्गनिबर्हणम् ॥ ५॥
उपदेशो द्वितीयार्धे शिष्याभ्यासकृते कृतः ।
त्रेधा भिन्नेन मार्गेण तत्त्वादैक्यं समीयुषा ॥ ६॥
उपायो मार्गणाभिख्यः प्रथमः सम्प्रकीर्तितः ।
द्वितीयो मज्ज्नाभिख्यः प्राणरोधस्तृतीयकः ॥ ७॥
॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो
वासिष्ठस्य गणपतेरुपनिबन्धे मार्गत्रयकथनं
नाम द्वितीयोऽध्यायः ॥ २
अथ तृतीयोऽध्यायः । (मुख्यकर्तव्यनिरूपणम्)
दैवरातस्य संवादमाचार्यरमणस्य च ।
निबध्नीमस्तृतीयेऽस्मिन्नध्याये विदुषां मुदे ॥ १॥
दैवरत उवाच
किं कर्तव्य मनुष्यस्य प्रधानमिह संसृतौ ।
एकं निर्धाय भगवांस्तन्मे व्याख्यातुमर्हति ॥ २॥
भगवानुवाच
स्वस्य स्वरूपं विज्ञेयं प्रधानं महदिच्छता ।
प्रतिष्ठा यत्र सर्वेषां फलानामुत कर्मणाम् ॥ ३॥
दैवरात उवाच
स्वस्य स्वरूपविज्ञाने साधनं किं समासतः ।
सिध्येत्केन प्रयत्नेन प्रत्यग्दृष्टिर्महीयसि ॥ ४॥
भगवानुवाच
विषयेभ्यः परावृत्य वृत्तीः सर्वाः प्रयत्नतः ।
विमर्शे केवलं तिष्ठेदचले निरुपाधिके ॥ ५॥
स्वस्य स्वरूपविज्ञाने साधनं तत्समासतः ।
सिध्येत्तेनैव यत्नेन प्रत्यग्दृष्टिर्महीयसि ॥ ६॥
दैवरात उवाच
यावत्सिद्धिर्भवेन्नॄणां योगस्य मुनिकुञ्जर ।
तावन्तं नियमाः कालं किं यत्नमुपकुर्वते ॥ ७॥
भगवानुवाच
प्रयत्नमुपकुर्वन्ति नियमा युञ्जतां सताम् ।
सिद्धानां कृतकृत्यानां गलन्ति नियमास्स्वयम् ॥ ८॥
दैवरात उवाच
केवलेन विमर्शेन स्थिरेण निरुपाधिना ।
यथा सिद्धिस्तथा मन्त्रैर्जप्तैः सिद्धिर्भवेन्न वा ॥ ९॥
भगवानुवाच
अचञ्चलेन मनसा मन्त्रैर्जप्तैर्निरन्तरम् ।
सिद्धिः स्याच्छद्दधानानां जप्तेन प्रणवेन वा ॥ १०॥
वृतिर्जपेन मन्त्राणां शुद्धस्य प्रणवस्य वा ।
विषयेभ्यः परावृत्ता स्वस्वरूपात्मिका भवेत् ॥ ११॥
ईशपुत्रशके शैलभूमिनन्दधरामिते ।
सप्तमे सप्तमे सोऽयं संवादोऽभवदद्भुतः ॥ १२॥
॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो
वासिष्ठस्य गणपतेरुपनिबन्धे मुख्यकर्तव्यनिरूपणं
नाम तृतीयोऽध्यायः ॥ ३
अथ चतुर्थोऽध्यायः । (ज्ञानस्वरूपकथनम्)
प्रथमः प्रश्नः
अहं ब्रह्मास्मीति वृत्तिः किं ज्ञानं मुनिकुञ्जर ।
उत ब्रह्माहमिति धीर्धीरहं सर्वमित्युत ॥ १॥
अथवा सकलं चैतद्ब्रह्मेति ज्ञानमुच्यते ।
अस्माद्वृत्तिचतुष्काद्वा किं नु ज्ञानं विलक्षणम् ॥ २॥
अस्योत्तरम्
इमं मम गुरुः प्रश्नमन्तेवासिन आदरात् ।
आकर्ण्य रमणो वाक्यमुवाच भगवान्मुनि ॥ ३॥
वृत्तयो भावना एव सर्वा एता न संशयः ।
स्वरूपावस्थितिं शुद्धां ज्ञानमाहुर्मनीषिणः ॥ ४॥
गुरोर्वचस्तदाकर्ण्य संशयच्छेदकारकम् ।
अपृच्छं पुनरेवाहमन्यं संशयमुद्गतम् ॥ ५॥
द्वितीय प्रश्नः
वृत्तिव्याप्यं भवेद्ब्रह्म न वा नाथ तपस्विनाम् ।
इमं मे हृदि सञ्जातं संशयं छेत्तुमर्हसि ॥ ६॥
तमिमं प्रश्नमाकर्ण्य मित्रमङ्ध्रिजुषामृषिः ।
अभिषिच्य कटाक्षेण मामिदं वाक्यमब्रवीत् ॥ ७॥
अस्योत्तरम्
स्वात्मभूतं यदि ब्रह्म ज्ञातुं वृत्तिः प्रवर्तते ।
स्वात्माकारा तदा भूत्वा न पृथक् प्रतितिष्ठति ॥ ८॥
अयं प्रागुक्त एवाब्दे सप्तमे त्वेकविंशके ।
अभवन्नो मितग्रन्थः संवादो रोमहर्षणः ॥ ९॥
॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो
वासिष्ठस्य गणपतेरुपनिबन्धे ज्ञानस्वरुपकथनं
नाम चतुर्थोऽध्यायः ॥ ४
अथ पञ्चमोऽध्यायः । (हृदयविद्या)
प्रागुक्तेऽब्देऽष्टमे मासि नवमे दिवसे निशि ।
उपन्यसितवान् संयगुद्दिश्य हृदयं मुनिः ॥ १॥
निर्गच्छन्ति यतः सर्वा वृत्तयोः देहधारिणाम् ।
हृदयं तत्समाख्यातं भावनाऽऽकृतिवर्णनम् ॥ २॥
अहंवृत्तिः समस्तानां वृत्तीनां मूलमुच्यते ।
निर्गच्छन्ति यतोऽहन्धीर्हृदयं तत्समासतः ॥ ३॥
हृदयस्य यदि स्थानं भवेच्चक्रमनाहतम् ।
मूलाधारं समारभ्य योगस्योपक्रमः कुतः ॥ ४॥
अन्यदेव ततो रक्तपिण्डाददृदयमुच्यते
अयं हृदिति वृत्त्या तदात्मनो रूपमीरितम् ॥ ५॥
तस्य दक्षिणतो धाम हृत्पीठे नैव वामतः ।
तस्मात्प्रवहति ज्योतिः सहस्रारं सुषुम्णया ॥ ६॥
सर्वं देहं सहस्रारात्तदा लोकानुभूतयः ।
ताः प्रपश्यन् विभेदेन संसारी मनुजो भवेत् ॥ ७॥
आत्मस्थस्य सहस्रारं शुद्धं ज्योतिर्मयं भवेत् ।
तत्र जीवेन्न सङ्कल्पो यदि सान्निध्यतः पतेत् ॥ ८॥
विज्ञानमानविषयं सन्निकर्षेण यद्यपि ।
न भवेद्योगभङ्गाय भेदस्याग्रहणे मनः ॥ ९॥
गृह्यतोऽपि स्थिरैकाधीः सहजा स्थितिरुच्यते ।
निर्विकल्पः समाधिस्तु विषयासन्निधौ भवेत् ॥ १०॥
अण्डं वपुषि निःशेषं निःशेषं हृदये वपुः ।
तस्मादण्डस्य सर्वस्य हृदयं रुपसङ्ग्रहः ॥ ११।
भुवनं मनसो नान्यदन्यन्न हृदयान्मनः ।
अशेषा हृदये तस्मात्कथा परिसमाप्यते ॥ १२॥
कीर्त्यते हृदयं पिण्डे यथाण्डे भानूमण्डलम् ।
मनः सहस्रारगतं बिम्बं चान्द्रमसं यथा ॥ १३॥
यथा ददाति तपनस्तेजः कैरवबन्धवे ।
इदं वितरति ज्योतिर्ह्रदयं मनसे तथा ॥ १४॥
ह्रद्यसन्निहितो मर्त्यो मनः केवलमीक्षते ।
असन्निकर्षे सूर्यस्य रात्रौ चन्द्रे यथा महः ॥ १५॥
अपश्यंस्तेजसो मूलं स्वरूपं सत्यमात्मनः ।
मनसा च पृथक्पश्यन् भावान् भ्राम्यति पामरः ॥ १६॥
हृदि सन्निहितो ज्ञानी लीनं हृदयतेजसि ।
ईक्षते मानसं तेजो दिवा भानाविवैन्दवम् ॥ १७॥
प्रज्ञानस्य प्रवेत्तारो वाच्यमर्थं मनो विदुः
अर्थं तु लक्ष्यं हृदयं हृदयान्नपरः परः ॥ १८॥
दृग्दृश्यभेदधीरेषा मनसि प्रतितिष्ठति ।
हृदये वर्तमानां दृग्दृश्येनैकतां व्रजेत् ॥ १९॥
मूर्च्छा निद्रातिसन्तोषशोकावेशभयादिभिः ।
निमित्तैराहता वृत्तिः स्वस्थानं हृदयं व्रजेत् ॥ २०॥
तदा न ज्ञायते प्राप्तिर्हृदयस्य शरीरिणा ।
विज्ञायते समाधौ तु नामभेदो निमित्ततः ॥ २१॥
॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो
वासिष्ठस्य गणपतेरुपनिबन्धे हृदयविद्या
नाम पञ्चमोऽध्यायः ॥ ५
अथ षष्टोऽध्यायः । (मनोनिग्रहोपायः)
निरुप्य हृदयस्यैवं तत्त्वं तत्त्वविदां वरः ।
मनसो निग्रहोपायमवदद्रमणो मुनिः ॥ १॥
नित्यवत्तिमतां नॄणां विषयासक्त्तचेतसाम् ।
वासनानां बलियस्त्वान्मनो दुर्निग्रहं भवेत् ॥ २॥
चपलं तन्निगृह्णीयात्प्राणरोधेन मानवः ।
पाशबद्धो यथा जन्तुस्तथा चेतो न चेष्टते ॥ ३॥
प्राणरोधेन वृत्तिनां निरोधः साधितो भवेत् ।
वृत्तिरोधेन वृत्तिनां जन्मस्थाने स्थितो भवेत् ॥ ४॥
प्राणरोधश्च मनसा प्राणस्य प्रत्यवेक्षणम् ।
कुम्भकं सिध्यति ह्येयं सततप्रत्यवेक्षणात् ॥ ५॥
येषां नैतेन विधिना शक्तिः कुम्भकसाधने ।
हठयोगविधानेन तेषां कुम्भकमिष्यते ॥ ६॥
एकदा रेचकं कुर्यात्कुर्यात्पूरकमेकदा ।
कुम्भकं तु चतुर्वारं नाडीशुद्धिर्भवेत्ततः ॥ ७॥
प्राणो नाडीषु शुद्धासु निरुद्धः क्रमशो भवेत् ।
प्राणस्य सर्वधा रोधः शुद्धं कुम्भकमुच्यते ॥ ८॥
त्यागं देहात्मभावस्य रेचकं ज्ञानिनः परे ।
पूरकं मार्गणं स्वस्य कुम्भकं सहजस्थितिम् ॥ ९॥
जपेन वाऽथ मन्त्राणां मनसो निग्रहो भवेत् ।
मानसेन तदा मन्त्रप्राणयोरेकता भवेत् ॥ १०॥
मन्त्राक्षराणां प्राणेन सायुज्यं ध्यानमुच्यते ।
सहजस्थितये ध्यानं दृढभूमिः प्रकल्पते ॥ ११॥
सहवासेन महतां सतामारुढचेतसाम्
क्रियमाणेन वा नित्यं स्थाने लीनं मनो भवेत् ॥ १२॥
॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो
वासिष्ठस्य गणपतेरुपनिबन्धे मनोनिग्रहोपायः
नाम षष्टोऽध्यायः ॥ ६
अथ सप्तमोऽध्यायः । (आत्मविचाराधिकारितदङ्गनिरूपणम्)
भारद्वाजस्य वै कार्ष्णेराचार्यरमणस्य च ।
अध्याये कथ्यते श्रेष्ठः संवाद इह सप्तमे ॥ १॥
कार्ष्णिरुवाच
रूपमात्मविचारस्य किं नु किं वा प्रयोजनम् ।
लभ्यादात्मविचारेण फलं भूयोऽन्यतोऽस्ति वा ॥ २॥
भगवानुवाच
सर्वासामपि वृत्तीनां समष्टिर्या समीरिता ।
अहंवृत्तेरमुष्यास्तु जन्मस्थानं विमृश्यताम् ॥ ३॥
एष आत्मविचारः स्यन्न शास्त्रपरिशीलनम् ।
अहङ्कारो विलीनः स्यान्मूलस्थानगवेषणे ॥ ४॥
आत्माभासस्त्वहङ्कारः स यदा सम्प्रलियते ।
आत्मा सत्योऽभितः पूर्णः केवलः परिशिष्यते ॥ ५॥
सर्वक्लेशनिवृत्तिः स्यात्फलमात्मविचारतः ।
फलानामवधिः सोऽयमस्ति नेतोऽधिकं फलम् ॥ ६॥
अद्भुताः सिद्धयः साध्या उपायान्तरतश्च याः ।
ताः प्राप्तोऽपि भवत्यन्ते विचारेणैव निवृतः ॥ ७॥
कार्ष्णिरुवाच
एतस्यात्मविचारस्य प्राहुः कमधिकारिणम् ।
अधिकारस्य सम्पत्तिः किं ज्ञातुं शक्यते स्वयम् ॥ ८॥
भगवानुवाच
उपासनादिभिः शुद्धं प्राग्जमसुकृतेन वा ।
दृष्टदोषं मनो यस्य शरीरे विषयेषु च ॥ ९॥
मनसा चरतो यस्य विष्येष्वरुचिर्भृशम् ।
देहे चानित्यता बुद्धिस्तं प्रहुरधिकारिणम् ॥ १०॥
देहे नश्वरताबुद्धेर्वैराग्याद्विषयेषु च ।
एताभ्यामेव लिङ्गाभ्यां ज्ञेया स्वस्याधिकारिता ॥ ११॥
कार्ष्णिरुवाच
स्नानं सन्ध्यां जपो होमः स्वाध्यायो देवपूजनम् ।
सङ्कीर्तनं तिर्थयात्रा यज्ञो दानं व्रतानि च ॥ १२॥
विचारे साधिकारस्य वैराग्याच्च विवेकतः ।
किं वा प्रयोजनाय स्युरुत कालविधूतये ॥ १३॥
भगवानुवाच
आरम्भिणां क्षीयमाणरागाणामधिकारिणाम् ।
कर्माण्येतानि सर्वाणि भूयस्यै चितशिद्धये ॥ १४॥
यत्कर्म सुकृतं प्रोक्तं मनोवाक्कायसम्भवम् ।
तत्तु कर्मान्तरं हन्ति मनोवाक्कायसम्भवम् ॥ १५॥
अत्यन्तशुद्धमनसां पक्वानामधिकारिणाम् ।
इदं लोकोपकाराय कर्मजालं भविष्यति ॥ १६॥
परेषामुपदेशाय् क्षेमाय च मनीषिणः ।
पक्वाश्च कर्म कुर्वन्ति भयान्नादेशशास्त्रतः ॥ १७॥
विचारप्रतिकूलानि न पुण्यानि नरर्षभ ।
क्रियमाणान्यसङ्गेन भेदबुद्ध्युपमर्दिना ॥ १८॥
न चाकृतानि पापाय पक्वनामधिकारिणाम् ।
स्वविमर्शो महत्पुण्यं पावनानां हि पावनम् ॥ १९॥
दृश्यते द्विविधा निष्ठा पक्वानामधिकारिणाम् ।
त्याग एकान्तयोगाय परार्थं च क्रियादरः ॥ २०॥
कार्ष्णिरुवाच
निर्वाणायास्ति चेदन्यो मार्ग आत्मविचारतः ।
एको वा विविधस्तं मे भगवान्वक्तुमर्हति ॥ २१॥
भगवानुवाच
एकः प्राप्तुं प्रयतते परः प्राप्तारमृच्छति ।
चिराय प्रथमो गच्छन् प्राप्तोत्यात्मान्मन्ततः ॥ २२॥
एकस्य ध्यानतश्चित्तमेकाकृतिर्भविष्यति ।
एकाकृतित्वं चित्तस्य स्वरुपे स्थितये भवेत् ॥ २३॥
अनिच्छयाप्यतो ध्यायन् विन्दत्यात्मनि संस्थितिम् ।
विचारकस्तु विज्ञाय भवेदात्मनि संस्थितः ॥ २४॥
ध्यायो देवतां मन्त्रमन्यद्वा लक्ष्यमुत्तमम् ।
ध्येयमात्मात्ममहाज्योतिष्यन्ततो लीनतां व्रजेत् ॥ २५॥
गतिरेवं द्वयोरेका ध्यातुश्चात्मविमर्शिनः ।
ध्यायन्नेकः प्रशान्तः स्यादन्यो विज्ञाय शाम्यति ॥ २६॥
॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो
वासिष्ठस्य गणपतेरुपनिबन्धे आत्मविचाराधिकारितदङ्गनिरूपणं
नाम सप्तमोऽध्यायः ॥ ७
अथ अष्टमोऽध्यायः । (आश्रमविचारः)
कार्ष्णेरेवापरं प्रश्नं निशम्य भगवान्मुनिः ।
चातुराश्रम्यसम्बद्धमदिकारं न्यरूपयत् ॥ १॥
ब्रह्मचारी गृही वाऽपि वानप्रस्थोऽथवा यतिः ।
नारी वा वृषलो वापि पक्वो ब्रह्म विचारयेत् ॥ २॥
सोपानवत्परं प्राप्तुं भविष्यत्याश्रमक्रमः ।
अत्यन्तपक्वचित्तस्य क्रमापेक्षा न विद्यते ॥ ३॥
गतये लोककार्याणामादिशन्त्याश्रामक्रमम्
आश्रमत्रयधर्माणां न ज्ञानप्रतिकूलता ॥ ४॥
संन्यासो निर्मलं ज्ञानं न काषायो न मुण्डनम् ॥
प्रतिबन्धकबाहुल्यवारणायाश्रमो मतः ॥ ५॥
ब्रह्मचयर्याश्रमे यस्य शक्तिरुज्जृम्भते व्रतैः ।
विद्यया ज्ञानवृद्धया च स पश्चात्प्रज्वलिष्यति ॥ ६॥
ब्रह्मचर्येण शुद्धेन गृहित्वे निर्मलो भवेत् ।
सर्वेषामुपकाराय गृहस्थाश्रम उच्यते ॥ ७॥
सर्वथा वीतसङ्गस्य गृहस्थस्यापि देहिनः ।
परं प्रस्फुरति ज्योतिस्तत्र नैवास्ति संशयः ॥ ८॥
तपसस्त्वाश्रमः प्रोक्त्तस्तृतीयः पण्डितोत्तमैः ।
अभार्यो वा सभार्यो वा तृतीयाश्रमभाग्भवेत् ॥ ९॥
तपसा दग्धपापस्य पक्वचित्तस्य योगिनः ।
चतुर्थ आश्रमः काले स्वयमेव भविष्यति ॥ १०॥
एष प्रागुक्त एवाब्धे त्वष्टमे द्वादशे पुनः ।
उपदेशो भगवतः सप्तमाष्टमयोरभूत् ॥ ११॥
॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो
वासिष्ठस्य गणपतेरुपनिबन्धे आश्रमविचारः
नाम अष्टमोऽध्यायः ॥ ८
अथ नवमोऽध्यायः । (ग्रन्थिभेदकथनम्)
चतुर्दशेऽष्टमे रात्रौ महर्षि पृष्टवानहम् ।
ग्रन्थिभेदं समुद्दिश्य विदुषां यत्र संशयः ॥ १॥
तमाकर्ण्य मम प्रश्नं रमणो भगवानृषिः ।
ध्यात्वा दिव्येन भावेन किञ्चिदाह महामहाः ॥ २॥
शरीरस्यात्मनश्चापि सम्बन्धो ग्रन्थिरुच्यते ।
सम्बन्धेनैव शारीरं भवति ज्ञानमात्मनः ॥ ३॥
शरीरं जडमेतत्स्यादात्मा चैतन्यमिष्यते ।
उभयोरपि सम्बन्धो विज्ञानेनानुमीयते ॥ ४॥
चैतन्यच्छाययाश्लिष्टं शरीरं तात चेष्टते ।
निद्रादौ ग्रहणाभावादूह्यते स्थानमात्मनः ॥ ५॥
सूक्ष्माणां विद्युदादीनां स्थूले तन्त्र्यादिके यथा ।
तथा कलेवरे नाड्यां चैतन्यज्योतिषो गतिः ॥ ६॥
स्थलमेकमुपाश्रित्य चैतन्यज्योतिरुज्ज्वलम् ।
सर्वं भासयते देहं भास्करो भुवनं यथा ॥ ७॥
व्याप्तेन तत्प्रकाशेन शरीरे त्वनुभूतयः ।
स्थलं तदेव हृदयं सूरयस्सम्प्रचक्षते ॥ ८॥
नाडीशक्तिविलासेन चैतन्यांशुगतिर्मता ।
देहस्य शक्तयस्सर्वाः पृथङ्नाडीरूपाश्रिताः ॥ ९॥
चैतन्यं तु पृथङ्नाड्यां तां सुषुम्णां प्रचक्षते ।
आत्मनाडीं परामेके परेत्वमृतनाडिकाम् ॥ १०॥
सर्वं देहं प्रकाशेन व्याप्तो जीवोऽभिमानवान् ।
मन्यते देहमात्मानं तेन भिन्नं च विष्टपम् ॥ ११॥
अभिमानं परित्यज्य देहे चात्मधियं सुधीः ।
विचारयेच्चेदेकाग्रो नाडीनां मथनं भवेत् ॥ १२॥
नाडीनां मथनेनैवात्मा ताभ्यः पृथक्कृतः ।
केवलाममृतां नाडीमाश्रित्य प्रज्वलिष्यति ॥ १३॥
आत्मनाड्यां यदा भाति चैतन्यज्योतिरुज्ज्वलम् ।
केवलायां तदा नान्यदात्मनस्सम्प्रभासते ॥ १४॥
सान्निध्याद्भासमानं वा न पृथक्प्रतितिष्ठति ।
जानाति स्पष्टमात्मानं स देहमिव पामरः ॥ १५॥
आत्मैव भासते यस्य बहिरन्तश्च सर्वतः ।
पामरस्येव रूपादि स भिन्नग्रन्थिरुच्यते ॥ १६॥
नाडीबन्धोऽभिमानश्च द्वयं ग्रन्थिरुदीर्यते ।
नाडीबन्धेन सूक्षमोऽपि स्थूलं सर्वं प्रपश्यति ॥ १७॥
निवृत्तं सर्वनाडीभ्यो यदैकां नाडीकां श्रितम् ।
भिन्नग्रन्थि तदा ज्योतिरात्मभावाय कल्पते ॥ १८॥
अग्नितप्तमयोगोलं दृश्यतेऽग्निमयं यथा ।
स्वविचाराग्निसन्तप्तं तथेदं स्वमयं भवेत् ॥ १९॥
शरीरादिजुषां पूर्ववासनानां क्षयस्तदा ।
कर्तृत्वमशरीरत्वान्नैव तस्य भविष्यति ॥ २०॥
कर्तृत्वाभावतः कर्मविनाशोऽस्य समीरितः ।
तस्य वस्त्वन्तराभावात्संशयानामनुद्भवः ॥ २१॥
भविता न पुनर्बद्धो विभिन्नग्रन्थिरेकदा ।
सा स्थितिः परमा शक्तिस्सा शान्तिः परमा मता ॥ २२॥
॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो
वासिष्ठस्य गणपतेरुपनिबन्धे ग्रन्थिभेदकथनं
नाम नवमोऽध्यायः ॥ ९
अथ दशमोऽध्यायः । (सङ्घविद्या)
यतिनो योगनाथस्य महर्षिरमणस्य च ।
दशमेऽत्र नीबघ्निमस्संवादं सङ्घहर्षदम् ॥ १॥
योगनाथ उवाच
साङ्घिकस्य च सङ्घस्य कस्सम्बन्धो महामुने ।
सङ्घस्य श्रेयसे नाथ तमेतं वक्तुमर्हसि ॥ २॥
भगवानुवाच
ज्ञेयश्शरीरवत्सङ्घस्तत्तदाचारशालिनम् ।
अङ्गानीवात्र विज्ञेयास्साङ्घिकास्सधुसत्तम ॥ ३॥
अङ्गं यथा शरीरस्य करोत्युपकृतिं यते ।
तथोपकारं सङ्घस्य कुर्वन् जयति साङ्घिकः ॥
सङ्घस्य वाङ्मनःकायैरुपकारो यथा भवेत् ।
स्वयं तथाऽऽचरन्नित्यं स्वकीयानपि बोघयेत् ॥ ५॥
आनुकूल्येन सङ्घस्य स्थापयित्वा निजं कुलम् ।
सङ्घस्यैव ततो भूत्यै कुर्याद्भुतियुतं कुलम् ॥ ६॥
योगनाथ उवाच
शान्तिं केचित्प्रशंसन्ति शक्तिं केचिन्मनीषिणः ।
अनयोः को गुणो ज्यायान्त्सङ्घक्षेमकृते विभो ॥ ७॥
भगवानुवाच
स्वमनश्शुद्धये शान्तिश्शक्तिस्सङ्घस्य वृद्धये ।
शक्त्या सङ्घं विधायोच्चैश्शान्तिं संस्थापयेत्ततः ॥ ८॥
योगनाथ उवाच
सर्वस्यापि च सङ्घस्य नराणाणामृषिकुञ्जर ।
गन्तव्यं समुदायेन किं परं धरणीतले ॥ ९॥
भगवानुवाच
समुदायेन सर्वस्य सङ्घस्य तनुधारिणाम् ।
सौभ्रात्रं समभावेन गन्तव्यं परमुच्यते ॥ १०॥
सौभ्रात्रेण परा शान्तिरन्योन्यं देहधारिणाम् ।
तदेत्यं शोभते सर्वा भूमिरेकं गृहं यथा ॥ ११॥
अभूत्पञ्चदशे घस्त्रे संवादस्सोऽयमष्टमे ।
योगनाथस्य यतिनो महर्षेश्च दयावतः ॥ १२॥
॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो
वासिष्ठस्य गणपतेरुपनिबन्धे सङ्घविद्या
नाम दशमोऽध्यायः ॥ १०
अथ एकादशोऽध्यायः । (ज्ञानसिद्धिसामरस्यकथनम्)
षोडशे दिवसे रात्रौ विविक्ते मुनिसत्तमम् ।
गुरुं ब्रह्मविदां श्रेष्ठं नित्यमात्मनि संस्थितम् ॥ १॥
उपगम्य महाभागं सोऽहं कैवतमानवम् ।
रमणं स्तुतवानस्मि दुर्लभज्ञानलब्धये ॥ २॥
त्वय्येव परमा निष्ठा त्वय्येव विशदा मतिः ।
अम्भसामिव वाराशिर्विज्ञानानां त्वमास्पदम् ॥ ३॥
त्वं तु सप्तदशे वर्षे बाल्य एव महायशः ।
लब्धवानसि विज्ञानं योगिनामपि दुर्लभम् ॥ ४॥
सर्वे दृश्या इमे भावा यस्य छायामयास्तव ।
तस्य ते भगवन्निष्ठां को नु वर्णयितुं क्षमः ॥ ५॥
मज्जतां घोरसंसारे व्यपृतानामितस्ततः ।
दुःखं महत्तितीषूर्णां त्वमेका परमा गतिः ॥ ६॥
पश्यामि देवदत्तेन ज्ञानेन त्वां मुहुर्मुहुः ।
ब्रह्मण्यानां वरं ब्रह्मन्त्सुब्रह्मण्यं नराकृतिम् ॥ ७॥
न त्वं स्वामिगिरौ नाथ न त्वं क्षणिकपर्वते ।
न त्वं वेङ्कटशैलाग्रे शोणाद्रावसि वस्तुतः ॥ ८॥
भूमविद्यां पुरा नाथ नारदाय महर्शये ।
भवान् शुश्रूषमाणाय रहस्यामुपदिष्टवान् ॥ ९॥
सनत्कुमारं ब्रह्मर्षि त्वामाहुर्वेदवेदिनः ।
आगमानां तु वेत्तारस्सुब्रह्मण्यं सुरर्षभम् ॥ १०॥
केवलं नाम भेदोऽयं व्यक्तिभेदो न विद्यते ।
सनत्कुमारस्स्कन्दश्च पर्यायौ तव तत्त्वतः ॥ ११॥
पुरा कुमारिलो नाम भूत्वा ब्राह्मणसत्तमः ।
धर्मं वेदोदितं नाथ त्वं संस्थापितवानसि ॥ १२॥
जैनैर्व्याकुलिते धर्मे भगवन्द्रविडेषु च ।
भूत्वा त्वं ज्ञानसम्बन्धो भक्तिं स्थापितवानसि ॥ १३॥
अधुना त्वं महाभाग ब्रह्मज्ञानस्य गुप्तये ।
शास्त्रज्ञानेन सन्तॄप्तैर्निरुद्धस्यागतो धराम् ॥ १४॥
सन्देहा बहवो नाथ शिष्याणां वारितास्त्वया ।
इमं च मम सन्देहं निवारयितुमर्हसि ॥ १५॥
ज्ञानस्य चापि सिद्धीनां विरोधः किं परस्परम् ।
उताहो कोऽपि सम्बन्धो वर्तते मुनिकुञ्जर ॥ १६॥
मयैवं भगवान्पृष्टो रमणो नुतिपूर्वकम् ।
गभिरया दृशा वीक्ष्य मामिदं वाक्यमब्रवित् ॥ १७॥
सहजां स्थितिमारुढः स्वभावेन दिने दिने ।
तपश्चरतिदुर्धर्षं नालस्यं सहजस्थितौ ॥ १८॥
तपस्तदेव दुर्धर्षं य निष्ठ सहजात्मनि ।
तेन नित्येन तपसा भवेत्पाकः क्षणे क्षणे ॥ १९॥
परिपाकेन काले स्युः सिद्धयस्तात पश्यतः ।
प्रारब्धं यदि ताभिः स्याद्विहारो ज्ञानिनोऽपि च ॥ २०॥
यथा प्रपञ्चग्रहणे स्वरुपान्नेतरन्मुनेः ।
सिद्धयः क्रियमाणाश्च स्वरुपान्नेतरत्तथा ॥ २१॥
भवेन्न यस्य प्रारब्धं शक्तिपूर्णोऽप्ययं मुनिः ।
अतरङ्ग इवाम्भोधिर्न किञ्चित्दपि चेष्टते ॥ २२॥
नान्यं मृगयते मार्गं निसर्गादात्मनि स्थितः ॥
सर्वासामपि शक्तीनां समष्टिः स्वात्मनि स्थितिः ॥ २३॥
अप्रयत्नेन तु तपः सहजा स्थितिरुच्यते ।
सहजायां स्थितौ पाकाच्छक्त्तिनामुद्भवो मतः ॥ २४॥
परीवृतोऽपि बहुभिर्नित्यमात्मनि संस्थितः ।
घोरं तपश्चरत्येव न तस्यैकान्तकामिता ॥ २५॥
ज्ञानं शक्तेरपेतं यो मन्यते नैव वेद सः ।
सर्वशक्तेऽभितः पूर्णे स्वस्वरूपे हि बोधवान् ॥ २६॥
॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो
वासिष्ठस्य गणपतेरुपनिबन्धे ज्ञानसिद्धिसामरस्यकथनं
नाम एकादशोऽध्यायः ॥ ११
अथ द्वादशोऽध्यायः । (शक्तिविचारः)
एकोनविंशे दिवसे भारद्वाजो महामनाः ।
कपाली कृतिषु ज्यायानपृच्छद्रमणं गुरुम् ॥ १।
कपाल्युवाच
विषयी विषयो वृत्तिरितीदं भगवंस्त्रिकम् ।
ज्ञानिनां पामराणां च लोकयात्रासु दृश्यते ॥ २॥
अथ केन विशेषेण ज्ञानी पामरतोऽधिकः ।
इमं मे नाथ सन्देहं निवर्तयितुमर्हसि ॥ ३॥
भगवानुवाच
अभिन्नो विषयी यस्य स्वरूपान्मनुजर्षभ ।
व्यापारविषयौ भातस्तस्याभिन्नौ स्वरूपतः ॥ ५॥
भेदभासे विजानाति ज्ञान्यभेदं ति तात्त्विकम् ।
भेदाभासवशं गत्वा पामरस्तु विभिद्यते ॥ ६॥
कपाल्युवाच
नाथ यस्मिन्निमे भेद भासन्ते त्रिपुटीमयाः ।
शक्तिमद्वा स्वरूपं तदुताहो शक्तिवर्जितम् ॥ ७॥
भगवानुवाच
वत्स यस्मिन्निमे भेदा भासन्ते त्रिपुटीमयाः ।
सर्वशक्तं स्वरूपं तदाहुर्वेदान्तवेदिनः ॥ ८॥
कपाल्युवाच
ईश्वरस्य तु या शक्तिर्गीता वेदान्तवेदिभिः ।
अस्ति वा चलनं तस्यमाहोस्विन्नाथ नास्ति वा ॥ ९॥
भगवानुवाच
शक्तेस्सञ्चलनादेव लोकानां तात सम्भवः ।
चलनस्याश्रयो वस्तु न सञ्चलति कर्हिचित् ॥ १०॥
अचलस्य तु यच्छक्तश्चलनं लोककारणम् ।
तामोवाचक्षते मायामनिर्वाच्यां विपश्चितः ॥ ११॥
चञ्चलत्वं विषयिणो यथार्थमिव भासते ।
चलनं न नरश्रेष्ठ स्वरूपस्य तु वस्तुतः ॥ १२॥
ईश्वरस्य च शक्तेश्च भेदो दृष्तिनिमित्तकः ।
मिथुनं त्विदमेकं स्याद्दृष्टिश्चेदुपसंहृता ॥ १३॥
कपाल्युवाच
व्यापार ईश्वरस्यायं दृश्यब्रह्माण्डकोटिकृत् ।
नित्यः किमथवाऽनित्यो भगवान्वक्तुमर्हति ॥ १४॥
भगवानुवाच
निजया परया शक्त्या चलन्नप्यचलः परः ।
केवलं मुनिसंवेद्यं रहस्यमिदमुत्तमम् ॥ १५॥
चलत्वमेव व्यापारो व्यापारश्शक्तिरुच्यते ।
शक्त्या सर्वमिदं दृश्यं ससर्ज परमः पुमान् ॥ १६॥
व्यापारस्तु प्रवृतिश्च निवृत्तिरिति च द्विधा ।
निवृरिस्था यत्र सर्वमात्मैवाभूदिति श्रुतिः ॥ १७॥
नानात्वं द्वैतकालस्थं गम्यते सर्वमित्यतः ।
अभूदिति पदेनात्र व्यापारः कोऽपि गम्यते ॥ १८॥
आत्मैवेति विनिर्देशद्विशेषाणां समं ततः ।
आत्मन्येवोपसंहारस्तज्जातानां प्रकीर्तितः ॥ १९॥
विना शक्तिं नरश्रेष्ठ स्वरूपं न प्रतीयते ।
व्यापार आश्रयश्चेति द्विनामा शक्तिरुच्यते ॥ २०॥
व्यापारो विश्वसर्गादिकार्यमुक्तं मनीषिभिः ।
आश्रयो द्विपदां श्रेष्ठ स्वरूपान्नातिरिच्यते ॥ २१॥
स्वरूपमन्यसापेक्षं नैव सर्वात्मकत्वतः ।
शक्तिं वृत्तिं स्वरूपं च य एवं वेद वेद सः ॥ २२॥
वृत्तेरभावे तु सतो नानाभावो न सिध्यति ।
सत्ता शक्त्यतिरिक्त्ता चेद् वृतेर्नैव समुद्भवः ॥ २३॥
यदि कालेन भविता जगतः प्रलयो महान् ।
अभेदेन स्वरूपेऽयं व्यापारो लीनवद्भवेत् ॥ २४॥
सर्वोपि व्यवहारोऽयं न भवेच्छक्तिमन्तरा ।
न सृष्टिर्नापि विज्ञानं यदेतत् त्रिपुटीमयम् ॥ २५॥
स्वरुपमाश्रयत्वेन व्यापारस्सर्गकर्मणा ।
नामभ्यामुच्यते द्वाभ्यां शक्तिरेका परात्परा ॥ २६॥
लक्षणं चलनं येषां शक्तेस्तेषां तदाश्रयः ।
यत् किञ्चित्परमं वस्तु व्यक्तव्यं स्यान्नरर्षभ ॥ २७॥
तदेकं परमं वस्तु शक्तिमेके प्रचक्षते ।
स्वरुपं केऽपि विद्वांसो ब्रह्मान्ये पुरुषं परे ॥ २८॥
वत्स सत्यं द्विधा गम्यं लक्षणेन च वस्तुतः ।
लक्षणेनोच्यते सत्यं वस्तुतस्त्वनुभूयते ॥ २९॥
तस्मात्स्वरूपविज्ञानं व्यापारेण च वस्तुतः ।
ताटस्थ्येन च साक्षाच्च द्विविधं सम्प्रचक्षते ॥ ३०॥
स्वरुपमाश्रयं प्राहुर्व्यापारं तात लक्षणम् ।
वृत्या विज्ञाय तन्मूलमाश्रये प्रतितिष्ठति ॥ ३१॥
स्वरूपं लक्षणोपेतं लक्षणं च स्वरुपवत् ।
तादात्म्येनैव सम्बन्धस्त्वनयोस्सम्प्रकीर्तितः ॥ ३२॥
तटस्थलक्षणेनैवं व्यापाराख्येन मारिष ।
यतो लक्ष्यं स्वरूपं स्यान्नित्यव्यापारवत्ततः ॥ ३३॥
व्यापारो वस्तुनो नान्यो यदि पश्यसि तत्त्वतः ।
इदं तु भेदविज्ञानं सर्वं काल्पनिकं मतम् ॥ ३४॥
शक्त्युल्लासाह्यया सेयं सृष्टिः स्यादीशकल्पना ।
कल्पनेयमतीत चेत् स्वरूपमवशिष्यते ॥ ३५॥
॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो
वासिष्ठस्य गणपतेरुपनिबन्धे शक्तिविचारो
नाम द्वादशोऽध्यायः ॥ १२
अथ त्रयोदशोऽध्यायः । (संन्यासे स्त्रीपुरुषयोस्तुल्याधिकारनिरूपणम्)
अत्रिणामन्वयज्योत्स्ना वसिष्ठानां कुलस्नुषा ।
महादेवस्य जननी धीरस्य ब्रह्मवेदिनः ॥ १॥
प्रतिमानं पुरन्ध्रीणां लोकसेवाव्रते स्थिता ।
बिभ्राणा महतीं विद्यां ब्रह्मादिविबुधस्तुताम् ॥ २॥
दक्षिणे विन्ध्यतश्श्क्तेस्तारिण्या आदिमा गुरुः ।
तपस्सखी मे दयिता विशालाक्षी यशस्विनी ॥ ३॥
प्रश्नद्वयेन रमणाह्ययं विश्वहितं मुनिम् ।
अभ्यगच्छददुष्टाङ्गी निक्षिप्तेन मुखे मम ॥ ४॥
आत्मस्थितानां नारीणामस्ति चेत्प्रतिबन्धकम् ।
गृहत्यागेन हंसीत्वं किमु स्याच्छास्त्रसम्मतम् ॥ ५॥
जीवन्त्या एव मुक्ताया देहपातो भवेद्यदि ।
दहनं वा समाधिर्वा कार्यं युक्तमनन्तरम् ॥ ६॥
प्रश्नद्वयमिदं श्रुत्वा भगवानृषिसत्तमः ।
अवोचन्निर्णयं तत्र सर्वशास्त्रार्थतत्त्ववित् ॥ ७॥
स्वरूपे वर्तमानानां पक्वानां योषितामपि ।
निवृत्तत्वान्निषेधस्य हंसीत्वं नैव दुष्यति ॥ ८॥
मुक्तत्वस्याविशिष्टत्वद्बोधस्य च वधूरपि ।
जीवन्मुक्ता न दाह्या स्यात् तद्देहो हि सुरालयः ॥ ९॥
ये दोषो देहदहने पुंसो मुक्तस्य संस्मृताः ।
मुक्तायास्सन्ति ते सर्वे देहदाहे च योषितः ॥ १०॥
एकविंशेऽह्नि गीतोऽभूदयमर्थो मनीषिणा ।
अधिकृत्य ज्ञानवतीं रमणेन महर्षिणा ॥ ११॥
॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो
वासिष्ठस्य गणपतेरुपनिबन्धे संन्यासे स्त्रीपुरुषयोस्तुल्याधिकारनिरूपणं
नाम त्रयोदशोऽध्यायः ॥ १३
अथ चतुर्दशोऽध्यायः । (जीवन्मुक्तिविचारः)
निशायामेकविंशेऽह्नि भारद्वाजि विदां वरः ।
प्राज्ञश्शिवकुलोपाधिर्वैदर्भो वदतां वरः ॥ १॥
जीवनमुक्तिं समुद्दिश्य महर्षि परिपृष्टवान् ।
अथ सर्वेषु शृण्वत्सु महर्षिर्वाक्यमब्रवित् ॥ २॥
शास्त्रीयैर्लोकिकैश्चापि प्रत्ययैरविचालिता ।
स्वरूपे सुदृढा निष्ठा जीवन्मुक्तिरुदाहृता ॥ ३॥
मुक्तिरेकविधैव स्यात्प्रज्ञानस्याविशेषतः ।
शरीरस्थं मुक्तबन्धं जीवन्मुक्तं प्रचक्षते ॥ ४॥
ब्रह्मलोकगतो मुक्तश्श्रूयते निगमेषु यः ।
अनुभूतौ न भेदोऽस्ति जीवन्मुक्तस्य तस्य च ॥ ५॥
प्राणाः समवलीयन्ते यस्यात्रैव महात्मनः ।
तस्याप्यनुभवो विद्वन्नेतयोरुभयोरिव ॥ ६॥
साम्यात्स्वरूपनिष्ठाया बन्धहानेश्च साम्यतः ।
मुक्तिरेकविधैव स्याद्भेदस्तु परबुद्धिगः ॥ ७॥
मुक्तो भवति जीवन्यो माहात्मात्मनि संस्थितः ।
प्राणाः समवलीयन्ते तस्यैवात्र नरर्षभ ॥ ८॥
जीवन्मुक्तस्य कालेन तपसः परिपाकतः ।
स्पर्शाभावोऽपि सिद्धः स्याद्रूपे सत्यपि कुत्रचित् ॥ ९॥
भूयश्च परिपाकेन रूपाभावोऽपि सिद्ध्यति ।
केवलं चिन्मयो भूत्वा स सिद्धो विहरिष्यति ॥ १०॥
शरीरसंश्रयं सिद्ध्योर्द्वयमेतन्नरोत्तम ।
अल्पेनापि च कालेन देवतानुग्रहाद्भवेत् ॥ ११॥
भेदमेतं पुरस्कृत्य तारतम्यं न सम्पदि ।
देहवानशरीरो वा मुक्त आत्मनि संस्थितः ॥ १२॥
नाडीद्वारार्चिरोद्येन मार्गेणोर्ध्वगतिर्नरः ।
तत्रोत्पन्नेन बोधेन सद्यो मुक्तो भविष्यति ॥ १३॥
उपासकस्य सुतरां पक्वचित्तस्य योगिनः ।
ईश्वरानुग्रहात्प्रोक्ता नाडीद्वारोत्तमा गतिः ॥ १४॥
सर्वेषु कामचारोऽस्य लोकेषु परिकीर्तितः ।
इच्छयाऽनेकदेहानां ग्रहणं चाप्यनुग्रहः ॥ १५॥
कैलाशं केऽपि मुक्तानां लोकमाहुर्मनीषिणः ।
एके वदन्ति वैकुण्ठं परे त्वादित्यमण्डलम् ॥ १६॥
मुक्तलोकाश्च ते सर्वे विद्वन्भूम्यादिलोकवत् ।
चित्रवैभवया शक्त्या स्वरुपे परिकल्पिताः ॥ १७॥
॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो
वासिष्ठस्य गणपतेरुपनिबन्धे जीवन्मुक्तिविचारो
नाम चतुर्दशोऽध्यायः ॥ १४
अथ पञ्चदशोऽध्यायः । (श्रवणमनननिदिध्यासननिरूपणम्)
श्रवणं नाम किं नाथ मननं नाम किं मतम् ।
किं वा मुनिकुलश्रेष्ठ निदिध्यासनमुच्यते ॥ १॥
इत्येवं भगवान्पृष्टो मया ब्रह्मविदां वरः ।
द्वाविंशे दिवसे प्रातरब्रवीच्छिष्यसंसदि ॥ २॥
वेदशीर्षस्थवाक्यानामर्थव्याख्यानपूर्वकम् ।
आचार्याच्छृवणं केचिच्छृवणं परिचक्षते ॥ ३॥
अपरे श्रवणं प्राहुराचार्याद्विदितात्मनः ।
गिरां भाषामयीनां च स्वरूपं बोधयन्ति याः ॥ ४॥
श्रुत्वा वेदान्तवाक्यानि निजवाक्यानि वा गुरोः ।
जन्मान्तरीयपुण्येन ज्ञात्वा वोभयमन्तरा ॥ ५॥
अहम्प्रत्ययमूलं त्वं शरीरादेर्विलक्षणः ।
इतीदं श्रवणं चित्ताच्छृवणं वस्तुतो भवेत् ॥ ६॥
वदन्ति मननं केचिच्छास्त्रात्रर्थस्य विचारणम् ।
वस्तुतो मननं तात स्वरुपस्य विचारणम् ॥ ७॥
विपर्यासेन रहितं संशयेन च मानद ।
कैश्चिद्ब्रह्मात्मविज्ञानं निदिध्यासनमुच्यते ॥ ८॥
विपर्यासेन रहितं संशयेन च यद्यपि ।
शास्त्रीयमैक्यविज्ञानं केवलं नानुभूतये ॥ ९॥
संशयश्च विपर्यासो निवार्येते उभावपि ।
अनुभूत्यैव वासिष्ठ न शास्त्रशतकैरपि ॥ १०॥
शास्त्रं श्रद्धावतो हन्यात् संशयं च विपर्ययम् ।
श्रद्धायाः किञ्चिदूनत्वे पुनरभ्युदयस्तयोः ॥ ११॥
मूलच्छेदस्तु वासिष्ठ स्वरुपानुभवे तयोः ।
स्वरुपे संस्थितिस्तस्मान्निदिध्यासनमुच्यते ॥ १२॥
बहिस्सञ्चरतस्तात स्वरुपे संस्थितिं विना ।
अपरोक्षो भवेद्बोधो न शास्त्रशतचर्चया ॥ १३॥
स्वरुपसंस्थितिः स्याच्चेत् सहजा कुण्डिनर्षभ ।
सा मुक्तिः सा परा निष्ठा स साक्षात्कार ईरितः ॥ १४॥
॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो
वासिष्ठस्य गणपतेरुपनिबन्धे श्रवणमनननिदिध्यासन निरूपणं
नाम पञ्चदशोऽध्यायः ॥ १५
अथ षोडशोऽध्यायः । (भक्तिविचारः)
अथ भक्तिं समुद्दिश्य पृष्टः पुरुषसत्तमः ।
अभाषत महाभागो भगवान् रमणो मुनिः ॥ १॥
आत्मा प्रियः समस्तस्य प्रियं नेतरदात्मनः ।
अच्छिन्ना तैलधारावत् प्रीतिर्भक्तिरुदाहृता ॥ २॥
अभिन्नं स्वात्मनः प्रीत्या विजानातीश्वरं कविः ।
जानन्नप्यपरो भिन्नं लीन आत्मनि तिष्ठति ॥ ३॥
वहन्ती तैलधारावद्या प्रीतिः परमेश्वरे ।
अनिच्छतोऽपि सा बुद्धिं स्वरुपं नयति ध्रुवम् ॥ ४॥
परिच्छिन्नं यदात्मानं स्वल्पज्ञं चापि मन्यते ।
भक्तो विषयिरूपेण तदा क्लेशनिवृत्तये ॥ ५॥
व्यापकं परमं वस्तु भजते देवताधिया ।
भजंश्च देवताबुद्ध्या तदेवान्ते समश्नुते ॥ ६॥
देवताया नरश्रेष्ठ नामरूपप्रकल्पनात् ।
ताभ्यां तु नामरूपाभ्यां नामरुपे विजेष्यते ॥ ७॥
भक्तौ तु परिपूर्णायमलं श्रवणमेकदा ।
ज्ञानाय परिपूर्णाय तदा भक्तिः प्रकल्पते ॥ ८॥
धाराव्यपेता या भक्तिः सा विच्छिन्नेति कीर्त्यते ।
भक्तेः परस्य सा हेतुर्भवतीति विनिर्णयः ॥ ९॥
कामाय भक्तिं कुर्वाणः कामं प्राप्याप्यनिवृतः ।
शाश्वताय सुखस्यान्ते भजते पुनरीश्वरम् ॥ १०॥
भक्तिः कामसमेताऽपि कामाप्तौ न निवर्तते ।
श्रद्धा वृद्धा परे पुंसि भूय एवाभिर्वर्धते ॥ ११॥
वर्धमाना च सा भक्तिः काले पूर्णा भविष्यति ।
पूर्णया परया भक्त्या ज्ञानेनेव भवं तरेत् ॥ १२॥
॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो
वासिष्ठस्य गणपतेरुपनिबन्धे भक्तिविचारः
नाम षोडशोऽध्यायः ॥ १६
अथ सप्तदशोऽध्यायः । (ज्ञानप्राप्तिविचारः)
पञ्चविंशे तु दिवसे वैदर्भो विदुषं वरः ।
प्रश्रयानवतो भूत्वा मुनिं भूयोऽपि पृष्टवान् ॥ १॥
वैदर्भ उवाच
क्रमेणायाति किं ज्ञानं किञ्चित्किञ्चिद्दिने दिने ।
एकस्मिन्नेव काले किं पूर्णमाभाति भानुवत् ॥ २॥
भगवानुवाच
क्रमेणायाति न ज्ञानं किञ्चित्किञ्चिद्दिने दिने ।
अभ्यासपरिपाकेन भासते पूर्णमेकदा ॥ ३॥
वैदर्भ उवाच
अभ्यासकाले भगवन् वृत्तिरन्तर्बहिस्तथा ।
यातायातं प्रकुर्वाणा याते किं ज्ञानमुच्यते ॥ ४॥
भगवानुवाच
अन्तर्याता मतिर्विद्वन्बहिरायाति चेत्पुनः ।
अभ्यासमेव तामाहुर्ज्ञानं ह्यनुभवोऽच्युतः ॥ ५॥
वैदर्भ उवाच
ज्ञानस्य मुनिशार्दूल भूमिकाः काश्चिदीरिताः ।
शास्त्रेषु विदुषां श्रेष्ठैः कथं तासां समन्वयः ॥ ६॥
भगवानुवाच
शास्त्रोक्ता भूमिकास्सर्वा भवन्ति परबुद्धिगाः ।
मुक्तिभेदा इव प्राज्ञ ज्ञानमेकं प्रजानताम् ॥ ७॥
चर्यां देहेन्द्रियादीनां वीक्ष्याब्धानुसारिणीम् ।
कल्पयन्ति परे भूमिस्तारतम्यं न वस्तुतः ॥ ८॥
वैदर्भ उवाच
प्रज्ञानमेकदा सिद्धं सर्वाज्ञाननिबर्हणम् ।
तिरोधते किमज्ञानात्सङ्गादङ्कुरितात्पुनः ॥ ९॥
भगवानुवाच
अज्ञानस्य प्रतिद्वन्दि न पराभूयते पुनः ।
प्रज्ञानमेकदा सिद्धं भरद्वाजकुलोद्वह ॥ १०॥
॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो
वासिष्ठस्य गणपतेरुपनिबन्धे ज्ञानप्राप्तिविचारो
नाम सप्तदशोऽध्यायः ॥ १७
अथ अष्टादशोऽध्यायः । (सिद्धमहिमानुकीर्तनम्)
वरपराशरगोत्रसमुद्भवं वसुमतीसुरसङ्घयशस्करम् ।
विमलसुन्दरपण्डितनन्दनं कमलपत्रविशालविलोचनम् ॥ १॥
अरुणशैलगताश्रमवासिनं परमहंसमनञ्जनमच्युतम् ।
करुणया दधतं व्यवहारितां सततमात्मनि संस्थितमक्षरे ॥ २॥
अखिलसंशयवारणभाषणं भ्रममदद्विरदाङ्कुशवीक्षणम् ।
अविरतं परसौख्यधृतोद्यमं निजतनूविषयेष्वलसालसम् ॥ ३॥
परिणताम्रफलप्रभविग्रहं चलतरेन्द्रियनिग्रहसग्रहम् ।
अमृतचिद्धनवल्लिपरिग्रहं मितवचोरचितागमसङ्ग्रहम् ॥ ४॥
अमलदिप्ततरात्ममरीचिभिर्निजकरैरिव पङ्कजबान्धवम् ।
पदजुषां जडभावमनेहसा परिहरन्तमनन्तगुणाकरम् ॥ ५॥
मृदुतमं वचने दृशि शीतलं विकसितं वदने सरसीरुहे ।
मनसि शून्यमहश्शशिसन्निभे हृदि लसन्तमनन्त इवारुणम् ॥ ६॥
अदयमात्मतनौ कठिनं व्रते प्रुषचित्तमलं विषयव्रजे ।
ऋषिमरोषमपेतमनोरथं धृतमदं घनचिल्लहरीवशात् ॥ ७॥
विगतमोहमलोभमभवनं शमितमत्सरमुत्सविनं सदा ।
भवमहोदधितारणकर्मणि प्रतिफलेन विनैव सदोद्यतम् ॥ ८॥
माताममेति नगराजसुतोरुपीठं
नागानने भजति याहि पिता ममेति ।
अङ्कं हरस्य समवाप्य शिरस्यनेन
सञ्चुम्बितस्य गिरिन्ध्रकृतो विभूतिम् ॥ ९॥
वेदादिपाकदमनोत्तरकच्छपेशै-
र्युक्तैर्धराधरसुषुप्त्यमरेश्वरैश्च ।
सूक्ष्मामृतायुगमृतेन सह प्रणत्या
सम्पन्नशब्दपटलस्य रहस्यमर्थम् ॥ १०॥
दण्डं विनैव यतिनं बत दण्डपाणिं
दुःखाब्धितारकमरिं बत तारकस्य ।
त्यक्त्वा भवं भवमहो सततं भजन्तं
हंसं तथापि गतमानससङ्गरागम् ॥ ११॥
धीरत्वसम्पदि सुवर्णगिरेरनूनं
वारन्निरोधेधिकमेव गभिरतायाम् ।
क्षान्तौ जयन्तमचलामखिलस्य धात्रीं
दान्तौ निर्दशनमशन्तिकथादविष्ठम् ॥ १२॥
नीलारविन्दसुहृदा सदृशं प्रसादे
तुल्यं तथा महसि तोयजबान्धवेन ।
ब्राह्म्यां स्थितौ तु पितरं वटमूलवासं
संस्मारयन्तमचलन्तमनूदितं मे ॥ १३॥
यस्याधुनापि रमणी रमणीयभावा
गिर्वाणलोकपृतना शुभवृत्तिरूपा ।
संशोभते शिरसि नापि मनोजगन्ध-
स्तत्तादृशं गृहिणमप्यधिपं यतीनाम् ॥ १४॥
वन्दारुलोकवरदं नरदन्तिनोऽपि
मन्त्रेश्वरस्य महतो गुरुतां वहन्तम् ।
मन्दारवृक्षमिव सर्वजनस्य पाद-
च्छायां श्रितस्य परितापमपाहरन्तम् ॥ १५॥
यस्तन्त्रवार्तिकमनेकविचित्रयुक्ति-
संशोभितं निगमजीवनमाततान ।
भुस्य तस्य बुधसंहतिसंस्तुतस्य
वेषान्तरं तु निगमानतवचो विचारि ॥ १६॥
वेदशीर्षचयसारसङ्ग्रहं पञ्चरत्नमरुणाचलस्य यः ।
गुप्तमल्पमपि सर्वतोमुखं सूत्रभूतमतनोदिमं गुरुम् ॥ १७॥
देववाचि सुतरामशिक्षितं काव्यगन्धरहितं च यद्यपि ।
ग्रन्थक्रमणि तथाऽपि सस्फुरद्भाषितानुचरभावसञ्चयम् ॥ १८॥
लोकमातृकुचदुग्धपायिनश्शङ्करस्तवकृतो महाकवेः ।
द्राविडद्विजशिशोर्नटद्गिरो भूमिकान्तरमपारमेधसम् ॥ १९॥
भूतले त्विह तृतियमुद्भवं क्रौञ्चभूमिधररन्ध्रकारिणः ।
ब्रह्मनिष्ठितदशाप्रदर्शनाद्युक्तिवादतिमिरस्य शान्तये ॥ २०॥
कुम्भयोनिमुखमौनिपूजिते द्राविडे वचसि विश्रुतं कविम् ।
दृष्टवन्तमजरं परं महः केवलं धिषणया गुरुं विना ॥ २१॥
बालकेऽपि जडगोपकेऽपि व वानरेऽपि शुनि वा खलेऽपि वा ।
पण्डितेऽपि पदसंश्रितेऽपि वा पक्षपातरहितं समेक्षणम् ॥ २२॥
शक्तिमन्तमपि शान्तिसंयुतं भक्तिमन्तमपि भेदवर्जितम् ।
वीतरागमपि लोकवत्सलं देवतांशमपि नम्रचेष्टितम् ॥ २३॥
एष यामि पितुरन्तिकं ममान्वेषणं तु न विधीयतामिति ।
संविलिख्य गृहतो विनिर्गतं शोणशैलचरणं समागतम् ॥ २४॥
ईदृशं गुणगणैरभिरामं प्रश्रयेण रमणं भगवन्तम् ।
सिद्धलोकमहिमानमपारं पृष्टवानमृतनाथयतीन्द्रः ॥ २५॥
आह तं स भगवानगवासी सिद्धलोकमहिमा तु दुरूहः ।
ते शिवेन सदृशाः शिवरूपाः शक्रुवन्ति च वराण्यपि दातुम् ॥ २६॥
॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो
वासिष्ठस्य गणपतेरुपनिबन्धे सिद्धमहिमानुकीर्तनं
नाम अष्टादशोऽध्यायः ॥ १८
॥ इति श्रीरमणगीता समाप्ता ॥
॥ अत्रेमे भवन्त्युपसंहारश्लोकाः ॥
द्वितीये तु द्वितीयेऽत्र श्लोको ग्रन्थे स्वयं मुनेः ।
द्वितीयाध्यायगाः श्लोका अन्येमेतं विवृण्वते ॥ १॥
इतरत्र तु सर्वत्र प्रश्नार्थः प्रश्नकारिणः ।
उत्तरार्थो भगवतः श्लोकबन्धो मम स्वयम् ॥ २॥
अयं गणपतेर्ग्रन्थमालायामुज्ज्वलो मणिः ।
गुरोः सरस्वती यत्र विशुद्धे प्रतिबिम्बिता ॥ ३॥
॥ ग्रन्थप्रशंसा ॥
गलन्ति गङ्गेयं विमलतरगीतैव महतो
नगाधीशाच्छ्रिमद्रमणमुनिरूपाज्जनिमति ।
पथो वाणीरूपाद्गणपतिकवेर्भक्तहृदयं
समुद्रं संयाति प्रबलमलहारिण्यनुपदम् ॥
---प्रणवानन्दः
॥ श्रीरमणगीताप्रकाशपीठिका ॥
ईश्वरः सर्वभूतानमेकोऽसौ हृदयाश्रयः ।
स आत्मा सा परा दृष्टिस्तदन्यन्नास्ति किञ्चन ॥ १॥
सा वियोगासहा शक्तिरेका शक्तस्य जग्रति ।
दृश्यब्रह्माण्डकोटिनां भाति जन्मादि बिभ्रती ॥ २॥
यमियं वृणुते दृष्टिर्मार्जारीव निजं शिशुम् ।
स तामन्वेषते पोतः कपिः स्वामिव मातरम् ॥ ३॥
जयति स भग्वान्रमणो वाक्पतिराचार्यगणपतिर्जयति ।
अस्य च वाणी भग्वद् - रमणीयार्थानुवर्तिनी जयति ॥ ४॥
---कपालि शास्त्री
॥ श्रीरमणाञ्जलीः ॥
अरुणाद्रितटे दिशो वसानं
परितः पुण्यभुवः पुनः पुनानम् ।
रमणाख्यामहो महो विशेषं
जयति ध्वान्तहरं नरात्मवेषम् ॥ १॥
चरितेन नरानरेषु तुल्यं
महसां पुञ्जमिदं विदाममूल्यम् ।
दुरितापहमाश्रितेषु भास्वत्-
करुणामूर्तिवरं महर्षिमाहुः ॥ २॥
ज्वलितेन तपःप्रभावभूम्ना
कबलिकृत्य जगद्विहस्य धाम्ना ।
विलसन् भगवान् महर्षिरस्म-
त्परमाचार्यपुमान् हरत्वधं नः ॥ ३॥
प्रथमं पुरुषं तमीशमेके
पुरुषाणां विदुरुत्तमं तथाऽन्ये ।
सरसीजभवाण्डमण्डलाना-
मपरे मध्यमामनन्ति सन्तः ॥ ४॥
पुरुषत्रियतेऽपि भासमानं
यमहन्धिमलिनो न वेद जन्तुः ।
अजहत्तमखण्डमेष नॄणां
निजवृत्तेन निदर्शनाय भाति ॥ ५॥
मृदुलो हसितेन मन्दमन्दं
दुरवेक्षः प्रबलो दृशा ज्वलन्त्या ।
विपुलो हृदयेन विश्वभोक्त्रा
गहनो मौनगृहितया च वृत्त्या ॥ ६॥
गुरुराट् किमु शङ्करोऽयमन्यः
किमु वा शङ्करसम्भवः कुमारः ।
किमु कुण्डिनजः स एव बालः
किमु वा संहृतशक्तिरेष शम्भुः ॥ ७॥
बहुधेति विकल्पनाय विदुभि
र्बहुभागस्तव मौनिनो विलाशः ।
हृदयेषु तु नः सदाऽविकल्पं
रमण त्वं रमसे गुरो गुरूणाम् ॥ ८॥
औपच्छन्दसिकैरेतैर्बन्धं नीतः स्तवाञ्जलिः ।
उपहारायतामेष महर्षिचरणाब्जयोः ॥ १॥
गुणोऽत्र रमणे भक्तिः कृतवित्त च शाश्वती ।
रम्यो रमणनाम्नोऽयं ध्वनिश्च हृदयङ्गमः ॥ २॥
महर्षेर्मौनिराजस्य यशोगानमलङ्कृतिः ।
तदयं ध्वन्यकङ्कारगुणैरेवं नवोज्ज्वलः ॥ ३॥
रमणस्य पदाम्भोजस्मरणं हृदयङ्गमम् ।
इक्षुखण्डरसास्वादे को वा भृतिमपेक्षताम् ॥ ४॥
अयं रमणपादाब्जकिङ्करस्यापि किङ्कृता ।
काव्यकण्ठमुनेरन्तेवासिना वाग्विलासिना ॥ ५॥
रमणाङ्ध्रिसरोजातरसज्ञेन कपालिना ।
भारद्वाजेन भक्तेन रचितो रमणाञ्जलिः ॥ ६॥
श्रीमहादेव उवाच -
ततो जगन्मङ्गलमङ्गलात्मना
विधाय रामायणकीर्तिमुत्तमाम् ।
चचार पूर्वाचरितं रघूत्तमो
राजर्षिवर्यैरभिसेवितं यथा ॥ १॥
सौमित्रिणा पृष्ट उदारबुद्धिना
रामः कथाः प्राह पुरातनीः शुभाः ।
राज्ञः प्रमत्तस्य नृगस्य शापतो
द्विजस्य तिर्यक्त्वमथाह राघवः ॥ २॥
कदाचिदेकान्त उपस्थितं प्रभुं
रामं रमालालितपादपङ्कजम् ।
सौमित्रिरासादितशुद्धभावनः
प्रणम्य भक्त्या विनयान्वितोऽब्रवीत् ॥ ३॥
त्वं शुद्धबोधोऽसि हि सर्वदेहिना-
मात्मास्यधीशोऽसि निराकृतिः स्वयम् ।
प्रतीयसे ज्ञानदृशां महामते
पादाब्जभृङ्गाहितसङ्गसङ्गिनाम् ॥ ४॥
अहं प्रपन्नोऽस्मि पदाम्बुजं प्रभो
भवापवर्गं तव योगिभावितम् ।
यथाञ्जसाज्ञानमपारवारिधिं
सुखं तरिष्यामि तथानुशाधि माम् ॥ ५॥
श्रुत्वाथ सौमित्रवचोऽखिलं तदा
प्राह प्रपन्नार्तिहरः प्रसन्नधीः ।
विज्ञानमज्ञानतमःप्रशान्तये
श्रुतिप्रपन्नं क्षितिपालभूषणः ॥ ६॥
श्रीरामचन्द्र उवाच -
आदौ स्ववर्णाश्रमवर्णिताः क्रियाः
कृत्वा समासादितशुद्धमानसः ।
समाप्य तत्पूर्वमुपात्तसाधनः
समाश्रयेत्सद्गुरुमात्मलब्धये ॥ ७॥
क्रिया श्रीरोद्भवहेतुरादृता
प्रियाप्रियौ तौ भवतः सुरागिणः ।
धर्मेतरौ तत्र पुनः शरीरकम्
पुनः क्रिया चक्रवदीर्यते भवः ॥ ८॥
अज्ञानमेवास्य हि मूलकारणं
तद्धानमेवात्र विधौ विधीयते ।
विद्यैव तन्नाशविधौ पटीयसी
न कर्म तज्जं सविरोधमीरितम् ॥ ९॥
नाज्ञानहानिर्न च रागसंक्षयो
भवेत्ततः कर्म सदोषमुद्भवेत् ।
ततः पुनः संसृतिरप्यवारिता
तस्माद्बुधो ज्ञानविचारवान्भवेत् ॥ १०॥
ननु क्रिया वेदमुखेन चोदिता
तथैव विद्या पुरुषार्थसाधनम् ।
कर्तव्यता प्राणभृतः प्रचोदिता
विद्यासहायत्वमुपैति सा पुनः ॥ ११॥
कर्माकृतौ दोषमपि श्रुतिर्जगौ
तस्मात्सदा कार्यमिदं मुमुक्षुणा ।
ननु स्वतन्त्रा ध्रुवकार्यकारिणी
विद्य न किञ्चिन्मनसाप्यपेक्षते ॥ १२॥
न सत्यकार्योऽपि हि यद्वदध्वरः
प्रकाङ्क्षतेऽन्यानपि कारकादिकान् ।
तथैव विद्या विधितः प्रकाशितै-
र्विशिष्यते कर्मभिरेव मुक्तये ॥ १३॥
केचिद्वदन्तीति वितर्कवादिन-
स्तदप्यसदृष्टविरोधकारणात् ।
देहाभिमानादभिवर्धते क्रिया
विद्या गताहङ्कृतितः प्रसिध्द्यति ॥ १४॥
विशुद्धविज्ञानविरोचनाञ्चिता
विद्यात्मवृत्तिश्चरमेति भण्यते ।
उदेति कर्माखिलकारकादिभि-
र्निहन्ति विद्याखिलकारकादिकम् ॥ १५॥
तस्मात्त्यजेत्कार्यमशेषतः सुधी-
र्विद्याविरोधान्न समुच्चयो भवेत् ॥
आत्मानुसन्धानपरायणः सदा
निवृत्तसर्वेन्द्रियवृत्तिगोचरः ॥ १६॥
यावच्छारीरादिषु माययात्मधी-
स्तावद्विधेयो विधिवादकर्मणाम् ।
नेतीति वाक्यैरखिलं निषिध्य तत्
ज्ञात्वा परात्मानमथ त्यजेत्क्रियाः ॥ १७॥
यदा परात्मात्मविभेदभेदकं
विज्ञानमात्मन्यवभाति भास्वरम् ।
तदैव माया प्रविलीयतेऽञ्जसा
सकारका कारणमात्मसंसृतेः ॥ १८॥
श्रुतिप्रमाणाभिविनाशिता च सा
कथं भविषत्यपि कार्यकारिणी ।
विज्ञानमात्रादमलाद्वितीयत-
स्तस्मादविद्या न पुनर्भविष्यति ॥ १९॥
यदि स्म नष्टा न पुनः प्रसूयते
कर्ताहमस्येति मतिः कथं भवेत् ।
तस्मात्स्वतन्त्रा न किमप्यपेक्षते
विद्य विमोक्षाय विभाति केवला ॥ २०॥
सा तैत्तिरीयश्रुतिराह सादरं
न्यासं प्रशस्ताखिलकर्मणां स्फुटम् ।
एतावदित्याह च वाजिनां श्रुति-
र्ज्ञानं विमोक्षाय न कर्म साधनम् ॥ २१॥
विद्यासमत्वेन तु दर्शितस्त्वया
क्रतुर्न दृष्टान्त उदाहृतः समः ।
फलैः पृथक्त्वाद्बहुकारकैः क्रतुः
संसाध्यते ज्ञानमतो विपर्ययम् ॥ २२॥
सप्रत्यवायो ह्यहमित्यनात्मधी-
रज्ञप्रसिद्धा न तु तत्त्वदर्शिनः ।
तस्माद्बुधैस्त्याज्यमविक्रियात्मभि-
र्विधानतः कर्म विधिप्रकाशितम् ॥ २३॥
श्रद्धान्वितस्तत्त्वमसीति वाक्यतो
गुरोः प्रसादादपि शुद्धमानसः ।
विज्ञाय चैकात्म्यमथात्मजीवयोः
सुखी भवेन्मेरुरिवाप्रकम्पनः ॥ २४॥
आदौ पदार्थावगतिर्हि कारणं
वाक्यार्थविज्ञानविधौ विधानतः ।
तत्त्वम्पदार्थौ परमात्मजीवका-
वसीति चैकात्म्यमथानयोर्भवेत् ॥ २५॥
प्रत्यक्परोक्षादि विरोधमात्मनो-
र्विहाय सङ्गृह्य तयोश्चिदात्मताम् ।
संशोधितां लक्षणया च लक्षितां
ज्ञात्वा स्वमात्मानमथाद्वयो भवेत् ॥ २६॥
एकात्मकत्वाज्जहती न सम्भवे-
त्तथाजहल्लक्षणता विरोधतः ।
सोऽयम्पदार्थाविव भागलक्षणा
युज्येत तत्त्वम्पदयोरदोषतः ॥ २७॥
रसादिपञ्चीकृतभूतसम्भवं
भोगालयं दुःखसुखादिकर्मणाम् ।
शरीरमाद्यन्तवदादिकर्मजं
मायामयं स्थूलमुपाधिमात्मनः ॥ २८॥
सूक्ष्मं मनोबुद्धिदशेन्द्रियैर्युतं
प्राणैरपञ्चीकृतभूतसम्भवम् ।
भोक्तुः सुखादेरनुसाधनं भवेत्
शरीरमन्यद्विदुरात्मनो बुधाः ॥ २९॥
अनाद्यनिर्वाच्यमपीह कारणं
मायाप्रधानं तु परं शरीरकम् ।
उपाधिभेदात्तु यतः पृथक्स्थितं
स्वात्मानमात्मन्यवधारयेत्क्रमात् ॥ ३०॥
कोशेष्वयं तेषु तु तत्तदाकृति-
र्विभाति सङ्गात्स्फतिकोपलो यथा ।
असङ्गरूपोऽयमजो यतोऽद्वयो
विज्ञायतेऽस्मिन्परितो विचारिते ॥ ३१॥
बुद्धेस्त्रिधा वृत्तिरपीह दृश्यते
स्वप्नादिभेदेन गुणत्रयात्मनः ।
अन्योन्यतोऽस्मिन्व्यभिचारितो मृषा
नित्ये परे ब्रह्मणि केवले शिवे ॥ ३२॥
देहेन्द्रियप्राणमनश्चिदात्मनां
सङ्घादजस्त्रं परिवर्तते धियः ।
वृत्तिस्तमोमूलतयाज्ञलक्षणा
यावद्भवेत्तावदसौ भवोद्भवः ॥ ३३॥
नेतिप्रमाणेन निराकृताखिलो
हृदा समास्वादितचिद्घनामृतः ।
त्यजेदशेषं जगदात्तसद्रसं
पीत्वा यथाम्भः प्रजहाति तत्फलम् ॥ ३४॥
कदाचिदात्मा न मृतो न जायते
न क्षीयते नापि विवर्धतेऽनवः ।
निरस्तसर्वातिशयः सुखात्मकः
स्वयम्प्रभः सर्वगतोऽयमद्वयः ॥ ३५॥
एवंविधे ज्ञानमये सुखात्मके
कथं भवो दुःखमयः प्रतीयते ।
अज्ञानतोऽध्यासवशात्प्रकाशते
ज्ञाने विलीयेत विरोधतः क्षणात् ॥ ३६॥
यदन्यदन्यत्र विभाव्यते भ्रमा-
दध्यासमित्याहुरमुं विपश्चितः ।
असर्पभूतेऽहिविभावनं यथा
रज्ज्वादिके तद्वदपीश्वरे जगत् ॥ ३७॥
विकल्पमायारहिते चिदात्मके-
ऽहङ्कार एष प्रथमः प्रकल्पितः ।
अध्यास एवात्मनि सर्वकारणे
निरामये ब्रह्मणि केवले परे ॥ ३८॥
इच्छादिरागादि सुखादिधर्मिकाः
सदा धियः संसृतिहेतवः परे ।
यस्मात्प्रसुप्तौ तदभावतः परः
सुखस्वरूपेण विभाव्यते हि नः ॥ ३९॥
अनाद्यविद्योद्भवबुद्धिबिम्बितो
जीवप्रकाशोऽयमितीर्यते चितः ।
आत्माधियः साक्षितया पृथक्स्थितो
बुध्द्यापरिच्छिन्नपरः स एव हि ॥ ४०॥
चिद्बिम्बसाक्ष्यात्मधियां प्रसङ्गत-
स्त्वेकत्र वासादनलाक्तलोहवत् ।
अन्योन्यमध्यासवशात्प्रतीयते
जडाजडत्वं च चिदात्मचेतसोः ॥ ४१॥
गुरोः सकाशादपि वेदवाक्यतः
सञ्जातविद्यानुभवो निरीक्ष्य तम् ।
स्वात्मानमात्मस्थमुपाधिवर्जितं
त्यजेदशेषं जडमात्मगोचरम् ॥ ४२॥
प्रकाशरूपोऽहमजोऽहमद्वयो-
ऽसकृद्विभातोऽहमतीव निर्मलः ।
विशुद्धविज्ञानघनो निरामयः
सम्पूर्ण आनन्दमयोऽहमक्रियः ॥ ४३॥
सदैव मुक्तोऽहमचिन्त्यशक्तिमा-
नतीन्द्रियज्ञानमविक्रियात्मकः ।
अनन्तपारोऽहमहर्निशं बुधै-
र्विभावितोऽहं हृदि वेदवादिभिः ॥ ४४॥
एवं सदात्मानमखण्डितात्मना
विचारमाणस्य विशुद्धभावना ।
हन्यादविद्यामचिरेण कारकै
रसायनं यद्वदुपासितं रुजः ॥ ४५॥
विविक्त आसीन उपारतेन्द्रियो
विनिर्जितात्मा विमलान्तराशयः ।
विभावयेदेकमनन्यसाधनो
विज्ञानदृक्केवल आत्मसंस्थितः ॥ ४६॥
विश्वं यदेतत्परमात्मदर्शनं
विलापयेदात्मनि सर्वकारणे ।
पूर्णश्चिदानन्दमयोऽवतिष्ठते
न वेद बाह्यं न च किञ्चिदान्तरम् ॥ ४७॥
पूर्वं समाधेरखिलं विचिन्तये-
दोङ्कारमात्रं सचराचरं जगत् ।
तदेव वाच्यं प्रणवो हि वाचको
विभाव्यतेऽज्ञानवशान्न बोधतः ॥ ४८॥
अकारसंज्ञः पुरुषो हि विश्वको
ह्युकारकस्तैजस ईर्यते क्रमात् ।
प्राज्ञो मकारः परिपठ्यतेऽखिलैः
समाधिपूर्वं न तु तत्त्वतो भवेत् ॥ ४९॥
विश्वं त्वकारं पुरुषं विलापये-
दुकारमध्ये बहुधा व्यवस्थितम् ।
ततो मकारे प्रविलाप्य तैजसं
द्वितीयवर्णं प्रणवस्य चान्तिमे ॥ ५०॥
मकारमप्यात्मनि चिद्घने परे
विलापयेत्प्राज्ञमपीह कारणम् ।
सोऽहं परं ब्रह्म सदा विमुक्तिम-
द्विज्ञानदृङ् मुक्त उपाधितोऽमलः ॥ ५१॥
एवं सदा जातपरात्मभावनः
स्वानन्दतुष्टः परिविस्मृताखिलः ।
आस्ते स नित्यात्मसुखप्रकाशकः
साक्षाद्विमुक्तोऽचलवारिसिन्धुवत् ॥ ५२॥
एवं सदाभ्यस्तसमाधियोगिनो
निवृत्तसर्वेन्द्रियगोचरस्य हि ।
विनिर्जिताशेषरिपोरहं सदा
दृश्यो भवेयं जितषड्गुणात्मनः ॥ ५३॥
ध्यात्वैवमात्मानमहर्निशं मुनि-
स्तिष्ठेत्सदा मुक्तसमस्तबन्धनः ।
प्रारब्धमश्नन्नभिमानवर्जितो
मय्येव साक्षात्प्रविलीयते ततः ॥ ५४॥
आदौ च मध्ये च तथैव चान्ततो
भवं विदित्वा भयशोककारणम् ।
हित्वा समस्तं विधिवादचोदितं
भजेत्स्वमात्मानमथाखिलात्मनाम् ॥ ५५॥
आत्मन्यभेदेन विभावयन्निदं
भवत्यभेदेन मयात्मना तदा ।
यथा जलं वारिनिधौ यथा पयः
क्षीरे वियद्व्योम्न्यनिले यथानिलः ॥ ५६॥
इत्थं यदीक्षेत हि लोकसंस्थितो
जगन्मृषैवेति विभावयन्मुनिः ।
निराकृतत्वाच्छ्रुतियुक्तिमानतो
यथेन्दुभेदो दिशि दिग्भ्रमादयः ॥ ५७॥
यावन्न पश्येदखिलं मदात्मकं
तावन्मदाराधनतत्परो भवेत् ।
श्रद्धालुरत्यूर्जितभक्तिलक्षणो
यस्तस्य दृश्योऽहमहर्निशं हृदि ॥ ५८॥
रहस्यमेतच्छ्रुतिसारसङ्ग्रहं
मया विनिश्चित्य तवोदितं प्रिय ।
यस्त्वेतदालोचयतीह बुद्धिमान्
स मुच्यते पातकराशिभिः क्षणात् ॥ ५९॥
भ्रातर्यदीदं परिदृश्यते जग-
न्मायैव सर्वं परिहृत्य चेतसा ।
मद्भावनाभावितशुद्धमानसः
सुखी भवानन्दमयो निरामयः ॥ ६०॥
यः सेवते मामगुणं गुणात्परं
हृदा कदा वा यदि वा गुणात्मकम् ।
सोऽहं स्वपादाञ्चितरेणुभिः स्पृशन्
पुनाति लोकत्रितयं यथा रविः ॥ ६१॥
विज्ञानमेतदखिलं श्रुतिसारमेकं
वेदान्तवेदचरणेन मयैव गीतम् ।
यः श्रद्धया परिपठेद्गुरुभक्तियुक्तो
मद्रूपमेति यदि मद्वचनेषु भक्तिः ॥ ६२॥
॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे पञ्चमः सर्गः ॥
एकादशः सर्गः ।
हनूमते श्रीरामकृतं साङ्ख्ययोगवर्णनम् -
रामःप्राह हनूमन्तमात्मानं पुरुषोत्तमः ।
वत्स वत्स हनूमन्स्त्वं भक्तो यत्पृष्टशनसि ॥ १॥
तत्तेऽहं सम्प्रवक्ष्यामि शृणुष्वावहितो मम ।
अवाच्यमेतद्विज्ञानमात्मगुह्यं सनातनम् ॥ २॥
यन्न देवा विजानन्ति यतन्तोऽपि द्विजातयः ।
इदं ज्ञानं समाश्रित्य ब्रह्मभूता द्विजोत्तमाः ॥ ३॥
न संसारं प्रपश्यन्ति पूर्वेऽपि ब्रह्मवादिनः ।
गुह्याद्गुह्यतमं साक्षाद्गोपनीयं प्रयत्नतः ॥ ४॥
वंशे भक्तिमतो ह्यस्य भवन्ति ब्रह्मवादिनः ।
आत्मा यः केवलः स्वच्छः शान्तः सूक्ष्मः सनातनः ॥ ५॥
अस्ति सर्वान्तरः साक्षाच्चिन्मात्रस्तमसः परः ।
सोऽन्तर्यामी स पुरुषः स प्राणः स महेश्वरः ॥ ६॥
स कालाग्निस्तदव्यक्तं सद्यो वेदयति श्रुतिः ।
तस्माद्विजायते विश्वमत्रैव प्रविलीयते ॥ ७॥
मायावी मायया बद्धः करोति विविधास्तनूः ।
न चाप्ययं संसरति न च संसारयेत्प्रभुम् ॥ ८॥
नायं पृथ्वी न सलिलं न तेजः पवनो नभः ।
न प्राणो न मनो व्यक्तं न शब्दः स्पर्श एव च ॥ ९॥
न रूपरसगन्धाश्च नाहङ्कर्ता ना वागपि ।
न पाणिपादौ नो पायुर्न चोपस्थं प्लवङ्गम ॥ १०॥
न कर्ता न च भोक्ता च न च प्रकृतिपूरूषौ ।
न माया नैव च प्राणश्चैतन्यं परमार्थतः ॥ ११॥
तथा प्रकाशतमसोः सम्बन्धो नोपपद्यते ।
तद्वदेव न सम्बन्धः प्रपञ्चपरमात्मनोः ॥ १२॥
छायातरू यथा लोके परस्परविलक्षणौ ।
तद्वत्प्रञ्चपुरुषौ विभिन्नौ परमार्थतः ॥ १३॥
यद्यात्मा मलिनोऽवस्थौ विकारी स्यात्स्वभावतः ।
नहि तस्य भवेन्मुक्तिर्जन्मान्तरशतैरपि ॥ १४॥
पश्यन्ति मुनयो मुक्ताः स्वात्मानं परमार्थतः ।
विकारहीनं निर्दुःखमानन्दात्मानमव्यययम् ॥ १५॥
अहं कर्ता सुखी दुःखी कृशः स्थूलेति या मतिः ।
साप्यहङ्कृतिसम्बन्धादात्मन्यारोप्यते जनैः ॥ १६॥
वदन्ति वेदविद्वान्सः साक्षिणं प्रकृतेः परम् ।
भोक्तारमक्षयं बुद्ध्वा सर्वत्र समवस्थितम् ॥ १७॥
तस्मादज्ञान मूलोऽयं संसारः सर्व देहिनाम् ।
अज्ञानादन्यथा ज्ञातं तच्च प्रकृतिसङ्गतम् ॥ १८॥
नित्योदितः स्वयञ्ज्योतिः सर्वगः पुरुषः परः ।
अहङ्कारीऽविवेकेन कर्ताहमिति मन्यते ॥ १९॥
पश्यन्ति ऋषयो व्यक्तं नित्यं सदसदात्मकम् ।
प्रधानं प्रकृतिं बुद्ध्वा कारणं ब्रह्मवादिनः ॥ २०॥
तेनात्र सङ्गतो ह्यात्मा कूटस्थोऽपि निरञ्जनः ।
आत्सानमक्षरं ब्रह्म नावबुद्ध्यन्ति तत्त्वतः ॥ २१॥
अनात्मन्यात्मविज्ञानं तस्माद्दुःखः तथेतरत् ।
रागद्वेषादयो दोषाः सर्वभ्रान्तिनिबन्धनाः ॥ २२॥
कार्ये ह्यस्य भवेदेषा पुण्यापुण्यमिति श्रुतिः ।
तद्वशादेव सर्वेषां सर्वदेहसमुद्भवः ॥ २३॥
नित्य सर्वत्रगो ह्यात्मा कूटस्थो दोषवर्जितः ।
एकः स भिद्यते शक्त्या मायया न स्वभावतः ॥ २४॥
तस्मादद्वैतमेवाहुर्मुनयः परमार्थतः ।
भेदोऽव्यक्तस्वभावेन सा च मायाऽऽत्मसंश्रया ॥ २५॥
यथाहि धूमसम्पर्कान्नाकाशो मलिनो भवेत् ।
अन्तःकरणजैर्भावैरात्मा तद्वन्न लिप्यते ॥ २६॥
यथा स्वप्रभया भाति केवलः स्फटिकोपलः ।
उपाधिहीनो विमलस्तथैवात्मा प्रकाशते ॥ २७॥
ज्ञानस्वरूपमेवाहुर्जगदेतद्विचक्षणाः ।
अर्थस्वरूपमेवाज्ञाः पश्यन्त्यन्ये कुबुद्धयः ॥ २८॥
कूटस्थो निर्गुणो व्यापी चैतन्यात्मा स्वभावतः ।
दृश्यते ह्यर्थरूपेण पुरुषं भ्रान्तदृष्टिभिः ॥ २९॥
यथा संलक्ष्यते व्यक्तः केवलः स्फटिको जनैः ।
रक्तिकाव्यवधानेन तद्वत्परमपूरुषः ॥ ३०॥
तस्मादात्माक्षरः शुद्धो नित्यः सर्वगतोऽव्ययः ।
उपासितव्यो मन्तव्यः श्रोतव्यश्च मुमुक्षुभिः ॥ ३१॥
यदा मनसि चैतन्यं भाति सर्वत्रगं सदा ।
योगिनोऽव्यवधानेन तदा सम्पद्यते स्वयम् ॥ ३२॥
यदा सर्वाणि भूतानि स्वात्मन्येवाभि पश्यति ।
सर्वभूतेषु चात्मानं ब्रह्म सम्पद्यते स्वयम् ॥ ३३॥
यदा सर्वाणि भूतानि स्वात्मन्येवाभिपश्यति ।
एकीभूतः परेणासौ तदा भवति केवलः ॥ ३४॥
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः ।
तदासावमृतीभूतः क्षेमं गच्छति पण्डितः ॥ ३५॥
यदा भूतपृथग्भावमेकस्थमनुपश्यति ।
तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ ३६॥
यदा पश्यति चात्मायं केवलं परमार्थतः ।
मायामात्रं जगत्कृत्स्नं तदा भवति निर्वृतः ॥ ३७॥
यदा जन्मजरादुःखव्याधीनामेकभेषजम् ।
केवलं ब्रह्मविज्ञानं जायतेऽसौ तदा शिवः ॥ ३८॥
यथा नदीनदा लोके सागरेणैकतां ययुः ।
तद्वदात्माक्षरेणासौ निष्कलेनैकतां व्रजेत् ॥ ३९॥
तस्माद्विज्ञानमेवास्ति न प्रपञ्चो न संस्थितिः ।
अज्ञानेनावृतं लोकं विज्ञानं तेन मुह्यति ॥ ४०॥
तज्ज्ञानं निर्मलं सूक्ष्मं निर्विकल्पं यदव्ययम् ।
अज्ञानमिति तत्सर्वं विज्ञानमिति मे मतम् ॥ ४१॥
एतत्ते परमं साङ्ख्यं भावितं ज्ञानमुत्तमम् ।
सर्ववेदान्तसारं हि योगस्तत्रैकचित्तता ॥ ४२॥
योगात्सञ्जायते ज्ञानं ज्ञानाद्योगः प्रजायते ।
योगज्ञानाभियुक्तस्य नावाप्यं विद्यते क्वचित् ॥ ४३॥
यदेव योगिनो यान्ति साङ्ख्यं तदभिगम्यते ।
एकं साङ्ख्यं च योगं च यः पश्यति स तत्त्ववित् ॥ ४४॥
अन्ये च योगिनो वत्स ऐश्वर्यासक्तचेतसः ।
मज्जन्ति तत्र तत्रैव सत्त्वात्मैक्यमिति श्रुतिः ॥ ४५॥
यत्तत्सर्वगतं दिव्यमैश्वर्यमचलं महत् ।
ज्ञानयोगाभियुक्तस्तु देहान्ते तदवाप्नुयात् ॥ ४६॥
एष आत्माहमव्यक्तो मायावी परमेश्वरः ।
कीर्तितः सर्ववेदेषु सर्वात्मा सर्वतोमुखः ॥ ४७॥
सर्वकामः सर्वरसः सर्वगन्धोऽजरोऽमरः ।
सर्वतः पाणिपादोऽहमन्तर्यामी सनातनः ॥ ४८॥
अपाणिपादो जवनो गृहीतो हृदि संस्थितः ।
अचक्षुरपि पश्यामि तथाऽकर्णः शृणोम्यहम् ॥ ४९॥
वेदाहं सर्वमेवेदं न मां जानाति कश्चन ।
प्राहुर्महान्तं पुरुषं मामेकं तत्त्वदर्शिनः ॥ ५०॥
निर्गुणामलरूपस्य यत्तदैश्वर्यमुत्तमम् ।
यत्र देवा विजानन्ति मोहिता मायया मम ॥ ५१॥
यन्मे गुह्यतमं देहं सर्वगं तत्त्वदर्शिनः ।
प्रविष्टा मम सायुज्यं लभन्ते योगिनोऽव्ययम् ॥ ५२॥
येषां हि न समापन्ना माया वै विश्वरूपिणी ।
लभन्ते परमं शुद्धं निर्वाणं ते मया सह ॥ ५३॥
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ।
प्रसादान्मम ते वत्स एतद्वेदानुशासनम् ॥ ५४॥
नापुत्रशिष्ययोगिभ्यो दातव्यं हनुमन्क्वचित् ।
यदुक्तमेतद्विज्ञानं साङ्ख्ययोगसमाश्रयम् ॥ ५५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
अद्भुतोत्तरकाण्डे साङ्ख्ययोगो नामैकादशः सर्गः ॥ ११॥
द्वादशः सर्गः ।
उपनिषत्कथनम् -
पुनः रामः प्रवचनमुवाच द्विजपुङ्गव ।
अव्यक्तादभवत्कालः प्रधानं पुरुषः परः ॥ १॥
तेभ्यः सर्वमिदं जातं तस्मात्सर्वमिदं जगत् ।
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ॥ २॥
सर्वत श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ।
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ॥ ३॥
सर्वाधारं स्थिरानन्दमव्यक्तं द्वैतवर्जितम् ।
सर्वोपमानरहितं प्रमाणातीतगोचरम् ॥ ४॥
निर्विकल्पं निराभासं सर्वाभासं परामृतम् ।
अभिन्नं भिन्नसंस्थानं शाश्वतं ध्रुवमव्ययम् ॥ ५॥
निर्गुणं परमं व्योम तज्ज्ञानं सूरयो विदुः ।
स आत्मा सर्वभूतानां स बाह्याभ्यन्तरात्परः ॥ ६॥
सोऽहं सर्वत्रगः शान्तो ज्ञानात्मा परमेश्वरः ।
मया ततमिदं विश्वं जगदव्यक्तरूपिणा ॥ ७॥
मत्स्थानि सर्वभूतानि यस्तं वेद स वेदवित् ।
प्रधानं पुरुषं चैव तत्त्वद्वयमुदाहृतम् ॥ ८॥
तयोरनादिनिर्दिष्टः कालः संयोजकः परः ।
त्रयमेतदनाद्यन्तमव्यक्तं समवस्थितम् ॥ ९॥
तदात्मकं तदन्यत्स्यात्तद्रूपं मामकं विदुः ।
महदाद्यं विशेषान्तं सम्प्रसूतेऽखिलं जगत् ॥ १०॥
या सा प्रकृतिरुद्दिष्टा मोहिनी सर्वदेहिनाम् ।
पुरुषः प्रकृतिस्थोतोऽपिभुङ्क्ते यः प्राकृतान्गुणान् ॥ ११॥
अहङ्कारो विविक्तत्वात्प्रोच्यते पञ्चविंशकः ।
आद्यो विकारः प्रकृतिर्महनात्मेति कथ्यते ॥ १२॥
विज्ञानशक्तिर्विज्ञानादहङ्कारस्तदुत्थितः ।
एक एव महानात्मा सोहङ्कारोऽभिधीयते ॥ १३॥
रा जीवः सोऽन्तरात्मेति गीयते तत्त्वचिन्तकैः ।
तेन वेदयते सर्वं सुखं दुःखं च जन्मसु ॥ १४॥
स विज्ञानात्मकस्तस्य मनः स्यादुपकारकम् ।
तेनाविवेकतस्तस्मात्संसारं पुरुषस्य तु ॥ १५॥
स चाविवेकः प्रकृतौ सङ्गात्कालेन सोऽभवत् ।
कालः सृजति भूतानि कालः संहरते प्रजाः ॥ १६॥
सर्वे कालस्य वशगा न कालः कस्यचिद्वशे ।
सोऽन्तरा सर्वमेवेदं नियच्छति सनातनः ॥ १७॥
प्रोच्यते भगवान्प्राणः सर्वज्ञः पुरुषः परः ।
सर्वेन्द्रियेभ्यः परमं मनः प्राहुर्मनीषिणः ॥ १८॥
मनसश्चाप्यहङ्कारमहङ्कारान्महान् परः ।
महतः परमव्यक्तमव्यक्तात्पुरुषः परः ॥ १९॥
पुरुषाद्भगवान्प्राणस्तस्य सर्वमिदं जगत् ।
प्राणात्परतरं व्योम व्योमातीतोऽग्निरीश्वरः ॥ २०॥
सोऽहं सर्वत्रगः शान्तो ज्ञानात्मा परमेश्वरः ।
नास्ति मत्परमं भूतं मां विज्ञाय विमुच्यते ॥ २१॥
नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् ।
ऋते मामेकमव्यक्तं व्योमरूपं महेश्वरम् ॥ २२॥
सोऽहं सृजामि सकलं संहरामि सदा जगत् ।
मायी मायामयो देवः कालेन सह सङ्गतः ॥ २३॥
मत्सन्निधावेष कालः करोति सकलं जगत् ।
नियोजयत्यनन्तात्मा ह्येतद्वेदानुशासनम् ॥ २४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
अद्भुतोत्तरकाण्डे उपनिषत्कथनं नाम द्वादशः सर्गः ॥ १२॥
त्रयोदशः सर्गः
भक्तियोगकथनम् -
वक्ष्ये समाहितमनाः शृणुष्व पवनात्मज ।
येनेदं लीयते रूपं येनेदं सम्प्रवर्तते ॥ १॥
नाहं तपोभिर्विविधैर्न दानेन नच चेज्यया ।
शक्यो हि पुरुषैर्ज्ञातुमृते भक्तिमनुत्तमाम् ॥ २॥
अहं हि सर्वभावानामन्तस्तिष्ठामि सर्वगः ।
मां सर्वसाक्षिणं लोके न जानन्ति प्लवङ्गम ॥ ३॥
यस्यान्तरा सर्वमिदं यो हि सर्वान्तरः परः ।
सोऽहं धाता विधाता च लोकेऽस्मिन्विश्वतोमुखः ॥ ४॥
न मां पश्यन्ति मुनयः सर्वेऽपि त्रिदिवौकसः ।
ब्राह्मणा मनवः शक्रा ये चान्ये प्रथितौजसः ॥ ५॥
गृणन्ति सततं वेदा मामेकं परमेश्वरम् ।
यजन्ति विविधैरग्नौ ब्राह्मणा वैदिकैर्मखैः ॥ ६॥
सर्वेलोका नमस्यन्ति ब्रह्मलोके पितामहम् ।
ध्यायन्ति योगिनो देवं भूताधिपतिमीश्वरम् ॥ ७॥
अहं हि सर्वयज्ञानां भोक्ता चैव फलप्रदः ।
सर्वदेवतनुर्भूत्वा सर्वात्मा सर्वसंस्तुतः ॥ ८॥
मां पश्यन्तीह विद्वान्सो धार्मिका वेदवादिनः ।
तेषां सन्निहितो नित्यं ये भक्ता मामुपासते ॥ ९॥
ब्राह्मणाः क्षत्रिया वैश्या धार्मिका मामुपासते ।
तेषां ददामि तत्स्थानमानन्दं परमं पदम् ॥ १०॥
अन्येऽपि ये विकर्मस्थाः शूद्राद्या नीचजातयः ।
भक्तिमन्तः प्रमुच्यन्ते कालेन मयि सङ्गताः ॥ ११॥
न मद्भक्ता विनश्यन्ते मद्भक्ता वीतकल्मषाः ।
आदावेतत्प्रतिज्ञातं न मे भक्तः प्रणश्यति ॥ १२॥
यो वा निन्दति तं मूढो देवदेवं स निन्दति ।
यो हि तं पूजयेद्भक्त्या स पूजयति मां सदा ॥ १३॥
पत्रं पुष्पं फलं तोयं मदाराधनकारणात् ।
यो मे ददाति नियतः स मे भक्तः प्रियो मतः ॥ १४॥
अहं हि जगतामादौ ब्रह्माणं परमेष्ठिनम् ।
विधाय दत्तवान्वेदानशेषानास्यनिःसृतान् ॥ १५॥
अहमेव हि सर्वेषां योगिनां गुरुरव्ययः ।
धार्मिकानां च गोप्ताहं निहन्ता वेदविद्विषाम् ॥ १६॥
अहं वै सर्वसंसारान्मोचको योगिनामिह ।
संसारहेतुरेवाहं सर्वसंसारवर्जितः ॥ १७॥
अहमेव हि संहर्ता स्त्रष्टाहं परिपालकः ।
मायावी मामिका शक्तिर्माया लोकविमोहिनी ॥ १८॥
ममैव च पराशक्तिर्या सा विद्येति गीयते ।
नाशयामि तया मायां योगिनां हृदि संस्थितः ॥ १९॥
अहं हि सर्वशक्तीनां प्रवर्तकनिवर्तकः ।
आधारभूतः सर्वेषां निधानममृतस्य च ॥ २०॥
एका सर्वान्तरा शक्तिः करोति विविधं जगत् ।
भूत्वा नारायणोऽनन्तो जगन्नाथो जगन्मयः ॥ २१॥
तृतीया महती शक्तिर्निहन्ति सकलं जगत् ।
तामसी मे समाख्याता कालात्मा रुद्रकपिणी ॥ २२॥
ध्यानेन मां प्रपश्यन्ति केचिज्ज्ञानेन चापरे ।
अपरे भक्तियोगेन कर्मयोगेन चापरे ।
सर्वेषामेव भक्तानामेष प्रियतरो मम ॥ २३॥
यो विज्ञानेन मां नित्यमाराधयति नान्यथा
अन्ये च ये त्रयो भक्ता मदाराधनकाङ्क्षिणः ॥ २४॥
तेऽपि मां प्राप्नुवन्त्येव नावर्तते च वै पुनः ।
मया ततमिदं कृत्स्नं प्रधानपुरुषात्मकम् ।
मय्येव संस्थितं विश्वं मया सम्प्रेर्यते जगत् ॥ २५॥
नाहं प्रेरयिता कीश परमं योगमाश्रितः ।
प्रेरयामि जगत्कृत्स्नमेतद्यो वेद सोऽमृतः ॥ २६॥
पश्याम्यशेषमेवेदं वर्तमानं स्वभावतः ।
करोति काले भगवान्महायोगेश्वरः स्वयम् ॥ २७॥
योगं सम्प्रोच्यते योगी मायी शास्त्रेषु सूरिभिः ।
योगेश्वरोऽसौ भगवान्महादेवो महाप्रभुः ॥ २८॥
महत्वात्सर्वसत्त्वानां वरत्वात्परमेश्वरः ।
प्रोच्यते भगवान्ब्रह्मा महान्ब्रह्ममयो यतः ॥ २९॥
यो मामेवं विजानाति महायोगेश्वरेश्वरम् ।
सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥ ३०॥
सोऽहं प्रेरयिता देवः परमानन्दमाश्रितः ।
तिष्ठामि सततं योगी यस्तद्वेद स वेदवित् ॥ ३१॥
इति गुह्यतमं ज्ञानं सर्ववेदेषु निश्चितम् ।
प्रसन्नचेतसे देयं धार्मिकायाहिताग्नये ॥ ३२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
अद्भुतोत्तरकाण्डे भक्तियोगो नाम त्रयोदशः सर्गः ॥ १३॥
चतुर्दशः सर्गः ।
श्रीरामचन्द्रहनुमत्संवादवर्णनम् -
सर्वलोकैकनिर्माता सर्वलोकैकरक्षिता ।
सर्वलोकैकसंहर्ता सर्वात्माऽहं सनातनः ॥ १॥
सर्वेषामेव वस्तूनामन्तर्यामी पिता ह्यहम् ।
मय्येवान्तःस्थितं सर्वं नाहं सर्वत्र संस्थितः ॥ २॥
भवता चाद्भुतं दृष्टं यत्स्वरूपं तु मामकम् ।
ममैषा ह्युपमा वत्स मायया दर्शिता मया ॥ ३॥
सर्वेषामेव भावानामन्तरा समवस्थितः ।
प्रेरयामि जगत्सर्वं क्रियाशक्तिरियं मम ॥ ४॥
मयेदं चेष्टते विश्वं मत्स्वभावानुवर्ति च ।
सोऽहं काले जगत्कृत्स्नं करोमि हनुमन् किल ॥ ५॥
संहराम्येकरूपेण द्विधावस्था ममैव तु ।
आदिमध्यान्तनिर्मुक्तो मायातत्त्वप्रवर्तकः ॥ ६॥
क्षोभयामि च सर्गादौ प्रधानपुरुषावुभौ ।
ताभ्यां सञ्जायते सर्वं संयुक्ताभ्यां परस्परम् ॥ ७॥
महदादिक्रमेणैव मम तेजोविजृम्भितम् ।
यो हि सर्वजगत्साक्षी कालचक्रप्रवर्तकः ॥ ८॥
हिरण्यगर्भो मार्तण्डः सोऽपि मद्देहसम्भवः ।
तस्मै दिव्यं स्वमैश्वर्यं ज्ञानयोगं सनातनम् ॥ ९॥
दत्तवानात्मजान् वेदान् कल्पादौ वतुरः किल ।
स मन्नियोगतो ब्रह्मा सदा मद्भावभावितः ॥ १०॥
दिव्यं तन्मामकैश्वर्यं सर्वदा वहति स्वयम् ।
स सर्वलोकनिर्माता मन्नियोगेन सर्ववित् ॥ ११॥
भूत्वा चतुर्मुखः सर्वं सृजत्येवात्मसम्भवः ।
योऽपि नारायणोऽनन्तो लोकानां प्रभवाव्ययः ॥ १२॥
ममैव परमा मूर्तिः करोति परिपालनम् ।
योऽन्तकः सर्वभूतानां रुद्रः कालात्मकः प्रभुः ॥ १३॥
मदाज्ञयाऽसौ सततं संहारत्येव मे तनुः ।
हव्यं वहति देवानां कव्यं कव्याशिनामपि ॥ १४॥
पाकं च कुरुते वह्निः सोऽपि मच्छक्तिचोदितः ।
भुक्तमाहारजातं यत्पचत्येतदहर्निशम् ॥ १५॥
वैश्वानरोऽग्निर्भगवानीश्वरस्य नियोगतः ।
यो हि सर्वाम्भसां योनिर्वरुणो देवपुङ्गवः ॥ १६॥
स सञ्जीवयते सर्वमीशस्यैव नियोगतः ।
योऽन्तस्तिष्ठति भूतानां बहिर्देवो निरञ्जनः ॥ १७॥
मदाज्ञयासौ भूतानां शरीराणि बिभर्ति हि ।
योऽपि सञ्जीवनो नृणां देवानाममृताकरः ॥ १८॥
सोमः स मन्नियोगेन चोदितः किल वर्तते ।
यः स्वभासा जगत्कृत्स्नं प्रकाशयति सर्वदा ॥ १९॥
सूर्यो वृष्टिं वितनुते शास्त्रेणैव स्वयम्भुवः ।
योऽप्यशेषजगच्छास्ता शक्रः सर्वामरेश्वरः ॥ २०॥
यज्ञानां फलदो देवो वर्ततेऽसौ मदाज्ञया ।
यः प्रशास्ता ह्यसाधूनां वर्तते नियमादिह ॥ २१॥
यमो वैवस्वतो देवो देवदेवनियोगतः ।
योऽपि सर्वधनाध्यक्षो धनानां सम्प्रदायकः ॥ २२॥
सोऽपीश्वरनियोगेन कुबेरो वर्तते सदा ।
यः सर्वरक्षसां नाथस्तापसानां फलप्रदाः ॥ २३॥
मन्नियोगादसौ देवो वर्तते निरृतिः सदा ।
वैतालगणभूतानां स्वामी भोगफलप्रदः ॥ २४॥
ईशानः सर्वभक्तानां सोऽपि तिष्ठेन्ममाज्ञया ।
यो वामदेवोऽङ्गिरसः शिष्यो रुद्रगणाग्रणीः ॥ २५॥
रक्षको योगिनां नित्यं वर्ततेऽसौ मदाज्ञया ।
यश्च सर्वजगत्पूज्ययो वर्तते विघ्नकारकः ॥ २६॥
विनायको धर्मनेता सोऽपि मद्वचनात्किल ।
योऽपि वेदविदां श्रेष्ठो देवसेनापतिः प्रभुः ॥ २७॥
स्कन्दोऽसौ वर्तते नित्यं स्वयम्भूप्रतिचोदितः ।
ये च प्रजानां पतयो मरीच्याद्या महर्षयः ॥ २८॥
सृजन्ति विविधान् लोकान् परस्यैव नियोगतः ।
या च श्री सर्वभूतानां ददाति विपुलां श्रियम् ॥ २९॥
पत्नी नारायणस्यासौ वर्तते मदनुग्रहात् ।
वाचं ददाति विपुलां या च देवी सरस्वती ॥ ३०॥
सापीश्वरनियोगेन चोदिता सम्प्रवर्तते ।
याशेषपुरुषान् घोरान्नरकात्तारयत्यपि ॥ ३१॥
सावित्री संस्मृता देवी देवाज्ञानुविधायिनी ।
पार्वती परमा देवी ब्रह्मविद्याप्रदायिनी ॥ ३२॥
यापि ध्याता विशेषेण सापि मद्वचनानुगा ।
योऽनन्तो महिमानन्तः शेषोऽशेषामरः प्रभुः ॥ ३३॥
दधाति शिरसा लोकं सोऽपि देवनियोगतः ।
योऽग्निः संवर्तको नित्यं वडवारूपसंस्थितः ॥ ३४॥
पिबत्यखिलमम्भोधिमीश्वरस्य नियोगतः ।
आदित्या वसवो रुद्रा मरुतश्च तथाश्विनौ ॥ ३५॥
अन्याश्च देवताः सर्वा मच्छासनमधिष्ठिताः ।
गन्धर्वा उरगा यक्षाः सिद्धाः साध्याश्च चारणाः ॥ ३६॥
भूतरक्षःपिशाचाश्च स्थिताः शास्त्रे स्वयम्भुवः ।
कलाकाष्ठानिमेषाश्च मुहूर्ता दिवसाः क्षणाः ॥ ३७॥
ऋत्वब्दमासपक्षाश्च स्थिताः शास्त्रे प्रजापतेः ।
युगमन्वन्तराण्येव मम तिष्ठन्ति शासने ॥ ३८॥
पराश्चैव परार्द्धाश्च कालभेदास्तथापरे ।
चतुर्विधानि भूतानि स्थावराणि चराणि च ॥ ३९॥
नियोगादेव वर्तन्ते सर्वाण्येव स्वयम्भुवः ।
पत्तनानि च सर्वाणि भुवनानि च शासनात् ॥ ४०॥
ब्रह्माण्डानि च वर्तन्ते देवस्य परमात्मनः ।
अतीतान्यप्यसङ्ख्यानि ब्रह्माण्डानि मदाज्ञया ॥ ४१॥
प्रवृत्तानि पदार्थौघैः सहितानि समं ततः ।
ब्रह्माण्डानि भविष्यन्ति सह वस्तुभिरात्मजैः ॥ ४२॥
हरिष्यन्ति सहैवाज्ञां परस्य परमात्मनः ।
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ॥ ४३॥
भूतादिरादिप्रकृतिर्नियोगान्मम वर्तते ।
याऽशेषसर्वजगतां मोहिनीं सर्वदेहिनाम् ॥ ४४॥
मायापि वर्तते नित्यं सापीश्वरनियोगतः ।
विधूय मोहकलिलं यथा पश्यति तत्पदम् ॥ ४५॥
सापि विद्या महेशस्य नियोगाद्वशवर्तिनी ।
बहुनात्र किमुक्तेन मम शक्त्यात्मकं जगत् ॥ ४६॥
मयैव पूर्यते विश्वं मयैव प्रलयं व्रजेत् ।
अहं हि भगवानीशः स्वयञ्ज्योतिः सनातनः ॥ ४७॥
परमात्मा परम्ब्रह्म मत्तो ह्यन्यन्न विद्यते ।
इत्येतत्परमं ज्ञानं भवते कथितं मया ॥ ४८॥
ज्ञात्वा विमुच्यते जन्तुर्जन्म संसारबन्धनात् ।
मायामाश्रित्य जातोऽहं गृहे दशरथस्य हि ॥ ४९॥
रामोऽहं लक्ष्मणो ह्येष शत्रुघ्नो भारतोऽपि च ।
चतुर्धा सम्प्रभूतोऽहं कथितं तेऽनिलात्मज ॥ ५०॥
मायास्वरूपं च तव कथितं यत्प्लवङ्गम ।
कृपया तद्धृदा धार्यं न विस्मर्तव्यमेव हि ॥ ५१॥
येनायं पठ्यते नित्यं संवादो भवतो मम ।
जीवन्मुक्तो भवेत्सोऽपि सर्वपापैः प्रमुच्यते ॥ ५२॥
श्रावयेद्वा द्विजाञ्छुद्धान्ब्रह्मचर्यपरायणान् ।
यो वा विचारयेदर्थं स याति परमां गतिम् ॥ ५३॥
यश्चैतच्छृणुयान्नित्यं भक्तियुक्तो दृढव्रतः ।
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥ ५४॥
तस्मात्सर्वप्रयत्नेन पठितव्यो मनीषिभिः ।
श्रोतव्यश्चापि मन्तव्यो विशेषाद्ब्राह्मणैः सदा ॥ ५५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
अद्भुतोत्तरकाण्डे भगवद्धनूमत्संवादो नाम चतुर्दशः सर्गः ॥ १४॥
॥ रासगीता ॥
नारद उवाच --
श्रीराधा माधवस्यापि राधायाश्चापि माधवः ।
करोति परमानन्दं प्रेमालिङ्गनपूर्वकम् ॥ १॥
राधासुखसुधासिन्धुः कृष्णश्चुम्बति राधिकाम् ।
श्यामप्रेममयी राधा सदा चुम्बति माधवम् ॥ २॥
त्रिभङ्गललितः कृष्णो मुरलीं पूरयेन्मुदा ।
चालयेद्रेणुरन्ध्रेषु राधिका च कराङ्गुलीः ॥ ३॥
श्रीनामाकर्षणं कृष्णं राधा गायति सुन्दरम् ।
शब्दब्रह्मध्वनिं राधां कृष्णो धारयति ध्रुवम् ॥ ४॥
मुरलीकलसङ्गीतं श्रुत्वा मुग्द्धा व्रजस्त्रियः ।
कदम्बमूलमायाता यत्रास्ति मुरलीधरः ॥ ५॥
राधाकान्तो व्रजस्त्रीभिर्वेष्टितो व्रजमोहनः ।
शोभते तारकामध्ये तारकानायको यथा ॥ ६॥
किशोरी सुन्दरी राधा किशोरः श्यामसुन्दरः ।
किशोर्यो व्रजसुन्दर्यो विहरन्ति निरन्तरम् ॥ ७॥
नित्यवृन्दावने राध्या राधाकृष्णश्च गोपिकाः ।
मण्डलं पूर्णरासस्य लीलया संवितथ्यते ॥ ८॥
राधया सह कृष्णेन क्रियते रासमण्डलम् ।
कल्पितानेकरूपेण मायया परमात्मना ॥ ९॥
माधवराधयोर्मध्ये राधामाधवयोरपि ।
माधवो राधया सार्द्धं राजते रासमण्डले ॥ १०॥
गोपालवल्लभा गोप्यो राधिकायाः कलात्मिकाः ।
क्रीडन्ति सह कृष्णेन रासमण्डलमण्डिताः ॥ ११॥
कृत्वा चानेकरूपाणि गोपीमण्डलसंश्रयः ।
गोविन्दो रमते तत्र तासां मध्ये द्वयोर्द्वयोः ॥ १२॥
प्रेमस्पर्शमणिं कृष्णं श्लिष्यन्तो व्रजयोषितः ।
भवन्ति सर्वकालाढ्या गोविन्दहृदयङ्गमाः ॥ १३॥
एकैकगोपिकापार्श्वे हरेरेकैकविग्रहः ।
सुवर्णगुटिकायोगे मध्ये मारकतो यथा ॥ १४॥
हेमकल्पलतागोपीबाहुभिः कण्ठमालया ।
तमालश्यामलः कृष्णो घूर्ण्यते रासलीलया ॥ १५॥
किङ्किणीनूपुरादीनां भूषणानां च भूषणम् ।
कैशोरं सफलं कुर्वन् गोपीभिः सह मोदते ॥ १६॥
राधाकृष्णेति सङ्गीतं गोप्यो गायन्ति सुस्वरम् ।
राधाकृष्णरीनात्तहस्तकानुपदक्रमैः ॥ १७॥
जय कृष्ण मनोहर योगधरे यदुनन्दन नन्दकिशोर हरे ।
जय रासरसेश्वरि पूर्णतमे वरदे वृषभानुकिशोरि यमे ॥ १८॥
जयतीह कदम्बतले मिलितः कलवेणुसमीरितगानरतः ।
सह राधिकया हरिरेकमहः सततं तरुणीगणमध्यगतः ॥ १९॥
वृषभानुसुता परमा प्रकृतिः पुरुषो व्रजराजसुतप्रकृतिः ।
मुहुर्नृत्यति गायति वादयते सह गोपिकया विपिने रमते ॥ २०॥
यमुनापुलिने वृषभानुसुता नवका-ललितादि सखीसहिता ।
रमते विधुना सह नृत्यवता गतिचञ्चलकुण्डलहारवता ॥ २१॥
स्फुटपद्ममुखी वृषभानुसुता नवनीतसुकोमलबाहुयुता ।
परिरभ्य हरिं प्रियमात्मसुखं परिचुम्बति शारदचन्द्रमुखम् ॥ २२॥
रसिको व्रजराजसुतः सुरते रसिकां वृषभानुसुतां भजते ।
नवपल्लवकल्पिततल्पगतां सुकुमारमनोभवभाववशाम् ॥ २३॥
वसुदेवसुतोरसि हेमलता स्फुटपीनपयोधरभारवता ।
शयनं कुरुते वृषभानुसुता प्रणमामि सदा वृषभानुसुताम् ।
नवनीरदसुन्दरनीलतनुं तडिदुज्ज्वलकुण्डलिनीं सुतनुम् ॥ २५॥
शिथिकण्ठशिखण्डलसन्मुकुटं कबरीपरिबद्धकिरीटघटाम्(?) ।
कमलाश्रितखञ्जननेत्रयुगं मकराकृतिकुण्डलगण्डयुगम् ॥ २६॥
परिपूर्णमृगाङ्कसुचारुमुखं मणिकुण्डलमण्डितगण्डयुगम् ।
कनकाङ्गदशोभितबाहुधरं मणिकङ्कणशोभितशङ्खकराम् ॥ २७॥
मणिकौस्तुभभूषितहारयुतं कुचकुम्भविराजितहारलताम् ।
तुलसीदलदामसुगन्धितनुं हरिचन्दनचर्चितगौरतनुम् ॥ २८॥
तनुभूषितपीतपटीजडितं रशनान्वितनीलनिचोलयुताम् ।
तरसाञ्जनदिग्गजराजगतिं कलनूपुरहंसविलासगतिम् ॥ २९॥
रतिनाथमनोहरवेशधरं निजनाथमनोहरवेशधराम् ।
मणिनिर्मितपङ्कजमध्यगतं रसरासमनोहरमध्यरताम् ॥ ३०॥
मुरलीमधुरश्रुतिरागपरं स्वरसप्तसमन्वितगानपराम् ।
नवनायकवेशकिशोरवयो व्रजराजसुतः सह राधिकया ॥ ३१॥
इतरेतरबद्धकरभ्रमणं कुरुते कुसुमायुधकेलिवनम् ।
अधिकेहितमाधवराधिकयोः वृतरासपरस्परमण्डलयोः॥ ३२॥
मणिकङ्कणशिञ्चिततालवनं हरते सनकादिमुनेर्मननम् ।
वृषभानुसुता व्रजराजसुतः कनकप्रतिमा मणिमारकतः ॥ ३३॥
भ्रमतीह यथाविथि यन्त्रगतः सहयोगगतो यमितान्तरितः ।
उभयोरुभयोराधयोर्दयिते पृथगन्तरिते वृषभानुसुते ॥ ३४॥
वृषभानुसुताभुजबद्धगलः कुशली व्रजराजसुतः सकलः ।
यदुनन्दनयोर्भुजबद्धगला वृषभानुसुता रुचिरा सकला ॥ ३५॥
वृषभानुसुता व्रजराजसुतः व्रजराजसुतो वृषभानुसुता ।
केलिकदम्बतले वनमाली नृत्यति चञ्चलचन्द्रकमौली ॥ ३६॥
राधिकया सह रासविलासी गोपवधूप्रियगोकुलवासी ।
क्रीडति राधिकया सह कृष्णः श्रीमुखचन्द्रसुधारसतृष्णः ॥ ३७॥
नर्तकखञ्जनलोचनलोलः कुण्डलमण्डितचारुकपोलः ।
कुञ्जगृहे कुसुमोत्तमतल्पे सूर्यसुताजलवायुसुकल्पे ॥ ३८॥
केशव आदिरसं प्रतिशेते राधिकया सह चन्द्रसुशीते ।
रासरसे सुविराजितराधा चन्दनचर्चितपङ्कजगन्धा ॥ ३९॥
माधवसङ्गमवर्धितरङ्गा पूर्णमनोरथमन्मथसङ्गा ।
शोभनकोमलदिव्यशरीरा कृष्णवपुःपरिमाणकिशोरा ॥ ४०॥
भावमयी वृषभानुकिशोरी काञ्चनचम्पककुङ्कुमगौरी ।
राधयोराधयोर्मध्यतो मध्यतो माधवो माधवो मण्डले शोभते ॥ ४१॥
राधिका राधिका माधवं चुम्बति माधवो माधवो राधिकां श्लिष्यति ।
राधिका राधिका माधवं गायति माधतो राधिकां वेणुना गायति ॥ ४२॥
कल्पिते मण्डले राजते राधिका माधवप्रेमसन्दोहसंराधिका ।
राधिकां राधिकां चान्तरेणान्तरः माधवं माधवं चान्तरेणान्तरा ।
माधवो माधवो राधिका राधिका राधिका राधिका माधवो माधवः ॥ ४३॥
वासावतारविस्तारं वंशीवादनसुन्दरम् ।
रतिकाममदाक्रान्तं राधाकृष्णं भजाम्यहम् ॥ ४४॥
भ्रमन्तं रासचक्रेण नृत्यन्तं तालशिञ्जितैः ।
गोपीभिः सह गायन्तं राधाकृष्णं भजाम्यहम् ॥ ४५॥
रासमण्डलमध्यस्थं प्रफुल्लवदनाम्बुजम् ।
अनन्यहृदयासक्तं राधाकृष्णं भजाम्यहम् ॥ ४६॥
विद्युद्गौरं घनश्यामं प्रेमालिङ्गनतत्परम् ।
परस्परकमर्द्धाङ्गं राधाकृष्णं भजाम्यहम् ॥ ४७॥
राधिकारूपिणं कृष्णं राधिकां कृष्णरूपिणीम् ।
रासयोगानुसारेण राधाकृष्णं भजाम्यहम् ॥ ४८॥
पुष्पिते माधवीकुञ्जे पुष्पतल्पोपरिस्थितम् ।
विपरीतरतासक्तं राधाकृष्णं भजाम्यहम् ॥ ४९॥
रासक्रिडापरिश्रान्तं मधुपानपरायणम् ।
ताम्बूलपूर्णवक्त्रेन्दुं राधाकृष्णं भजाम्यहम् ॥ ५०॥
रासोल्लासकलापूर्णं गोपीमण्डलमण्डितम् ।
श्रीमाधवं राधिकाख्यं पूर्णचन्द्रमुपास्महे ॥ ५१॥
चतुर्वर्गफलं त्यक्त्वा श्रीवृन्दावनमध्यतः ।
श्रीराधा-श्रीपादपद्मं प्रार्थये जन्मजन्मनि ॥ ५२॥
राधाकृष्णसुधासिन्धुरासगङ्गाङ्गसङ्गमे ।
अवगाह्य मनोहंसो विहरेच्च याथासुखम् ॥ ५३॥
रासगीतां पठेद्यस्तु शृणुयद्वापि यो नरः ।
वाञ्चासिद्धिर्भवेत्तस्य भक्तिः स्यात् प्रेमलक्षणा ॥ ५४॥
लक्ष्मीस्तस्य वसेद्गेहे मुखे भाति सरस्वती ।
धर्मार्थकामकैवल्यं लभते सत्यमेव सः ॥ ५५॥
समाप्तेयं रासगीता ।
॥ श्रीमद्भागवतान्तर्गतम् रुद्रगीतम् ॥
मैत्रेय उवाच ।
विजिताश्वोऽधिराजासीत्पृथुपुत्रः पृथुश्रवाः ।
यवीयोभ्योऽददात्काष्ठा भ्रातृभ्यो भ्रातृवत्सलः ॥ ४.२४.०१॥
हर्यक्षायादिशत्प्राचीं धूम्रकेशाय दक्षिणाम् ।
प्रतीचीं वृकसंज्ञाय तुर्यां द्रविणसे विभुः ॥ ४.२४.०२॥
अन्तर्धानगतिं शक्राल्लब्ध्वान्तर्धानसंज्ञितः ।
अपत्यत्रयमाधत्त शिखण्डिन्यां सुसम्मतम् ॥ ४.२४.०३॥
पावकः पवमानश्च शुचिरित्यग्नयः पुरा ।
वसिष्ठशापादुत्पन्नाः पुनर्योगगतिं गताः ॥ ४.२४.०४॥
अन्तर्धानो नभस्वत्यां हविर्धानमविन्दत ।
य इन्द्रमश्वहर्तारं विद्वानपि न जघ्निवान् ॥ ४.२४.०५॥
राज्ञां वृत्तिं करादान दण्डशुल्कादिदारुणाम् ।
मन्यमानो दीर्घसत्त्र व्याजेन विससर्ज ह ॥ ४.२४.०६॥
तत्रापि हंसं पुरुषं परमात्मानमात्मदृक् ।
यजंस्तल्लोकतामाप कुशलेन समाधिना ॥ ४.२४.०७॥
हविर्धानाद्धविर्धानी विदुरासूत षट्सुतान् ।
बर्हिषदं गयं शुक्लं कृष्णं सत्यं जितव्रतम् ॥ ४.२४.०८॥
बर्हिषत्सुमहाभागो हाविर्धानिः प्रजापतिः ।
क्रियाकाण्डेषु निष्णातो योगेषु च कुरूद्वह ॥ ४.२४.०९॥
यस्येदं देवयजनमनुयज्ञं वितन्वतः ।
प्राचीनाग्रैः कुशैरासीदास्तृतं वसुधातलम् ॥ ४.२४.१०॥
सामुद्रीं देवदेवोक्तामुपयेमे शतद्रुतिम्
यां वीक्ष्य चारुसर्वाङ्गीं किशोरीं सुष्ठ्वलङ्कृताम् ।
०४२४०११३ परिक्रमन्तीमुद्वाहे चकमेऽग्निः शुकीमिव ॥॥
विबुधासुरगन्धर्व मुनिसिद्धनरोरगाः ।
विजिताः सूर्यया दिक्षु क्वणयन्त्यैव नूपुरैः ॥ ४.२४.१२॥
प्राचीनबर्हिषः पुत्राः शतद्रुत्यां दशाभवन् ।
तुल्यनामव्रताः सर्वे धर्मस्नाताः प्रचेतसः ॥ ४.२४.१३॥
पित्रादिष्टाः प्रजासर्गे तपसेऽर्णवमाविशन् ।
दशवर्षसहस्राणि तपसार्चंस्तपस्पतिम् ॥ ४.२४.१४॥
यदुक्तं पथि दृष्टेन गिरिशेन प्रसीदता ।
तद्ध्यायन्तो जपन्तश्च पूजयन्तश्च संयताः ॥ ४.२४.१५॥
विदुर उवाच ।
प्रचेतसां गिरित्रेण यथासीत्पथि सङ्गमः ।
यदुताह हरः प्रीतस्तन्नो ब्रह्मन्वदार्थवत् ॥ ४.२४.१६॥
सङ्गमः खलु विप्रर्षे शिवेनेह शरीरिणाम् ।
दुर्लभो मुनयो दध्युरसङ्गाद्यमभीप्सितम् ॥ ४.२४.१७॥
आत्मारामोऽपि यस्त्वस्य लोककल्पस्य राधसे ।
शक्त्या युक्तो विचरति घोरया भगवान्भवः ॥ ४.२४.१८॥
मैत्रेय उवाच ।
प्रचेतसः पितुर्वाक्यं शिरसादाय साधवः ।
दिशं प्रतीचीं प्रययुस्तपस्यादृतचेतसः ॥ ४.२४.१९॥
ससमुद्रमुप विस्तीर्णमपश्यन्सुमहत्सरः ।
महन्मन इव स्वच्छं प्रसन्नसलिलाशयम् ॥ ४.२४.२०॥
नीलरक्तोत्पलाम्भोज कह्लारेन्दीवराकरम् ।
हंससारसचक्राह्व कारण्डवनिकूजितम् ॥ ४.२४.२१॥
मत्तभ्रमरसौस्वर्य हृष्टरोमलताङ्घ्रिपम् ।
पद्मकोशरजो दिक्षु विक्षिपत्पवनोत्सवम् ॥ ४.२४.२२॥
तत्र गान्धर्वमाकर्ण्य दिव्यमार्गमनोहरम् ।
विसिस्म्यू राजपुत्रास्ते मृदङ्गपणवाद्यनु ॥ ४.२४.२३॥
तर्ह्येव सरसस्तस्मान्निष्क्रामन्तं सहानुगम् ।
उपगीयमानममर प्रवरं विबुधानुगैः ॥ ४.२४.२४॥
तप्तहेमनिकायाभं शितिकण्ठं त्रिलोचनम् ।
प्रसादसुमुखं वीक्ष्य प्रणेमुर्जातकौतुकाः ॥ ४.२४.२५॥
स तान्प्रपन्नार्तिहरो भगवान्धर्मवत्सलः ।
धर्मज्ञान्शीलसम्पन्नान्प्रीतः प्रीतानुवाच ह ॥ ४.२४.२६॥
श्रीरुद्र उवाच ।
यूयं वेदिषदः पुत्रा विदितं वश्चिकीर्षितम् ।
अनुग्रहाय भद्रं व एवं मे दर्शनं कृतम् ॥ ४.२४.२७॥
यः परं रंहसः साक्षात्त्रिगुणाज्जीवसंज्ञितात् ।
भगवन्तं वासुदेवं प्रपन्नः स प्रियो हि मे ॥ ४.२४.२८॥
स्वधर्मनिष्ठः शतजन्मभिः पुमान्विरिञ्चतामेति ततः परं हि माम् ।
अव्याकृतं भागवतोऽथ वैष्णवं पदं यथाहं विबुधाः कलात्यये ॥ ४.२४.२९॥
अथ भागवता यूयं प्रियाः स्थ भगवान्यथा ।
न मद्भागवतानां च प्रेयानन्योऽस्ति कर्हिचित् ॥ ४.२४.३०॥
इदं विविक्तं जप्तव्यं पवित्रं मङ्गलं परम् ।
निःश्रेयसकरं चापि श्रूयतां तद्वदामि वः ॥ ४.२४.३१॥
मैत्रेय उवाच ।
इत्यनुक्रोशहृदयो भगवानाह ताञ्छिवः ।
बद्धाञ्जलीन्राजपुत्रान्नारायणपरो वचः ॥ ४.२४.३२॥
श्रीरुद्र उवाच ।
जितं त आत्मविद्वर्य स्वस्तये स्वस्तिरस्तु मे ।
भवताराधसा राद्धं सर्वस्मा आत्मने नमः ॥ ४.२४.३३॥
नमः पङ्कजनाभाय भूतसूक्ष्मेन्द्रियात्मने ।
वासुदेवाय शान्ताय कूटस्थाय स्वरोचिषे ॥ ४.२४.३४॥
सङ्कर्षणाय सूक्ष्माय दुरन्तायान्तकाय च ।
नमो विश्वप्रबोधाय प्रद्युम्नायान्तरात्मने ॥ ४.२४.३५॥
नमो नमोऽनिरुद्धाय हृषीकेशेन्द्रियात्मने ।
नमः परमहंसाय पूर्णाय निभृतात्मने ॥ ४.२४.३६॥
स्वर्गापवर्गद्वाराय नित्यं शुचिषदे नमः ।
नमो हिरण्यवीर्याय चातुर्होत्राय तन्तवे ॥ ४.२४.३७॥
नम ऊर्ज इषे त्रय्याः पतये यज्ञरेतसे ।
तृप्तिदाय च जीवानां नमः सर्वरसात्मने ॥ ४.२४.३८॥
सर्वसत्त्वात्मदेहाय विशेषाय स्थवीयसे ।
नमस्त्रैलोक्यपालाय सह ओजोबलाय च ॥ ४.२४.३९॥
अर्थलिङ्गाय नभसे नमोऽन्तर्बहिरात्मने ।
नमः पुण्याय लोकाय अमुष्मै भूरिवर्चसे ॥ ४.२४.४०॥
प्रवृत्ताय निवृत्ताय पितृदेवाय कर्मणे ।
नमोऽधर्मविपाकाय मृत्यवे दुःखदाय च ॥ ४.२४.४१॥
नमस्त आशिषामीश मनवे कारणात्मने
नमो धर्माय बृहते कृष्णायाकुण्ठमेधसे
पुरुषाय पुराणाय साङ्ख्ययोगेश्वराय च ॥ ४.२४.४२॥
शक्तित्रयसमेताय मीढुषेऽहङ्कृतात्मने ।
चेतआकूतिरूपाय नमो वाचो विभूतये ॥ ४.२४.४३॥
दर्शनं नो दिदृक्षूणां देहि भागवतार्चितम् ।
रूपं प्रियतमं स्वानां सर्वेन्द्रियगुणाञ्जनम् ॥ ४.२४.४४॥
स्निग्धप्रावृड्घनश्यामं सर्वसौन्दर्यसङ्ग्रहम् ।
चार्वायतचतुर्बाहु सुजातरुचिराननम् ॥ ४.२४.४५॥
पद्मकोशपलाशाक्षं सुन्दरभ्रु सुनासिकम् ।
सुद्विजं सुकपोलास्यं समकर्णविभूषणम् ॥ ४.२४.४६॥
प्रीतिप्रहसितापाङ्गमलकै रूपशोभितम् ।
लसत्पङ्कजकिञ्जल्क दुकूलं मृष्टकुण्डलम् ॥ ४.२४.४७॥
स्फुरत्किरीटवलय हारनूपुरमेखलम् ।
शङ्खचक्रगदापद्म मालामण्युत्तमर्द्धिमत् ॥ ४.२४.४८॥
सिंहस्कन्धत्विषो बिभ्रत्सौभगग्रीवकौस्तुभम् ।
श्रियानपायिन्या क्षिप्त निकषाश्मोरसोल्लसत् ॥ ४.२४.४९॥
पूररेचकसंविग्न वलिवल्गुदलोदरम् ।
प्रतिसङ्क्रामयद्विश्वं नाभ्यावर्तगभीरया ॥ ४.२४.५०॥
श्यामश्रोण्यधिरोचिष्णु दुकूलस्वर्णमेखलम् ।
समचार्वङ्घ्रिजङ्घोरु निम्नजानुसुदर्शनम् ॥ ४.२४.५१॥
पदा शरत्पद्मपलाशरोचिषा नखद्युभिर्नोऽन्तरघं विधुन्वता ।
प्रदर्शय स्वीयमपास्तसाध्वसं पदं गुरो मार्गगुरुस्तमोजुषाम् ॥ ४.२४.५२॥
एतद्रूपमनुध्येयमात्मशुद्धिमभीप्सताम् ।
यद्भक्तियोगोऽभयदः स्वधर्ममनुतिष्ठताम् ॥ ४.२४.५३॥
भवान्भक्तिमता लभ्यो दुर्लभः सर्वदेहिनाम् ।
स्वाराज्यस्याप्यभिमत एकान्तेनात्मविद्गतिः ॥ ४.२४.५४॥
तं दुराराध्यमाराध्य सतामपि दुरापया ।
एकान्तभक्त्या को वाञ्छेत्पादमूलं विना बहिः ॥ ४.२४.५५॥
यत्र निर्विष्टमरणं कृतान्तो नाभिमन्यते ।
विश्वं विध्वंसयन्वीर्य शौर्यविस्फूर्जितभ्रुवा ॥ ४.२४.५६॥
क्षणार्धेनापि तुलये न स्वर्गं नापुनर्भवम् ।
भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः ॥ ४.२४.५७॥
अथानघाङ्घ्रेस्तव कीर्तितीर्थयोरन्तर्बहिःस्नानविधूतपाप्मनाम् ।
भूतेष्वनुक्रोशसुसत्त्वशीलिनां स्यात्सङ्गमोऽनुग्रह एष नस्तव ॥ ४.२४.५८॥
न यस्य चित्तं बहिरर्थविभ्रमं तमोगुहायां च विशुद्धमाविशत् ।
यद्भक्तियोगानुगृहीतमञ्जसा मुनिर्विचष्टे ननु तत्र ते गतिम् ॥ ४.२४.५९॥
यत्रेदं व्यज्यते विश्वं विश्वस्मिन्नवभाति यत् ।
तत्त्वं ब्रह्म परं ज्योतिराकाशमिव विस्तृतम् ॥ ४.२४.६०॥
यो माययेदं पुरुरूपयासृजद्बिभर्ति भूयः क्षपयत्यविक्रियः ।
यद्भेदबुद्धिः सदिवात्मदुःस्थया त्वमात्मतन्त्रं भगवन्प्रतीमहि ॥ ४.२४.६१॥
क्रियाकलापैरिदमेव योगिनः श्रद्धान्विताः साधु यजन्ति सिद्धये ।
भूतेन्द्रियान्तःकरणोपलक्षितं वेदे च तन्त्रे च त एव कोविदाः ॥ ४.२४.६२॥
त्वमेक आद्यः पुरुषः सुप्तशक्तिस्तया रजःसत्त्वतमो विभिद्यते ।
महानहं खं मरुदग्निवार्धराः सुरर्षयो भूतगणा इदं यतः ॥ ४.२४.६३॥
सृष्टं स्वशक्त्येदमनुप्रविष्टश्चतुर्विधं पुरमात्मांशकेन ।
अथो विदुस्तं पुरुषं सन्तमन्तर्भुङ्क्ते हृषीकैर्मधु सारघं यः ॥ ४.२४.६४॥
स एष लोकानतिचण्डवेगो विकर्षसि त्वं खलु कालयानः ।
भूतानि भूतैरनुमेयतत्त्वो घनावलीर्वायुरिवाविषह्यः ॥ ४.२४.६५॥
प्रमत्तमुच्चैरिति कृत्यचिन्तया प्रवृद्धलोभं विषयेषु लालसम् ।
त्वमप्रमत्तः सहसाभिपद्यसे क्षुल्लेलिहानोऽहिरिवाखुमन्तकः ॥ ४.२४.६६॥
कस्त्वत्पदाब्जं विजहाति पण्डितो यस्तेऽवमानव्ययमानकेतनः ।
विशङ्कयास्मद्गुरुरर्चति स्म यद्विनोपपत्तिं मनवश्चतुर्दश ॥ ४.२४.६७॥
अथ त्वमसि नो ब्रह्मन्परमात्मन्विपश्चिताम् ।
विश्वं रुद्रभयध्वस्तमकुतश्चिद्भया गतिः ॥ ४.२४.६८॥
इदं जपत भद्रं वो विशुद्धा नृपनन्दनाः ।
स्वधर्ममनुतिष्ठन्तो भगवत्यर्पिताशयाः ॥ ४.२४.६९॥
तमेवात्मानमात्मस्थं सर्वभूतेष्ववस्थितम् ।
पूजयध्वं गृणन्तश्च ध्यायन्तश्चासकृद्धरिम् ॥ ४.२४.७०॥
योगादेशमुपासाद्य धारयन्तो मुनिव्रताः ।
समाहितधियः सर्व एतदभ्यसतादृताः ॥ ४.२४.७१॥
इदमाह पुरास्माकं भगवान्विश्वसृक्पतिः ।
भृग्वादीनामात्मजानां सिसृक्षुः संसिसृक्षताम् ॥ ४.२४.७२॥
ते वयं नोदिताः सर्वे प्रजासर्गे प्रजेश्वराः ।
अनेन ध्वस्ततमसः सिसृक्ष्मो विविधाः प्रजाः ॥ ४.२४.७३॥
अथेदं नित्यदा युक्तो जपन्नवहितः पुमान् ।
अचिराच्छ्रेय आप्नोति वासुदेवपरायणः ॥ ४.२४.७४॥
श्रेयसामिह सर्वेषां ज्ञानं निःश्रेयसं परम् ।
सुखं तरति दुष्पारं ज्ञाननौर्व्यसनार्णवम् ॥ ४.२४.७५॥
य इमं श्रद्धया युक्तो मद्गीतं भगवत्स्तवम् ।
अधीयानो दुराराध्यं हरिमाराधयत्यसौ ॥ ४.२४.७६॥
विन्दते पुरुषोऽमुष्माद्यद्यदिच्छत्यसत्वरम् ।
मद्गीतगीतात्सुप्रीताच्छ्रेयसामेकवल्लभात् ॥ ४.२४.७७॥
इदं यः कल्य उत्थाय प्राञ्जलिः श्रद्धयान्वितः ।
शृणुयाच्छ्रावयेन्मर्त्यो मुच्यते कर्मबन्धनैः ॥ ४.२४.७८॥
गीतं मयेदं नरदेवनन्दनाः परस्य पुंसः परमात्मनः स्तवम् ।
जपन्त एकाग्रधियस्तपो महत्चरध्वमन्ते तत आप्स्यथेप्सितम् ॥ ४.२४.७९॥
॥ इति श्रीमद्भागवते महापुराणे परमहंस्यां संहितायां
चतुर्थस्कन्धे रुद्रगीतं नाम चतुर्विंशोऽध्यायः ॥ ४.२४॥
रुद्रगीता
भद्राश्व उवाच ।
भगवन् किं कृतं लोकं त्वया तमनुपश्यता ।
व्रतं तपो वा धर्मो वा प्राप्त्यर्थं तस्य वै मुने ॥ ७०.१॥
अनाराध्य हरिं भक्त्या को लोकान् कामयेद् बुधः ।
आराधिते हरौ लोकाः सर्वे करतलेऽभवन् ॥ ७०.२॥
एवं संचिन्त्य राजेन्द्र मया विष्णुः सनातनः ।
आराधितो वर्षशतं क्रतुभिर्भूरिदक्षिणैः ॥ ७०.३॥
ततः कदाचिद् बहुना कालेन नृपनन्दन ।
यजतो मम देवेशं यज्ञमूर्तिं जनार्दनम् ।
आहूता आगता देवाः सममेव सवासवाः ॥ ७०.४॥
स्वे स्वे स्थाने स्थिता आसन् यावद् देवाः सवासवाः ।
तावत् तत्रैव भगवानागतो वृषभध्वजः ॥ ७०.५॥
महादेवो विरूपाक्षस्त्र्यम्बको नीललोहितः ।
सोऽपि रौद्रे स्थितः स्थाने बभूव परमेश्वरः ॥ ७०.६॥
तान् सर्वानागतान् दृष्ट्वा देवानृषिमहोरगान् ।
सनत्कुमारो भगवानाजगामाब्जसंभवः ॥ ७०.७॥
त्रसरेणुप्रमाणेन विमाने सूर्यसन्निभे ।
अवस्थितो महायोगी भूतभव्यभविष्यवित् ॥ ७०.८॥
आगम्य शिरसा रुद्रं स ववन्दे महामुनिः ।
मया प्रणमितस्तस्थौ समीपे शूलपाणिनः ॥ ७०.९॥
तानहं संस्थितान् देवान् नारदादीनृषींस्तथा ।
सनत्कुमाररुद्रौ च दृष्ट्वा मे मनसि स्थितम् ॥ ७०.१०॥
क एषां भवते याज्यो वरिष्ठश्च नृपोत्तम ।
केन तुष्टेन तुष्टाः स्युः सर्व एते सरुद्रकाः ॥ ७०.११॥
एवं कृत्वा स्थिते राजन् रुद्रः पृष्टो मयाऽनघ ।
एवमर्थं क इज्योऽत्र युष्माकं सुरसत्तमाः ॥ ७०.१२॥
एवमुक्ते तदोवाच रुद्रो मां सुरसन्निधौ ॥ ७०.१३॥
रुद्र उवाच ।
शृण्वन्तु बिबुधाः सर्वे तथा देवर्षयोऽमलाः ।
ब्रह्मर्षयश्च विख्याता सर्वे शृण्वन्तु मे वचः ।
त्वं चागस्त्य महाबुद्धे शृणु मे गदतो वचः ॥ ७०.१४॥
यो यज्ञैरीड्यते देवो यस्मात् सर्वमिदं जगत् ।
उत्पन्नं सर्वदा यस्मिंल्लीनं भवति सामरम् ॥ ७०.१५॥
नारायणः परो देवः सत्त्वरूपो जनार्दनः ।
त्रिधात्मानं स भगवान् ससर्ज परमेश्वरः ॥ ७०.१६॥
रजस्तमोभ्यां युक्तोऽभूद् रजः सत्त्वाधिकं विभुः ।
ससर्ज नाभिकमले ब्रह्माणं कमलासनम् ॥ ७०.१७॥
रजसा तमसा युक्तः सोऽपि मां त्वसृजत् प्रभुः ।
यत्सत्त्वं स हरिर्देवो यो हरिस्तत्परं पदम् ॥ ७०.१८॥
ये सत्त्वरजसी सोऽपि ब्रह्मा कमलसंभवः ।
यो ब्रह्मा सैव देवस्तु यो देवः सः चतुर्मुखः ।
यद्रजस्तमसोपेतं सोऽहं नास्त्यत्र संशयः ॥ ७०.१९॥
सत्त्वं रजस्तमश्चैव त्रितयं चैतदुच्यते ।
सत्त्वेन मुच्यते जन्तुः सत्त्वं नारायणात्मकम् ॥ ७०.२०॥
रजसा सत्त्वयुक्तेन भवेत् सृष्टी रजोऽधिका ।
तच्च पैतामहं वृत्तं सर्वशास्त्रेषु पठ्यते ॥ ७०.२१॥
यद्वेदबाह्यं कर्म स्याच्छास्त्रमुद्दिश्य सेव्यते ।
तद्रौद्रमिति विख्यातं कनिष्ठं गदितं नृणाम् ॥ ७०.२२॥
यद्धीनं रजसा कर्म केवलं तामसं तु यत् ।
तद् दुर्गतिपरं नॄणामिह लोके परत्र च ॥ ७०.२३॥
सत्त्वेन मुच्यते जन्तुः सत्त्वं नारायणात्मकम् ।
नारायणश्च भगवान् यज्ञरूपी विभाव्यते ॥ ७०.२४॥
कृते नारायणः शुद्धः सूक्ष्ममूर्तिरुपास्यते ।
त्रेतायां यज्ञरूपेण पञ्चरात्रैस्तु द्वापरे ॥ ७०.२५॥
कलौ मत्कृतमार्गेण बहुरूपेण तामसैः ।
इज्यते द्वेषबुद्ध्या स परमात्मा जनार्दनः ॥ ७०.२६॥
न तस्मात् परतो देवो भविता न भविष्यति ।
यो विष्णुः स स्वयं ब्रह्मा यो ब्रह्मा सोऽहमेव च ॥ ७०.२७॥
वेदत्रयेऽपि यज्ञेऽस्मिन् याज्यं वेदेषु निश्चयः ।
यो भेदं कुरुतेऽस्माकं त्रयाणां द्विजसत्तम ।
स पापकारी दुष्टात्मा दुर्गतिं गतिमाप्नुयात् ॥ ७०.२८॥
इदं च शृणु मेऽगस्त्य गदतः प्राक्तनं तथा ।
यथा कलौ हरेर्भक्तिं न कुर्वन्तीह मानवाः ॥ ७०.२९॥
भूर्लोकवासिनः सर्वे पुरा यष्ट्वा जनार्दनम् ।
भुवर्लोकं प्रपद्यन्ते तत्रस्था अपि केशवम् ।
आराध्य स्वर्गतिं यान्ति क्रमान्मुक्तिं व्रजन्ति च ॥ ७०.३०॥
एवं मुक्तिपदे व्याप्ते सर्वलोकैस्तथैव च ।
मुक्तिभाजस्ततो देवास्तं दध्युः प्रयता हरिम् ॥ ७०.३१॥
सोऽपि सर्वगतत्वाच्च प्रादुर्भूतः सनातनः ।
उवाच ब्रूत किं कार्यं सर्वयोगिवराः सुराः ॥ ७०.३२॥
ते तं प्रणम्य देवेशमूचुश्च परमेश्वरम् ।
देवदेव जनः सर्वो मुक्तिमार्गे व्यवस्थितः ।
कथं सृष्टिः प्रभविता नरकेषु च को वसेत् ॥ ७०.३३॥
एवमुक्तस्ततो देवैस्तानुवाच जनार्दनः ।
युगानि त्रीणि बहवो मामुपेष्यन्ति मानवाः ॥ ७०.३४॥
अन्त्ये युगे प्रविरला भविष्यन्ति मदाश्रयाः ।
एष मोहं सृजाम्याशु यो जनं मोहयिष्यति ॥ ७०.३५॥
त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय ।
अल्पायासं दर्शयित्वा फलं दीर्घं प्रदर्शय ॥ ७०.३६॥
कुहकं चेन्द्रजालानि विरुद्धाचरणानि च ।
दर्शयित्वा जनं सर्वं मोहयाशु महेश्वर ॥ ७०.३७॥
एवमुक्त्वा तदा तेन देवेन परमेष्ठिना ।
आत्मा तु गोपितः सद्यः प्रकाश्योऽहं कृतस्तदा ॥ ७०.३८॥
तस्मादारभ्य कालं तु मत्प्रणीतेषु सत्तम ।
शास्त्रेष्वभिरतो लोको बाहुल्येन भवेदतः ॥ ७०.३९॥
वेदानुवर्त्तिनं मार्गं देवं नारायणं तथा ।
एकीभावेन पश्यन्तो मुक्तिभाजो भवन्ति ते ॥ ७०.४०॥
मां विष्णोर्व्यतिरिक्तं ये ब्रह्माणं च द्विजोत्तम ।
भजन्ते पापकर्माणस्ते यान्ति नरकं नराः ॥ ७०.४१॥
ये वेदमार्गनिर्मुक्तास्तेषां मोहार्थमेव च ।
नयसिद्धान्तसंज्ञाभिर्मया शास्त्रं तु दर्शितम् ॥ ७०.४२॥
पाशोऽयं पशुभावस्तु स यदा पतितो भवेत् ।
तदा पाशुपतं शास्त्रं जायते वेदसंज्ञितम् ॥ ७०.४३॥
वेदमूर्तिरहं विप्र नान्यशास्त्रार्थवादिभिः ।
ज्ञायते मत्स्वरूपं तु मुक्त्वा वेदमनादिमत् ।
वेदवेद्योऽस्मि विप्रर्षे ब्राह्मणैश्च विशेषतः ॥ ७०.४४॥
युगानि त्रीण्यहं विप्र ब्रह्मा विष्णुस्तथैव च ।
त्रयोऽपि सत्त्वादिगुणास्त्रयो वेदास्त्रयोऽग्नयः ॥ ७०.४५॥
त्रयो लोकास्त्रयः संध्यास्त्रयो वर्णास्तथैव च ।
सवनानि तु तावन्ति त्रिधा बद्धमिदं जगत् ॥ ७०.४६॥
य एवं वेत्ति विप्रर्षे परं नारायणं तथा ।
अपरं पद्मयोनिं तु ब्रह्माणं त्वपरं तु माम् ।
गुणतो मुख्यतस्त्वेक एवाहं मोह इत्युत ॥ ७०.४७॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे सप्ततितमोऽध्यायः ॥ ७०॥
अगस्त्य उवाच ।
एवमुक्तस्ततो देवा ऋषयश्च पिनाकिना ।
अहं च नृपते तस्य देवस्य प्रणतोऽभवम् ॥ ७१.१॥
प्रणम्य शिरसा देवं यावत् पश्यामहे नृप ।
तावत् तस्यैव रुद्रस्य देहस्थं कमलासनम् ॥ ७१.२॥
नारायणं च हृदये त्रसरेणुसुसूक्ष्मकम् ।
ज्वलद्भास्करवर्णाभं पश्याम भवदेहतः ॥ ७१.३॥
तं दृष्ट्वा विस्मिताः सर्वे याजका ऋषयो मम ।
जयशब्दरवांश्चक्रुः सामऋग्यजुषां स्वनम् ॥ ७१.४॥
कृत्वोचुस्ते तदा देवं किमिदं परमेश्वर ।
एकस्यामेव मूर्तौ ते लक्ष्यन्ते च त्रिमूर्त्तयः ॥ ७१.५॥
रुद्र उवाच ।
यज्ञेऽस्मिन् यद्धुतं हव्यं मामुद्दिश्य महर्षयः ।
ते त्रयोऽपि वयं भागं गृह्णीमः कविसत्तमाः ॥ ७१.६॥
नास्माकं विविधो भावो वर्तते मुनिसत्तमाः ।
सम्यग्दृशः प्रपश्यन्ति विपरीतेष्वनेकशः ॥ ७१.७॥
एवमुक्ते तु रुद्रेण सर्वे ते मुनयो नृप ।
पप्रच्छुः शंकरं देवं मोहशास्त्रप्रयोजनम् ॥ ७१.८॥
ऋषय ऊचुः ।
मोहनार्थं तु लोकानां त्वया शास्त्रं पृथक् कृतम् ।
तत् त्वया हेतुना केन कृतं देव वदस्व नः ॥ ७१.९॥
रुद्र उवाच ।
अस्ति भारतवर्षेण वनं दण्डकसंज्ञितम् ।
तत्र तीव्रं तपो घोरं गौतमो नाम वै द्विजः ॥ ७१.१०॥
चकार तस्य ब्रह्मा तु परितोषं गतः प्रभुः ।
उवाच तं मुनिं ब्रह्मा वरं ब्रूहि तपोधन ॥ ७१.११॥
एवमुक्तस्तदा तेन ब्रह्मणा लोककर्तृणा ।
उवाच सद्यः पङ्क्तिं मे धान्यानां देहि पद्मज ॥ ७१.१२॥
एवमुक्तो ददौ तस्य तमेवार्थं पितामहः ।
लब्ध्वा तु तं वरं विप्रः शतशृङ्गे महाश्रमम् ॥ ७१.१३॥
चकार तस्योषसि च पाकान्ते शालयो द्विजाः ।
लूयन्ते तेन मुनिना मध्याह्ने पच्यते तथा ।
सर्वातिथ्यमसौ विप्रो ब्राह्मणेभ्यो ददात्यलम् ॥ ७१.१४॥
कस्यचित् त्वथ कालस्य महति द्वादशाब्दिका ।
अनावृष्टिर्द्विजवरा अभवल्लोमहर्षिणी ॥ ७१.१५॥
तां दृष्ट्वा मुनयः सर्वे अनावृष्टिं वनेचराः ।
क्षुधया पीड्यमामास्तु प्रययुर्गौतमं तदा ॥ ७१.१६॥
अथ तानागतान् दृष्ट्वा गौतमः शिरसा नतः ।
उवाच स्थीयतां मह्यं गृहे मुनिवरात्मजाः ॥ ७१.१७॥
एवमुक्तास्तु ते तेन तस्थुर्विविधभोजनम् ।
भुञ्जमाना अनावृष्टिर्यावत् सा निवृताऽभवत् ॥ ७१.१८॥
निवृत्तायां तु वै तस्यामनावृष्ट्यां तु ते द्विजाः ।
तीर्थयात्रानिमित्तं तु प्रयातुं मनसोऽभवन् ॥ ७१.१९॥
तत्र शाण्डिल्यनामानं तापसं मुनिसत्तमम् ।
प्रत्युवाचेति संचिन्त्य मीरीचः परमो मुनिः ॥ ७१.२०॥
मारीच उवाच ।
शाण्डिल्य शोभनं वक्ष्ये पिता ते गौतमो मुनिः ।
तमनुक्त्वा न गच्छामस्तपश्चर्तुं तपोवनम् ॥ ७१.२१॥
एवमुक्तेऽथ जहसुः सर्वे ते मुनयस्तदा ।
किमस्माभिः स्वको देहो विक्रीतोऽस्यान्नभक्षणात् ॥ ७१.२२॥
एवमुक्त्वा पुनश्चोचुः सोपाधिगमनं प्रति ।
कृत्वा मायामयीं गां तु तच्छालौ ते व्यसर्जयन् ॥ ७१.२३॥
तां चरन्तीं ततो दृष्ट्वा शालौ गां गौतमो मुनिः ।
गृहीत्वा सलिलं पाणौ याहि रुद्रेत्यभाषत ।
ततो मायामयी सा गौः पपात जलबिन्दुभिः ॥ ७१.२४॥
निहतां तां ततो दृष्ट्वा मुनीन् जिगमिषूंस्तथा ।
उवाच गौतमो धीमांस्तान् मुनीन् प्रणतः स्थितः ॥ ७१.२५॥
किमर्थं गम्यते विप्राः साधु शंसत माचिरम् ।
मां विहाय सदा भक्तं प्रणतं च विशेषतः ॥ ७१.२६॥
ऋषय ऊचुः ।
गोवध्येयमिह ब्रह्मन् यावत् तव शरीरगा ।
तावदन्नं न भुञ्जामो भवतोऽन्नं महामुने ॥ ७१.२७॥
एवमुक्तो गौतमोऽथ तान् मुनीन् प्राह धर्मवित् ।
प्रायश्चित्तं गोवध्याया दीयतां मे तपोधनाः ॥ ७१.२८॥
इयं गौरमृता ब्रह्मन् मूर्च्छितेव व्यवस्थिता ।
गङ्गाजलप्लुता चेयमुत्थास्यति न संशयः ॥ ७१.२९॥
प्रायश्चित्तं मृतायाः स्यादमृतायाः कृतं त्विदम् ।
व्रतं वा मा कृथाः कोपमित्युक्त्वा प्रययुस्तु ते ॥ ७१.३०॥
गतैस्तैर्गौतमो धीमान् हिमवन्तं महागिरिम् ।
मामाराधयिषुः प्रायात् तप्तुं चाशु महत् तपः ॥ ७१.३१॥
शतमेकं तु वर्षाणामहमाराधितोऽभवम् ।
तुष्टेन च मया प्रोक्तो वरं वरय सुव्रत ॥ ७१.३२॥
सोऽब्रवीन्मां जकटासंस्थां देहि गङ्गां तपस्विनीम् ।
मया सार्धं प्रयात्वेषा पुण्या भागीरथी नदी ॥ ७१.३३॥
एवमुक्ते जटाखण्डमेकं स प्रददौ शिवः ।
तां गृह्य गतवान् सोऽपि यत्रास्ते सा तु गौर्मृता ॥ ७१.३४॥
तज्जलप्लाविता सा गौर्गता चोत्थाय भामिनी ।
नदी च महती जाता पुण्यतोया शुचिह्रदा ॥ ७१.३५॥
तं दृष्ट्वा महदाश्चर्यं तत्र सप्तर्षयोऽमलाः ।
आजग्मुः खे विमानस्थाः साधुः साध्विति वादिनः ॥ ७१.३६॥
साधु गौतम साधूनां कोन्योऽस्ति सदृशस्तव ।
यदेवं जाह्नवीं देवीं दण्डके चावतारयत् ॥ ७१.३७॥
एवमुक्तस्तदा तैस्तु गौतमः किमिदं त्विति ।
गोवध्याकारणं मह्यं तावत् पश्यति गौतमः ॥ ७१.३८॥
ऋषीणां मायया सर्वमिदं जातं विचिन्त्य वै ।
शशाप तान् जटाभस्ममिथ्याव्रतधरास्तथा ।
भविष्यथ त्रयीबाह्या वेदकर्मबहिष्कृताः ॥ ७१.३९॥
तच्छ्रुत्वा क्रूरवचनं गौतमस्य महामुनेः ।
ऊचुः सप्तर्षयो मैवं सर्वकालं द्विजोत्तमाः ।
भवन्तु किं तु ते वाक्यं मोघं नास्त्यत्र संशयः ॥ ७१.४०॥
यदि नाम कलौ सर्वे भविष्यन्ति द्विजोत्तमाः ।
उपकारिणि ये ते हि अपकर्तार एव हि ।
इत्थंभूता अपि कलौ भक्तिभाजो भवन्तु ते ॥ ७१.४१॥
त्वद्वाक्यवह्निनिर्दग्धाः सदा कलियुगे द्विजाः ।
भविष्यन्ति क्रियाहीना वेदकर्मबहिष्कृताः ॥ ७१.४२॥
अस्याश्च गौणं नामेह नदी गोदावरीति च ।
गौर्दत्ता वरदानाच्च भवेद् गोदावरी नदी ॥ ७१.४३॥
एतां प्राप्य कलौ ब्रह्मन् गां ददन्ति जनाश्च ये ।
यथाशक्त्या तु दानानि मोदन्ते त्रिदशैः सह ॥ ७१.४४॥
सिंहस्थे च गुरौ तत्र यो गच्छति समाहितः ।
स्नात्वा च विधिना तत्र पितॄं स्तर्पयते तथा ॥ ७१.४५॥
स्वर्गं गच्छन्ति पितरो निरये पतिता अपि ।
स्वर्गस्थाः पितरस्तस्य मुक्तिभाजो न संशयः ॥ ७१.४६॥
त्वं ख्यातिं महतीं प्राप्य मुक्तिं यास्यसि शाश्वतीम् ।
एवमुक्त्वाऽथ मुनयो ययुः कैलासपर्वतम् ।
यत्राहमुमया सार्धं सदा तिष्ठामि सत्तमाः ॥ ७१.४७॥
ऊचुर्मां ते च मुनयो भवितारो द्विजोत्तमाः ।
कलौ त्वद्रूपिणः सर्वे जटामुकुटधारिणः ।
स्वेच्छया प्रेतवेषाश्च मिथ्यालिङ्गधराः प्रभो ॥ ७१.४८॥
तेषामनुग्रहार्थाय किंचिच्छास्त्रं प्रदीयताम् ।
येनास्मद्वंशजाः सर्वे वर्तेयुः कलिपीडिताः ॥ ७१.४९॥
एवमभ्यर्थितस्तैस्तु पुराऽहं द्विजसत्तमाः ।
वेदक्रियासमायुक्तां कृतवानस्मि संहिताम् ॥ ७१.५०॥
निःश्वासाख्यां ततस्तस्यां लीना बाभ्रव्यशाण्डिलाः ।
अल्पापराधाच्छ्रुत्वैव गता बैडालिका भवन् ॥ ७१.५१॥
मयैव मोहितास्ते हि भविष्यं जानता द्विजाः ।
लौल्यार्थिनस्तु शास्त्राणि करिष्यन्ति कलौ नराः ॥ ७१.५२॥
निःश्वाससंहितायां हि लक्षमात्रं प्रमाणतः ।
सैव पाशुपती दीक्षा योगः पाशुपतस्त्विह ॥ ७१.५३॥
एतस्माद् वेदमार्गाद्धि यदन्यदिह जायते ।
तत् क्षुद्रकर्म विज्ञेयं रौद्रं शौचविवर्जितम् ॥ ७१.५४॥
ये रुद्रमुपजीवन्ति कलौ वैडालिका नराः ।
लौल्यार्थिनः स्वशास्त्राणि करिष्यन्ति कलौ नराः ।
उच्छुष्मरुद्रास्ते ज्ञेया नाहं तेषु व्यवस्थितः ॥ ७१.५५॥
भैरवेण स्वरूपेण देवकार्ये यदा पुरा ।
नर्तितं तु मया सोऽयं संबन्धः क्रूरकर्मणाम् ॥ ७१.५६॥
क्षयं निनीषता दैत्यानट्टहासो मया कृतः ।
यः पुरा तत्र ये मह्यं पतिता अश्रुबिन्दवः ।
असंख्यातास्तु ते रौद्रा भवितारो महीतले ॥ ७१.५७॥
उच्छुष्मनिरता रौद्राः सुरामांसप्रियाः सदा ।
स्त्रीलोलाः पापकर्माणः संभूता भूतलेषु ते ॥ ७१.५८॥
तेषां गौतमशापाद्धि भविष्यन्त्यन्वये द्विजाः ।
तेषां मध्ये सदाचारा ये ते मच्छासने रताः ॥ ७१.५९॥
स्वर्गं चैवापवर्गं च इति वै संशयात् पुरा ।
वैडालिकाऽधो यास्यन्ति मम संततिदूषकाः ॥ ७१.६०॥
प्राग् गौतमाग्निना दग्धाः पुनर्मद्वचनाद् द्विजाः ।
नरकं तु गमिष्यन्ति नात्र कार्या विचारणा ॥ ७१.६१॥
रुद्र उवाच ।
एवं मया ब्रह्मसुताः प्रोक्ता जग्मुर्यथागतम् ।
गौतमोऽपि स्वकं गेहं जगामाशु परंतपः ॥ ७१.६२॥
एतद् वः कथितं विप्रा मया धर्मस्य लक्षणम् ।
एतस्माद् विपरीतो यः स पाषण्डरतो भवेत् ॥ ७१.६३॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे एकसप्ततितमोऽध्यायः ॥ ७१॥
श्रीवराह उवाच ।
सर्वज्ञं सर्वकर्त्तारं भवं रुद्रं पुरातनम् ।
प्रणम्य प्रयतोऽगस्त्यः पप्रच्छ परमेश्वरम् ॥ ७२.१॥
अगस्त्य उवाच ।
भवान् ब्रह्मा च विष्णुश्च त्रयमेतत् त्रयी स्मृता ।
दीपोऽग्निर्दोपसंयोगैः सर्वशास्त्रेषु सर्वतः ॥ ७२.२॥
कस्मिन् प्रधानो भगवान् काले कस्मिन्नधोक्षजः ।
ब्रह्मा वा एतदाचक्ष्व मम देव त्रिलोचन ॥ ७२.३॥
रुद्र उवाच ।
विष्णुरेव परं ब्रह्म त्रिभेदमिह पठ्यते ।
वेदसिद्धान्तमार्गेषु तन्न जानन्ति मोहताः ॥ ७२.४॥
विशप्रवेशने धातुस्तत्र ष्णु प्रत्ययादनु ।
विष्णुर्यः सर्वदेवेषु परमात्मा सनातनः ॥ ७२.५॥
योऽयं विष्णुस्तु दशधा कीर्त्यते चैकधा द्विजाः ।
स आदित्यो महाभाग योगैश्वर्यसमन्वितः ॥ ७२.६॥
स देवकार्याणि सदा कुरुते परमेश्वरः ।
मनुष्यभावमाश्रित्य स मां स्तौति युगे युगे ।
लोकमार्गप्रवृत्त्यर्थं देवकार्यार्थसिद्धये ॥ ७२.७॥
अहं च वरदस्तस्य द्वापरे द्वापरे द्विज ।
अहं च तं सदा स्तौमि श्वेतद्वीपे कृते युगे ॥ ७२.८॥
सृष्टिकाले चतुर्वक्त्रं स्तौमि कालो भवामि च ।
ब्रह्मा देवासुरा स्तौति मां सदा तु कृते युगे ।
लिङ्गमूर्तिं च मां देवा यजन्ते भोगकाङ्क्षिणः ॥ ७२.९॥
सहस्रशीर्षकं देवं मनसा तु मुमुक्षवः ।
यजन्ते यं स विश्वात्मा देवो नारायणः स्वयम् ॥ ७२.१०॥
ब्रह्मयज्ञेन ये नित्यं यजन्ते द्विजसत्तमाः ।
ते ब्रह्माणं प्रीणयन्ति वेदो ब्रह्मा प्रकीर्तितः ॥ ७२.११॥
नारायणः शिवो विष्णुः शंकर पुरुषोत्तमः ।
एतैस्तु नामभिर्ब्रह्म परं प्रोक्तं सनातनम् ।
तं च चिन्तामयं योगं प्रवदन्ति मनीषिणः ॥ ७२.१२॥
पशूनां शमनं यज्ञे होमकर्म च यद्भवेत् ।
तदोमिति च विख्यातं तत्राहं संव्यवस्थितः ॥ ७२.१३॥
कर्मवेदयुजां विप्र ब्रह्मा विष्णुर्महेश्वरः ।
वयं त्रयोऽपि मन्त्राद्या नात्र कार्या विचारणा ॥ ७२.१४॥
अहं विष्णुस्तथा वेदा ब्रह्म कर्माणि चाप्युत ।
एतत् त्रयं त्वेकमेव न पृथग् भावयेत् सुधीः ॥ ७२.१५॥
योऽन्यथा भावयेदेतत् पक्षपातेन सुव्रत ।
स याति नरकं घोरं रौरवं पापपूरुषः ॥ ७२.१६॥
अहं ब्रह्मा च विष्णुश्च ऋग्यजुः साम एव च ।
नैतस्मिन् भेदमस्यास्ति सर्वेषां द्विजसत्तम ॥ ७२.१७॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे द्विसप्ततितमोऽध्यायः ॥ ७२॥
रुद्र उवाच ।
शृणु चान्यद् द्विजश्रेष्ठ कौतूहलसमन्वितम् ।
अपूर्वभूतं सलिले मग्नेन मुनिपुंगव ॥ ७३.१॥
ब्रह्माणाऽहं पुरा सृष्टः प्रोक्तश्च सृज वै प्रजाः ।
अविज्ञानसमर्थोऽहं निमग्नः सलिले द्विज ॥ ७३.२॥
तत्र यावत् क्षणं चैकं तिष्ठामि परमेश्वरम् ।
अङ्गुष्ठमात्रं पुरुषं ध्यायन् प्रयतमानसः ॥ ७३.३॥
तावज्जलात् समुत्तस्थुः प्रलयाग्निसमप्रभाः ।
पुरुषा दश चैकश्च तापयन्तोंशुभिर्जलम् ॥ ७३.४॥
मया पृष्टाः के भवन्तो जलादुत्तीर्य तेजसा ।
तापयन्तो जलं चेदं क्व वा यास्यथ संशत ॥ ७३.५॥
एवमुक्ता मया ते तु नोचुः किंचन सत्तमाः ।
एवमेव गतास्तूष्णीं ते नरा द्विजपुंगव ॥ ७३.६॥
ततस्तेषामनु महापुरुषोऽतीवशोभनः ।
स तस्मिन् मेघसंकाशः पुण्डरीकनिभेक्षणः ॥ ७३.७॥
तमहं पृष्टवान् कस्त्वं के चेमे पुरुषा गाताः ।
किं वा प्रयोजनमिह कथ्यतां पुरुषर्षभ ॥ ७३.८॥
पुरुष उवाच ।
य एते वै गताः पूर्वं पुरुषा दीप्ततेजसः ।
आदित्यास्ते त्वरं यान्ति ध्याता वै ब्रह्मणा भव ॥ ७३.९॥
सृष्टिं सृजति वै ब्रह्मा तदर्थं यान्त्यमी नराः ।
प्रतिपालनाय तस्यास्तु सृष्टेर्देव न संशयः ॥ ७३.१०॥
शम्भुरुवाच ।
भगवन् कथं जानीषे महापुरुषसत्तम ।
भवेति नाम्ना तत्सर्वं कथयस्व परो ह्यहम् ॥ ७३.११॥
एवमुक्तस्तु रुद्रेण स पुमान् प्रत्यभाषत ।
अहं नारायणो देवो जलशायी सनातनः ॥ ७३.१२॥
दिव्यं चक्षुर्भवतु वै तव मां पश्य यत्नतः ।
एवमुक्तस्तदा तेन यावद् पश्याम्यहं तु तम् ॥ ७३.१३॥
तावदङ्गुष्ठमात्रं तु ज्वलद्भास्करतेजसम् ।
तमेवाहं प्रपश्यामि तस्य नाभौ तु पङ्कजम् ॥ ७३.१४॥
ब्रह्माणं तत्र पश्यामि आत्मानं च तदङ्कतः ।
एवं दृष्ट्वा महात्मानं ततो हर्षमुपागतः ।
तं स्तोतुं द्विजशार्दूल मतिर्मे समजायत ॥ ७३.१५॥
तस्य मूर्तौ तु जातायां सक्तोत्रेणानेन सुव्रत ।
स्तुतो मया स विश्वात्मा तपसा स्मृतकर्मणा ॥ ७३.१६॥
रुद्र उवाच ।
नमोऽस्त्वनन्ताय विशुद्धचेतसे
सरूपरूपाय सहस्रबाहवे ।
सहस्ररश्मिप्रवराय वेधसे
विशालदेहाय विशुद्धकर्मिणे ॥ ७३.१७॥
समस्तविश्वार्तिहराय शम्भवे
सहस्रसूर्यानिलतिग्मतेजसे ।
समस्तविद्याविधृताय चक्रिणे
समस्तगीर्वाणनुते सदाऽनघ ॥ ७३.१८॥
अनादिदेवोऽच्युत शेषशेखर
प्रभो विभो भूतपते महेश्वर ।
मरुत्पते सर्वपते जगत्पते
भुवः पते भुवनपते सदा नमः ॥ ७३.१९॥
जलेश नारायण विश्वशंकर
क्षितीश विश्वेश्वर विश्वलोचन ।
शशाङ्कसूर्याच्युत वीर विश्वगा -
प्रतर्क्यमूर्त्तेऽमृतमूर्तिरव्ययः ॥ ७३.२०॥
ज्वलधुताशार्चिविरुद्धमण्डल
प्रपाहि नारायण विश्वतोमुख ।
नमोऽस्तु देवार्त्तिहरामृताव्यय
प्रपाहि मां शरणगतं सदाच्युत ॥ ७३.२१॥
वक्त्राण्यनेकानि विभो तवाहं
पश्यामि मध्यस्थगतं पुराणम् ।
ब्रह्माणमीशं जगतां प्रसूतिं
नमोऽस्तु तुभ्यं तु पितामहाय ॥ ७३.२२॥
संसारचक्रभ्रमणैरनेकैः
क्वचिद् भवान् देववरादिदेव ।
सन्मार्गिभिर्ज्ञानविशुद्धसत्त्वै -
रुपास्यसे किं प्रलपाम्यहं त्वाम् ॥ ७३.२३॥
एकं भवन्तं प्रकृतेः परस्ताद्
यो वेत्त्यसौ सर्वविदादिबोद्धा ।
गुणा न तेषु प्रसभं विभेद्या
विशालमूर्तिर्हि सुसूक्ष्मरूपः ॥ ७३.२४॥
निर्वाक्यो निर्मनो विगतेन्द्रियोऽसि
कर्माभवान्नो विगतैककर्मा ।
संसारवांस्त्वं हि न तादृशोऽसि
पुनः कथं देववरासि वेद्यः ॥ ७३.२५॥
मूर्तामूर्तं त्वतुलं लभ्यते ते
परं वपुर्देव विशुद्धभावैः ।
संसारविच्छित्तिकरैर्यजद्भि -
रतोऽवसीयेत चतुर्भुजस्त्वम् ॥ ७३.२६॥
परं न जानन्ति यतो वपुस्ते
देवादयोऽप्यद्भुतकारणं तत् ।
अतोऽवतारोक्ततनुं पुराण -
माराधयेयुः कमलासनाद्याः ॥ ७३.२७॥
न ते वपुर्विश्वसृगब्जयोनि-
रेकान्ततो वेद महानुभावः ।
परं त्वहं वेद्मि कविं पुराणं
भवन्तमाद्यं तपसा विशुद्धः ॥ ७३.२८॥
पद्मासनो मे जनकः प्रसिद्ध -
श्चैतत् प्रसूतावसकृत्पुराणैः ।
संबोध्यते नाथ न मद्विधोऽपि
विदुर्भवन्तं तपसा विहीनाः ॥ ७३.२९॥
ब्रह्मादिभिस्तत्प्रवरैरबोध्यं
त्वां देव मूर्खाः स्वमनन्तनत्या ।
प्रबोधमिच्छन्ति न तेषु बुद्धि -
रुदारकीर्त्तिष्वपि वेदहीनाः ॥ ७३.३०॥
जन्मान्तरैर्वेदविदां विवेक -
बुद्धिर्भवेन्नाथ तव प्रसादात् ।
त्वल्लब्धलाभस्य न मानुषत्वं
न देवगन्धर्वगतिः शिवं स्यात् ॥ ७३.३१॥
त्वं विष्णुरूपोऽसि भवान् सुसूक्ष्मः
स्थूलोऽसि चेदं कृतकृत्यतायाः ।
स्थूलः सुसूक्ष्मः सुलभोऽसि देव
त्वद्वाह्यवृत्त्या नरके पतन्ति ॥ ७३.३२॥
किमुच्यते वा भवति स्थितेऽस्मिन्
खात्म्येन्दुवह्न्यर्कमहीमरुद्भिः ।
तत्त्वैः सतोयैः समरूपधारि -
ण्यात्मस्वरूपे विततस्वभावे ॥ ७३.३३॥
इति स्तुतिं मे भगवन्ननन्त
जुषस्व भक्तस्य विशेषतश्च ।
सृष्टिं सृजस्वेति तवोदितस्य
सर्वज्ञतां देहि नमोऽस्तु विष्णो ॥ ७३.३४॥
चतुर्मुखो यो यदि कोटिवक्त्रो
भवेन्नरः क्वापि विशुद्धचेताः ।
स ते गुणानामयुतैरनेकै -
र्वदेत् तदा देववर प्रसीद ॥ ७३.३५॥
समाधियुक्तस्य विशुद्धबुद्धे -
स्त्वद्भावभावैकमनोऽनुगस्य ।
सदा हृदिस्थोऽसि भवान्नमस्ते
न सर्वगस्यास्ति पृथग्व्यवस्था ॥ ७३.३६॥
इति प्रकाशं कृतमेतदीश
स्तवं मया सर्वगतं विबुद्ध्वा ।
संसारचक्रक्रममाणयुक्त्या
भीतं पुनीह्यच्युत केवलत्वम् ॥ ७३.३७॥
श्रीवराह उवाच ।
इति स्तुतस्तदा देवो रुद्रेणामिततेजसा ।
उवाच वाक्यं संतुष्टो मेघगम्भीरनिःस्वनः ॥ ७३.३८॥
विष्णुरुवाच ।
वरं वरय भद्रं ते देव देव उमापते ।
न भेदश्चावयोर्देव एकावावामुभावपि ॥ ७३.३९॥
रुद्र उवाच ।
ब्रह्मणाऽहं नियुक्तस्तु प्रजाः सृज इति प्रभो ।
तत्र ज्ञानं प्रयच्छस्व त्रिविधं भूतभावनम् ॥ ७३.४०॥
विष्णुरुवाच ।
सर्वज्ञस्त्वं न संदेहो ज्ञानराशिः सनातनः ।
देवानां च परं पूज्यः सर्वदा त्वं भविष्यसि ॥ ७३.४१॥
एवमुक्तः पुनर्वाक्यमुवाचोमापतिर्मुदा ।
अन्यं देहि वरं देव प्रसिद्धं सर्वजन्तुषु ॥ ७३.४२॥
मूर्तो भूत्वा भवानेव मामाराधय केशव ।
मां वहस्व च देवेश वरं मत्तो गृहाण च ।
येनाहं सर्वदेवानां पूज्यात् पूज्यतरो भवे ॥ ७३.४३॥
विष्णुरुवाच ।
देवकार्यावतारेषु मानुषत्वमुपागतः ।
त्वामेवाराधयिष्यामि त्वं च मे वरदो भव ॥ ७३.४४॥
यत् त्वयोक्तं वहस्वेति देवदेव उमापते ।
सोऽहं वहामि त्वां देवं मेघो भूत्वा शतं समाः ॥ ७३.४५॥
एवमुक्त्वा हरिर्मेघः स्वयं भूत्वा महेश्वरम् ।
उज्जहार जलात् तस्माद् वाक्यं चेदमुवाच ह ॥ ७३.४६॥
य एते दश चैकश्च पुरुषाः प्राकृताः प्रभो ।
ते वैराजा महीं याता आदित्या इति संज्ञिताः ॥ ७३.४७॥
मदंशो द्वादशो यस्तु विष्णुनामा महीतले ।
अवतीर्णो भवन्तं तु आराधयति शंकर ॥ ७३.४८॥
एवमुक्त्वा स्वकादंशात् सृष्ट्वादित्यं घनं तथा ।
नारायणः शब्दवच्च न विद्मः क्व लयं गतः ॥ ७३.४९॥
रुद्र उवाच ।
एवमेष हरिर्देवः सर्वगः सर्वभावनः ।
वरदोऽभूत् पुरा मह्यं तेनाहं दैवतैर्वरः ॥ ७३.५०॥
नारायणात् परो देवो न भूतो न भविष्यति ।
एतद् रहस्यं वेदानां पुराणानां च सत्तम ।
मया वः कीर्तितं सर्वं यथा विष्णुरिहेज्यते ॥ ७३.५१॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे त्रिसप्ततितमोऽध्यायः ॥ ७३॥
श्रीवराह उवाच ।
पुनस्ते ऋषयः सर्वे तं पप्रच्छुः सनातनम् ।
रुद्रं पुराणपुरुषं शाश्वतं ध्रुवमव्ययम् ।
विश्वरूपमजं शंभुं त्रिनेत्रं शूलपाणिनम् ॥ ७४.१॥
ऋषय ऊचुः ।
त्वं परः सर्वदेवानामस्माकं च सुरेश्वर ।
पृच्छाम तेन त्वां प्रश्नमेकं तद् वक्तुमर्हसि ॥ ७४.२॥
भूमिप्रमाणसंस्थानं पर्वतानां च विस्तरम् ।
समुद्राणां नदीनां च ब्रह्माण्डस्य च विस्तरम् ।
अस्माकं ब्रूहि कृपया देवदेव उमापते ॥ ७४.३॥
रुद्र उवाच ।
सर्वेष्वेव पुराणेषु भूर्लोकः परिकीर्त्यते ।
ब्रह्मविष्णुभवादीनां वायव्ये च सविस्तरम् ॥ ७४.४॥
इदानीं च प्रवक्ष्यामि समासाद् वः क्षमान्तरम् ।
तन्निबोधत धर्मज्ञा गदतो मम सत्तमाः ॥ ७४.५॥
योऽसौ सकलविद्यावबोधितपरमात्मरूपी विगतकल्मषः
परमाणुरचिन्त्त्यात्मा नारायणः सकललोकालोकव्यापी
पीताम्बरोरुवक्षः क्षितिधरो गुणतोमुख्यतस्तु -
अणुमहद्दीर्घह्रस्वमकृशमलोहितमित्येवमाद्योपलक्षित -
विज्ञानमात्ररूपम् । स भगवांस्त्रिप्रकारः सत्त्व -५
रजस्तमोद्रिक्तः सलिलं ससर्ज । तच्च सृष्ट्वा -
नादिपुरुषः परमेश्वरो नारायणः सकलजगन्मयः
सर्वमयो देवमयो यज्ञमय आपोमय आपोमूर्त्तिर्योगनिद्रया
सुप्तस्य तस्य नाभौ सदब्जं निःससार । तस्मिन्सकल -
वेदनिधिरचिन्त्यात्मा परमेश्वरो ब्रह्मा प्रजापतिर -१०
भवत् स च सनकसनन्दनसनत्कुमारादीन् ज्ञानधर्मिणः
पूर्वमुत्पाद्य पश्चान्मनुं स्वायंभुवं मरीच्यादीन्
दक्षान्तान् ससर्ज । यः स्वयंभुवो मनुर्भगवता
सृष्टस्तस्मादारभ्य भुवनस्यातिविस्तरो वर्ण्यते ।
तस्य च मनोर्द्वौ पुत्रौ बभूवतुः प्रियव्रतोत्तानपादौ । १५
प्रियव्रतस्य दश पुत्रा बभूवुः । आग्नीघ्रोऽग्निबाहु -
र्मेधो मेधातिथिर्ध्रुवो ज्योतिष्मान् द्युतिमान्
हव्यवपुष्मत्सवनान्ताः ।
स च प्रियव्रतः सप्तद्वीपेषु सप्त पुत्रान् स्थापयामास ।
तत्र चाग्नीध्रं जम्बूद्वीपेश्वरं चक्रे । २०
शाकद्वीपेश्वरं मेधातिथिं कुशे ज्योतिष्मन्तं
क्रौञ्चे द्युतिमन्तं शाल्मले वपुष्मन्तं
गोमेदस्येश्वरं हव्यं पुष्कराधिपतिं सवनमिति ।
पुष्करेशस्यापि सवनस्य द्वौ पुत्रौ
महावीतधातकी भवेताम् ॥ २५
तयोर्देशौ गोमेदश्च नाम्ना व्यवस्थितौ ।
धातकेर्धातकीखण्डं कुमुदस्य च कौमुदम् ।
शाल्मलाधिपतेरपि वपुष्मन्तस्य त्रयः पुत्राः
सकुशवैद्युतजीमूतनामानः ।
सकुशस्य सकुशनामा देशः वैद्युतस्य वैद्युतः ३०
जीमूतस्य जीमूत इति एते शाल्मलेर्देशा इति
तथा च द्युतिमतः सप्त पुत्रकाः कुशलो मनुगोष्ठौष्णः
पीवरोद्यान्धकारकमुनिदुन्दुभिश्चेति । तन्नाम्ना
क्रौञ्चे सप्त महादेशनामानि । कुशद्वीपेश्वरस्यापि
ज्योतिष्मतः सप्तैव पुत्रास्तद्यथा उद्भिदो वेणुमां - ३५
श्चैव रथोपलम्बनो धृतिः प्रभाकरः - कपिल
इति । तन्नामान्येव वर्षाणि द्रष्टव्यानि
शाकाधिपस्यापि सप्त पुत्रा मेधातिथेस्तद्यथा
शान्तभयशिशिरसुखोदयंनन्दशिवक्षेमकध्रुवा इति
एते सप्त पुत्राः एतन्नामान्येव वर्षाणि । ४०
अथ जम्बूद्वीपेश्वरस्यापि आग्नीध्रस्य नव पुत्रा बभूवुः ।
तद्यथा नाभिः किंपुरुषो हरिवर्ष इलावृतो रम्यको
हिरण्मयः कुरुर्भद्राश्वः केतुमालश्चेति । एतन्नामान्येव
वर्षाणि । नाभेर्हेमवन्तं हेमकूटं किंपुरुषं नैषधं हरिवर्षं
मेरुमध्यमिलावृत्तं नीलं रम्यकं श्वेतं हिरण्मयं ४५
उत्तरं च शृङ्गवतः कुरवो माल्यवन्तं भद्राश्वं
गन्धमादनं केतुमालमिति । एवं स्वायंभुवेऽन्तरे भुवन-
प्रतिष्ठा । कल्पे कल्पे चैवमेव सप्त सप्त पार्थिवैः
क्रियते भूमेः पालनं व्यवस्था च ।
एष स्वभावः कल्पस्य सदा भवतीति । ५०
अत्र नाभेः सर्गं कथयामि । नाभिर्मेरुदेव्यां पुत्रमजनयद्
ऋषभनामानं तस्य भरतो जज्ञे पुत्रश्च तावदग्रजः ।
तस्य भरतस्य पिता ऋषभो हिमाद्रेर्दक्षिणं
वर्षमदाद् भारतं नाम । भरतस्यापि पुत्रः सुमतिर्नामा ।
तस्य राज्यं दत्त्वा भरतोऽपि वनं ययौ । ५५
सुमतेस्तेजस्तत्पुत्रः सत्सुर्नामा । तस्यापीन्द्रद्युम्नो नाम ।
तस्यापि परमेष्ठी तस्यापि प्रतिहर्त्ता तस्य निखातः
निखातस्य उन्नेता उन्नेतुरप्यभावस्तस्योद्गाता तस्य
प्रस्तोता प्रस्तोतुश्च विभुः विभोः पृथुः पृथोरनन्तः
अनन्तस्यापि गयः गयस्य नयस्तस्य विराटः ६०
तस्यापि महावीर्यस्ततः सुधीमान् धीमतो महान्
महतो भौमनो भौमनस्य त्वष्टा त्वष्टुर्विरजाः
तस्य राजो राजस्य शतजित् । ६३
तस्य पुत्रशतं जज्ञे तेनेमा वर्द्धिताः प्रजाः ।
तैरिदं भारतं वर्षं सप्तद्वीपं समाङ्कितम् ॥ ७४.६॥
तेषां वंशप्रसूत्या तु भुक्तेयं भारती प्रजा ।
कृतत्रेतादियुक्त्या तु युगाख्या ह्येकसप्ततिः ॥ ७४.७॥
भुवनस्य प्रसङ्गेन मन्वन्तरमिदं शुभम् ।
स्वायंभुवं च कथितं मनोर्द्वीपान्निबोधत ॥ ७४.८॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे चतुःसप्ततितमोऽध्यायः ॥ ७४॥
रुद्र उवाच ।
अत ऊर्ध्वं प्रवक्ष्यामि जम्बूद्वीपं यथातथम् ।
संख्यां चापि समुद्राणां द्वीपानां चैव विस्तरम् ॥ ७५.१॥
यावन्ति चैव वर्षाणि तेषु नद्यश्च याः स्मृताः ।
महाभूतप्रमाणं च गतिं चन्द्रार्कयोः पृथक् ॥ ७५.२॥
द्वीपभेदसहस्राणि सप्तस्वन्तर्गतानि च ।
न शक्यन्ते क्रमेणेह वक्तुं यैर्विततं जगत् ॥ ७५.३॥
सप्तद्वीपान् प्रवक्ष्यामि चन्द्रादित्यग्रहैः सह ।
येषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते ॥ ७५.४॥
अचिन्त्याः खलु ये भावा न तांस्तर्केण साधयेत् ।
प्रकृतिभ्यः परं यच्च तदचिन्त्यं विभाव्यते ॥ ७५.५॥
नव वर्षं प्रवक्ष्यामि जम्बूद्वीपं यथातथम् ।
विस्तरान्मण्डलाच्चैव योजनैस्तन्निबोधत ॥ ७५.६॥
शतमेकं सहस्राणां योजनानां समन्ततः ।
नानाजनपदाकीर्णं योजनैर्विविधैः शुभैः ॥ ७५.७॥
सिद्धचारणसंकीर्णं पर्वतैरुपशोभितम् ।
सर्वधातुविवृद्धैश्च शिलाजालसमुद्भवैः ।
पर्वतप्रभवाभिश्च नदीभिः सर्वतश्चितम् ॥ ७५.८॥
जम्बूद्वीपः पृथुः श्रीमान् सर्वतः परिमण्डलः ।
नवभिश्चावृतः श्रीमान् भुवनैर्भूतभावनः ॥ ७५.९॥
लवणेन समुद्रेण सर्वतः परिवारितः ।
जम्बूद्वीपस्य विस्तारात् समेन तु समन्ततः ॥ ७५.१०॥
तस्य प्रागायता दीर्घा षडेते वर्षपर्वताः ।
उभयत्रावगाढाश्च समुद्रौ पूर्वपश्चिमौ ॥ ७५.११॥
हिमप्रायश्च हिमवान् हेमकूटश्च हेमवान् ।
सर्वत्र सुसुखश्चापि निषधः पर्वतो महान् ॥ ७५.१२॥
चतुर्वर्णःस सौवर्णो मेरुश्चोल्बमयो गिरिः ।
वृत्ताकृतिप्रमाणश्च चतुरस्त्रः समुच्छितः ॥ ७५.१३॥
नानावर्णस्तु पार्श्वेषु प्रजापतिगुणान्वितः ।
नाभिमण्डलसंभूतो ब्रह्मणः परमेष्ठिनः ॥ ७५.१४॥
पूर्वतः श्वेतवर्णस्तु ब्रह्मण्यं तेन तस्य तत् ।
पीतश्च दक्षिणेनासौ तेन वैश्यत्वमिष्यते ॥ ७५.१५॥
भृङ्गपत्रनिभश्चासौ पश्चिमेन यतोऽथ सः ।
तेनास्य शूद्रता प्रोक्ता मेरोर्नामार्थकर्मणः ॥ ७५.१६॥
पार्श्वमुत्तरतस्तस्य रक्तवर्णं विभाव्यते ।
तेनास्य क्षत्रभावः स्यादिति वर्णाः प्रकीर्तिताः ॥ ७५.१७॥
वृत्तः स्वभावतः प्रोक्तो वर्णतः परिमाणतः ।
नीलश्च वैदूर्यमयः श्वेतशुक्लो हिरण्मयः ।
मयूरबर्हिवर्णस्तु शातकौम्भश्च शृङ्गवान् ॥ ७५.१८॥
एते पर्वतराजानः सिद्धचारणसेविताः ।
तेषामन्तरविष्कम्भो नवसाहस्र उच्यते ॥ ७५.१९॥
मध्ये त्विलावृतं नाम महामेरोः स संभवः ।
नवैव तु सहस्राणि विस्तीर्णः सर्वतश्च सः ॥ ७५.२०॥
मध्यं तस्य महामेरुर्विधूम इव पावकः ।
वेद्यर्द्धं दक्षिणं मेरोरुत्तरार्द्धं तथोत्तरम् ॥ ७५.२१॥
वर्षाणि यानि षडत्र तेषां ते वर्षपर्वताः ।
योजनाग्रं तु वर्षाणां सर्वेषां तद् विधीयते ॥ ७५.२२॥
द्वे द्वे वर्षे सहस्राणां योजनानां समुच्छ्रयः ।
जम्बूद्वीपस्य विस्तारस्तेषामायाम उच्यते ॥ ७५.२३॥
योजनानां सहस्राणि शतौ द्वौ चायतौ गिरी ।
नीलश्च निषधश्चैव ताभ्यां हीनाश्च ये परे ।
श्वेतश्च हेमकूटश्च हिमवाञ्छृङ्गवांश्च यः ॥ ७५.२४॥
जम्बूद्वीपप्रमाणेन निषधः परिकीर्तितः ।
तस्माद् द्वादशभागेन हेमकूटः प्रहीयते ।
हिमवान् विंशभागेन हेमकूटात् प्रहीयते ॥ ७५.२५॥
अष्टाशीतिसहस्राणि हेमकूटो महागिरिः ।
अशीतिर्हिमवान् शैल आयतः पूर्वपश्चिमे ॥ ७५.२६॥
द्वीपस्य मण्डलीभावाद् ह्रासवृद्धी प्रकीर्त्यते ।
वर्षाणां पर्वतानां च यथा चेमे तथोत्तरम् ॥ ७५.२७॥
तेषां मध्ये जनपदास्तानि वर्षाणि चैव तत् ।
प्रपातविषमैस्तैस्तु पर्वतैरावृतानि तु ॥ ७५.२८॥
संततानि नदीभेदैरगम्यानि परस्परम् ।
वसन्ति तेषु सत्त्वानि नानाजातीनि सर्वशः ॥ ७५.२९॥
एतद्धैमवतं वर्षं भारती यत्र सन्ततिः ।
हेमकूटं परं यत्र नाम्ना किंपुरुषोत्तमः ॥ ७५.३०॥
हेमकूटात् तु निषधं हरिवर्षं तदुच्यते ।
हरिवर्षात् परं चैव मेरुपार्श्व इलावृतम् ॥ ७५.३१॥
इलावृतात् परं नीलं रम्यकं नाम विश्रुतम् ।
रम्यकाच्च परं श्वेतं विश्रुतं तद्धिरण्मयम् ।
हिरण्मयात् परं चैव शृङ्गवन्तं कुरु स्मृतम् ॥ ७५.३२॥
धनुःसंस्थे तु द्वे वर्षे विज्ञेये दक्षिणोत्तरे ।
द्वीपानि खलु चत्वारि चतुरस्त्रमिलावृतम् ॥ ७५.३३॥
अर्वाक् च निषधस्याथ वेद्यर्धं दक्षिणं स्मृतम् ।
परं शृङ्गवतो यच्च वेद्यर्धं हि तदुत्तरम् ॥ ७५.३४॥
वेद्यर्द्धे दक्षिणे त्रीणि वर्षाणि त्रीणि चोत्तरे ।
तयोर्मध्ये तु विज्ञेयो यत्र मेरुस्त्विलावृतः ॥ ७५.३५॥
दक्षिणेन तु नीलस्य निषधस्योत्तरेण च ।
उदगायतो महाशैलो माल्यवान्नाम पर्वतः ॥ ७५.३६॥
योजनानां सहस्रे द्वे विष्कम्भोच्छ्रय एव च ।
आयामतश्चतुस्त्रिंशत् सहस्राणि प्रकीर्तितः ॥ ७५.३७॥
तस्य प्रतीच्यां विज्ञेयः पर्वतो गन्धमादनः ।
आयामोच्छ्रयविस्तारात् तुल्यो माल्यवता तु सः ॥ ७५.३८॥
परिमण्डलस्तयोर्मध्ये मेरुः कनकपर्वतः ।
चतुर्वर्णः ससौवर्णश्चतुरस्त्रः समुच्छ्रितः ॥ ७५.३९॥
अव्यक्ता धातवः सर्वे समुत्पन्ना जलादयः ।
अव्यक्तात् पृथिवीपद्मं मेरुस्तस्य च कर्णिका ॥ ७५.४०॥
चतुष्पत्रं समुत्पन्नं व्यक्तं पञ्चगुणं महत् ।
ततः सर्वाः समुद्भूता वितता हि प्रवृत्तयः ॥ ७५.४१॥
अनेककल्पजीवद्भिः पुरुषैः पुण्यकारिभिः ।
कृतात्मभिर्महात्मभिः प्राप्यते पुरुषोत्तमः ॥ ७५.४२॥
महायोगी महादेवो जगद्ध्येयो जनार्दनः ।
सर्वलोकगतोऽनन्तो व्यापको मूर्त्तिरव्ययः ॥ ७५.४३॥
न तस्य प्राकृता मूर्तिर्मांसमेदोऽस्थिसंभवा ।
योगित्वाच्चेश्वरत्वाच्च सत्त्वरूपधरो विभुः ॥ ७५.४४॥
तन्निमित्तं समुत्पन्नं लोके पद्मं सनातनम् ।
कल्पशेषस्य तस्यादौ कालस्य गतिरीदृशी ॥ ७५.४५॥
तस्मिन् पद्मे समुत्पन्नो देवदेवश्चतुर्मुखः ।
प्रजापतिपतिर्देव ईशानो जगतः प्रभुः ॥ ७५.४६॥
तस्य बीजनिसर्गं हि पुष्करस्य यथार्थवत् ।
कृत्स्नं प्रजानिसर्गेण विस्तरेणैव वर्ण्यते ॥ ७५.४७॥
तदम्बु वैष्णवः कायो यतो रत्नविभूषितः ।
पद्माकारा समुत्पन्ना पृथिवी सवनद्रुमा ॥ ७५.४८॥
तत् तस्य लोकपद्मस्य विस्तरं सिद्धभाषितम् ।
वर्ण्यमानं विभागेन क्रमशः शृणुत द्विजाः ॥ ७५.४९॥
महावर्षाणि ख्यातानि चत्वार्यत्र च संस्थिताः ।
तत्र पर्वतसंस्थानो मेरुर्नाम महाबलः ॥ ७५.५०॥
नानावर्णः स पार्श्वेषु पूर्वतः श्वेत उच्यते ।
पीतं च दक्षिणं तस्य भृङ्गवर्णं तु पश्चिमम् ॥ ७५.५१॥
उत्तरं रक्तवर्णं तु तस्य पार्श्वं महात्मनः ।
मेरुस्तु शोभते शुक्लो राजवंशे तु धिष्ठितः ॥ ७५.५२॥
तरुणादित्यसंकाशो विधूम इव पावकः ।
योजनानां सहस्राणि चतुराशीतिरुच्छ्रितः ॥ ७५.५३॥
प्रविष्टः षोडशाधस्ताद्विस्तृतः षोडशैव तु ।
शरावसंस्थितत्वाच्च द्वात्रिंशन्मूर्ध्नि विस्तृतः ॥ ७५.५४॥
विस्तारस्त्रिगुणश्चास्य परिणाहः समन्ततः ।
मण्डलेन प्रमाणेन व्यस्यमानं तदिष्यते ॥ ७५.५५॥
नवतिश्च सहस्राणि योजनानां समन्ततः ।
ततः षट्काधिकानां च व्यस्यमानं प्रकीर्त्तितम् ।
चतुरस्त्रेण मानेन परिणाहः समन्ततः ॥ ७५.५६॥
स पर्वतो महादिव्यो दिव्यौषधिसमन्वितः ।
सवनैरावृतः सर्वो जातरूपमयैः शुभैः ॥ ७५.५७॥
तत्र देवगणाः सर्वे गन्धर्वोरगराक्षसाः ।
शैलराजे प्रमोदन्ते तथैवाप्सरसां गणाः ॥ ७५.५८॥
स तु मेरुः परिवृतो भवनैर्भूतभावनैः ।
चत्वारो यस्य देशास्तु नानापार्श्वेषु धिष्ठिताः ॥ ७५.५९॥
भद्राश्वो भारतश्चैव केतुमालश्च पश्चिमे ।
उत्तरे कुरवश्चैव कृतपुण्यप्रतिश्रयाः ॥ ७५.६०॥
कर्णिका तस्य पद्मस्य समन्तात् परिमण्डला ।
योजनानां सहस्राणि योजनानां प्रमाणतः ॥ ७५.६१॥
तस्य केसरजालानि नवषट् च प्रकीर्त्तिताः ।
चतुरशीतिरुत्सेधो विवरान्तरगोचराः ॥ ७५.६२॥
त्रिंशच्चापि सहस्राणि योजनानां प्रमाणतः ।
तस्य केसरजालानि विकीर्णानि समन्ततः ॥ ७५.६३॥
शतसाहस्रमायाममशीतिः पृथुलानि च ।
चत्वारि तत्र पर्णानि योजनानां चतुर्दश ॥ ७५.६४॥
तत्र या सा मया तुभ्यं कर्णिकेत्यभिविश्रुता ।
तां वर्ण्यमानामेकाग्र्यात् समासेन निबोधत ।
मणिपर्णशतैश्चित्रां नानावर्णप्रभासिताम् ॥ ७५.६५॥
अनेकपर्णनिचयं सौवर्णमरुणप्रभम् ।
कान्तं सहस्रपर्वाणं सहस्रोदरकन्दरम् ।
सहस्रशतपत्रं च वृत्तमेकं नगोत्तमम् ॥ ७५.६६॥
मणिरत्नार्पितश्वभ्रैर्मणिभिश्चित्रवेदिकम् ।
सुवर्णमणिचित्राङ्गैर्मणिचर्चिततोरणैः ॥ ७५.६७॥
तत्र ब्रह्मसभा रम्या ब्रह्मर्षिजनसंकुला ।
नाम्ना मनोव्रती नाम सर्वलोकेषु विश्रुता ॥ ७५.६८॥
तत्रेशानस्य देवस्य सहस्रादित्यवर्चसः ।
महाविमानसंस्थस्य महिमा वर्त्तते सदा ॥ ७५.६९॥
तत्र सर्वे देवगणाश्चतुर्वक्त्रं स्वयं प्रभुम् ।
इष्ट्वा पूज्यनमस्कारैरर्चनीयमुपस्थिताः ॥ ७५.७०॥
यैस्तदा दिहसंकल्पैर्ब्रह्मचर्यं महात्मभिः ।
चीर्णं चारुमनोभिश्च सदाचारपथि स्थितैः ॥ ७५.७१॥
सम्यगिष्ट्वा च भुक्त्वा च पितृदेवार्चने रताः ।
गृहाश्रमपरास्तत्र विनीता अतिथिप्रियाः ॥ ७५.७२॥
गृहिणः शुक्लकर्मस्था विरक्ताः कारणात्मकाः ।
यमैर्नियमदानैश्च दृढनिर्दग्धकिल्बिषाः ॥ ७५.७३॥
तेषां निवसनं शुक्लब्रह्मलोकमनिन्दितम् ।
उपर्युपरि सर्वासां गतीनां परमा गतिः ।
चतुर्दशसहस्राणि योजनानां तु कीर्त्तितम् ॥ ७५.७४॥
ततोर्द्धरुचिरे कृष्णे तरुणादित्यवर्चसि ।
महागिरौ ततो रम्ये रत्नधातुविचित्रिते ॥ ७५.७५॥
नैकरत्नसमावासे मणितोरणमन्दिरे ।
मेरोः सर्वेषु पार्श्वेषु समन्तात् परिमण्डले ॥ ७५.७६॥
त्रिंशद्योजनसाहस्रं चक्रपाटो नगोत्तमः ।
जारुधिश्चैव शैलेन्द्र इत्येते उत्तराः स्मृताः ॥ ७५.७७॥
एतेषां शैलमुख्यानामुत्तरेषु यथाक्रमः ।
स्थलीरन्तरद्रोण्यश्च सरांसि च निबोधत ॥ ७५.७८॥
दशयोजनविस्तीर्णा चक्रपाटोपनिर्गता ।
सा तूद्र्ध्ववाहिनी चापि नदी भूमौ प्रतिष्ठिता ॥ ७५.७९॥
सा पुर्याममरावत्यां क्रममाणेन्दुरा प्रभौ ।
तया तिरस्कृता वाऽपि सूर्येन्दुज्योतिषां गणाः ॥ ७५.८०॥
उदयास्तमिते सन्ध्ये ये सेवन्ते द्विजोत्तमाः ।
तान् तुष्यन्ते द्विजाः सर्वानष्टावप्यचलोत्तमान् ॥ ७५.८१॥
परिभ्रमज्ज्योतिषां या सा रुद्रेन्द्रमता शुभा ॥ ७५.८२॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे पञ्चसप्ततितमोऽध्यायः ॥ ७५॥
रुद्र उवाच ।
तस्यैव मेरोः पूर्वे तु देशे परमवर्चसे ।
चक्रवाटपरिक्षिप्ते नानाधातुविराजिते ॥ ७६.१॥
तत्र सर्वामरपुरं चक्रवाटसमुद्धतम् ।
दुर्धर्षं बलदृप्तानां देवदानवरक्षसाम् ।
तत्र जाम्बूनदमयः सुप्राकारः सुतोरणः ॥ ७६.२॥
तस्याप्युत्तरपूर्वे तु देशे परमवर्चसे ।
अलोकजनसम्पूर्णा विमानशतसंकुला ॥ ७६.३॥
महावापिसमायुक्ता नित्यं प्रमुदिता शुभा ।
शोभिता पुष्पशबलैः पताकाध्वजमालिनी ॥ ७६.४॥
देवैर्यक्षोप्सरोभिश्च ऋषिभिश्च सुशोभिता ।
पुरन्दरपुरी रम्या समृद्धा त्वमरावती ॥ ७६.५॥
तस्या मध्येऽमरावत्या वज्रवैदूर्यवेदिका ।
त्रैलोक्यगुणविख्याता सुधर्मा नाम वै सभा ॥ ७६.६॥
तत्रास्ते श्रीपतेः श्रीमान् सहस्राक्षः शचीपतिः ।
सिद्धादिभिः परिवृतः सर्वाभिर्देवयोनिभिः ॥ ७६.७॥
तत्र चैव सुवंशः स्याद् भास्करस्य महात्मनः ।
साक्षात् तत्र सुराध्यक्षः सर्वदेवनमस्कृतः ॥ ७६.८॥
तस्याश्च दिक्षु विस्तीर्णा तत्तद्गुणसमन्विता ।
तेजोवती नाम पुरी हुताशस्य महात्मनः ॥ ७६.९॥
तत्तद्गुणवती रम्या पुरी वैवस्वतस्य च ।
नाम्ना संयमनी नाम पुरी त्रैलोक्यविश्रुता ॥ ७६.१०॥
तथा चतुर्थे दिग्भागे नैरृताधिपतेः शुभा ।
नाम्ना कृष्णावती नाम विरूपाक्षस्य धीमतः ॥ ७६.११॥
पञ्चमे ह्युत्तरपुटे नाम्ना शुद्धवती पुरी ।
उदकाधिपतेः ख्याता वरुणस्य महात्मनः ॥ ७६.१२॥
तथा पञ्चोत्तरे देवस्वस्योत्तरपुटे पुरी ।
वायोर्गन्धवती नाम ख्याता सर्वगुणोत्तरा ॥ ७६.१३॥
तस्योत्तरपुटे रम्या गुह्यकाधिपतेः पुरी ।
नाम्ना महोदया नाम शुभा वैदूर्यवेदिका ॥ ७६.१४॥
तथाष्टमेऽन्तरपुटे ईशानस्य महात्मनः ।
पुरी मनोहरा नाम भूतैर्नानाविधैर्युता ।
पुष्पैर्धन्यैश्च विविधैर्वनैराश्रमसंस्थितैः ॥ ७६.१५॥
प्रार्थ्यते देवलोकोऽयं स स्वर्ग इति कीर्तितः ॥ ७६.१६॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे षट्सप्ततितमोऽध्यायः ॥ ७६॥
रुद्र उवाच ।
यदेतत् कर्णिकामूलं मेरोर्मध्यं प्रकीर्तितम् ।
तद् योजनसहस्राणि संख्यया मानतः स्मृतम् ॥ ७७.१॥
चत्वारिंशत् तथा चाष्टौ सहस्राणि तु मण्डलैः ।
शैलराजस्य तत्तत्र मेरुमूलमिति स्मृतम् ॥ ७७.२॥
तेषां गिरिसहस्राणामनेकानां महोच्छ्रयः ।
दिगष्टौ च पुनस्तस्य मर्यादापर्वताः शुभाः ॥ ७७.३॥
जठरो देवकूटश्च पूर्वस्यां दिशि पर्वतौ ।
पूर्वपश्चायतावेतावर्णवान्तर्व्यवस्थितौ ।
मर्यादापर्वतानेतानष्टानाहुर्मनीषिणः ॥ ७७.४॥
योऽसौ मेरुर्द्विजश्रेष्ठाः प्रोक्तः कनकपर्वतः ।
विष्कम्भांस्तस्य वक्ष्यामि शृणुध्वं गदतस्तु तान् ॥ ७७.५॥
महापादास्तु चत्वारो मेरोरथ चतुर्दिशम् ।
यैर्न चचाल विष्टब्धा सप्तद्वीपवती मही ॥ ७७.६॥
दशयोजनसाहस्रं व्यायामस्तेषु शङ्क्यते ।
तिर्यगूर्ध्वं च रचिता हरितालतटैर्वृताः ॥ ७७.७॥
मनःशिलादरीभिश्च सुवर्णमणिचित्रिताः ॥अ
अनेकसिद्धभवनैः क्रीडास्थानैश्च सुप्रभाः ॥ ७७.८॥
पूर्वेण मन्दरस्तस्य दक्षिणे गन्धमादनः ।
विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्थितः ॥ ७७.९॥
तेषां शृङ्गेषु चत्वारो महावृक्षाः प्रतिष्ठिताः ।
देवदैत्याप्सरोभिश्च सेविता गुणसंचयैः ॥ ७७.१०॥
मन्दरस्य गिरेः शृङ्गे कदम्बो नाम पादपः ।
प्रलम्बशाखाशिखरः कदम्बश्चैत्यपादपः ॥ ७७.११॥
महाकुम्भप्रमाणेश्च पुष्पैर्विकचकेसरैः ।
महागन्धबनोज्ञैश्च शोभितः सर्वकालजैः ॥ ७७.१२॥
समासेन परिवृतो भुवनैर्भूतभावनैः ।
सहस्रमधिकं सोऽथ गन्धेनापूरयन् दिशः ॥ ७७.१३॥
भद्राश्वो नाम वृक्षोऽयं वर्षाद्रेः केतुसंभवः ।
कीर्तिमान् रूपवाञ्छ्रीमान् महापादपपादपः ।
यत्र साक्षाद्धृषीकेशः सिद्धसङ्घैर्निषेव्यते ॥ ७७.१४॥
तस्य भद्रकदम्बस्य तथाश्ववदनो हरिः ।
प्राप्तवांश्चामरश्रेष्ठः स हि सानुं पुनः पुनः ॥ ७७.१५॥
तेन चालोकितं वर्षं सर्वद्विपदनायकाः ।
यस्य नाम्ना समाख्यातो भद्राश्वेति न संशयः ॥ ७७.१६॥
दक्षिणस्यापि शैलस्य शिखरे देवसेविते ।
जम्बूः सद्यः पुष्पफला महाशाखोपशोभिता ॥ ७७.१७॥
तस्या ह्यतिप्रमाणानि स्वादूनि च मृदूनि च ।
फलान्यमृतकल्पानि पतन्ति गिरिमूर्धनि ॥ ७७.१८॥
तस्माद् गिरिवरश्रेष्ठात् फलप्रस्यन्दवाहिनी ।
दिव्या जाम्बूनदी नाम प्रवृत्ता मधुवाहिनी ॥ ७७.१९॥
तत्र जाम्बूनदं नाम सुवर्णमनलप्रभम् ।
देवालङ्कारमतुलमुत्पन्नं पापनाशनम् ॥ ७७.२०॥
देवदानवगन्धर्वयक्षराक्षसगुह्यकाः ।
पपुस्तदमृतप्रख्यं मधु जम्बूफलस्त्रवम् ॥ ७७.२१॥
सा केतुर्दक्षिणे वर्षे जम्बूर्लोकेषु विश्रुता ।
यस्या नाम्ना समाख्याता जम्बूद्वीपेति मानवैः ॥ ७७.२२॥
विपुलस्य च शैलस्य दक्षिणेन महात्मनः ।
जातः शृङ्गेति सुमहानश्वत्थश्चेति पादपः ॥ ७७.२३॥
महोच्छ्रायो महास्कन्धो नैकसत्त्वगुणालयः ।
कुम्भप्रमाणै रुचिरैः फलैः सर्वर्त्तुकैः शुभैः ॥ ७७.२४॥
स केतुः केतुमालानां देवगन्धर्वसेवितः ।
केतुमालेति विख्यातो नाम्ना तत्र प्रकीर्तितः ।
तन्निबोधत विप्रेन्द्रा निरुक्तं नामकर्मणः ॥ ७७.२५॥
क्षीरोदमथने वृत्ते माला स्कन्धे निवेशिताः ।
इन्द्रेण चैत्यकेतोस्तु केतुमालस्ततः स्मृतः ।
तेन तच्चिह्नितं वर्षं केतुमालेति विश्रुतम् ॥ ७७.२६॥
सुपार्श्वस्योत्तरे शृङ्गे वटो नाम महाद्रुमः ।
न्यग्रोधो विपुलस्कन्धो यस्त्रियोजनमण्डलः ॥ ७७.२७॥
माल्यदामकलापैश्च विविधैस्तु समन्ततः ।
शाखाभिर्लम्बमानाभिः शोभितः सिद्धसेवितः ॥ ७७.२८॥
प्रलम्बकुम्भसदृशैर्हेमवर्णैः फलैः सदा ।
स ह्युत्तरकुरूणां तु केतुवृक्षः प्रकाशते ॥ ७७.२९॥
सनत्कुमारावरजा मानसा ब्रह्मणः सुताः ।
सप्त तत्र महाभागाः कुरवो नाम विश्रुताः ॥ ७७.३०॥
तत्र स्थिरगतैर्ज्ञानैर्विरजस्कैर्महात्मभिः ।
अक्षयः क्षयपर्यन्तो लोकः प्रोक्तः सनातनः ॥ ७७.३१॥
तेषां नामाङ्कितं वर्षं सप्तानां वै महात्मनाम् ।
दिवि चेह च विख्याता उत्तराः कुरवः सदा ॥ ७७.३२॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे सप्तसप्ततितमोऽध्यायः ॥ ७७॥
रुद्र उवाच ।
तथा चतुर्णां वक्ष्यामि शैलेन्द्राणां यथाक्रमम् ।
अनुविद्यानि रम्याणि विहङ्गैः कूजितानि च ॥ ७८.१॥
अनेकपक्षियुक्तात्मशृङ्गाणि सुबहूनि च ।
देवानां दिव्यनारीभिः समं क्रीडामयानि च ॥ ७८.२॥
किन्नरोद्गीतघुष्टानि शीतमन्दसुगन्धिभिः ।
पवनैः सेव्यमानानि रमणीयतराणि च ॥ ७८.३॥
चतुर्द्दिक्षु विराजन्ते नामतः शृणुतानघाः ।
पूर्वे चैत्ररथं नाम दक्षिणे गन्धमादनम् ।
प्रभावेण सुतोयानि नवखण्डयुतानि च ॥ ७८.४॥
वनषण्डांस्तथाक्रम्य देवता ललनायुताः ।
यत्र क्रीडन्ति चोद्देशे मुदा परमया युताः ॥ ७८.५॥
अनुबन्धानि रम्याणि विहगैः कूजितानि च ।
रत्नोपकीर्णतिर्थानि महापुण्यजलानि च ॥ ७८.६॥
अनेकजलयन्त्रैश्च नादितानि महान्ति च ।
शाखाभिर्लम्बमानाभी रुवत्पक्षिकुलालिभिः ॥ ७८.७॥
कमलोत्पलकह्लारशोभितानि सरांसि च ।
चतुर्षु तेषु गिरिषु नानागुणयुतेषु च ॥ ७८.८॥
अरुणोदं तु पूर्वेण दक्षिणे मानसं स्मृतम् ।
असितोदं पश्चिमे च महाभद्रं तथोत्तरे ।
कुमुदैः श्वेतकपिलैः कह्लारैर्भूषितानि च ॥ ७८.९॥
अरुणोदयस्य ये शैलाः प्राच्या वै नामतः स्मृताः ।
तान् कीर्त्त्यमानांस्तत्त्वेन शृणुध्वं गदतो मम ॥ ७८.१०॥
विकङ्को मणिशृङ्गश्च सुपात्रश्चोपलो महान् ।
महानीलोऽथ कुम्भश्च सुबिन्दुर्मदनस्तथा ॥ ७८.११॥
वेणुनद्धः सुमेदाश्च निषधो देवपर्वतः ।
इत्येते पर्वतवराः पुण्याश्च गिरयोऽपरे ॥ ७८.१२॥
पूर्वेण मन्दरात् सिद्धाः पर्वताश्च मदायुताः ।
सरसो मानसस्येह दक्षिणेन महाचलाः ॥ ७८.१३॥
ये कीर्त्तिता मया तुभ्यं नामतस्तान् निबोधत ।
शैलस्त्रिशिरश्चैव शिशिरश्चाचलोत्तमः ॥ ७८.१४॥
कपिश्च शतमक्षश्च तुरगश्चैव सानुमान् ।
ताम्राहश्च विषश्चैव तथा श्वेतोदनो गिरिः ॥ ७८.१५॥
समूलश्चैव सरलो रत्नकेतुश्च पर्वतः ।
एकमूलो महाशृङ्गो गजमूलोऽपि शावकः ॥ ७८.१६॥
पञ्चशैलश्च कैलासो हिमवानचलोत्तमः ।
उत्तरा ये महाशैलास्तान् वक्ष्यामि निबोधत ॥ ७८.१७॥
कपिलः पिङ्गलो भद्रः सरसश्च महाचलः ।
कुमुदो मधुमांश्चैव गर्जनो मर्कटस्तथा ॥ ७८.१८॥
कृष्णश्च पाण्डवश्चैव सहस्रशिरसस्तथा ।
पारियात्रश्च शैलेन्द्रः शृङ्गवानचलोत्तमः ।
इत्येते पर्वतवराः श्रीमन्तः पश्चिमे स्मृताः ॥ ७८.१९॥
महाभद्रस्य सरस उत्तरेण द्विजोत्तमाः ।
ये पर्वताः स्थिता विप्रास्तान् वक्ष्यामि निबोधत ॥ ७८.२०॥
हंसकूटो महाशैलो वृषहंसश्च पर्वतः ।
कपिञ्जलश्च शैलेन्द्र इन्द्रशैलश्च सानुमान् ॥ ७८.२१॥
नीलः कनकशृङ्गश्च शतशृङ्गश्च पर्वतः ।
पुष्करो मेघशैलोऽथ विरजाश्चाचलोत्तमः ।
जारुचिश्चैव शैलेन्द्र इत्येते उत्तराः स्मृताः ॥ ७८.२२॥
इत्येतेषां तु मुख्यानामुत्तरेषु यथाक्रमम् ।
स्थलीरन्तरद्रोण्यश्च सरांसि च निबोधत ॥ ७८.२३॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे अष्टसप्ततितमोऽध्यायः ॥ ७८॥
रुद्र उवाच ।
सीतान्तस्याचलेन्द्रस्य कुमुदस्यान्तरेण च ।
द्रोण्यां विहङ्गपुष्टायां नानासत्त्वनिषेवितम् ॥ ७९.१॥
त्रियोजनशतायामं शतयोजनविस्तृतम् ।
सुरसामलपानीयं रम्यं तत्र सुरोचनम् ॥ ७९.२॥
द्रोणमात्रप्रमाणैश्च पुण्डरीकैः सुगन्धिभिः ।
सहस्रशतपत्रैश्च महापद्मैरलङ्कृतम् ॥ ७९.३॥
देवदानवगन्धर्वैर्महासर्पैरधिष्ठितम् ।
पुण्यं तच्छ्रीसरो नाम सप्रकाशमिहेह च ॥ ७९.४॥
प्रसन्नसलिलैः पूर्णं शरण्यं सर्वदेहिनाम् ।
तत्र त्वेकं महापद्मं मध्ये पद्मवनस्य च ॥ ७९.५॥
कोटिपत्रप्रकलितं तरुणादित्यवर्चसम् ।
नित्यं व्याकोशमधुरं चलत्वादतिमण्डलम् ॥ ७९.६॥
चारुकेसरजालाढ्यं मत्तभ्रमरनादितम् ।
तस्मिन् मध्ये भगवती साक्षात् श्रीर्नित्यमेव हि ।
लक्ष्मीस्तु तं तदावासं मूर्त्तिमन्तं न संशयः ॥ ७९.७॥
सरसस्तस्य तीरे तु तस्मिन् सिद्धनिषेवितम् ।
सदा पुष्पफलं रम्यं तत्र बिल्ववनं महत् ॥ ७९.८॥
शतयोजनविस्तीर्णं द्वियोजनशतायतम् ।
अर्द्धक्रोशोच्चशिखरैर्महावृक्षैः समन्ततः ।
शाखासहस्रकलितैर्महास्कन्धैः समाकुलम् ॥ ७९.९॥
फलैः सहस्रसङ्काशैः हरितैः पाण्डुरैस्तथा ।
अमृतस्वादुसदृशैर्भेरीमात्रैः सुगन्धिभिः ॥ ७९.१०॥
शीर्यद्भिश्च पतद्भिश्च कीर्णभूमिवनान्तरम् ।
नाम्ना तच्छ्रीवनं नाम सर्वलोकेषु विश्रुतम् ॥ ७९.११॥
देवादिभिः समाकीर्णमष्टाभिः ककुभिः शुभम् ।
बिल्वाशिभिश्च मुनिभिः सेवितं पुण्यकारिभिः ।
तत्र श्रीः संस्थिता नित्यं सिद्धसङ्घनिषेविता ॥ ७९.१२॥
एकैकस्याचलेन्द्रस्य मणिशैलस्य चान्तरम् ।
शतयोजनविस्तीर्णं द्वियोजनशतायतम् ॥ ७९.१३॥
विमलं पङ्कजवनं सिद्धचारणसेवितम् ।
पुष्पं लक्ष्म्या धृतं भाति नित्यं प्रज्वलतीव ह ॥ ७९.१४॥
अर्द्धक्रोशं च शिखरैर्महास्कन्धैः समावृतम् ।
प्रफुल्लशाखाशिखरं पिञ्जरं भाति तद्वनम् ॥ ७९.१५॥
द्विबाहुपरिणाहैस्तैस्त्रिहस्तायामविस्तृतैः ।
मनःशिलाचूर्णनिभैः पाण्डुकेसरशालिभिः ॥ ७९.१६॥
पुष्पैर्मनोहरैर्व्याप्तं व्याकोशैर्गन्धशोभिभिः ।
विराजति वनं सर्वं मत्तभ्रमरनादितम् ॥ ७९.१७॥
तद्वनं दानवैर्दैत्यैर्गन्धर्वैर्यक्षराक्षसैः ।
किन्नरैरप्सरोभिश्च महाभोगैश्च सेवितम् ॥ ७९.१८॥
तत्राश्रमो भगवतः कश्यपस्य प्रजापतेः ।
सिद्धसाधुगणाकीर्णं नानाश्रमसमाकुलम् ॥ ७९.१९॥
महानीलस्य मध्ये तु कुम्भस्य च गिरेस्तथा ।
मध्ये सुखा नदी नाम तस्यास्तीरे महद्वनम् ॥ ७९.२०॥
पञ्चाशद्योजनायामं त्रिंशद्योजनमण्डलम् ।
रम्यं तालवनं श्रीमत् क्रोशार्द्धोच्छ्रितपादपम् ॥ ७९.२१॥
महाबलैर्महासारैः स्थिरैरविचलैः शुभैः ।
महदञ्जनसंस्थानैः परिवृत्तैर्महाफलैः ॥ ७९.२२॥
मृष्टगन्धगुणोपेतैरुपेतं सिद्धसेवितम् ।
ऐरावतस्य करिणस्तत्रैव समुदाहृतम् ॥ ७९.२३॥
ऐरावतस्य रुद्रस्य देवशैलस्य चान्तरे ।
सहस्रयोजनायामा शतयोजनविस्तृता ॥ ७९.२४॥
सर्वा ह्येकशिला भूमिर्वृक्षवीरुधवर्जिता ।
आप्लुता पादमात्रेण सलिलेन समन्ततः ॥ ७९.२५॥
इत्येताभ्यन्तरद्रोण्यो नानाकाराः प्रकीर्त्तिताः ।
मेरोः पार्श्वेन विप्रेन्द्रा यथावदनुपूर्वशः ॥ ७९.२६॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे एकोनाशीतितमोऽध्यायः ॥ ७९॥
रुद्र उवाच ।
अथ दक्षिणदिग्व्यवस्थिताः पर्वतद्रोण्यः सिद्धाचरिताः
कीर्त्यन्ते । शिशिरपतङ्गयोर्मध्ये शुक्लभूमिस्त्रिया मुक्तलतागलितपादपम् ।
इक्षुक्षेपे च शिखरे पादपैरुपशोभितम् ।
उदुम्बरवनं रम्यं पक्षिसङ्घनिषेवितम् ॥ ८०.१॥
फलितं तद् वनं भाति महाकूर्मोपमैः फलैः॥
तद् वनं देवयोन्योऽष्टौ सेवन्ते सर्वदैव ॥ ८०.२॥
वराहपुराण ॥ ८०.३॥
तत्र प्रसन्नस्वादुसलिला बहूदका नद्यो वहन्ति । तत्राश्रमो
भगवतः कर्दमस्य प्रजापतेः । नानामुनिजनाकीर्णस्तच्च
शतयोजनमेकं परिमण्डलं वनं च । तथा च ताम्राभस्य
शैलस्य पतङ्गस्य चान्तरे शतयोजनविस्तीर्णं
द्विगुणायतं बालार्कसदृशराजीवपुण्रीकैः ??
समन्ततः सहस्रपत्रैरविरलैरलंकृतं महत्
सरोऽनेकसिद्धगन्धर्वाध्युषितम् । तस्य च मध्ये महाशिखरः
शतयोजनायामस्त्रिंशद्योजनविस्तीर्णोऽनेकधातुरत्नभूषितस्तस्य
चोपरि महती रथ्या रत्नप्राकारतोरणा । तस्यां महद् विद्याधरपुरम् ।
तत्र पुलोमनामा विद्याधरराजः शतसहस्रपरीवारः । तथा च
विखाखाचलेन्द्रस्य श्वेतस्य चान्तरे सरः । तस्य च पूर्वतीरे
महदाम्रवनं कनकसंकाशैः फलैरतिसुगन्धिभिर्महाकुम्भमात्रैः
सर्वतश्चितम् । देवगन्धर्वादयश्च तत्र निवसन्ति ।
सुमुलस्याचलेन्द्रस्य वसुधारस्य चान्तरे त्रिंशद्योजनविस्तीर्णे
पञ्चाशद्योजनायते । बिल्वस्थली नाम । तत्र फलानि विद्रुमसंकाशानि
तैश्च पतद्भिः स्थलमृत्तिका क्लिन्ना । तां च स्थलीं सुगुह्यकादयः
सेवन्ते बिल्वफलाशिनः । तथा च वसुधाररत्नधारयोरन्तरे
त्रिंशद्योजनविस्तीर्णं शतयोजनमायतं सुगन्धिकिंशुकवनं
सदाकुसुमं यस्य गन्धेन वास्यते योजनशतम् । तत्र सिद्धाध्युषितं
जलोपेतं च । तत्र चादित्यस्य देवस्य महदायतनम् । समासे मासे च
भगवानवतरति सूर्यः प्रजापतिः । कालजनकं देवादयो नमस्यन्ति ।
तथा च पञ्चकूटस्य कैलासस्य चान्तरे सहस्रयोजनायामं
विस्तीर्णं शतयोजनं हंसपाण्डुरं क्षुद्रसत्त्वैरनाधृष्यं
स्वर्गसोपानमिव भूमण्डलम् । अथ पश्चिमदिग्भागे व्यवस्थिता
गिरिद्रोण्यः कीर्त्यन्ते । सुपार्श्वशिखिशैलयोर्मध्ये समन्ताद्
योजनशतमेकं भौमशिलातलं नित्यतप्तं दुःस्पर्शम् । तस्य मध्ये
त्रिंशद्योजनविस्तीर्णं मण्डलं वह्निस्थानम् । स च सर्वकालमनिन्धनो
भगवान् लोकक्षयकारी संवर्तको ज्वलते । अन्तरे च शैलवरयोः
कुमुदाञ्जनयोः शतयोजनविस्तीर्णामातुलुङ्गस्थली सर्वसत्त्वानामगम्या ।
पीतवर्णैः फलैरावृता सती सा स्थली शोभते । तत्र च शैलयोः
पिञ्जरगौरयोरन्तरेण सरोद्रोणी ह्यनेकशतयोजनायता महद्भिश्च
षट्पदोद्घुष्टैः कुमुदैरुपशोभिता । तत्र च भगवतो विष्णोः
परमेश्वरस्यायतनम् । तथा च शुक्लपाण्डुरयोरपि महागिर्योरन्तरे
त्रिंशद्योजनविस्तीर्णो नवत्यायत एकः शिलोद्देशोवृक्षविवर्जितः ।
तत्र निष्पङ्का दीर्घिका सवृक्षा च स्थलपद्मिनी अनेकजातीयैश्च
पद्मैः शोभिता । तस्याश्च मध्ये पञ्चयोजनप्रमाणो
महान्यग्रोधवृक्षः । तस्मिंश्चन्द्रशेखरोमापतिर्नीलवासाश्च
देवो निवसति यक्षादिभिरीड्यमानः । सहस्रशिखरस्य
गिरेः कुमुदस्य चान्तरे पञ्चाशद्योजनायामं
विंशद्योजनविस्तृतमिक्षुक्षेपोच्चशिखरमनेकपक्षिसेवितम् ।
अनेकवृक्षफलैर्मधुरस्त्रवैरुपशोभितम् । तत्र
चेन्द्रस्य महानाश्रमो दिव्याभिप्रायनिर्मितः । तथा च
शङ्खकूटऋषभयोर्मध्ये पुरुषस्थलीरम्याऽनेकगुणानेकयोजनायता
बिल्वप्रमाणैः कङ्कोलकैः सुगन्धिभिरुपेता । तत्र पुरुषकरसोन्मत्ता
नागाद्याः प्रतिवसन्ति । तथा कपिञ्जलनागशैलयोरन्तरे
द्विशतयोजनमायामविस्तीर्णा शतयोजनस्थली नानावनविभूषिता
द्राक्षाखर्जूरखण्डैरुपेता अनेकवृक्षवल्लीभिरनेकैश्च
सरोभिरुपेता सा स्थली । तथा च पुष्करमहामेघयोरन्तरे
षष्टियोजनविस्तीर्णा शतायामा पाणितलप्रख्या महती स्थली
वृक्षवीरुधविवर्जिता ।तस्याश्च पार्श्वे चत्वारि महावनानि
सरांसि चानेकयोजनानाम् ।दश पञ्च सप्त तथाष्टौ त्रिंशद्
विंशति योजनानां स्थल्यो द्रोण्यश्च । तत्र काश्चिन्महाघोराः
पर्वतकुक्षयः ।
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे अशीतितमोऽध्यायः ॥ ८०॥
रुद्र उवाच ।
अतः परं पर्वतेषु देवानामवकाशा वर्ण्यन्ते । तत्र योऽसौ
शान्ताख्यः पर्वतस्तस्योपरि महेन्द्रस्य क्रीडास्थानम् । तत्र
देवराजस्य पारिजातकवृक्षवनम् । तस्य पूर्वपार्श्वे कुञ्जरो
नाम गिरिः । तस्योपरि दानवानामष्टौ पुराणि च । तथा वज्रके
पर्वतवरे राक्षसानामनेकानि पुराणि । ते च नाम्ना नीलकाः कामरूपिणः ।
महानीलेऽपि शैलेन्द्रपुराणि । पञ्चदशसहस्राणि किन्नराणां
ख्यातानि । तत्र देवदत्तचन्द्रादयो राजानः । पञ्चदशकिन्नराणां
गर्विताः । तानि सौवर्णानि बिलप्रवेशनानि च पुराणि । चन्द्रोदये
च पर्वतवरे नागानामधिवासः । ते च बिलप्रवेशाः बिलेषु
वैनतेयविषयावर्त्तिनो व्यवस्थितानुरागे च दानवेन्द्रा व्यवस्थिताः ।
वेणुमत्यपि विद्याधरपुरत्रयं । त्रिंशद्योजनशतविस्तीर्णमेकैकं
तावदायतम् । उलूकरोमशमहावेत्रादयश्च राजानो विद्याधराणाम् ।
एकैके च शैलराजनि स्वयमेव गरुडो व्यवस्थितः । कुञ्जरे तु
पर्वतवरे नित्यं पशुपतिः स्थितः । वृषभाङ्को महादेवः
शंकरो योगिनां वरः अनेकगणभूतकोटिसहस्रवारो भगवान्
अनादिपुरुषो व्यवस्थितः । वसुधारे च पुष्पवतां वसूनां च
समावासः । वसुधाररत्नधारयोर्मूर्ध्नि अष्टौ सप्त च संख्यया ।
पुराणि वसुसप्तर्षीणां चेति । एकशृङ्गे च पर्वतोत्तमे
प्रजापतेः स्थानं चतुर्वक्त्रस्य ब्रह्मणः । गजपर्वते च
महाभूतपरिवृता स्वयमेव भगवती तिष्ठति । वसुधारे च
पर्वतवरे मुनिसिद्धविद्याधराणामायतनम् । चतुराशीत्यपरपुर्यो
महाप्राकारतोरणाः । तत्र चानेकपर्वता नाम गन्धर्वा
युद्धशालिनो वसन्ति । तेषां चाधिपतिर्देवो राजराजैकपिङ्गलः ।
सुरराक्षसाः पञ्चकूटेदानवाः शतशृङ्गेयक्षाणां पुरशतम् ।
ताम्राभे तक्षकस्यपुरशतम् । विशखपर्वते गुहस्यायतनम्
।श्वेतोदये गिरिवरे महागन्धर्वभवनम् । हरिकूटे हरिर्देवः ।
कुमुदे किन्नरावासः । अञ्जने महोरगाः । सहस्रशिखरे च
दैत्यानामुग्रकर्मिणामावासः । पुराणां सहस्रमेकं हेममालिनाम्
मुकुटे पन्नप्रपक्षे पर्वतवरे चत्वार्यायतनानि तु । एवं
मेरुपर्वतेषु देवानामधिवासः । मर्यादापर्वते देवकूटे पुरविन्यासः
कीर्त्यते । तस्योपरि योजनशतं गरुडस्य जातं क्षेत्रम् ।
तस्यैव पार्श्वतस्त्रिंशद्योजनविस्तीर्णाश्चत्वारिंशदायताः
सप्तगन्धर्वनगराः । आग्नेयाश्च नाम्ना गन्धर्वातिबलिनः ।
तत्र चान्यत् त्रिंशद्योजनमण्डलं पुरम् सैंहिकेयानाम् । तत्र
च देवर्षिचरितानि देवकूटे दृश्यन्ते । पुरं च कालकेयानां
तत्रैव । तथा चान्तरतटेऽन्येसुनान्नाम तस्यैव दक्षिणे
त्रिंशद्योजनविस्तृतं द्विषष्टियोजनायामं पुरम् कामरूपिणां
दृप्तानां मध्यमे च तस्य हेमकूटे महादेवस्य न्यग्रोधः । अथातः
कैलासवर्णको भवति । कैलासस्य तटे योजनशतमायामवस्तृतम्
भुवनमालाभिव्याप्तम् । तस्याश्च मध्ये सभा । तत्र च तत्पुष्करं
नाम विमानं तिष्ठति । धनदस्य च तद्विमानमधिवासश्च । तत्र
पद्ममहापद्ममकरकच्छपकुमुदशङ्खनीलनन्दमहानिधयः
प्रतिवसन्ति । तत्र चन्द्रादीनां लोकपालानामावासः । तत्र
च मन्दाकिनी नाम नदी । तथा कनकमन्दा मन्दा चेति
नामभिः सरितः । तत्रान्या अपि नद्यः सन्ति । पूर्वपार्श्वे च
शतयोजनमायामास्त्रिंशद्योजनविस्तृता दशगन्धर्वपुर्यः तासु च
सकुबाहुहरिकेशचित्रसेनादयो राजानः । तस्यैव च पश्चिमकूटे
अशीतियोजनायामं चत्वारिंशद्विस्तृतमेकैकं यक्षनगरम् । तेषु
च महामालिसुनेत्र चक्रादयो नायकाः । तस्यैव दक्षिणे पार्श्वे
कुञ्जदरीषु गुहासु समुद्राः समुद्रं यावत्किन्नराणां पुरशतम् । तेषु
च द्रुमसुग्रीवादिभगदत्तप्रमुखं राजशतम् । तत्र च रुद्रस्योमया
सार्द्धं विवाहस्संवृत्तः । तपश्च कृतवती गौरी । किरातरूपिणा
च रुद्रेण स्थितम् । तत्रैव तत्र स्थितेन सोमेन शंकरेण
जम्बूद्वीपावलोकनं कृतम् । तत्र चानेककिन्नरगन्धर्वोपगीतमुमावनं
नामाप्सरोभिरनेकपुष्पलतावल्लीभिरुपेतम् । यत्र भगवता
महेश्वरेणार्द्धनारीनरवपुः प्राप्तम् । तत्र च कार्तिकेयस्य
शरद्वनम् । पुष्पचित्रक्रौञ्चयोर्मध्ये कार्तिकेयाभिषेकः कृतः
तस्य च पूर्वतटे सिद्धमुनिगणावासः कलापग्रामो नाम । तथा च
मार्कण्डेयवसिष्ठपराशरनलविश्वामित्रोद्दालकादीनां महर्षीणामनेकानि
सहस्राण्याश्रमाणां हि भवति । तथा च पश्चिमस्याचलेन्द्रस्य
निषधस्य भागं शृणुत । तस्य च मध्यमकूटे विष्ण्वायतनं
महादेवस्य । तस्यैवोत्तरतटे त्रिंशद्योजनविस्तृतं महत्पुरं
लम्बाख्यातं राक्षसानाम् । तस्यैव दक्षिणे पार्श्वे बिलप्रवेशनगरम् ।
प्रभेदकस्य पश्चिमेन देवदानवसिद्धादीनां पुराणि । तस्य
गिरेर्मूर्ध्नि महती सोमशिला तिष्ठति । तस्यां च पर्वणि सोमः
स्वयमेवावतरति । तस्यैवोत्तरपार्श्वे त्रिकूटं नाम । तत्र ब्रह्मा
तिष्ठति क्वचित् । तथा च वह्न्यायतनम् । मूर्त्तिमान् वह्निरुपास्यते
देवैः । उत्तरे च शृङ्गाख्ये पर्वतवरे देवतानामायतनानि ।
पूर्वे नारायणस्यायतनम् । मध्ये ब्रह्मणः । शंकरस्य पश्चिमे ।
तत्र च यक्षादीनां केचित् पुराणि तस्य चोत्तरतीरे जातुछे महापर्वते
त्रिंशद्योजनमण्डलं नन्दजलं नाम सरस् तत्र नन्दो नाम नागराजा
वसति शतशीर्षप्रचण्ड इति इत्येतेऽष्टौ देवपर्वता विज्ञेयाः ।
तेनानुक्रमेण हेमरजतरत्नवैदूर्यमानः शिलाहिङ्गुलादिवर्णाः ।
इयं च पृथ्वी लक्षकोटिशतानेकसंख्यातानां पूर्णा तेषु च
सिद्धविद्याधराणां निलयाः ते च मेरोः पार्श्वतः केसरवलयालवालं
सिद्धलोकेति कीर्त्त्यते । इयं पृथ्वी पद्माकारेण व्यवस्थिता । एष
च सर्वपुराणेषु क्रमः सामान्यतः प्रतिपाद्यते ।
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे एकाशीतितमोऽध्यायः ॥ ८१॥
रुद्र उवाच ।
अथ नदीनामवतारं शृणुत । आकाशसमुद्रो यः कीर्त्यते सामाख्यस्
तस्मादाकाशगामिनी नदी प्रवृत्ता । सा चानवरतमिन्द्रगजेन
क्षोभ्यते । सा च चतुरशीतिसहस्रोच्छ्राया । सा मेरोः सुदर्शनं
करोति । सा च मेरुकूटतटान्तेभ्यः प्रस्खलिता चतुर्धा संजाता ।
षष्टिं च योजनसहस्रं निरालम्बा पतमाना प्रदक्षिणमनुसरन्ती
चतुर्द्धा जगाम । सीता चालकनन्दा चक्षुर्भद्रा चेति नामभिः ।
यथोद्देशं सा चानेकशतसहस्रपर्वतानां दारयन्ती गां गतेति
गङ्गेत्युच्यते अथ गन्धमादनपार्श्वेऽमरगण्डिका वर्ण्यते ।
एकत्रिंशद्योजनसहस्राणि आयामः चतुःशतविस्तीर्णम् । तत्र केतुमालाः
सर्वे जनपदाः । कृष्णवर्णाः पुरुषा महाबलिनः । उत्पलवर्णाः
स्त्रियः शुभदर्शनाः । तत्र च महावृक्षाः पनसाः सन्ति ।
तत्रेश्वरो ब्रह्मपुत्रस्तिष्ठति । तत्रोदपानाच्च जरारोगविवर्जिता
वर्षायुतायुषश्च नराः । माल्यवतः पूर्वपार्श्वे पूर्वगण्डिका
एकशृङ्गाद्योजनसहस्राणि मानतस्तत्र च भद्राश्वा नाम जनपदाः
भद्रसालवनं च तत्र व्यवस्थितम् । कालाम्रवृक्षाः पुरुषाः श्वेताः
पद्मवर्णिनः स्त्रियः कुमुदवर्णा दशवर्षसहस्राणि तेषामायुः ।
तत्र च पञ्च कुलपर्वताः । तद्यथा शैलवर्णः मालाख्यः
कोरजश्च त्रिपर्णः नीलश्चेति तद्विनिर्गताः । तदम्भःस्थितानां
देशानां तान्येव नामानि । ते च देशा एता नदीः पिबन्ति । तद्यथा
सीता सुवाहिनी हंसवती कासा महाचक्रा चन्द्रवती कावेरी सुरसा
शाखावती इन्द्रवती अङ्गारवाहिनी हरितोया सोमावर्ता शतह्रदा
वनमाला वसुमती हंसा सुपर्णा पञ्चगङ्गा धनुष्मती मणिवप्रा
सुब्रह्मभागा विलासिनी कृष्णतोया पुण्योदा नागवती शिवा शेवालिनी
मणितटा क्षीरोदा वरुणावती विष्णुपदी महानदी हिरण्यस्कन्धवाहा
सुरावती कामोदा पताकाश्चेत्येता महानद्यः । एताश्च गङ्गासमाः
कीर्तिताः । आजन्मान्तं पापं विनाशयन्ति । क्षुद्रनद्यश्च कोटिशः ।
ताश्च नदीर्ये पिबन्ति ते दशवर्षसहस्रायुषः । रुद्रोमाभक्ता इति ।
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे द्व्यशीतितमोऽध्यायः ॥ ८२॥
रुद्र उवाच ।
निसर्ग एष भद्राश्वानां कीर्तितः केतुमालानां विस्तरेण कथितं ।
नैषधस्याचलेनद्रस्य पश्चिमेन कुलाचलजनपदनद्यः कीर्त्यन्ते ।
तथा च विशाखकम्बलजयन्तकृष्णहरिताशोकवर्द्धमाना इत्येतेषां
सप्तकुलपर्वतानां कोटिशः प्रसूतिः । तन्निवासिनो जनपदास्तन्नामान
एव द्रष्टव्याः । तद्यथा सौरग्रामात्तसांतपो कृतसुराश्रवण
कम्बलमाहेयाचलकूटवासमूलतपक्रौञ्चकृष्णाङ्गमणिपङ्कजचूडमलसोमीयसमुद्रान्तक
कुरकुञ्चसुवर्णः तटककुह
श्वेताङ्गकृष्णपाटविदकपिलकर्णिकमहिषकुब्जकरनाटमहोत्कटशुकनासगजभूमककुरञ्जन
मनाहकिंकिसपार्णभौमकचोरकधूमजन्म
अङ्गारजतीवनजीवलौकिलवाचां
सहाङ्गमधुरेयशुकेचकेयश्रवणमत्त
कासिकगोदावामकुलपञ्जावर्जहमोदशालक एते जनपदास्तत्पर्वतोत्था
नदीः पिबन्ति । तद्यथा प्लक्षा महाकदम्बा मानसी श्यामा सुमेधा
बहुला विवर्णा पुङ्खा माला दर्भवती भद्रानदी शुकनदी पल्लवा भीमा
प्रभञ्जना काम्बा कुशावती दक्षा कासवती तुङ्गा पुण्योदा चन्द्रावती
सुमूलावती ककुद्मिनी विशाला करण्टका पीवरी महामाया महिषी मानुषी
चण्डा एता नदीः प्रधानाः । शेषाः क्षुद्रनद्यः सहस्रशश्चेति ।
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे त्र्यशीतितमोऽध्यायः ॥ ८३॥
रुद्र उवाच ।
उत्तराणां च वर्षाणां दक्षिणानां च सर्वशः ।
आचक्षते यथान्यायं ये च पर्वतवासिनः ।
तच्छृणुध्वं मया विप्राः कीर्त्त्यमानं समाहिताः ॥ ८४.१॥
दक्षिणेन तु श्वेतस्य नीलस्य चोत्तरेण च ।
वायव्यां रम्यकं नाम जायन्ते तत्र मानवाः ।
मतिप्रधाना विमला जरादौर्गन्ध्यवर्जिताः ॥ ८४.२॥
तत्रापि सुमहान् वृक्षो न्यग्रोधो रोहितः स्मृतः ।
तत्फलाद् रसपानाद्धि दशवर्षसहस्रिणः ।
आयुषा सर्वमनुजा जायन्ते देवरूपिणः ॥ ८४.३॥
उत्तरेण च श्वेतस्य त्रिशृङ्गस्य च दक्षिणे ।
वर्षं हिरण्मयं नाम तत्र हैरण्वती नदी ।
यक्षा वसन्ति तत्रैव बलिनः कामरूपिणः ॥ ८४.४॥
एकादशहस्त्राणि समानां तेन जीवते ।
शतान्यन्यानि जीवन्ते वर्षाणां दश पञ्च च ॥ ८४.५॥
लकुचाः क्षुद्रसा वृक्षास्तस्मिन् देशे व्यवस्थिताः ।
तत्फलप्राशमाना हि तेन जीवन्ति मानवाः ॥ ८४.६॥
तथा त्रिशृङ्गे च मणिकाञ्चनसर्वरत्नशिखरानुक्रमेण
तस्य चोत्तरशृङ्गाद्दक्षिणसमुद्रान्ते चोत्तरकुरवः ।
वस्त्राण्याभरणानि च वृक्षेष्वेव जायन्ते क्षीरवृक्षाः
क्षीरासवाः सन्ति । मणिभूमिः सुवर्णबालुका । तस्मिन्
स्वर्गच्युताश्च पुरुषा वसन्ति त्रयोदशवर्षसहस्रायुषः ।
तस्यैव द्वीपस्य पश्चिमेन चतुर्योजनसहस्रमतिक्रम्य
देवलोकाच्चन्द्रद्वीपो भवति योजनसहस्रपरिमण्डलः । तस्य मध्ये
चन्द्रकान्तसूर्यकान्तनामानौ गिरिवरौ । तयोश्च मध्ये चन्द्रावती
नाम महानदी अनेकवृक्षफलानेकनदीसमाकुला । एतत्कुरुवर्षं च ।
तस्योत्तरपार्श्वे समुद्रोर्मिमालाढ्यं पञ्चयोजनसहस्रमतिक्रम्य
देवलोकात् सूर्यद्वीपो भवति योजनसहस्रपरिमण्डलः ।
तस्य मध्ये गिरिवरः शतयोजनविस्तीर्णस्तावदुच्छ्रितः ।
तस्मात्सूर्यावर्त्तनामा नदी निर्गता । तत्र च सूर्यस्याधिष्ठितम्
तत्र सूर्यदैवत्यास्तद्वर्णाश्च प्रजा दशवर्षसहस्रायुषः ।
तस्य च द्वीपस्य पश्चिमेन चतुर्योजनसहस्रमतिक्रम्य समुद्रं
दशयोजनसहस्रं परिमण्डलत्वेन द्वीपो रुद्राकरो नाम । तत्र च
भद्रासनं वायोरनेकरत्नशोभितम् । तत्र विग्रहवान् वायुस्तिष्ठति ।
तपनीयवर्णाश्च प्रजाः पञ्चवर्षसहस्रायुषः ॥ ८४.७॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे चतुरशीतितमोऽध्यायः ॥ ८४॥
रुद्र उवाच ।
इयं भूपद्मव्यवस्था कथिता । इदानीं भारतं नवभेदं शृणुत ।
तद्यथा । इन्द्रः कसेरुः ताम्रवर्णो गभस्तिः नागद्वीपः सौम्यः
गन्धर्वः वारुणः भातरं चेति । सागरसंवृतमेकैकं
योजनसहस्रप्रमाणम् । तत्र च सप्त कुलपर्वता भवन्ति ।
तद्यथा । महेन्द्रो मलयः सह्यः शुक्तिमान्नृक्षपर्वतः ।
विन्ध्यश्च पारियात्रश्च इत्येते कुलपर्वताः । अन्ये च
मन्दरशारदर्दुरकोलाहलसुरमैनाकवैद्युतवारन्धमपाण्डुरतुङ्गप्रस्थकृष्णगिरिजयन्तरैवतऋष्यमूकगोमन्तचित्रकूटश्रीचकोरकूटशैलकृतस्थल
इत्येते क्षुद्रपर्वताः । शेषाः क्षुद्रतराः । तेषामार्या म्लेच्छा
जनपदा वसन्ति । पिबन्ति चैतासु नदीषु पानीयम् । तद्यथा गङ्गा
सिन्धु सरस्वती शतद्रु वितस्ता विपाशा चन्द्रभागा सरयू यमुना
इरावती देविका कुहू गोमती धूतपापा बाहुदा दृषद्वती कौशिकी निस्वरा
गण्डकी चक्षुष्मती लोहिता इत्येता हिमवत्पादनिर्गताः॥
वेदस्मृतिर्वेदवती सिन्धुपर्णा सचन्दना सदाचारा रोहिपारा चर्मण्वती
विदिशा वेदत्रयी इत्येता पारियात्रोद्भवाः शोणा ज्योतीरथा नर्मदा
सुरसा मन्दाकिनी दशार्णा चित्रकूटा तमसा पिप्पला करतोया पिशाचिका
चित्रोत्पला विशाला वञ्जुला बालुका वाहिनी शुक्तिमती विरजा पङ्किनी
रिरी कुहू इत्येता ऋक्षप्रसूताः । मणिजाला शुभा तापी पयोष्णीं
शीघ्रोदा वेष्णा पाशा वैतरणी वेदी पाली कुमुद्वती तोया दुर्गा
अन्त्या गिरा एता विन्ध्यपादोद्भवाः । गोदावरी भीमरथी कृष्णा वेणा
वञ्जुला तुङ्गभद्रा सुप्रयोगा वाह्या कावेरी इत्येताः सह्यपादोद्भवाः ।
शतमाला ताम्रपर्णी पुष्पावती उत्पलावती इत्येता मलयजाः । त्रियामा
ऋषिकुल्या इक्षुला त्रिविदा लाङ्गूलिनी वंशवरा महेन्द्रतनयाः ।
ऋषिका लूमती मन्दगामिनी पलाशिनी इत्येताः शुक्तिमत्प्रभवाः ।
एताः प्राधान्येन कुलपर्वतनद्यः । शेषाः क्षुद्रनद्यः । एष
जम्बूद्वीपो योजनलक्षप्रमाणतः । अतः परं शाकद्वीपं निबोधत ।
जम्बूद्वीपस्य विस्ताराद् द्विगुणपरिणाहाल्लवणोदकश्च जम्बूद्वीपसमस्तेन
द्विगुणावृतः । तत्र च पुण्या जनपदाश्चिरान्म्रियन्ते
दुर्भिक्षजराव्याधिरहितश्च देशोऽयम् । सप्तैव कुलपर्वतास्तावत्
तिष्ठन्ति तस्य चोभयतो लवणक्षीरोदधी व्यवस्थितौ । तत्र च
प्रागायतः शैलेन्द्र उदयो नाम पर्वतः । तस्यापरेण जलधारो नाम
गिरिः । सैव चन्द्रेति कीर्त्तितः । तस्य च जलमिन्द्रो गृहीत्वा
वर्षति । तस्य पारे रैवतको नाम गिरिः । सैव नारदो वर्ण्यते
तस्मिंश्च नारदपर्वतादुत्पन्नो तस्य चापरेण श्यामो नाम गिरिः ।
तस्मिंश्च प्रजाः श्यामत्वमापन्नाः सैव दुन्दुभिर्वर्ण्यते । तस्मिन्
सिद्धा इति कीर्तिताः प्रजानेकविधाः क्रीडन्तस्तस्यापरे रजतो नाम गिरिः
सैव शाकोच्यते । तस्यापरेणाम्बिकेयः स च विभ्राजसो भण्यते ।
स एव केसरीत्युच्यते । ततश्च वायुः प्रवर्त्तते । गिरिनामान्येव
वर्षाणि तद्यथा । उदयसुकुमारो जलधारक्षेमकमहाद्रुमेति
प्रधानानि द्वितीयपर्वतनामभिरपि वक्तव्यानि । तस्य च मध्ये
शाकवृक्षस्तत्र च सप्तमहानद्यो द्विनाम्न्यः । तद्यथा सुकुमारी
कुमारी नन्दा वेणिका धेनुः इक्षुमती गभस्ति इत्येता नद्यः ।
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे पञ्चाशीतितमोऽध्यायः ॥ ८५॥
अथ तृतीयं कुशद्वीपं शृणुत । कुशद्वीपेन क्षीरोदः परिवृतः
शाकद्वीपस्य विस्ताराद् द्विगुणेन । तत्रापि सप्त कुलपर्वताः । सर्वे
च द्विनामानः । तद् यथा --- कुमुदविद्रुमेति च सोच्यते । उन्नतो
हेमपर्वतः सैव । बलाहको द्युतिमान् सैव । तथा द्रोणः सैव
पुष्पवान् । कङ्कश्च पर्वतः सैव कुशेशयः । तथा षष्ठो
महिषनामा स एव हरिरित्युच्यते । तत्राग्निर्वसति । सप्तमस्तु
ककुद्मान् नाम सैव मन्दरः कीर्त्यते । इत्येते पर्वताः कुशद्वीपे
व्यवस्थिताः एतेषां वर्षभेदो भवति द्विनामसंज्ञः । कुमुदस्य
श्वेतमुद्भिदं तदेव कीर्त्यते । उन्नतस्य लोहितं वेणुमण्डलं तदेव
भवति । बलाहकस्य जीमूतं तदेव रथाकार इति ।द्रोणस्य हरितं
तदेव बलाधनं भवति । कङ्कस्यापि ककुद्मान् नाम । वृत्तिमत् तदेव
मानसं महिषस्य प्रभाकरम् । ककुद्मतः कपिलं तदेव संख्यातं
नाम । इत्येतानि वर्षाणि । तत्र द्विनाम्न्यो नद्यः । प्रतपा प्रवेशा
सैवोच्यते । द्वितीया शिवा यशोदा सा च भवति । तृतीया पित्रा नाम
सैव कृष्णा भण्यते । चतुर्थी ह्रादिनी नाम सैव चन्द्रा निगद्यते ।
विद्युता च पञ्चमी शुक्ला सैव । वर्णा षष्ठी सैव विभावरी ।
महती सप्तमी सैव धृतिः । एताः प्रधानाः शेषाः क्षुदनद्यः ।
इत्येष कुशद्वीपस्य संनिवेशः । शाकद्वीपो द्विगुणः संनिविष्टश्च
कथितः । तस्य च मध्ये महाकुशस्तम्बः । एष च कुशद्वीपो
दधिमण्डोदेनावृतः क्षीरोदद्विगुणेन ।
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे षडशीतितमोऽध्यायः ॥ ८६॥
रुद्र उवाच ।
अथ क्रौञ्चं भवति चतुर्थं कुशद्वीपाद् द्विगुणमानतः समुद्रः
क्रौञ्चेन द्विगुणेनावृतः । तस्मिंश्च सप्तैव प्रधानपर्वताः ।
प्रथमः कौञ्चो विद्युल्लतो रैवतो मानसः सैव पावकः ।
तथैवान्धकारः सैवाच्छोदकः । देवावृत्तो स च सुरापो भण्यते ।
ततो देविष्ठः स एव काञ्चनशृङ्गो भवति । देवनन्दात्परो
गोविन्दः, द्विविन्द इति । ततः पुण्डरीकः सैव तोषाशयः । एते
सप्त रत्नमयाः पर्वताः क्रीञ्चद्वीपे व्यवस्थिताः । सर्वे च
परस्परेणोच्छ्रयाः । तत्र वर्षाणि तथा क्रौञ्चस्य कुशलो देशः
सैव माधवः स्मृतः वामनस्य मनोऽनुगः सैव संवर्तकस्ततोष्णवान्
सोमप्रकाशः । ततः पावकः सैव सुदर्शनः । तथा चान्धकारः
सैव संमोहः । ततो मुनिदेशः स च प्रकाशः । ततो दुन्दुभिः
सैवानर्थ उच्यते । तत्रापि सप्तैव नद्यः ॥ ८७.१॥
गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा ख्यातिश्च पुण्डरीका च
गङ्गा सप्तविधाः स्मृताः । गौरी सैव पुष्पवहा कुमुद्वती ताम्रवती
रोधसंध्या सुखावहा च मनोजवा च क्षिप्रोदा च ख्यातिः सैव
गोबहुला पुण्डरीका चित्रवेगा शेषाः क्षुद्रनद्यः ॥ क्रौञ्चद्वीपो
घृतोदेनावृतः । घृतोदा शाल्मलेनेति ॥ ८७.२ ॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे सप्ताशीतितमोऽध्यायः ॥ ८७॥
रुद्र उवाच ।
त्रिषु शिष्टेषु वक्ष्यामि द्वीपेषु मनुजान्युत ।
शाल्मलं पञ्चमं वर्षं प्रवक्ष्ये तन्निबोधत ।
क्रौञ्चद्वीपस्य विस्ताराच्छाल्मलो द्विगुणो मतः ॥ ८८.१॥
घृतसमुद्रमावृत्य व्यवस्थिस्तद्विस्तारो द्विगुणस्तत्र च सप्त
पर्वताः प्रधानास्तावन्ति वर्षाणि तावत्यो नद्यः । तत्र च पर्वताः ।
सुमहान् पीतःशातकौम्भात् सार्वगुणसौवर्णरोहितसुमनसकुशल
जाम्बूनदवैद्युता इत्येते कुलपर्वता वर्षाणि चेति । अथ षष्ठं
गोमेदं कथ्यते । शाल्मलं यथा सुरोदेनावृतं तद्वत् सुरोदोऽपि
तद्विगुणेन गोमेदेनावृतः । तत्र च प्रधानपर्वतौ द्वावेव । एकस्य
तावत्तावसरः । अपरश्च कुमुद इति । समुद्रश्चेक्षुरसस्तद्द्विगुणेन
पुष्करेणावृतः । तत्र च पुष्कराख्ये मानसो नाम पर्वतः ।
तदपि द्विधा छिन्नं वर्षं तत्प्रमाणेन च । स्वादोदकेनावृतम् ।
ततश्च कटाहम् । एतत् पृथिव्याः प्रमाणम् । ब्रह्माण्डस्य च
सकटाहविस्तारप्रमाणम् । एवंविधानामण्डानां परिसंख्या न विद्यते ।
एतानि कल्पे कल्पे भगवान् नारायणः क्रोडरूपी रसातलान्तःप्रविष्टानि
दंष्ट्रैकैनोद्धृत्य स्थितौ स्थापयति । एष वः कथितो मार्गो
भूमेरायामविस्तरः । स्वस्ति वोऽस्तु गमिष्यामि कैलासं निलयं द्विजाः ॥ ८८.२॥
श्रीवराह उवाच ।
एवमुक्त्वा गतो रुद्रः क्षणाददृश्यमूर्तिमान् ।
ते च सर्वे गता देवा ऋषयश्च यथागतम् ॥ ८८.३॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे अष्टाशीतितमोऽध्यायः ॥ ८८॥
धरण्युवाच ।
परमात्मा शिवः पुण्य इति केचिद् भवं विदुः ।
अपरे हरिमीशानमिति केचिच्चतुर्मुखम् ॥ ८९.१॥
एतेषां कतमो देवः परः को वाऽथवाऽपरः ।
एतद्देव ममाचक्ष्व परं कौतूहलं विभो ॥ ८९.२॥
श्रीवराह उवाच ।
परो नारायणो देवस्तस्माज्जातश्चतुर्मुखः ।
तस्माद् रुद्रोऽभवद् देवि स च सर्वज्ञतां गतः ॥ ८९.३॥
तस्याश्चर्याण्यनेकानि विविधानि वरानने ।
शृणु सर्वाणि चार्वङ्गि कथ्यमानं मयाऽनघे ॥ ८९.४॥
कैलासशिखरे रम्ये नानाधातुविचित्रिते ।
वसत्यनुदिनं देवः शूलपाणिस्त्रिलोचनः ॥ ८९.५॥
सैकस्मिन् दिवसे देवः सर्वभूतनमस्कृतः ।
गणैः परिवृतो गौर्या महानासीत् पिनाकधृक् ॥ ८९.६॥
तत्र सिंहमुखाः केचिद् गणा नर्दन्ति सिंहवत् ।
अपरे हस्तिवक्त्राश्च हयवक्त्रास्तथापरे ॥ ८९.७॥
अपरे शिंशुमारास्या अपरे सूकराननाः ।
अपरेऽश्वामुखा रौद्रा खरास्याजाननास्तथा ।
छागमत्स्याननाः क्रूरा ह्यनन्ताः शस्त्रपाणयः ॥ ८९.८॥
केचिद् गायन्ति नृत्यन्ति धावन्ति स्फोटयन्ति च ।
हसन्ति किलकिलायन्ति गर्जन्ति च महाबलाः ॥ ८९.९॥
केचिल्लोष्टांस्तु संगृह्य युयुधुर्गणनायकाः ।
अपरे मल्लयुद्धेन युयुधुर्बलदर्पिताः ।
एवं गणसहस्रेण वृतो देवो महेश्वरः ॥ ८९.१०॥
यावदास्ते स्वयं देव्या क्रीडन् देववरः स्वयम् ।
तावद् ब्रह्मा स्वयं देवैरुपायात् सह सत्वरः ॥ ८९.११॥
तमागतमथो दृष्ट्वा पूजयित्वा विधानतः ।
उवाच परमो देवो रुद्रो ब्रह्माणमव्यम् ॥ ८९.१२॥
किमागमनकृत्यं ते ब्रह्मन् ब्रूहि ममाचिरम् ।
किं च देवास्त्वरायुक्ता आगता मम सन्निधौ ॥ ८९.१३॥
ब्रह्मोवाच ।
अस्त्यन्धको महादैत्यस्तेन सर्वे दिवौकसः ।
अर्दिता मत्समीपं तु बुद्ध्वा मां शरणैषिणः ॥ ८९.१४॥
ततश्चैते मया सर्वे प्रोक्ता देवा भवं प्रति ।
गच्छाम इति देवेश ततस्त्वेते समागताः ॥ ८९.१५॥
एवमुक्त्वा स्वयं ब्रह्मा वीक्षां चक्रे पिनाकिनम् ।
नारायणं च मनसा सस्मार परमेश्वरम् ।
ततो नारायणो देवो द्वाभ्यां मध्ये व्यवस्थितः ॥ ८९.१६॥
ततस्त्वेकीगतास्ते तु ब्रह्मविष्णुमहेश्वराः ।
परस्परं सूक्ष्मदृष्ट्या वीक्षां चक्रुर्मुदायुताः ॥ ८९.१७॥
ततस्तेषां त्रिधा दृष्टिर्भूत्वैका समजायत ।
तस्यां दृष्ट्यां समुत्पन्ना कुमारी दिव्यरूपिणी ॥ ८९.१८॥
नीलोत्पलदलश्यामा नीलकुञ्चितमूर्द्धजा ।
सुनासा सुललाटान्ता सुवक्त्रा सुप्रतिष्ठिता ॥ ८९.१९॥
त्वष्ट्रा यदग्निजिह्वं तु लक्षणं परिभाषितम् ।
तत्सर्वमेकतः संस्थं कन्यायां सम्प्रदृश्यते ॥ ८९.२०॥
अथ तां दृश्य कन्यां तु ब्रह्मविष्णुमहेश्वराः ।
ऊचुः काऽसि शुभे ब्रूहि किं वा कार्यं विपश्चितम् ॥ ८९.२१॥
त्रिवर्णा च कुमारी सा कृष्णशुक्ला च पीतिका ।
उवाच भवतां दृष्टेर्योगाज्जाताऽस्मि सत्तमाः ।
किं मां न वेत्थ सुश्रोणीं स्वशक्तिं परमेश्वरीम् ॥ ८९.२२॥
ततो ब्रह्मादयस्ते च तस्यास्तुष्टा वरं ददुः ।
नाम्नाऽसि त्रिकला देवी पाहि विश्वं च सर्वदा ॥ ८९.२३॥
अपराण्यपि नामानि भविष्यन्ति तवानघे ।
गुणोत्थानि महाभागे सर्वसिद्धिकराणि च ॥ ८९.२४॥
अन्यच्च कारणं देवि त्रिवर्णाऽसि वरानने ।
मूर्तित्रयं त्रिभिर्वर्णैः कुरु देवि स्वकं द्रुतम् ॥ ८९.२५॥
एवमुक्ता तदा देवैरकरोत् त्रिविधां तनुम् ।
सितां रक्तां तथा कृष्णां त्रिमूर्तित्वं जगाम ह ॥ ८९.२६॥
या सा ब्राह्मी शुभा मूर्त्तिस्तया सृजति वै प्रजाः ।
सौम्यरूपेण सुश्रोणी ब्रह्मसृष्ट्या विधानतः ॥ ८९.२७॥
या सा रक्तेन वर्णेन सुरूपा तनुमध्यमा ।
शङ्खचक्रधरा देवी वैष्णवी सा कला स्मृता ।
सा पाति सकलं विश्वं विष्णुमायेति कीर्त्त्यते ॥ ८९.२८॥
या सा कृष्णेन वर्णेन रौद्री मूर्त्तिस्त्रिशूलिनी ।
दंष्ट्राकरालिनी देवी सा संहरति वै जगत् ॥ ८९.२९॥
या सृष्टिर्ब्रह्मणो देवी श्वेतवर्णा विभावरी ।
सा कुमारी महाभागा विपुलाब्जदलेक्षणा ।
सद्यो ब्रह्माणमामन्त्र्य तत्रैवान्तरधीयत ॥ ८९.३०॥
साऽन्तर्हिता ययौ देवी वरदा श्वेतपर्वतम् ।
तपस्तप्तुं महत् तीव्रं सर्वगत्वमभीप्सती ॥ ८९.३१॥
या वैष्णवी कुमारी तु साप्यनुज्ञाय केशवम् ।
मन्दराद्रिं ययौ तप्तुं तपः परमदुश्चरम् ॥ ८९.३२॥
या सा कृष्णा विशालाक्षी रौद्री दंष्ट्राकरालिनी ।
सा नीलपर्वतवरं तपश्चर्तुं ययौ शुभा ॥ ८९.३३॥
अथ कालेन महता प्रजाः स्त्रष्टुं प्रजापतिः ।
आरब्धवान् तदा तस्य ववृधे सृजतो बलम् ॥ ८९.३४॥
यदा न ववृधे तस्य ब्रह्मणो मानसी प्रजा ।
तदा दध्यौ किमेतन्मे न तथा वर्द्धते प्रजा ॥ ८९.३५॥
ततो ब्रह्मा हृदा दध्यौ योगाभ्यासेन सुव्रते ।
चिन्तयन् बुबुधे देवस्तां कन्यां श्वेतपर्वते ।
तपश्चरन्तीं सुमहत् तपसा दग्धकिल्बिषाम् ॥ ८९.३६॥
ततो ब्रह्मा ययौ तत्र यत्र सा कमलेक्षणा ।
तपश्चरति तां दृष्ट्वा वाक्यमेतदुवाच ह ॥ ८९.३७॥
ब्रह्मोवाच ।
किं तपः क्रियते भद्रे कार्यमावेक्ष्य शोभते ।
तुष्टोऽस्मि ते विशालाक्षि वरं किं ते ददाम्यहम् ॥ ८९.३८॥
सृष्टिरुवाच ।
भगवन्नेकदेशस्था नोत्सहे स्थातुमञ्जसा ।
अतोऽर्थं त्वां वरं याचे सर्वगत्वमभीप्सती ॥ ८९.३९॥
एवमुक्तस्तदा देव्या सृष्ट्या ब्रह्मा प्रजापतिः ।
उवाच तां तदा देवीं सर्वगा त्वं भविष्यसि ॥ ८९.४०॥
एवमुक्ता तदा तेन सृष्टिः सा कमलेक्षणा ।
तस्य ह्यङ्के लयं प्राप्ता सा देवी पद्मलोचना ।
तस्मादारभ्य कालात् तु ब्राह्मी सृष्टिर्व्यवर्द्धत ॥ ८९.४१॥
ब्रह्मणो मानसाः सप्त तेषामन्ये तपोधनाः ।
तेषामन्ये ततस्त्वन्ये चतुर्द्धा भूतसंग्रहः ।
सस्थाणुजङ्गमानां च सृष्टिः सर्वत्र संस्थिता ॥ ८९.४२॥
यत्किंचिद् वाङ्मयं लोके जगत्स्थावरजङ्गमम् ।
तत्सर्वं स्थापितं सृष्ट्या भूतं भव्यं च सर्वदा ॥ ८९.४३॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे एकोननवतितमोऽध्यायः ॥ ८९॥
इति श्रीरुद्रगीता समाप्ता ।
॥ श्रीलक्ष्मणगीता रामचरितमानससे ॥
दोहा
सिय सुमंत्र भ्राता सहित कंद मूल फल खाइ ।
सयन कीन्ह रघुबंसमनि पाय पलोटत भाइ । ८९ ।
चौपाई
उठे लखनु प्रभु सोवत जानी । कहि सचिवहि सोवन मृदु बानी ।
कछुक दूरि सजि बान सरासन । जागन लगे बैठि बीरासन । १ ।
गुहँ बोलाइ पाहरू प्रतीती । ठावँ ठावँ राखे अति प्रीती ।
आपु लखन पहिं बैठेउ जाई । कटि भाथी सर चाप चढ़ाई । २ ।
सोवत प्रभुहि निहारि निषादू । भयउ प्रेम बस हृदयँ बिषादू ।
तनु पुलकित जलु लोचन बहई । बचन सप्रेम लखन सन कहई । ३ ।
भूपति भवन सुभायँ सुहावा । सुरपति सदनु न पटतर पावा ।
मनिमय रचित चारु चौबारे । जनु रतिपति निज हाथ संवारे । ४ ।
दोहा
सुचि सुबिचित्र सुभोगमय सुमन सुगंध सुबास ।
पलँग ग मंजु मनिदीप जहँ सब बिधि सकल सुपास । ९० ।
चौपाई
बिबिध बसन उपधान तुराईं । छीर फेन मृदु बिसद सुहाईं ।
तहँ सिय रामु सयन निसि करहीं । निज छबि रति मनोज मदु हरहीं । १ ।
ते सिय रामु साथरीं सोए । श्रमित बसन बिनु जाहिं न जोए ।
मातु पिता परिजन पुरबासी । सखा सुसील दास अरु दासी । २ ।
जोगवहिं जिन्हहि प्रान की नाईं । महि सोवत तेइ राम गोसाईं ।
पिता जनक जग बिदित प्रभाऊ । ससुर सुरेस सखा रघुराऊ । ३ ।
रामचंदु पति सो बैदेही । सोवत महि बिधि बाम न केही ।
सिय रघुबीर कि कानन जोगू । करम प्रधान सत्य कह लोगू । ४ ।
दोहा
कैकयनंदिनि मंदमति कठिन कुटिलपनु कीन्ह ।
जेहिं रघुनंदन जानकिहि सुख अवसर दुखु दीन्ह । ९१ ।
चौपाई
भइ दिनकर कुल बिटप कुठारी । कुमति कीन्ह सब बिस्व दुखारी ।
भयउ बिषादु निषादहि भारी । राम सीय महि सयन निहारी । १ ।
बोले लखन मधुर मृदु बानी । ग्यान बिराग भगति रस सानी ।
काहु न कोउ सुख दुख कर दाता । निज कृत करम भोग सबु भ्राता । २ ।
जोग बियोग भोग भल मंदा । हित अनहित मध्यम भ्रम फंदा ।
जनमु मरनु जहँ लगि जग जालू । सम्पति बिपति करमु अरु कालू । ३ ।
धरनि धामु धनु पुर परिवारू । सरगु नरकु जहं लगि ब्यवहारू ।
देखिअ सुनिअ गुनिअ मन माही । मोह मूल परमारथु नाही । ४ ।
दोहा
सपनें होइ भिखारि नृपु रंकु नाकपति होइ ।
जागें लाभु न हानि कछु तिमि प्रपंच जियँ जोइ । ९२ ।
चौपाई
अस बिचारि नहिं कीजिअ रोसू । काहुहि बादि न देइअ दोसू ।
मोह निसाँ सबु सोवनिहारा । देखिअ सपन अनेक प्रकारा । १ ।
एहिं जग जामिनि जागहिं जोगी । परमारथी प्रपंच बियोगी ।
जानिअ तबहिं जीव जग जागा । जब सब बिषय बिलास बिरागा । २ ।
होइ बिबेकु मोह भ्रम भागा । तब रघुनाथ चरन अनुरागा ।
सखा परम परमारथु एहू । मन क्रम बचन राम पद नेहू । ३ ।
राम ब्रह्म परमारथ रूपा । अबिगत अलख अनादि अनूपा ।
सकल बिकार रहित गतभेदा । कहि नित नेति निरूपहिं बेदा । ४ ।
दोहा
भगत भूमि भूसुर सुरभि सुर हित लागि कृपाल ।
करत चरित धरि मनुज तनु सुनत मिटहिं जग जाल । ९३ ।
चौपाई
सखा समुझि अस परिहरि मोहू । सिय रघुबीर चरन रत होहू ।
कहत राम गुन भा भिनुसारा । जागे जग मंगल सुखदारा । १ ।
॥ वसिष्ठ गीता ॥
निर्वाण प्रकरण उत्तरार्ध सर्गः ३९
॥ अथ वसिष्ठ गीता ॥
श्रीवसिष्ठ उवाच ।
सञ्जाताकृत्रिमक्षीणसंसृतिप्रत्ययः पुमान् ।
सङ्कल्पो न सङ्कल्पं वेत्ति तेनासदेव सः ॥ १॥
श्वासान्म्लानिरिवादर्शे कुतोऽप्यहमिति स्थिता ।
विदि साऽकारणं दृष्टा नश्यन्त्याशु न लभ्यते ॥ २॥
यस्य क्षीणावरणता शान्तसर्वेहतोदिता ।
परमामृतपूर्णात्मा सत्तयैव स राजते ॥ ३॥
सर्वसन्देहदुर्ध्वान्तमिहिकामातरिश्वना ।
भाति भास्वद्धिया देशस्तेन पूर्णेन्दुनेव खम् ॥ ४॥
विसंसृतिर्विसन्देहो लब्धज्योतिर्निरावृतिः ।
शरदाकाशविशदो ज्ञेयो विज्ञायते बुधः ॥ ५॥
निःसङ्कल्पो निराधारः शान्तः स्पर्शात्पवित्रताम् ।
अन्तःशीतल आधत्ते ब्रह्मलोकादिवानिलः ॥ ६॥
असद्रूपोपलम्भानामियं वस्तुस्वभावता ।
यत्स्वर्गवेदनं स्वप्नवन्ध्यापुत्रोपलम्भवत् ॥ ७॥
अविद्यमानमेवेदं जगद्यदनुभूयते ।
असद्रूपोपलम्भस्य सैषा वस्तुस्वभावता ॥ ८॥
असत्येष्वेव संसारेष्वास्तामर्थः कुतो भवेत् ।
सर्गापवर्गयोः शब्दावेव वन्ध्यासुतोपमौ ॥ ९॥
जगद्ब्रह्मतया सत्यमनिर्मितमभावितम् ।
अनिष्ठितं चान्यथा तु नाहं नावगतं च तत् ॥ १०॥
आत्मस्वभावविश्रान्तेरियं वस्तुस्वभावता ।
यदहन्तादिसर्गादिदुःखाद्यनुपलम्भता ॥ ११॥
क्षणाद्योजनलक्षान्तं प्राप्ते देशान्तरे चितः ।
चेतनेऽयस्य तद्रूपं मार्गमध्ये निरञ्जनम् ॥ १२॥
अस्पन्दवातसदृशं खकोशाभासचिन्मयम् ।
अचेत्यं शान्तमुदितं लताविकसनोपमम् ॥ १३॥
सर्वस्य जन्तुजातस्य तत्स्वभावं विदुर्बुधाः ।
सर्गोपलम्भो गलति तत्रस्थस्य विवेकिनः ॥ १४॥
सुषुप्ते स्वप्नधीर्नास्ति स्वप्ने नास्ति सुषुप्तधीः ।
सर्गनिर्वाणयोर्भ्रान्ती सुषुप्तस्वप्नयोरिव ॥ १५॥
भ्रान्तिवस्तुस्वभावोऽसौ न स्वप्नो न सुषुप्तता ।
न सर्गो न च निर्वाणं सत्यं शान्तमशेषतः ॥ १६॥
भ्रान्तिस्त्वसन्मात्रमयी प्रेक्षिता चेन्न लभ्यते ।
शुक्तिरूप्यमिवासत्यं किल सम्प्राप्यते कथम् ॥ १७॥
यन्न लब्धं च तन्नास्ति तेन भ्रान्तेरसंभवः ।
स्वभावादुपलम्भोऽन्यो नास्ति कस्य न कस्यचित् ॥ १८॥
स्वभाव एव सर्वस्मै स्वदते किल सर्वदा ।
अनानैव हि नानेव किं वादैः संविभाव्यताम् ॥ १९॥
अस्वभावे महद्दुःखं स्वभावे केवलं शमः ।
इति बुद्ध्या विचार्यान्तर्यदिष्टं तद्विधीयताम् ॥ २०॥
सूक्ष्मे बीजेऽस्त्यगः स्थूलो दृष्टमित्युपपद्यते ।
शिवे मूर्ते जगन्मूर्तमस्तीत्युत्तमसंकथा ॥ २१॥
रूपालोकमनस्कारबुद्ध्यहन्तादयः परे ।
स्वरूपभूताः सलिले द्रवत्वमिव खात्मकाः ॥ २२॥
मूर्तो यथा स्वसदृशैः करोत्यवयवैः क्रियाः ।
आत्मभूतैस्तथा भूतैश्चिदाकाशमकर्तृ सत् ॥ २३॥
आत्मस्थादहमित्यादिरस्मदादेरसंसृतेः ।
शब्दोऽर्थभावमुक्तो यः पटहादिषु जायते ॥ २४॥
यद्भातं प्रेक्षया नास्ति तन्नास्त्येव निरन्तरम् ।
जगद्रूपमरूपात्म ब्रह्म ब्रह्मणि संस्थितम् ॥ २५॥
येषामस्ति जगत्स्वप्नस्ते स्वप्नपुरुषा मिथः ।
न सन्ति ह्यात्मनि मिथो नास्मास्वम्बरपुष्पवत् ॥ २६॥
मयि ब्रह्मैकरूपं ते शान्तमाकाशकोशवत् ।
वायोः स्पन्दैरिवाभिन्नैर्व्यवहारैश्च तन्मयि ॥ २७॥
अहं तु सन्मयस्तेषां स्वप्नः स्वप्नवतामिव ।
ते तु नूनमसन्तो मे सुषुप्तस्वप्नका इव ॥ २८॥
तैस्तु यो व्यवहारो मे तद्ब्रह्म ब्रह्मणि स्थितम् ।
ते यत्पश्यन्ति पश्यन्तु तत्तैरलमलं मम ॥ २९॥
अहमात्मनि नैवास्मि ब्रह्मसत्तेयमातता ।
त्वदर्थं समुदेतीव तथारूपैव वागियम् ॥ ३०॥
अविरुद्धविरुद्धस्य शुद्धसंविन्मयात्मनः ।
न भोगेच्छा न मोक्षेच्छा हृदि स्फुरति तद्विदः ॥ ३१॥
स्वभावमात्रायत्तेऽस्मिन्बन्धमोक्षक्रमे नृणाम् ।
कदर्थनेत्यहो मोहाद्गोष्पदेऽप्युदधिभ्रमः ॥ ३२॥
स्वभावसाधने मोक्षेऽभावोपशमरूपिणि ।
न धनान्युपकुर्वन्ति न मित्राणि न च क्रियाः ॥ ३३॥
तैलबिन्दुर्भवत्युच्चैश्चक्रमप्पतितो यथा ।
तथाशु चेत्यसंकल्पे स्थिता भवति चिज्जगत् ॥ ३४॥
जाग्रति स्वप्नवृत्तान्तस्थितिर्यादृग्रसा स्मृतौ ।
तादृग्रसाहंत्वजगज्जालसंस्था विवेकिनः ॥ ३५॥
तेनैवाभ्यासयोगेन याति तत्तनुतां तथा ।
यथा नाहं न संसारः शान्तमेवावशिष्यते ॥ ३६॥
यदा यदा स्वभावार्कः स्थितिमेति तदा तदा ।
भोगान्धकारो गलति न सन्नप्यनुभूयते ॥ ३७॥
मोहमहत्तारहितः
स्फुरति मृतौ भवति भासते च तथा ।
बुद्ध्यादिकरणनिकरो
यस्माद्दीपादिवालोकः ॥ ३८॥
इत्यार्षे श्रीवासिष्ठमहारामायणे
वाल्मिकीये देवदूतोक्ते मोक्षोपाये निर्वाणप्रकरणे
उत्तरार्धे वसिष्ठगीतासु स्वभावविश्रान्तियोगोपदेशो
नामैकोनचत्वारिंशः सर्गः ॥ ३९॥
॥ सर्गः ४० ॥
श्रीवसिष्ठ उवाच -
रूपालोकमनस्कारबुद्ध्यादीन्द्रियवेदनम् ।
स्वरूपं विदुरम्लानमस्वभावस्य वस्तुनः ॥ १॥
अस्वभावतनुत्वेन स्वभावस्थितिरातता ।
यदोदेति तदा सर्गो भ्रमाभः प्रतिभासते ॥ २॥
यदा स्वभावविश्रान्तिः स्थितिमेति शमात्मिका ।
जगद्दृश्यं तदा स्वप्नः सुषुप्त इव शाम्यति ॥ ३॥
भोगा भवमहारोगा बन्धवो दृढबन्धनम् ।
अनर्थायार्थसम्पत्तिरात्मनात्मनि शाम्यताम् ॥ ४॥
अस्वभावात्मता सर्गः स्वभावैकात्मता शिवः ।
भूयतां परमव्योम्ना शाम्यतां मेह ताम्यताम् ॥ ५॥
नात्मानमवगच्छामि न दृश्यं च जगद्भ्रमम् ।
ब्रह्म शान्तं प्रविष्टोऽस्मि ब्रह्मैवास्मि निरामयः ॥ ६॥
त्वमेव पश्यसि त्वन्त्वं सत्त्वं शब्दार्थजृम्भितम् ।
पश्यामि शान्तमेवाहं केवलं परमं नभः ॥ ७॥
ब्रह्मण्येव पराकाशे रूपालोकमनोमयाः ।
विभ्रमास्तव संजातकल्पाः स्पन्दा इवानिले ॥ ८॥
ब्रह्मात्मा वेत्ति नो सर्गं सर्गात्मा ब्रह्म वेत्ति नो ।
सुषुप्तो वेत्ति नो स्वप्नं स्वप्नस्थो न सुषुप्तकम् ॥ ९॥
प्रबुद्धो ब्रह्मजगतोर्जाग्रत्स्वप्नदृशोरिव ।
रूपं जानाति भारूपं जीवन्मुक्तः प्रशान्तधीः ॥ १०॥
यथाभूतमिदं सर्वं परिजानाति बोधवान् ।
संशाम्यति च शुद्धात्मा शरदीव पयोधरः ॥ ११॥
स्मृतिस्थः कल्पनस्थो वा यथाख्यातश्च संगरः ।
सदसद्भ्रान्ततामात्रस्तथाहंत्वजगद्भ्रमः ॥ १२॥
आत्मन्यपि नास्ति हि या
द्रष्टा यस्या न विद्यते कश्चित् ।
न च शून्यं नाशून्यं
भ्रान्तिरियं भासते सेति ॥ १३॥
इत्यार्षे श्रीवासिष्ठमहारामायणे
वाल्मिकीये देवदूतोक्ते मोक्षोपाये निर्वाणप्रकरणे
उत्तरार्धे वसिष्ठगीतासु आत्मविश्रान्तिकथनं
नाम चत्वारिंशः सर्गः ॥ ४०॥
॥ श्रीवानरगीता श्रीपराशरसंहितायां ॥
श्रीपराशर उवाच
शृणु मैत्रेय विप्रर्षे स्तोत्रं श्रीहनुमत्परम् ।
कृतं सर्ववानरैश्च श्रीवानरगीताभिदम् ॥
स्तोत्रं सर्वोत्तमं चैव हनुमत्तत्त्वदर्शनम् ।
सर्वमायहरं चैव आधिव्याधिविनाशनम् ॥
अगस्त्येन पुरा प्रोक्तं सर्वेषां मुनिसन्निधौ ।
इन्द्रेण याचितं चैतत् लोकोपकरणेच्छया ॥
इन्द्रोऽथ परिपप्रच्छ सत्कृतं मुनिपुङ्गवम् ।
अगस्त्यं च महात्मानं आसीनं च सुखासने ॥
देवदेव भवांभोधेः दुस्तरात्कलुषेन्द्रियाः ।
जनाः कथं तरन्तीह तन्मे वद कृपानिधे ॥
श्री अगस्त्य उवाच
हनूमन्तं कृतस्तोत्रं वानरैर्विमलात्मभिः ।
पठन्ति ये सदा मर्त्याः तच्चित्तविमलात्मकाः ॥
तरन्ति भवपादोधिं प्राप्नुवन्ति हरेः पदम् ।
आयुः कीर्तिर्यशश्चैव लभन्ते नात्र संशयः ॥
ॐ अस्य श्रीवानरगीतास्तोत्रमन्त्रस्य - अगस्त्य ऋषिः
जगती छन्दः - श्रीहनुमान् देवता - मारुतात्मज इति बीजम् -
अञ्जनासूनुरिति शक्तिः - वायुपुत्र इति कीलकम् -
श्रीहनुमत्प्रसादसिध्यर्थे विनियोगः ॥
ध्यानम् ।
वामे जानुनि वामजानुमपरं ज्ञानाख्यमुद्रान्वितं
हृद्देशे कलयन्नुतो मुनिगणैराध्यात्मदक्षेक्षणः ।
आसीनः कदलीवने मणिमये बालार्ककोटिप्रभः
ध्यायन् ब्रह्म परं करोतु मनसा शुद्धिं हनूमान् मम ॥
संजीव पर्वतोद्धार मोनोदुःखं निवारय ।
प्रसीद सुमहाबाहो त्रायस्व हरिसत्तम ॥
श्रीसुग्रीव उवाच
सुवर्णशैलस्य गवां च कोटिशतस्य कोटेश्च शतस्य यत्फलम् ।
दानस्य नैवास्ति समं फलं च ध्रुवं च तन्मारुतिदर्शनेन ॥ १॥
श्रीगन्धमादनः
हनुमन्निति मे स्नानं हनुमन्निति मे जपः ।
हनुमन्निति मे ध्यानं हनुमत्कीर्तनं सदा ॥ २॥
श्रीसुषेण उवाच
रामभक्तचरिताकथामृतं वायुतनयगुणानुकीर्तनम् ।
रामदास तव पादसेवनं संभवन्तु मम जन्मजन्मनि ॥ ३॥
श्री अङ्गद उवाच
माता सुवर्चलादेवी पिता मे वायुनन्दनः ।
बान्धवा हनुमद्भक्ताः स्वदेशं भुवनत्रयम् ॥ ४॥
श्रीनील उवाच
भक्तकल्पतरुं सौम्यं लोकोत्तरगुणाकरम् ।
सुवर्चलापतिं वन्दे मारुतिं वरदं सदा ॥ ५॥
श्रीगवाक्ष उवाच
वायुपुत्रेण महता यद्यदुक्तं करोमि तत् ।
न जानामि ततो धर्मं मद्धर्मं रक्ष मां सदा ॥ ६॥
श्रीमैन्द उवाच
समीरसूते सततं त्वदाज्ञया त्वदंशकः प्रेरितमानसेन्द्रियः ।
करोम्यहं यच्च शुभाशुभं प्रभो त्वत्प्रीतये मत्कृतमस्तु तत्सदा ॥ ७॥
श्रीद्विविद उवाच
रामादीनां रणे ख्यातिं दातुं यो रावणादिकान् ।
नावधीत्स्वयमेवैकस्तं वन्दे हनुमत्प्रभुम् ॥ ८॥
श्रीशरभ उवाच
भौमस्य वासरे पूजा कर्तव्या हनुमत्प्रभोः ।
भवेत्सः शुचिरायुः श्रीः पुत्रमित्रकलत्रवान् ॥ ९॥
श्रीगवयः
आमिषीकृतमार्ताण्डं गोष्पदीकृतसागरम् ।
तृणीकृतदशग्रीवं आञ्जनेयं नमाम्यहम् ॥ १०॥
श्रीप्रहस्तः
उल्लङ्ख्य सिन्धोः सलिलं सलीलं यश्शोकवह्निं जनकात्मजायाः ।
आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ॥ ११॥
श्रीनल उवाच
नमाम्यहं वायुजपादपङ्कजं करोमि तद्वायुजपूजनं सदा ।
वदामि वातात्मजनाम मङ्गलं स्मरामि वायूद्भवकीर्तनं शुभम् ॥ १२॥
श्रीधर्मक उवाच
सप्तषष्टिर्हतान् कोटिवानराणां तरस्विनाम् ।
यः सञ्जीवनयामास तं वन्दे मारुतात्मजम् ॥ १३॥
श्रीगज उवाच
तनौ बालपाशः पिता पार्वतीशः स्फुरद्बाहुदण्डो मुखे वज्रदंष्ट्रः ।
सती चाञ्जना यस्य माता ततोऽन्यं न जाने न जाने न जाने न जाने ॥ १४॥
श्रीऋक्षरजस उवाच
बुद्धिर्बलं यशो धैर्यं निर्भयत्वमरोगता ।
अजाड्यं वाक्पटुत्वं च हनुमत्स्मरणाद्भवेत् ॥ १५॥
श्रीसम्पाति उवाच
नाशकं सीताशोकस्य श्रीरामानन्ददायिनम् ।
सुखप्रदं साधकानां वायुपुत्रं नमाम्यहम् ॥ १६॥
श्रीवेगवान् उवाच
अञ्जनावरपुत्राय रामेष्टाय हनूमते ।
सर्वलोकैकवीराय ब्रह्मरूपाय ते नमः ॥ १७॥
श्रीरुद्रग्रीव उवाच
हनूमत्सदृशं दैवं नास्ति नास्तीति भूतले ।
तं पूजयन्ति सततं ब्रह्मा-गौरी-महेश्वराः ॥ १८॥
श्रीदधिमुखः
आलोड्य वेदशास्त्राणि सर्वाण्यपि महर्षिभिः ।
इदमेकं सुनिर्णीतं न दैवं हनुमत्परम् ॥ १९॥
श्रीसुदंष्ट्र उवाच
मङ्गलं हनुमन्नित्यं मङ्गलं कपिपुङ्गव ।
मङ्गलं चाञ्जनासूनो मङ्गलं राघवप्रिय ॥ २०॥
श्रीऋषभ उवाच
करुणारसपूर्णाय जगदानन्दहेतवे ।
कुक्षिस्थाखिललोकाय हनूमद्ब्रह्मणे नमः ॥ २१॥
श्रीपृथु उवाच
दाता दापयिता चैव संहर्ता रक्षकस्तथा ।
प्रेरकश्चानुमोदा च कर्ता भोक्ता कपीश्वरः ॥ २२॥
श्रीजाम्बवान् उवाच
भुक्तिमुक्तिप्रदं नाम विहाय हनुमन् तव ।
संसरन्ति जना मूढाः किं विचित्रमतःपरम् ॥ २३॥
श्रीज्योतिर्मुख उवाच
मत्प्रार्थनाफलमिदं मम जन्मनश्च नेच्छामि किञ्चिदपरं हनुमन् महात्मन्
।
त्वद्दासदासजनपादरजोनिकेतमस्मद्धितो भवतु सेवकपारिजात ॥ २४॥
श्रीसुमुख उवाच
रसने रससारज्ञे मधुरास्वादकाङ्क्षिणि ।
हनुमन्नामपीयूषं सर्वदा रसने पिब ॥ २५॥
श्रीगोलाङ्गूल उवाच
कुतो दुर्दिनं वा कुतो भौमवारः कुतो वैधृतिस्तस्य भद्रा कथं वा ।
कुतो वा व्यतीपातदोषक्षुतं वा हनूमत्पदध्यानवीताशुभस्य ॥ २६॥
श्रीकुमुद उवाच
त्रातारो भुवि पादाश्च मार्गाश्च रसने तव ।?
हनूमन्निर्मितास्सन्ति जनानां हीनता कुतः ॥ २७॥
श्रीशतबलि उवाच
धन्योस्म्यनुगृहीतोऽस्मि पुण्योऽस्मि महितोऽस्म्यहम् ।
हनुमन् त्वत्पदाम्भोजसेवाविभवयोगतः ॥ २८॥
श्रीकेसरि उवाच
त्वत्तोऽन्यः शरणं नास्ति त्वमेव मम रक्षकः ।
अतो मयि कृपादृष्ट्या हनुमन् रक्ष मां सदा ॥ २९॥
श्रीमारीच उवाच
सदा पापौघनिष्ठूतं पापेषु हृष्टमानसम् ।
पापात्मानं महापापं रक्ष मां हनुमत्प्रभो ॥ ३०॥
श्रीतरुण उवाच
हनूमदाज्ञया यच्च भावि तद्भवति ध्रुवम् ।
यदभावि न तद्भावि वृथा देहपरिश्रमः ॥ ३१॥
श्रीगोमुख उवाच
अपराधशतं नित्यं कुर्वाणं मां नृशंसकम् ।
क्षमस्व दासबुध्या त्वं हनुमन् करुणानिधे ॥ ३२॥
श्रीपनस उवाच
हनुमतो न परं परमार्थतो हनुमतो न परं परमार्थतः ।
इति वदामि जनान् परमार्थतो न हि परं भवतोऽत्र विचक्षणः ॥ ३३॥
श्रीसुषेण उवाच
माता हनूमांश्च पिता हनूमान् भ्राता हनूमान् भगिनी हनूमान् ।
विद्या हनूमान् द्रविणं हनूमान् स्वामी हनूमान् सकलं हनूमान् ॥ ३४॥
श्रीहरिलोम उवाच
इतो हनूमान् परतो हनूमान् यतो यतो यामि ततो हनूमान् ।
हनूमतोऽन्यं ननु नास्ति किञ्चित् ततो हनूमान् तमहं प्रपद्ये ॥ ३५॥
श्रीरङ्ग उवाच
यद्वर्णपदमात्राभिः सहसोच्चारणो भवेत् ।
क्षमस्व तत्कृपादृष्ट्या हनूमन् प्रणतोऽस्म्यहम् ॥ ३६॥
श्रीविधुष्ट उवाच
हनूमान् रक्षतु जले स्थले रक्षतु वायुजः ।
अटव्यां वायुपुत्रस्तु सर्वतः पातु मारुतिः ॥ ३७॥
फलश्रुतिः
इतीदं वानरप्रोक्तं सर्वपापहरं वरम् ।
सर्वज्ञानप्रदं चैव सर्वसौभाग्यवर्धनम् ॥
इमां वानरगीतां ये पठन्ति श्रद्धयान्विताः ।
पुत्रान् पौत्रांश्च भोगांश्च लभन्ते क्षणमात्रतः ॥
ऐश्वर्यं शाश्वतं चैव सुस्थिराः सम्पदस्तथा ।
आयुर्दीर्घं च कीर्तिं च प्राप्नुवन्ति न संशयः ॥
इह भुक्त्वाखिलान् कामान् आञ्जनेयप्रसादतः ।
गच्छन्त्यन्ते पदं नित्यं पुनरावृत्तिवर्जितम् ॥
इति श्रीपराशरसंहितायां पराशरमैत्रेयसंवादे
श्रीवानरगीता नाम षट्सप्ततितमः पटलः ॥
॥ वामदेवगीता ॥
अध्यायः ९३
कथं धर्मे स्थातुमिच्छन्राजा वर्तेत धार्मिकः ।
पृच्छामि त्वा कुरुश्रेष्ठ तन्मे ब्रूहि पिता मह ॥ १॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
गीतं दृष्टार्थतत्त्वेन वामदेवेन धीमता ॥ २॥
राजा वसु मना नाम कौसल्यो बलवाञ्शुचिः ।
महर्षिं परिपप्रच्छ वामदेवं यशो विनम् ॥ ३॥
धर्मार्थसहितं वाक्यं भगवन्ननुशाधि माम् ।
येन वृत्तेन वै तिष्ठन्न च्यवेयं स्वधर्मतः ॥ ४॥
तमब्रवीद्वामदेवस्तपस्वी जपतां वरः ।
हेमवर्णमुपासीनं ययातिमिव नाहुषम् ॥ ५॥
धर्ममेवानुवर्तस्व न धर्माद्विद्यते परम् ।
धर्मे स्थिता हि राजानो जयन्ति पृथिवीमिमाम् ॥ ६॥
अर्थसिद्धेः परं धर्मं मन्यते यो महीपतिः ।
ऋतां च कुरुते बुद्धिं स धर्मेण विरोचते ॥ ७॥
अधर्मदर्शी यो राजा बलादेव प्रवर्तते ।
क्षिप्रमेवापयातोऽस्मादुभौ प्रथममध्यमौ ॥ ८॥
असत्पापिष्ठ सचिवो वध्यो लोकस्य धर्महा ।
सहैव परिवारेण क्षिप्रमेवावसीदति ॥ ९॥
अर्थानामननुष्ठाता कामचारी विकत्थनः ।
अपि सर्वां महीं लब्ध्वा क्षिप्रमेव विनश्यति ॥ १०॥
अथाददानः कल्याणमनसूयुर्जितेन्द्रियः ।
वर्धते मतिमान्राजा स्रोतोभिरिव सागरः ॥ ११॥
न पूर्णोऽस्मीति मन्येत धर्मतः कामतोऽर्थतः ।
बुद्धितो मित्र तश्चापि सततं वसुधाधिपः ॥ १२॥
एतेष्वेव हि सर्वेषु लोकयात्रा प्रतिष्ठिता ।
एतानि शृण्वँल्लभते यशः कीर्तिं श्रियः प्रजाः ॥ १३॥
एवं यो धर्मसंरम्भी धर्मार्थपरिचिन्तकः ।
अर्थान्समीक्ष्यारभते स ध्रुवं महदश्नुते ॥ १४॥
अदाता ह्यनति स्नेहो दण्डेनावर्तयन्प्रजाः ।
साहस प्रकृतीराजा क्षिप्रमेव विनश्यति ॥ १५॥
अथ पापं कृतं बुद्ध्या न च पश्यत्यबुद्धि मान् ।
अकीर्त्यापि समायुक्तो मृतो नरकमश्नुते ॥ १६॥
अथ मानयितुर्दातुः शुक्लस्य रसवेदिनः ।
व्यसनं स्वमिवोत्पन्नं विजिघांसन्ति मानवाः ॥ १७॥
यस्य नास्ति गुरुर्धर्मे न चान्याननुपृच्छति ।
सुखतन्त्रोऽर्थलाभेषु नचिरं महदश्नुते ॥ १८॥
गुरु प्रधानो धर्मेषु स्वयमर्थान्ववेक्षिता ।
धर्मप्रधानो लोकेषु सुचिरं महदश्नुते ॥ १९॥
अध्यायः ९४
यत्राधर्मं प्रणयते दुर्बले बलवत्तरः ।
तां वृत्तिमुपजीवन्ति ये भवन्ति तदन्वयाः ॥ १॥
राजानमनुवर्तन्ते तं पापाभिप्रवर्तकम् ।
अविनीत मनुष्यं तत्क्षिप्रं राष्ट्रं विनश्यति ॥ २॥
यद्वृत्तिमुपजीवन्ति प्रकृतिस्थस्य मानवाः ।
तदेव विषमस्थस्य स्वजनोऽपि न मृष्यते ॥ ३॥
साहस प्रकृतिर्यत्र कुरुते किं चिदुल्बणम् ।
अशास्त्रलक्षणो राजा क्षिप्रमेव विनश्यति ॥ ४॥
योऽत्यन्ताचरितां वृत्तिं क्षत्रियो नानुवर्तते ।
जितानामजितानां च क्षत्रधर्मादपैति सः ॥ ५॥
द्विषन्तं कृतकर्माणं गृहीत्वा नृपती रणे ।
यो न मानयते द्वेषात्क्षत्रधर्मादपैति सः ॥ ६॥
शक्तः स्यात्सुमुखो राजा कुर्यात्कारुण्यमापदि ।
प्रियो भवति भूतानां न च विभ्रश्यते श्रियः ॥ ७॥
अप्रियं यस्य कुर्वीत भूयस्तस्य प्रियं चरेत् ।
नचिरेण प्रियः स स्याद्योऽप्रियः प्रियमाचरेत् ॥ ८॥
मृषावादं परिहरेत्कुर्यात्प्रियमयाचितः ।
न च कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत् ॥ ९॥
नापत्रपेत प्रश्नेषु नाभिभव्यां गिरं सृजेत् ।
न त्वरेत न चासूयेत्तथा सङ्गृह्यते परः ॥ १०॥
प्रिये नातिभृशं हृष्येदप्रिये न च सञ्ज्वरेत् ।
न मुह्येदर्थकृच्छ्रेषु प्रजाहितमनुस्मरन् ॥ ११॥
यः प्रियं कुरुते नित्यं गुणतो वसुधाधिपः ।
तस्य कर्माणि सिध्यन्ति न च सन्त्यज्यते श्रिया ॥ १२॥
निवृत्तं प्रतिकूलेभ्यो वर्तमानमनुप्रिये ।
भक्तं भजेत नृपतिस्तद्वै वृत्तं सताम् इह ॥ १३॥
अप्रकीर्णेन्द्रियं प्राज्ञमत्यन्तानुगतं शुचिम् ।
शक्तं चैवानुरक्तं च युञ्ज्यान्महति कर्मणि ॥ १४॥
एवमेव गुणैर्युक्तो यो न रज्यति भूमिपम् ।
भर्तुरर्थेष्वसूयन्तं न तं युञ्जीत कर्मणि ॥ १५॥
मूढमैन्द्रियकं लुब्धमनार्य चरितं शठम् ।
अनतीतोपधं हिंस्रं दुर्बुद्धिमबहुश्रुतम् ॥ १६॥
त्यक्तोपात्तं मद्य रतं द्यूतस्त्री मृगया परम् ।
कार्ये महति यो युञ्ज्याद्धीयते स नृपः श्रियः ॥ १७॥
रक्षितात्मा तु यो राजा रक्ष्यान्यश्चानुरक्षति ।
प्रजाश्च तस्य वर्धन्ते ध्रुवं च महदश्नुते ॥ १८॥
ये के चिद्भूमिपतयस्तान्सर्वानन्ववेक्षयेत् ।
सुहृद्भिरनभिख्यातैस्तेन राजा न रिष्यते ॥ १९॥
अपकृत्य बलस्थस्य दूरस्थोऽस्मीति नाश्वसेत् ।
श्येनानुचरितैर्ह्येते निपतन्ति प्रमाद्यतः ॥ २०॥
दृढमूलस्त्वदुष्टात्मा विदित्वा बलमात्मनः ।
अबलानभियुञ्जीत न तु ये बलवत्तराः ॥ २१॥
विक्रमेण महीं लब्ध्वा प्रजा धर्मेण पालयन् ।
आहवे निधनं कुर्याद्राजा धर्मपरायणः ॥ २२॥
मरणान्तमिदं सर्वं नेह किं चिदनामयम् ।
तस्माद्धर्मे स्थितो राजा प्रजा धर्मेण पालयेत् ॥ २३॥
रक्षाधिकरणं युद्धं तथा धर्मानुशासनम् ।
मन्त्रचिन्त्यं सुखं काले पञ्चभिर्वर्धते मही ॥ २४॥
एतानि यस्य गुप्तानि स राजा राजसत्तम ।
सततं वर्तमानोऽत्र राजा भुङ्क्ते महीमिमाम् ॥ २५॥
नैतान्येकेन शक्यानि सातत्येनान्ववेक्षितुम् ।
एतेष्वाप्तान्प्रतिष्ठाप्य राजा भुङ्क्ते महीं चिरम् ॥ २६॥
दातारं संविभक्तारं मार्दवोपगतं शुचिम् ।
असन्त्यक्त मनुष्यं च तं जनाः कुर्वते प्रियम् ॥ २७॥
यस्तु निःश्रेयसं ज्ञात्वा ज्ञानं तत्प्रतिपद्यते ।
आत्मनो मतमुत्सृज्य तं लोकोऽनुविधीयते ॥ २८॥
योऽर्थकामस्य वचनं प्रातिकूल्यान्न मृष्यते ।
शृणोति प्रतिकूलानि वि मना नचिरादिव ॥ २९॥
अग्राम्यचरितां बुद्धिमत्यन्तं यो न बुध्यते ।
जितानामजितानां च क्षत्रधर्मादपैति सः ॥ ३०॥
मुख्यानमात्यान्यो हित्वा निहीनान्कुरुते प्रियान् ।
स वै व्यसनमासाद्य गाध मार्तो न विन्दति ॥ ३१॥
यः कल्याण गुणाञ्ज्ञातीन्द्वेषान्नैवाभिमन्यते ।
अदृढात्मा दृढक्रोधो नास्यार्थो रमतेऽन्तिके ॥ ३२॥
अथ यो गुणसम्पन्नान्हृदयस्याप्रियानपि ।
प्रियेण कुरुते वश्यांश्चिरं यशसि तिष्ठति ॥ ३३॥
नाकाले प्रणयेदर्थान्नाप्रिये जातु सञ्ज्वरेत् ।
प्रिये नातिभृशं हृष्येद्युज्येतारोग्य कर्मणि ॥ ३४॥
के मानुरक्ता राजानः के भयात्समुपाश्रिताः ।
मध्यस्थ दोषाः के चैषामिति नित्यं विचिन्तयेत् ॥ ३५॥
न जातु बलवान्भूत्वा दुर्बले विश्वसेत्क्व चित् ।
भारुण्ड सदृशा ह्येते निपतन्ति प्रमाद्यतः ॥ ३६॥
अपि सर्वैर्गुणैर्युक्तं भर्तारं प्रियवादिनम् ।
अभिद्रुह्यति पापात्मा तस्माद्धि विभिषेज्जनात् ॥ ३७॥
एतां राजोपनिषदं ययातिः स्माह नाहुषः ।
मनुष्यविजये युक्तो हन्ति शत्रूननुत्तमान् ॥ ३८॥
अध्यायः ९५
अयुद्धेनैव विजयं वर्धयेद्वसुधाधिपः ।
जघन्यमाहुर्विजयं यो युद्धेन नराधिप ॥ १॥
न चाप्यलब्धं लिप्सेत मूले नातिदृढे सति ।
न हि दुर्बलमूलस्य राज्ञो लाभो विधीयते ॥ २॥
यस्य स्फीतो जनपदः सम्पन्नः प्रिय राजकः ।
सन्तुष्टपुष्टसचिवो दृढमूलः स पार्थिवः ॥ ३॥
यस्य योधाः सुसन्तुष्टाः सान्त्विताः सूपधास्थिताः ।
अल्पेनापि स दण्डेन महीं जयति भूमिपः ॥ ४॥
पौरजानपदा यस्य स्वनुरक्ताः सुपूजिताः ।
सधना धान्यवन्तश्च दृढमूलः स पार्थिवः ॥ ५॥
प्रभावकालावधिकौ यदा मन्येत चात्मनः ।
तदा लिप्सेत मेधा वी परभूमिं धनान्युत ॥ ६॥
भोगेष्वदयमानस्य भूतेषु च दया वतः ।
वर्धते त्वरमाणस्य विषयो रक्षितात्मनः ॥ ७॥
तक्षत्यात्मानमेवैष वनं परशुना यथा ।
यः सम्यग्वर्तमानेषु स्वेषु मिथ्या प्रवर्तते ॥ ८॥
न वै द्विषन्तः क्षीयन्ते राज्ञो नित्यमपि घ्नतः ।
क्रोधं नियन्तुं यो वेद तस्य द्वेष्टा न विद्यते ॥ ९॥
यदार्य जनविद्विष्टं कर्म तन्नाचरेद्बुधः ।
यत्कल्याणमभिध्यायेत्तत्रात्मानं नियोजयेत् ॥ १०॥
नैनमन्येऽवजानन्ति नात्मना परितप्यते ।
कृत्यशेषेण यो राजा सुखान्यनुबुभूषति ॥ ११॥
इदं वृत्तं मनुष्येषु वर्तते यो महीपतिः ।
उभौ लोकौ विनिर्जित्य विजये सम्प्रतिष्ठते ॥ १२॥
इत्युक्तो वामदेवेन सर्वं तत्कृतवान्नृपः ।
तथा कुर्वंस्त्वमप्येतौ लोकौ जेता न संशयः ॥ १३॥
॥ इति वामदेवगीता समाप्ता ॥
॥ विचख्नुगीता ॥
अध्यायः २५७
भी
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
प्रजानामनुकम्पार्थं गीतं राज्ञा विचख्नुना ॥ १॥
छिन्नस्थूनं वृषं दृष्ट्वा विरावं च गवां भृशम् ।
गोग्रहे यज्ञवातस्य प्रेक्षमाणः स पार्थिवः ॥ २॥
स्वस्ति गोभ्योऽस्तु लोकेषु ततो निर्वचनं कृतम् ।
हिंसायां हि प्रवृत्तायामाशीरेषानुकल्पिता ॥ ३॥
अव्यवस्थित मर्यादैर्विमूढैर्नास्तिकैर्नरैः ।
संशयात्मभिरव्यक्तैर्हिंसा समनुकीर्तिता ॥ ४॥
सर्वकर्म स्वहिंसा हि धर्मात्मा मनुरब्रवीत् ।
कामरागाद्विहिंसन्ति बहिर्वेद्यां पशून्नराः ॥ ५॥
तस्मात्प्रमानतः कार्यो धर्मः सूक्ष्मो विजानता ।
अहिंसैव हि सर्वेभ्यो धर्मेभ्यो ज्यायसी मता ॥ ६॥
उपोष्य संशितो भूत्वा हित्वा वेद कृताः श्रुतीः ।
आचार इत्यनाचाराः कृपणाः फलहेतवः ॥ ७॥
यदि यज्ञांश्च वृक्षांश्च यूपांश्चोद्धिश्य मानवाः ।
वृथा मांसानि खादन्ति नैष धर्मः प्रशस्यते ॥ ८॥
मांसं मधु सुरा मत्स्या आसवं कृसरौदनम् ।
धूर्तैः प्रवर्तितं ह्येतन्नैतद्वेदेषु कल्पितम् ॥ ९॥
कामान्मोहाच्च लोभाच्च लौल्यमेतत्प्रवर्तितम् ।
विष्णुमेवाभिजानन्ति सर्वयज्ञेषु ब्राह्मणाः ।
पायसैः सुमनोभिश्च तस्यापि यजनं स्मृतम् ॥ १०॥
यज्ञियाश्चैव ये वृक्षा वेदेषु परिकल्पिताः ।
यच्चापि किं चित्कर्तव्यमन्यच्चोक्षैः सुसंस्कृतम् ।
महासत्त्वैः शुद्धभावैः सर्वं देवार्हमेव तत् ॥ ११॥
य्
शरीरमापदश्चापि विवदन्त्यविहिंसतः ।
कथं यात्रा शरीरस्य निरारम्भस्य सेत्स्यति ॥ १२॥
भी
यथा शरीरं न ग्लायेन्नेयान्मृत्युवशं यथा ।
तथा कर्मसु वर्तेत समर्थो धर्ममाचरेत् ॥ १३॥
॥ इति विचख्नुगीता समाप्ता ॥
॥ विद्यागीता ॥
त्रिपुरा रहस्ये ज्ञानखण्डे
अथ विंशोध्यायः ।
अत्र ते वर्तयिष्यामि पुरा वृत्तं श्रुणुष्व तत् ।
पुरा ब्रह्मसभामध्ये सत्यलोकेऽतिपावने ॥ १॥
ज्ञानप्रसङ्गः समभूत् सूक्ष्मात्सूक्ष्मविमर्शनः ।
सनकाद्या वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः ॥ २॥
भृगुरत्रिरङ्गिराश्च प्रचेता नारदस्तथा ।
च्यवनो वामदेवश्च विश्वामित्रोऽथ गौतमः ॥ ३॥
शुक्रः पराशरो व्यासः कण्वः काश्यप एव च ।
दक्षः सुमन्तुः शङ्खश्च लिखितो देवलोऽपि च ॥ ४॥
एवमन्ये ऋषिगणा राजर्षिप्रवरा अपि ।
सर्वे समुदितास्तत्र ब्रह्मसत्रे महत्तरे ॥ ५॥
मीमांसां चक्रुरत्युच्चैः सूक्ष्मात्सूक्ष्मनिरूपिणैः ।
ब्रह्माणं तत्र पप्रच्छुरृषयः सर्व एव ते ॥ ६॥
भगवन् ज्ञानिनो लोके वयं ज्ञातपरावराः ।
तेषां नो विविधा भाति स्थितिः प्रकृतिभेदतः ॥ ७॥
केचित् सदा समाधिस्थाः केचिन्मीमांसने रताः ।
अपरे भक्तिनिर्मग्नाश्चान्ये कर्मसमाश्रयाः ॥ ८॥
व्यवहारपरास्त्वेके बहिर्मुखनरा इव ।
तेषु श्रेयान् हि कतम एतन्नो वक्तुमर्हसि ॥ ९॥
स्वस्वपक्षं वयं विद्मः श्रेयांसमिति वै विधे ।
इति पृष्टोऽवदद् ब्रह्मा मत्वाऽनाश्वस्तमानसान् ॥ १०॥
मुनीन्द्रा नाहमप्येतद्वेद्मि सर्वात्मना ततः ।
जानीयादिममर्थं तु सर्वज्ञः परमेश्वरः ॥ ११॥
तत्र यामोऽथ सम्प्रष्टुमित्युक्त्वा तत्र तैरयौ ।
सङ्गम्य देवदेवेशं विष्णुनाभिसमागतम् ॥ १२॥
पप्रच्छ ऋषिमुख्यानां प्रश्नं तं लोकसृड्विधिः ।
प्रश्नं निशम्य च शिवो ज्ञात्वा विधिमनोगतम् ॥ १३॥
मत्वाऽनाश्वस्तमनस ऋषीन् देवो व्यचिन्तयत् ।
किञ्चिदुक्तं मयाऽत्रापि व्यर्थमेव भवेन्ननु ॥ १४॥
स्वपक्षत्वेन जानीयुरृषयोऽश्रद्धया युताः ।
इति मत्वा प्रत्युवाच देवदेवो महेश्वरः ॥ १५॥
श्रुणुध्वं मुनयो नाहमप्येतद्वेद्मि सुस्फुटम् ।
अतो विद्यां भगवतीं ध्यायामः परमेश्वरीम् ॥१६॥
तत्प्रसादान्निगूढार्थमपि विद्मस्ततः परम् ।
इत्युक्ता मुनयः सर्वे विधिविष्णुशिवैः सह ॥ १७॥
दध्युर्विद्यां महेशानीं त्रिपुरां चिच्छरीरिणीम् ।
एवं सर्वैरभिध्याता त्रिपुआरा चिच्छरीरिणी ॥ १८॥
आविरासीच्चिदाकाशमयी शब्दमयी परा ।
अभवद् मेघगम्भीरनिःस्वनो गगनाङ्गणे ॥ १९॥
वदन्त्वृषिगणाः किं वो ध्याता तद्द्रुतमीहितम् ।
मत्पराणां हि केषाञ्चिन्न हीयेताभिवाञ्छितम् ॥ २०॥
इति श्रुत्वा परां वाणीं प्रणेमुर्मुनिपुङ्गवाः ।
ब्रह्मादयोऽपि तदनु तुष्टुवुर्विविधैः स्तवैः ॥ २१॥
अथ प्रोचुरृषिगणा विद्यां तां त्रिपुरेश्वरीम् ।
नमस्तुभ्यं महेशानि श्रीविद्ये त्रिपुरेश्वरि ॥ २२॥
अशेषोत्पादयित्री त्वं स्थापयित्री निजात्मनि ।
विलापयित्री सर्वस्य परमेश्वरि ते नमः ॥ २३॥
अनूतना सर्वदाऽसि यतो नास्ति जनिस्तव ।
नवात्मिका सदा त्वं वै यतो नास्ति जरा तव ॥ २४॥
सर्वाऽसि सर्वसाराऽसि सर्वज्ञा सर्वहर्षिणी ।
असर्वाऽसर्वगाऽसाराऽसर्वज्ञाऽसर्वहर्षिणी ॥ २५॥
देवि भूयो नमस्तुभ्यं पुरस्तात् पृष्ठतोऽपि च ।
अधस्तादूर्ध्वतः पार्श्वे सर्वतस्ते नमो नमः ॥ २६॥
ब्रूहि यत्तेऽपरं रूपमैश्वर्यं ज्ञानमेव च ।
फलं तत्साधनं मुख्यं साधकं सिद्धमेव च ॥ २७॥
सिद्धेस्तु परमां काष्ठां सिद्धेषूत्तममेव च ।
देव्येतत् क्रमतो ब्रूहि भूयस्तुभ्यं नमो नमः ॥ २८॥
इत्यापृष्टा महाविद्या प्रवक्तुमुपचक्रमे ।
दयमाना ऋषिगणे स्पष्टार्थं परमं वचः ॥ २९॥
श्रुणुध्वमृषयः सर्वं प्रवक्ष्यामि क्रमेण तत् ।
अमृतं ह्यागमाम्भोधे समुद्धृत्य ददामि वः ॥ ३०॥
यत्र सर्वं जगदिदं दर्पणप्रतिबिम्बवत् ।
उत्पन्नं च स्थितं लीनं सर्वेषां भासते सदा ॥ ३१॥
यदेव जगदाकारं भासतेऽविदितात्मनाम् ।
यद्योगिनां निर्विकल्पं विभात्यात्मनि केवलम् ॥ ३२॥
गम्भीरस्तिमिताम्भोधिरिव निश्चलभासनम् ।
यत् सुभक्तिऐरतिशयप्रीत्या कैतववर्जनात् ॥ ३३॥
स्वभावस्य स्वरसतो ज्ञात्वापि स्वाद्वयं पदम् ।
विभेदभावमाहृत्य सेव्यतेऽत्यन्ततत्परैः ॥ ३४॥
अक्षान्तःकरणादीनां प्राणसूत्रं यदान्तरम् ।
यदभाने न किञ्चित् स्याद्यच्छास्त्रैरभिलक्षितम् ॥ ३५॥
परा सा प्रतिभा देव्याः परं रूपं ममेरितम् ।
ब्रह्माण्डानामनेकानां बहिरूर्ध्वे सुधाम्बुधौ ॥ ३६॥
मणिद्वीपे नीपवने चिन्तामणिसुमन्दिरे ।
पञ्चब्रह्ममये मञ्चे रूपं त्रैपुरसुन्दरम् ॥ ३७॥
अनादिमिथुनं यत्तदपराख्यमृषीश्वराः ।
तथा सदाशिवेशानौ विधिविष्णुत्रिलोचनाः ॥ ३८॥
गणेशस्कन्ददिक्पालाः शक्तयो गणदेवताः ।
यातुधानाः सुरा नागा यक्षकिम्पुरुषादयः ॥ ३९॥
पूज्याः सर्वा मम तनूरपराः परिकीर्तिताः ।
मम मायाविमूढास्तु मां न जानन्ति सर्वतः ॥ ४०॥
पूजिताऽहमेव सर्वैर्ददामि फलमीहितम् ।
न मत्तोऽन्या काचिदस्ति पूज्या वा फलदायिनी ॥ ४१॥
यथा यो मां भावयति फलं मत् प्राप्नुयात्तथा ।
ममैश्वर्यमृषिगणा अपरिच्छिन्नमीरितम् ॥ ४२॥
अनपेक्ष्यैव यत्किञ्चिद् अहमद्वयीचिन्मयी ।
स्फुराम्यनन्तजगदाकारेण ऋषिपुङ्गवाः ॥ ४३॥
तथा स्फुरन्त्यपि सदा नात्येम्यद्वैतचिद्वपुः ।
एतन्मे मुख्यमैश्वर्यं दुर्घटार्थविभावनम् ॥ ४४॥
ममैश्वर्यं तु ऋषयः पश्यध्वं सूक्ष्मया दृशा ।
सर्वाश्रया सर्वगता चाप्यहं केवला स्थिता ॥ ४५॥
स्वमायया स्वमज्ञात्वा संसरन्ती चिरादहम् ।
भूयो विदित्वा स्वात्मानं गुरोः शिष्यपदं गता ॥ ४६॥
नित्यमुक्ता पुनर्मुक्ता भूयो भूयो भवाम्यहम् ।
निरुपादानसम्भारं सृजामि जगदीदृशम् ॥ ४७॥
इत्यादि सन्ति बहुधा ममैश्वर्यपरम्पराः ।
न तद् गणयितुं शक्यं सहस्रवदनेन वा ॥ ४८॥
श्रुण्वन्तु सङ्ग्रहाद् वक्ष्ये मदैश्वर्यस्य लेशतः ।
जगद्यात्रा विचित्रेयं सर्वतः सम्प्रसारिता ॥ ४९॥
मम ज्ञानं बहुविधं द्वैताद्वैतादिभेदतः ।
परापरविभेदाच्च बहुधा चापि तत्फलम् ॥ ५०॥
द्वैतज्ञानं तु विविधं द्वितीयालम्बनं यतः ।
ध्यानमेव तु तत्प्रोक्तं स्वप्नराज्यादिसम्मितम् ॥ ५१॥
तच्चापि सफलं ज्ञेयं नियत्या नियतं यतः ।
अपरं चापि विविधं तत्र मुख्यं तदेव हि ॥ ५२॥
प्रोक्तमुख्यापरमयं ध्यानं मुख्य फलक्रमम् ।
अद्वैतविज्ञानमेव परविज्ञानमीरितम् ॥ ५३॥
मामनाराध्य परमां चिरं विद्यां तु श्रीमतीम् ।
कथं प्राप्येत परमां विद्यामद्वैतसंज्ञिकाम् ॥ ५४॥
तदेवाद्वैतविज्ञानं केवला या परा चितिः ।
तस्याः शुद्धदशामर्शो द्वैतामर्शाभिभावकः ॥ ५५॥
चित्तं यदा स्वमात्मानं केवलं ह्यभिसम्पतेत् ।
तदेवानुविभातं स्याद् विज्ञानमृषिसत्तमाः ॥ ५६॥
श्रुतितो युक्तितो वापि केवलात्मविभासनम् ।
देहाद्यात्मावभासस्य नाशनं ज्ञानमुच्यते ॥ ५७॥
तदेव भवति ज्ञानं यज्ज्ञानेन तु किञ्चन ।
भासमानमपि क्वापि न विभायात् कथञ्चन ॥ ५८॥
तदेवाद्वैतविज्ञानं यद्विज्ञानेन किञ्चन ।
अविज्ञातं नैव भवेत् कदाचिल्लेशतोऽपि च ॥ ५९॥
सर्वविज्ञानात्मरूपं यद्विज्ञानं भवेत् खलु ।
तदेवाद्वैतविज्ञानं परमं तापसोत्तमाः ॥ ६०॥
जाते यादृशविज्ञाने संशयाश्चिरसम्भृताः ।
वायुनेवाभ्रजालानि विलीयन्ते परं हि तत् ॥ ६१॥
कामादिवासनाः सर्वा यस्मिन् सन्ति न किञ्चन ।
स्युर्भग्नदंष्ट्राहिरिव तद्विज्ञानं परं स्मृतम् ॥ ६२॥
विज्ञानस्य फलं सर्वदुःखानां विलयो भवेत् ।
अत्यन्ताभयसम्प्राप्तिर्मोक्ष इत्युच्यते फलम् ॥ ६३॥
भयं द्वितीयसङ्काल्पादद्वैते विदिते दृढम् ।
कुतः स्याद् द्वैतसङ्कल्पस्तमः सूर्योदये यथा ॥ ६४॥
ऋषयो न भयं क्वापि द्वैतसङ्कल्पवर्जने ।
अतो यत्फलान्यत् स्यात्तद्भयं सर्वथा भवेत् ॥ ६५॥
अन्तवत्तु द्वितीयं स्याद् भूयो लोके समीक्षणात् ।
सान्ते भयं सर्वथैवाभयं तस्मात् कुतो भवेत् ॥ ६६॥
संयोगो विप्रयोगान्तः सर्वथैव विभावितः ।
फलयोगोऽपि तस्माद्धि विनश्येदिति निश्चयः ॥ ६७॥
यावदन्यत् फलं प्रोक्तं भयं तावत्प्रकीर्तितम् ।
तदेवाभयरूपं तु फलं सर्वे प्रचक्षते ॥ ६८॥
यदात्मनोऽनन्यदेव फलं मोक्षः प्रकीर्तितः ।
ज्ञाता ज्ञानं ज्ञेयमपि फलं चैकं यदा भवेत् ॥ ६९॥
तदा हि परमो मोक्षः सर्वभीतिविवर्जितः ।
ज्ञानं विकल्पसङ्कल्पहानं मौढ्यविवर्जितम् ॥ ७०॥
ज्ञातुः स्वच्छात्मरूपं तदादावनुपलक्षितम् ।
उपलक्षक एवातो गुरुः शास्त्रं च नेतरत् ॥ ७१॥
एतदेव हि विज्ञेयस्वरूपमभिधीयते ।
ज्ञातृज्ञानज्ञेयगतो यावद् भेदोऽवभासते ॥ ७२॥
तावज्ज्ञाता ज्ञानमपि ज्ञेयं वा न भवेत् क्वचित् ।
यदा भेदो विगलितो ज्ञात्रादीनां मिथः स्थितः ॥ ७३॥
तदा ज्ञात्रादिसम्पत्तिरेतदेव फलं स्मृतम् ।
ज्ञात्रादिफलपर्यन्तं न भेदो वस्तुतो भवेत् ॥ ७४॥
व्यवहारप्रसिद्ध्यर्थं भेदस्तत्र प्रकल्पितः ।
अतोऽपूर्वं लभ्यमत्र फलं नास्त्येव किञ्चन ॥ ७५॥
आत्मैव मायया ज्ञातृज्ञानज्ञेयफलात्मना ।
यावद्भाति भवेत्तावत् संसारो ह्यचलोपमः ॥ ७६॥
यदा कथञ्चिदेतत्तु भायाद् भेदविवर्जितम् ।
संसारो विलयं यायाच्छिन्नाभ्रमिव वायुना ॥ ७७॥
एवंविधमहामोक्षे तत्परत्वं हि साधनम् ।
तत्परत्वे तु सम्पूर्णे नान्यत् साधनमिष्यते ॥ ७८॥
अपूर्णे तत्परत्वे तु किं सहस्रसुसाधनैः ।
तस्मात्तात्पर्यमेव स्यान्मुख्यं मोक्षस्य साधनम् ॥ ७९॥
तात्पर्यं सर्वथैतत्तु साधयामीति संस्थितिः ।
यस्तात्पर्येण संयुक्तः सर्वथा मुक्त एव सः ॥ ८०॥
दिनैर्मासैर्वत्सरैर्वा मुक्तः स्याद्वाऽन्यजन्मनि ।
बुद्धिनैर्मल्यभेदेन चिरशीघ्रव्यवस्थितिः ॥ ८१॥
बुद्धौ तु बहवो दोषाः सन्ति सर्वार्थनाशनाः ।
यैर्जनाः सततं त्वेवं पच्यन्ते घोरसंसृतौ ॥ ८२॥
तत्राद्यः स्यादनाश्वासो द्वितीयः कामवासना ।
तृतीयो जाड्यता प्रोक्ता त्रिधैवं दोषसङ्ग्रहः ॥ ८३॥
द्विविधः स्यादनाश्वासः संशयश्च विपर्ययः ।
मोक्षोऽस्ति नास्ति वेत्याद्यः संशयः समुदाहृतः ॥ ८४॥
नास्त्येव मोक्ष इत्याद्यो भवेदत्र विपर्ययः ।
एतद्द्वयं तु तात्पर्ये मुख्यं स्यात् प्रतिबन्धकम् ॥ ८५॥
विपरीत निश्चयेन नश्येदेतद् द्वयं क्रमात् ।
अत्रोपायो मुख्यतमो मूलच्छेदो न चापरः ॥ ८६॥
अनाश्वासस्य मूलं तु विरुद्धतर्कचिन्तनम् ।
तत्परित्यज्य सत्तर्कावर्तनस्य प्रसाधने ॥ ८७॥
विपरीतो निश्चयः स्याद् मूलच्छेदनपूर्वकः ।
ततः श्रद्धासमुदयादनाश्वासः प्रणश्यति ॥ ८८॥
कामादिवासना बुद्धेः श्रवणे प्रतिबन्धिका ।
कामादिवासनाविष्टा बुद्धिर्नैव प्रवर्तते ॥ ८९॥
लोकेऽपि कामी काम्यस्य सदा ध्यानैकतत्परः ।
पुरःस्थितं न पश्येच्च श्रोत्रोक्तं श्रुणुयान्न च ॥ ९०॥
कामादिवासितस्यैवं श्रुतं चाश्रुतसम्मितम् ।
कामादिवासनां तस्माज्जयेद् वैराग्यसम्पदा ॥ ९१॥
सन्ति कामक्रोधमुखा वासनास्तु सहस्रशः ।
तत्र कामो मूलभूतस्तन्नाशे नहि किञ्चन ॥ ९२॥
ततो वैराग्यसंयोगाद् नाशयेत् कामवासनाम् ।
आशा हि कामः सम्प्रोक्त एतन्मे स्यादिति स्थिता ॥ ९३॥
शक्येषु स्थूलभूता सा सूक्ष्माऽशक्येषु संस्थिता ।
दृढवैराग्ययोगेन सर्वां तां,प्रविनाशयेत् ॥ ९४॥
तत्र मूलं काम्यदोषपरामर्शः प्रतिक्षणम् ।
वैमुख्यं विषयेभ्यश्च वासना नाशयेदिति ॥ ९५॥
यस्तृतीयो बुद्धिदोषो जाड्यरूपो व्यवस्थितः ।
असाध्यः सोऽभ्यासमुखैः सर्वथा ऋषिसत्तमाः ॥ ९६॥
येन तात्पर्यतश्चापि श्रुतं बुद्धिमनारुहेत् ।
तज्जाड्यं हि महान् दोषः पुरुषार्थविनाशनः ॥ ९७॥
तत्रात्मदेवतासेवामृते नान्यद्धि कारणम् ।
सेवायास्तारतम्येन जाड्यं तस्य हराम्यहम् ॥ ९८॥
जाड्याल्पानल्पभावेन सद्यो वा परजन्मनि ।
भवेत्तस्य फलप्राप्तिर्जाड्यसंयुक्तचेतसः ॥ ९९॥
सर्वसाधनसम्पत्तिर्ममैव प्रणिधानतः ।
उपयाति च यो भक्त्या सर्वदा मामकैतवात् ॥ १००॥
स साधनप्रत्यनीकं विधूयाशु कृती भवेत् ।
यस्तु मामीश्वरीं सर्वबुद्धिप्रसरकारिणीम् ॥ १०१॥
अनादृत्य साधनैकपरः स्याद् मूढभावतः ।
पदे पदे विहन्येत फलं प्राप्येत वा न वा ॥ १०२॥
तस्मात्तु ऋषयो मुख्यं तात्पर्यं साधनं भवेत् ।
एवं तात्पर्यवानेव साधकः परमः स्मृतः ॥ १०३॥
तत्र मद्भक्तियुक्तस्तु साधकः सर्वपूजितः ।
सिद्धिरात्मव्यवसितिर्देहानात्मत्वभावना ॥ १०४॥
आत्मत्वभावनं नूनं शरीरादिषु संस्थितम् ।
तदभावनमात्रं तु सिद्धिर्मौढ्यविवर्जितम् ॥ १०५॥
आत्मा व्यवसितः सर्वैरपि नो केवलात्मना ।
अत एव तु सम्प्राप्ता महानर्थपरम्परा ॥ १०६॥
तस्मात् केवलचिन्मात्रं यद् देहाद्यवभासकम् ।
तन्मात्रात्मव्यवसितिः सर्वसंशयनाशिनी ॥ १०७॥
सिद्धिरित्युच्यते प्राज्ञैर्नातः सिद्धिरनन्तरा ।
सिद्धयः खेचरत्वाद्या अणिमाद्यास्तथैव च ॥ १०८॥
आत्मविज्ञानसिद्धेस्तु कलां नार्हन्ति षोडशीम् ।
ताः सर्वास्तु परिच्छिन्नाः सिद्धयो देशकालतः ॥ १०९॥
इयं स्यादपरिच्छिन्नाः स्वात्मविद्या शिवात्मिका ।
स्वात्मविद्यासाधनेषु ताः सर्वाः सुप्रतिष्ठिताः ॥ ११०॥
आत्मविद्याविधावेतास्त्वन्तरायप्रयोजकाः ।
किं ताभिरिन्द्रजालात्मसिद्धितुल्याभिरीहितम् ॥ १११॥
यस्य साक्षाद् ब्रह्मपदमपि स्यात्तृणसम्मितम् ।
कियन्त्येताः सिद्धयो वै कालक्षपणहेतवः ॥ ११२॥
तस्मात् सिद्धिर्नेतरा स्यादात्मविज्ञानसिद्धितः ।
ययाऽत्यन्तशोकनाशो भवेदानन्दसान्द्रता ॥ ११३॥
सैव सिद्धिर्नेतरा तु मृत्युग्रासविमोचिनी ।
इयमात्मज्ञानसिद्धिर्विविधाभ्यासभेदतः ॥ ११४॥
बुद्धिनैर्मल्यभेदाच्च परिपाकविभेदतः ।
संक्षेपतस्तु त्रिविधा चोत्तमा मध्यमाऽधमा ॥ ११५॥
लोके द्विजानामृषयः पठितश्रुतिसम्मिता ।
मेधया च महाभ्यासाद् व्यापारशतसङ्कुला ॥ ११६॥
अप्यस्खलितवर्णा या पठिता श्रुतिरुत्तमा ।
समाहितस्य व्यापारेऽसमाहितस्य चान्यदा ॥ ११७॥
पूर्ववद्याऽप्यस्खलिता पठिता मध्यमा श्रुतिः ।
या सदा ह्यनुसन्धानयोगादेव भवेत्तथा ॥ ११८॥
पठिता श्रुतिरत्यन्तास्खलिता त्वधमा हि सा ।
एवमेवात्मविज्ञानसिद्धिरुक्ता त्रिधर्षयः ॥ ११९॥
या महाव्यवहारेषु प्रतिसन्धानवर्जने ।
अन्यदा तद्वर्जने वा सर्वदा प्रतिसन्धितः ॥ १२०॥
अन्यूनाधिकभावा स्यात्सोत्तमा मध्यमाऽधमा ।
अत्रोत्तमैव संसिद्धेः परा काष्ठा निरूपिता ॥ १२१॥
स्वप्नादिष्वप्यवस्थासु यदा स्यात्परमा स्थितिः ।
विचारक्षणतुल्येव सिद्धिः सा परमोत्तमा ॥ १२२॥
सर्वत्र व्यवहारेषु यत्नात् संस्कारबोधतः ।
यदा प्रवृत्तिः सिद्धेः सा परा काष्ठा समीरिता ॥ १२३॥
अयत्नेनैव परमे स्थितिः संवेदनात्मनि ।
अव्याहता यदा सिद्धिस्तदा काष्ठां समागता ॥ १२४॥
व्यवहारपरो भावान् पश्यन्नपि न पश्यति ।
द्वैतं तदा हि सा सिद्धिः पूर्णतामभिसङ्गता ॥ १२५॥
जागरादौ व्यवहरन्नपि निद्रितवद् यदा ।
स्थितिस्तदा हि सा सिद्धिः पूर्णतामभिसङ्गता ॥ १२६॥
एवं सिद्धिमनुप्राप्तः सिद्धेषूत्तम उच्यते ।
व्यवहारपरो नित्यं न समाधिं विमुञ्चति ॥ १२७॥
कदाचिदपि मेधावी स सिद्धेषूत्तमो मतः ।
ज्ञानिनां विविधानां च स्थितिं जानाति सर्वदा ॥ १२८॥
स्वानुभूत्या स्वान्तरेव स सिद्धेषूत्तमो मतः ।
संशयो वापि कामो वा यस्य नास्त्येव लेशतः ॥ १२९॥
निर्भयो व्यवहारेषु स सिद्धेषूत्तमो मतः ।
सर्व सुखञ्च दुःखञ्च व्यवहारञ्च जागतम् ॥ १३०॥
स्वात्मन्येवाभिजनाति स सिद्धेषूत्तमो मतः ।
अत्यन्तं बद्धमात्मानं मुक्तं चापि प्रपश्यति ॥ १३१॥
यः स्वात्मनि तु सर्वात्मा स सिद्धेषूत्तमो मतः ।
यः पश्यन् बन्धजालानि सर्वदा स्वात्मनि स्फुटम् ॥ १३२॥
मोक्षं नापेक्षते क्वापि स सिद्धेषूत्तमो मतः ।
सिद्धोत्तमोऽहमेवेह न भेदस्त्वावयोः क्वचित् ॥ १३३॥
एतद्वा ऋषयः प्रोक्तं सुस्पष्टमनुयुक्तया ।
एतन्मयोक्तं विज्ञाय न क्वचित् परिमुह्यति ॥ १३४॥
इत्युक्त्वा सा परा विद्या विरराम भृगुद्वह ।
श्रुत्वैतदृषयः सर्व सन्देहमपहाय च ॥ १३५॥
नत्वा शिवादीन् लोकेशान् जग्मुः स्वं स्वं निवेशनम् ।
विद्यागीता मयैषा ते प्रोक्ता पापौघनाशिनी ॥ १३६॥
श्रुता विचारिता सम्यक् स्वात्मसाम्राज्यदायिनी ।
विद्यागीताऽत्युत्तमेयं साक्षाद्विद्यानिरूपिता ॥ १३७॥
पठतां प्रत्यहं प्रीता ज्ञानं दिशति सा स्वयम् ।
संसारतिमिराम्भोधौ मज्जतां तरणिर्भवेत् ॥ १३८॥
इति श्रीत्रिपुरारहस्ये ज्ञानखण्डे
विद्यागीतानाम विंशतितमोऽध्यायः ॥
॥ विभीषणगीता अध्यात्मरामायणे ॥
रामस्य वचनं श्रुत्वा सुग्रीवो हृष्टमानसः ।
विभीषणमथानाय्य दर्शयामास राघवम् ॥ १३॥
विभीषणस्तु साष्टाङ्गं प्रणिपत्य रघूत्तमम् ।
हर्षगद्गदया वाचा भक्त्या च परयान्वितः ॥ १४॥
रामं श्यामं विशालाक्षं प्रसन्नमुखपङ्कजम् ।
धनुर्बाणधरं शान्तं लक्ष्मणेन समन्वितम् ॥ १५॥
कृताञ्जलिपुटो भूत्वा स्तोतुं समुपचक्रमे ॥ १६ ॥
विभीषण उवाच ।
नमस्ते राम राजेन्द्र नमः सीतामनोरम ।
नमस्ते चण्डकोदण्ड नमस्ते भक्तवत्सल ॥ १७॥
नमोऽनन्ताय शान्ताय रामायामिततेजसे ।
सुग्रीवमित्राय च ते रघूणां पतये नमः ॥ १८॥
जगदुत्पत्तिनाशानां कारणाय महात्मने ।
त्रैलोक्यगुरवेऽनादिगृहस्थाय नमो नमः ॥ १९॥
त्वमादिर्जगतां राम त्वमेव स्थितिकारणम् ।
त्वमन्ते निधनस्थानं स्वेच्छाचारस्त्वमेव हि ॥ २०॥
चराचराणां भूतानां बहिरन्तश्च राघव ।
व्याप्यव्यापकरूपेण भवान् भाति जगन्मयः ॥ २१॥
त्वन्मायया हृतज्ञाना नष्टात्मानो विचेतसः ।
गतागतं प्रपद्यन्ते पापपुण्यवशात् सदा ॥ २२॥
तावत्सत्यं जगद्भाति शुक्तिकारजतं यथा
यावन्न ज्ञायते ज्ञानं चेतसानन्यगामिना ॥ २३॥
त्वदज्ञानात् सदा युक्ताः पुत्रदारगृहादिषु ।
रमन्ते विषयान् सर्वानन्ते दुःखप्रदान् विभो। । २४ ॥
त्वमिन्द्रोऽग्निर्यमो रक्षो वरुणश्च तथानिलः ।
कुबेरश्च तथा रुद्रस्त्वमेव पुरुषोत्तम ॥ २५॥
त्वमणोरप्यणीयांश्च स्थूलात् स्थूलतरः प्रभो ।
त्वं पिता सर्वलोकानां माता धाता त्वमेव हि ॥ २६॥
आदिमध्यान्तरहितः परिपूर्णोऽच्युतोऽव्ययः ।
त्वं पाणिपादरहितश्चक्षुःश्रोत्रविवर्जितः ॥ २७॥
श्रोता द्रष्टा ग्रहीता च जवनस्त्वं खरान्तक ।
कोशेभ्यो व्यतिरिक्तस्त्वं निर्गुणो निरुपाश्रयः ॥ २८॥
निर्विकल्पो निर्विकारो निराकारो निरीश्वरः ।
षड्भावरहितोऽनादिः पुरुषः प्रकृते परः ॥ २९॥
मायया गृह्यमाणस्त्वं मनुष्य इव भाव्यसे ।
ज्ञात्वा त्वां निर्गुणमजं वैष्णवा मोक्षगामिनः ॥ ३० ॥
अहं त्वत्पादसद्भक्तिनिःश्रेणीं प्राप्य राघव ।
इच्छामि ज्ञानयोगाख्यं सौधमारोढुमीश्वर ॥ ३१ ॥
नमः सीतापते राम नमः कारुणिकोत्तम ।
रावणारे नमस्तुभ्यं त्राहि मां भवसागरात् ॥ ३२॥
ततः प्रसन्नः प्रोवाच श्रीरामो भक्तवत्सलः ।
वरं वृणीष्व भद्रं ते वाञ्छितं वरदोऽस्म्यहम् ॥ ३३ ॥
विभीषण उवाच ।
धन्योऽस्मि कृतकृत्योऽस्मि कृतकार्योऽस्मि राघव ।
त्वत्पाददर्शनादेव विमुक्तोऽस्मि न संशयः ॥ ३४॥
नास्ति मत्सदृशो धन्यो नास्ति मत्सदृशः शुचिः ।
नास्ति मत्सदृशो लोके राम त्वन्मूर्तिदर्शनात् ॥ ३५॥
कर्मबन्धविनाशाय त्वज्ज्ञानं भक्तिलक्षणम् ।
त्वद्ध्यानं परमार्थं च देहि मे रघुनन्दन ॥ ३६॥
न याचे राम राजेन्द्र सुखं विषयसंभवम् ।
त्वत्पादकमले सक्ता भक्तिरेव सदास्तु मे ॥ ३७॥
॥ वृत्रगीता ॥
अध्यायः २७०
य्
धन्या धन्या इति जनाः सर्वेऽस्मान्प्रवदन्त्युत ।
न दुःखिततरः कश्चित्पुमानस्माभिरस्ति ह ॥ १॥
लोकसम्भावितैर्दुःखं यत्प्राप्तं कुरुसत्तम ।
प्राप्य जातिं मनुष्येषु देवैरपि पितामह ॥ २॥
कदा वयं करिष्यामः संन्यासं दुःखसञ्ज्ञकम् ।
दुःखमेतच्छरीराणां धारणं कुरुसत्तम ॥ ३॥
विमुक्ताः सप्तदशभिर्हेतुभूतैश्च पञ्चभिः ।
इन्द्रियार्थैर्गुणैश्चैव अस्ताभिः प्रपितामह ॥ ४॥
न गच्छन्ति पुनर्भावं मुनयः संशितव्रताः ।
कदा वयं भविष्यामो राज्यं हित्वा परन्तप ॥ ५॥
भी
नास्त्यनन्तं महाराज सर्वं सङ्ख्यान गोचरम् ।
पुनर्भावोऽपि सङ्ख्यातो नास्ति किं चिदिहाचलम् ॥ ६॥
न चापि गम्यते राजन्नैष दोषः प्रसङ्गतः ।
उद्योगादेव धर्मज्ञ कालेनैव गमिष्यथ ॥ ७॥
ईशोऽयं सततं देही नृपते पुण्यपापयोः ।
तत एव समुत्थेन तमसा रुध्यतेऽपि च ॥ ८॥
यथाञ्जन मयो वायुः पुनर्मानः शिलं रजः ।
अनुप्रविश्य तद्वर्णो दृश्यते रञ्जयन्दिशः ॥ ९॥
तथा कर्मफलैर्देही रञ्जितस्तमसावृतः ।
विवर्णो वर्ममाश्रित्य देहेषु परिवर्तते ॥ १०॥
ज्ञानेन हि यदा जन्तुरज्ञानप्रभवं तमः ।
व्यपोहति तदा ब्रह्म प्रकाशेत सनातनम् ॥ ११॥
अयत्न साध्यं मुनयो वदन्ति
ये चापि मुक्तास्त उपासितव्याः ।
त्वया च लोकेन च सामरेण
तस्मान्न शाम्यन्ति महर्षिसङ्घाः ॥ १२॥
अस्मिन्नर्थे पुरा गीतं शृणुष्वैक मना नृप ।
यथा दैत्येन वृत्रेण भ्रष्टैश्वर्येण चेष्टितम् ॥ १३॥
निर्जितेनासहायेन हृतराज्येन भारत ।
अशोचता शत्रुमध्ये बुद्धिमास्थाय केवलाम् ॥ १४॥
भ्रष्टैश्वर्यं पुरा वृत्रमुशना वाक्यमब्रवीत् ।
कच्चित्पराजितस्याद्य न व्यथा तेऽस्ति दानव ॥ १५॥
व्र्त्र
सत्येन तपसा चैव विदित्वा सङ्क्षयं ह्यहम् ।
न शोचामि न हृष्यामि भूतानामागतिं गतिम् ॥ १६॥
कालसञ्चोदिता जीवा मज्जन्ति नरकेऽवशाः ।
परिदृष्टानि सर्वाणि दिव्यान्याहुर्मनीषिणः ॥ १७॥
क्षपयित्वा तु तं कालं गणितं कालचोदिताः ।
सावशेषेण कालेन सम्भवन्ति पुनः पुनः ॥ १८॥
तिर्यग्योनिसहस्राणि गत्वा नरकमेव च ।
निर्गच्छन्त्यवशा जीवाः कालबन्धन बन्धनाः ॥ १९॥
एवं संसरमाणानि जीवान्यहमदृष्टवान् ।
यथा कर्म तथा लाभ इति शास्त्रनिदर्शनम् ॥ २०॥
तिर्यग्गच्छन्ति नरकं मानुष्यं दैवमेव च ।
सुखदुःखे प्रियद्वेष्ये चरित्वा पूर्वमेव च ॥ २१॥
कृतान्तविधिसंयुक्तं सर्वलोकः प्रपद्यते ।
गतं गच्छन्ति चाध्वानं सर्वभूतानि सर्वदा ॥ २२॥
भी
कालसङ्ख्यान सङ्ख्यातं सृष्टि स्थिति परायनम् ।
तं भासमानं भगवानुशनाः प्रत्यभासत ।
भीमान्दुष्टप्रलापांस्त्वं तात कस्मात्प्रभाससे ॥ २३॥
व्र्त्र
प्रत्यक्षमेतद्भवतस्तथान्येषां मनीसिनाम् ।
मया यज्जय लुब्धेन पुरा तप्तं महत्तपः ॥ २४॥
गन्धानादाय भूतानां रसांश्च विविधानपि ।
अवर्धं त्रीन्समाक्रम्य लोकान्वै स्वेन तेजसा ॥ २५॥
ज्वालामाला परिक्षिप्तो वैहायसचरस्तथा ।
अजेयः सर्वभूतानामासं नित्यमपेतभीः ॥ २६॥
ऐश्वर्यं तपसा प्राप्तं भ्रष्टं तच्च स्वकर्मभिः ।
धृतिमास्थाय भगवन्न शोचामि ततस्त्वहम् ॥ २७॥
युयुत्सता महेन्द्रेण पुरा सार्धं महात्मना ।
ततो मे भगवान्दृष्टो हरिर्नारायणः प्रभुः ॥ २८॥
वैकुण्ठः पुरुषो विष्णुः शुक्लोऽनन्तः सनातनः ।
मुञ्जकेशो हरिश्मश्रुः सर्वभूतपितामहः ॥ २९॥
नूनं तु तस्य तपसः सावशेषं ममास्ति वै ।
यदहं प्रस्तुमिच्छामि भवन्तं कर्मणः फलम् ॥ ३०॥
ऐश्वर्यं वै महद्ब्रह्मन्कस्मिन्वर्णे प्रतिष्ठितम् ।
निवर्तते चापि पुनः कथमैश्वर्यमुत्तमम् ॥ ३१॥
कस्माद्भूतानि जीवन्ति प्रवर्तन्तेऽथ वा पुनः ।
किं वा फलं परं प्राप्य जीवस्तिष्ठति शाश्वतः ॥ ३२॥
केन वा कर्मणा शक्यमथ ज्ञानेन केन वा ।
ब्रह्मर्षे तत्फलं प्राप्तुं तन्मे व्याख्यातुमर्हसि ॥ ३३॥
इतीदमुक्तः स मुनिस्तदानीं
प्रत्याह यत्तच्छृणु राजसिंह ।
मयोच्यमानं पुरुषर्षभ त्वम्
अनन्यचित्तः सह सोदरीयैः ॥ ३४॥
अध्यायः २७१
उशनस्
नमस्तस्मै भगवते देवाय प्रभविष्णवे ।
यस्य पृथ्वी तलं तात साकाशं बाहुगोचरम् ॥ १॥
मूर्धा यस्य त्वनन्तं च स्थानं दानव सत्तम ।
तस्याहं ते प्रवक्ष्यामि विष्णोर्माहात्म्यमुत्तमम् ॥ २॥
भी
तयोः संवदतोरेवमाजगाम महामुनिः ।
सनत्कुमारो धर्मात्मा संशय छेदनाय वै ॥ ३॥
स पूजितोऽसुरेन्द्रेण मुनिनोशनसा तथा ।
निषसादासने राजन्महार्हे मुनिपुङ्गवः ॥ ४॥
तमासीनं महाप्राज्ञमुशना वाक्यमब्रवीत् ।
ब्रूह्यस्मै दानवेन्द्राय विन्सोर्माहात्म्यमुत्तमम् ॥ ५॥
सनत्कुमारस्तु ततः श्रुत्वा प्राह वचोऽर्थवत् ।
विष्णोर्माहात्म्य संयुक्तं दानवेन्द्राय धीमते ॥ ६॥
शृणु सर्वमिदं दैत्य विन्सोर्माहात्म्यमुत्तमम् ।
विष्णौ जगत्स्थितं सर्वमिति विद्धि परन्तप ॥ ७॥
सृजत्येष महाबाहो भूतग्रामं चराचरम् ।
एष चाक्षिपते काले काले विसृजते पुनः ।
अस्मिन्गच्छन्ति विलयमस्माच्च प्रभवन्त्युत ॥ ८॥
नैष दानवता शक्यस्तपसा नैव चेज्यया ।
सम्प्राप्तुमिन्द्रियाणां तु संयमेनैव शक्यते ॥ ९॥
बाह्ये चाभ्यन्तरे चैव कर्मणा मनसि स्थितः ।
निर्मली कुरुते बुद्ध्या सोऽमुत्रानन्त्यमश्नुते ॥ १०॥
यथा हिरण्यकर्ता वै रूप्यमग्नौ विशोधयेत् ।
बहुशोऽतिप्रयत्नेन महतात्म कृतेन ह ॥ ११॥
तद्वज्जातिशतैर्जीवः शुध्यतेऽल्पेन कर्मणा ।
यत्नेन महता चैवाप्येकजातौ विशुध्यते ॥ १२॥
लीलयाल्पं यथा गात्रात्प्रमृज्यादात्मनो रजः ।
बहु यत्नेन महता दोषनिर्हरनं तथा ॥ १३॥
यथा चाल्पेन माल्येन वासितं तिलसर्षपम् ।
न मुञ्चति स्वकं गन्धं तद्वत्सूक्ष्मस्य दर्शनम् ॥ १४॥
तदेव बहुभिर्माल्यैर्वास्यमानं पुनः पुनः ।
विमुञ्चति स्वकं गन्धं माल्यगन्धेऽवतिष्ठति ॥ १५॥
एवं जातिशतैर्युक्तो गुणैरेव प्रसङ्गिषु ।
बुद्ध्या निवर्तते दोषो यत्नेनाभ्यासजेन वै ॥ १६॥
कर्मणा स्वेन रक्तानि विरक्तानि च दानव ।
यथा कर्मविशेषांश्च प्राप्नुवन्ति तथा शृणु ॥ १७॥
यथा च सम्प्रवर्तन्ते यस्मिंस्तिष्ठन्ति वा विभो ।
तत्तेऽनुपूर्व्या व्याख्यास्ये तदिहैकमनाः शृणु ॥ १८॥
अनादि निधनं श्रीमान्हरिर्नारायणः प्रभुः ।
स वै सृजति भूतानि स्थावराणि चराणि च ॥ १९॥
एष सर्वेषु भूतेषु क्षरश्चाक्षर एव च ।
एकादश विकारात्मा जगत्पिबति रश्मिभिः ॥ २०॥
पादौ तस्य महीं विद्धि मूर्धानं दिवमेव च ।
बाहवस्तु दिशो दैत्य श्रोत्रमाकाशमेव च ॥ २१॥
तस्य तेजोमयः सूर्यो मनश् चन्द्रमसि स्थितम् ।
बुद्धिर्ज्ञानगता नित्यं रसस्त्वाप्सु प्रवर्तते ॥ २२॥
भ्रुवोरनन्तरास्तस्य ग्रहा दानव सत्तम ।
नक्षत्रचक्रं नेत्राभ्यां पादयोर्भूश्च दानव ॥ २३॥
रजस्तमश्च सत्त्वं च विद्धि नारायणात्मकम् ।
सोऽऽश्रमाणां मुखं तात कर्मणस्तत्फलं विदुः ॥ २४॥
अकर्मणः फलं चैव स एव परमव्ययः ।
छन्दांसि तस्य रोमाणि अक्षरं च सरस्वती ॥ २५॥
बह्वाश्रयो बहु मुखो धर्मो हृदि समाश्रितः ।
स ब्रह्म परमो धर्मस्तपश्च सदसच्च सः ॥ २६॥
श्रुतिशास्त्रग्रहोपेतः षोडशर्त्विक्क्रतुश्च सः ।
पितामहश्च विष्णुश्च सोऽश्विनौ स पुरन्दरः ॥ २७॥
मित्रश्च वरुणश्चैव यमोऽथ धनदस्तथा ।
ते पृथग्दर्शनास्तस्य संविदन्ति तथैकताम् ।
एकस्य विद्धि देवस्य सर्वं जगदिदं वशे ॥ २८॥
नाना भूतस्य दैत्येन्द्र तस्यैकत्वं वदत्ययम् ।
जन्तुः पश्यति ज्ञानेन ततः सत्त्वं प्रकाशते ॥ २९॥
संहार विक्षेपसहस्रकोतीस्
तिष्ठन्ति जीवाः प्रचरन्ति चान्ये ।
प्रजा विसर्गस्य च पारिमाण्यं
वापी सहस्राणि बहूनि दैत्य ॥ ३०॥
वाप्यः पुनर्योजनविस्तृतास्ताः
क्रोशं च गम्भीरतयावगाधाः ।
आयामतः पञ्चशताश्च सर्वाः
प्रत्येकशो योजनतः प्रवृत्थाः ॥ ३१॥
वाप्या जलं क्षिप्यति वालकोत्या
त्वह्ना सकृच्चाप्यथ न द्वितीयम् ।
तासां क्षये विद्धि कृतं विसर्गं
संहारमेकं च तथा प्रजानाम् ॥ ३२॥
सो जीव वर्गाः परमं प्रमाणं
कृष्णो धूम्रो नीलमथास्य मध्यम् ।
रक्तं पुनः सह्यतरं सुखं तु
हारिद्र वर्णं सुसुखं च शुक्लम् ॥ ३३॥
परं तु शुक्लं विमलं विशोकं
गतक्लमं सिध्यति दानवेन्द्र ।
गत्वा तु योनिप्रभवानि दैत्य
सहस्रशः सिद्धिमुपैति जीवः ॥ ३४॥
गतिं च यां दर्शनमाह देवो
गत्वा शुभं दर्शनमेव चाह ।
गतिः पुनर्वर्णकृता प्रजानां
वर्णस्तथा कालकृतोऽसुरेन्द्र ॥ ३५॥
शतं सहस्राणि चतुर्दशेह
परा गतिर्जीव गुणस्य दैत्य ।
आरोहणं तत्कृतमेव विद्धि
स्थानं तथा निःसरणं च तेषाम् ॥ ३६॥
कृष्णस्य वर्णस्य गतिर्निकृष्टा
स मज्जते नरके पच्यमानः ।
स्थानं तथा दुर्गतिभिस्तु तस्य
प्रजा विसर्गान्सुबहून्वदन्ति ॥ ३७॥
शतं सहस्राणि ततश्चरित्वा
प्राप्नोति वर्णं हरितं तु पश्चात् ।
स चैव तस्मिन्निवसत्यनीशो
युगक्षये तमसा संवृतात्मा ॥ ३८॥
स वै यदा सत्त्वगुणेन युक्तस्
तमो व्यपोहन्घतते स्वबुद्ध्या ।
स लोहितं वर्णमुपैति नीलो
मनुष्यलोके परिवर्तते च ॥ ३९॥
स तत्र संहार विसर्गमेव
स्वकर्मजैर्बन्धनैः क्लिश्यमानः ।
ततः स हारिद्रमुपैति वर्णं
संहार विक्षेपशते व्यतीते ॥ ४०॥
हारिद्र वर्णस्तु प्रजा विसर्गान्
सहस्रशस्तिष्ठति सञ्चरन्वै ।
अविप्रमुक्तो निरये च दैत्य
ततः सहस्राणि दशापरानि ॥ ४१॥
गतीः सहस्राणि च पञ्च तस्य
चत्वारि संवर्तकृतानि चैव ।
विमुक्तमेनं निरयाच्च विद्धि
सर्वेषु चान्येषु च सम्भवेषु ॥ ४२॥
स देवलोके विहरत्यभीक्ष्णं
ततश्च्युतो मानुषताम् उपैति ।
संहार विक्षेपशतानि चाष्टौ
मर्त्येषु तिष्ठन्नमृतत्वमेति ॥ ४३॥
सोऽस्मादथ भ्रश्यति कालयोगात्
कृष्णे तले तिष्ठति सर्वकस्ते ।
यथा त्वयं सिध्यति जीवलोकस्
तत्तेऽभिधास्याम्यसुरप्रवीर ॥ ४४॥
दैवानि स व्यूह शतानि सप्त
रक्तो हरिद्रोऽथ तथैव शुक्लः ।
संश्रित्य सन्धावति शुक्लमेतम्
अस्तापरानर्च्यतमान्स लोकान् ॥ ४५॥
अष्टौ च षष्टिं च शतानि यानि
मनो विरुद्धानि महाद्युतीनाम् ।
शुक्लस्य वर्णस्य परा गतिर्या
त्रीण्येव रुद्धानि महानुभाव ॥ ४६॥
संहार विक्षेपमनिष्टमेकं
चत्वारि चान्यानि वसत्यनीशः ।
सस्थस्य वर्णस्य परा गतिर्या
सिद्धा विशिष्टस्य गतक्लमस्य ॥ ४७॥
सप्तोत्तरं तेषु वसत्यनीशः
संहार विक्षेपशतं सशेषम् ।
तस्मादुपावृत्य मनुष्यलोके
ततो महान्मानुषताम् उपैति ॥ ४८॥
तस्मादुपावृत्य ततः क्रमेण
सोऽग्रे स्म सन्तिष्ठति भूतसर्गम् ।
स सप्तकृत्वश्च परैति लोकान्
संहार विक्षेपकृतप्रवासः ॥ ४९॥
सप्तैव संहारमुपप्लवानि
सम्भाव्य सन्तिष्ठति सिद्धलोके ।
ततोऽव्ययं स्थानमनन्तमेति
देवस्य विष्णोरथ ब्रह्मणश् च ।
शेषस्य चैवाथ नरस्य चैव
देवस्य विष्णोः परमस्य चैव ॥ ५०॥
संहार काले परिदग्ध काया
ब्रह्माणमायान्ति सदा प्रजा हि ।
चेष्टात्मनो देवगणाश् च सर्वे
ये ब्रह्मलोकादमराः स्म तेऽपि ॥ ५१॥
प्रजा विसर्गं तु सशेषकालं
स्थानानि स्वान्येव सरन्ति जीवाः ।
निःशेषाणां तत्पदं यान्ति चान्ते
सर्वापदा ये सदृशा मनुष्याः ॥ ५२॥
ये तु च्युताः सिद्धलोकात्क्रमेण
तेषां गतिं यान्ति तथानुपूर्व्या ।
जीवाः परे तद्बलवेषरूपा
विधिं स्वकं यान्ति विपर्ययेन ॥ ५३॥
स यावदेवास्ति सशेषभुक्ते
प्रजाश्च देवौ च तथैव शुक्ले ।
तावत्तदा तेषु विशुद्धभावः
संयम्य पञ्चेन्द्रिय रूपमेतत् ॥ ५४॥
शुद्धां गतिं तां परमां परैति
शुद्धेन नित्यं मनसा विचिन्वन् ।
ततोऽव्ययं स्थानुमुपैति ब्रह्म
दुष्प्रापमभ्येति स शाश्वतं वै ।
इत्येतदाख्यातमहीनसत्त्व
नारायणस्येह बलं मया ते ॥ ५५॥
व्र्त्र
एवङ्गते मे न विषादोऽस्ति कश् चित्
सम्यक्च पश्यामि वचस्तवैतत् ।
श्रुत्वा च ते वाचमदीनसत्त्व
विकल्मषोऽस्म्यद्य तथा विपाप्मा ॥ ५६॥
प्रवृत्तमेतद्भगवन्महर्षे
महाद्युतेश्चक्रमनन्व वीर्यम् ।
विष्णोरनन्तस्य सनातनं तत्
स्थानं सर्गा यत्र सर्वे प्रवृत्ताः ।
स वै महात्मा पुरुषोत्तमो वै
तस्मिञ्जगत्सर्वमिदं प्रतिष्ठितम् ॥ ५७॥
भी
एवमुक्त्वा स कौन्तेय वृत्रः प्रानानवासृजत् ।
योजयित्वा तथात्मानं परं स्थानमवाप्तवान् ॥ ५८॥
य्
अयं स भगवान्देवः पितामह जनार्दनः ।
सनत्कुमारो वृत्राय यत्तदाख्यातवान्पुरा ॥ ५९॥
भी
मूलस्थायी स भगवान्स्वेनानन्तेन तेजसा ।
तत्स्थः सृजति तान्भावान्नानारूपान्महातपः ॥ ६०॥
तुरीयार्धेन तस्येमं विद्धि केशवमच्युतम् ।
तुरीयार्धेन लोकांस्त्रीन्भावयत्येष बुद्धिमान् ॥ ६१॥
अर्वाक्स्थितस्तु यः स्थायी कल्पान्ते परिवर्तते ।
स शेते भगवानप्सु योऽसावतिबलः प्रभुः ।
तान्विधाता प्रसन्नात्मा लोकांश्चरति शाश्वतान् ॥ ६२॥
सर्वाण्यशून्यानि करोत्यनन्तः
सनत्कुमारः सञ्चरते च लोकान् ।
स चानिरुद्धः सृजते महात्मा
तत्स्थं जगत्सर्वमिदं विचित्रम् ॥ ६३॥
य्
वृत्रेण परमार्थज्ञ दृष्टा मन्येऽऽत्मनो गतिः ।
शुभा तस्मात्स सुखितो न शोचति पितामह ॥ ६४॥
शुक्लः शुक्लाभिजातीयः साध्यो नावर्ततेऽनघ ।
तिर्यग्गतेश्च निर्मुक्तो निरयाच्च पितामह ॥ ६५॥
हारिद्र वर्णे रक्ते वा वर्तमानस्तु पार्थिव ।
तिर्यगेवानुपश्येत कर्मभिस्तामसैर्वृतः ॥ ६६॥
वयं तु भृशमापन्ना रक्ताः कस्त मुखेऽसुखे ।
कां गतिं प्रतिपत्स्यामो नीलां कृष्णाधमाम् अथ ॥ ६७॥
भी
शुद्धाभिजनसम्पन्नाः पाण्डवाः संशितव्रताः ।
विहृत्य देवलोकेषु पुनर्मानुष्यमेष्यथ ॥ ६८॥
प्रजा विसर्गं च सुखेन काले
प्रत्येत्य देवेषु सुखानि भुक्त्वा ।
सुखेन संयास्यथ सिद्धसङ्ख्यां
मा वो भयं भूद्विमलाः स्थ सर्वे ॥ ६९॥
॥ इति वृत्रगीता समाप्ता ॥
॥ श्रीमद्भागवतान्तर्गतं वेणुगीतम् ॥
श्रीशुक उवाच ।
इत्थं शरत्स्वच्छजलं पद्माकरसुगन्धिना ।
न्यविशद्वायुना वातं स गोगोपालकोऽच्युतः ॥ १०.२१.१॥
कुसुमितवनराजिशुष्मिभृङ्ग द्विजकुलघुष्टसरःसरिन्महीध्रम् ।
मधुपतिरवगाह्य चारयन्गाः सहपशुपालबलश्चुकूज वेणुम् ॥ १०.२१.२॥
तद्व्रजस्त्रिय आश्रुत्य वेणुगीतं स्मरोदयम् ।
काश्चित्परोक्षं कृष्णस्य स्वसखीभ्योऽन्ववर्णयन् ॥ १०.२१.३॥
तद्वर्णयितुमारब्धाः स्मरन्त्यः कृष्णचेष्टितम् ।
नाशकन्स्मरवेगेन विक्षिप्तमनसो नृप ॥ १०.२१.४॥
बर्हापीडं नटवरवपुः कर्णयोः कर्णिकारं
बिभ्रद्वासः कनककपिशं वैजयन्तीं च मालाम् ।
रन्ध्रान्वेणोरधरसुधयापूरयन्गोपवृन्दैर्-
वृन्दारण्यं स्वपदरमणं प्राविशद्गीतकीर्तिः ॥ १०.२१.५॥
इति वेणुरवं राजन् सर्वभूतमनोहरम् ।
श्रुत्वा व्रजस्त्रियः सर्वा वर्णयन्त्योऽभिरेभिरे ॥ १०.२१.६॥
श्रीगोप्य ऊचुः ।
अक्षण्वतां फलमिदं न परं विदामः
सख्यः पशूननविवेशयतोर्वयस्यैः ।
वक्त्रं व्रजेशसुतयोरनवेणुजुष्टं
यैर्वा निपीतमनुरक्तकटाक्षमोक्षम् ॥ १०.२१.७॥
चूतप्रवालबर्हस्तबकोत्पलाब्ज मालानुपृक्तपरिधानविचित्रवेशौ
मध्ये विरेजतुरलं पशुपालगोष्ठ्यां रङ्गे यथा नटवरौ क्वच गायमानौ ॥ १०.२१.८॥
गोप्यः किमाचरदयं कुशलं स्म वेणुर्-
दामोदराधरसुधामपि गोपिकानाम्
भुङ्क्ते स्वयं यदवशिष्टरसं ह्रदिन्यो
हृष्यत्त्वचोऽश्रु मुमुचुस्तरवो यथार्यः ॥ १०.२१.९॥
वृन्दावनं सखि भुवो वितनोति कीर्तिं
यद्देवकीसुतपदाम्बुजलब्धलक्ष्मि ।
गोविन्दवेणुमनु मत्तमयूरनृत्यं
प्रेक्ष्याद्रिसान्ववरतान्यसमस्तसत्त्वम् ॥ १०.२१.१०॥
धन्याः स्म मूढगतयोऽपि हरिण्य एता
या नन्दनन्दनमुपात्तविचित्रवेशम् ।
आकर्ण्य वेणुरणितं सहकृष्णसाराः
पूजां दधुर्विरचितां प्रणयावलोकैः ॥ १०.२१.११॥
कृष्णं निरीक्ष्य वनितोत्सवरूपशीलं
श्रुत्वा च तत्क्वणितवेणुविविक्तगीतम् ।
देव्यो विमानगतयः स्मरनुन्नसारा
भ्रश्यत्प्रसूनकबरा मुमुहुर्विनीव्यः ॥ १०.२१.१२॥
गावश्च कृष्णमुखनिर्गतवेणुगीत
पीयूषमुत्तभितकर्णपुटैः पिबन्त्यः ।
शावाः स्नुतस्तनपयःकवलाः स्म तस्थुर्-
गोविन्दमात्मनि दृशाश्रुकलाः स्पृशन्त्यः ॥ १०.२१.१३॥
प्रायो बताम्ब विहगा मुनयो वनेऽस्मिन्
कृष्णेक्षितं तदुदितं कलवेणुगीतम् ।
आरुह्य ये द्रुमभुजान्रुचिरप्रवालान्
शृण्वन्ति मीलितदृशो विगतान्यवाचः ॥ १०.२१.१४॥
नद्यस्तदा तदुपधार्य मुकुन्दगीतम्
आवर्तलक्षितमनोभवभग्नवेगाः ।
आलिङ्गनस्थगितमूर्मिभुजैर्मुरारेर्-
गृह्णन्ति पादयुगलं कमलोपहाराः ॥ १०.२१.१५॥
दृष्ट्वातपे व्रजपशून्सह रामगोपैः
सञ्चारयन्तमनु वेणुमुदीरयन्तम् ।
प्रेमप्रवृद्ध उदितः कुसुमावलीभिः
सख्युर्व्यधात्स्ववपुषाम्बुद आतपत्रम् ॥ १०.२१.१६॥
पूर्णाः पुलिन्द्य उरुगायपदाब्जराग
श्रीकुङ्कुमेन दयितास्तनमण्डितेन ।
तद्दर्शनस्मररुजस्तृणरूषितेन
लिम्पन्त्य आननकुचेषु जहुस्तदाधिम् ॥ १०.२१.१७॥
हन्तायमद्रिरबला हरिदासवर्यो
यद्रामकृष्णचरणस्परशप्रमोदः ।
मानं तनोति सहगोगणयोस्तयोर्यत्
पानीयसूयवसकन्दरकन्दमूलैः ॥ १०.२१.१८॥
गा गोपकैरनुवनं नयतोरुदार
वेणुस्वनैः कलपदैस्तनुभृत्सु सख्यः ।
अस्पन्दनं गतिमतां पुलकस्तरुणां
निर्योगपाशकृतलक्षणयोर्विचित्रम् ॥ १०.२१.१९॥
एवंविधा भगवतो या वृन्दावनचारिणः ।
वर्णयन्त्यो मिथो गोप्यः क्रीडास्तन्मयतां ययुः ॥ १०.२१.२०॥
॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
दशमस्कन्धे पूर्वार्धे वेणुगीतं नामैकविंशोऽध्यायः ॥ १०.२१॥
॥ वैष्णवगीता ॥
अम्बरीष उवाच --
केनोपायेन देवर्षे भवबन्धाद्विमुच्यते ।
तद्वदस्व महाभाग यद्यस्ति मय्यनुग्रहः॥ १॥
नारद उवाच --
साधु पृष्टं महाभाग सर्वधर्मभृतां वर ।
वक्ष्यामि तव राजेन्द्र शृणुष्वावहितो मम ॥ २॥
कैवल्यदायिनी गीता श्रीवैष्णवगीताभिधा ।
शृणुष्व परया भक्त्या भवबन्धविमुक्तये ॥ ३॥
वैष्णवानां गतिर्यत्र पादस्पर्शश्च यत्र वै ।
तत्र सर्वाणि तीर्थानि तिष्ठन्ति नृपसत्तम ॥ ४॥
आलापं गात्रसंस्पर्शं पादाभिवन्दनं तथा ।
वाञ्छन्ति सर्वतीर्थानि वैष्णवानां सदैव हि ॥ ५॥
विष्णुमन्त्रोपासकानां शुद्धं पादोदकं शुभम् ।
पुनाति सर्वतीर्थानि वसुधामपि भूपते ॥ ६॥
निपीडितोऽहं श्रान्तोऽहम् दाघसंसारवर्त्मनि ।
येन भूयो न गच्छामि तत् कुरुष्व श्रीवैष्णव ॥ ७॥
दीनं च भक्तिहीनं च आधिव्याधिनिपीडितम् ।
अनाश्रयमनाथं च त्राहि मां कृपया प्रभो ॥ ८॥
गतिर्नास्ति गतिर्नास्ति सत्यं श्रीवैष्णवं विना ।
तत्पादरजसा पूतं त्रैलोक्यं सचराचरम् ॥ ९॥
कथितं तव राजेन्द्र रहस्यं परमाद्भुतम् ।
अभक्ताय न दातव्यं दत्ते तु नारका भवेत् ॥ १०॥
इति श्रीवैष्णवगीता समाप्ता ॥
॥ व्यासगीता कूर्मपुराणे अध्याय १२-४६ ॥
कूर्मपुराणए उत्तरभागे द्वादशोऽध्यायः
व्यास उवाच ।
शृणुध्वमृषयः सर्वे वक्ष्यमाणं सनातनम् ।
कर्मयोगं ब्राह्मणानामात्यन्तिकफलप्रदम् ॥ १२.१॥
आम्नायसिद्धमखिलं बाह्मणानां प्रदर्शितम् ।
ऋषीणां शृण्वतां पूर्वं मनुराह प्रजापतिः ॥ १२.२॥
सर्वपापहरं पुण्यमृषिसङ्घैर्निषेवितम् ।
समाहितधियो यूयं शृणुध्वं गदतो मम ॥ १२.३॥
कृतोपनयनो वेदानधीयीत द्विजोत्तमाः ।
गर्भाष्टमेऽष्टमे वाब्दे स्वसूत्रोक्तविधानतः ॥ १२.४॥
दण्डी च मेखली सूत्री कृष्णाजिनधरो मुनिः ।
भिक्षाहारो गुरुहितो वीक्षमाणो गुरोर्मुखम् ॥ १२.५॥
कार्पासमुपवीतार्थं निर्मितं ब्रह्मणा पुरा ।
ब्राह्मणानां त्रिवित् सूत्रं कौशं वा वस्त्रमेव वा ॥ १२.६॥
सदोपवीती चैव स्यात् सदा बद्धशिखो द्विजः ।
अन्यथा यत् कृतं कर्म तद् भवत्ययथाकृतम् ॥ १२.७॥
वसेदविकृतं वासः कार्पासं वा कषायकम् ।
तदेव परिधानीयं शुक्लमच्छिद्रमुत्तमम् ॥ १२.८॥
उत्तरं तु समाख्यातं वासः कृष्णाजिनं शुभम् ।
अभावे दिव्यमजिनं रौरवं वा विधीयते ॥ १२.९॥
उद्धृत्य दक्षिणं बाहुं सव्ये बाहौ समर्पितम् ।
उपवीतं भवेन्नित्यं निवीतं कण्ठसज्जने ॥ १२.१०॥
सव्यं बाहुं समुद्धृत्य दक्षिणे तु धृतं द्विजाः ।
प्राचीनावीतमित्युक्तं पैत्रे कर्मणि योजयेत् ॥ १२.११॥
अग्न्यगारे गवां गोष्ठे होमे जप्ये तथैव च ।
स्वाध्याये भोजने नित्यं ब्राह्मणानां च सन्निधौ ॥ १२.१२॥
उपासने गुरूणां च संध्ययोः साधुसंगमे ।
उपवीती भवेन्नित्यं विधिरेष सनातनः ॥ १२.१३॥
मौञ्जी त्रिवृत् समा श्लक्ष्णा कार्या विप्रस्य मेखला ।
मुञ्जाभावे कुशेनाहुर्ग्रन्थिनैकेन वा त्रिभिः ॥ १२.१४॥
धारयेद् बैल्वपालाशौ दण्डौ केशान्तकौ द्विजः ।
यज्ञार्हवृक्षजं वाऽथ सौम्यमव्रणमेव च ॥ १२.१५॥
सायं प्रातर्द्विजः संध्यामुपासीत समाहितः ।
कामाल्लोभाद् भयान्मोहात् त्यक्तेन पतितो भवेत् ॥ १२.१६॥
अग्निकार्यं ततः कुर्यात् सायं प्रातः प्रसन्नधीः ।
स्नात्वा संतर्पयेद् देवानृषीन् पितृगणांस्तथा ॥ १२.१७॥
देवताभ्यर्चनं कुर्यात् पुष्पैः पत्रेण चाम्बुना ।
अभिवादनशीलः स्यान्नित्यं वृद्धेषु धर्मतः ॥ १२.१८॥
असावहं भो नामेति सम्यक् प्रणतिपूर्वकम् ।
आयुरारोग्यसिद्ध्यर्थं द्रव्यादिपरिवर्जितम् ॥ १२.१९॥
आयुष्णान् भव सौम्येति वाच्यो विप्रोऽभिवादने ।
अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः ॥ १२.२०॥
न कुर्याद् योऽभिवादस्य द्विजः प्रत्यभिवादनम् ।
नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः ॥ १२.२१॥
सव्य्स्तपाणिना कार्यमुपसंग्रहणं गुरोः ।
सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन तु दक्षिणः ॥ १२.२२॥
लौकिकं वैदिकं चापि तथाध्यात्मिकमेव वा ।
आददीत यतो ज्ञानं तं पूर्वमभिवादयेत् ॥ १२.२३॥
नोदकं धारयेद् भैक्षं पुष्पाणि समिधस्तथा ।
एवंविधानि चान्यानि न दैवाद्येषु कर्मसु ॥ १२.२४॥
ब्राह्मणं कुशलं पृच्छेत् क्षत्रबन्धुमनामयम् ।
वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव तु ॥ १२.२५॥
उपाध्यायः पिता ज्येष्ठो भ्राता चैव महीपतिः ।
मातुलः श्वशुरस्त्राता मातामहपितामहौ ॥ १२.२६॥
वर्णज्येष्ठः पितृव्यश्च पुंसोऽत्र गुरवः स्मृताः ।
माता मातामही गुर्वी पितुर्मातुश्च सोदराः ॥ १२.२७॥
श्वश्रूः पितामहीज्येष्ठा धात्री च गुरवः स्त्रियः ।
इत्युक्तो गुरुवर्गोऽयं मातृतः पितृतो द्विजाः ॥ १२.२८॥
अनुवर्त्तनमेतेषां मनोवाक्कायकर्मभिः ।
गुरुं दृष्ट्वा समुत्तिष्ठेदभिवाद्य कृताञ्जलिः ॥ १२.२९॥
नैतैरुपविशेत् सार्द्धं विवदेन्नात्मकारणात् ।
जीवितार्थमपि द्वेषाद् गुरुभिर्नैव भाषणम् ॥ १२.३०॥
उदितोऽपि गुणैरन्यैर्गुरुद्वेषी पतत्यधः ।
गुरूणामपि सर्वेषां पूज्याः पञ्च विशेषतः ॥ १२.३१॥
तेषामाद्यास्त्रयः श्रेष्ठास्तेषां माता सुपूजिता ।
यो भावयति या सूते येन विद्योपदिश्यते ॥ १२.३२॥
ज्येष्ठो भ्राता च भर्त्ता च पञ्चैते गुरवः स्मृताः ।
आत्मनः सर्वयत्नेन प्राणत्यागेन वा पुनः ॥ १२.३३॥
पूजनीया विशेषेण पञ्चैते भूतिमिच्छता ।
यावत् पिता च माता च द्वावेतौ निर्विकारिणौ ॥ १२.३४॥
तावत् सर्वं परित्यज्य पुत्रः स्यात् तत्परायणः ।
पिता माता च सुप्रीतौ स्यातां पुत्रगुणैर्यदि ॥ १२.३५॥
स पुत्रः सकलं धर्ममाप्नुयात् तेन कर्मणा ।
नास्ति मातृसमं दैवं नास्ति पितृसमो गुरुः ॥ १२.३६॥
तयोः प्रत्युपकारोऽपि न कथञ्चन विद्यते ।
तयोर्नित्यं प्रियं कुर्यात् कर्मणा मनसा गिरा ॥ १२.३७॥
न ताभ्यामननुज्ञातो धर्ममन्यं समाचरेत् ।
वर्जयित्वा मुक्तिफलं नित्यं नैमित्तिकं तथा ॥ १२.३८॥
धर्मसारः समुद्दिष्टः प्रेत्यानन्तफलप्रदः ।
सम्यगाराध्य वक्तारं विसृष्टस्तदनुज्ञया ॥ १२.३९॥
शिष्यो विद्याफलं भुङ्क्ते प्रेत्य वा पूज्यते दिवि ।
यो भ्रातरं पितृसमं ज्येष्ठं मूर्खोऽवमन्यते ॥ १२.४०॥
तेन दोषेण स प्रेत्य निरयं घोरमृच्छति ।
पुंसा वर्त्मनितिष्टेत पूज्यो भर्त्ता तु सर्वदा ॥ १२.४१॥
अपि मातरि लोकेऽस्मिन् उपकाराद्धि गौरवम् ।
येनरा भर्त्तृपिण्डार्थं स्वान् प्राणान् संत्यजन्ति हि ॥ १२.४२॥
तेषामथाक्षयाँल्लोकान् प्रोवाच भगवान् मनुः ।
मातुलांश्च पितृव्यांश्च श्वशुरानृत्विजो गुरून् ॥ १२.४३॥
असावहमिति ब्रूयुः प्रत्युत्थाय यवीयसः ।
अवाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेत् ॥ १२.४४॥
भोभवत्पूर्वकत्वेनमभिभाषेत धर्मवित् ।
अभिवाद्यश्च पूज्यश्च शिरसा वन्द्य एव च ॥ १२.४५॥
ब्राह्मणः क्षत्रियाद्यैश्च श्रीकामैः सादरं सदा ।
नाभिवाद्यास्तु विप्रेण क्षत्रियाद्याः कथञ्चन ॥ १२.४६॥
ज्ञानकर्मगुणोपेता यद्यप्येते बहुश्रुताः ।
ब्राह्मणः सर्ववर्णानां स्वस्ति कुर्यादिति श्रुतिः ॥ १२.४७॥
सवर्णेषु सवर्णानां काम्यमेवाभिवादनम् ।
गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ॥ १२.४८॥
पतिरेव गुरुः स्त्रीणां सर्वत्राभ्यागतो गुरुः ।
विद्या कर्म वयो बन्धुर्वित्तं भवति पञ्चमम् ॥ १२.४९॥
मान्यस्थानानि पञ्चाहुः पूर्वं पूर्वं गुरूत्तरात् ।
पञ्चानां त्रिषु वर्णेषु भूयांसि बलवन्ति च ॥ १२.५०॥
यत्र स्युः सोऽत्र मानार्हः शूद्रोऽपि दशमीं गतः ।
पन्था देयो ब्राह्मणाय स्त्रियै राज्ञे ह्यचक्षुषे ॥ १२.५१॥
वृद्धाय भारमग्नाय रोगिणे दुर्बलाय च ।
भिक्षामाहृत्य शिष्टानां गृहेभ्यः प्रयतोऽन्वहम् ॥ १२.५२॥
निवेद्य गुरवेऽश्नीयाद् वाग्यतस्तदनुज्ञया ।
भवत्पूर्वं चरेद् भैक्ष्यमुपनीतो द्विजोत्तमः ॥ १२.५३॥
भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम् ।
मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् ॥ १२.५४॥
भिक्षेत भिक्षां प्रथमं या चैनं न विमानयेत् ।
सजातीयगृहेष्वेव सार्ववर्णिकमेव वा ॥ १२.५५॥
भैक्ष्यस्य चरणं प्रोक्तं पतितादिषु वर्जितम् ।
वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्मसु ॥ १२.५६॥
ब्रह्मचारी हरेद् भैक्षं गृहेभ्यः प्रयतोऽन्वहम् ।
गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु ॥ १२.५७॥
अलाभे त्वन्यगेहानां पूर्वं पूर्वं विवर्जयेत् ॥
सर्वं वा विचरेद् ग्रामं पूर्वोक्तानामसंभवे ॥ १२.५८॥
नियम्य प्रयतो वाचं दिशस्त्वनवलोकयन् ।
समाहृत्य तु तद् भैक्षं यावदर्थममायया ॥ १२.५९॥
भुञ्जीत प्रयतो नित्यं वाग्यतोऽनन्यमानसः ।
भैक्ष्येण वर्त्तयेन्नित्यं नैकान्नादी भवेद् व्रती ॥ १२.६०॥
भैक्ष्येण व्रतिनो वृत्तिरुपवाससमा स्मृता ।
पूजयेदशनं नित्यमद्याच्चैतदकुत्सयन् ॥ १२.६१॥
दृष्ट्वा हृष्येत् प्रसीदेच्च ततो भुञ्जीत वाग्यतः १२.६२॥
अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् ।
अपुण्यं लोकविद्विष्टं तस्मात् तत्परिवर्जयेत् ॥ १२.६३॥
प्राङ्मुखोऽन्नानि भुञ्जीत सूर्याभिमुख एव वा ।
नाद्यादुदङ्मुखो नित्यं विधिरेष सनातनः ॥ १२.६४॥
प्रक्षाल्य पाणिपादौ च भुञ्जानो द्विरुपस्पृशेत् ।
शुचौ देशे समासीनो भुक्त्वा च द्विरुपस्पृशेत् ॥ १२.६५॥
इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
द्वादशोऽध्यायः ॥१२॥
कूर्मपुराणे उत्तरभागे त्रयोदशोऽध्यायः
व्यास उवाच ।
भुक्त्वा पीत्वा च सुप्त्वा च स्नात्वा रथ्योपसर्पणे ।
ओष्ठावलोमोकौ स्पृष्ट्वा वासो विपरिधाय च ॥ १३.१
रेतोमूत्रपुरीषाणामुत्सर्गेऽयुक्तभाषणे ।
ष्ठीवित्वाऽध्ययनारम्भे कासश्वासागमे तथा ॥ १३.२
चत्वरं वा श्मशानं वा समागम्य द्विजोत्तमः ।
संध्ययोरुभयोस्तद्वदाचान्तोऽप्याचमेत् पुनः ॥ १३.३
चण्डालम्लेच्छसंभाषे स्त्रीशूद्रोच्छिष्टभाषणे ।
उच्छिष्टं पुरुषं स्पृष्ट्वा भोज्यं चापि तथाविधम् ॥ १३.४॥
आचामेदश्रुपाते वा लोहितस्य तथैव च ।
भोजने संध्ययोः स्नात्वा पीत्वा मूत्रपुरीषयोः ॥ १३.५॥
आचान्तोऽप्याचमेत् सुप्त्वा सकृत्सकृदथान्यतः ।
अग्नेर्गवामथालम्भे स्पृष्ट्वा प्रयतमेव वा ॥ १३.६॥
स्त्रीणामथात्मनः स्पर्शे नीवीं वा परिधाय च
उपस्पृशेज्जलं वार्द्रं तृणं वा भूमिमेव वा ॥ १३.७॥
केशानां चात्मनः स्पर्शे वाससोऽक्षालितस्य च ।
अनुष्णाभिरफेनाभिः विशुद्धाद्भिश्च धर्मतः ॥ १३.८॥
शौचेप्सुः सर्वदाचामेदासीनः प्रागुदङ्मुखः ।
शिरः प्रावृत्य कण्ठं वा मुक्तकच्छशिखोऽपि वा ॥ १३.९॥
अकृत्वा पादयोः शौचमाचान्तोऽप्यशुचिर्भवेत् ।
सोपानत्को जलस्थो वा नोष्णीषी चाचमेद्बुधः ॥ १३.१०॥
न चैव वर्षधाराभिर्न तिष्ठन् नोद्धृतोदकैः ।
नैकहस्तार्पितजलैर्विना सूत्रेण वा पुनः ॥ १३.११॥
न पादुकासनस्थो वा बहिर्जानुरथापि वा ।
न जल्पन् न हसन् प्रेक्षन् शयानः प्रह्व एव च
नावीक्षिताभिः फेनाद्यैरुपेताभिरथापि वा ।
शूद्राशुचिकरोन्मुक्तैर्न क्षाराभिस्तथैव च ॥ १३.१२॥
न चैवाङ्गुलिभिः शस्तं न कुर्वन् नान्यमानसः ।
न वर्णरसदुष्टाभिर्न चैव प्रदरोदकैः ॥ १३.१३॥
न पाणिक्षुभिताभिर्वा न बहिष्कक्ष एव वा ।
हृद्गाभिः पूयते विप्रः कण्ठ्याभिः क्षत्रियः शुचिः ॥ १३.१४॥
प्राशिताभिस्तथावैश्यः स्त्रीशूद्रौ स्पर्शतोऽन्ततः ॥
अङ्गुष्ठमूलान्तरतो रेखायां ब्राह्ममुच्यते ॥ १३.१५॥
अन्तराङ्गुष्ठदेशिन्यो पितॄणां तीर्थमुत्तमम् ॥
कनिष्ठामूलतः पश्चात् प्राजापत्यं प्रचक्षते ॥ १३.१६॥
अङ्गुल्यग्रे स्मृतं दैवं तद्देवार्थं प्रकीर्त्तितः ।
मूले वा दैवमादिष्टं ग्नेयं मध्यतः स्मृतम् ॥ १३.१७॥
तदेव सौमिकं तीर्थमेतज्ज्ञात्वा न मुह्यति ।
ब्राह्मेणैव तु तीर्थेन द्विजो नित्यमुपस्पृशेत् ॥ १३.१८॥
कायेन वाऽथ दैवेन पैत्रेण न तु वै द्विजाः ।
त्रिः प्राश्नीयादपः पूर्वं ब्राह्मणः प्रयतस्ततः ॥ १३.१९॥
संमृज्याङ्गुष्ठमूलेन मुखं वै समुपस्पृशेत् ॥
अङ्गुष्ठानामिकाभ्यां तु स्पृशेन्नेत्रद्वयं ततः ॥ १३.२०॥
तर्जन्यङ्गुष्ठयोगेन स्पृशेन्नासापृटद्वयम् ॥
कनिष्ठाङ्गुष्ठयोगेन श्रवणे समुपस्पृशेत् ॥ १३.२१॥
सर्वासामथ योगेन हृदयं तु तलेन वा ।
स्पृशेद्वै शिरसस्तद्वदङ्गुष्ठेनाथवा द्वयम् ॥ १३.२२
त्रिः प्राश्नीयाद् यदम्भस्तु सुप्रीतास्तेन देवताः ।
ब्रह्मा विष्णुर्महेशश्च भवन्तीत्यनुशुश्रुमः ॥ १३.२३
गङ्गा च यमुना चैव प्रीयेते परिमार्जनात् ।
संस्पृष्टयोर्लोचनयोः प्रीयेते शशिभास्करौ ॥ १३.२४
नासत्यदस्रौ प्रीयेते स्पृष्टे नासापुटद्वये ।
श्रोत्रयोः स्पृष्टयोस्तद्वत् प्रीयेते चानिलानलौ ॥ १३.२५
संस्पृष्टे हृदये चास्य प्रीयन्ते सर्वदेवताः ।
मूर्ध्नि संस्पर्शनादेव प्रीतः स पुरुषो भवेत् ॥ १३.२६
नोच्छिष्टं कुर्वते नित्यं विप्रुषोऽङ्गं नयन्ति याः ।
दन्तान्तर्दन्तलग्नेषु जिह्वोष्टैऱशुचिर्भवेत् ॥ १३.२७
स्पृशान्ति बिन्दवः पादौ य आचामयतः परान् ।
भूमिकास्ते समा ज्ञेया न तैरप्रयतो भवेत् ॥ १३.२८
मदुपर्के च सोमे च ताम्बूलस्य च भक्षणे ।
फलमूलेक्षुदण्डे न दोषं प्राह वे मनुः ॥ १३.२९
प्रचरान्नोदपानेषु द्रव्यहस्तो भवेन्नरः ।
भूमौ निक्षिप्य तद् द्रव्यमाचम्याभ्युक्षयेत् तु तत् ॥ १३.३०
तैजसं वै समादाय यद्युच्छिष्टो भवेद् द्विजः ।
भूमौ निक्षिप्य तद् द्रव्यमाचम्याभ्युक्षयेत् तु तत् ॥ १३.३१
यद्यमन्त्रं समादाय भवेदुच्छेषणान्वितः ।
अनिधायैव तद् द्रव्यमाचान्तः शुचितामियात् ॥ १३.३२
वस्रादिषु विकल्पः स्यात् तत्संस्पृष्ट्वाचमेदिह ।
अरण्येऽनुदके रात्रौ चौरव्याघ्राकुले पथि ॥ १३.३३॥
कृत्वा मूत्रं पुरीषं वा द्रव्यहस्तो न दुष्यति ।
निधाय दक्षिणे कर्णे ब्रह्मसूत्रमुदङ्मुखः ॥ १३.३४॥
अह्नि कुर्याच्छकृन्मूत्रं रात्रौ चेद् दक्षिणामुखः ॥
अन्तर्धाय महीं काष्ठैः पत्रैर्लोष्ठतृणेन वा ॥ १३.३५॥
प्रावृत्य च शिरः कुर्याद् विण्मूत्रस्य विसर्जनम् ।
छायाकूपनदीगोष्ठचैत्याम्भः पथि भस्मसु ॥ १३.३६॥
अग्नौ चैव श्मशाने च विण्मूत्रे न समाचरेत् ॥
न गोमये न कृष्टे वा महावृक्षे न शाड्वले ॥ १३.३७॥
न तिष्ठन् वा न निर्वासा न च पर्वतमस्तके ।
न जीर्णदेवायतने न वल्मीके कदाचन ॥ १३,३८॥
न ससत्त्वेषु गर्तेषु न गच्छन् वा समाचरेत् ॥
तुषाङ्गारकपालेषु राजमार्गे तथैव च ॥ १३.३९॥
न क्षेत्रे न विमले वाऽपि न तीर्थे न चतुष्पथे ।
नोद्याने न समीपे वा नोषरे न पराशुचौ ॥ १३.४०॥
न सोपानत्पादुको वा छत्री वा नान्तरिक्षके ॥
न चैवाभिमुखे स्त्रीणां गुरुब्राह्मणयोर्गवाम् ॥ १३.४१॥
न देवदेवालययोरपामपि कदाचन ॥
नदीं ज्योतींषि वीक्षित्वा न वार्यभिमुखोऽथवा ॥ १३.४२॥
प्रत्यादित्यं प्रत्यनलं प्रतिसोमं तथैव च ॥
आहृत्य मृत्तिकां कूलाल्लेपगन्धापकर्षणात् ॥ १३.४३॥
कुर्यादतन्द्रितः शौचं विशुद्धैरुद्धृतोदकैः ॥
नाहरेन्मृत्तिकां विप्रः पांशुलान्न च कर्दमान् ॥ १३.४४॥
न मार्गान्नोषराद् देशाच्छौचोच्छिष्टात्तथैव च ।
न देवायतनात् कूपाद् ग्रामान्न च जलात् तथा ॥ १३.४५॥
उपस्पृशेत् ततो नित्यं पूर्वोक्तेन विधानतः ॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
त्रयोदशोऽध्यायः ॥१३॥
कूर्मपुराणए उत्तरभागे त्रयोदशोऽध्यायः
व्यास उवाच ।
एवं दण्डादिभिर्युक्तः शौचाचारसमन्वितः ।
आहूतोऽध्ययनं कुर्याद् वीक्षमाणो गुरोर्मुखम् ॥ १४.१॥
नित्यमुद्यतपाणिः स्यात् सन्ध्याचारः समन्वितः ।
आस्यतामिति चोक्तः सन्नासीताभिमुखं गुरोः ॥ १४.२॥
प्रतिश्रवणसंभाषे शयानो न समाचरेत् ।
नासीनो न च भुञ्जानो न तिष्ठन्न पराङ्मुखः ॥ १४.३॥
नच शय्यासनं चास्य सर्वदा गुरुसन्निधौ ।
गुरोस्तु चक्षुर्विषये न यथेष्टासनो भवेत् ॥ १४.४॥
नोदाहरेदस्य नाम परोक्षमपि केवलम् ।
न चैवास्यानुकुर्वीत गतिभाषितचेष्टितम् ॥ १४.५॥
गुरोर्यत्र प्रतीवादो निन्दा चापि प्रवर्त्तते ।
कर्णौं तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥ १४.६॥
दूरस्थो नार्चयेदेनं न क्रुद्धो नान्तिके स्त्रियाः ।
न चैवास्योत्तरं ब्रूयात् स्थिते नासीत सन्निधौ ॥ १४.७॥
उदकुम्भं कुशान् पुष्पं समिधोऽस्याहरेत् सदा ।
मार्जनं लेपनं नित्यमङ्गानां वै समाचरेत् ॥ १४.८॥
नास्य निर्माल्यशयनं पादुकोपानहावपि ।
आक्रमेदासनं चास्य छायादीन् वा कदाचन ॥ १४.९॥
साधयेद् दन्तकाष्ठादीन् लब्धं चास्मै निवेदयेत् ।
अनापृच्छ्य न गन्तव्यं भवेत् प्रियहिते रतः ॥ १४.१०॥
न पादौ सारयेदस्य संनिधाने कदाचन ।
जृम्भाहारस्यादिकञ्चैव कण्ठप्रावरणं तथा ॥ १४.११॥
वर्जयेत् सन्निधौ नित्यमवस्फोचनमेव च ।
यथाकालमधीयीत यावन्न विमना गुरुः ॥ १४.१२॥
आसीताधो गुरोर्गच्छेत् फलके वा समाहितः ।
आसने शयने याने नैव तिष्ठेत् कदाचन ॥ १४.१३॥
धावन्तमनुधावेत्तं गच्छन्तमनुगच्छति ।
गोऽश्वोष्ट्रयानप्रासादप्रस्तरेषु कटेषु च ॥ १४.१४॥
नासीत गुरुणा सार्द्धं शिलाफलकनौषु च ।
जितेन्द्रियः स्यात् सततं वश्यात्माऽक्रोधनः शुचिः ॥ १४.१५॥
प्रयुञ्जीत सदा वाचं मधुरां हितभाषिणीम् ।
गन्धमाल्यं रसं भव्यं शुक्लं प्राणिविहिंसनम् ॥ १४.१६॥
अभ्यङ्गं चाञ्जनोपानच्छत्रधारणमेव च ।
कामं लोभं भयं निद्रां गीतवादित्रनर्त्तनम् ॥ १४.१७॥
आतज्र्जनं परीवादं स्त्रीप्रेक्षालम्भनं तथा ।
परोपघातं पैशुन्यं प्रयत्नेन विवर्जयेत् ॥ १४.१८॥
उदकुम्भं सुमनसो गोशकृन्मृत्तिकां कुशान् ।
आहरेद् यावदर्थानि भैक्ष्यं चाहरहश्चरेत् ॥ १४.१९॥
कृतं च लवणं सर्वं वर्ज्यं पर्युषितं च यत् ।
अनृत्यदर्शी सततं भवेद् गीतादिनिःस्पृहः ॥ १४.२०॥
नादित्यं वै समीक्षेत न चरेद् दन्तधावनम् ।
एकान्तमशुचिस्त्रीभिः शूद्रान्त्यैरभिभाषणम् ॥ १४.२१॥
गुरूच्छिष्टं भेषजार्थं प्रयुञ्जीत न कामतः ।
कलापकर्षणस्नानं आचरेद्धि कदाचन ॥ १४.२२॥
न कुर्यान्मानसं विप्रो गुरोस्त्यागं कदाचन ।
मोहाद्वा यदि वा लोभात् त्यक्तेन पतितो भवेत् ॥ १४.२३॥
लौकिकं वैदिकं चापि तथाध्यात्मिकमेव च ।
आददीत यतो ज्ञानं न तं द्रुह्येत् कदाचन ॥ १४.२४॥
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
उत्पथंप्रतिपन्नस्य मनुस्त्यागं समब्रवीत् ॥ १४.२५॥
गुरोर्गुरौ सन्निहिते गुरुवद् भक्तिमाचरेत् ।
न चातिसृष्टो गुरुणा स्वान् गुरूनभिवादयेत् ॥ १४.२६॥
विद्यागुरुष्वेतदेव नित्या वृत्तिः स्वयोनिषु ।
प्रतिषेधत्सु चाधर्माद्धितं चोपदिशत्स्वपि ॥ १४.२७॥
श्रेयत्सु गुरुवद् वृत्तिं नित्यमेव समाचरेत् ।
गुरुपुत्रेषु दारेषु गुरोश्चैव स्वबन्धुषु ॥ १४.२८॥
बालः संमानयन्मान्यान् वा शिष्यो वा यज्ञकर्मणि ।
अध्यापयन् गुरुसुतो गुरुवन्मानमर्हति ॥ १४.२९॥
उत्सादनं वै गात्राणां स्नापनोच्छिष्टभोजने ।
न कुर्याद् गुरुपुत्रस्य पादयोः शौचमेव च ॥ १४.३०॥
गुरुवत् परिपूज्यास्तु सवर्णा गुरुयोषितः ।
असवर्णास्तु सम्पूज्याः प्रत्युत्थानाभिवादनैः ॥ १४.३१॥
अभ्यञ्जनं स्नापनं च गात्रोत्सादनमेव च ।
गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम् ॥ १४.३२॥
गुरुपत्नी तु युवती नाभिवाद्येह पादयोः ।
कुर्वीत वन्दनं भूम्यामसावहमिति ब्रुवन् ॥ १४.३३॥
विप्रोष्य पादग्रहणमन्वहं चाभिवादनम् ।
गुरुदारेषु कुर्वोत सतां धर्ममनुस्मरन् ॥ १४.३४॥
मातृष्वसा मातुलानी श्वश्रूश्चाथ पितृष्वसा ।
सम्पूज्या गुरुपत्नीच समस्ता गुरुभार्यया ॥ १४.३५॥
भ्रातुर्भार्याचसंग्रृह्या सवर्णाऽहन्यहन्यपि ।
विप्रोष्य तूपसंग्राह्या ज्ञातिसंबन्धियोषितः ॥ १४.३६॥
पितुर्भगिन्या मातुश्च ज्यायस्यां च स्वसर्यपि ।
मातृवद् वृत्तिमातिष्ठेन्मात् ताभ्यो गरीयसी ॥ १४.३७॥
एवमाचारसम्पन्नमात्मवन्तमदाम्भिकम् ।
वेदमध्यापयेद् धर्मं पुराणाङ्गानि नित्यशः ॥ १४.३८॥
संवत्सरोषिते शिष्ये गुरुर्ज्ञानमनिर्दिशन् ।
हरते दुष्कृतं तस्य शिष्यस्य वसतो गुरुः ॥ १४.३९॥
आचार्यपुत्रः शुश्रूषुर्ज्ञानदो धार्मिकः शुचिः ।
शक्तोऽन्नदोऽर्थदो साधुः स्वाध्याय्या देश धर्मतः ॥ १४.४०॥
कृतज्ञश्च तथाऽद्रोही मेधावी शुभकृन्नरः ।
आप्तः प्रियोऽथ विधिवत् षडध्याप्या द्विजातयः ॥ १४.४१॥
एतेषु ब्रह्मणो दानमन्यत्र तु यथोदितान् ।
आचम्य संयतो नित्यमधीयीत उदङ्मुखः ॥ १४.४२॥
उपसंगृह्य तत्पादौ वीक्षमाणो गुरोर्मुखम् ।
अधीष्व भो इति ब्रूयाद् विरामोऽस्त्विति नारभेत् ॥ १४.४३॥
प्राक्कूलान् पर्युपासीनः पवित्रैश्चैव पावितः ।
प्राणायामैस्त्रिभिः पूतस्तत ओङ्कारमर्हति ॥ १४.४४॥
ब्राह्मणः प्रणवं कुर्यादन्ते च विधिवद् द्विजः ।
कुर्यादध्ययनं नित्यं ब्रह्माञ्जलिकरस्थितः ॥ १४.४५॥
सर्वेषामेव भूतानां वेदश्चक्षुः सनातनम् ।
अधीयीताप्ययं नित्यं ब्राह्मण्याच्च्यवतेऽन्यथा ॥ १४.४६॥
योऽधीयीत ऋचो नित्यं क्षीराहुत्या स देवताः ।
प्रीणाति तर्पयन्त्येनं कामैस्तृप्ताः सदैव हि ॥ १४.४७॥
यजूंष्यधीते नियतं दध्ना प्रीणाति देवताः ।
सामान्यधीते प्रीणाति घृताहुतिभिरन्वहम् ॥ १४.४८॥
अथर्वाङ्गिरसो नित्यं मध्वा प्रीणाति देवताः ।
धर्माङ्गानि पुराणानि मांसैस्तर्पयेत्सुरान् ॥ १४.३९॥
अपां समीपे नियतो नैत्यिकं विधिमाश्रितः ।
गायत्रीमप्यधीयीत गत्वाऽरण्यं समाहितः ॥ १४.५०॥
सहस्रपरमां देवीं शतमध्यां दशावराम् ।
गायत्रीं वै जपेन्नित्यं जपयज्ञः प्रकीर्त्तितः ॥ १४.५१॥
गायत्रीं चैव वेदांस्तु तुलयाऽतोलयत् प्रभुः ।
एकतश्चतुरो वेदान् गायत्रीं च तथैकतः ॥ १४.५२॥
ओंकारमादितः कृत्वा व्याहृतीस्तदनन्तरम् ।
ततोऽधीयीत सावित्रीमेकाग्रः श्रद्धयान्वितः ॥ १४.५३॥
पुराकल्पे समुत्पन्ना भूर्भुवःस्वः सनातनाः ॥ १४.५४॥
महाव्याहृतयस्तिस्त्रः सर्वाशुभनिबर्हणाः ॥ १४.५५॥
प्रधानं पुरुषः कालो विष्णुर्ब्रह्मा महेश्वरः ।
सत्त्वं रजस्तमस्तिस्त्रः क्रमाद् व्याहृतयः स्मृताः ॥ १४.५६॥
ओंकारस्तत् परं ब्रह्म सावित्री स्यात् तदक्षरम् ।
एष मन्त्रो महायोगः सारात् सार उदाहृतः ॥ १४.५७॥
योऽधीतेऽहन्यहन्येतां गायत्रीं वेदमातरम् ।
विज्ञायार्थं ब्रह्मचारी स याति परमां गतिम् ॥ १४.५८॥
गायत्री वेदजननी गायत्री लोकपावनी ।
न गायत्र्याः परं जप्यमेतद् विज्ञाय मुच्यते ॥ १४.५९॥
श्रावणस्य तु मासस्य पौर्णमास्यां द्विजोत्तमाः ।
आषाढ्यां प्रोष्ठपद्यां वा वेदोपाकरणं स्मृतम् ॥ १४.६०॥
उत्सृज्य ग्रामनगरं मासान् विप्रोऽर्द्धपञ्चमान् ।
अधीयीत शुचौ देशे ब्रह्मचारी समाहितः ॥ १४.६१॥
पुष्ये तु छन्दसां कुर्याद् बहिरुत्सर्जनं द्विजाः ।
माघशुक्लस्य वा प्राप्ते पूर्वाह्णे प्रथमेऽहनि ॥ १४.६२॥
छन्दांस्यूर्ध्वमथोभ्यस्येच्छुक्लपक्षेषु वै द्विजः ।
वेदाङ्गानि पुराणानि कृष्णपक्षे च मानवः ॥ १४.६३॥
इमान् नित्यमनध्यायानदीयानो विवर्जयेत् ।
अध्यापनं च कुर्वाणो ह्यनध्यायन्विवर्जयेत् ॥ १४.६४॥
कर्णश्रवेऽनिले रात्रौ दिवा पांशुसमूहने ।
विद्युत्स्तनितवर्षेषु महोल्कानां च सम्प्लवे ॥ १४.६५॥
आकालिकमनध्यायमेतेष्वाह प्रजापतिः ।
एतानभ्युदितान् विद्याद् यदा प्रादुष्कृताग्निषु ।
तदा विद्यादनध्यायमनृतौ चाभ्रदर्शने ।
निर्घाते भूमिचलने ज्योतिषां चोपसर्जने ॥ १४.६६॥
एतानाकालिकान् विद्यादनध्यायानृतावपि ।
प्रादुष्कृतेष्वग्निषु तु विद्युत्स्तनितनिस्वने ॥ १४.६७॥
सज्योतिः स्यादनध्यायमनृतौ चात्रदर्शने ।
नित्यानध्याय एव स्याद् ग्रामेषु नगरेषु च ॥ १४.६८॥
धर्मनैपुण्यकामानां पूतिगन्धे च नित्यशः ।
अन्तः शवगते ग्रामे वृषलस्य च सन्निधौ ॥ १४.६९॥
अनध्यायो रुद्यमाने समवाये जनस्य च ।
उदके मध्यरात्रे च विण्मूत्रे च विसर्जने ॥ १४.७०॥
उच्छिष्टः श्राद्धबुक् चैव मनसाऽपि न चिन्तयेत् ।
प्रतिगृह्य द्विजो विद्वानेकोदिष्टस्य केतनम् ॥ १४.७१॥
त्र्यहं न कीर्त्तयेद् ब्रह्म राज्ञो राहोश्च सूतके ।
यावदेकोऽनुदिष्टस्य स्नेहो गन्धश्च तिष्ठति ॥ १४.७२॥
विप्रस्य विदुषो देहे तावद् ब्रह्म न कीर्त्तयेत् ।
शयानः प्रौढपादश्च कृत्वा चैचावसिक्थकाम् ॥ १४.७३॥
नाधीयीतामिषं जग्ध्वा सूतकाद्यन्नमेव च ।
नीहारे बाणपाते च संध्ययोरुभयोरपि ॥ १४.७४॥
अमावास्यां चतुर्दश्यां पौर्णमास्यष्टमीषु च ।
उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षपणं स्मृतम् ॥ १४.७५॥
अष्टकासु त्र्यहोरात्रं ऋत्वन्तासु च रात्रिषु ।
मार्गशीर्षे तथा पौषे माघमासे तथैव च ॥ १४.७६॥
तिस्रोऽष्टकाः समाख्याता कृष्णपक्षेतु सूरिभिः ।
श्लेष्मातकस्य छायायां शाल्मलेर्मधुकस्य च ॥ १४.७७॥
कदाचिदपि नाध्येयं कोविदारकपित्थयोः ।
समानविद्ये च मृते तथा सब्रह्मचारिणि ॥ १४.७८॥
आचार्ये संस्थिते वाऽपि त्रिरात्रं क्षपणं स्मृतम् ।
छिद्राण्येतानि विप्राणांयेऽनध्यायाः प्रकीर्तिताः ॥ १४.७९॥
हिंसन्ति राक्षसास्तेषु तस्मादेतान् विवर्जयेत् ।
नैत्यके नास्त्यनध्यायः संध्योपासन एव च ॥ १४.८०॥
उपाकर्मणि कर्मान्ते होममन्त्रेषु चैव हि ।
एकामृचमथैकं वा यजुः सामाथवा पुनः ॥ १४.८१॥
अष्टकाद्यास्वधीयीत मारुते चातिवायति ।
अनध्यायस्तु नाङ्गेषु नेतिहासपुराणयोः ॥ १४.८२॥
न धर्मशास्त्रेष्वन्येषु पर्वाण्येतानि वर्जयेत् ।
एष धर्मः समासेन कीर्त्तितो ब्रह्मचारिणाम् ॥ १४.८३॥
ब्रह्मणाऽभिहितः पूर्वमृषीणां भावितात्मनाम् ।
योऽन्यत्र कुरुते यत्नमनधीत्य श्रुतिं द्विजाः ॥ १४.८४॥
स संमूढो न संभाष्यो वेदबाह्यो द्विजातिभिः ।
न वेदपाठमात्रेण संतुष्टो वै भवेद् द्विजः ॥ १४.८५॥
पाठमात्रावसन्नस्तु पङ्के गौरिव सीदति ।
योऽधीत्य विधिवद् वेदं वेदार्थं न विचारयेत् ॥ १४.८६॥
स चान्धः शूद्रकल्पस्तु पदार्थं न प्रपद्यते ।
यदि त्वात्यन्तिकं वासं कर्त्तुमिच्छति वै गुरौ ॥ १४.८७॥
युक्तः परिचरेदेनमाशरीरविमोक्षणात् ।
गत्वा वनं वा विधिवज्जुहुयाज्जातवेदसम् ॥ १४.८८॥
अभ्यसेत्स तदा नित्यं ब्रह्मनिष्ठः समाहितः
सावित्रीं शतरुद्रीयं वेदान्तांश्च विशेषतः ।
अभ्यसेत् सततं युक्ते भस्मस्नानपरायणः ॥ १४.८९॥
एतद् विधानं परमं पुराणं
वेदागमे सम्यगिहेरितञ्च ।
पुरा महर्षिप्रवरानुपृष्टः
स्वायंभुवो यन्मनुराह देवः ॥ १४.९०॥
एवमीश्वरसमर्पितान्तरो
योऽनुतिष्ठति विधिं विधानवित् ।
मोहजालमपहाय सोऽमृतो
याति तत् पदमनामयं शिवम् ॥ १४.९१॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
चतुर्दशोऽध्यायः ॥१४॥
कूर्मपुराणए उत्तरभागे पञ्चदशोऽध्यायः
व्यास उवाच ।
वेदं वेदौ तथा वेदान् विन्द्याद्वा चतुरो द्विजाः ।
अधीत्य चाभिगम्यार्थं ततः स्नायाद् द्विजोत्तमाः ॥ १५.१॥
गुरवे तु धनं दत्त्वा स्नायीत तदनुज्ञया ।
चीर्णव्रतोऽथ युक्तात्मा सशक्तः स्नातुमर्हति ॥ १५.२॥
वैणवीं धारयेद् यष्टिमन्तर्वासस्तथोत्तरम् ।
यज्ञोपवीतद्वितयं सोदकं च कमण्डलुम् ॥ १५.३॥
छत्रं चोष्णीषममलं पादुके चाप्युपानहौ ।
रौक्मे च कुण्डले वेदं कृत्तकेशनखः शुचिः ॥ १५.४॥
स्वाध्याये नित्ययुक्तः स्याद् बहिर्माल्यं न धारयेत् ।
अन्यत्रकाञ्चनाद् विप्रः नरक्तां बिभृयात् स्त्रजम् ॥ १५.५॥
शुक्लाम्बरधरो नित्यं सुगन्धः प्रियदर्शनः ।
न जीर्णमलवद्वासा भवेद् वै वैभवे सति ॥ १५.६॥
न रक्तमुल्बणं चान्यधृतं वासो न कुण्डिकाम् ।
नोपानहौ स्त्रजं चाथ पादुके न प्रयोजयेत् ॥ १५.७॥
उपवीतकरान् दर्भान् तथा कृष्णाजिनानि च ।
नापसव्यं परीदध्याद् वासो न विकृतंञ्च यत् ॥ १५.८॥
आहरेद् विधिवद् दारान् सदृशानात्मनः शुभान् ।
रूपलक्षणसंयुक्तान् योनिदोषविवर्जितान् ॥ १५.९॥
अमातृगोत्रप्रभवामसमानर्षिगोत्रजाम् ।
आहरेद् ब्राह्मणो भार्यां शीलशौचसमन्विताम् ॥ १५.१०॥
ऋतुकालाभिगामी स्याद् यावत् पुत्रोऽभिजायते ।
वर्जयेत् प्रतिषिद्धानि प्रयत्नेन दिनानि तु ॥ १५.११॥
षष्ट्यष्टमीं पञ्चदशीं द्वादशीं च चतुर्दशीम् ।
ब्रह्मचारी भवेन्नित्यं तद्वज्जन्मत्रयाहनि ॥ १५.१२॥
आदधीतावसथ्याग्निं जुहुयाज्जातवेदसम् ।
व्रतानि स्नातको नित्यं पावनानि च पालयेत् ॥ १५.१३॥
वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः ।
अकुर्वाणः पतत्याशु नरकानतिभीषणान् ॥ १५.१४॥
अभ्यसेत् प्रयतो वेदं महायज्ञांश्च भावयेत् ।
कुर्याद् गृह्याणि कर्माणि संध्योपासनमेव च ॥ १५.१५॥
सख्यं समाधिकैः कुर्यादुपेयादीश्वरं सदा ।
दैवतान्यपि गच्छेत कुर्याद् भार्याभिपोषणम् ॥ १५.१६॥
न धर्मं ख्यापयेद् विद्वान् न पापं गूहयेदपि ।
कुर्वीतात्महितं नित्यं सर्वभूतानुकम्पनम् ॥ १५.१७॥
वयसः कर्मणोऽर्थस्य श्रुतस्याभिजनस्य च ।
वेषवाग्बुद्धिसारूप्यमाचरन् विचरेत् सदा ॥ १५.१८॥
श्रुतिस्मृत्युदितः सम्यक् साधुभिर्यश्च सेवितः ।
तमाचारं निषेवेत नेहेतान्यत्र कर्हिचित् ॥ १५.१९॥
येनास्य पितरो याता येन याताः पितामहाः ।
तेन यायात् सतां मार्गं तेन गच्छन् तरिष्यति ॥ १५.२०॥
नित्यं स्वाध्यायशीलः स्यान्नित्यं यज्ञोपवीतवान् ।
सत्यवादी जितक्रोधो ब्रह्मभूयाय कल्पते ॥ १५.२१॥
संध्यास्नानपरो नित्यं ब्रह्मयज्ञुपरायणः ।
अनसूयी मृदुर्दान्तो गृहस्थः प्रेत्य वर्द्धते ॥ १५.२२॥
वीतरागभयक्रोधो लोभमोहविवर्जितः ।
सावित्रीजापनिरतः श्राद्धकृन्मुच्यते गृही ॥ १५.२३॥
मातापित्रोर्हिते युक्तो गोब्राह्मणहिते रतः ।
दान्तो यज्वा देवभक्तो ब्रह्मलोके महीयते ॥ १५.२४॥
त्रिवर्गसेवी सततं देवतानां च पूजनम् ।
कुर्यादहरहर्नित्यं नमस्येत् प्रयतः सुरान् ॥ १५.२५॥
विभागशीलः सततं क्षमायुक्तो दयालुकः ।
गृहस्थस्तु समाख्यातो न गृहेण गृही भवेत् ॥ १५.२६॥
क्षमा दया च विज्ञानं सत्यं चैव दमः शमः ।
अध्यात्मनिरत ज्ञानमेतद् ब्राह्मणलक्षणम् ॥ १५.२७॥
एतस्मान्न प्रमाद्येत विशेषेण द्विजोत्तमः ।
यथाशक्ति चरेत् कर्म निन्दितानि विवर्जयेत् ॥ १५.२८॥
विधूय मोहकलिलं लब्ध्वा योगमनुत्तमम् ।
गृहस्थो मुच्यते बन्धात् नात्र कार्या विचारणा ॥ १५.२९॥
विगर्हातिक्रमाक्षेपहिंसाबन्धवधात्मनाम् ।
अन्यमन्युसमुत्थानां दोषाणां मर्षणं क्षमा ॥ १५.३०॥
स्वदुःखेष्विव कारुण्यं परदुः खेषु सौहृदात् ।
दयेति मुनयः प्राहुः साक्षाद् धर्मस्य साधनम् ॥ १५.३१॥
चतुर्दशानां विद्यानां धारणं हि यथार्थतः ।
विज्ञानमिति तद् विद्याद् यत्र धर्मो विवर्द्धते ॥ १५.३२॥
अधीत्य विधिवद् विद्यामर्थं चैवोपलभ्य तु ।
धर्मकार्यान्निवृत्तश्चेन्न तद् विज्ञानमिष्यते ॥ १५.३३॥
सत्येन लोकाञ्जयति सत्यं तत्परमं पदम् ।
यथाभूतप्रवादं तु सत्यमाहुर्मनीषिणः ॥ १५.३४॥
दमः शरीरोपरमः शमः प्रज्ञाप्रसादजः ।
अध्यात्ममक्षरं विद्याद् यत्र गत्वा न शोचति ॥ १५.३५॥
यया स देवो भगवान् विद्यया वेद्यते परः ।
साक्षाद् देवो महादेवस्तज्ज्ञानमिति कीर्तितम् ॥ १५.३६॥
तन्निष्ठस्तत्परो विद्वान्नित्यमक्रोधनः शुचिः ।
महायज्ञपरो विप्रो भवेत्तदनुत्तमम् ॥ १५.३७॥
धर्मस्यायतनं यत्नाच्छरीरं परिपालयेत् ।
न हि देहं विना रुद्रः पुरुषैर्विद्यते परः ॥ १५.३८॥
नित्यधर्मार्थकामेषु युज्येत नियतो द्विजः ।
न धर्मवर्जितं काममर्थं वा मनसा स्मरेत् ॥ १५.३९॥
सीदन्नपि हि धर्मेण न त्वधर्मं समाचरेत् ।
धर्मो हि भगवान् देवो गतिः सर्वेषु जन्तुषु ॥ १५.४०॥
भूतानां प्रियकारी स्यात् न परद्रोहकर्मधीः ।
न वेददेवतानिन्दां कुर्यात् तैश्च न संवदेत् ॥ १५.४१॥
यस्त्विमं नियतं विप्रो धर्माध्यायं पठेच्छुचिः ।
अध्यापयेत् श्रावयेद् वा ब्रह्मलोके महीयते ॥ १५.४२॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
पञ्चदशोऽध्यायः ॥१५॥
कूर्मपुराणए उत्तरभागे षोडशोऽध्यायः
व्यास उवाच ।
न हिंस्यात् सर्वभूतानिनानृतं वा वदेत् क्वचित् ।
नाहितं नाप्रियं वाक्यं न स्तेनः स्याद् कदाचन ॥ १६.१॥
तृणं वा यदि वा शाकं मृदं वा जलमेव वा ।
परस्यापहरञ्जन्तुर्नरकं प्रतिपद्यते ॥ १६.२॥
न राज्ञः प्रतिगृह्णीयान्न शूद्रात्पतितादपि ।
न चान्यस्मादशक्तश्च निन्दितान् वर्जयेद् बुधः ॥ १६.३॥
नित्यं याचनको न स्यात् पुनस्तं नैव याचयेत् ।
प्राणानपहरत्येष याचकस्तस्य दुर्मतिः ॥ १६.४॥
न देवद्रव्यहारी स्याद् विशेषेण द्विजोत्तमः ।
ब्रह्मस्वं वा नापहरेदापद्यपि कदाचन ॥ १६.५॥
न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते ।
देवस्वं चापि यत्नेन सदा परिहरेत् ततः ॥ १६.६॥
पुष्पे शाकोदके काष्ठे तथा मूले फले तृणे ।
अदत्तादानमस्तेयं मनुः प्राह प्रजापतिः ॥ १६.७॥
ग्रहीतव्यानि पुष्पाणि देवार्चनविधौ द्विजाः ।
नैकस्मादेव नियतमननुज्ञाय केवलम् ॥ १६.८॥
तृणं काष्ठं फलं पुष्पं प्रकाशं वै हरेद् बुधः ।
धर्मार्थं केवलं ग्राह्यं ह्यन्यथा पतितो भवेत् ॥ १६.९॥
तिलमुद्गयवादीनां मुष्टिर्ग्राह्या पथि स्थितैः ।
क्षुधार्तैर्नान्यथा विप्रा धर्मविद्भिरिति स्थितिः ॥ १६.१०॥
न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् ।
व्रतेन पापं प्रच्छाद्य कुर्वन् स्त्रीशूद्रलम्भनम् ॥ १६.११॥
प्रेत्येह चेदृशो विप्रो गर्ह्यते ब्रह्मवादिभिः ।
छद्मनाचरितं यच्च व्रतं रक्षांसि गच्छति ॥ १६.१२॥
अलिङ्गी लिङ्गिवेषेण यो वृत्तिमुपजीवति ।
स लिङ्गिनां हरेदेनस्तिर्यग्योनौ च जायते ॥ १६.१३॥
बैडालव्रतिनः पापा लोके धर्मविनाशकाः ।
सद्यः पतन्ति पापेन कर्मणस्तस्य तत् फलम् ॥ १६.१४॥
पाखण्डिनो विकर्मस्थान् वामाचारांस्तथैव च ।
पञ्चरात्रान् पाशुपतान् वाङ्मात्रेणापि नार्चयेत् ॥ १६.१५॥
वेदनिन्दारतान् मर्त्यान् देवनिन्दारतांस्तथा ।
द्विजनिन्दारतांश्चैव मनसापि न चिन्तयेत् ॥ १६.१६॥
याजनं योनिसंबन्धं सहवासं च भाषणम् ।
कुर्वाणः पतते जन्तुस्तस्माद् यत्नेन वर्जयेत् ॥ १६.१७॥
देवद्रोहाद् गुरुद्रोहः कोटिकोटिगुणाधिकः ।
ज्ञानापवादो नास्तिक्यं तस्मात् कोटिगुणाधिकम् ॥ १६.१८॥
गोभिश्च दैवतैर्विप्रैः कृष्या राजोपसेवया ।
कुलान्यकुलतां यान्ति यानि हीनानि धर्मतः ॥ १६.१९॥
कुविवाहैः क्रियालोपैर्वेदानध्ययनेन च ।
कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ १६.२०॥
अनृतात् पारदार्याच्च तथाऽभक्ष्यस्य भक्षणात् ।
अश्रौतधर्माचरणात् क्षिप्रं नश्यति वै कुलम् ॥ १६.२१॥
अश्रोत्रियेषु वै दानाद् वृषलेषु तथैव च ।
विहिताचारहीनेषु क्षिप्रं नश्यति वै कुलम् ॥ १६.२२॥
नाधार्मिकैर्वृते ग्रामे न व्याधिबहुले भृशम् ।
न शूद्रराज्ये निवसेन्न पाखण्डजनैर्वृते ॥ १६.२३॥
हिमवद्विन्ध्ययोर्मध्ये पूर्वपश्चिमयोः शुभम् ।
मुक्त्वा समुद्रयोर्देशं नान्यत्र निवसेद् द्विजः ॥ १६.२४॥
कृष्णो वा यत्र चरति मृगो नित्यं स्वभावतः ।
पुण्याश्च विश्रुता नद्यस्तत्र वा निवसेद् द्विजः ॥ १६.२५॥
अर्द्धक्रोशान्नदीकूलं वर्जयित्वा द्विजोत्तमः ।
नान्यत्र निवसेत् पुण्यां नान्त्यजग्रामसन्निधौ ॥ १६.२६॥
न संवसेच्च पतितैर्न चण्डालैर्न पुक्कसैः ।
न मूर्खैर्नावलिप्तैश्च नान्त्यैर्नान्त्यावसायिभिः ॥ १६.२७॥
एकशय्यासनं पङ्क्तिर्भाण्डपक्वान्नमिश्रणम् ।
याजनाध्यापनं योनिस्तथैव सहभोजनम् ॥ १६.२८॥
सहाध्यायस्तु दशमः सहयाजनमेव च ।
एकादश समुद्दिष्टा दोषाः साङ्कर्यसंज्ञिताः ॥ १६.२९॥
समीपे वा व्यवस्थानात् पापं संक्रमते नृणाम् ।
तस्मात् सर्वप्रयत्नेन साङ्कर्यं परिवर्जयेत् ॥ १६.३०॥
एकपङ्क्त्युपविष्टा ये न स्पृशन्ति परस्परम् ।
भस्मना कृतमर्यादा न तेषां संकरो भवेत् ॥ १६.३१॥
अग्निना भस्मना चैव सलिलेन विशेषतः ।
द्वारेण स्तम्भमार्गेण षड्भिः पङ्क्तिर्विभिद्यते ॥ १६.३२॥
न कुर्याच्छुष्कवैराणि विवादं च न पैशुनम् ।
परक्षेत्रे गां चरन्तीं न चाचक्षति कस्यचित् ॥ १६.३३॥
न संवसेत् सूतकिना न कञ्चिन्मर्मणि स्पृशेत् ।
न सूर्यपरिवेषं वा नेन्द्रचापं शवाग्निकम् ॥ १६.३४॥
परस्मै कथयेद् विद्वान् शशिनं वा कदाचन ।
न कुर्याद् बहुभिः सार्द्धं विरोधं बन्धुभिस्तया ॥ १६.३५॥
आत्मनः प्रतिकूलानि परेषां न समाचरेत् ।
तिथिं पक्षस्य न ब्रूयात् नक्षत्राणि विनिर्दिशेत् ॥ १६.३६॥
नोदक्यामभिभाषेत नाशुचिं वा द्विजोत्तमः ।
न देवगुरुविप्राणां दीयमानं तु वारयेत् ॥ १६.३७॥
न चात्मानं प्रशंसेद् वा परनिन्दां च वर्जयेत् ।
वेदनिन्दां देवनिन्दां प्रयत्नेन विवर्जयेत् ॥ १६.३८॥
यस्तु देवानृषीन् विप्रान्वेदान् वा निन्दति द्विजः ।
न तस्य निष्कृतिर्दृष्टा शास्त्रेष्विह मुनीश्वराः ॥ १६.३९॥
निन्दयेद् वै गुरुं देवं वेदं वा सोपबृंहणम् ।
कल्पकोटिशतं साग्रं रौरवे पच्यते नरः ॥ १६.४०॥
तूष्णीमासीत निन्दायां न ब्रूयात् किंचिदुत्तरम् ।
कर्णौ पिधाय गन्तव्यं न चैतानवलोकयेत् ॥ १६.४१॥
वर्जयेद् वै रहस्यञ्च परेषां गूहयेद् बुधः ।
विवादं स्वजनैः सार्द्धं न कुर्याद् वै कदाचन ॥ १६.४२॥
न पापं पापिनां ब्रूयादपापं वा द्विजोत्तमाः ।
स तेन तुल्यदोषः स्यान्मिथ्या द्दोषवान् भवेत् ॥ १६.४३॥
यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि रोदनात् ।
तानिपुत्रान् पशून् घ्नन्ति तेषां मिथ्याभिशंसिनाम् ॥ १६.४४॥
ब्रिह्महत्यासुरापाने स्तेयगुर्वङ्गनागमे ।
दृष्टं विशोधनं वृद्धैर्नास्ति मिथ्याभिशंसने ॥ १६.४५॥
नेक्षेतोद्यन्तमादित्यं शशिनं चानिमित्ततः ।
नास्तं यान्तं न वारिस्थं नोपसृष्टं न मघ्यगम् ॥ १६.४६॥
तिरोहितं वाससा वा नादर्शान्तरगामिनम् ।
न नग्नां स्त्रियमीक्षेत पुरुषं वा कदाचन ॥ १६.४७॥
न च मूत्रं पुरीषं वा न च संस्पृष्टमैथुनम् ।
नाशुचिः सूर्यसोमादीन् ग्रहानालोकयेद् बुधः ॥ १६.४८॥
पतितव्यङ्गचण्डालानुच्छिष्टान् नावलोकयेत् ।
नाभिभाषेत च परमुच्छिष्टो वाऽवगुण्ठितः ॥ १६.४९॥
न स्पृशेत् प्रेतसंस्पर्शं न क्रुद्धस्य गुरोर्मुखम् ।
न तैलोदकयोश्छायां न पत्नीं भोजने सति ।
नामुक्तबन्धनाङ्गां वा नोन्मत्तं मत्तमेव वा ॥ १६.५०॥
नाश्नीयात् भार्यया सार्द्धंनैनामीक्षेत चाशुचिम् ।
क्षुवन्तीं जृम्भमाणां वा नासनस्थां यथासुखम् ॥ १६.५१॥
नोदके चात्मनो रूपं न कूलं श्वभ्रमेव वा ।
न लङ्घयेच्च मूत्रं वा नाधितिष्ठेत् कदाचन ॥ १६.५२॥
न शूद्राय मतिं दद्यात् कृशरं पायसं दधि ।
नोच्छिष्टं वा मधु घृतं न च कृष्णाजिनं हविः ॥ १६.५३॥
न चैवास्मै व्रतं दद्यान्न च धर्मं वदेद् बुधः ।
न च क्रोधवशं गच्छेद् द्वेषं रागं च वर्जयेत् ॥ १६.५४॥
लोभं दम्भं तथा यत्नादसूयां विज्ञानकुत्सनम् ।
मानं मोहं तथा क्रोधं द्वेषञ्च परिवर्जयेत् ॥ १६.५५॥
न कुर्यात् कस्यचित् पीडां सुतं शिष्यं च ताडयेत् ।
न हीनानुपसेवेत न च तीक्ष्णमतीन् क्वचित् ॥ १६.५६॥
नात्मानं चावमन्येत दैन्यं यत्नेन वर्जयेत् ।
न विशिष्टानसत्कुर्य्यात् नात्मानं वा शंसयेद् बुधः ॥ १६.५७॥
न नखैर्विलिखेद् भूमिं गां च संवेशयेन्न हि ।
न नदीषु नदीं ब्रूयात् पर्वतेषु च पर्वतान् ॥ १६.५८॥
आवासे भोजने वाऽपि न त्यजेत् हसयायिनम् ।
नावगाहेदपो नग्नो वह्निं नातिव्रजेत् पदा ॥ १६.५९॥
शिरोऽभ्यङ्गावशिष्टेन तैलेनाङ्गं न लेपयेत् ।
न सर्पशस्त्रैः क्रीडेत स्वानि खानि न संस्पृशेत् ॥ १६.६०॥
रोमाणि च रहस्यानि नाशिष्टेन सह व्रजेत् ।
न पाणिपादावग्नौच चापलानि समाश्रयेत् ॥ १६.६१॥
न शिश्नोदरचापल्यं न च श्रवणयोः क्वचित् ।
न चाङ्गनखवादं वै कुर्यान्नाञ्जलिना पिबेत् ॥ १६.६२॥
नाभिहन्याज्जलं पद्भ्यां पाणिना वा कदाचन ।
न शातयेदिष्टकाभिः फलानि सफलानि च ॥ १६.६३॥
न म्लेच्छभाषां शिक्षेत नाकर्षेच्च पदासनम् ।
न भेदनमधिस्फोटं छेदनं वा विलेखनम् ॥ १६.६४॥
कुर्याद् विमर्दनं धीमान् नाकस्मादेव निष्फलम् ।
नोत्सङ्गेभक्षयेद् भक्ष्यान् वृथा चेष्टां च नाचरेत् ॥ १६.६५॥
न नृत्येदथवा गायेन्न वादित्राणि वादयेत् ।
न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः ॥ १६.६६॥
न लौकिकैः स्तवैर्देवांस्तोषयेद् बाह्यजैरपि ।
नाक्षैः क्रीडेन्न धावेत नाप्सु विण्मूत्रमाचरेत् ॥ १६.६७॥
नोच्छिष्टः संविशेन्नित्यं न नग्नः स्नानमाचरेत् ।
न गच्छेन्न पठेद् वाऽपि न चैव स्वशिरः स्पृशेत् ॥ १६.६८॥
न दन्तैर्नखरोमाणि छिन्द्यात् सुप्तं न बोधयेत् ।
न बालातपमासेवेत् प्रेतधूमं विवर्जयेत् ॥ १६.६९॥
नैकः सुप्याच्छून्यगृहे स्वयं नोपानहौ हरेत् ।
नाकारणाद् वा निष्ठीवेन्न बाहुभ्यां नदीं तरेत् ॥ १६.७०॥
न पादक्षालनं कुर्यात् पादेनैव कदाचन ।
नाग्नौ प्रतापयेत् पादौ न कांस्ये धावयेद् बुधः ॥ १६.७१॥
नातिप्रसारयेद् देवं ब्राह्मणान् गामथापि वा ।
वाय्वग्निगुरुविप्रान् वा सूर्यं वा शशिनं प्रति ॥ १६.७२॥
अशुद्धः शयनं यानं स्वाध्यायं स्नानभोजनम् ।
बहिर्निष्क्रमणं चैव न कुर्वीत कथञ्चन ॥ १६.७३॥
स्वप्नमध्ययनं स्नानमुच्चारं भोजनं गतिम् ।
उभयोः संध्ययोर्नित्यं मध्याह्ने चैव वर्जयेत् ॥ १६.७४॥
न स्पृशेत् पाणिनोच्छिष्टो विप्रोगोब्राह्मणानलान् ।
न चैवान्नं पदा वाऽपि न देवप्रतिमां स्पृशेत् ॥ १६.७५॥
नाशुद्धोऽग्निं परिचरेन्न देवान् कीर्त्तयेदृषीन् ।
नावगाहेदगाधाम्बु धारयेन्नाग्निमेकतः ॥ १६.७६॥
न वामहस्तेनोद्धत्य पिबेद् वक्त्रेण वा जलम् ।
नोत्तरेदनुपस्पृश्य नाप्सु रेतः समुत्सृजेत् ॥ १६.७७॥
अमेध्यलिप्तमन्यद् वा लोहितं वा विषाणि वा ।
व्यतिक्रमेन्न स्रवन्तीं नाप्सु मैथुनमाचरेत् ॥ १६.७८॥
चैत्यं वृक्षं न वै छिन्द्यान्नाप्सु ष्ठीवनमाचरेत् ।
नास्थिभस्मकपालानि न केशान्न च कण्टकान् ।
ओषांङ्गारकरीषं वा नाधितिष्ठेत् कदाचन ॥ १६.७९॥
न चाग्निं लङ्घयेद् धीमान् नोपदध्यादधः क्वचित् ।
न चैनं पादतः कुर्यान्मुखेन न धमेद् बुधः ॥ १६.८०॥
न कूपमवरोहेत नावेक्षेताशुचिः क्वचित् ।
अग्नौ न प्रक्षिपेदग्निं नाद्भिः प्रशमयेत् तथा ॥ १६.८१॥
सुहृन्मरणमार्तिं वा न स्वयं श्रावयेत् परान् ।
अपण्यं कूटपण्यं वा विक्रये न प्रयोजयेत् ॥ १६.८२॥
न वह्निं मुखनिश्वासैर्ज्वालयेन्नाशुचिर्बुधः ।
पुण्यस्नानोदकस्थाने सीमान्तं वा कृषेन्न तु ॥ १६.८३॥
न भिन्द्यात् पूर्वसमयमभ्युपेतं कदाचन ।
परस्परं पशून् व्यालान् पक्षिणो नावबोधयेत् ॥ १६.८४॥
परबाधां न कुर्वीत जलवातातपादिभिः ।
कारयित्वा स्वकर्माणि कारून् पश्चान्न वर्जयेत् ।
सायंप्रातर्गृहद्वारान् भिक्षार्थं नावघाटयेत् ॥ १६.८५॥
बहिर्माल्यं बहिर्गन्धं भार्यया सह भोजनम् ।
विगृह्य वादं कुद्वारप्रवेशं च विवर्जयेत् ॥ १६.८६॥
न खादन्ब्राह्मणस्तिष्ठेन्न जल्पेद् वा हसन् बुधः ।
स्वमग्निं नैव हस्तेन स्पृशेन्नाप्सु चिरं वसेत् ॥ १६.८७॥
न पक्षकेणोपधमेन्न शूर्पेण न पाणिना ।
मुखेनैव धमेदग्निं मुखादग्निरजायत ॥ १६.८८॥
परस्त्रियं न भाषेत नायाज्यं याजयेद् द्विजः ।
नैकश्चरेत् सभां विप्रः समवायं च वर्जयेत् ।
न देवायतनं गच्छेत् कदाचिद् वाऽप्रदक्षिणम् ॥ १६.८९॥
न वीजयेद् वा वस्त्रेण न देवायतने स्वपेत् ।
नैकोऽध्वानं प्रपद्येत नाधार्मिकजनैः सह ॥ १६.९०॥
न व्याधिदूषितैर्वापि न शूद्रैः पतितैर्न वा ।
नोपानद्वर्जितोऽध्वानं जलादिरहितस्तथा ॥ १६.९१॥
न रात्रौ वारिणा सार्द्धं न विना च कमण्डलुम् ।
नाग्निगोब्राह्मणादीनामन्तरेण व्रजेत् क्वचित् ॥ १६.९२॥
निवत्स्यन्तीं न वनितामतिक्रामेत् क्वचिद् द्विजः ।
न निन्देद् योगिनः सिद्धान् व्रतिनो वा यतींस्तथा ॥ १६.९३॥
देवतायतनं प्राज्ञो देवानां चैव मन्त्रिणाम् ।
नाक्रामेत् कामतश्छायां ब्राह्मणानां च गोरपि ॥ १६.९४॥
स्वां तु नाक्रमयेच्छायां पतिताद्यैर्न रोगिभिः ।
नाङ्गारभस्मकेशादिष्वधितिष्ठेत् कदाचन ॥ १६.९५॥
वर्जयेन्मार्जनीरेणुं स्नानवस्त्रघटोदकम् ।
न भक्षयेदभक्ष्याणि नापेयं चापिबेद् द्विजः ॥ १६.९६॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
षोडशोऽध्यायः ॥१६॥
कूर्मपुराणए उत्तरभागे सप्तदशोऽध्यायः
व्यास उवाच ।
नाद्याच्छूद्रस्य विप्रोऽन्नं मोहाद् वा यदि वाऽन्यतः ।
स शूद्रयोनिं व्रजति यस्तु भुङ्क्ते ह्यनापदि ॥ १७.१॥
षण्मासान् यो द्विजो भुङ्क्ते शूद्रस्यान्नं विगर्हितम् ।
जीवन्नेव भवेच्छूद्रो मृतः श्वा चाभिजायते ॥ १७.२॥
ब्राह्मणक्षत्रियविशां शूद्रस्य च मुनीश्वराः ।
यस्यान्नेनोदरस्थेन मृतस्तद्योनिमाप्नुयात् ॥ १७.३॥
राजान्नं नर्त्तकान्नं च तक्ष्णोऽन्नं कर्मकारिणः ।
गणान्नं गणिकान्नं च षण्ढान्नं चैव वर्जयेत् ॥ १७.४॥
चक्रोपजीविरजकतस्करध्वजिनां तथा ।
गान्धर्वलोहकारान्नं सूतकान्नं च वर्जयेत् ॥ १७.५॥
कुलालचित्रकर्मान्नं वार्धुषेः पतितस्य च ।
सुवर्णकारशैलूषव्याधबद्धातुरस्यच ॥ १७.६॥
सुवर्णकारशैलूषव्याधबद्धातुरस्य च ।
चिकित्सकस्य चैवान्नं पुंश्चल्या दण्डिकस्य च ।
स्तेननास्तिकयोरन्नं देवतानिन्दकस्य च ॥ १७.७॥
सोमविक्रयिणश्चान्नं श्वपाकस्य विशेषतः ॥
भार्याजितस्य चैवान्नं यस्य चोपपतिर्गृहे ॥ १७.८॥
उत्सृष्टस्य कदर्यस्य तथैवोच्छिष्टभोजिनः ।
अपाङ्क्त्यान्नं च सङ्घान्नं शस्त्रजीवस्य चैव हि ॥ १७.९॥
क्लीबसंन्यासिनोश्चान्नं मत्तोन्मत्तस्य चैव हि ।
भीतस्य रुदितस्यान्नमवक्रुष्टं परिक्षुतम् ॥ १७.१०॥
ब्रह्मद्विषः पापरुचेः श्राद्धान्नं सूतकस्य च ।
वृथापाकस्य चैवान्नं शावान्नं श्वशुरस्य च ॥ १७.११॥
अप्रजानां तु नारीणां भृतकस्य तथैव च ।
कारुकान्नं विशेषेण शस्त्रविक्रयिणस्तथा ॥ १७.१२॥
शौण्डान्नं घाटिकान्नं च भिषजामन्नमेव च ।
विद्धप्रजननस्यान्नं परिवेत्रन्नमेव च ॥ १७.१३॥
पुनर्भुवो विशेषेण तथैव दिधिषूपतेः ।
अवज्ञातं चावधूतं सरोषं विस्मयान्वितम् ॥ १७.१४॥
गुरोरपि न भोक्तव्यमन्नं संस्कारवर्जितम् ।
दुष्कृतं हि मनुष्यस्य सर्वमन्ने व्यवस्थितम् ॥ १७.१५॥
यो यस्यान्नं समश्नाति स तस्याश्नानि किल्बिषम् ।
आर्द्धिकः कुलमित्रश्च स्वगोपालश्च नापितः ॥ १७.१६॥
कुशीलवः कुम्बकारः क्षेत्रकर्मक एव च
एते शूद्रेषु भोज्यान्नं दत्वा स्वल्पं पणं बुधैः ।
पायसं स्नेहपक्वं यद् गोरसं चैव सक्तवः ॥ १७.१७॥
पिण्याकं चैव तैलं च शूद्राद् ग्राह्यं द्विजातिभिः ।
वृन्ताकं नालिकाशाकं कुसुम्भाश्मन्तकं तथा ॥ १७.१८॥
पलाण्डुं लसुनं शुक्तं निर्यासं चैव वर्जयेत् ।
छत्राकं विड्वराहं च शेळं पीयूषमेव च ॥ १७.१९॥
विलयं सुमुखं चैव कवकानि च वर्जयेत् ॥
गृञ्जनं किंशुकं चैव ककुभञ्च तथैव च ॥ १७.२०॥
उदुम्बरमलाबुं च जग्ध्वा पतति वै द्विजः ॥
वृथा कृशरसंयावं पायसापूपमेव च ॥ १७.२१॥
अनुपाकृतमांसं च देवान्नानि हवींषि च ।
यवागूं मातुलिङ्गं च मत्स्यानप्यनुपाकृतान् ॥ १७.२२॥
नीपं कपित्थं प्लक्षं च प्रयत्नेन विवर्जयेत् ॥
पिण्याकं चोद्धृतस्नेहं देवधान्य तथैव च ॥ १७.२३॥
रात्रौ च तिलसंबद्धं प्रयत्नेन दधि त्यजेत् ॥
नाश्नीयात् पयसा तक्रं न बीजान्युपजीवयेत् ॥ १७.२४॥
क्रियादुष्टं भावदुष्टमसत्संगं विवर्जयेत् ॥
केशकीटावपन्नं च सुहृल्लेखं च नित्यशः ॥ १७.२५॥
श्वाघ्रातं च पुनः सिद्धं चण्डालावेक्षितं तथा ।
उदक्यया च पतितैर्गवा चाघ्रातमेव च ॥ १७.२६॥
अनर्चितं पुर्युंषितं पर्याभ्रान्तं च नित्यशः ।
काककुक्कुटसंस्पृष्टं कृमिभिश्चैव संयुतम् ॥ १७.२७॥
मनुष्यैरथवाघ्रातं कुष्ठिना स्पृष्टमेव च ।
न रजस्वलया दत्तं न पुंश्चाल्या सरोषया ॥ १७.२८॥
मलबद्वाससा वापि परवासोऽथ वर्जयेत् ।
विवत्सायाश्च गोः क्षीरमौष्ट्रं वानिर्दशं तथा ॥ १७.२९॥
आविकं सन्धिनीक्षीरमपेयं मनुरब्रवीत् ।
बलाकं हंसदात्यूहं कलविकं शुकं तथा ॥ १७.३०॥
कुररञ्चचकारञ्च जालपादं च कोकिलम् ।
चाषांश्च खञ्जरीटांश्च श्येनं गृध्रं तथैव च ॥ १७.३१॥
उलूकं चक्रवाकं च भासं पारावतं तथा ।
कपोतं टिट्टिभं चैव ग्रामकुक्कुटमेव च ॥ १७.३२॥
सिंहं व्याघ्रं च मार्जारं श्वानं कुक्कुरमेव च ।
शृगालं मर्कटं चैव गर्दभं च न भक्षयेत् ।
न भक्षयेत् सर्वमृगान् पक्षिणोऽन्यान् वनेचरान् ॥ १७.३३॥
जलेचरान् स्थलचरान् प्राणिनश्चेति धारणा ।
गोधा कूर्मः शशः श्वावित् सल्लकी चेति सत्तमाः ॥ १७.३४॥
भक्ष्याः पञ्चनखा नित्यं मनुराह प्रिजापतिः ।
मत्स्यान् सशल्कान् भुञ्जीयान् मांसं रौरवमेवच ॥ १७.३५॥
निवेद्य देवताभ्यस्तु ब्राह्मणेभ्यस्तु नान्यथा ।
मयूरं तित्तिरं चैव कपोतं च कपिञ्जलम् ॥ १७.३६॥
वाध्रीणसं द्वीपिनञ्च भक्ष्यानाह प्रजापतिः ।
शफरं सिंहतुण्डं च तथा पाठीनरोहितौ ॥ १७.३७॥
मत्स्येष्वेते समुद्दिष्टा भक्षणाया द्विजोत्तमाः ।
प्रोक्षितं भक्षयेदेषां मांसं च द्विजकाम्यया ॥ १७.३८॥
यथाविधि नियुक्तं च प्राणानामपि चात्यये ।
भक्षयेदेव मांसानि शेषभोजी न लिप्यते ॥ १७.३९॥
औषधार्थमशक्तौ वा नियोगाद्यं न कारयेत् ।
आमन्त्रितस्तु यः श्राद्धे दैवे वा मांसमुत्सृजेत् ।
यावन्ति पशुरोमाणि तावतो नरकान् व्रजेत् ॥ १७.४०॥
अपेयं चाप्यपेयं च तथैवास्पृश्यमेव च ।
द्विजातीनामनालोक्यं नित्यं मद्यमिति स्थितिः ॥ १७.४१॥
तस्मात् सर्वप्रकारेण मद्यं नित्यं विवर्जयेत् ।
पीत्वा पतति कर्मभ्यस्त्वसंभाष्यो भवेद् द्विजैः ॥ १७.४२॥
भक्षयित्वा ह्यभक्ष्याणि पीत्वाऽपेयान्यपि द्विजः ।
नाधिकारी भवेत् तावद् यावद् तन्न व्रजत्यधः ॥ १७.४३॥
तस्मात् परिहरेन्नित्यमभक्ष्याणि प्रयत्नतः ।
अपेयानि च विप्रो वै तथा चेद् याति रौरवम् ॥ १७.४४॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
सप्तदशोऽध्यायः ॥१७॥
कूर्मपुराणए उत्तरभागे अष्टादशोऽध्यायः
ऋषय ऊचुः ।
अहन्यहनि कर्त्तव्यं ब्राह्मणानां महामुने ।
तदाचक्ष्वाखिलं कर्म येन मुच्येत बन्धनात् ॥ १८.१॥
व्यास उवाच ।
वक्ष्ये समाहिता यूयं शृणुध्वं गदतो मम ।
अहन्यहनि कर्तव्यं ब्राह्मणानां क्रमाद् विधिम् ॥ १८.२॥
ब्राह्मे मुहूर्ते तूत्थाय धर्ममर्थं च चिन्तयेत् ।
कायक्लेशं तदुद्भूतं ध्यायेत मनसेश्वरम् ॥ १८.३॥
उषः कालेऽच सम्प्राप्ते कृत्वा चावश्यकं बुधः ।
स्नायान्नदीषु सुद्धासु शौचं कृत्वा यथाविधि ॥ १८.४॥
प्रातः स्नानेन पूयन्ते येऽपि पापकृतो जनाः ।
तस्मात् सर्वप्रयत्नेन प्रातः स्नानं समाचरेत् ॥ १८.५॥
प्रातः स्नानं प्रशंसन्ति दृष्टादृष्टकरं शुभम् ।
ऋषीणामृषिता नित्यं प्रातः स्नानान्न संशयः ॥ १८.६॥
मुखे सुप्तस्य सततं लाला याः संस्त्रवन्ति हि ।
ततो नैवाचरेत् कर्म अकृत्वा स्नानमादितः ॥ १८.७॥
अलक्ष्मीः कालकर्णी च दुःस्वप्नं दुर्विचिन्तितम् ।
प्रातः स्नानेन पापानि पूयन्ते नात्र संशयः ॥ १८.८॥
अतः स्नानं विना पुंसां पावनं कर्म संस्मृतम् ।
होमे जप्ये विशेषेण तस्मात् स्नानं समाचरेत् ॥ १८.९॥
अशक्तावशिरस्कं वा स्नानमस्य विधीयते ।
आर्द्रेण वाससा वाऽथ मार्जनं कापिलं स्मृतम् ॥ १८.१०॥
असामर्थ्ये समुत्पन्ने स्नानमेवं समाचरेत् ।
ब्राह्मादीनामथाशक्तौ स्नानान्याहुर्मनीषिणः ॥ १८.११॥
ब्राह्ममाग्नेयमुद्दिष्टं वायव्यं दिव्यमेव च ।
वारुणं यौगिकं तद्वत् षोढा स्नानं प्रकीर्तितम् ॥ १८.१२॥
ब्राह्मं तु मार्जनं मन्त्रैः कुशैः सोदकबिन्दुभिः ।
आग्नेयं भस्मना पादमस्तकाद्देहधूलनम् ॥ १८.१३॥
गवां हि रजसा प्रोक्तं वायव्यं स्नानमुत्तमम् ।
यत्तु सातपवर्षेण स्नानं तद् दिव्यमुच्यते ॥ १८.१४॥
वारुणं चावगाहस्तु मानसं स्वात्मवेदनम् ।
यौगिनां स्नानमाख्यातं योगात्विष्णुंविचिन्तनम् ॥ १८.१५॥
आत्मतीर्थमिति ख्यातं सेवितं ब्रह्मवादिभिः ।
मनः शुचिकरं पुंसां नित्यं तत् स्नानमाचरेत् ॥ १८.१६॥
शक्तश्चेद् वारुणं विद्वान् प्रायश्चित्ते तथैव च ।
प्रक्षाल्य दन्तकाष्ठं वै भक्षयित्वा विधानतः ॥ १८.१७॥
आचम्य प्रयतो नित्यं स्नानं प्रातः समाचरेत् ।
मध्याङ्गुलिसमस्थौल्यं द्वादशाङ्गुलसम्मितम् ॥ १८.१८॥
सत्वचं दन्तकाष्ठं स्यात् तदग्रेण तु धावयेत् ।
क्षीरवृक्षसमुद्भूतं मालतीसंभवं शुभम् ।
अपामार्गं च बिल्वं च करवीरं विशेषतः ॥ १८.१९॥
वर्जयित्वा निन्दितानि गृहीत्वैकं यथोदितम् ।
परिहृत्य दिनं पापं भक्षयेद् वै विधानवित् ॥ १८.२०॥
नोत्पाटयेद्दन्तकाष्टंनाङ्गुल्या धारयेत् क्वचित् ।
प्रक्षाल्य भङ्क्त्वा तज्जह्याच्छुचौदेशे समाहितः ॥ १८.२१॥
स्नात्वा संतर्पयेद् देवानृषीन् पितृगणांस्तथा ।
आचम्य मन्त्रविन्नित्यं पुनराचम्य वाग्यतः ॥ १८.२२॥
संमार्ज्य मन्त्रैरात्मानं कुशैः सोदकबिन्दुभिः ।
आपो हिष्ठा व्याहृतिभिः सावित्र्या वारुणैः शुभैः ॥ १८.२३॥
ओङ्कारव्याहृतियुतां गायत्रीं वेदमातरम् ।
जप्त्वा जलाञ्जलिं दद्याद् भास्करं प्रति तन्मनाः ॥ १८.२४॥
प्राक्कूलेषु समासीनो दर्भेषु सुसमाहितः ।
प्राणायामत्रयं कृत्वा ध्यायेत् संध्यामिति श्रुतिः ॥ १८.२५॥
या संध्या सा जगत्सूतिर्मायातीता हि निष्कला ।
ऐश्वरी तु पराशक्तिस्तत्त्वत्रयसमुद्भवा ॥ १८.२६॥
ध्यात्वाऽर्कमण्डलगतां सावित्रीं वै जपन् बुधः ।
प्राङ्मुखः सततं विप्रः संध्योपासनमाचरेत् ॥ १८.२७॥
संध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु ।
यदन्यत् कुरुते किञ्चिन्न तस्य फलमाप्नुयात् ॥ १८.२८॥
अनन्यचेतसः शान्ता ब्राह्मणा वेदपारगाः ।
उपास्य विधिवत् संध्यां प्राप्ताः पूर्वेऽपरां गतिम् ॥ १८.२९॥
योऽन्यत्र कुरुते यत्नं धर्मकार्ये द्विजोत्तमः ।
विहाय संध्याप्रणतिं स याति नरकायुतम् ॥ १८.३०॥
तस्मात् सर्वप्रयत्नेन संध्योपासनमाचरेत् ।
उपासितो भवेत् तेन देवो योगतनुः परः ॥ १८.३१॥
सहस्रपरमां नित्यं शतमध्यां दशावराम् ।
सावित्रीं वै जपेद् विद्वान् प्राङ्मुखः प्रयतः स्थितः ॥ १८.३२॥
अथोपतिष्ठेदादित्यमुदयन्तं समाहितः ।
मन्त्रैस्तु विविधैः सौरै ऋग्यजुः सामसंभवैः ॥ १८.३३॥
उपस्थाय महायोगं देवदेवं दिवाकरम् ।
कुर्वीत प्रणतिं भूमौ मूर्ध्ना तेनैव मन्त्रतः ॥ १८.३४॥
ओं ङ्खद्योताय च शान्ताय कारणत्रयहेतवे ।
निवेदयामि चात्मानं नमस्ते ज्ञानरूपिणे ॥ १८.३५॥
नमस्ते घृणिने तुभ्यं सूर्याय ब्रह्मरूपिणे ।
त्वमेव ब्रह्म परममापो ज्योती रसोऽमृतम् ।
भूर्भुवः स्वस्त्वमोङ्कारः शर्व रुद्रः सनातनः ॥ १८.३६॥
पुरुषः सन्महोऽन्तस्थं प्रणमामि कपर्दिनम् ।
त्वमेव विश्वं बहुधा जात यज्जायते च यत् ।
नमो रुद्राय सूर्याय त्वामहं शरणं गतः ॥ १८.३७॥
प्रचेतसे नमस्तुभ्यं नमो मीढुष्टमाय ते ।
नमो नमस्ते रुद्राय त्वामहं शरणं गतः ।
हिरण्यबाहवे तुभ्यं हिरण्यपतये नमः ॥ १८.३८॥
अम्बिकापतये तुभ्यमुमायाः पतये नमः ।
नमोऽस्तु नीलग्रीवाय नमस्तुभ्यं पिनाकिने ॥ १८.३९॥
विलोहिताय भर्गाय सहस्राक्षाय ते नमः ।
नमो हंसाय ते नित्यमादित्याय नमोऽस्तु ते ॥ १८.४०॥
नमस्ते वज्रहस्ताय त्र्यम्बकाय नमो नमः ।
प्रपद्ये त्वां विरूपाक्षं महान्तं परमेश्वरम् ॥ १८.४१॥
हिरण्मये गृहे गुप्तमात्मानं सर्वदेहिनाम् ।
नमस्यामि परं ज्योतिर्ब्रह्माणं त्वां परां गतिम् ॥ १८.४२॥
विश्वं पशुपतिं भीमं नरनारीशरीरिणम् ॥
नमः सूर्याय रुद्राय भास्वते परमेष्ठिने ॥ १८.४३॥
उग्राय सर्वभक्षाय त्वां प्रपद्ये सदैव हि ।
एतद् वै सूर्यहृदयं जप्त्वा स्तवमनुत्तमम् ॥ १८.४४॥
प्रातः कालेऽथ मध्याह्ने नमस्कुर्याद् दिवाकरम् ।
इदं पुत्राय शिष्याय धार्मिकाय द्विजातये ॥ १८.४५॥
प्रदेयं सूर्यहृदयं ब्रह्मणा तु प्रदर्शितम् ।
सर्वपापप्रशमनं वेदसारसमुद्भवम् ।
ब्राह्मणानां हितं पुण्यमृषिसङ्घैर्निषेवितम् ॥ १८.४६॥
अथागम्य गृहं विप्रः समाचम्य यथाविधि ।
प्रज्वाल्य विह्निं विधिवज्जुहुयाज्जातवेदसम् ॥ १८.४७॥
ऋत्विक्पुत्रोऽथ पत्नी वा शिष्यो वाऽपि सहोदरः ।
प्राप्यानुज्ञां विशेषेण जुहुयुर्वा यताविधि ॥ १८.४८॥
पवित्रपाणिः पूतात्मा शुक्लाम्बरधरः शुचिः ।
अनन्यमानसो वह्निं जुहुयात् संयतेन्द्रियः ॥ १८.४९॥
विना दर्भेण यत्कर्म विना सूत्रेण वा पुनः ।
राक्षसं तद्भवेत् सर्वं नामुत्रेह फलप्रदम् ॥ १८.५०॥
दैवतानि नमस्कुर्याद् देयसारान्निवेदयेत् ।
दद्यात् पुष्पादिकं तेषां वृद्धांश्चैवाभिवादयेत् ॥ १८.५१॥
गुरुं चैवाप्युपासीत हितं चास्य समाचरेत् ।
वेदाभ्यासं ततः कुर्यात् प्रयत्नाच्छक्तितो द्विजः ॥ १८.५२॥
जपेदध्यापयेच्छिष्यान् धारयेच्च विचारयेत् ।
अवेक्ष्य तच्च शास्त्राणि धर्मादीनि द्विजोत्तमः ॥ १८.५३॥
वैदिकांश्चैव निगमान् वेदाङ्गानि वेशिषतः ।
उपेयादीश्वरं चाथ योगक्षेमप्रसिद्धये ॥ १८.५४॥
साधयेद् विविधानर्थान् कुटुम्बार्थे ततो द्विजः
ततो मध्याह्नसमये स्नानार्थं मृदमाहरेत् ॥ १८.५५॥
पुष्पाक्षतान् कुशतिलान् गोमयं शुद्धमेव च ।
नदीषु देवखातेषु तडागेषु सरस्सु च ।
स्नानं समाचरेन्नित्यं गर्तप्रस्रवणेषु च ॥ १८.५६॥
परकीयनिपानेषु न स्नायाद् वै कदाचन ।
पञ्चपिण्डान् समुद्धृत्य स्नायाद् वाऽसंभवे पुनः ॥ १८.५७॥
मृदैकया शिरः क्षाल्यं द्वाभ्यां नाभेस्तथोपरि ।
अधश्च तिसृभिः कार्यः पादौ षड्भिस्तथैव च ॥ १८.५८॥
मृत्तिका च समुद्दिष्टा सार्द्रामलकमात्रिका ।
गोमयस्य प्रमाणं तत् तेनाङ्गं लेपयेत् ततः ॥ १८.५९॥
लेपयित्वा तु तीरस्थस्तल्लिङ्गैरेव मन्त्रतः ।
प्रक्षाल्याचम्य विधिवत् ततः स्नायात् समाहितः ॥ १८.६०॥
अभिमन्त्र्य जलं मन्त्रैस्तल्लिङ्गैर्वारुणैः शुभैः ।
भावपूतस्तदव्यक्तं ध्यायन् वै विष्णुमव्ययम् ॥ १८.६१॥
आपो नारायणोद्भूतास्ता एवास्यायनं पुनः ।
तस्मान्नारायणं देवं स्नानकाले स्मरेद् बुधः ॥ १८.६२॥
प्रेक्ष्य सोङ्कारमादित्यं त्रिर्निमज्जेज्जलाशये ॥ १८.६३॥
आचान्तः पुनराचामेन्मन्त्रेणानेन मन्त्रवित् ॥ १८.६४॥
अन्तश्चरसि भूतेषु गुहायां विश्वतो मुखः ।
त्वं यज्ञस्त्वं वषट्कार आपो ज्योती रसोऽमृतम् ॥ १८.६५॥
द्रुपदां वा त्रिरभ्यस्येद् व्याहृतिंप्रणवान्विताम् ।
सावित्रीं वा जपेद् विद्वान् तथा चैवाघमर्षणम् ॥ १८.६६॥
ततः संमार्जनं कुर्यादापोहिष्ठा मयोभुवः ।
इदमापः प्रवहत व्याहृतिभिस्तथैव च ॥ १८.६७॥
ततोऽभिमन्त्र्य तत् तोयं मापो हिष्ठादिमन्त्रकैः ।
अन्तर्जलगतो मग्नो जपेत् त्रिरघमर्षणम् ॥ १८.६८॥
त्रिपदां वाऽथ सावित्रीं तद्विष्णोः परमं पदम् ।
आवर्त्तयेद् वा प्रणवं देवं वा संस्मरेद्धरिम् ॥ १८.६९॥
द्रुपदादिव यो मन्त्रो यजुर्वेदे प्रतिष्ठितः ।
अन्तर्जले त्रिरावर्त्य सर्वपापैः प्रमुच्यते ॥ १८.७०॥
अपः पाणौ समादाय जप्त्वा वै मार्जने कृते ।
विन्यस्य मूर्ध्नि तत् तोयं मुच्यते सर्वपातकैः ॥ १८.७१॥
यथाऽश्वमेधः क्रतुराट् सर्वपापापनोदनः ।
तथाऽघमर्षणं सूक्तं सर्वपापापनोदनम् ॥ १८.७२॥
अथोपतिष्ठेदादित्यं मूर्ध्नि पुष्पान्विताञ्जलिम् ।
प्रक्षिप्यालोकयेद् देवमुद्वयं तमसस्परि ॥ १८.७३॥
उदुत्यं चित्रमित्येते तच्चक्षुरिति मन्त्रतः ।
हंसः शुचिषदन्तेन सावित्र्या सविशेषतः ॥ १८.७४॥
अन्यैश्च वैदिकैर्मन्त्रैः सौरैः पापप्रणाशनैः ।
सावित्रीं वै जपेत् पश्चाज्जपयज्ञः स वै स्मृतः ॥ १८.७५॥
विविधानि पवित्राणि गुह्यविद्यास्तथैव च ।
शतरुद्रीयमथर्वशिरः सौरान् मन्त्रांश्च सर्वतः ॥ १८.७६॥
प्राक्कूलेषु समासीनः कुशेषु प्राङ्मुखः शुचिः ।
तिष्ठंश्चेदीक्षमाणोऽर्कं जप्यं कुर्यात् समाहितः ॥ १८.७७॥
स्फाटिकेन्द्राक्षरुद्राक्षैः पुत्रजीवसमुद्भवैः ।
कर्तव्या त्वक्षमाला स्यादुत्तरादुत्तमा स्मृता ॥ १८.७८॥
जपकाले न भाषेत नान्यानि प्रेक्षयेद् बुधः ।
न कम्पयेच्छिरोग्रीवां दन्तान्नैव प्रकाशयेत् ॥ १८.७९॥
गुह्यका राक्षसा सिद्धा हरन्ति प्रसभं यतः ।
एकान्ते सुशुभे देशे तस्माज्जप्यं समाचरेत् ॥ १८.८०॥
चण्डालाशौचपतितान् दृष्ट्वाचैव पुनर्जपेत् ।
तैरेव भाषणं कृत्वा स्नात्वा चैव जपेत् पुनः ॥ १८.८१॥
आचम्य प्रयतो नित्यं जपेदशुचिदर्शने ।
सौरान् मन्त्रान् शक्तितो वै पावमानीस्तु कामतः ॥ १८.८२॥
यदि स्यात् क्लिन्नवासा वै वारिमध्यगतो जपेत् ।
अन्यथा तु शुचौ भूम्यां दर्भेषु सुसमाहितः ॥ १८.८३॥
प्रदक्षिणं समावृत्य नमस्कृत्य ततः क्षितौ ।
आचम्य च यथाशास्त्रं शक्त्या स्वाध्यायमाचरेत् ॥ १८.८४॥
ततः संतर्पयेद् देवानृषीन् पितृगणांस्तथा ।
अदावोङ्कारमुच्चार्य नामान्ते तर्पयामि वः ॥ १८.८५॥
देवान् ब्रह्मऋषींश्चैव तर्पयेदक्षतोदकैः ।
तिलोदकैः पितॄन् भक्त्या स्वसूत्रोक्तविधानतः ॥ १८.८६॥
अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु ।
देवर्षीस्तर्पयेद् धीमानुदकाञ्जलिभिः पितन् ।
यज्ञोपवीती देवानां निवीती ऋषीतर्पणे ॥ १८.८७॥
प्राचीनावीती पित्र्ये तु स्वेन तीर्थेन भावितः ।
निष्पीड्य स्नानवस्त्रं तु समाचम्य च वाग्यतः ।
स्वैर्मन्त्रैरर्चयेद् देवान् पुष्पैः पत्रैरथाम्बुभिः ॥ १८.८८॥
ब्रह्माणं शंकरं सूर्यं तथैव मधुसूदनम् ।
अन्यांश्चाभिमतान् देवान् भक्त्याचारो नरोत्तमः ॥ १८.८९॥
प्रदद्याद् वाऽथ पुष्पाणि सूक्तेन पौरुषेण तु ।
आपो वा देवताः सर्वास्तेन सम्यक् समर्चिताः ॥ १८.९०॥
ध्यात्वा प्रणवपूर्वं वै दैवतानि समाहितः ।
नमस्कारेण पुष्पाणि विन्यसेद् वै पृथक् पृथक् ॥ १८.९१॥
विष्ण्वाराधनात् पुण्यं विद्यते कर्म वैदिकम् ।
तस्मादनादिमध्यान्तं नित्यमाराधयेद्धरिम् ॥ १८.९२॥
तद्विष्णोरिति मन्त्रेण सूक्तेन पुरुषेण तु ।
न ताभ्यां सदृशो मन्त्रो वेदेषूक्तश्चतुर्ष्वपि ।
तदात्मा तन्मनाः शान्तस्तद्विष्णोरिति मन्त्रतः ॥ १८.९३॥
अथवा देवमीशानं भगवन्तं सनातनम् ।
आराधयेन्महादेवं भावपूतो महेश्वरम् ॥ १८.९४॥
मन्त्रेण रुद्रागायत्र्या प्रणवेनाथ वा पुनः ।
ईशानेनाथ वा रुद्रैस्त्र्यम्बकेन समाहितः ॥ १८.९७॥
पुष्पैः पत्रैरथाद्भिर्वा चन्दनाद्यैर्महेश्वरम् ।
उक्त्वा नमः शिवायेति मन्त्रेणानेन वा जपेत् ॥ १८.९६॥
नमस्कुर्यान्महादेवं ऋतं सत्यमितिश्वरम् ।
निवेदयीत स्वात्मानं यो ब्रह्माणमितीश्वरम् ॥ १८.९७॥
प्रदक्षिणं द्विजः कुर्यात् पञ्च वर्षाणि वै बुधः ।
ध्यायीत देवमीशानं व्योममध्यगतं शिवम् ॥ १८.९८॥
अथावलोकयेदर्कं हंसः सुचिषदित्यृचा ।
कुर्यात् पञ्च महायज्ञान् गृहं गत्वा समाहितः ॥ १८.९९॥
देवयज्ञं पितृयज्ञं भूतयज्ञं तथैव च ।
मानुष्यं ब्रह्मयज्ञं च पञ्च यज्ञान् प्रचक्षते ॥ १८.१००॥
यदि स्यात् तर्पणादर्वाक् ब्रह्मयज्ञः कृतो न हि ।
कृत्वा मनुष्ययज्ञं वै ततः स्वाध्यायमाचरेत् ॥ १८.१०१॥
अग्नेः पश्चिमतो देशे भूतयज्ञान्त एव वा ।
कुशपुञ्जे समासीनः कुशपाणिः समाहितः ॥ १८.१०२॥
शालाग्नौ लौकिके वाऽथ जले भूभ्यामथापिवा ।
वैश्वदेवं कर्तव्यो देवयज्ञः स वै स्मृतः ॥ १८.१०३॥
यदि स्याल्लौकिके पक्षे ततोऽन्नं तत्र हूयते ।
शालाग्नौ तत्पचेदन्नं विधिरेष सनातनः ॥ १८.१०४॥
देवेभ्यस्तु हुतादन्नाच्छेषाद् भूतबलिं हरेत् ।
भूतयज्ञः स वै ज्ञेयो भूतिदः सर्वदेहिनाम् ॥ १८.१०५॥
श्वभ्यश्च श्वपचेभ्यश्च पतितादिभ्य एव च ।
दद्याद् भूमौ बलिं त्वन्नं पक्षिभ्यो द्विजोत्तमः ॥ १८.१०६॥
सायं चान्नस्य सिद्धस्य पत्न्यमन्त्रं बलिं हरेत् ।
भूतयज्ञस्त्वयं नित्यं सायं प्रातर्विधीयते ॥ १८.१०७॥
एकं तु भोजयेद् विप्रं पितॄनुद्दिश्य सन्ततम् ।
नित्यश्राद्धं तदुद्दिष्टं पितृयज्ञो गतिप्रदः ॥ १८.१०८॥
उद्धृत्य वा यथाशक्ति किञ्चिदन्नं समाहितः ।
वेदतत्त्वार्थविदुषे द्विजायैवोपपादयेत् ॥ १८.१०९॥
पूजयेदतिथिं नित्यं नमस्येदर्च्चयेद् द्विजम् ।
मनोवाक्कर्मभिः शान्तमागतं स्वगृहं ततः ॥ १८.११०॥
अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु ।
हन्तकारमथाग्रं वा भिक्षां वा शक्तितो द्विजः ॥ १८.१११॥
दद्यादतिथये नित्यं बुध्येत परमेश्वरम् ।
भिक्षामाहुर्ग्रासमात्रमग्रं तस्याश्चतुर्गुणम् ॥ १८.११२॥
पुष्कलं हन्तकारं तु तच्चतुर्गुणमुच्यते ।
गोदोहमात्रं कालं वै प्रतीक्ष्यो ह्यतिथिः स्वयम् ॥ १८.११३॥
अभ्यागतान् यथाशक्ति पूजयेदतिथीन् सदा ।
भिक्षां वै भिक्षवे दद्याद् विधिवद् ब्रह्मचारिणे ।
दद्यादन्नं यथाशक्ति त्वर्थिभ्यो लोभवर्जितः ॥ १८.११४॥
सर्वेषामप्यलाभे त्वन्नं गोभ्यो निवेदयेत् ।
भुञ्जीत बन्धुभिः सार्द्धं वाग्यतोऽन्नमकुत्सयन् ॥ १८.११५॥
अकृत्वा तु द्विजः पञ्च महायज्ञान् द्विजोत्तमाः ।
भृञ्जीत चेत् स मूढात्मा तिर्यग्योनिं स गच्छति ॥ १८.११६॥
वेदाभ्यासोऽन्वहं शक्त्या महायज्ञक्रियाक्षया ।
नाशयत्याशु पापानि देवानामर्चनं तथा ॥ १८.११७॥
यो मोहादथवालस्यादकृत्वा देवतार्चनम् ।
भुङ्क्ते स याति नरकं शूकरेष्वभिजायते ॥ १८.११८॥
तस्मात् सर्वप्रयत्नेन कृत्वा कर्माणि वै द्विजाः ।
भुञ्जीत स्वजनैः सार्द्धं स याति परमां गतिम् ॥ १८.११९॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
अष्टादशोऽध्यायः ॥१८॥
कूर्मपुराणए उत्तरभागे एकोनविंशतितमोऽध्यायः
व्यास उवाच ।
प्राङ्मुखोऽन्नानि भुञ्जीत सूर्याभिमुख एव वा ।
आसीनस्वासने शुद्धे भूम्यां पादौ निधाय तु ॥ १९.१॥
आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः ।
श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते
उदङ्मुखाः ॥ १९.२॥
पञ्चार्द्रो भोजनं कुर्याद् भूमौ पात्रं निधाय तु ।
उपवासेन तत्तुल्यं मनुराह प्रजापतिः ॥ १९.३॥
उपलिप्ते शुचौ देशे पादौ प्रक्षाल्य वै करौ ।
आचम्यार्द्राननोऽक्रोधः पञ्चार्द्रो भोजनं चरेत् ॥ १९.४॥
महाव्यहृतिभिस्त्वन्नं परिधायोदकेन तु ।
अमृतोपस्तरणमसीत्यापोशानक्रियां चरेत् ॥ १९.५॥
स्वाहाप्रणवसंयुक्तां प्राणायाद्याहुतिं ततः ।
अपानाय ततो भुक्त्वा व्यानाय तदनन्तरम् ॥ १९.६॥
उदानाय ततः कुर्यात् समानायेति पञ्चमम् ।
विज्ञाय तत्त्वमेतेषां जुहुयादात्मनि द्विजः ॥ १९.७॥
शेषमन्नं यथाकामं भुञ्जीत व्यंजनैर्युतम् ।
ध्यात्वा तन्मनसा देवमात्मानं वै प्रजापतिम् ॥ १९.८॥
अमृतापिधानमसीत्युपरिष्टादपः पिबेत् ।
आचान्तः पुनराचामेदायं गौरिति मन्त्रतः ॥ १९.९॥
द्रुपदां वा त्रिरावर्त्य सर्वपापप्रणाशनीम् ।
प्राणानां ग्रन्थिरसीत्यालभेत हृदयं ततः ॥ १९.१०॥
आचम्याङ्गुष्ठमात्रेण पादाङ्गुष्ठेन दक्षिणे ।
निःस्रावयेद् हस्तजलमूर्द्ध्वहस्तः समाहितः ॥ १९.११॥
कृतानुमन्त्रणं कुर्यात् सन्ध्यायामिति मन्त्रतः ।
अथाक्षरेण स्वात्मानं योजयेद् ब्रह्मणेति हि ॥ १९.१२॥
सर्वेषामेव यागानामात्मयोगः परः स्मृतः ।
योऽनेन विधिना कुर्यात् स याति ब्रह्मणः क्षयम् ॥ १९.१३॥
यज्ञोपवीती भुञ्जीत स्त्रग्गन्धालंकृतः शुचिः ।
सायंप्रापर्नान्तरा वै संध्यायां तु विशेषतः ॥ १९.१४॥
नाद्यात् सूर्यग्रहात् पूर्वं प्रति सायं शशिग्रहात् ।
ग्रहकाले च नाश्नीयात् स्नात्वाऽश्नीयात्विमुक्तये ॥ १९.१५॥
मुक्ते शशिनि भुञ्जीत यदि न स्यान्महानिशा ।
अमुक्तयोरस्तंगतयोरद्याद् दृष्ट्वा परेऽहनि ॥ १९.१६॥
नाश्नीयात् प्रेक्षमाणानामप्रदायैव दुर्मतिः ।
यज्ञावशिष्टमद्याद्वा न क्रुद्धो नान्यमानसः ॥ १९.१७॥
आत्मार्थं भोजनं यस्य रत्यर्थं यस्य मैथुनम् ।
वृत्यर्थं यस्य चाधीतं निष्फलं तस्य जीवितम् ॥ १९.१८॥
यद्भुङ्क्ते वेष्टितशिरा यच्च भुङ्क्ते उदङ्मुखः ।
सोपानत्कश्च यद् भुङ्क्ते सर्वं विद्यात् तदासुरम् ॥ १९.१९॥
नार्द्धरात्रे न मध्याह्ने नाजीर्णे नार्द्रवस्त्रधृक् ।
न च भिन्नासनगतो न शयानः स्थितोऽपि वा ॥ १९.२०॥
न भिन्नभाजने चैव न भूम्यां न च पाणिषु ।
नोच्छिष्टो घृतमादद्यान्न मूर्द्धानं स्पृशेदपि ॥ १९.२१॥
न ब्रह्म कीर्तयन् वापि न निः शेषं न भार्यया ।
नान्धकारे न चाकाशे न च देवालयादिषु ॥ १९.२२॥
नैकवस्त्रस्तु भुञ्जीत न यानशयनस्थितः ।
न पादुकानिर्गतोऽथ न हसन् विलपन्नपि ॥ १९.२३॥
भुक्त्वा वै सुखमास्थाय तदन्नं परिणामयेत् ।
इतिहासपुराणाभ्यां वेदार्थानुपबृंहयेत् ॥ १९.२४॥
ततः संध्यामुपासीत पूर्वोक्तविधिना द्विजः ।
आसीनस्तु जपेद् देवीं गायत्रीं पश्चिमां प्रति ॥ १९.२५॥
न तिष्ठति तु यः पुर्वां आस्ते संध्यां तु पश्चिमाम् ।
स शूद्रेण समो लोके सर्वधर्मविवर्जितः ॥ १९.२६॥
हुत्वाऽग्निं विधिवन्मन्त्रैर्भुक्त्वा यज्ञावशिष्टकम् ।
सभृत्यबान्धवजनः स्वपेच्छुष्कपदो निशि ॥ १९.२७॥
नोत्तराभिमुखः स्वप्यात् पश्चिमाभिमुखो न च ।
न चाकाशे न नग्नो वा नाशुचिर्नासने क्वचित् ॥ १९.२८॥
न शीर्णायां तु खट्वायां शून्यागारे न चैव हि ।
नानुवंशे न पालाशे शयने वा कदाचन ॥ १९.२९॥
इत्येतदखिलेनोक्तमहन्यहनि वै मया ।
ब्राह्मणानां कृत्यजातमपवर्गफलप्रदम् ॥ १९.३०॥
नास्तिक्यादथवालस्यात् ब्राह्मणो न करोति यः ।
स याति नरकान् घोरान् काकयोनौ च जायते ॥ १९.३१॥
नान्यो विमुक्तये पन्था मुक्त्वाश्रमविधिं स्वकम् ।
तस्मात् कर्माणि कुर्वीत तुष्टये परमेष्ठिनः ॥ १९.३२॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
एकोनविंशोऽध्यायः ॥१९॥
कूर्मपुराणए उत्तरभागे विंशतितमोऽध्यायः
व्यास उवाच ।
अथ श्राद्धममावास्यां प्राप्य कार्यं द्विजोत्तमैः ।
पिण्डान्वाहार्यकं भक्त्या भुक्तिमुक्तिफलप्रदम् ॥ २०.१॥
पिण्डान्वाहार्यकं श्राद्धं क्षीणे राजनि शस्यते ।
अपराह्णे द्विजातीनां प्रशस्तेनामिषेण च ॥ २०.२॥
प्रतिपत्प्रभृति ह्यन्यास्तिथयः कृष्णपक्षके ।
चतुर्दशीं वर्जयित्वा प्रशस्ता ह्युत्तरोत्तरे ॥ २०.३॥
अमावास्याष्टकास्तिस्रः पौषमासादिषु त्रिषु ।
तिस्रस्तास्त्वष्टकाः पुण्या माघी पञ्चदशी तथा ॥ २०.४॥
त्रयोदशी मघायुक्ता वर्षासु तु विशेषतः ।
शस्यापाकश्राद्धकाला नित्याः प्रोक्ता दिने दिने ॥ २०.५॥
नैमित्तिकं तु कर्तव्यं ग्रहणे चन्द्रसूर्ययोः ।
बान्धवानां च मरणे नारकी स्यादतोऽन्यथा ॥ २०.६॥
काम्यानि चैव श्राद्धानि शस्यन्ते ग्रहणादिषु ।
अयने विषुवे चैव व्यतीपातेऽप्यनन्तकम् ॥ २०.७॥
संक्रान्त्यामक्षयं श्राद्धं तथा जन्मदिनेष्वपि ।
नक्षत्रेषु च सर्वेषु कार्यं काले विशेषतः ॥ २०.८॥
स्वर्गं च लभते कृत्वा कृत्तिकासु द्विजोत्तमः ।
अपत्यमथ रोहिण्यां सौम्ये तु ब्रह्मवर्चसम् ॥ २०.९॥
रौद्राणां कर्मणां सिद्धिमार्द्रायां शौर्यमेव च ।
पुनर्वसौ तथा भूमिं श्रियं पुष्ये तथैव च ॥ २०.१०॥
सर्वान् कामांस्तथा सर्प्ये पित्र्ये सौभाग्यमेव च ।
अर्यम्णे तु धनं विन्द्यात् फाल्गुन्यां पापनाशनम् ॥ २०.११॥
ज्ञातिश्रैष्ठ्यं तथा हस्ते चित्रायां च बहून् सुतान् ।
वाणिज्यसिद्धिं स्वातौ तु विशाखासु सुवर्णकम् ॥ २०.१२॥
मैत्रे बहूनि मित्राणि राज्यं शाक्रे तथैव च ।
मूले कृषिं लभेद् ज्ञानं सिद्धिमाप्ये समुद्रतः ॥ २०.१३॥
सर्वान् कामान् वैश्वदेवे श्रैष्ठ्यं तु श्रवणे पुनः ।
श्रविष्ठायां तथा कामान् वारुणे च परं बलम् ॥ २०.१४॥
अजैकपादे कुप्यं स्यादहिर्बुध्ने गृहं शुभम् ।
रेवत्यां बहवो गावो ह्यश्विन्यां तुरगांस्तथा ।
याम्येऽथ जीवितन्तु स्याद्यदि श्राद्धं प्रयच्छति ॥ २०.१५॥
आदित्यवारे त्वारोग्यं चन्द्रे सौभाग्यमेव च ।
कौजे सर्वत्र विजयं सर्वान् कामान् बुधस्य तु ॥ २०.१६॥
विद्यामभीष्टा जीवे तु धनं वै भार्गवे पुनः ।
शमैश्वरे लभेदायुः प्रतिपत्सु सुतान् शुभान् ॥ २०.१७॥
कन्यका वै द्वितीयायां तृतीयायां तु विन्दति ।
पशून्क्षुद्रांश्चतुर्थ्यां तु पञ्चम्यांशोभनान् सुतान् ॥ २०.१८॥
षष्ट्यां द्युतिं कृषिं चापि सप्तम्यां च धनं नरः ।
अष्टम्यामपि वाणिज्यं लभते श्राद्धदः सदा ॥ २०.१९॥
स्यान्नवम्यामेकखुरं दशम्यां द्विखुरं बहु ।
एकादश्यां तथा रूप्यं ब्रह्मवर्चस्विनः सुतान् ॥ २०.२०॥
द्वादश्यां जातरूपं च रजतं कुप्यमेव च ।
ज्ञातिश्रैष्ठ्यं त्रयोदश्यां चतुर्दश्यां तु क्रुप्रजाः ।
पञ्चदश्यां सर्वकामानाप्नोति श्राद्धदः सदा ॥ २०.२१॥
तस्माच्छ्राद्धं न कर्त्तव्यं चतुर्दश्यां द्विजातिभिः ।
शस्त्रेण तु हतानां वै तत्र श्राद्धं प्रकल्पयेत् ॥ २०.२२॥
द्रव्यब्राह्मणसम्पत्तौ न कालनियमः कृतः ।
तस्माद् भोगापवर्गार्थं श्राद्धं कुर्युर्द्विजातयः ॥ २०.२३॥
कर्मारम्भेषु सर्वेषु कुर्यादाभ्युदयं पुनः ।
पुत्रजन्मादिषु श्राद्धं पार्वणं पर्वसु स्मृतम् ॥ २०.२४॥
अहन्यहनि नित्यं स्यात् काम्यं नैमित्तिकं पुनः ।
एकोद्दिष्टादि विज्ञेयं वृद्धिश्राद्धं तु पार्वणम् ॥ २०.२५॥
एतत् पञ्चविधं श्राद्धं मनुना परिकीर्तितम् ।
यात्रायां षष्ठमाख्यातं तत्प्रयत्नेन पालयेत् ॥ २०.२६॥
शुद्धये सप्तमं श्राद्धं ब्रह्मणा परिभाषितम् ।
दैविकं चाष्टमं श्राद्धं यत्कृत्वा मुच्यते भयात् ॥ २०.२७॥
संन्ध्यां रीत्रौ न कर्त्तव्यं राहोरन्यत्र दर्शनात् ।
देशानां च विशेषेण भवेत् पुण्यमनन्तकम् ॥ २०.२८॥
गङ्गायामक्षयं श्राद्धं प्रयागेऽमरकण्टके ।
गायन्ति पितरो गाथां कीर्त्तयन्ति मनीषिणः ॥ २०.२९॥
एष्टव्या बहवः पुत्राः शीलवन्तो गुणान्विताः ।
तेषां तु समवेतानां यद्येकोऽपि गायां व्रजेत् ॥ २०.३०॥
गयां प्राप्यानुषङ्गेण यदि श्राद्धं समाचरेत् ।
तारिताः पितरस्तेन स याति परमां गतिम् ॥ २०.३१॥
वराहपर्वते चैव गङ्गायां वै विशेषतः ।
वाराणस्यां विशेषेण यत्र देवः स्वयं हरः ॥ २०.३२॥
गङ्गाद्वारे प्रभासे च बिल्वके नीलपर्वते ।
कुरुक्षेत्रे च कुब्जाम्रे भृगुतुङ्गे महालये ॥ २०.३३॥
केदारे फल्गुतीर्थे च नैमिषारण्य एव च ।
सरस्वत्यां विशेषेण पुष्करेषु विशेषतः ॥ २०.३४॥
नर्मदायां कुशावर्त्ते श्रीशैले भद्रकर्णके ।
वेत्रवत्यां विशाखायां गोदावर्यां विशेषतः ॥ २०.३५॥
एवमादिषु चान्येषु तीर्थेषु पुलिनेषु च ।
नदीनां चैव तीरेषु तुष्यन्ति पितरः सदा ॥ २०.३६॥
व्रीहिभिश्च यवैर्माषैरद्भिर्मूलफलेन वा ।
श्यामाकैश्च यवैः शाकैर्नीवारैश्च प्रियङ्गुभिः ।
गौधूमैश्च तिलैर्मुद्गैर्मासं प्रीणयते पितॄन् ॥ २०.३७॥
आम्रान् पाने रतानिक्षून् मृद्वीकांश्च सदाडिमान् ।
विदाश्वांश्च भरण्डाश्च श्राद्धकाले प्रादपयेत् ॥ २०.३८॥
लाजान् मधुयुतान् दद्यात् सक्तून् शर्करया सह ।
दद्याच्छ्राद्धे प्रयत्नेन शृङ्गाटककशेरुकान् ॥ २०.३९॥
द्वौ मासौ मत्स्यमांसेन त्रीन् मासान् हारिणेनतु ।
औरभ्रेणाथ चतुरः शाकुनेनेह पञ्च तु ।
षण्मासांश्छागमांसेन पार्षतेनाथ सप्त वै ॥ २०.४०॥
अष्टावेणस्य मांसेन रौरवेण नवैव तु ।
दशमासांस्तु तृप्यन्ति वराहमहिषामिषैः ॥ २०.४१॥
शशकूर्मर्योर्मांसेन मासानेकादशैव तु ।
संवत्सरं तु गव्येन पयसा पायसेन तु ।
वार्ध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥ २०.४२॥
कालशाकं महाशल्कः खङ्गलोहामिषं मधु ।
आनन्त्यायैव कल्पन्ते मुन्यन्नानि च सर्वशः ॥ २०.४३॥
क्रीत्वा लब्ध्वा स्वयं वाऽथ मृतानादृत्य वै द्विजः ।
दद्याच्छ्राद्धे प्रयत्नेन तदस्याक्षयमुच्यते ॥ २०.४४॥
पिप्पलीं क्रमुकं चैव तथा चैव मसूरकम् ।
कूष्माण्डालाबुवार्त्ताक भूतृणं सुरसं तथा ॥ २०.४५॥
कुसुम्भपिण्डमूलं वै तन्दुलीयकमेव च ।
राजमाषांस्तथा क्षीरं माहिषाजं च विवर्जयेत् ॥ २०.४६॥
आढक्यः कोविदारांश्च पालक्या मरिचांस्तथा ।
वर्जयेत् सर्वयत्नेन श्राद्धकाले द्विजोत्तमः ॥ २०.४७॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे विशोऽध्यायः ॥२०॥
कूर्मपुराणए उत्तरभागे एकविंशतितमोऽध्यायः
व्यास उवाच ।
स्नात्वा यथोक्तं संतर्प्य पितॄंश्चन्द्रक्षये द्विजः ।
पिण्डान्वाहार्यकं श्राद्धं कुर्यात् सौम्यमनाः शुचिः ॥ २१.१॥
पूर्वमेव परीक्षेत ब्राह्मणं वेदपारगम् ।
तीर्थं तद् हव्यकव्यानां प्रदाने चातिथिः स्मृतः ॥ २१.२॥
ये सोमपा विरजसो धर्मज्ञाः शान्तचेतसः ।
व्रतिनो नियमस्थाश्च ऋतुकालाभिगामिनः ॥ २१.३॥
पञ्चाग्निरप्यधीयानो यजुर्वेदविदेव च ।
बह्वृचश्च त्रिसौपर्णस्त्रिमधुर्वाऽथ योऽभवत् ॥ २१.४॥
त्रिणाचिकेतच्छन्दोगो ज्येष्ठसामग एव च ।
अथर्वशिरसोऽध्येता रुद्राध्यायी विशेषतः ॥ २१.५॥
अग्निहोत्रपरो विद्वान् न्यायविच्च षडङ्गवित् ।
मन्त्रब्राह्मणविच्चैव यश्च स्याद् धर्मपाठकः ॥ २१.६॥
ऋषिव्रती ऋषीकश्च तथा द्वादशवार्षिकः ।
ब्रह्मदेयानुसंतानो गर्भशुद्धः सहस्रदः ॥ २१.७॥
चान्द्रायणव्रतचरः सत्यवादी पुराणवित् ।
गुरुदेवाग्निपूजासु प्रसक्तो ज्ञानतत्परः ॥ २१.८॥
विमुक्तः सर्वतो धीरो ब्रह्मभूतो द्विजोत्तमः ।
महादेवार्चनरतो वैष्णवः पङ्क्तिपावनः ॥ २१.९॥
अहिंसानिरतो नित्यमप्रतिग्रहणस्तथा ।
सत्री च दाननिरता विज्ञेयः पङ्क्तिपावनः ॥ २१.१०॥
युवानः श्रोत्रियाः स्वस्था महायज्ञपरायणाः ।
सावित्रीजापनिरता ब्राह्मणाः पङ्क्तिपावनाः ।
कुलानां श्रुतवन्तश्च शीलवन्तस्तपस्विनः ।
अग्निचित्स्नातका विप्रः विज्ञेयाः पङ्क्तिपावनाः ।
मातापित्रोर्हिते युक्तः प्रातः स्नायी तथा द्विजः ।
अध्यात्मविन्मुनिर्दान्तो विज्ञेयः पङ्क्तिपावनः ॥ २१.११॥
ज्ञाननिष्ठो महायोगी वेदान्तार्थविचिन्तकः ।
श्रद्धालुः श्राद्धनिरतो ब्राह्मणः पङ्क्तिपावनः ॥ २१.१२॥
वेदविद्यारतः स्नातो ब्रह्मचर्यपरः सदा ।
अथर्वणो मुमुक्षुश्च ब्राह्मणः पङ्क्तिपावनः ॥ २१.१३॥
असमानप्रवरको ह्यसगोत्रस्तथैव च ।
असंबन्धी च विज्ञेयो ब्राह्मणः पङ्क्तिपावनः ॥ २१.१४॥
भोजयेद् योगिनं शान्तं तत्त्वज्ञानरतं यतः ।
अलाभे नैष्ठिकं दान्तमुपकुर्वाणकं तथा ॥ २१.१५॥
तदलाभे गृहस्थं तु मुमुक्षुं सङ्गवर्जितम् ।
सर्वालाभे साधकं वा गृहस्थमपि भोजयेत् ॥ २१.१६॥
प्रकृतेर्गुणतत्त्वज्ञो यस्याश्नाति यतिर्हविः ।
फलं वेदविदां तस्य सहस्रादतिरिच्यते ॥ २१.१७॥
तस्माद् यत्नेन योगीन्द्रमीश्वरज्ञानतत्परम् ।
भोजयेद् हव्यकव्येषु अलाभादितरान् द्विजान् ॥ २१.१८॥
एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः ।
अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिरनुष्ठितः ॥ २१.१९॥
मातामहं मातुलं च स्वस्त्रीयं श्वशुरं गुरुम् ।
दौहित्रं विट्पतिं बन्धुमृत्विग्याज्यौ च भोजयेत् ॥ २१.२०॥
न श्राद्धे भोजयेन्मित्रं धनैः कार्योऽस्य संग्रहः ।
पैशाची दक्षिणाशा हि नैवामुत्र फलप्रदा ॥ २१.२१॥
कामं श्राद्धेऽर्च्चयेन्मित्रं नाभिरूपमपि त्वरिम् ।
द्विषता हि हविर्भुक्तं भवति प्रेत्य निष्फलम् ॥ २१.२२॥
ब्राह्मणो ह्यनधीयानस्तृणाग्निरिव शाम्यति ।
तस्मै हव्यं न दातव्यं न हि भस्मनि हूयते ॥ २१.२३॥
यथोषरे बीजमुप्त्वा न वप्ता लभते फलम् ।
तथाऽनृचे हविर्दत्त्वा न दाता लभते फलम् ॥ २१.२४॥
यावतो ग्रसते पिण्डान् हव्यकव्येष्वमन्त्रवित् ।
तावतो ग्रसते प्रेत्य दीप्तान् स्थूलांस्त्वयोगुडान् ॥ २१.२५॥
अपि विद्याकुलैर्युक्ता हीनवृत्ता नराधमाः
यत्रैते भुञ्जते हव्यं तद् भवेदासुरं द्विजाः ॥ २१.२६॥
यस्य वेदश्च वेदी च विच्छिद्येते त्रिपूरुषम् ।
स वै दुर्ब्राह्मणो नार्हः श्राद्धादिषु कदाचन ॥ २१.२७॥
शूद्रप्रेष्यो भृतो राज्ञो वृषली ग्रामयाजकः ।
बधबन्धोपजीवी च षडेते ब्रह्मबन्धवः ॥ २१.२८॥
दत्तानुयोगो द्रव्यार्थं पतितान् मनुरब्रवीत् ।
वेदविक्रयिणो ह्येते श्राद्धादिषु विगर्हिताः ॥ २१.२९॥
सुतविक्रयिणो ये तु परपूर्वासमुद्भवाः ।
असामान्यान् यजन्ते ये पतितास्ते प्रकीर्तिताः ॥ २१.३०॥
असंस्कृताध्यापका ये भृत्या वाऽध्यापयन्ति ये ।
अधीयते तथा वेदान् पतितास्ते प्रकीर्तिताः ॥ २१.३१॥
वृद्धश्रावकनिर्ग्रन्थाः पञ्चरात्रविदो जनाः ।
कापालिकाः पाशुपताः पाषण्डा ये च तद्विधाः ॥ २१.३२॥
यस्याश्नन्ति हवींष्येते दुरात्मानस्तु तामसाः ।
न तस्य तद् भवेच्छ्राद्धं प्रेत्य चेह फलप्रदम् ॥ २१.३३॥
अनाश्रमी द्विजो यः स्यादाश्रमी वा निरर्थकः ।
मिथ्याश्रमी च ते विप्रा विज्ञेयाः पङ्क्तिदूषकाः ॥ २१.३४॥
दुश्चर्मा कुनखी कुष्ठी श्वित्री च श्यावदन्तकः ।
विद्ध्यजननश्चैव स्तेनः क्लीबोऽथ नास्तिकः ॥ २१.३५॥
मद्यपो वृषलीसक्तो वीरहा दिधिषूपतिः ।
आगारदाही कुण्डाशी सोमविक्रयिणो द्विजाः ॥ २१.३६॥
परिवेत्ता च हिंस्रः श्च परिवित्तिर्निराकृतिः ।
पौनर्भवः कुसीदश्च तथा नक्षत्रदर्शकः ॥ २१.३७॥
गीतवादित्रनिरतो व्याधितः काण एव च ।
हीनाङ्गश्चातिरिक्ताङ्गो ह्यवकीर्णीस्तथैव च ॥ २१.३८॥
कान्तादूषी कुण्डगोलौ अभिशस्तोऽथ देवलः
मित्रध्रुक् पिशुनश्चैव नित्यं भार्यानुवर्त्तितः ॥ २१.३९॥
मातापित्रोर्गुरोस्त्यागी दारत्यागी तथैव च
गोत्रस्पृक् भ्रष्टशौचश्च काण्डस्पृष्टस्तथैव च ॥ २१.४०॥
अनपत्यः कूटसाक्षी याचको रङ्गजीवकः ।
समुद्रयायी कृतहा तथा समयभेदकः ॥ २१.४१॥
देवनिन्दापरश्चैव वेदनिन्दारतस्तथा ।
द्विजनिन्दारतश्चैते वर्ज्याः श्राद्धादिकर्मसु ॥ २१.४२॥
कृतघ्नः पिशुनः क्रूरो नास्तिको वेदनिन्दकः ।
मित्रध्रुक् कुहकश्चैव विशेषात् पङ्क्तिदूषकाः ॥ २१.४३॥
सर्वे पुनरभोज्यान्नः तदानार्हाश्च कर्मसु ।
ब्रह्मभावनिरस्ताश्च वर्जनीयाः प्रयत्नतः ॥ २१.४४॥
शूद्रान्नरसपुष्टाङ्गः संध्योपासनवर्जितः ।
महायज्ञविहीनश्च ब्राह्मणः पङ्क्तिदूषकः ॥ २१.४५॥
अधीतनाशनश्चैव स्नानहोमविवर्जितः ।
तामसो राजसश्चैव ब्राह्मणः पङ्क्तिदूषकः ॥ २१.४६॥
बहुनाऽत्र किमुक्तेन विहितान् ये न कुर्वते ।
निन्दितानाचरन्त्येते वर्ज्याः श्राद्धे प्रयत्नतः ॥ २१.४७॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
एकविशोऽध्यायः ॥२१॥
कूर्मपुराणए उत्तरभागे द्वाविंशतितमोऽध्यायः
व्यास उवाच ।
गोमयेनोदकैर्भूमिं शोधयित्वा समाहितः ।
सन्निमन्त्र्य द्विजान् सर्वान् साधुभिः सन्निमन्त्रयेत् ॥ २२.१॥
श्वो भविष्यति मे श्राद्धं पूर्वेद्युरभिपूज्य च ।
असंभवे परेद्युर्वा यथोक्तैर्लक्षणैर्युतान् ॥ २२.२॥
तस्य ते पितरः श्रुत्वा श्राद्धकालमुपस्थितम् ।
अन्योन्यं मनसा ध्यात्वा सम्पतन्ति मनोजवाः ॥ २२.३॥
ब्राह्मणैस्तै सहाश्नन्ति पितरो ह्यन्तरिक्षगाः ।
वायुभूतास्तु तिष्ठन्ति भुक्त्वा यान्ति परां गतिम् ॥ २२.४॥
आमन्त्रिताश्च ते विप्राः श्राद्धकाल उपस्थिते ।
वसेयुर्नियताः सर्वे ब्रह्मचर्यपरायणाः ॥ २२.५॥
अक्रोधनोऽत्वरोऽमत्तः सत्यवादी समाहितः ।
भारं मैथुनमध्वानं श्राद्धकृद् वर्जयेज्जपम् ॥ २२.६॥
आमन्त्रितो ब्राह्मणो वा योऽन्यस्मै कुरुते क्षणम् ।
स याति नरकं घोरं सूकरत्वां प्रायाति च ॥ २२.७॥
आमन्त्रयित्वा यो मोहादन्यं चामन्त्रयेद् द्विजः ।
स तस्मादधिकः पापी विष्ठाकीटोऽभिजायते ॥ २२.८॥
श्राद्धे निमन्त्रितो विप्रो मैथुनं योऽधिगच्छति ।
ब्रह्महत्यामवाप्नोति तिर्यग्योनौ च जायते ॥ २२.९॥
निमन्त्रितस्तु यो विप्रो ह्यध्वानं याति दुर्मतिः ।
भवन्ति पितरस्तस्य तन्मासं पापभोजनाः ॥ २२.१०॥
निमन्त्रितस्तु यः श्राद्धे प्रकुर्यात् कलहं द्विजः ।
भवन्ति तस्य तन्मासं पितरो मलभोजनाः ॥ २२.११॥
तस्मान्निमन्त्रितः श्राद्धे नियतात्मा भवेद् द्विजः ।
अक्रोधनः शौचपरः कर्ता चैव जितेन्द्रियः ॥ २२.१२॥
श्वोभूते दक्षिणां गत्वा दिशं दर्भान् समाहितः ।
समूलानाहरेद् वारि दक्षिणाग्रान् सुनिर्मलान् ॥ २२.१३॥
दक्षिणाप्रवणं स्निग्धं विभक्तं शुभलक्षणम् ।
शुचिं देशं विविक्तं च गोमयेनोपलेपयेत् ॥ २२.१४॥
नदीतीरेषु तीर्थेषु स्वभूमौ चैव नाम्बुषु ।
विविक्तेषु च तुष्यन्ति दत्तेन पितरः सदा ॥ २२.१५॥
पारक्ये भूमिभागे तु पितॄणां नैव निर्वपेत् ।
स्वामिभिस्तद् विहन्येत मोहाद् यत् क्रियते नरैः ॥ २२.१६॥
अटव्यः पर्वताः पुण्यास्तीर्थान्यायतनानि च ।
सर्वाण्यस्वामिकान्याहुर्न ह्येतेषु परिग्रहः ॥ २२.१७॥
तिलान् प्रविकिरेत्तत्र सर्वतो बन्धयेदजाम् ।
असुरोपहतं श्राद्धं तिलैः शुद्ध्यत्यजेन वा ॥ २२.१८॥
ततोऽन्नं बहुसंस्कारं नैकव्यञ्जनमच्युतम् ।
चोष्यं पेयं समृद्धं च यथाशक्त्या प्रकल्पयेत् ॥ २२.१९॥
ततो निवृत्ते मध्याह्ने लुप्तरोमनखान् द्विजान् ।
अभिगम्य यथामार्गं प्रयच्छेद् दन्तधावनम् ॥ २२.२०॥
तैलमभ्यञ्जनं स्नानं स्नानीयं च पृथग्विधम् ।
पात्रैरौदुम्बरैर्दद्याद् वैश्वदैवत्यपूर्वकम् ॥ २२.२१॥
ततःस्नानान्निवृत्तेभ्यः प्रत्युत्थायकृताञ्जलिः ।
पाद्यमाचमनीयं च सम्प्रयच्छेद् यथाक्रमम् ॥ २२.२२॥
ये चात्र विश्वेदेवानां विप्राः पूर्वं निमन्त्रिताः ।
प्राङ्मुखान्यासनान्येषां त्रिदर्भोपहितानि च ॥ २२.२३॥
दक्षिणामुखमुक्तानि पितॄणामासनानि च ।
दक्षिणाग्रेषु दर्भेषु प्रोक्षितानि तिलोदकैः ॥ २२.२४॥
तेषूपवेशयेदेतानासनं संस्पृशन्नपि ।
आसध्वमिति संजल्पन्नासीरंस्ते पृथक् पृथक् ॥ २२.२५॥
द्वौ दैवे प्राङ्मुखौ पित्र्ये त्रयश्चोदङ्मुखास्तथा ।
एकैकं वा भवेत् तत्र देवमातामहेष्वपि ॥ २२.२६॥
सत्क्रियां देशकालौ च शौचं ब्राह्मणसम्पदम् ।
पञ्चैतान् विस्तरो हन्ति तस्मान्नेहेत विस्तरम् ॥ २२.२७॥
अपि वा भोजयेदेकं ब्राह्मणं वेदपारगम् ।
श्रुतशीलादिसम्पन्नमलक्षणविवर्जितम् ॥ २२.२८॥
उद्धृत्य पात्रे चान्नं तत् सर्वस्मात् प्रकृतात् पुनः ।
देवतायतने वासौ निवेद्यान्यत्प्रवर्त्तयेत् ॥ २२.२९॥
प्रास्येदग्नौ तदन्नं तु दद्याद् वा ब्रह्मचारिणे ।
तस्मादेकमपि श्रेष्ठं विद्वांसं भोजयेद् द्विजम् ॥ २२.३०॥
भिक्षुको ब्रह्मचारी वा भोजनार्थमुपस्थितः ।
उपविष्टेषु यः श्राद्धे कामं तमपि भोजयेत् ॥ २२.३१॥
अतिथिर्यस्य नाश्नाति न तच्छ्राद्धं प्रशस्यते ।
तस्मात् प्रयत्नाच्छ्राद्धेषु पूज्या ह्यतिथयो द्विजैः ॥ २२.३२॥
आतिथ्यरहिते श्राद्धे भुञ्जते ये द्विजातयः ।
काकयोनिं व्रजन्त्येते दाता चैव न संशयः ॥ २२.३३॥
हीनाङ्गः पतितः कुष्ठी व्रणी पुक्कसनास्तिकौ ।
कुक्कुटाः शूकराः श्वानो वर्ज्याः श्राद्धेषु दूरतः ॥ २२.३४॥
बीभत्सुमशुचिं नग्नं मत्तं धूर्तं रजस्वलाम् ।
नीलकाषायवसनपाषण्डांश्च विवर्जयेत् ॥ २२.३५॥
यत् तत्र क्रियते कर्म पैतृकं ब्राह्मणान् प्रति ।
तत्सर्वमेव कर्त्तव्यं वैश्वदैवत्यपूर्वकम् ॥ २२.३६॥
यथोपविष्टान् सर्वांस्तानलंकुर्याद् विभूषणैः ।
स्रग्दामभिः शिरोवेष्टैर्धूपवासोऽनुलेपनैः ॥ २२.३७॥
ततस्त्वावाहयेद् देवान् ब्राह्मणानामनुज्ञया ।
उदङ्मुखो यथान्यायं विश्वे देवास इत्यृचा ॥ २२.३८॥
द्वे पवित्रे गृहीत्वाऽथ भाजने क्षालिते पुनः ।
शंनो देवी जलं क्षिप्त्वा यवोऽसीति यवांस्तथा ॥ २२.३९॥
या दिव्या इति मन्त्रेण हस्ते त्वर्घं विनिक्षिपेत् ।
प्रदद्याद् गन्धमाल्यानि धूपादीनि च शक्तितः ॥ २२.४०॥
अपसव्यं ततः कृत्वा पितॄणां दक्षिणामुखः ।
आवाहनं ततः कुर्यादुशन्तस्त्वेत्यृचा बुधः ॥ २२.४१॥
आवाह्य तदनुज्ञातो जपेदायन्तु नस्ततः ।
शंनो देव्योदकं पात्रे तिलोऽसीति तिलांस्तथा ॥ २२.४२॥
क्षिप्त्वा चार्घं यथापूर्वं दत्त्वा हस्तेषु वै पुनः ।
संस्रवांश्च ततः सर्वान् पात्रे कुर्यात् समाहितः ॥ २२.४३॥
पितृभ्यः स्थानमेतच्च न्युब्जपात्रं निधापयेत् ।
अग्नौ करिष्यन्नादाय पृच्छेदन्नं घृतप्लुतम् ।
कुरुष्वेत्यभ्यनुज्ञातो जुहुयादुपवीतवान् ॥ २२.४४॥
यज्ञोपवीतिना होमः कर्त्तव्यः कुशपाणिना ।
प्राचीनावीतिना पित्र्यं वैश्वदेवं तु होमवित् ॥ २२.४५॥
दक्षिणं पातयेज्जानुं देवान् परिचरन् सदा ।
पितृणां परिचर्यासु पातयेदितरं तथा ॥ २२.४६॥
सोमाय वै पितृमते स्वधा नम इति ब्रुवन् ।
अग्नये कव्यवाहनाय स्वधेति जुहुयात् ततः ॥ २२.४७॥
अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत् ।
महादेवान्तिके वाऽथ गोष्ठे वा सुसमाहितः ॥ २२.४८॥
ततस्तैरभ्यनुज्ञातो गत्वा वै दक्षिणां दिशम् ।
गोमयेनोपलिप्योर्वीं स्थानं कुर्यात्ससैकतम् ॥ २२.४९॥
मण्डलं चतुरस्रं वा दक्षिणाप्रवणं शुभम् ।
त्रिरुल्लिखेत्तस्य मध्यं दर्भेणैकेन चैव हि ॥ २२.५०॥
ततः संस्तीर्य तत्स्थाने दर्भान्वै दक्षिणाग्रकान् ।
त्रीन् पिण्डान् निर्वपेत् तत्र हविः शेषात्समाहितः ॥ २२.५१॥
लुप्त पिण्डांस्तु तं हस्तं निमृज्याल्लेपभागिनाम् ।
तेषु दर्भेष्वथाचम्य त्रिराचम्य शनैरसून् ।
तदन्नं तु नमस्कुर्यात् पितॄनेव च मन्त्रवित् ॥ २२.५२॥
उदकं निनयेच्छेषं शनैः पिण्डान्तिके पुनः ।
अवजिघ्रेच्च तान् पिण्डान् यथान्युप्त्वा समाहितः ॥ २२.५३॥
अथ पिण्डाच्च शिष्टान्नं विधिना भोजयेद् द्विजान् ।
मांसान्यपूपान् विविधान् दद्यात् कृशरपायसम् ॥ २२.५४॥
ततोऽन्नमुत्सृजेद्भुक्तेष्वग्रतो विकिरन्भुवि ।
पृष्ट्वा तदन्नमित्येव तृप्तानाचामयेत्ततः ॥ २२.५५॥
आचान्ताननुजानीयादभितो रम्यतामिति ।
स्वधास्त्विति च ते ब्रूयुर्ब्राह्मणास्तदनन्तरम् ॥ २२.५६॥
ततो भुक्तवतां तेषां अन्नशेषं निवेदयेत् ।
यथा ब्रूयुः स्तथा कुर्यात् अनुज्ञातस्तु तैर्द्विजैः ॥ २२.५७॥
पित्रे स्वदितमित्येव वाच्यं गोष्टेषु सुश्रितम् ।
सम्पन्नमित्यभ्युदये देवे सेवितमित्यपि ॥ २२.५८॥
विसृज्य ब्राह्मणान् तान्वै पितृपूर्वन्तु वाग्यतः ।
दक्षिणान्दिशमाकांक्षन्याचेतेमान्वरान् पितॄन् ॥ २२.५९॥
दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च ।
श्रद्धा च नो मा विगमद्बहुदेयञ्च नोस्त्विति ॥ २२.६०॥
पिण्डांस्तु गोऽजविप्रेभ्यः दद्यादग्नौ जलेऽपि वा ।
मध्यमन्तु ततः पिण्डमद्यात्पत्नी सुतार्थिनी ॥ २२.६१॥
प्रक्षाल्य हस्त वाचम्य ज्ञातिं शेषेण तोषयेत् ।
सूपशाकफलानीक्षून् पयो दधि घृतं मधु ॥ २२.६२॥
अन्नं चैव यथाकामं विविधं भोज्यपेयकम् ।
यद् यदिष्टं द्विजेन्द्राणां तत्सर्वं विनिवेदयेत् ॥ २२.६३॥
धान्यांस्तिलांश्च विविधान् शर्करा विविधास्तथा ।
उष्णमन्नं द्विजातिभ्यो दातव्यं श्रेय इच्छता ।
अन्यत्र फलमूलेभ्यः पानकेभ्यस्तथैव च ॥ २२.६४॥
नभूमौ पातयेज्जानुं न कुप्येन्नानृतं वदेत् ।
न पादेन स्पृशेदन्नं न चैवमवधूनयेत् ॥ २२.६५॥
क्रोधेनैवच यत्भुक्तं यद्भुक्तं त्वयथाविधि ।
यातुधाना विलुम्पन्ति जल्पता चोपपादितम् ॥ २२.६६॥
स्विन्नगात्रो न तिष्ठेत सन्निधौ तु द्विजोत्तमाः ।
नच पश्येत काकादीन् पक्षिणः प्रतिषेधयेत् ।
तद्रूपाः पितरस्तत्र समायान्ति बुभुक्षवः ॥ २२.६७॥
न दद्यात् तत्र हस्तेन प्रत्यक्षं लवणं तथा ।
न चायसेन पात्रेण न चैवाश्रद्धया पुनः ॥ २२.६८॥
काञ्चनेन तु पात्रेण राजतोदुम्बरेण वा
दत्तमक्षयतां याति खड्गेन च विशेषतः ॥ २२.६९॥
पात्रे तु मृण्मये यो वै श्राद्धे भोजयते द्विजान् ।
स याति नरकं घोरं भोक्ता चैव पुरोधसः ॥ २२.७०॥
न पङ्क्त्यां विषमं दद्यान्न याचेन्न च दापयेत् ।
याचिता दापिता दाता नरकान् यान्ति दारुणान् ॥ २२.७१॥
भुञ्जीरन् वाग्यताः शिष्टा न ब्रूयुः प्राकृतान् गुणान् ।
तावद्धि पितरोऽश्नन्ति यावन्नोक्ता हविर्गुणाः ॥ २२.७२॥
नाग्रासनोपविष्टस्तु भुञ्जीत प्रथमं द्विजः ।
बहूनां पश्यतां सोऽन्यः पङ्क्त्या हरति किल्बिषम् ॥ २२.७३॥
न किञ्चिद् वर्जयेच्छ्राद्धे नियुक्तस्तु द्विजोत्तमः ।
न मांसं प्रतिषेधेत न चान्यस्यान्नमीक्षयेत् ॥ २२.७४॥
यो नाश्नाति द्विजो मांसं नियुक्तः पितृकर्मणि ।
स प्रेत्य पशुतां याति संभवानेकविंशतिम् ॥ २२.७५॥
स्वाध्यायाञ्च्छ्रवयेदेषां धर्मशास्त्राणि चैव हि ।
इतिहासपुराणानि श्राद्धकल्पांश्च शोभनान् ॥ २२.७६॥
ततोऽन्नमुत्सृजेद् भुक्ता साग्रतो विकिरन् भुवि ।
पृष्ट्वा तृप्ताः स्थ इत्येवं तृप्तानाचामयेत् ततः ॥ २२.७७॥
आचान्ताननुजानीयादभितो रम्यतामिति ।
स्वधाऽस्त्विति च तं ब्रूयुर्ब्राह्मणास्तदनन्तरम् ॥ २२.७८॥
ततो भुक्तवतां तेषामन्नशेषं निवेदयेत् ।
यथा ब्रूयुस्तथा कुर्यादनुज्ञातस्तु तैर्द्विजैः ॥ २२.७९॥
पित्र्ये स्वदित इत्येव वाक्यं गोष्ठेषु सूत्रितम् ।
सम्पन्नमित्यभ्युदये दैवे रोचत इत्यपि ॥ २२.८०॥
विसृज्य ब्राह्मणान् ल्तुत्वा वै दैवपूर्वं तु वाग्यतः ।
दक्षिणां दिशमाकाङ्क्षन्याचेतेमान् वरान् पितॄन् ॥ २२.८१॥
दातारो नोऽभिवर्द्धन्तां वेदाः संततिरेव च ।
श्रद्धा च नो मा व्यगमद् बहुदेयं च नोस्त्त्विति ॥ २२.८२॥
पिण्डांस्तु गोऽजविप्रेभ्यो दद्यादग्नौ जलेऽपि वा ।
मध्यमं तु ततः पिण्डमद्यात् पत्नी सुतार्थिनी ॥ २२.८३॥
प्रक्षाल्य हस्तावाचम्य ज्ञातीन् शेषेण तोषयेत् ।
ज्ञातिष्वपि चतुष्टेषु स्वान् भृत्यान् भोजयोत् ततः ॥ २२.८४॥
पश्चात् स्वयं च पत्नीभिः शेषमन्नं समाचरेत् ।
नोद्वासयेत् तदुच्छिष्टं यावन्नास्तंगतो रविः ॥ २२.८५॥
ब्रह्मचारी भवेतां तु दम्पती रजनीं तु ताम् ।
दत्त्वा श्राद्धं तथा भुक्त्वा सेवते यस्तु मैथुनम् ॥ २२.८६॥
महारौरवमासाद्य कीटयोनिं व्रजेत् पुनः ॥ २२.८७॥
शुचिरक्रोधनः शान्तः सत्यवादी समाहितः ।
स्वाध्यायं च तथाऽध्वानं कर्त्ता भोक्ता च वर्जयेत् ॥ २२.८८॥
श्राद्धं भुक्त्वा परश्राद्धं भुञ्जते ये द्विजातयः ।
महापातिकिभिस्तुल्या यान्ति ते नरकान् बहून् ॥ २२.८९॥
एष वो विहितः सम्यक् श्राद्धकल्पः सनातनः ।
आनेन वर्द्धयेन्नित्यं ब्राह्मणो व्यसनान्वितः ॥ २२.९०॥
आमश्राद्धं द्विजः कुर्याद् विधिज्ञः श्रद्धयान्वितः ।
तेनाग्नौ करणं कुर्यात् पिण्डांस्तेनैव निर्वपेत् ॥ २२.९१॥
योऽनेन विधिना श्राद्धं कुर्यात् शान्तमानसः ।
व्यपेतकल्पषो नित्यं योगिनां वर्त्तते पदम् ॥ २२.९२॥
तस्मात् सर्वप्रयत्नेन श्राद्धं कुर्याद् द्विजोत्तमः ।
आराधितो भवेदीशस्तेन सम्यक् सनातनः ॥ २२.९३॥
अपि मूलैर्फलैर्वाऽपि प्रकुर्यान्निर्धनो द्विजः ।
तिलोदकैस्तर्पयित्वा पितॄन् स्नात्वा समाहितः ॥ २२.९४॥
न जीवत्पितृको दद्याद्धोमान्तं वा विधीयते ।
येषां वापि पिता दद्यात् तेषां चैके प्रचक्षते ॥ २२.९५॥
पिता पितामहश्चैव तथैव प्रपितामहः ।
यो यस्य प्रीयते तस्मै देयं नान्यस्य तेन तु ॥ २२.९६॥
भोजयेद् वापि जीवन्तं यथाकामं तु भक्तितः ।
न जीवन्तमतिक्रम्य ददाति प्रयतः शुचिः ॥ २२.९७॥
द्व्यामुष्यायणिको दद्याद् बीजिक्षेत्रिकयोः समम् ।
अधिकारी भवेत्सोऽथ नियोगोत्पादितो यदि ॥ २२.९८॥
अनियुक्तः सुतो यश्च शुक्रतो जायते त्विह ।
प्रदद्याद् वीजिने पिण्डं क्षेत्रिणे तु ततोऽन्यथा ॥ २२.९९॥
द्वौ पिण्डौ निर्वपेत् ताभ्यां क्षेत्रिणे बीजिने तथा ।
कीर्त्तयेदथ चैकस्मिन् बीजिनं क्षेत्रिणं ततः ।
मृताहनि तु कर्त्तव्यमेकोदिष्टं विधानतः ॥ २२.१००॥
अशौचे स्वे परिक्षीणे काम्यं वै कामतः पुनः ।
पूर्वाह्नि चैव कर्त्तव्यं श्राद्धमभ्युदयार्थिना ॥ २२.१०१॥
देववत्सर्वमेव स्याद् नैव कार्याः तिलैः क्रिया ।
दर्भाश्च ऋजवः कार्या युग्मान् वै भोजयेद् द्विजान् ॥ २२.१०१॥
नान्दीमुखास्तु पितरः प्रीयन्तामिति वाचयेत् ।
मातृश्राद्धं तु पूर्वं स्यात् पितॄणां तदनन्तरम् ॥ २२.१०३॥
ततो मातामहानां तु वृद्धौ श्राद्धत्रयं स्मृतम् ।
दैवपूर्वं प्रदद्याद् वै न कुर्यादप्रदक्षिणम् ॥ २२.१०४॥
प्राङ्मुखो निर्वपेत् पिण्डानुपवीती समाहितः ।
पूर्वं तु मातरः पूज्या भक्त्या वै सगणेश्वराः ॥ २२.१०५॥
स्थण्डिलेषु विचित्रेषु प्रतिमासु द्विजातिषु ।
पुष्पैर्धूपैश्च नैवेद्यैर्गन्धाद्यैर्भूषणैरपि ॥ २२.१०६॥
पूजयित्वा मातृगणं कूर्याच्छ्राद्धत्रयं द्विजः ।
अकृत्वा मातृयोगं तु यः श्राद्धं परिवेषयेत् ।
तस्य क्रोधसमाविष्टा हिंसामिच्छन्ति मातरः ॥ २२.१०७॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
द्वाविशोऽध्यायः ॥२२॥
कूर्मपुराणए उत्तरभागे त्रयोविंशतितमोऽध्यायः
व्यास उवाच ।
दशाहं प्राहुराशौचं सपिण्डेषु विधीयते ।
मृतेषु वाऽथ जातेषु ब्राह्मणानां द्विजोत्तमाः ॥ २३.१॥
नित्यानि चैव कर्माणि काम्यानि च विशेषतः ।
नकुर्याद् विहितं किञ्चित् स्वाध्यायं मनसाऽपिच ॥ २३.२॥
शुचीनक्रोधनान् भूम्यान् शालाग्नौ भावयेद् द्विजान् ।
शुष्कान्नेन फलैर्वापि वैतानान् जुहुयात् तथा ॥ २३.३॥
न स्पृशेदुरिमानन्ये न च तेभ्यः समाहरेत् ।
चतुर्थे पञ्चमे वाऽह्नि संस्पर्शः कथितो बुधैः ॥ २३.४॥
सूतके तु सपिण्डानां संस्पर्शो न प्रदुष्यति ।
सूतकं सूतिकां चैव वर्जयित्वा नृणां पुनः ॥ २३.५॥
अधीयानस्तथा वेदान् वेदविच्च पिता भवेत् ।
संस्पृश्याः सर्व एवैते स्नानान्माता दशाहतः ॥ २३.६॥
दशाहं निर्गुणे प्रोक्तमशौचं चातिनिर्गुणे ।
एकद्वित्रिगुणैर्युक्तः चतुस्त्र्येकदिनैः शुचिः ॥ २३.७॥
दशाह्नादपरं सम्यगधीयीत जुहोति च ।
चतुर्थे तस्य संस्पर्शं मनुराह प्रजापतिः ॥ २३.८॥
क्रियाहीनस्य मूर्खस्य महारोगिण एव च ।
यथेष्टाचरणस्येह मरणान्तमशौचकम् ॥ २३.९॥
त्रिरात्रं दशरात्रं वा ब्राह्मणानामशौचकम् ।
प्राक्संवत्सरात् त्रिरात्रं स्यात् तस्मादूर्ध्वं दशाहकम् ॥ २३.१०॥
ऊनद्विवार्षिके प्रेते मातापित्रोस्तदिष्यते ।
त्रिरात्रेण शुचिस्त्वन्यो यदि ह्यत्यन्तनिर्गुणः ।
अदन्तजातमरणे पित्रोरेकाहमिष्यते ।
जातदन्ते त्रिरात्रं स्याद् यदि स्यातां तु निर्गुणौ ॥ २३.११॥
आदन्तजननात् सद्य आचौलादेकरात्रकम् ।
त्रिरात्रमौपनयनात् सपिण्डानामुदाहृतम् ॥ २३.१२॥
जातमात्रस्य बालस्य यदि स्यान्मरणं पितुः ।
मातुश्च सूतकं तत् स्यात् पिता स्यात् स्पृश्य एव च ॥ २३.१३॥
सदाशौचं सपिण्डानां कर्त्तव्यं सोदरस्य च ।
ऊर्ध्वं दशाहादेकाहं सोदरो यदि निर्गुणः ॥ २३.१४॥
अथोर्ध्वं दन्तजननात् सपिण्डानामशौचकम् ।
एकरात्रं निर्गुणानां चौलादूर्ध्वं त्रिरात्रकम् ॥ २३.१५॥
अदन्तजातमरणं संभवेद् यदि सत्तमाः ।
एकरात्रं सपिण्डानां यदि तेऽत्यन्तनिर्गुणाः ॥ २३.१६॥
व्रतादेशात् सपिण्डानां गर्भस्रावात् स्वपाततः ।
(सर्वेषामेव गुणिनामूर्ध्वं तु विषमं पुनः ।
अर्वाक् षण्मासतः स्त्रीणां यदि स्याद् गर्भसंस्रवः ।
तदा माससमैस्तासामशौचं दिवसैः स्मृतम् ।
तत ऊर्ध्वं तु पतने स्त्रीणां द्वादशरात्रिकम् ।
सद्यः शौचं सपिण्डानां गर्भस्रावाच्च धातुतः ।
गर्भच्युतादहोरात्रं सपिण्डेऽत्यन्तनिर्गुणे ।)
यथेष्टाचरणे ज्ञातौ त्रिरात्रमिति निश्चयः ॥ २३.१७॥
यदि स्यात् सूतके सूतिर्मरणे वा मृतिर्भवेत् ।
शेषेणैव भवेच्छुद्धिरहः शेषे त्रिरात्रकम् ॥ २३.१८॥
मरणोत्पत्तियोगेन मरणेन समाप्यते ।
अघ्यंवृद्धिमदाशौचमूर्घ्वं चेत्तु न शुध्यति ॥ २३.१९॥
अथ चेत् पञ्चमीरात्रिमतीत्य परतो भवेत् ।
अघवृद्धिमदाशौचं तदा पूर्वेण शुध्यति ॥
देशान्तरगतं श्रुत्वा सूतकं शावमेव तु ।
तावदप्रयतो मर्त्यो यावच्छेषः समाप्यते ॥ २३.२०॥
अतीते सूतके प्रोक्तं सपिण्डानां त्रिरात्रकम् ।
(अथैव मरणे स्नानमूर्ध्वं संवत्सराद् यदि ॥
वेदान्तविच्चाधीयानो योऽग्निमान् वृत्तिकर्षितः ।
सद्यः शौचं भवेत् तस्य सर्वावस्थासु सर्वदा ॥
स्त्रीणामसंस्कृतानां तु प्रदानात् परतः सदा ।
सपिण्डानां त्रिरात्रं स्यात् संस्कारे भर्त्तुरेव हि ।
अहस्त्वदत्तकन्यानामशौचं मरणे स्मृतम् ।
ऊनद्विवर्षान्मरणे सद्यः शौचमुदाहृतम् ॥
आदन्तात् सोदरे सद्य आचौलादेकरात्रकम् ।)
आप्रदानात् त्रिरात्रं स्याद् दशरात्रं ततः परम् ॥ २३.२१॥
मातामहानां मरणे त्रिरात्रं स्यादशौचकम् ।
एकोदकानां मरणे सूतके चैतदेव हि ॥ २३.२२॥
पक्षिणी योनिसम्बन्धे बान्धवेषु तथैव च ।
एकरात्रं समुद्दिष्टं गुरौ सब्रह्मचारिणि ॥ २३.२३॥
प्रेते राजनि सज्योतिर्यस्य स्याद् विषये स्थितिः ।
गृहे मृतासु सर्वासु कन्यासु त्र्यहं पितुः ॥ २३.२४॥
परपूर्वासु भार्यासु पुत्रेषु कृतकेषु च ।
त्रिरात्रं स्यात् तथाचार्यास्वभार्यास्वन्यगासु च ॥ २३.२५॥
आचार्यपुत्रे पत्न्यां च अहोरात्रमुदाहृतम् ।
एकाहं स्यादुपाध्याये स्वग्रामे श्रोत्रियेऽपि च ॥ २३.२६॥
त्रिरात्रमसपिण्डेषु स्वगृहे संस्थितेषु च ।
एकाहं चास्ववर्ये स्यादेकरात्रं तदिष्यते ॥ २३.२७॥
त्रिरात्रं श्वश्रूमरणात् श्वशुरे चै तदेव हि ।
सद्यः शौचं समुद्दिष्टं स्वगोत्रे संस्थिते सति ॥ २३.२८॥
शुद्ध्येद् विप्रो दशाहेन द्वादशाहेन भूमिपः ।
वैश्यः पञ्चदशाहेन शूद्रो मासेन शुद्यति ॥ २३.२९॥
क्षत्रविट्शूद्रदायादा ये स्युर्विप्रस्य बान्धवाः ।
तेषामशौचे विप्रस्य दशाहाच्छुद्धिरिष्यते ॥ २३.३०॥
राजन्यवैश्यावप्येवं हीनवर्णासु योनिषु ।
तमेव शौचं कुर्यातां विशुद्ध्यर्थमसंशयम् ॥ २३.३१॥
सर्वे तूत्तरवर्णानामशौचं कुर्युरादृताः ।
तद्वर्णविधिदृष्टेन स्वं तु शौचं स्वयोनिषु ॥ २३.३२॥
षड्रात्रं वा त्रिरात्रं स्यादेकरात्रं क्रमेण हि ।
वैश्यक्षत्रियविप्राणां शूद्रेष्वाशौचमेव तु ॥ २३.३३॥
अर्द्धमासोऽथ षड्रात्रं त्रिरात्रं द्विजपुंगवाः ।
शूद्रक्षत्रियविप्राणां वैश्येष्वाशौचमिष्यते ॥ २३.३४॥
षड्रात्रं वै दशाहं च विप्राणां वैश्यशूद्रयोः ।
अशौचं क्षत्रिये प्रोक्तं क्रमेण द्विजपुंगवाः ॥ २३.३५॥
शूद्रविट्क्षत्रियाणां तु ब्राह्मणे संस्थिते सति ।
दशरात्रेण शुद्धिः स्यादित्याह कमलोद्भवः ॥ २३.३६॥
असपिण्डं द्विजं प्रेतं विप्रो निर्धृत्य बन्धुवत् ।
अशित्वा च सहोषित्वा दशरात्रेण शुध्यति ॥ २३.३७॥
यद्यन्नमत्ति तेषां तु त्रिरात्रेण ततः शुचिः ।
अन्नदंस्त्वन्नमह्ना तु न च तस्मिन् गृहे वसेत् ॥ २३.३८॥
सोदकेष्वेतदेव स्यान्मातुराप्तेषु बन्धुषु ।
दशाहेन शवस्पर्शी सपिण्डश्चैव शुध्यति ॥ २३.३९॥
यदि निर्हरति प्रेतं प्रोलभाक्रान्तमानसः ।
दशाहेन द्विजः शुध्येद् द्वादशाहेन भूमिपः ॥ २३.४०॥
अर्द्धमासेन वैश्यस्तु शूद्रो मासेन शुध्यति ।
षड्रात्रेणाथवा सर्वे त्रिरात्रेणाथवा पुनः ॥ २३.४१॥
अनाथं चैव निर्धृत्य ब्राह्मणं धनवर्जितम् ।
स्नात्वा सम्प्राश्य तु घृतं शुध्यन्ति ब्राह्मणादयः ॥ २३.४२॥
अपरश्चेद् परं वर्णमपरं वा परो यदि ।
अशौचे संस्पृशेत् स्नेहात् तदाशौचेन शुध्यति ॥ २३.४३॥
प्रेतीभूतं द्विजं विप्रो हि अनुगच्छेत कामतः ।
स्नात्वा सचैलं स्पृष्ट्वाऽग्निं घृतं प्राश्य विशुध्यति ॥ २३.४४॥
एकाहात् क्षत्रिये शुद्धिर्वैश्ये स्याच्च द्व्यहेन तु ।
शूद्रे दिनत्रयं प्रोक्तं प्राणायामशतं पुनः ॥ २३.४५॥
अनस्थिसंचिते शूद्रे रौति चेद् ब्राह्मणः स्वकैः ।
त्रिरात्रं स्यात् तथाशौचमेकाहं त्वन्यथा स्मृतम् ॥ २३.४६॥
अस्थिसंचयनादर्वागेकाहं क्षत्रवैश्ययोः ।
अन्यथा चैव सज्योतिर्ब्राह्मणे स्नानमेव तु ॥ २३.४७॥
अनस्थिसंचित् विप्रो ब्राह्मणो रौति चेत् तदा ।
स्नानेनैव भवेच्छुद्धिः सचैलेनात्र संशयः ॥ २३.४८॥
यस्तैः सहाशनं कुर्याच्छयनादीनि चैव हि ।
बान्धवो वाऽपरो वाऽपि स दशाहेन शुध्यति ॥ २३.४९॥
यस्तेषां सममश्नाति सकृदेवापि कामतः ।
तदाशौचे निवृत्तेऽसौ स्नानं कृत्वा विशुध्यति ॥ २३.५०॥
यावत्तदन्नमश्नाति दुर्भिक्षोपहतो नरः ।
तावन्त्यहान्यशौचं स्यात् प्रायश्चित्तं ततश्चरेत् ॥ २३.५१॥
दाहाद्यशौचं कर्त्तव्यं द्विजानामग्निहोत्रिणाम् ।
सपिण्डानां तु मरणे मरणादितरेषु च ॥ २३.५२॥
सपिण्डता च पुरुषे सप्तमे विनिवर्त्तते ।
समानोदकभावस्तु जन्मनाम्नोरवेदने ॥ २३.५३॥
पिता पितामहश्चैव तथैव प्रपितामहः ।
लेपभाजस्रयो ज्ञेयाः सापिण्ड्यं साप्तपौरुषण् ॥ २३.५४॥
अप्रत्तानां तथा स्त्रीणां सापिण्ड्यं साप्तपौरुषम् ।
तासान्तु भर्त्तुसापिण्ड्यं प्राह देवः पितामहः ॥ २३.५५॥
ये चैकजाता बहवो भिन्नयोनय एव च ।
भिन्नवर्णास्तु सापिण्ड्यं भवेत् तेषां त्रिपूरुषम् ॥ २३.५६॥
कारवः शिल्पिनो वैद्या दासीदासास्तथैव च ।
दातारो नियमाच्चैव ब्रह्मविद्ब्रह्मचारिणौ ।
सत्रिणो व्रतिनस्तावत् सद्यः शौचं उदाहृतम् ॥ २३.५७॥
राजा चैवाभिषिक्तश्च अन्नसत्रिण एव च ।
यज्ञे विवाहकाले च दैवयागे तथैव च ।
सद्यः शौचं समाख्यातं दुर्भिक्षे चाप्युपप्लवे ॥ २३.५८॥
डिम्बाहवहतानां च विद्युता पार्थिवैर्द्विजैः ।
सद्यः शौचं समाख्यातं सर्पादिमरणे तथा ॥ २३.५९॥
अग्निमरुत्प्रपतने वीराध्वन्यप्यनाशके ।
गोब्राह्मणार्थे च संन्यस्ते सद्यः शौचं विधीयते ॥ २३.६०॥
नैष्ठिकानां वनस्थानां यतीनां ब्रह्मचारिणाम् ।
नाशौचं कीर्त्यते सद्भिः पतिते च तथा मृते ॥ २३.६१॥
पतितानां न दाहः स्यान्नान्त्येष्टिर्नास्थिसंचयः ।
ना श्रुपातो नपिण्डौ वा कार्यं श्राद्धादि कंक्वचित् ॥ २३.६२॥
व्यापादयेत् तथात्मानं स्वयं योऽग्निविषादिभिः ।
विहितं तस्य नाशौचं नाग्निर्नाप्युदकादिकम् ॥ २३.६३॥
अथ किंचित् प्रमादेन म्रियतेऽग्निविषादिभिः ।
तस्याशौचं विधातव्यं कार्यं चैवोदकादिकम् ॥ २३.६४॥
जाते कुमारे तदहः कामं कुर्यात् प्रतिग्रहम् ।
हिरण्यधान्यगोवासस्तिलाश्च गुडसर्पिषा ॥ २३.६५॥
फलानि पुष्पं शाकं च लवणं काष्ठमेव च ।
तक्रं दधि घृतं तैलमौषधं क्षीरमेव च ।
आशौचिनो गृहाद् ग्राह्यं शुष्कान्नं चैव नित्यशः ॥ २३.६६॥
आहिताग्निर्यथान्यायं दग्धव्यस्त्रिभिरग्निभिः ।
अनाहिताग्निर्गृह्येण लौकिकेनेतरो जनः ॥ २३.६७॥
देहाभावात् पलाशैस्तु कृत्वा प्रतिकृतिं पुनः ।
दाहः कार्यो यथान्यायं सपिण्डैः श्रद्धयाऽन्वितैः ॥ २३.६८॥
सकृत्प्रसिञ्चेदुदकं नामगोत्रेण वाग्यताः ।
दशाहं बान्धवैः सार्धं सर्वे चैवार्द्रवाससः ॥ २३.६९॥
पिण्डं प्रतिदिनं दद्युः सायं प्रातर्यथाविधि ।
प्रेताय च गृहद्वारि चतुर्थे भोजयेद् द्विजान् ॥ २३.७०॥
द्वितीयेऽहनि कर्त्तव्यं क्षुरकर्म सबान्धवैः ।
चतुर्थे बान्धवैः सर्वैरस्थ्नां संचयनं भवेत् ।
पूर्वं तु भोजयेद् विप्रानयुग्मान् सुश्रद्धया शुचीन् ॥ २३.७१॥
पञ्चमे नवमे चैव तथैवैकादशेऽहनि ।
युग्मान् भोजयेद् विप्रान् नवश्राद्धं तु तद्विजाः ॥ २३.७२॥
एकादशेऽह्नि कुर्वोत प्रेतमुद्दिश्य भावतः ।
द्वादशे वाह्नि कर्त्तव्यमनिन्द्ये त्वथवाऽहनि ।
एकं पवित्रमेकोऽर्घः पिण्डपात्रं तथैव च ॥ २३.७३॥
एवं मृताह्नि कर्त्तव्यं प्रतिमासं तु वत्सरम् ।
सपिण्डीकरणं प्रोक्तं पूर्णे संवत्सरे पुनः ॥ २३.७४॥
कुर्याच्चत्वारि पात्राणि प्रेतादीनां द्विजोत्तमाः ।
प्रेतार्थं पितृपात्रेषु पात्रमासेचयेत्ततः ॥ २३.७५॥
ये समाना इति द्वाभ्यां पिण्डानप्येवमेव हि ।
सपिण्डीकरण श्राद्धं देवपूर्वं विधीयते ॥ २३.७६॥
पितॄनावाहयेत् तत्र पुनः प्रेतं विनिर्दिशेत् ।
ये सपिण्डीकृताः प्रेतान तेषां स्यात् पृथक्क्रियाः ।
यस्तु कुर्यात् पृथक् पिण्डं पितृहा सोऽभिजायते ॥ २३.७७॥
मृते पितरि वै पुत्रः पिण्डमब्दं समाचरेत् ।
दद्याच्चान्नं सोदकुम्भं प्रत्यहं प्रेतधर्मतः ॥ २३.७८॥
पार्वणेन विधानेन संवत्सरिकमिष्यते ।
प्रतिसंवत्सरं कार्यं विधिरेष सनातनः ॥ २३.७९॥
मातापित्रोः सुतैः कार्यं पिण्डदानादिकं च यत् ।
पत्नी कुर्यात् सुताभावे पत्न्यभावे तु सोदरः ॥ २३.८०॥
अनेनैव विधानेन जीवः श्राद्धं समाचरेत् ।
कृत्वा दानादिकं सर्वं श्रद्धायुक्तः समाहितः ॥ २३.८१॥
एष वः कथितः सम्यग् गृहस्थानां क्रियाविधिः ।
स्त्रीणां भर्त्तृषु शुश्रूषा धर्मो नान्य इहोच्यते ॥ २३.८२॥
स्वधर्मतत्परा नित्यमीश्विरार्पितमानसः ।
प्राप्नोति तत्परं स्थानं यदुक्तं वेदवादिभिः ॥ २३.८३॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
त्रयोविंशोऽध्यायः ॥२३॥
कूर्मपुराणए उत्तरभागे चतुर्विंशतितमोऽध्यायः
व्यास उवाच ।
अग्निहोत्रं तु जुहुयादाद्यन्तेऽहर्निशोः सदा ।
दर्शेन चैव पक्षान्ते पौर्णमासेन चैव हि ॥ २४.१॥
सस्यान्ते नवसस्येष्ट्या तथर्त्वन्ते द्विजोऽध्वरैः ।
पशुना त्वयनस्यान्ते समान्ते सोऽग्निकैर्मखैः ॥ २४.२॥
नानिष्ट्वा नवशस्येष्ट्या पशुना वाऽग्निमान् द्विजः ।
न चान्नमद्यन्मांसं वा दीर्घमायुर्जिजीविषुः ॥ २४.३॥
नवेनान्नेन चानिष्ट्वा पशुहव्येन चाग्न्यः ।
प्राणानेवात्तुमिच्छन्ति नवान्नामिषगृद्धिनः ॥ २४.४॥
सावित्रान् शान्तिहोमांश्च कुर्यात् पर्वसु नित्यशः ।
पितॄंश्चैवाष्टकाः सर्वे नित्यमन्वष्टकासु च ॥ २४.५॥
एष धर्मः परो नित्यमपधर्मोऽन्य उच्यते ।
त्रयाणामिह वर्णानां गृहस्थाश्रमवासिनाम् ॥ २४.६॥
नास्तिक्यादथवालस्याद् योऽग्नीन् नाधातुमिच्छति ।
यजेत वा न यज्ञेन स याति नरकान् बहून् ॥ २४.७॥
तामिस्रमन्धतामिस्रं महारौरवरौरवौ ।
कुम्भीपाकं वैतरणीमसिपत्रवनं तथा ।
अन्यांश्च नरकान् घोरान् सम्प्राप्यान्ते सुदुर्मतिः ।
अन्त्यजानां कुले विप्राः शूद्रयोनौ च जायते ।
तस्मात् सर्वप्रयत्नेन ब्राह्मणो हि विशेषतः ।
आथायाग्निं विशुद्धात्मा यजेत परमेश्वरम् ॥ २४.८॥
अग्निहोत्रात् परो धर्मो द्विजानां नेह विद्यते ।
तस्मादाराधयेन्नित्यमग्निहोत्रेण शाश्वतम् ॥ २४.९॥
यस्त्वाध्यायाग्निमांश्च स्यान्न यष्टुं देवमिच्छति ।
स संमूढो न संभाष्यः किं पुनर्नास्तिको जनः ॥ २४.१०॥
यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये ।
अधिकं चापि विद्येत स सोमं पातुमर्हति ॥ २४.११॥
एष वै सर्वयज्ञानां सोमः प्रथम इष्यते ।
सोमेनाराधयेद्देवं सोमलोकमहेश्वरम् ॥ २४.१२॥
न सोमयागादधिको महेशाराधनात्ततः ।
न सोमो विद्यते तस्मात् सोमेनाभ्यर्चयेत् परम् ॥ २४.१३॥
पितामहेन विप्राणामादावभिहितः शुभः ।
धर्मो विमुक्तये साक्षाच्छ्रौतः स्मार्त्तो द्विधा पुनः ॥ २४.१४॥
श्रौतस्त्रेताग्निसंबन्धात् स्मार्त्तः पूर्वं मयोदितः ।
श्रेयस्करतमः श्रौतस्तस्माच्छ्रौतं समाचरेत् ॥ २४.१५॥
उभावभिहितौ धर्मौ वेदवेदविनिःसृतौ ।
शिष्टाचारस्तृतीयः स्याच्छ्रतिस्मृत्योरलाभतः ॥ २४.१६॥
धर्मेणाधिगतो यैस्तु वेदः सपरिबृंहणः ।
ते शिष्टा ब्राह्मणाः प्रोक्ता नित्यमात्मगुणान्विताः ॥ २४.१७॥
तेषामभिमतो यः स्याच्चेतसा नित्यमेव हि ।
स धर्मः कथितः सद्भिर्नान्येषामिति धारणा ॥ २४.१८॥
पुराणं धर्मशास्त्रं च वेदानामुपबृंहणम् ।
एकस्माद् ब्रह्मविज्ञानं धर्मज्ञानं तथैकतः ॥ २४.१९॥
धर्मं जिज्ञासमानानां तत्प्रमाणतरं स्मृतम् ।
धर्मशास्त्रं पुराणानि ब्रह्मज्ञानेपरायणा ॥ २४.२०॥
नान्यतो जायते धर्मो ब्रह्मविद्या च वैदिकी ।
तस्माद् धर्मं पुराणं च श्रद्धातव्यं द्विजातिभिः ॥ २४.२१॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
चतुर्विशोऽध्यायः ॥२४॥
कूर्मपुराणए उत्तरभागे पञ्चविंशतितमोऽध्यायः
व्यास उवाच ।
एष वोऽभिहितः कृत्स्नो गृहस्थाश्रमवासिनः ।
द्विजातेः परमो धर्मो वर्त्तनानि निबोधत ॥ २५.१॥
द्विविधस्तु गृही ज्ञेयः साधकश्चाप्यसाधकः ।
अध्यापनं याजनं च पूर्वस्याहुः प्रतिग्रहम् ।
कुसीदकृषिवाणिज्यं प्रकुर्वन्तः स्वयंकृतम् ॥ २५.२॥
कृषेरभावे वाणिज्यं तदभावे कुसीदकम् ।
आपत्कल्पस्त्वयं ज्ञेयः पूर्वोक्तो मुख्य इष्यते ॥ २५.३॥
स्वयं वा कर्षणाकुर्याद् वाणिज्यं वा कुसीदकम् ।
कष्टा पापीयसी वृत्तिः कुसीदं तद्विवर्जयेत् ॥ २५.४॥
क्षात्रवृत्तिं परां प्रहुर्न स्वयं कर्षणं द्विजैः ।
तस्मात् क्षात्रेण वर्त्तेत वर्त्ततेऽनापदि द्विजः ॥ २५.५॥
तेन चावाप्यजीवंस्तु वैश्यवृत्तिं कृषिं व्रजेत् ।
न कथंचन कुर्वीत ब्राह्मणः कर्म कर्षणम् ॥ २५.६॥
लब्धलाभः पितॄन् देवान् ब्राह्मणांश्चापि पूजयेत् ।
ते तृप्तास्तस्य तं दोषं शमयन्ति न संशयः ॥ २५.७॥
देवेभ्यश्च पितृभ्यश्च दद्याद् भागं तु विंशकम् ।
त्रिंशद्भागं ब्राह्मणानां कृषिं कुर्वन् न दुष्यति ॥ २५.८॥
वणिक् प्रदद्याद् द्विगुणं कुसीदी त्रिगुणं पुनः ।
कृषीपालान्न दोषेण युज्यते नात्र संशयः ॥ २५.९॥
शिलोञ्छं वाप्याददीत गृहस्थः साधकः पुनः ।
विद्याशिल्पादयस्त्वन्ये बहवो वृत्तिहेतवः ॥ २५.१०॥
असाधकस्तु यः प्रोक्तो गृहस्थाश्रमसंस्थितः ।
शिलोञ्छे तस्य कथिते द्वे वृत्ती परमर्षिभिः ॥ २५.११॥
अमृतेनाथवा जीवेन्मृतेनाप्यथवा यदि ।
अयाचितं स्यादमृतं मृतं भेक्षं तु याचितम् ॥ २५.१२॥
कुशूलधान्यको वा स्यात् कुम्भीधान्यक एव वा ।
त्र्यह्निको वापि च भवेदश्वस्तनिक एव च ॥ २५.१३॥
चतुर्णामपि वै तेषां द्विजानां गृहमेधिनाम् ।
श्रेयान् परः परो ज्ञेयो धर्मतो लोकजित्तमः ॥ २५.१४॥
षट्कर्मको भवेत्तेषां त्रिभिरन्यः प्रवर्त्तते ।
द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्रेण जीवति ॥ २५.१५॥
वर्त्तयंस्तु शिलोञ्छाभ्यामग्निहोत्रपरायणः ।
इष्टिः पार्वायणान्तायाः केवला निर्वपेत् सदा ॥ २५.१६॥
न लोकवृतिं वर्त्तेत वृत्तिहेतोः कथंचन ।
अजिह्मामशठां शुद्धां जीवेद् ब्राह्मणजीविकाम् ॥ २५.१७॥
याचित्वा वाऽपि सद्भ्योऽन्नं पितॄन्देवांस्तु तोषयेत् ।
याचयेद् वा शुचिं दान्तं तेन तृप्येत स्वयं ततः ॥ २५.१८॥
यस्तु द्रव्यार्जनं कृत्वा गृहस्थस्तोषयेन्न तु ।
देवान् पितृंश्च विधिना शुनां योनिं व्रजत्यधः ॥ २५.१९॥
धर्मश्चार्थश्च कामश्च श्रेयो मोक्षश्चतुष्टयम् ।
धर्माद्विरुद्धः कामः स्याद् ब्राह्मणानां तु नेतरः ॥ २५.२०॥
योऽर्थो धर्माय नात्मार्थं सोऽर्थोऽनार्थस्तथेतरः ।
तस्मादर्थं समासाद्य दद्याद् वै जुहुयाद् द्विजः ॥ २५.२१॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
पञ्चविंशोऽध्यायः ॥२५॥
कूर्मपुराणए उत्तरभागे षड्विंशतितमोऽध्यायः
अर्थानामुदिते पात्रे श्रद्धया प्रतिपादनम् ।
दानमित्यभिनिर्दिष्टं भुक्तिमुक्तिफलप्रदम् ॥ २६.२॥
यद् ददाति विशिष्टेभ्यः श्रद्धया परया युतः ।
तदविचित्रमहं मन्ये शेषं कस्यापि रक्षति ॥ २६.३॥
नित्यं नैमित्तिकं काम्यं त्रिविधं दानमुच्यते ।
चतुर्थं विमलं प्रोक्तं सर्वदानोत्तमोत्तमम् ॥ २६.४॥
अहन्यहनि यत् किंचिद् दीयतेऽनुपकारिणे ।
अनुद्दिश्य फलं तस्माद् ब्राह्मणाय तु नित्यकम् ॥ २६.५॥
यत् तु पापोपशान्त्यर्थं दीयते विदुषां करे ।
नैमित्तिकं तदुद्दिष्टं दानं सद्भिरनुष्ठितम् ॥ २६.६॥
अपत्यविजयैश्वर्यस्वर्गार्थं यत् प्रदीयते ।
दानं तत् काम्यमाख्यातमृषिभिर्धर्मचिन्तकैः ॥ २६.७॥
यदीश्वरप्रीणनार्थं ब्रह्मवित्सु प्रदीयते ।
चेतसा धर्मयुक्तेन दानं तद् विमलं शिवम् ॥ २६.८॥
दानधर्मं निषेवेत पात्रमासाद्य शक्तितः ।
उत्पत्स्यते हि तत्पात्रं यत् तारयति सर्वतः ॥ २६.९॥
कुटुम्बभक्तवसनाद् देयं यदतिरिच्यते ।
अन्यथा दीयते यद्धि न तद् दानं फलप्रदम् ॥ २६.१०॥
श्रोत्रियाय कुलीनाय विनीताय तपस्विने ।
वृत्तस्थाय दरिद्राय प्रदेयं भक्तिपूर्वकम् ॥ २६.११॥
यस्तु दद्यान्महीं भक्त्या ब्राह्मणायाहिताग्नये ।
स याति परमं स्थानं यत्र गत्वा न शोचति ॥ २६.१२॥
इक्षुभिः संततां भुमिं यवगोधूमशलिनीम् ।
ददाति वेदविदुषे यः स भूयो न जायते ॥ २६.१३॥
गोचर्ममात्रामपि वा यो भूमिं सम्प्रयच्छति ।
ब्राह्मणाय दरिद्राय सर्वपापैः प्रमुच्यते ॥ २६.१४॥
भूमिदानात् परं दानं विद्यते नेह किञ्चन ।
अन्नदानं तेन तुल्यं विद्यादानं ततोऽधिकम् ॥ २६.१५॥
यो ब्राह्मणाय शान्ताय शुचये धर्मशालिने ।
ददाति विद्यां विधिना ब्रह्मलोके महीयते ॥ २६.१६॥
दद्यादहरहस्त्वन्नं श्रद्धया ब्रह्मचारिणे ।
सर्वपापविनिर्मुक्तो ब्रह्मणः स्थानमाप्नुयात् ॥ २६.१७॥
गृहस्थायान्नदानेन फलं प्राप्नोति मानवः ।
आममेचास्य दातव्यं दत्त्वाप्नोति परां गतिम् ॥ २६.१८॥
वैशाख्यां पौर्णमास्यां तु ब्राह्मणान् सप्त पञ्च वा ।
उपोष्य विधिना शान्तः शुचिः प्रयतमानसः ॥ २६.१९॥
पूजयित्वा तिलैः कृष्णैर्मधुना च विशेषतः ।
गन्धादिभिः समभ्यर्च्य वाचयेद् वा स्व्यं वदेत् ॥ २६.२०॥
प्रीयतां धर्मराजेति यद् वा मनसि वर्त्तते ।
यावज्जीवकृतं पापं तत्क्षणादेव नश्यति ॥ २६.२१॥
कृष्णाजिने तिलान् कृत्त्वा हिरण्यं मधुसर्पिषी ।
ददाति यस्तु विप्राय सर्वं तरति दुष्कृतम् ॥ २६.२२॥
कृतान्नमुदकुम्भं च वैशाख्यां च विशेषतः ।
निर्दिश्य धर्मराजाय विप्रेभ्यो मुच्यते भयात् ॥ २६.२३॥
सुवर्णतिलयुक्तैस्तु ब्राह्मणान् सप्त पञ्च वा ।
तर्पयेदुदपात्रैस्तु ब्रह्महत्यां व्यपोहति ॥ २६.२४॥
(माघमासे तु विप्रस्तु द्वादश्यां समुपोषितः ।)
शुक्लाम्वरधरः कृष्णैस्तिलैर्हुत्वा हुताशनम् ।
प्रदद्याद् ब्राह्मणेभ्यस्तु तिलानेव समाहितः ।
जन्मप्रभृति यत्पापं सर्वं तरति वै द्विजः ॥ २६.२५॥
अमावस्यामनुप्राप्य ब्राह्मणाय तपस्विने ।
यत्किचिद् देवदेवेशं दद्याद्बोद्दिश्य शंकरम् ॥ २६.२६॥
प्रीयतामीश्वरः सोमो महादेवः सनातनः ।
सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति ॥ २६.२७॥
यस्तु कृष्णचतुर्दश्यां स्नात्वा देवं पिनाकिनम् ।
आराधयेद् द्विजमुखे न तस्यास्ति पुनर्भवः ॥ २६.२८॥
कृष्णाष्टम्यां विशेषेण धार्मिकाय द्विजातये ।
स्नात्वाऽभ्यर्च्य यथान्यायं पादप्रक्षालनादिभिः ॥ २६.२९॥
प्रीयतां मे महादेवो दद्याद्द्रव्यं स्वकीयकम् ।
सर्वपापविनिर्मुक्तः प्राप्नोति परमां गतिम् ॥ २६.३०॥
द्विजैः कृष्णचतुर्दश्यां कृष्णाष्टम्यां विशेषतः ।
अमावास्यायां वै भक्तैस्तु पूजनीयस्त्रिलोचनः ॥ २६.३१॥
एकादश्यां निराहारो द्वादश्यां पुरुषोत्तमम् ।
अर्चयेद् बाह्मणमुखे स गच्छेत् परमं पदम् ॥ २६.३२॥
एषा तिथिर्वैष्णवीं स्याद् द्वादशी शुक्लपक्षके ।
तस्यामाराधयेद् देवं प्रयत्नेन जनार्दनम् ॥ २६.३३॥
यत्किञ्चिद् देवमीशानमुद्दिश्य ब्राह्मणे शुचौ ।
दीयते विष्णवे वापि तदनन्तफलप्रदम् ॥ २६.३४॥
यो हि यां देवतामिच्छेत् समाराधयितुं नरः ।
ब्राह्मणान् पूजयेद् यत्नात् सतस्यां तोषहेतुतः ॥ २६.३५॥
द्विजानां वपुरास्थाय नित्यं तिष्ठन्ति देवताः ।
पूज्यन्ते ब्राह्मणालाभे प्रतिमादिष्वपि क्वचित् ॥ २६.३६॥
तस्मात् सर्वप्रयत्नेन तत् तत् फलमभीप्सुभिः ।
द्विजेषु देवता नित्यं पूजनीया विशेषतः ॥ २६.३७॥
विभूतिकामः सततं पूजयेद् वै पुरंदरम् ।
ब्रह्मवर्चसकामस्तु ब्रह्माणं ब्रह्मकामुकः ॥ २६.३८॥
आरोग्यकामोऽथ रविं धनकामो हुताशनम् ।
कर्मणां सिद्धिकामस्तु पूजयेद् वै विनायकम् ॥ २६.३९॥
भोगकामस्तु शशिनं बलकामः समीरणम् ।
मुमुक्षुः सर्वसंसारात् प्रयत्नेनार्चयेद्धरिम् ॥ २६.४०॥
यस्तु योगं तथा मोक्षं इच्छेत्तज्ज्ञानमैश्वरम् ।
सोऽर्चयेद् वै विरूपाक्षं प्रयत्नेन महेश्वरम् ॥ २६.४१॥
ये वाञ्छन्ति महायोगान् ज्ञानानि च महेश्वरम् ।
ते पूजयन्ति भूतेशं केशवं चापि भोगिनः ॥ २६.४२॥
वारिदस्तृप्तिमाप्नोति सुखमक्षय्यमन्नदः ।
तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम् ॥ २६.४३॥
भूमिदः सर्वमाप्नोति दीर्घमायुर्हिरण्यदः ।
गृहदोऽग्र्याणि वेश्मानि रूप्यदो रूपमुत्तमम् ॥ २६.४४॥
वासोदश्चन्द्रसालोक्यमश्विसालोक्यमश्वदः ।
अनडुदः श्रियं पुष्टां गोदो व्रध्नस्य विष्टपम् ॥ २६.४५॥
यानशय्याप्रदो भार्यामैश्वर्यमभयप्रदः ।
धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मसात्म्यताम् ॥ २६.४६॥
धान्यान्यपि यथाशक्ति विप्रेषु प्रतिपादयेत् ।
वेदवित्सु विशिष्टेषु प्रेत्य स्वर्गं समश्नुते ॥ २६.४७॥
गवां वा सम्प्रदानेन सर्वपापैः प्रमुच्यते ।
इन्धनानां प्रदानेन दीप्ताग्निर्जायते नरः ॥ २६.४८॥
फलमूलानि शाकानि भोज्यानि विविधानि च ।
प्रदद्याद् ब्राह्मणेभ्यस्तु मुदा युक्तः सदा भवेत् ॥ २६.४९॥
औषधं स्नेहमाहारं रोगिणे रोगशान्तये ।
ददानो रोगरहितः सुखी दीर्घायुरेव च ॥ २६.५०॥
असिपत्रवनं मार्गं क्षुरधारासमन्वितम् ।
तीव्रितापं च तरति छत्रोपानत्प्रदो नरः ॥ २६.५१॥
यद्यदिष्टतमं लोके यच्चापि दयितं गृहे ।
तत्तद् गुणवते देयं तदेवाक्ष्यमिच्छता ॥ २६.५२॥
अयने विषुवे चैव ग्रहणे चन्द्रसूर्ययोः ।
संक्रान्त्यादिषु कालेषु दत्तं भवति चाक्षयम् ॥ २६.५३॥
प्रयागादिषु तीर्थेषु पुण्येष्वायतनेषु च ।
दत्त्वा चाक्षयमाप्नोति नदीषु च वनेषु च ॥ २६.५४॥
दानधर्मात् परो धर्मो भूतानां नेह विद्यते ।
तस्माद् विप्राय दातव्यं श्रोत्रियाय द्विजातिभिः ॥ २६.५५॥
स्वगायुर्भूतिकामेन तथा पापोपशान्तये ।
मुमुक्षुणा च दातव्यं ब्राह्मणेभ्यस्तथाऽन्वहम् ॥ २६.५६॥
दीयमानं तु यो मोहाद् गोविप्राग्निसुरेषु च ।
निवारयति पापात्मा तिर्यग्योनिं व्रजेत् तु सः ॥ २६.५७॥
यस्तु द्रव्यार्जनं कृत्वा नार्चयेद् ब्राह्मणान् सुरान् ।
सर्वस्वमपहृत्यैनं राजा राष्ट्रात् प्रवासयेत् ॥ २६.५८॥
यस्तु दुर्भिक्षवेलायामन्नाद्यं न प्रयच्छति ।
म्रियमाणेषु विप्रेषु ब्राह्मणः स तु गर्हितः ॥ २६.५९॥
न तस्मात् प्रतिगृह्णीयात् न वै देयञ्च तस्य हि ।
अङ्कयित्वा स्वकाद् राष्ट्रात् तं राजा विप्रवासयेत् ॥ २६.६०॥
यस्त्वसद्भ्यो ददातीह न द्रव्यं धर्मसाधनम् ।
स पूर्वाभ्यधिकः पापी नरके पच्यते नरः ॥ २६.६१॥
स्वाध्यायवन्तो ये विप्रा विद्यावन्तो जितेन्द्रियाः ।
सत्यसंयमसंयुक्तास्तेभ्यो दद्याद् द्विजोत्तमाः ॥ २६.६२॥
सुभुक्तमपि विद्वांसं धार्मिकं भोजयेद् द्विजम् ।
न तु मूर्खमवृत्तस्थं दशरात्रमुपोषितम् ॥ २६.६३॥
सन्निकृष्टमतिक्रम्य श्रोत्रियं यः प्रयच्छति ।
स तेन कर्मणा पापी दहत्यासप्तमं कुलम् ॥ २६.६४॥
यदिस्यादधिको विप्रः शीलविद्यादिभिः स्वयम् ।
तस्मै यत्नेन दातव्यं अतिक्रम्यापि सन्निधिम् ॥ २६.६५॥
योर्च्चितं प्रतिगृह्णीयाद् दद्यादर्चितमेव च ।
तावुभौ गच्छतः स्वर्गं नरकं तु विपर्यये ॥ २६.६६॥
न वार्यपि प्रयच्छेत नास्तिके हैतुकेऽपि च ।
पाषण्डेषु च सर्वेषु नावेदविदि धर्मवित् ॥ २६.६७॥
अपूपं च हिरण्यं च गामश्वं पृथिवीं तिलान् ।
अविद्वान् प्रतिगृह्णानो भस्मी भवति काष्ठवत् ॥ २६.६८॥
द्विजातिभ्यो धनं लिप्सेत् प्रशस्तेभ्यो द्विजोत्तमः ।
अपि वा जातिमात्रेभ्यो न तु शूद्रात् कथञ्चन ॥ २६.६९॥
वृत्तिसङ्कोचमन्विच्छेन्नेहेत धनविस्तरम् ।
धनलोभे प्रसक्तस्तु ब्राह्मण्यादेव हीयते ॥ २६.७०॥
वेदानधीत्य सकलान् यज्ञांश्चावाप्य सर्वशः ।
न तां गतिमवाप्नोति सङ्कोचाद् यामवाप्नुयात् ॥ २६.७१॥
प्रतिग्रहरुचिर्न स्यात् यात्रार्थं तु धनं हरेत् ।
स्थित्यर्थादधिकं गृह्णन् ब्राह्मणो यात्यधोगतिम् ॥ २६.७२॥
यस्तु याचनको नित्यं न स स्वर्गस्य भाजनम् ।
उद्वेजयति भूतानि यथा चौरस्तथैव सः ॥ २६.७३॥
गुरून् भृत्यांश्चोज्जिहीर्षन् अर्चिष्यन् देवतातिथीन् ।
सर्वतः प्रतिगृह्णीयान्न तु तृप्येत् स्वयंततः ॥ २६.७४॥
एवं गृहस्थो युक्तात्मा देवताऽतिथिपूजकः ।
वर्त्तमानः संयातात्मा याति तत् परमं पदम् ॥ २६.७५॥
पुत्रे निधाय वा सर्वं गत्वाऽरण्यं तु तत्त्ववित् ।
एकाकी विचरेन्नित्यमुदासीनः समाहितः ॥ २६.७६॥
एष वः कथितो धर्मो गृहस्थानां द्विजोत्तमाः ।
ज्ञात्वाऽतु तिष्ठेन्नियतं तथाऽनुष्ठापयेद् द्विजान् ॥ २६.७७॥
इति देवमनादिमेकमीशं
गृहधर्मेण समर्चयेदजस्रम्
समतीत्य स सर्वभूतयोनिं
प्रकृतिं वै स परं न याति जन्म ॥ २६.७८॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
षड्विंशोऽध्यायः ॥२६॥
कूर्मपुराणए उत्तरभागे सप्तविंशतितमोऽध्यायः
व्यास उवाच ।
एवं गृहाश्रमे स्थित्वा द्वितीयं भागमायुषः ।
वानप्रस्थाश्रमं गच्छेत् सदारः साग्निरेव च ॥ २७.२॥
निक्षिप्य भार्यां पुत्रेषु गच्छेद् वनमथापि वा ।
दृष्ट्वाऽपत्यस्य चापत्यं जर्जरीकृतविग्रहः ॥ २७.२॥
शुक्लपक्षस्य पूर्वाह्णे प्रशस्ते चोत्तरायणे ।
गत्वाऽरण्यं नियमवांस्तपः कुर्यात् समाहितः ॥ २७.३॥
फलमूलानि पूतानि नित्यमाहारमाहरेत् ।
यताहारो भवेत् तेन पूजयेत् पितृदेवताः ॥ २७.४॥
पूजयित्वाऽतिथिं नित्यं स्नात्वा चाभ्यर्चयेत् सुरान् ।
गृहादादाय चाश्नीयादष्टौ ग्रासान् समाहितः ॥ २७.५॥
जटाश्च बिभृयान्नित्यं नखरोमाणि नोत्सृजेत् ।
स्वाध्यायं सर्वदा कुर्यान्नियच्छेद् वाचमन्यतः ॥ २७.६॥
अग्निहोत्रं च जुहुयात् पञ्चयज्ञान् समाचरेत् ।
मुन्यन्नैंर्विविधैर्वन्यैः शाकमूलफलेन च ॥ २७.७॥
चीरवासा भवेन्नित्यं स्नायात् त्रिषवणं शुचिः ।
सर्वभूतानुकम्पी स्यात् प्रतिग्रहविवर्जितः ॥ २७.८॥
दर्शेन पौर्णमासेन यजेत् नियतं द्विजः ।
ऋक्षेष्वाग्रयणे चैव चातुर्मास्यानि चाहरेत् ॥ २७.९॥
उत्तरायणं च क्रमशो दक्षस्यायनमेव च ।
वासन्तैः शारदैर्मेध्यैर्मुन्यन्नैः स्वयमाहृतैः ॥ २७.१०॥
पुरोडाशांश्चरूंश्चैव द्विविधं निर्वपेत् पृथक् ।
देवताभ्यश्च तद् हुत्वा वन्यं मेध्यतरं हविः ॥ २७.११॥
शेषं समुपभुञ्जीत लवणं च स्वयं कृतम् ॥
वर्जयेन्मधुमांसानि भौमानि कवचानि च ॥ २७.१२॥
भूस्तृणं शिशुकं चैव श्लेष्मातकफलानि च ।
न फालकृष्टमश्नीयादुत्सृष्टमपि केनचित् ॥ २७.१३॥
न ग्रामजातान्यार्त्तोऽपि पुष्पाणि च फलानि च ।
श्रावणेनैव विधिना वह्निं परिचरेत् सदा ॥ २७.१४॥
न द्रुह्येत् सर्वभूतानि निर्द्वन्द्वो निर्भयो भवेत् ।
न नक्तं किंचिदश्नीयाद् रात्रौ ध्यानपरो भवेत् ॥ २७.१५॥
जितेन्द्रियो जितक्रोधस्तत्त्वज्ञानविचिन्तकः ।
ब्रह्मचारी भवेन्नित्यं न पत्नीमपि संश्रयेत् ॥ २७.१६॥
यस्तु पत्न्या वनं गत्वा मैथुनं कामतश्चरेत् ।
तद् व्रतं तस्य लुप्येत प्रायश्चित्तीयते द्विजः ॥ २७.१७॥
तत्र यो जायते गर्भो न संस्पृश्यो द्विजातिभिः ।
न हि वेदेऽधिकारोऽस्य तद्वंशेप्येवमेव हि ॥ २७.१८॥
अधः शयीत सततं सावित्रीजाप्यतत्परः
शरण्यः सर्वभूतानां संविभागपरः सदा ॥ २७.१९॥
परिवादं मृषावादं निद्रालस्यं विवर्जयेत् ।
एकाग्निरनिकेतः स्यात् प्रोक्षितां भूमिमाश्रयेत् ॥ २७.२०॥
मृगैः सह चरेद् वासं तैः सहैव च संवसेत् ।
शिलायां शर्करायां वा शयीत सुसमाहितः ॥ २७.२१॥
सद्यः प्रक्षालको वा स्यान्माससंचयिकोऽपि वा ।
षण्मासनिचयो वा स्यात् समानिचय एव वा ॥ २७.२२॥
त्यजेदाश्वयुजे मासि सम्पन्नं पूर्वसंचितम् ।
जीर्णानि चैव वासांसि शाकमूलफलानि च ॥ २७.२३॥
दन्तोलूखलिको वास्यात् कापोतीं वृत्तिमाश्रयेत् ।
अश्मकुट्टो भवेद् वाऽपि कालपक्वभुगेव वा ॥ २७.२४॥
नक्तं चान्नं समश्नीयाद् दिवा चाहृत्य शक्तितः ।
चतुर्थकालिको वा स्यात् स्याद्वाचाष्टमकालिकः ॥ २७.२५॥
चान्द्रायणविधानैर्वा शुक्ले कृष्णे च वर्त्तयेत् ।
पक्षे पक्षे समश्नीयाद् द्विजाग्रान् कथितान् सकृत् ॥ २७.२६॥
पुष्पमूलफलैर्वापि केवलैर्वर्त्तयेत् सदा ।
स्वाभाविकैः स्वयं शीर्णैर्वैखानसमते स्थितः ॥ २७.२७॥
भूमौ वा परिवर्त्तेत तिष्ठेद् वा प्रपदैर्दिनम् ।
स्थानासनाभ्यां विहरेन्न क्वचिद् धैर्यमुत्सृजेत् ॥ २७.२८॥
ग्रीष्मे पञ्चतपास्तद्वत् वर्षास्वभ्रावकाशकः ।
आर्द्रवासास्तु हेमन्ते क्रमशो वर्द्धयंस्तपः ॥ २७.२९॥
उपस्पृश्य त्रिषवणं पितृदेवांश्च तर्पयेत् ।
एकपादेन तिष्ठेत मरीचीन् वा पिबेत् तदा ॥ २७.३०॥
पञ्चाग्निर्धूमपो वा स्यादुष्मपः सोमपोऽथ वा ।
पयः पिबेच्छुक्लपक्षे कृष्णापक्षे तु गोमयम् ॥ २७.३१॥
शीर्णपर्णाशनो वा स्यात् कृच्छ्रै र्वा वर्त्तयेत् सदा ।
योगाभ्यासरतश्च स्याद् रुद्राध्यायी भवेत् सदा ॥ २७.३२॥
अथर्वशिरसोऽध्येता वेदान्ताभ्यासतत्परः ।
यमान् सेवेत सततं नियमांश्चाप्यतन्द्रितः ॥ २७.३३॥
कृष्णाजिनः सोत्तरीयः शुक्लयज्ञोपवीतवान् ॥
अथ चाग्नीन् समारोप्य स्वात्मनि ध्यानतत्परः ॥ २७.३४॥
अनग्निरनिकेतः स्यान्मुनिर्मोक्षपरो भवेत् ।
तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत् ॥ २७.३५॥
गृहमेधिषु चान्येषु द्विजेषु वनवासिषु ॥
ग्रामादाहृत्य चाश्नीयादष्टौ ग्रासान् वने वसन् ॥ २७.३६॥
प्रतिगृह्य पुटेनैव पाणिना शकलेन वा ।
विविधाश्चोपनिषद आत्मसंसिद्धये जपेत् ॥ २७.३७॥
विद्याविशेषान् सावित्रीं रुद्राध्यायं तथैव च ।
महाप्रास्थानिकं वासौ कुर्यादनशनं तु वा ।
अग्निप्रवेशमन्यद् वा ब्रर्ह्मार्पणविधौ स्थितः ॥ २७.३८॥
यस्तु सम्यगिममाश्रमं शिवं
संश्रयन्त्यशिवपुञ्जनाशनम् ।
ते विशन्ति परमैश्वरं पदं
यान्ति यत्र गतमस्य संस्थितेः ॥ २७.३९॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
सप्तविशोऽध्यायः ॥२७॥
कूर्मपुराणए उत्तरभागे अष्टाविंशतितमोऽध्यायः
व्यास उवाच ।
एवं वनाश्रमे स्थित्वा तृतीयं भागमायुषः ।
चतुर्थमायुषो भागं संन्यासेन नयेत् क्रमात् ॥ २८.१॥
अग्नीनात्मनी संस्थाप्य द्विजः प्रव्रजितो भवेत् ।
योगाभ्यासरतः शान्तो ब्रह्मविद्यापरायणः ॥ २८.२॥
यदा मनसि संजातं वैतृष्ण्यं सर्ववस्तुषु ।
तदा संन्यासमिच्छन्ति पतितः स्याद् विपर्यये ॥ २८.३॥
प्राजापत्यां निरूप्येष्टिमाग्नेयीमथवा पुनः ।
दान्तः पक्वकषायोऽसौ ब्रह्माश्रममुपाश्रयेत् ॥ २८.४॥
ज्ञानसंन्यासिनः केचिद् वेदसंन्यासिनः परे ।
कर्मसंन्यासिनस्त्वन्ये त्रिविधाः परिकीर्तिताः ॥ २८.५॥
यः सर्वसङ्गनिर्मुक्तो निर्द्वन्द्वश्चैव निर्भयः ।
प्रोच्यते ज्ञानसंन्यासी स्वात्मन्येव व्यवस्थितः ॥ २८.६॥
वेदमेवाभ्यसेन्नित्यं निर्द्वन्दो निष्परिग्रहः ।
प्रोच्यते वेदसंन्यासी मुमुक्षुर्विजितेन्द्रियः ॥ २८.७॥
यस्त्वग्नीनात्मसात्कृत्वा ब्रह्मार्पणपरो द्विजः ।
ज्ञेयः स कर्मसंन्यासी महायज्ञपरायणः ॥ २८.८॥
त्रयाणामपि चैतेषां ज्ञानी त्वभ्यधिको मतः ।
न तस्य विद्यते कार्यं न लिङ्गं वा विपश्चितः ॥ २८.९॥
निर्ममो निर्भयः शान्तो निर्द्वन्द्वः पर्णभोजनः ।
जीर्णकौपीनवासाः स्यान्नग्नो वा ध्यानतत्परः ॥ २८.१०॥
ब्रह्मचारी मिताहारो ग्रामादन्नं समाहरेत् ।
अध्यात्ममतिरासीत निरपेक्षो निरामिषः ॥ २८.११॥
आत्मनैव सहायेन सुखार्थी विचरेदिह ।
नाभिनन्देत मरणं नाभिनन्देत जीवितम् ॥ २८.१२॥
कालमेव प्रतीक्षेत निदेशं भृतको यथा ।
नाध्येतव्यं न वक्तव्यं श्रोतव्यं न कदाचन ॥ २८.१३॥
एवं ज्ञात्वा परो योगी ब्रह्मभूयाय कल्पते ।
एकवासाऽथवा विद्वान् कौपीनाच्छादनस्तथा ॥ २८.१४॥
मुण्डी शिखी वाऽथ भवेत् त्रिदण्डी निष्परिग्रहः ।
काषायवासाः सततं ध्यानयोगपरायणः ॥ २८.१५॥
ग्रामान्ते वृक्षमूले वा वसेद् देवालयेऽपि वा ।
समः शत्रौ च मित्रे च तथा मानापमानयोः ॥ २८.१६॥
भैक्ष्येण वर्त्तयेन्नित्यं नैकान्नादी भवेत् क्वचित् ।
यस्तु मोहेन वान्यस्मादेकान्नादी भवेद् यतिः ॥ २८.१७॥
न तस्य निष्कृतिः काचिद् धर्मशास्त्रेषु कथ्यते ।
रागद्वेषविमुक्तात्मा समलोष्टाश्मकाञ्चनः ॥ २८.१८॥
प्राणिहंसानिवृत्तश्च मौनी स्यात् सर्वनिस्पृहः ।
दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत् ।
शास्त्रपूतां वदेद् वाणीं मनः पूतं समाचरेत् ॥ २८.१९॥
नैकत्र निवसेद् देशे वर्षाभ्योऽन्यत्र भिक्षुकः ।
स्नानशौचरतो नित्यं कमण्डलुकरः शुचिः ॥ २८.२०॥
ब्रह्मचर्यरतो नित्यं वनवासरतो भवेत् ।
मोक्षशास्त्रेषु निरतो ब्रह्मचारी जितेन्द्रियः ॥ २८.२१॥
दम्भाहंकारनिर्मुक्तो निन्दापैशुन्यवर्जितः ।
आत्मज्ञानगुणोपेतो यतिर्मोक्षमवाप्नुयात् ॥ २८.२२॥
अभ्यसेत् सततं वेदं प्रणवाख्यं सनातनम् ।
स्नात्वाचम्य विधानेन शुचिर्देवालयादिषु ॥ २८.२३॥
यज्ञोपवीती शान्तात्मा कुशपाणिः समाहितः ।
धौतकाषायवसनो भस्मच्छन्नतनूरहः ॥ २८.२४॥
अधियज्ञं ब्रह्म जपेदाधिदैविकमेव वा ।
आध्यात्मिकं च सततं वेदान्ताभिहितं च यत् ॥ २८.२५॥
पुत्रेषु चाऽथ निवसन् ब्रह्मचारी यतिर्मुनिः ।
वेदमेवाभ्यसेन्नित्यं स याति परमां गतिम् ॥ २८.२६॥
अहिंसा सत्यमस्तेयं ब्रह्मचर्यं तपः परम् ।
क्षमा दया च सन्तोषो व्रतान्यस्य विशेषतः ॥ २८.२७॥
वेदान्तज्ञाननिष्ठो वा पञ्च यज्ञान् समाहितः ।
ज्ञान ध्यान समायुक्तो भिक्षार्थे नैव तेन हि ॥ २८.२८॥
होममन्त्राञ्जपेन्नित्यं काले काले समाहितः ।
स्वाध्यायं चान्वहं कुर्यात् सावित्रीं संध्ययोर्जपेत् ॥ २८.२९॥
ध्यायीत सततं देवमेकान्ते परमेश्वरम् ।
एकान्नं वर्जयेन्नित्यं कामं क्रोधं परिग्रहम् ॥ २८.३०॥
एकवासा द्विवासा वा शिखी यज्ञोपवीतवान् ।
कमण्डलुकरो विद्वान् त्रिदण्डी याति तत्परम् ॥ २८.३१॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां
संहितायामुपरिविभागेऽष्टाविंशोऽध्यायः ॥२८॥
कूर्मपुराणए उत्तरभागे नवविंशतितमोऽध्यायः
एवं स्वाश्रमनिष्ठानां यतीनां नियतात्मनाम् ।
भैक्षेण वर्त्तनं प्रोक्तं फलमूलैरथापि वा ॥ २९.१॥
एककालं चरेद् भैक्षं न प्रसज्येत विस्तरे ।
भैक्ष्य प्रसक्तो हि यतिर्विषयेष्वपि सज्जति ॥ २९.२॥
सप्तागारं चरेद् भैक्षमलाभात् तु पुनश्चरेत् ।
प्रक्षाल्य पात्रे भुञ्जीयादद्भिः प्रक्षालयेत् तु पुनः ॥ २९.३॥
अथवाऽन्यदुपादाय पात्रे भुञ्जीत नित्यशः ।
भुक्त्वा तत् संत्यजेत् पात्रं यात्रामात्रमलोलुपः ॥ २९.४॥
विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने ।
वृत्ते शरावसम्पाते भिक्षां नित्यं यतिश्चरेत् ॥ २९.५॥
गोदोहमात्रं तिष्ठेत कालं भिक्षुरधोमुखः ।
भिक्षेत्युक्त्वा सकृत् तूष्णीमश्नीयाद् वाग्यतः शुचिः ॥ २९.६॥
प्रक्षाल्य पाणिपादौ च समाचम्य यथाविधि ।
आदित्ये दर्शयित्वान्नं भुञ्जीत प्राङ्मुखोत्तरः ॥ २९.७॥
हुत्वा प्राणाहुतीः पञ्च ग्रासानष्टौ समाहितः ।
आचम्य देवं ब्रह्माणं ध्यायीत परमेश्वरम् ॥ २९.८॥
अलाबुं दारुपात्रं च मृण्मयं वैणवं ततः ।
चत्वारि यतिपात्राणि मनुराह प्रजापतिः ॥ २९.९॥
प्राग्रात्रे पररात्रे च मध्यरात्रे तथैव च ।
संध्यास्वग्नि विशेषेण चिन्तयेन्नित्यमीश्वरम् ॥ २९.१०॥
कृत्वा हृत्पद्मनिलये विश्वाख्यं विश्वसंभवम् ।
आत्मानं सर्वभूतानां परस्तात् तमसः स्थितम् ॥ २९.११॥
सर्वस्याधारभूतानामानन्दं ज्योतिरव्ययम् ।
प्रधानपुरुषातीतमाकाशं दहनं शिवम् ॥ २९.१२॥
तदन्तः सर्वभावानामीश्वरं ब्रह्मरूपिणम् ।
ध्यायेदनादिमध्यान्तमानन्दादिगुणालयम् ॥ २९.१३॥
महान्तं पुरुषं ब्रह्म ब्रह्माणं सत्यमव्ययम् ।
तरुणादित्यसंकाशं महेशं विश्वरूपिणम् ॥ २९.१४॥
ओंकारान्तेऽथ चात्मानं संस्थाप्य परमात्मनि ।
आकाशे देवमीशानं ध्यायीताकाशमध्यगम् ॥ २९.१५॥
कारणं सर्वभावानामानन्दैकसमाश्रयम् ।
पुराणं पुरुषं शुभ्रं ध्यायन् मुच्येत बन्धनात् ॥ २९.१६॥
यद्वा गुहायां प्रकृतं जगत्संमोहनालये ।
विचिन्त्य परमं व्योम सर्वभूतैककारणम् ॥ २९.१७॥
जीवनं सर्वभूतानां यत्र लोकः प्रलीयते ।
आनन्दं ब्रह्मणः सूक्ष्मं यत् पश्यन्ति मुमुक्षवः ॥ २९.१८॥
तन्मध्ये निहितं ब्रह्म केवलं ज्ञानलक्षणम् ।
अनन्तं सत्यमीशानं विचिन्त्यासीत संयतः ॥ २९.१९॥
गुह्याद् गुह्यतमं ज्ञानं यतीनामेतदीरितम् ।
योऽनुतिष्ठेन्महेशेन सोऽश्नुते योगमैश्वरम् ॥ २९.२०॥
तस्माद् ध्यानरतो नित्यमात्मविद्यापरायणः ।
ज्ञानं समभ्यसेद् ब्राह्मं येन मुच्येत बन्धनात् ॥ २९.२१॥
गत्वा पृथक् स्वमात्मानं सर्वस्मादेव केवलम् ।
आनन्दमजरं ज्ञानं ध्यायीत च पुनः परम् ॥ २९.२२॥
यस्मात् भवन्ति भूतानि यद् गत्वा नेह जायते ।
स तस्मादीश्वरो देवः परस्माद् योऽधितिष्ठति ॥ २९.२३॥
यदन्तरे तद् गगनं शाश्वतं शिवमच्युतम् ।
यदाहुस्तत्परो यः स्यात् स देवः स्यान्महेश्वरः ॥ २९.२४॥
व्रतानि यानि भिक्षूणां तथैवोपव्रतानि च ।
एकैकातिक्रमे तेषां प्रायश्चित्तं विधीयते ॥ २९.२५॥
उपेत्य च स्त्रियं कामात् प्रायश्चित्तं समाहितः ।
प्राणायामसमायुक्तः कुर्यात् सांतपनं शुचिः ॥ २९.२६॥
ततश्चरेत नियमात् कृच्छ्रं संयतमानसः ।
पुनराश्रममागम्य चरेद् भिश्रुरतन्द्रितः ॥ २९.२७॥
न नर्मयुक्तमनृतं हिनस्तीति मनीषिणः ।
तथापि च न कर्त्तव्यं प्रसङ्गो ह्येष दारुणः ॥ २९.२८॥
एकरात्रोपवासश्च प्राणायामशतं तथा ।
उक्त्वा नूनं प्रकर्तव्यं यतिना धर्मलिप्सुना ॥ २९.२९॥
परमापद्गतेनापि न कार्यं स्तेयमन्यतः ।
स्तेयादभ्यधिकः कश्चिन्नास्त्यधर्म इति स्मृतिः ॥ २९.३०॥
हिंसा चैषापरा दिष्टा या चात्मज्ञाननाशिका ।
यदेतद् द्रविणं नाम प्राण ह्येते बहिश्वराः ॥ २९.३१॥
स तस्य हरति प्राणान् यो यस्य हरते धनम् ।
एवं कृत्वा स दुष्टात्मा भिन्नवृत्तो व्रताहतः ।
भूयो निर्वेदमापन्नश्चरेच्चान्द्रायणव्रतम् ॥ २९.३२॥
विधिना शास्त्रदृष्टेन संवत्सरमिति श्रुतिः ।
भूयो निर्वेदमापन्नश्चरेद् भिक्षुरतन्द्रितः ॥ २९.३३॥
अकस्मादेव हिंसां तु यदि भिक्षुः समाचरेत् ।
कुर्यात्कृछ्रातिकृच्छ्रं तु चान्द्रायणमथापि वा ॥ २९.३४॥
स्कन्नमिन्द्रियदौर्बल्यात् स्त्रियं दृष्ट्वा यतिर्यदि ।
तेन धारयितव्या वै प्राणायामास्तु षोडश ॥ २९.३५॥
दिवास्कन्ने त्रिरात्रं स्यात् प्राणायामशतं तथा ।
एकान्ते मधुमांसे च नवश्राद्धे तथैव च ।
प्रत्यक्षलवणे चोक्तं प्राजापत्यं विशोधनम् ॥ २९.३६॥
ध्याननिष्ठस्य सततं नश्यते सर्वपातकम् ।
तस्मान्महेश्वरं ज्ञात्वा तस्य ध्यानपरो भवेत् ॥ २९.३७॥
यद् ब्रह्म परमं ज्योतिः प्रतिष्ठाक्षरमद्वयम् ।
योऽन्तरा परं ब्रह्म स विज्ञेयो महेश्वरः ॥ २९.३८॥
एष देवो महादेवः केवलः परमः शिवः ।
तदेवाक्षरमद्वैतं तदादित्यान्तरं परम् ॥ २९.३९॥
यस्मान्महीयसो देवः स्वधाग्नि ज्ञानसंस्थिते ।
आत्मयोगाह्वये तत्त्वे महादेवस्ततः स्मृतः ॥ २९.४०॥
नान्यं देवंमहादेवाद् व्यतिरिक्तं प्रपश्यति ।
तमेवात्मानमात्मेति यः स याति परमं पदम् ॥ २९.४१॥
मन्यते ये स्वमात्मानं विभिन्नं परमेश्वरात् ।
न ते पश्यन्ति तं देवं वृथा तेषां परिश्रमः ॥ २९.४२॥
एकमेव परं ब्रह्म विज्ञेयं तत्त्वमव्ययम् ।
स देवस्तु महादेवो नैतद् विज्ञाय बध्यते ॥ २९.४३॥
तस्माद् यतेत नियतं यतिः संयतमानसः ।
ज्ञानयोगरतः शान्तो महादेवपरायणः ॥ २९.४४॥
एष वः कथितो विप्रो यतीनामाश्रमः शुभः ।
पितामहेन विभुना मुनीनां पूर्वमीरितम् ॥ २९.४५॥
नापुत्रशिष्ययोगिभ्यो दद्यादिदमनुत्तमम् ।
ज्ञानं स्वयंभुना प्रोक्तं यतिधर्माश्रयं शिवम् ॥ २९.४६॥
इति यतिनियमानामेतदुक्तं विधानं
पशुपतिपरितोषे यद् भवेदेकहेतुः ।
न भवति पुनरेषामुद्भवो वा विनाशः
प्रणिहितमनसो ये नित्यमेवाचरन्ति ॥ २९.४७॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
एकोनत्रिंशोऽध्यायः ॥२९॥
कूर्मपुराणए उत्तरभागे त्रिंशत्तमोऽध्यायः
व्यास उवाच ।
अतः परं प्रवलक्ष्यामि प्रायश्चित्तविधिं शुभम् ।
हिताय सर्वविप्राणां दोषाणामपनुत्तये ॥ ३०.१॥
अकृत्वा विहितं कर्म कृत्वा निन्दितमेव च ।
दोषमाप्नोति पुरुषः प्रायश्चित्तं विशोधनम् ॥ ३०.२॥
प्रायश्चित्तमकृत्वा तु न तिष्ठेद् ब्राह्मणः क्वचित् ।
यद् ब्रूयुर्ब्राह्मणाः शान्ता विद्वांसस्तत्समाचरेत् ॥ ३०.३॥
वेदार्थवित्तमः शान्तो धर्मकामोऽग्निमान् द्विजः ।
स एव स्यात् परो धर्मो यमेकोऽपि व्यवस्यति ॥ ३०.४॥
अनाहिताग्नयो विप्रास्त्रयो वेदार्थपारगाः ।
यद् ब्रूयुर्धर्मकामास्ते तज्ज्ञेयं धर्मसाधनम् ॥ ३०.५॥
अनेकधर्मशास्त्रज्ञा ऊहापोहविशारदाः ।
वेदाध्ययनसम्पन्नाः सप्तैते परिकीर्त्तिताः ॥ ३०.६॥
मीमांसाज्ञानतत्त्वज्ञा वेदान्तकुशला द्विजाः ।
एकविंशतिविख्याताः प्रयाश्चित्तं वदन्ति वै ॥ ३०.७॥
ब्रह्महा मद्यपः स्तेनो गुरुतल्पग एव च ।
महापातकिनस्त्वेते यश्चैतैः सह संवसेत् ॥ ३०.८॥
संवत्सरं तु पतितैः संसर्गं कुरुते तु यः ।
यानशय्यासनैर्नित्यं जानन् वै पतितो भवेत् ॥ ३०.९॥
याजनं योनिसंबन्धं तथैवाध्यापनं द्विजः ।
कृत्वा सद्यः पतत्येव सह भोजनमेव च ॥ ३०.१०॥
अविज्ञायाथ यो मोहात् कुर्यादध्यापनं द्विजः ।
संवत्सरेण पतति सहाध्ययनमेव च ॥ ३०.११॥
ब्रह्माहा द्वादशाब्दानि कुटिं कृत्वा वने वसेत् ।
भैक्षमात्मविशुद्ध्यर्थे कृत्वा शवशिरोर्ध्वजम् ॥ ३०.१२॥
ब्राह्मणावसथान् सर्वान् देवागाराणि वर्जयेत् ।
विनिन्दन् स्वयमात्मानं ब्राह्मणं तं च संस्मरन् ॥ ३०.१३॥
असंकल्पितयोग्यानि सप्तागाराणि संविशेत् ।
विधूमे शनकैर्नित्यं व्यङ्गारे भुक्तवज्जने ॥ ३०.१४॥
एककालं चरेद् भैक्षं दोषं विख्यापयन् नृणाम् ।
वन्यमूलफलैर्वापि वर्त्तयेद् वै समाश्रितः ॥ ३०.१५॥
कपालपाणिः खट्वाङ्गी ब्रह्मचर्यपरायणः ।
पूर्णे तु द्वादशे वर्षे ब्रह्महत्यां व्यपोहति ॥ ३०.१६॥
अकामतः कृते पापे प्रायश्चित्तमिदं शुभम् ।
कामतो मरणाच्छुद्धिर्ज्ञेया नान्येन केनचित् ॥ ३०.१७॥
कुर्यादनशनं वाऽथ भृगोः पतनमेव वा ।
ज्वलन्तं वा विशेदग्निं जलं वा प्रविशेत् स्वयम् ॥ ३०.१८॥
ब्राह्मणार्थे गवार्थे वा सम्यक् प्राणान् परित्यजेत् ।
ब्रह्महत्यापनोदार्थमन्तरा वा मृतस्य तु ॥ ३०.१९॥
दीर्घामयाविनं विप्रं कृत्वानामयमेव वा ।
दत्त्वा चान्नं सुविदुषे ब्रह्महत्यां व्यपोहति ॥ ३०.२०॥
अश्वमेधावभृथके स्नात्वा वा शुध्यते द्विजः ।
सर्वस्वं वा वेदविदे ब्राह्मणाय प्रदाय तु ॥ ३०.२१॥
सरस्वत्यास्त्वरुणया संगमे लोकविश्रुते ।
शुध्येत् त्रिषवणस्नानात् त्रिरात्रोपोषितो द्विजः ॥ ३०.२२॥
गत्वा रामेश्वरं पुण्यं स्नात्वा चैव महोदधौ ।
ब्रह्मचर्यादिभिर्युक्तो दृष्ट्वा रुद्रं विमुच्यते ॥ ३०.२३॥
कपालमोचनं नाम तीर्थं देवस्य शूलिनः ।
स्नात्वाऽभ्यर्च्य पितॄन् देवान् ब्रह्महत्यां व्यपोहति ॥ ३०.२४॥
यत्र देवादिदेवेन भैरवेणामितौजसा ।
कपालं स्थापितं पूर्वं ब्रह्मणः परमेष्ठिनः ॥ ३०.२५॥
समभ्यर्च्य महादेवं तत्र भैरवरूपिणम् ।
तर्पपित्वा पितॄन् स्नात्वा मुच्यते ब्रह्महत्यया ॥ ३०.२६॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे त्रिशोऽध्यायः ॥३०॥
कूर्मपुराणए उत्तरभागे एकत्रिंशत्तमोऽध्यायः
ऋषय ऊचुः ।
कथं देवेन रुद्रेण शंकरेणातितेजसा ।
कपालं ब्रह्मणः पूर्वं स्थापितं देहजं भुवि ॥ ३१.१॥
सूत उवाच ।
शृणुध्वमृषयः पुण्यां कथां पापप्रणाशनीम् ।
माहात्म्यं देवदेवस्य महादेवस्य धीमतः ॥ ३१.२॥
पुरा पितामहं देवं मेरुशृङ्गे महर्षयः ।
प्रोचुः प्रणम्य लोकादिं किमेकं तत्त्वमव्ययम् ॥ ३१.३॥
स मायया महेशस्य मोहितो लोकसंभवः ।
अविज्ञाय परं भावं स्वात्मानं प्राह धर्षिणम् ॥ ३१.४॥
अहं धाता जगद्योनिः स्वयंभूरेक ईश्वरः ।
अनादिमत्परं ब्रह्म मामभ्यर्च्य विमुच्यते ॥ ३१.५॥
अहं हि सर्वदेवानां प्रवर्त्तकनिवर्त्तकः ।
न विद्यते चाभ्यधिको मत्तो लोकेषु कश्चन ॥ ३१.६॥
तस्यैवं मन्यमानस्य जज्ञे नारायणांशजः ।
प्रोवाच प्रहसन् वाक्यं रोषताम्रविलोचनः ॥ ३१.७॥
किं कारणमिदं ब्रह्मन् वर्त्तते तव सांप्रतम् ।
अज्ञानयोगयुक्तस्य न त्वेतदुचितं तव ॥ ३१.८॥
अहं धाता हि लोकानां जज्ञे नारायणात्प्रभोः ।
न मामृतेऽस्य जगतो जीवनं सर्वदा क्वचित् ॥ ३१.९॥
अहमेव परं ज्योतिरहमेव परा गतिः ।
मत्प्रेरितेन भवता सृष्टं भुवनमण्डलम् ॥ ३१.१०॥
एवं विवदतोर्मोहात् परस्परजयैषिणोः ।
आजग्मुर्यत्र तौ देवौ वेदाश्चत्वार एव हि ॥ ३१.११॥
अन्वीक्ष्य देवं ब्रह्माणं यज्ञात्मानं च संस्थितम् ।
प्रोचुः संविग्नहृदया याथात्म्यं परमेष्ठिनः ॥ ३१.१२॥
ऋग्वेद उवाच ।
यस्यान्तः स्थानि भूतानि यस्मात्सर्वं प्रवर्त्तते ।
यदाहुस्तत्परं तत्त्वं स देवः स्यान्महेश्वरः ॥ ३१.१३॥
यजुर्वेद उवाच ।
यो यज्ञैरखिलैरीशो योगेन च समर्च्यते ।
यमाहुरीश्वरं देवं स देवः स्यात् पिनाकधृक् ॥ ३१.१४॥
सामवेद उवाच ।
येनेदं भ्राम्यते विश्वं यदाकाशान्तरं शिवम् ।
योगिभिर्विद्यते तत्त्वं महादेवः स शंकरः ॥ ३१.१५॥
अथर्ववेद उवाच ।
यं प्रपश्यन्ति देवेशं यतन्तो यतयः परम् ।
महेशं पुरुषं रुद्रं स देवो भगवान् भवः ॥ ३१.१६॥
एवं स भगवान् ब्रह्मा वेदानामीरितं शुभम् ।
श्रुत्वाह प्रहसन् वाक्यं विश्वात्माऽपि विमोहितः ॥ ३१.१७॥
कथं तत्परमं ब्रह्म सर्वसङ्गविवर्जितम् ।
रमते भार्यया सार्द्धं प्रमथैश्चातिगर्वितैः ॥ ३१.१८॥
इतिरितेऽथ भगवान् प्रणवात्मा सनातनः ।
अमूर्त्तो मूर्तिमान् भूत्वा वचः प्राह पितामहम् ॥ ३१.१९॥
प्रणव उवाच ।
न ह्येष भगवानीशः स्वात्मनो व्यतिरिक्तया ।
कदाचिद् रमते रुद्रस्तादृशो हि महेश्वरः ॥ ३१.२०॥
अयं स भगवानीशः स्वयंज्योतिः सनातनः ।
स्वानन्दभूता कथिता देवी आगन्तुका शिवा ॥ ३१.२१॥
इत्येवमुक्तेऽपि तदा यज्ञमूर्त्तेरजस्य च ।
नाज्ञानमगमन्नाशमीश्वरस्यैव मायया ॥ ३१.२२॥
तदन्तरे महाज्योतिर्विरिञ्चो विश्वभावनः ।
प्रापश्यदद्भुतं दिव्यं पूरयन् गगनान्तरम् ॥ ३१.२३॥
तन्मध्यसंस्थं विमलं मण्डलं तेजसोज्ज्वलम् ।
व्योममध्यगतं दिव्यं प्रादुरासीद् द्विजोत्तमाः ॥ ३१.२४॥
स दृष्ट्वा वदनं दिव्यं मूर्ध्नि लोकपितामहः ।
तैजसं मण्जलं घोरमालोकयदनिन्दितम् ॥ ३१.२५॥
प्रजज्वालातिकोपेन ब्रह्मणः पञ्चमं शिरः ।
क्षणादपश्यत महान् पुरुषो नीललोहितः ॥ ३१.२६॥
त्रिशूलपिङ्गलो देवो नागयज्ञोपवीतवान् ।
तं प्राह भगवान् ब्रह्मा शंकरं नीललोहितम् ॥ ३१.२७॥
जानामि भगवान् पूर्वं ललाटादद्य शंकरम् ।
प्रादुर्भूतं महेशानं मामतः शरणं व्रज ॥ ३१.२८॥
श्रुत्वा सगर्ववचनं पद्मयोनेरथेश्वरः ।
प्राहिणोत् पुरुषं कालं भैरवं लोकदाहकम् ॥ ३१.२९॥
स कृत्वा सुमहद् युद्धं ब्रह्मणा कालभैरवः ।
चकर्त्त तस्य वदनं विरिञ्चस्याथ पञ्चमम् ॥ ३१.३०॥
निकृत्तवदनो देवो ब्रह्मा देवेन शंभुना ।
ममार चेशो योगेन जीवितं प्राप विश्वसृक् ॥ ३१.३१॥
अथान्वपश्यद् गिरिशं मण्डलान्तरसंस्थितम् ।
समासीनं महादेव्या महादेवं सनातनम् ॥ ३१.३२॥
भुजङ्गराजवलयं चन्द्रावयवभूषणम् ।
कोटिसूर्यप्रतीकाशं जटाजूटविराजितम् ॥ ३१.३३॥
शार्दूलचर्मवसनं दिव्यमालासमन्वितम् ।
त्रिशूलपाणिं दुष्प्रेक्ष्यं योगिनं भूतिभूषणम् ॥ ३१.३४॥
यमन्तरा योगनिष्ठाः प्रपश्यन्ति हृदीश्वरम् ।
तमादिमेकं ब्रह्माणं महादेवं ददर्श ह ॥ ३१.३५॥
यस्य सा परमा देवी शक्तिराकाशसंस्थिता ।
सोऽनन्तैश्वर्ययोगात्मा महेशो दृश्यते किल ॥ ३१.३६॥
यस्याशेषजगद् बीजं विलयं याति मोहनम् ।
सकृत्प्रणाममात्रेण स रुद्रः खलु दृश्यते ॥ ३१.३७॥
योऽथ नाचारनिरतास्तद्भक्तानेव केवलम् ।
विमोचयति लोकात्मा नायको दृश्यते किल ॥ ३१.३८॥
यस्य ब्रह्मादयो देवा ऋषयो ब्रह्मवादिनः ।
अर्चयन्ति सदा लिङ्गं विश्वेशः खलु दृश्यते ॥ ३१.३९॥
यस्याशेषजगत्सूतिः विज्ञानतनुरीश्वरः ।
न मुञ्चति सदा पार्श्वं शंकरोऽसौ च दृश्यते ॥३१.४०॥
विद्यासहायो भगवान् यस्यासौ मण्डलान्तरम् ।
हिरण्यगर्भपुत्रोऽसावीश्वरो दृश्यते परः ॥३१.४१॥
पुष्पं वा यदि वा पत्रं यत्पादयुगले जलम् ।
दत्त्वा तरति संसारं रुद्रोऽसौ दृश्यते किल ॥ ३१.४२॥
तत्सन्निधाने सकलं नियच्छति सनातनः ।
कालं किल स योगात्मा कालकालो हि दृश्यते ॥ ३१.४३॥
जीवनं सर्वलोकानां त्रिलोकस्यैव भूषणम् ।
सोमः स दृश्यते देवः सोमो यस्य विभूषणम् ॥ ३१.४४॥
देव्या सह सदा साक्षाद् यस्य योगः स्वभावतः ।
गीयते परमा मुक्तिः महादेवः स दृश्यते ॥ ३१.४५॥
योगिनो योगतत्त्वज्ञा वियोगाभिमुखोऽनिशम् ।
योगं ध्यायन्ति देव्याऽसौ स योगी दृश्यते किल ॥ ३१.४६॥
सोऽनुवीक्ष्य महादेवं महादेव्या सनातनम् ।
वरासने समासीनमवाप परमां स्मृतिम् ॥ ३१.४७॥
लब्ध्वा माहेश्वरीं दिव्यां संस्मृतिं भगवानजः ।
तोषयामास वरदं सोमं सोमविभूषणम् ॥ ३१.४८॥
ब्रह्मोवाच ।
नमो देवाय महते महादेव्यै नमो नमः ।
नमः शिवाय शान्ताय शिवायै सततं नमः ॥ ३१.४९॥
ओं नमो ब्रह्मणे तुभ्यं विद्यायै ते नमो नमः ।
मूलप्रकृतये तुभ्यं महेशाय नमो नमः ॥ ३१.५०॥
नमो विज्ञानदेहाय चिन्तायै ते नमो नमः ।
नमोऽस्तु कालकालाय ईश्वरायै नमो नमः ॥ ३१.५१॥
नमो नमोऽस्तु रुद्राय रुद्राण्यै ते नमो नमः ।
नमो नमस्ते कामाय मायायै च नमो नमः ॥ ३१.५२॥
नियन्त्रे सर्वकार्याणां क्षोभिकायै नमो नमः ।
नमोऽस्तु ते प्रकृतये नमो नारायणाय च ॥ ३१.५३॥
योगादाय नमस्तुभ्यं योगिनां गुरवे नमः ।
नमः संसारनाशाय संसारोत्पत्तये नमः ॥ ३१.५६॥
नित्यानन्दाय विभवे नमोऽस्त्वानन्दमूर्त्तये ।
नमः कार्यविहीनाय विश्वप्रकृतये नमः ॥ ३१.५७॥
ओंकारमूर्त्तये तुभ्यं तदन्तः संस्थिताय च ।
नमस्ते व्योमसंस्थाय व्योमशक्त्यै नमो नमः ॥ ३१.५८॥
इति सोमाष्टकेनेशं प्रणिपत्य पितामहः ।
पपात दण्डवद् भूमौ गृणन् वै शतरुद्रियम् ॥ ३१.५९॥
अथ देवो महादेवः प्रणतार्तिहरो हरः ।
प्रोवाचोत्थाप्य हस्ताभ्यां प्रीतोऽस्मि तव सांप्रतम् ॥ ३१.६०॥
दत्त्वाऽस्मै परमं योगमैश्वर्यमतुलं महत् ।
प्रोवाचान्ते स्थितं देवं नीललोहितमीश्वरम् ॥ ३१.५९॥
एष ब्रह्माऽस्य जगतः सम्पूज्यः प्रथमः स्थितः ।
आत्मना रक्षणीयस्ते गुरुर्ज्येष्ठः पिता तव ॥ ३१.६०॥
अयं पुराणपुरुषो न हन्तव्यस्त्वयाऽनघ ।
स्वयोगैश्वर्यमाहात्म्यान्मामेव शरणं गतः ॥ ३१.६१॥
अयं च यज्ञो भगवान् सगर्वो भवताऽनघ ।
शासितव्यो विरिञ्चस्य धारणीयं शिरस्त्वया ॥ ३१.६२॥
ब्रह्महत्यापनोदार्थं व्रतं लोके प्रदर्शयन् ।
चरस्व सततं भिक्षां संस्थापय सुरद्विजान् ॥ ३१.६३॥
इत्येतदुक्त्वा वचनं भगवान् परमेश्वरम् ।
स्थानं स्वाभाविकं दिव्यं ययौ तत्परमं पदम् ॥ ३१.६४॥
ततः स भगवानीशः कपर्दी नीललोहितः ।
ग्राहयामास वदनं ब्रह्मणः कालभैरवम् ॥ ३१.६५॥
चर त्वं पापनाशार्थं व्रतं लोकहितावहम् ।
कपालहस्तो भगवान् भिक्षां गृह्णातु सर्वतः ॥ ३१.६६॥
उक्त्वैवं प्राहिणोत् कन्यां ब्रह्महत्येति विश्रुताम् ।
दंष्ट्राकरालवदनां ज्वालामालाविभूषणाम् ॥ ३१.६७॥
यावद् वाराणसीं दिव्यां पुरीमेष गमिष्यति ।
तावत् विभीषणाकारा ह्यनुगच्छ त्रिशूलि८म् ॥ ३१.६८॥
एवमाभाष्य कालाग्निं प्राह देवो महेश्वरम् ।
अटस्व निखिलं लोकं भिक्षार्थी मन्नियोगतः ॥ ३१.६९॥
यदा द्रक्ष्यसि देवेशं नारायणमनामयम् ।
तदाऽसौ वक्ष्यति स्पष्टमुपायं पापशोधनम् ॥ ३१.७०॥
स देवदेवतावाक्यमाकर्ण्य भगवान् हरः ।
कपालपाणिर्विश्वात्मा चचार भुवनत्रयम् ॥ ३१.७१॥
आस्थाय विकृतं वेषं दीप्यमानं स्वतेजसा ।
श्रीमत् पवित्रं रुचिरं लेचनत्रयसंयुतं ३१.७२॥
कोटिसूर्यप्रतीकाशैः प्रमथैश्चातिगर्वितैः ।
भाति कालाग्निनयनो महादेवः समावृतः ॥ ३१.७३॥
पीत्वा तदमृतं दिव्यमानन्दं परमेष्ठिनः ।
लीलाविलासूबहुलो लोकानागच्छतीश्वरः ॥ ३१.७४॥
तं दृष्ट्वा कालवदनं शंकरं कालभैरवम् ।
रूपलावण्यसम्पन्नं नारीकुलमगादनु ॥ ३१.७५॥
गायन्ति विविधं गीतं नृत्यन्ति पुरतः प्रभोः ।
सस्मितं प्रेक्ष्य वदनं चक्रुर्भ्रूभङ्गमेव च ॥ ३१.७६॥
स देवदानवादीनां देशानभ्येत्य शूलधृक् ।
जगाम विष्णोर्भवनं यत्रास्ते मधुसूदनः ॥ ३१.७७॥
निरीक्ष्य दिव्यभवनं शंकरो लोकशंकरः ।
सहैव भूतप्रवरैः प्रवेष्टुमुपचक्रमे ॥ ३१.७८॥
अविज्ञाय परं भावं दिव्यं तत्पारमेश्वरम् ।
न्यवारयत् त्रिशूलाङ्कं द्वारपालो महाबलः ॥ ३१.७९॥
शङ्खचक्रगदापाणिः पीतवासा महाभुजः ।
विष्वक्सेन इति ख्यातो विष्णोरंशसमुद्भवः ॥ ३१.८०॥
(अथैनं शंकरगणं युयुधे विष्णुसंभवः ।
भीषणो भैरवादेशात् कालवेग इति श्रुतः )॥
विजित्य तं कालवेगं क्रोधसंरक्तलोचनः ।
दुद्रावाभिमुखं रुद्रं चिक्षेप च सुदर्शनम् ॥ ३१.८१॥
अथ देवो महादेवस्त्रिपुरारिस्त्रिशूलभृत् ।
तमापतन्तं सावज्ञमालोकयदमित्रजित् ॥ ३१.८२॥
तदन्तरे महद्भूतं युगान्तदहनोपमम् ।
शूलेनोरसि निर्भिद्य पातयामास तं भुवि ॥ ३१.८३॥
स शूलाभिहतोऽत्यर्थं त्यक्त्वा स्वं परमं बलम् ।
तत्याज जीवितं दृष्ट्वा मृत्युं व्याधिहता इव ॥ ३१.८४॥
निहत्य विष्णुपुरुषं सार्धं प्रमथपुंगवैः ।
विवेश चान्तरगृहं समादाय कलेवरम् ॥ ३१.८५॥
निरीक्ष्य जगतो हेतुमीश्वरं भगवान् हरिः ।
शिरो ललाटात् संभिद्य रक्तधारामपातयत् ॥ ३१.८६॥
गृहाण भगवन् भिक्षां मदीयाममितद्युते ।
न विद्यतेऽन्या ह्युचिता तव त्रिपुरमर्दन ॥ ३१.८७॥
न सम्पूर्णं कपालं तद् ब्रह्मणः परमेष्ठिनः ।
दिव्यं वर्षसहस्रं तु सा च धारा प्रवाहिता ॥ ३१.८८॥
अथाब्रवीत् कालरुद्रं हरिर्नारायणः प्रभुः ।
संस्तूय वैदिकैर्मन्त्रैर्बहुमानपुरः सरम् ॥ ३१.८९॥
किमर्थमेतद् वदनं ब्रह्मणो भवता धृतम् ।
प्रोवाच वृत्तमखिलं भगवान् परमेश्वरः ॥ ३१.९०॥
समाहूय हृषीकेशो ब्रह्महत्यामथाच्युतः ।
प्रार्थयामास देवेशो विमुञ्चेति त्रिशूलिनम् ॥ ३१.९१॥
न तत्याजाथ सा पार्श्वं व्याहृताऽपि मुरारिणा ।
चिरं ध्यात्वा जगद्योनिं शंकरं प्राह सर्ववित् ॥ ३१.९२॥
व्रजस्व भगवन् दिव्यां पुरीं वाराणसीं शुभाम् ।
यत्राखिलजगद्दोषात् क्षिप्रं नाशयतीश्वरः ॥ ३१.९३॥
ततः सर्वाणि भूतानि तीर्थान्यायतनानि च ।
जगाम लीलया देवो लोकानां हितकाम्यया ॥ ३१.९४॥
संस्तूयमानः प्रमथैर्महायोगैरितस्ततः ।
नृत्यमानो महायोगी हस्तन्यस्तकलेवरः ॥ ३१.९५॥
तमभ्यधावद् भगवान् हरिर्नारायणः प्रभुः ।
अथास्थायापरं रूपं नृत्यदर्शनलालसः ॥ ३१.९६॥
निरीक्षमाणो नोविन्दं वृषेन्द्राङ्कितशासनः ।
सस्मितोऽनन्तयोगात्मा नृत्यति स्म पुनः पुनः ॥ ३१.९७॥
अथ सानुचरो रुद्रः सहरिर्धर्मवाहनः ।
भेजे महादेवपुरीं वाराणसीति विश्रुताम् ॥ ३१.९८॥
प्रविष्टमात्रे देवेशे ब्रह्महत्या कपर्दिनि ।
हा हेत्युक्त्वा सनादं वै पातालं प्राप दुःखिता ॥ ३१.९९॥
प्रविश्य परमं स्थानं कपालं ब्रह्मणो हरः ।
गणानामग्रतो देवः स्थापयामास शंकरः ॥ ३१.१००॥
स्थापयित्वा महादेवो ददौ तच्च कलेवरम् ।
उक्त्वा सजीवमस्त्विति विष्णवेऽसौ घृणानिधिः ॥ ३१.१०१॥
ये स्मरन्ति ममाजस्रं कापालं वेषमुत्तमम् ।
तेषां विनश्यति क्षिप्रमिहामुत्र च पातकम् ॥ ३१.१०२॥
आगम्य तीर्थप्रवरे स्नानं कृत्वा विधानतः ।
तर्पयित्वा पितॄन् देवान् मुच्यते ब्रह्महत्यया ॥ ३१.१०३॥
अशाश्वतं जगज्ज्ञात्वा येऽस्मिन् स्थाने वसन्ति वै ।
देहान्ते तत् परं ज्ञानं ददामि परमं पदम् ॥ ३१.१०४॥
इतीदमुक्त्वा भगवान् समालिङ्ग्य जनार्दनम् ।
सहैव प्रमथेशानैः क्षणादन्तरधीयत ॥ ३१.१०५॥
स लब्ध्वा भगवान् कृष्णो विष्वक्सेनं त्रिशूलिनः ।
स्वंदेशमगत् तूष्णीं गृहीत्वा परमं बुधः ॥ ३१.१०६॥
एतद् वः कथितं पुण्यं महापातकनाशनम् ।
कपालमोचनं तीर्थं स्थाणोः प्रियकरं शुभम् ॥ ३१.१०७॥
य इमं पठतेऽध्यायं ब्राह्मणानां समीपतः ।
वाचिकैर्मानसैः पापैः कायिकैश्च विमुच्यते ॥ ३१.१०८॥
ति श्रीकूर्मपाराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
एकत्रिशोऽध्यायः ॥३१॥
कूर्मपुराणए उत्तरभागे द्वात्रिंशत्तमोऽध्यायः
व्यास उवाच ।
सुरापस्तु सुरां तप्तामग्निवर्णां स्वयं पिबेत् ।
तया स काये निर्दग्धे मुच्यते तु द्विजोत्तमः ॥ ३२.१॥
गोमूत्रमग्निवर्णं वा गोशकृद्रसमेव वा ।
पयो घृतं जलं वाऽथ मुच्यते पातकात् ततः ॥ ३२.२॥
जलार्द्रवासाः प्रयतो ध्यात्वा नारायणं हरिम् ।
ब्रह्महत्याव्रतं चाथ चरेत् पापप्रशान्तये ॥ ३२.३॥
सुवर्णस्तेयकृद् विप्रो राजानमभिगम्य तु ।
स्वकर्म ख्यापयन् ब्रूयान्मा भवाननुशास्त्विति ॥ ३२.४॥
गृहीत्वा मुसलं राजा सकृद् हन्यात् ततः स्वयम् ।
वधे तु शुद्ध्यते स्तेनो ब्राह्मणस्तपसाथवा ॥ ३२.५॥
स्कन्धेनादाय मुसलं लकुडं वाऽपि खादिरम् ।
शक्तिंचादायतीक्ष्णाग्रामायसं दण्डमेव वा ॥ ३२.६॥
राजा तेन च गन्तव्यो मुक्तकेशेन धावता ।
आचक्षाणेन तत्पापमेवंकर्माऽस्मि शाधि माम् ॥ ३२.७॥
शासनाद् वा विमोक्षाद् वा स्तेनः स्तेयाद् विमुच्यते ।
अशासित्वा तु तं राजास्तेनस्याप्नोति किल्बिषम् ॥ ३२.८॥
तपसापनोतुमिच्छस्तु सुवर्णस्तेयजं मलम् ।
चीरवासा द्विजोऽरण्ये चरेद् ब्रह्महणो व्रतम् ॥ ३२.९॥
स्नात्वाऽश्वमेधावभृथे पूतः स्यादथवा द्विजः ।
प्रदद्याद् वाऽथ विप्रेभ्यः स्वात्मतुल्यं हिरण्यकम् ॥ ३२.१०॥
चरेद् वा वत्सरं कृच्छ्रं ब्रह्मचर्यपरायणः ।
ब्राह्मणः स्वर्णहारी तु तत्पापस्यापनुत्तये ॥ ३२.११॥
गुरोर्भार्यां समारुह्य ब्राह्मणः काममोहितः ।
अवगूहेत् स्त्रियं तप्तां दीप्तां कार्ष्णायसीं कृताम् ॥ ३२.१२॥
स्वयं वा शिश्नवृषणावुत्कृत्याधाय चाञ्चलौ ।
आतिष्ठेद् दक्षिणामाशामानिपातादजिह्मगः ॥ ३२.१३॥
गुर्वह्गनागमः शुद्ध्यै चरेद् वा ब्रह्महणो व्रतम् ।
शाखां वा कण्टकोपेतां परिष्वज्याथ वत्सरम् ॥ ३२.१४॥
अधः शयीत नियतो मुच्यते गुरुतल्पगः ।
कृच्छ्रं वाब्दं चरेद् विप्रश्चीरवासाः समाहितः ॥ ३२.१५॥
अश्वमेधावभृथके स्नात्वा वा शुद्ध्यते नरः ।
कालेऽष्टमे वा भुञ्जानो ब्रह्मचारी सदाव्रती ॥ ३२.१६॥
स्थानाशनाभ्यां विहरंस्त्रिरह्नोऽभ्युपयत्नतः ।
अधः शायी त्रिभिर्वर्षैस्तद् व्यपोहति पातकम् ॥ ३२.१७॥
चान्द्रायणानि वा कुर्यात् पञ्च चत्वारि वा पुनः ।
पतितैः सम्प्रयुक्तात्मा अथ वक्ष्यामि निष्कृतिम् ॥ ३२.१८॥
पतितेन तु संसर्गं यो येन कुरुते द्विजः ।
स तत्पापापनोदार्थं तस्यैव व्रतमाचरेत् ॥ ३२.१९॥
तप्तकृच्छ्रं चरेद् वाऽथ संवत्सरमतन्द्रितः ।
षाण्मासिके तु संसर्गे प्रायश्चित्तार्थंमाचरेत् ॥ ३२.२०॥
एभिर्व्रतैरपोहन्ति महापातकिनो मलम् ।
पुण्यतीर्थाभिगमनात् पृथिव्यां वाऽथ निष्कृतिः ॥ ३२.२१॥
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।
कृत्वा तैश्चापि संसर्गं ब्राह्मणः कामकारतः ॥ ३२.२२॥
कुर्यादनशनं विप्रः पुण्यतीर्थे समाहितः ।
ज्वलन्तं वा विशेदग्निं ध्यात्वा देवं कपर्दिनम् ॥ ३२.२३॥
न ह्यन्या निष्कृतिर्दृष्टा मुनिभिर्धर्मवादिभिः ।
तस्मात् पुण्येषु तीर्थेषु दहन्वापि स्वदेहकम् ॥ ३२.२४॥
इति श्री कूर्मपुराणे द्वात्रिंशोऽध्यायः ॥३२॥
कूर्मपुराणए उत्तरभागे त्रयस्त्रिंशत्तमोऽध्यायः
गत्वा दुहितरं विप्रः स्वसारं वा स्नुषामपि ।
प्रविशेज्ज्वलनं दीप्तं मतिपूर्वमिति स्थितिः ॥ ३३.१॥
मातृष्वसां मातुलानीं तथैव च पितृष्वसाम् ।
भागिनेयीं समारुह्य कुर्यात् कृच्छ्रातिकृच्छ्रकौ ॥ ३३.२॥
चान्द्रायणं च कुर्वीत तस्य पापस्य शान्तये ।
ध्यायन् देवं जगद्योनिमनादिनिधनं परम् ॥ ३३.३॥
भ्रातृभार्यां समारुह्य कुर्यात् तत्पापशान्तये ।
चान्द्रायणानि चत्वारि पञ्च वा सुसमाहितः ॥ ३३.४॥
पैतृष्वस्त्रेयीं गत्वा तु स्वस्त्रीयां मातुरेव च ।
मातुलस्य सुतां वाऽपि गत्वा चान्द्रायणं चरेत् ॥ ३३.५॥
सखिभार्यां समारुह्य गत्वा श्यालीं तथैव च ।
अहोरात्रोषितो भूत्वा ततः कृच्छ्रं समाचरेत् ॥ ३३.६॥
उदक्यागमने विप्रस्त्रिरात्रेण विशुध्यति ।
चाण्डालीगमने चैव तप्तकृच्छ्रत्रयं विदुः ॥ ३३.७॥
शुद्धि सांतपनेनास्यान्नान्यथा निष्कृतिः स्मृता ।
मातृगोत्रां समारुह्य समानप्रवरां तथा ॥ ३३.८॥
चाद्रायणेन शुध्येत प्रयतात्मा समाहितः ।
ब्राह्मणो ब्राह्मणीं गत्वा गृच्छ्रमेकं समाचरेत् ॥ ३३.९॥
कन्यकान् दूषयित्वा तु चरेच्चान्द्रायणव्रतम् ।
अमानुषीषु पुरुष उदक्यायामयोनिषु ॥ ३३.१०॥
रेतः सिक्त्वा जले चैव कृच्छ्रं सान्तपनं चरेत् ।
वार्द्धिकीगमने विप्रस्त्रिरात्रेण विशुद्ध्यति ॥ ३३.११॥
गवि मैथुनमासेव्य चरेच्चान्द्रायणव्रतम् ।
वेश्यायां मैथुनं कृत्वा प्राजापत्यं चरेद् द्विजः ॥ ३३.१२॥
पतितां च स्त्रियं गत्वा त्रिभिः कृच्छ्रै र्विशुद्ध्यति ।
पुल्कसीगमने चैव क्रच्छ्रं चान्द्रायणं चरेत् ॥ ३३.१३॥
नटीं शैलूषकीं चैव रजकीं वेणुजीविनीम् ।
गत्वा चान्द्रायणं कुर्यात् तथा चर्मोपजीविनीम् ॥ ३३.१४॥
ब्रहमचारी स्त्रियं गच्छेत् कथञ्चित्काममोहितः ।
सप्तागारं चरेद् भैक्षं वसित्वा गर्दभाजिनम् ॥ ३३.१५॥
उपस्पृशेत् त्रिषवणं स्वपापं परिकीर्त्तयन् ।
संवत्सरेण चैकेन तस्मात् पापात् प्रमुच्यते ॥ ३३.१६॥
ब्रह्महत्याव्रतश्चापि षण्मासानाचरेद् यमी ।
मुच्यते ह्यवकीर्णी तु ब्राह्मणानुमते स्थितः ॥ ३३.१७॥
सप्तरात्रमकृत्वा तु भैक्षचर्याग्निपूजनम् ।
रेतसश्च समुत्सर्गे प्रायश्चित्तं समाचरेत् ॥ ३३.१८॥
ओंकारपूर्विकाभिस्तु महाव्याहृतिभिः सदा ।
संवत्सरं तु भुञ्जानो नक्तं भिक्षाशनः शुचिः ॥ ३३.१९॥
सावित्रीं च जपेच्चैव नित्यं क्रोधविवर्जितः ।
नदीतीरेषु तीर्थेषु तस्मात् पापाद् विमुच्यते ॥ ३३.२०॥
हत्वा तु क्षत्रियं विप्रः कुर्याद् ब्रह्महणो व्रतम् ।
अकामतो वै षण्मासान् दद्यान् पञ्चशतं गवाम् ॥ ३३.२१॥
अब्दं चरेद्यानयतो वनवासी समाहितः ।
प्राजापत्यं सान्तपनं तप्तकृच्छ्रं तु वा स्वयम् ॥ ३३.२२॥
प्रमादात्कामतो वैश्यं कुर्यात् संवत्सरत्रयम् ।
गोसहस्रन्तु पादं च दद्याद् ब्रह्महणो व्रतम् ॥ ३३.२३॥
कृच्छ्रातिकृच्छ्रौ वा कुर्याच्चान्द्रायणमथावि वा ।
संवत्सरं व्रतं कुर्याच्छूद्रं हत्वा प्रमादतः ॥ ३३.२४॥
गोसहस्रार्द्धपादं च दद्यात् तत्पापशान्तये ।
अष्टौ वर्षाणि वा त्रीणि कुर्याद् ब्रह्महणो व्रतम् ।
हत्वा तु क्षत्रियं वैश्यं शूद्रं चैव यथाक्रमम् ॥ ३३.२५॥
निहत्य ब्राह्मणीं विप्रस्त्वष्टवर्षं व्रतं चरेत् ।
राजन्यां वर्षषट्कं तु वैश्यां संवत्सरत्रयम् ॥ ३३.२६॥
वत्सरेण विशुद्ध्येत शूदीं हत्वा द्विजोत्तमः ।
वैश्यां हत्वा द्विजातिस्तु किञ्चिद् दद्याद् द्विजातये ॥ ३३.२७॥
अन्त्यजानां वधे चैव कुर्याच्चान्द्रायणं व्रतम् ।
पराकेणाथवा शुद्धिरित्याह भगवानजः ॥ ३३.२८॥
मण्डूकं नकुलं काकं बिडालं खरमूषकौ ।
श्वानं हत्वा द्विजः कुर्यात् षोडशांशं व्रतं ततः ॥ ३३.२९॥
पयः पिबेत् त्रिरात्रं तु श्वानं हत्वा ह्ययन्त्रितः ।
मार्जारं वाऽथ नकुलं योजनं वाध्वनो व्रजेत् ॥ ३३.३०॥
कृच्छ्रं द्वादशरात्रं तु कुर्यादश्ववधे द्विजः ।
अर्च्चां कार्ष्णायसीं दद्यात् सर्पं हत्वा द्विजोत्तमः ॥ ३३.३१॥
पलालभारकं षण्डे सीसकं चैकमाषकम् ।
धृतकुम्भं वराहे तु तिलद्रोणं च तित्तिरे ॥ ३३.३२॥
शुकं द्विहायनं वत्सं क्रौञ्चं हत्वा त्रिहायनम् ।
हत्वा हंसं बलाकां च बकं बर्हिणमेव च ॥ ३३.३३॥
वानरं श्येनभासौ च स्पर्शयेद् ब्राह्मणाय गाम् ।
क्रव्यादांस्तु मृगान् हत्वा धेनुं दद्यात् पयस्विनीम् ॥ ३३.३४॥
अक्रव्यादान् वत्सतरीमुष्ट्रं हत्वा तु कृष्णलम् ।
किञ्चिद्देयन्तु विप्राय दद्यादस्थिमतां वधे ॥ ३३.३५॥
अनस्थ्नां चैव हिंसायां प्राणायामेन शुध्यति ।
फलदानां तु वृक्षाणां छेदने जप्यमृक्षतम् ॥ ३३.३६॥
गुल्मवल्लीलतानां तु पुष्पितानां च वीरुधाम् ।
अन्येषां चैव वृक्षाणां सरसानां च सर्वशः ॥३३.३७॥
फलपुष्पोद्भवानां च घृतप्राशो विशोधनम् ।
हस्तिनां च वधे दृष्टं तप्तकृच्छ्रं विशोधनम् ॥ ३३.३८॥
चान्द्रायणं पराकं वा गां हत्वा तु प्रमादतः ।
मतिपूर्ववधे चास्याः प्रायश्चित्तं न विद्यते ॥ ३३.३९॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
त्रयस्त्रिंशोऽध्यायः ॥३३॥
कूर्मपुराणए उत्तरभागे चतुस्त्रिंशत्तमोऽध्यायः
व्यास उवाच ।
मनुष्याणां तु हरणं कृत्वा स्त्रीणां गृहस्य च ।
वापीकूपजलानां च शुध्येच्चान्द्रायणेन तु ॥ ३४.१॥
द्रव्याणामल्पसाराणां स्तेयं कृत्वाऽन्यवेश्मनः ।
चरेत् सांतपनं कृच्छ्रं तन्निर्यात्यात्मशुद्धये ॥ ३४.२॥
धान्यान्नधनचौर्यं तु कृत्वा कामाद् द्विजोत्तमः ।
स्वजातीयगृहादेव कृच्छ्रार्द्धेन विशुद्ध्यति ॥ ३४.३॥
भक्ष्यभोज्योपहरणे यानशय्यासनस्य च ।
पुष्पमूलफलानां च पञ्चगव्यं विशोधनम् ॥ ३४.४॥
तृणकाष्ठद्रुमाणां च शुष्कान्नस्य गुडस्य च ।
चैलचर्मामिषाणां च त्रिरात्रं स्यादभोजनम् ॥ ३४.५॥
मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च ।
अयः स्कांतोपलानां च द्वादशाहं काणाशनम् ॥ ३४.६॥
कार्पासकीटजोर्णानां द्विशफैकशफस्य च ।
पुष्पगन्धौषधीनां च पिबेच्चैव त्र्यहं पयः ॥ ३४.७॥
नरमांसाशनं कृत्वा चान्द्रायणमथाचरेत् ।
काकं चैव तथा श्वानं जग्ध्वा हस्तिनमेव च ॥ ३४.८॥
वराहं कुक्कुटं चाथ तप्तकृच्छ्रेण शुध्यति ।
क्रव्यादानां च मांसानि पुरीषं मूत्रमेव च ॥ ३४.९॥
गोगोमायुकपीनां च तदेव व्रतमाचरेत् ।
शिशुमारं तथाचाषं मत्यमांसं तथैव च ॥३४.१०॥
उपोष्य द्वादशाहं तु कूष्माण्डैर्जुहुयाद् घृतम् ।
नकुलोलूकमार्जारं जग्ध्वा सांतपनं चरेत् ॥ ३४.११॥
श्वापदोष्ट्रखराञ्जग्ध्वा तप्तकृच्छ्रेण शुद्ध्यति ।
व्रतवच्चैव संस्कारं पूर्वेण विधिनैव तु ॥ ३४.१२॥
बकं चैव बलाकाञ्च हंसं कारण्डवं तथा ।
चक्रवाकपलं जग्घ्वा द्वादशाहमभोजनम् ॥ ३४.१३॥
कपोतं टिट्टिभाञ्चैव शुकं सारसमेव च ।
उलूकं जालपादं च जग्ध्वाऽप्येतद् व्रतं चरेत् ॥ ३४.१४॥
शिशुमारं तथा चाषं मत्स्यमांसं तथैव च ।
जग्ध्वा चैव कटाहारमेतदेव चरेद् व्रतम् ॥ ३४.१५॥
कोकिलं चैव मत्स्यांश्च मण्डुकं भुजगं तथा ।
गोमूत्रयावकाहारो मासेनैकेन शुद्ध्यति ॥ ३४.१६॥
जलेचरांश्च जलजान् प्रणुदानथविष्किरान् ।
रक्तपादांस्तथा जग्ध्वा सप्ताहं चैतदाचरेत् ॥ ३४.१७॥
शुनो मांसं शुष्कमांसमात्मार्थं च तथा कृतम् ।
भुक्त्वा मासं चरेदेतत् तत्पापस्यापनुत्तये ॥ ३४.१८॥
वृन्ताकं भुस्तृणं शिग्रुं कुभाण्डं करकं तथा ।
प्राजापत्यं चरेज्जग्ध्वा खड्गं कुम्भीकमेव च ॥ ३४.१९॥
पलाण्डुं लशुनं चैव भुक्त्वा चान्द्रायणं चरेत् ।
नालिकां तण्डुलीयं च प्राजापत्येन शुद्ध्यति ॥ ३४.२०॥
अश्मान्तकं तथा पोतं तप्तकृच्छ्रेण शुद्ध्यति ।
प्राजापत्येन शुद्धिः स्यात् कुसुम्भस्य च भक्षणे ॥ ३४.२१॥
अलाबु किंशुकं चैव भुक्त्वा चैतद् व्रतं चरेत् ।
उदुम्बरं च कामेन तप्तकृच्छ्रेण शुद्ध्यति ॥
वृथा कृसरसंयावं पायसापूपसंकुलम् ।
भुक्त्वा चैवं विधं त्वन्नं त्रिरात्रेण विशुद्ध्यति ॥
पीत्वा क्षीराण्यपेयानि ब्रह्मचारी समाहितः ।
गोमूत्रयावकाहारो मासेनैकेन शुद्ध्यति ॥
अनिर्दशाहं गोक्षीरं माहिषं चाजमेव च ।
संधिन्याश्च विवत्सायाः पिबन् क्षीरमिदं चरेत् ।
एतेषां च विकाराणि पीत्वा मोहेन वा पुनः ॥ ३४.२२॥
गोमूत्रयावकाहारः सप्तरात्रेण शुद्ध्यति ।
भुक्त्वा चैव नवश्राद्धे मृतके सूतके तथा ॥ ३४.२३॥
चान्द्रायणेन शुद्ध्येत ब्राह्मणस्तु समाहितः ।
यस्याग्नौ हूयते नित्यमन्नस्याग्रं न दीयते ॥ ३४.२४॥
चान्द्रायणं चरेत् सम्यक् तस्यान्नप्राशने द्विजः ।
अभोज्यानां तु सर्वेषां भुक्त्वा चान्नमुपस्कृतम् ॥ ३४.२५॥
अन्तावसायिनां चैव तप्तकृच्छ्रेण शुद्ध्यति ॥
चाण्डालान्नं द्विजो भुक्त्वा सम्यक् चान्द्रायणं चरेत् ॥ ३४.२६॥
बुद्धिपूर्वं तु कृच्छ्राब्दं पुनः संस्कारमेव च ।
असुरामद्यपानेन कुर्याच्चान्द्रायणव्रतम् ॥ ३४.२७॥
अभोज्यान्नं तु भुक्त्वा च प्राजापत्येन शुद्ध्यति ।
विण्मूत्रप्राशनं कृत्वा रेतसश्चैतदाचरेत् ॥ ३४.२८॥
अनादिष्टेषु चैकाहं सर्वत्र तु यथार्थतः ।
विड्वराहखरोष्ट्राणां गोमायोः कपिकाकयोः ॥ ३४.२९॥
प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत् ।
अज्ञानात् प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च ॥ ३४.३०॥
पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ।
क्रव्यादां पक्षिणां चैव प्राश्य मूत्रपुरीषकम् ॥ ३४.३१॥
महासांतपनं मोहात् तथा कुर्याद् द्विजोत्तमः ।
भासमण्डूककुररे विष्किरे कृच्छ्रमाचरेत् ॥ ३४.३२॥
प्राजापत्येन शुद्ध्येत ब्राहामणोच्छिष्टभोजने ।
क्षत्रिये तप्तकृच्छ्रं स्याद् वैश्ये चैवातिकृच्छ्रकम् ॥ ३४.३३॥
शूद्रोच्छिष्टं द्विजो भुक्त्वा कुर्याच्चान्द्रायणव्रतम् ।
सुराभाण्डोदरे वारि पीत्वा चान्द्रायणं चरेत् ॥ ३४.३४॥
समुच्छिष्टं द्विजो भुक्त्वा त्रिरात्रेण विशुद्ध्यति ।
गोमूत्रयावकाहारः पीतशेषं च वा गवाम् ॥ ३४.३५॥
अपो मूत्रपुरीषाद्यैर्दूषिताः प्राशयेद् यदा ।
तदा सांतपनं प्रोक्तं व्रतं पापविशोधनम् ॥ ३४.३६॥
चाण्डालकूपभाण्डेषु यदि ज्ञानात् पिबेज्जलम् ।
चरेत् सांतपनं कृच्छ्रं ब्राह्मणः पापशोधनम् ॥ ३४.३७॥
चाण्डालेन तु संस्पृष्टं पीत्वा वारि द्विजोत्तमः ।
त्रिरात्रेण विशुद्ध्येत पञ्चगव्येन चैव हि ॥ ३४.३८॥
महापातकिसंस्पर्शे भुक्त्वा स्नात्वा द्विजो यदि ।
बुद्धिपूर्वं तु मूढात्मा तप्तकृच्छ्रं समाचरेत् ॥ ३४.३९॥
स्पृष्ट्वा महापातकिनं चाण्डालं वा रजस्वलाम् ।
प्रमादाद् भोजनं कृत्वा त्रिरात्रेण विशुद्ध्यति ॥ ३४.४०॥
स्नानार्हो यदि भुञ्जीत अहोरात्रेण शुद्ध्यति ।
बुद्धिपूर्वं तु कृच्छ्रेण भगवानाह पद्मजः ॥ ३४.४१॥
शुष्कपर्युषितादीनि गवादिप्रतिदूषिताः ।
भुक्त्वोपवासं कुर्वीत कृच्छ्रपादमथापि वा ॥ ३४.४२॥
संवत्सरान्ते कृच्छ्रं तु चरेद् विप्रः पुनः पुनः ।
अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विशेषतः ॥ ३४.४३॥
व्रात्यानां यजनं कृत्वा परेषामन्त्यकर्म च ।
अभिचारमहीनं च त्रिभिः कृच्छ्रैर्विशुद्ध्यति ॥ ३४.४४॥
ब्राह्मणादिहतानां तु कृत्वा दाहादिकाः क्रियाः ।
गोमूत्रयावकाहारः प्राजापत्येन शुद्ध्यति ॥ ३४.४५॥
तैलाभ्यक्तोऽथवा कुर्याद् यदि मूत्रपुरीषके ।
अहोरात्रेण शुद्ध्येत श्मश्रुकर्माणि मैथुने ॥ ३४.४६॥
एकाहेन विहायाग्निं परिहार्य द्विजोत्तमः ।
त्रिरात्रेण विशद्ध्येत त्रिरात्रात् षडहं पुनः ॥ ३४.४७॥
दशाहं द्वादशाहं वा परिहार्य प्रमादतः ।
कृच्छ्रं चान्द्रायणं कुर्यात् तत्पापस्यापनुत्तये ॥ ३४.४८॥
पतिताद् द्रव्यमादाय तदुत्सर्गेण शुद्ध्यति ।
चरेत् सांतपनं कृच्छ्रमित्याह भगवान् मनुः ॥ ३४.४९॥
अनाशकान्निवृत्तास्तु प्रव्रज्यावसितास्तथा ।
चरेयुस्त्रीणि कृच्छ्राणि त्रीणि चान्द्रायणानि च ॥ ३४.५०॥
पुनश्च जातकर्मादिसंस्कारैः संस्कृता द्विजाः ।
शुद्ध्येयुस्तद् व्रतं सम्यक् चरेयुर्धर्मवर्द्धनाः ॥ ३४.५१॥
अनुपासितसंध्यस्तु तदहर्यावके वसेत् ।
अनश्नन् संयतमना रात्रौ चेद् रात्रिमेव हि ॥ ३४.५२॥
अकृत्वा समिदाधानं शुचिः स्नात्वा समाहितः ।
गायत्र्यष्टसहस्रस्य जप्यं कुर्याद् विशुद्धये ॥ ३४.५३॥
उपवासी चरेत् संध्यां गृहस्थोऽपि प्रमादतः ।
स्नात्वा विशुद्ध्यते सद्यः परिश्रान्तस्तु संयमात् ॥ ३४.५४॥
वेदोदितानि नित्यानि कर्माणि च विलोप्य तु ।
स्नातकव्रतलोपं तु कृत्वा चोपवसेद् दिनम् ॥ ३४.५५॥
संवत्सरं चरेत् कृच्छ्रमन्योत्सादी द्विजोत्तमः ।
चान्द्रायणं चरेद् व्रात्यो गोप्रदानेन शुद्ध्यति ॥ ३४.५६॥
नास्तिक्यं यदि कुर्वीत प्राजापत्यं चरेद् द्विजः ।
देवद्रोहं गुरुद्रोहं तप्तकृच्छ्रेण शुद्ध्यति ॥ ३४.५७॥
उष्ट्रयानं समारुह्य खरयानं च कामतः ।
त्रिरात्रेण विशुद्ध्येत् तु नग्नो वा प्रविशेज्जलम् ॥ ३४.५८॥
षष्ठान्नकालतामासं संहिताजप एव च ।
होमाश्च शाकला नित्यमपाङ्क्तानां विशोधनम् ॥ ३४.५९॥
नीलं रक्तं वसित्वा च ब्राह्मणो वस्त्रमेव हि ।
अहोरात्रोषितः स्नातः पञ्चगव्येन शुद्ध्यति ॥ ३४.६०॥
वेदधर्मपुराणानां चण्डालस्य तु भाषणे ।
चान्द्रायणेन शुद्धिः स्यान्न ह्यन्या तस्य निष्कृतिः ॥ ३४.६१॥
उद्बन्धनादिनिहतं संस्पृश्य ब्राह्मणः क्वचित् ।
चान्द्रायणेन शुद्धिः स्यात् प्राजापत्येन वा पुनः ॥ ३४.६२॥
उच्छिष्टो यद्यनाचान्तश्चाण्डालादीन् स्पृशेद् द्विजः ।
प्रमादाद् वै जपेत् स्नात्वा गायत्र्यष्टसहस्रकम् ॥ ३४.६३॥
द्रुपदानां शतं वापि ब्रह्मचारी समाहितः ।
त्रिरात्रोपोषितः सम्यक् पञ्चगव्येन शुद्ध्यति ॥ ३४.६४॥
चण्डालपतितादींस्तु कामाद् यः संस्पृशेद् द्विजः ।
उच्छिष्टस्तत्र कुर्वीत प्राजापत्यं विशुद्धये ॥ ३४.६५॥
चाण्डालसूतकशवांस्तथा नारीं रजस्वलाम् ।
स्पृष्ट्वा स्नायाद् विशुद्ध्यर्थं तत्स्पृष्टपतितितास्तथा ॥ ३४.६६॥
चाण्डालसूतकशवैः संस्पृष्टं संस्पृशेद् यदि ।
प्रमादात् तत आचम्य जपं कुर्यात् समाहितः ॥ ३४.६७॥
तत् स्पृष्टस्पर्शिनं स्पृष्ट्वा बुद्धिपूर्वं द्विजोत्तमः ।
आचमेत् तद् विशुद्ध्यर्थं प्राह देवः पितामहः ॥ ३४.६८॥
भुञ्जानस्य तु विप्रस्य कदाचित् संस्पृशेत् यदि ।
कृत्वा शौचं ततः स्नायादुपोष्य जुहुयाद् व्रतम् ॥ ३४.६९॥
चाण्डालान्त्यशवं स्पृष्ट्वा कृच्छ्रं कुर्याद् विशुद्धये ।
स्पृष्ट्वाऽभ्यक्तस्त्वसंस्पृश्यमहोरात्रेण शुद्ध्यति ॥ ३४.७०॥
सुरां स्पृष्ट्वा द्विजः कुर्यात् प्राणायामत्रयं शुचिः ।
पलाण्डुं लशुनं चैव घृतं प्राश्य ततः शुचिः ॥ ३४.७१॥
ब्राह्मणस्तु शुना दष्टस्त्र्यहं सायं पयः पिबेत् ।
नाभेरूर्ध्वं तु दष्टस्य तदेव द्विगुणं भवेत् ॥ ३४.७२॥
स्यादेतत् त्रिगुणं बाह्वोर्मूर्ध्नि च स्याच्चतुर्गुणम् ।
स्नात्वा जपेद् वा सावित्रीं श्वभिर्दष्टो द्विजोत्तमः ॥ ३४.७३॥
अनिर्वर्त्य महायज्ञान् यो भुङ्क्ते तु द्विजोत्तमः ।
अनातुरः सति धने कृच्छ्रार्द्धेन स शुद्ध्यति ॥ ३४.७४॥
आहिताग्निरुपस्थानं न कुर्याद् यस्तु पर्वणि ।
ऋतौ न गच्छेद् भार्यां वा सोऽपि कृच्छ्रार्द्धमाचरेत् ॥ ३४.७५॥
विनाऽद्भिरप्सु नाप्यार्त्तः शरीरं सन्निवेश्य च ।
सचैलो जलमाप्लुत्य गामालभ्य विशुद्ध्यति ॥ ३४.७६॥
बुद्धिपूर्वं त्वभ्युदितो जपेदन्तर्जले द्विजः ।
गायत्र्यष्टसहस्रं तु त्र्यहं चोपवसेद् व्रती ॥ ३४.७७॥
अनुगम्येच्छया शूद्रं प्रेतीभूतं द्विजोत्तमः ।
गायत्र्यष्टसहस्रं च जप्यं कुर्यान्नदीषु च ॥ ३४.७८॥
कृत्वा तु शपथं विप्रो विप्रस्य वधसंयुतम् ।
सचैव यावकान्नेन कुर्याच्चान्द्रायणं व्रतम् ॥ ३४.७९॥
पङ्क्त्यां विषमदानं तु कृत्वा कृच्छ्रेण शुद्ध्यति ।
छायां श्वपाकस्यारुह्य स्नात्वा सम्प्राशयेद् घृतम् ॥ ३४.८०॥
ईक्षेदादित्यमशुचिर्दृष्ट्वाग्निं चन्द्रमेव वा ।
मानुषं चास्थि संस्पृश्य स्नानं कृत्वा विशुद्ध्यति ॥ ३४.८१॥
कृत्वा तु मिथ्याध्ययनं चरेद् भैक्षं तु वत्सरम् ।
कृतघ्नो ब्राह्मणगृहे पञ्च संवत्सरं व्रती ॥ ३४.८२॥
हुंकारं ब्राह्मणस्योक्त्वा त्वंकारं च गरीयसः ।
स्नात्वाऽनश्नन्नहः शेषं प्रणिपत्य प्रसादयेत् ॥ ३४.८३॥
ताडयित्वा तृणेनापि कण्ठं बद्ध्वापि वाससा ।
विवादे वापि निर्जित्य प्रणिपत्य प्रसादयेत् ॥ ३४.८४॥
अवगूर्य चरेत् कृच्छ्रमतिकृच्छ्रं निपातने ।
कृच्छ्रातिकृच्छ्रौ कुर्वीत विप्रस्योत्पाद्य शोणितम् ॥ ३४.८५॥
गुरोराक्रोशमनृतं कृत्वा कुर्याद् विशोधनम् ।
एकरात्रं त्रिरात्रं वा तत्पापस्यापनुत्तये ॥ ३४.८६॥
देवर्षीणामभिमुखं ष्ठीवनाक्रोशने कृते ।
उल्मुकेन दहेज्जिह्वां दातव्यं च हिरण्यकम् ॥ ३४.८७॥
देवोद्याने तु यः कुर्यान्मूत्रोच्चारं सकृद् द्विजः ।
छिन्द्याच्छिश्नं तु शुद्ध्यर्थं चरेच्चान्द्रायणं तु वा ॥ ३४.८८॥
देवतायतने मूत्रं कृत्वा मोहाद् द्विजोत्तमः ।
शिश्नस्योत्कर्त्तनं कृत्वा चान्द्रायणमथाचरेत् ॥ ३४.८९॥
देवतानामृषीणां च देवानां चैव कुत्सनम् ।
कृत्वा सम्यक् प्रकुर्वीत प्राजापत्यं द्विजोत्तमः ॥ ३४.९०॥
तैस्तु संभाषणं कृत्वा स्नात्वा देवान् समर्चयेत् ।
दृष्ट्वा वीक्षेत भास्वन्तं स्मृत्वा विशेश्वरं स्मरेत् ॥ ३४.९१॥
यः सर्वभूताधिपतिं विश्वेशानं विनिन्दति ।
न तस्य निष्कृतिः शक्या कर्त्तुं वर्षशतैरपि ॥ ३४.९२॥
चान्द्रायणं चरेत् पूर्वं कृच्छ्रं चैवातिकृच्छ्रक् ।
प्रपन्नः शरणं देवं तस्मात् पापाद् विमुच्यते ॥ ३४.९३॥
सर्वस्वदानं विधिवत् सर्वपापविशोधन ।
चान्द्रायणं चविधिना कृच्छ्रं चैवातिकृच्छ्रकम् ॥ ३४.९४॥
पुण्यक्षेत्राभिगमनं सर्वपापविनाशन ।
अमावस्यां तिथिं प्राप्य यः समाराधयेच्छिवम् ॥ ३४.९५॥
ब्राह्मणान् पूजयित्वा तु सर्वपापैः प्रमुच्यते ॥ ३४.९६॥
कृष्णाष्टम्यां महादेवं तथा कृष्णचतुर्दशीम् ।
सम्पूज्य ब्राह्मणमुखे सर्वपापैः प्रमुच्यते ॥ ३४.९७॥
त्रयोदश्यां तथा रात्रौ सोपहारं त्रिलोचनम् ।
दृष्ट्वेशं प्रथमे यामे मुच्यते सर्वपातकैः ॥ ३४.९८॥
उपोषितश्चतुर्दश्यां कृष्णपक्षे समाह४४तः ।
यमाय धर्मराजाय मृत्यवे चान्तकाय च ॥ ३४.९९॥
वैवस्वताय कालाय सर्वप्रहरणाय च ।
प्रत्येकं तिलसंयुक्तान् दद्यात् सप्तोदकाञ्जलीन् ॥ ३४.१००॥
स्नात्वा दद्याच्च पूर्वाह्णे मुच्यते सर्वपातकैः ।
ब्रह्मचर्यमधः शय्यामुपवासं द्विजार्चनम् ॥ ३४.१०१॥
व्रतेष्वेतेषु कुर्वीत शान्तः संयतमानसः ।
अमावस्यायां ब्रह्माणं समुद्दिश्य पितामहम् ॥ ३४.१०२॥
ब्राह्मणांस्त्रीन् समभ्यर्च्य मुच्यते सर्वपातकैः ।
षष्ठ्यामुपोषितो देवं शुक्लपक्षे समाहितः ॥ ३४.१०३॥
सप्तम्यामर्चयेद् भानुं मुच्यते सर्वपातकैः ।
भरण्यां च चतुर्थ्यां च शनैश्चरदिने यमम् ॥ ३४.१०४॥
पूजयेत् सप्तजन्मोत्थैर्मुच्यते पातकैर्नरः ॥
एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् ॥ ३४.१०५॥
द्वादश्यां शुक्लपक्षस्य महापापैः प्रमुच्यते ।
तपो जपस्तीर्थसेवा देवब्राह्मणपूजनं ३४४.१०६॥
ग्रहणादिषु कालेषु महापातकशोधनम् ।
यः सर्वपापयुक्तोऽपि पुण्यतीर्थेषु मानवः ॥ ३४.१०७॥
नियमेन त्यजेत् प्राणान् स मुच्येत् सर्वपातकैः ।
ब्रह्मघ्नं वा कृतघ्नं वा महापातकदूषितम् ॥ ३४.१०८॥
भर्त्तारमुद्धरेन्नारी प्रविष्टा सह पावकम् ।
एतदेव परं स्त्रीणां प्रायश्चित्तं विदुर्बुधाः ॥ ३४.१०९॥
सर्वपापसमुद्भूतौ नात्र कार्या विचारणा ।
पतिव्रता तु या नारी भर्तृशुश्रूषणोत्सुका ।
न तस्या विद्यते पापमिह लोके परत्र च ॥ ३४.११०॥
पतिव्रता धर्मरता भद्राण्येव सभेत् सदा ।
नास्याः पराभवं कर्त्तुं शक्नोतीह जनः क्वचित् ॥ ३४.१११॥
यथा रामस्य सुभगा सीता त्रैलोक्यविश्रुता ।
पत्नी दाशरथेर्देवी विजिग्ये राक्षसेश्वरम् ॥ ३४.११२॥
रामस्य भार्यां विमलां रावणो राक्षसेश्वरः ।
सीतां विशालनयनां चकमे कालचोदितः ॥ ३४.११३॥
गृहीत्वा मायया वेषं चरन्तीं विजने वने ।
समाहर्त्तुं मतिं चक्रे तापसः किल कामिनीम् ॥ ३४.११४॥
विज्ञाय सा च तद्भावं स्मृत्वा दाशरथिं पतिम् ।
जगाम शरणं वह्निमावसथ्यं शुचिस्मितः ॥ ३४.११५॥
उपतस्थे महायोगं सर्वदोषविनाशनम् ।
कृताञ्जली रामपत्नी शाक्षात् पतिमिवाच्युतम् ॥ ३४.११६॥
नमस्यामि महायोगं कृतान्तं गहनं परम् ।
दाहकं सर्वभूतानामीशानं कालरूपिणम् ॥ ३४.११७॥
नमस्ये पावकं देवं शाश्वतं विश्वतोमुखम् ।
योगनं कृत्तिवसनं भूतेशं परमम्पदम् ॥३४.११८॥
आत्मानं दीप्तवपुषं सर्वभूतहृदी स्थितम् ।
तं प्रपद्ये जगन्मूर्त्तिं प्रभवं सर्वतेजसाम् ।
महायोगेश्वरं वह्निमादित्यं परमेष्ठिनम् ॥ ३४.११९॥
प्रपद्ये शरणं रुद्रं महाग्रासं त्रिशूलिनम् ।
कालाग्निं योगिनामीशं भोगमोक्षफलप्रदम् ॥ ३४.१२०॥
प्रपद्ये त्वां विरूपाक्षं भुर्भुवः स्वः स्वरूपिणम् ।
हिरण्यमये गृहे गुप्तं महान्तममितौजसम् ॥ ३४.१२१॥
वैश्वानरं प्रपद्येऽहं सर्वभूतेष्ववस्थितम् ।
हव्यकव्यवहं देवं प्रपद्ये वह्निमीश्वरम् ॥ ३४.१२२॥
प्रपद्ये तत्परं तत्त्वं वरेण्यं सवितुः शिवम् ।
भार्गवाग्निपरं ज्योतिः रक्ष मां हव्यवाहन ॥ ३४.१२३॥
इति वह्न्यष्टकं जप्त्वा रामपत्नी यशस्विनी ।
ध्यायन्ती मनसा तस्थौ राममुन्मीलितेक्षणा ॥ ३४.१२४॥
अथावसथ्याद् भगवान् हव्यवाहो महेश्वरः ।
आविरासीत् सुदीप्तात्मा तेजसा निर्दहन्निव ॥ ३४.१२५॥
सृष्ट्वा मायामयीं सीतां स रावणवधेप्सया ।
सीतामादाय धर्मिष्ठां पावकोऽन्तरधीयत ॥ ३४.१२६॥
तां दृष्ट्वा तादृशीं सीतां रावणो राक्षसेश्वरः ।
समादाय ययौ लङ्कां सागरान्तरसंस्थिताम् ॥ ३४.१२७॥
कृत्वाऽथ रावणवधं रामो लक्ष्मणसंयुतः ।
समादायाभवत् सीतां शङ्काकुलितमानसः ॥ ३४.१२८॥
सा प्रत्ययाय भूतानां सीता मायामयी पुनः ।
विवेश पावकं दीप्तं ददाह ज्वलनोऽपि ताम् ॥ ३४.१२९॥
दग्ध्वा मायामयीं सीतां भगवानुग्रदीधितिः ।
रामायादर्शयत् सीतां पावकोऽभूत् सुरप्रियः ॥ ३४.१३०॥
प्रगृह्य भर्त्तुश्चरणौ कराभ्यां सा सुमध्यमा ।
चकार प्रणतिं भूमौ रामाय जनकात्मजा ॥ ३४.१३१॥
दृष्ट्वा हृष्टमना रामो विस्मयाकुललोचनः ।
ननाम वह्निं सिरसा तोषयामास राघवः ॥ ३४.१३२॥
उवाच वह्निर्भगवान् किमेषा वरवर्णिनी ।
दग्धा भगवता पूर्वं दृष्टा मत्पार्श्वमागता ॥ ३४.१३३॥
तमाह देवो लोकानां दाहको हव्यवाहनः ।
यथावृत्तं दाशरथिं भूतानामेव सन्निधौ ॥ ३४.१३४॥
इयं सा मिथिलेशेन पार्वतीं रुद्रवल्लभाम् ।
आराध्य लब्ध्वा तपसा देव्याश्चात्यन्तवल्लभा ॥ ३४.१३५॥
भर्त्तुः शुश्रूषणोपेता सुशीलेयं पतिव्रता ।
भवानीपार्श्वमानीता मया रावणकामिता ॥ ३४.१३६॥
या नीता राक्षसेशेन सीता भगवताहृता ।
मया मायामयी सृष्टा रावणस्य वधाय सा ॥ ३४.१३७॥
तदर्थं भवता दुष्टो रावणो राक्षसेश्वरः ।
मयोपसंहृता चैव हतो लोकविनाशनम् ॥ ३४.१३८॥
गृहाण विमलामेनां जानकीं वचनान्मम ।
पश्य नारायणं देवं स्वात्मानं प्रभवाव्ययम् ॥ ३४.१३९॥
इत्युक्त्वा भगवांश्चण्डो विश्चार्चिर्विश्वतोमुखः ।
मानितो राघवेणाग्निर्भूतैश्चान्तरधीयत ॥ ३४.१४०॥
एतत् पतिव्रतानां वैं माहात्म्यं कथितं मया ।
स्त्रीणां सर्वाघशमनं प्रायश्चित्तमिदं स्मृतम् ॥ ३४.१४१॥
अशेषपापयुक्तस्तु पुरुषोऽपि सुसंयतः ।
स्वदेहं पुण्यतीर्थेषु त्यक्त्वा मुच्येत किल्बिषात् ॥ ३४.१४२॥
पृथिव्यां सर्वतीर्थेषु स्नात्वा पुण्येषु वा द्विजः ।
मुच्यते पातकैः सर्वैः समस्तैरपि पूरुषः ॥ ३४.१४३॥
व्यास उवाच ।
इत्येष मानवो धर्मो युष्माकं कथितो मया ।
महेशाराधनार्थाय ज्ञानयोगं च शाश्वतम् ॥ ३४.१४४॥
योऽनेन विधिना युक्तो ज्ञानयोगं समाचरेत् ।
स पश्यति महादेवं नान्यः कल्पशतैरपि ॥ ३४.१४५॥
स्थापयेद् यः परं धर्मं ज्ञानं तत्पारमेश्वरम् ।
न तस्मादधिको लोके स योगी परमो मतः ॥ ३४.१४६॥
य संस्थापयितुं शक्तो न कुर्यान्मोहितो जनः ।
स योगयुक्तोऽपि मुनिर्नात्यर्थं भगवत्प्रियः ॥ ३४.१४७॥
तस्मात् सदैव दातव्यं ब्राह्मणेषु विशेषतः ।
धर्मयुक्तेषु शान्तेषु श्रद्धया चान्वितेषु वै ॥ ३४.१४८॥
यः पठेद् भवतां नित्यं संवादं मम चैव हि ।
सर्वपापविनिर्मुक्तो गच्छेत परमां गतिम् ॥ ३४.१४९॥
श्राद्धे वा दैविके कार्ये ब्राह्मणानां च सन्निधौ ।
पठेत नित्यं सुमनाः श्रोतव्यं च द्विजातिभिः ॥ ३४.१५०॥
योऽर्थं विचार्य युक्तात्मा श्रावयेद् ब्राह्मणान् शुचीन् ।
स दोषकञ्चुकं त्यक्त्वा याति देवं महेश्वरम् ॥ ३४.१५१॥
एतावदुक्त्वा भगवान् व्यासः सत्यवतीसुतः ।
समाश्वास्य मुनीन् सूतं जगाम च यथागतम् ॥ ३४.१५२॥
इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
त्रयस्त्रिशोऽध्यायः ॥३४॥
कूर्मपुराणए उत्तरभागे पञ्चत्रिंशत्तमोऽध्यायः
ऋषय ऊचुः ।
तीर्थानि यानि लोकेऽस्मिन् विश्रुतानि माहन्ति च ।
तानि त्वं कथयास्माकं रोमहर्षण सांप्रतम् ॥ ३५.१॥
रोमहर्षण उवा ।
शृणुध्वं कथयिष्येऽहं तीर्थानि विविधानि च ।
कथितानि पुराणेषु मुनिभिर्ब्रह्मवादिभिः ॥ ३५.२॥
यत्र स्नानं जपो होमः श्राद्धदानादिकं कृतम् ।
एकैकशो मुनिश्रेष्ठाः पुनात्यासप्तमं कुलम् ॥ ३५.३॥
पञ्चयोजनविस्तीर्णं ब्रह्मणः परमेष्ठिनः ।
प्रयागं प्रथितं तीर्थं तस्य माहात्म्यमीरितम् ॥ ३५.४॥
अन्यच्च तीर्थप्रवरं कुरूणां देववन्दितम् ।
ऋषीणामाश्रमैर्जुष्टं सर्वपापविशोधनम् ॥ ३५.५॥
तत्र स्नात्वा विशुद्धात्मा दम्भमात्सर्यवर्जितः ।
ददाति यत्किञ्चिदपि पुनात्युभयतः कुलम् ॥ ३५.६॥
गयातीर्थं परं गुह्यं पितॄणां चाति दुर्ल्लभम् ।
कृत्वा पिण्डप्रदानं तु न भूयो जायते नरः ॥ ३५.७॥
सकृद् गयाभिगमनं कृत्वा पिण्डं ददाति यः ।
तारिताः पितरस्तेन यास्यन्ति परमां गतिम् ॥ ३५.८॥
तत्र लोकहितार्थाय रुद्रेण परमात्मना ।
शिलातले पदं न्यस्तं तत्र पितॄन् प्रसादयेत् ॥ ३५.९॥
गयाऽभिगमनं कर्त्तुं यः शक्तो नाभिगच्छति ।
शोचन्ति पितरस्तं वै वृथा तस्य परिश्रमः ॥ ३५.१०॥
गायन्ति पितरो गाथाः कीर्त्तयन्ति महर्षयः ।
गयांयास्यतियः कश्चित् सोऽस्मान् संतारयिष्यति ॥ ३५.११॥
यदि स्यात् पातकोपेतः स्वधर्मपरिवर्जितः ।
गयां यास्यति वंश्यो यः सोऽस्मान् संतारयिष्यति ॥ ३५.१२॥
एष्टव्या बहवः पुत्राः शीलवन्तो गुणान्विताः ।
तेषां तु समवेतानां यद्येकोऽपि गयां व्रजेत् ॥ ३५.१३॥
तस्मात् सर्वप्रयत्नेन ब्राह्मणस्तु विशेषतः ।
प्रदद्याद् विधिवत् पिण्डान् गयां गत्वा समाहितः ॥ ३५.१४॥
गधन्यास्तु खलु ते मर्त्या गयायां पिण्डदायिनः ।
कुलान्युभयतः सप्त समुद्धृत्याप्नुयुः परम् ॥ ३५.१५॥
अन्यच्च तीर्थप्रवरं सिद्धावासमुदाहृतम् ।
प्रभासमिति विख्यातं यत्रास्ते भगवान् भवः ॥ ३५.१६॥
तत्र स्नानं तपः श्राद्धं ब्राह्मणानां च पूजनम् ।
कृत्वा लोकमवाप्नोति ब्रह्मणोऽक्षय्यमुत्तमम् ॥ ३५.१७॥
तीर्थं त्रैयम्बकं नाम सर्वदेवनमस्कृतम् ।
पूजयित्वा तत्र रुद्रं ज्योतिष्टोमफलं लभेत् ॥ ३५.१८॥
सुवर्णाक्षं महादेवं समभ्यर्च्य कपर्दिनम् ।
ब्राह्मणान् पूजयित्वा तु गाणपत्यं लभेद् ध्रुवम् ॥ ३५.१९॥
सोमेश्वरं तीर्थवरं रुद्रस्य परमेष्ठिनः ।
सर्वव्याधिहरं पुण्यं रुद्रसालोक्यकारणम् ॥ ३५.२०॥
तीर्थानां परमं तीर्थं विजयं नाम शोभनम् ।
तत्र लिङ्गं महेशस्य विजयं नाम विश्रुतम् ॥ ३५.२१॥
षण्मासनियताहारो ब्रह्मचारी समाहितः ।
उषित्वा तत्र विप्रेन्द्रा यास्यन्ति परमं पदम् ॥ ३५.२२॥
अन्यच्च तीर्थप्रवरं पूर्वदेशेषु शोभनम् ।
एकान्तं देवदेवस्य गाणपत्यफलप्रदम् ॥ ३५.२३॥
दत्त्वात्र शिवभक्तानां किञ्चिच्छश्वन्महीं शुभाम् ।
सार्वभौमो भवेद् राजा मुमुक्षुर्मोक्षमाप्नुयात् ॥ ३५.२४॥
महानदीजलं पुण्यं सर्वपापविनाशनम् ।
ग्रहणे समुपस्पृश्य मुच्यते सर्वपातकैः ॥ ३५.२५॥
अन्या च विरजा नाम नदी त्रैलोक्यविश्रुता ।
तस्यां स्नात्वा नरो विप्रा ब्रह्मलोके महीयते ॥ ३५.२६॥
तीर्थं नारायणस्यान्यन्नाम्ना तु पुरुषोत्तमम् ।
तत्र नारायणः श्रीमानास्ते परमपूरुषः ॥ ३५.२७॥
पूजयित्वा परं विष्णुं स्नात्वा तत्र द्विजोत्तमः ।
ब्राह्मणान् पूजयित्वा तु विष्णुलोकमवाप्नुयात् ॥ ३५.२८॥
तीर्थानां परमं तीर्थं गोकर्णं नाम विश्रुतम् ।
सर्वपापहरं शंभोर्निवासः परमेष्ठिनः ॥ ३५.२९॥
दृष्ट्वा लिंङ्गं तु देवस्य गोकर्णेश्वरमुत्तमम् ।
ईप्सिताँल्लभते कामान् रुद्रस्य दयितो भवेत् ॥ ३५.३०॥
उत्तरं चापि गोकर्णं लिङ्गं देवस्य शूलिनः ।
महादेवं अर्चयित्वा शिवसायुज्यमाप्नुयात् ॥ ३५.३१॥
तत्र देवो महादेवः स्थाणुरित्यभिविश्रुतः ।
तं दृष्ट्वा सर्वपापेभ्यो मुच्यते तत्क्षणान्नरः ॥ ३५.३२॥
अन्यत् कुब्जाम्रमतुलं स्थानं विष्णोर्महात्मनः ।
सम्पूज्य पुरुषं विष्णुं श्वेतद्वीपे महीयते ॥ ३५.३३॥
यत्र नारायणो देवो रुद्रेण त्रिपुरारिणा ।
कृत्वा यज्ञस्य मथनं दक्षस्य तु विसर्जितः ॥ ३५.३४॥
समन्ताद् योजनं क्षेत्रं सिद्धर्षिगणवन्दितम् ।
पुण्यमायतनं विष्णोस्तत्रास्ते पुरुषोत्तमः ॥ ३५.३५॥
अन्यत् कोकामुखे विष्णोस्तीर्थमद्भुतकर्मणः ।
मृतोऽत्र पातकैर्मुक्तो विष्णुसारूप्यमाप्नुयात् ॥ ३५.३६॥
शालग्रामं महातीर्थं विष्णोः प्रीतिविवर्धनम् ।
प्राणांस्तत्र नरस्त्यक्त्वा हृषीकेषं प्रपश्यति ॥ ३५.३७॥
अश्वतीर्थमिति ख्यातं सिद्धावासं सुपावनम् ।
आस्ते हयशिरा नित्यं तत्र नारायणः स्वयम् ॥ ३५.३८॥
तीर्थं त्रैलोक्यविख्यातं सिद्दवासं सुशोबनम् ।
तत्रास्ति पुण्यदं तीर्थं ब्रह्मणः परमेष्टिनः ॥३५.३९॥
पुष्करं सर्वपापघ्नं मृतानां ब्रह्मलोकदम् ।
मनसा संस्मरेद् यस्तु पुष्करं वै द्विजोत्तमः ॥ ३५.४०॥
पूयते पातकैः सर्वैः शक्रेण सह मोदते ।
तत्र देवाः सगन्धर्वाः सयक्षोरगराक्षसाः ॥ ३५.४१॥
उपासते सिद्धसङ्घा ब्रह्माणं पद्मसंभवम् ।
तत्र स्नात्वा भवेच्छुद्धो ब्रह्माणं परमेष्ठिनम् ॥३५.४२॥
पूजयित्वा द्विजवरं ब्रह्माणं सम्प्रपष्यति ।
तत्राभिगम्य देवेशं पुरुहूतमनिन्दितम् ॥ ३५.४३॥
सुरूपो जायते मर्त्यः सर्वान् कामानवाप्नुयात् ।
सप्तसारस्वतं तीर्थं ब्रह्माद्यैः सेवितं परम् ॥ ३५.४४॥
पूजयित्वा तत्र रुद्रमश्वमेधफलं लभेत् ।
यत्र मङ्कणको रुद्रं प्रपन्नः परमेश्वरम् ॥ ३५.४५॥
आराधयामास शिवं तपसा गोवृषध्वजम् ।
प्रजज्वालाथ तपसा मुनिर्मङ्कणकस्तदा ॥ ३५.४६॥
ननर्त्त हर्षवेगेन ज्ञात्वा रुद्रं समागतम् ।
तं प्राह भगवान् रुद्रः किमर्थं नर्तितं त्वया ॥ ३५.४७॥
दृष्ट्वाऽपि देवमीशानं नृत्यति स्म पुनः पुनः ।
सोऽन्वीक्ष्य भगवानीशः सगर्वं गर्वशान्तये ॥ ३५.४८॥
स्वकं देहं विदार्यास्मै भस्मराशिमदर्शयत् ।
पश्येमं मच्छरीरोत्थं भस्मराशिं द्विजोत्तम ॥ ३५.४९॥
माहात्म्यमेतत् तपसस्त्वादृशोऽन्योऽपि विद्यते ।
यत् सगर्वं हि भवता नर्तितं मुनिपुंगव ॥ ३५.५०॥
न युक्तं तापसस्यैतत् त्वत्तोऽप्यत्राधिको ह्यहम् ।
इत्याभाष्य मुनिश्रेष्ठं स रुद्रः किल विश्वदृक् ॥ ३५.५१॥
आस्थाय परमं भावं ननर्त्त जगतो हरः ।
सहस्रशीर्षा भूत्वा सहस्राक्षः सहस्रपात् ॥ ३५.५२॥
दंष्ट्राकरालवदनो ज्वालामाली भयंकरः ।
सोऽन्वपश्यदथेषस्य पार्श्वे तस्य त्रिशूलिनः ॥ ३५.५३॥
विशाललोचनमेकां देवीं चारुविलासिनीम् ।
सूर्यायुतसमप्रख्यां प्रसन्नवदनां शिवाम् ॥ ३५.५४॥
सस्मितं प्रेक्ष्य विश्वेशं तिष्ठन्तममितद्युतिम् ।
दृष्ट्वा संत्रस्तहृदयो वेपमानो मुनीश्वरः ॥ ३५.५५॥
ननाम शिरसा रुद्रं रुद्राध्यायं जपन् वशी ।
प्रसन्नो भगवानीशस्त्र्यम्बको भक्तवत्सलः ॥ ३५.५६॥
पूर्ववेषं स जग्राह देवी चान्तर्हिताऽभवत् ।
आलिङ्ग्य भक्तं प्रणतं देवदेवः स्वयंशिवः ॥ ३५.५७॥
न भेतव्यं त्वया वत्स प्राह किं ते ददाम्यहम् ।
प्रणम्य मूर्ध्ना गिरिशं हरं त्रिपुरसूदनम् ॥ ३५.५८॥
विज्ञापयामास तदा हृष्टः प्रष्टुमना मुनिः ।
नमोऽस्तु ते महादेव महेश्वर नमोऽस्तु ते ॥ ३५.५९॥
किमेतद् भगवद्रूपं सुघोरं विश्वतोमुखम् ।
का च सा भगवत्पार्श्वे राजमाना व्यवस्थिता ॥ ३५.६०॥
अन्तर्हितेव च सहसा सर्वमिच्छामि वेदितुम् ।
इत्युक्ते व्याजहारेशस्तदा मङ्कणकं हरः ॥ ३५.६१॥
महेशः स्वात्मनो योगं देवीं च त्रिपुरानलः ।
अहं सहस्रनयनः सर्वात्मा सर्वतोमुखः ॥ ३५.६२॥
दाहकः सर्वपापानां कालः कालकरो हरः ।
मयैव प्रेर्यते कृत्स्नं चेतनाचेतनात्मकम् ॥ ३५.६३॥
सोऽन्तर्यामी स पुरुषो ह्यहं वै पुरुषोत्तमः ।
तस्य सा परमा माया प्रकृतिस्त्रिगुणात्मिका ॥ ३५.६४॥
प्रोच्यते मुनिर्भिशक्तिर्जगद्योनिः सनातनी ।
स एष मायया विश्वं व्यामोहयति विश्ववित् ॥ ३५.६५॥
नारायणः परोऽव्यक्तो मायारूप इति श्रुतिः ।
एवमेतज्जगत् सर्वं सर्वदा स्थापयाम्यहम् ॥ ३५.६६॥
योजयामि प्रकृत्याऽहं पुरुषं पञ्चविंशकम् ।
तथा वै संगतो देवः कूटस्थः सर्वगोऽमलः ॥ ३५.६७॥
सृजत्यशेषमेवेदं स्वमूर्त्तेः प्रकृतेरजः ॥
स देवो भगवान् ब्रह्मा विश्वरूपः पितामहः ॥ ३५.६८॥
तवैतत् कथितं सम्यक् स्रष्ट्वृत्वं परमात्मनः ।
एकोऽहं भगवान् कलो ह्यनादिश्चान्तकृद् विभुः ॥ ३५.६९॥
समास्थाय परं भावं प्रोक्तो रुद्रो मनीषिभिः ।
मम वै साऽपरा शक्तिर्देवी विद्येति विश्रुता ॥ ३५.७०॥
दृष्टा हि भवता नूनं विद्यादेहस्त्वहं ततः ।
एवमेतानि तत्त्वानि प्रधानपुरुषेश्वराः ॥ ३५.७१॥
विष्णुर्ब्रह्मा च भगवान् रुद्रः काल इति श्रुतिः ।
त्रयमेतदनाद्यन्तं ब्रह्मण्येव व्यवस्थितम् ॥ ३५.७२॥
तदात्मकं तदव्यक्तं तदक्षरमिति श्रुतिः ।
आत्मानन्दपरं तत्त्वं चिन्मात्रं परमं पदम् ॥ ३५.७३॥
आकाशं निष्कलं ब्रह्म तस्मादन्यन्न विद्यते ।
एवं विज्ञाय भवता भक्तियोगाश्रयेण तु ॥ ३५.७४॥
सम्पूज्यो वन्दनीयोऽहं ततस्तं पश्य शाश्वतम् ।
एतावदुक्त्वा भगवाञ्जगामादर्शनं हरः ॥ ३५.७५॥
तत्रैव भक्तियोगेन रुद्रामाराधयन्मुनिः ।
एतत् पवित्रमतुलं तीर्थं ब्रह्मर्षिसेवितम् ।
संसेव्य ब्राह्मणो विद्वान् मुच्यते सर्वपातकैः ॥ ३५.७६॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
पञ्चत्रिंशोऽध्यायः ॥३५॥
कूर्मपुराणए उत्तरभागे षड्त्रिंशत्तमोऽध्यायः
सूत उवाच ।
अन्यत् पवित्रं विपुलं तीर्थं त्रैलोक्यविश्रुतम् ।
रुद्रकोटिरिति ख्यातं रुद्रस्य परमेष्ठिनः ॥ ३६.१॥
पुरा पुण्यतमे काले देवदर्शनतत्पराः ।
कोटिब्रह्मर्षयो दान्तास्तं देशमगमन् परम् ॥ ३६.२॥
अहं द्रक्ष्यामि गिरिशं पूर्वमेव पिनाकिनम् ।
अन्योऽन्यं भक्तियुक्तानां व्याघातो जायते किल ॥ ३६.३॥
तेषां भक्तिं तदा दृष्ट्वा गिरिशो योगिनां गुरुः ।
कोटिरूपोऽभवद् रुद्रो रुद्रकोटिस्ततः स्मृतः ॥ ३६.४॥
ते स्म सर्वे महादेवं हरं गिरिगुहाशयम् ।
पश्यन्तः पार्वतीनाथं हृष्टपुष्टधियोऽभवन् ॥ ३६.५॥
अनाद्यन्तं महादेवं पूर्वमेवाहमीश्वरम् ।
दृष्टवानिति भक्त्या ते रुद्रन्यस्तधियोऽभवन् ॥ ३६.६॥
अथान्तरिक्षे विमलं पश्यन्ति स्म महत्तरम् ।
ज्योतिस्तत्रैव ते सर्वेऽभिलषन्तः परं पदम् ॥ ३६.७॥
एतत् स्वदेशाध्युषितं तीर्थं पुण्यतमं शुभम् ।
दृष्ट्वा रुद्रं समभ्यर्च्य रुद्रसामीप्यमाप्नुयात् ॥ ३६.८॥
अन्यच्च तीर्थप्रवरं नाम्ना मधुवनं स्मृतम् ।
तत्र गत्वा नियमवानिन्द्रस्यार्द्धासनं लभेत् ॥ ३६.९॥
अथान्या पुष्पनगरी देशः पुण्यतमः शुभः ।
तत्र गत्वा पितॄन् पूज्य कुलानां तारयेच्छतम् ॥ ३६.१०॥
कालञ्जरं महातीर्थं रुद्रलोके महेश्वरः ।
कालंजरं भवन्देवो यत्र भक्तप्रियो हरः ॥ ३६.११॥
श्वेतो नाम शिवे भक्तो राजर्षिप्रवरः पुरा ।
तदाशीस्तन्नमस्कारैः पूजयामास शूलिनम् ॥ ३६.१२॥
संस्थाप्य विधिना लिङ्गं भक्तियोगपुरः सरः ।
जजाप रुद्रमनिशं तत्र संन्यस्तमानसः ॥ ३६.१३॥
सितं कलोजिनं दीप्तं शूलमादाय भीषणम् ।
नेतुमभ्यागतो देशं स राजा यत्र तिष्ठति ॥ ३६.१४॥
वीक्ष्य राजा भयाविष्टः शूलहस्तं समागतम् ।
कालं कालकरं घोरं भीषणं चण्डदीपितम् ॥ ३६.१५॥
उबाभ्यामथ हस्ताभ्यां स्पृट्वाऽसौ लिङ्गमैश्वरम् ।
ननाम शिरसा रुद्रं जजाप शतरुद्रियम् ॥ ३६.१६॥
जपन्तमाह राजानं नमन्तं मनसा भवम् ।
एह्येहीति पुरः स्थित्वा कृतान्तः प्रहसन्निव ॥ ३६.१७॥
तमुवाच भयाविष्टो राजा रुद्रपरायणः ।
एकमीशार्चनरतं विहायान्यन्निषूदय ॥ ३६.१८॥
इत्युक्तवन्तं भगवानब्रवीद् भीतमानसम् ।
रुद्रार्चनरतो वाऽन्यो मद्वशे को न तिष्ठति ॥ ३६.१९॥
एवमुक्त्वा स राजानं कालो लोकप्रकालनः ।
बबन्ध पाशै राजाऽपि जजाप शतरुद्रियम् ॥ ३६.२०॥
अथान्तरिक्षे विमलं दीप्यमानंतेजोराशिं भूतभर्त्तुः पुराणम् ।
ज्वालामालासंवृतं व्याप्य विश्वं प्रादुर्भूतं संस्थितं संददर्श ॥ ३६.२१॥
तन्मध्येऽसौ पुरुषं रुक्मवर्णं देव्या देवं चन्द्रलेखोज्ज्वलाङ्गम् ।
तेजोरूपं पश्यति स्मातिहृष्टो मेने चात्मानमप्यागच्छतीति ॥ ३६.२२॥
आगच्छन्तं नातिदूरेऽथ दृष्ट्वाकालो रुद्रं देवदेव्या महेशम् ।
व्यपेतभीरखिलेशैकनाथंराजर्षिस्तं नेतुमभ्याजगाम ॥ ३६.२३॥
आलोक्यासौ भगवानुग्रकर्मादेवो रुद्रो भूतभर्त्ता पुराणः ।
एवं भक्तं सत्वरं मां स्मरन्तं देहीतीमं कालरूपं ममेति ॥ ३६.२४॥
श्रुत्वा वाख्यं गोपतेरुद्रभावः कालात्माऽसौ मन्यमानः स्वभावम् ।
बद्ध्वा भक्तं पुनरेवाऽथ पाशैः रुद्रो रौद्रमभिदुद्राव वेगात् ॥ ३६.२५॥
प्रेक्ष्यायान्तं शैलपुत्रीमथेशः सोऽन्वीक्ष्यान्ते विश्वमायाविधिज्ञः ।
सावज्ञं वै वामपादेन कालंत्वेतस्यैनं पश्यतो व्याजघान ॥ ३६.२६॥
ममार सोऽतिभीषणो महेशपादघातितः ।
रराज देवतापतिः सहोमया पिनाकधृक् ॥ ३६.२७॥
निरीक्ष्य देवमीश्वरं प्रहृष्टमानसो हरम् ।
ननाम साम्बमव्ययं स राजपुंगवस्तदा ॥ ३६.२८॥
नमो भवाय हेतवे हराय विश्वसंभवे ।
नमः शिवाय धीमते नमोऽपवर्गदायिने ॥ ३६.२९॥
नमो नमो नमो नमो महाविभूतये नमः ।
विभागहीनरूपिणे नमो नराधिपाय ते ॥ ३६.३०॥
नमोऽस्तु ते गणेश्वर प्रपन्नदुःखनाशन ।
अनादिनित्यभूतये वराहशृङ्गधारिणे ॥ ३६.३१॥
नमो वृषध्वजाय ते कपालमालिने नमः ।
नमो महानटाय ते शिवाय शङ्कराय ते ॥ ३६.३२॥
अथानुगृह्य शंकरः प्रणामतत्परं नृपम् ।
स्वगाणपत्यमव्ययं सरूपतामथो ददौ ॥ ३६.३३॥
सहोमया सपार्षदः सराजपुंगवो हरः ।
मुनीशसिद्धवन्दितः क्षणाददृश्यतामगात् ॥ ३६.३४॥
काले महेशाभिहते लोकनाथः पितामहः ।
अयाचत वरं रुद्रं सजीवोऽयं भवत्विति ॥ ३६.३५॥
नास्ति कश्चिदपीशान दोषलेशो वृषध्वज ।
कृतान्तस्यैव भवता तत्कार्ये विनियोजितः ॥ ३६.३६॥
स देवदेववचनाद् देवदेवेश्वरो हरः ।
तथास्त्वित्याह विश्वात्मा सोऽपि तादृग्विधोऽभवत् ॥ ३६.३७॥
इत्येतत् परमं तीर्थं कालंजरमिति श्रुतम् ।
गत्वाऽभ्यर्च्य महादेवं गाणपत्यं स विन्दति ॥ ३६.३८॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
षट्त्रिंशोऽध्यायः ॥३६॥
कूर्मपुराणए उत्तरभागे सप्तत्रिंशत्तमोऽध्यायः
सूत उवाच ।
इदमन्यत् परं स्थानं गुह्याद् गुह्यतमं महत् ।
महादेवस्य देवस्य महालयमिति श्रुतम् ॥ ३७.१॥
तत्र देवादिदेवेन रुद्रेण त्रिपुरारिणा ।
शिलातले पदं न्यस्तं नास्तिकानां निदर्शनम् ॥ ३७.२॥
तत्र पाशुपताः शान्ता भस्मोद्धूलितविग्रहाः ।
उपासते महादेवं वेदाध्ययनतत्पराः ॥ ३७.३॥
स्नात्वा तत्र पदं शार्वं दृष्ट्वा भक्तिपुरः सरम् ।
नमस्कृत्वाऽथ शिरसा रुद्रसामीप्यमाप्नुयात् ॥ ३७.४॥
अन्यच्च देवदेवस्य स्थानं शंभोर्महात्मनः ।
केदारमिति विख्यातं सिद्धानामालयं शुभम् ॥ ३७.५॥
तत्र स्नात्वा महादेवमभ्यर्च्य वृषकेतनम् ।
पीत्वा चैवोदकं शुद्धं गाणपत्यमवाप्नुयात् ॥ ३७.६॥
श्राद्धदानादिकं कृत्वा ह्यक्ष्यं लभते फलम् ।
द्विजातिप्रवरैर्जुष्टं योगिभिर्ज्जितमानसैः ॥ ३७.७॥
तीर्थं प्लक्षावतरणं सर्वपापविनाशनम् ।
तत्राभ्यर्च्य श्रीनिवासं विष्णुलोके महीयते ॥ ३७.८॥
अन्यच्च मगधारण्यं सर्वलोकगतिप्रदम् ।
अक्षयं विन्दते स्वर्गं तत्र गत्वा द्विजोत्तमः ॥ ३७.९॥
तीर्थं कनखलं पुण्यं महापातकनाशनम् ।
यत्र देवेन रुद्रेण यज्ञो दक्षस्य नाशितः ॥ ३७.१०॥
तत्र गङ्गामुपस्पृश्य शुचिर्भावसमन्वितः ।
मुच्यते सर्वपापैस्तु ब्रह्मलोकं लभेन्मृतः ॥ ३७.११॥
महातीर्थमिति ख्यातं पुण्यं नारायणप्रियम् ।
तत्राभ्यर्च्य हृषीकेशं श्वेतद्वीपं सगच्छति ॥ ३७.१२॥
अन्यच्च तीर्थप्रवरं नाम्ना श्रीपर्वतं शुभम् ।
तत्र प्राणान् परित्यज्य रुद्रस्य दयितो भवेत् ॥ ३७.१३॥
तत्र सन्निहितो रुद्रो देव्या सह महेश्वरः ।
स्नानपिण्डादिकं तत्र कृतमक्षय्यमुत्तमम् ॥ ३७.१४॥
गोदावरी नदी पुण्या सर्वपापविनाशनी ।
तत्र स्नात्वा पितॄन् देवांस्तर्पयित्वा यथाविधि ॥ ३७.१५॥
सर्वपापविशुद्धात्मा गोसहस्रफलं लभेत् ।
पवित्रसलिला पुण्या कावेरी विपुला नदी ॥ ३७.१६॥
तस्यां स्नात्वोदकं कृत्वा मुच्यते सर्वपातकैः ।
त्रिरात्रोपोषितेनाथ एकरात्रोषितेन वा ॥ ३७.१७॥
द्विजातीनां तु कथितं तीर्थानामिह सेवनम् ।
यस्य वाङ्मनसी शुद्धे हस्तपादौ च संस्थितौ ॥ ३७.१८॥
अलोलुपो ब्रह्मचारी तीर्थानां फलमाप्नुयात् ।
स्वामितीर्थं महातीर्थं त्रिषु लोकेषु विश्रुतम् ॥ ३७.१९॥
तत्र सन्निहितो नित्यं स्कन्दोऽमरनमस्कृतः ।
स्नात्वा कुमारधारायां कृत्वा देवादितर्पणम् ॥ ३७.२०॥
आराध्य षण्मुखं देवं स्कन्देन सह मोदते ।
नदी त्रैलोक्यविख्याता ताम्रपर्णोति नामतः ॥ ३७.२१॥
तत्र स्नात्वा पितॄन् भक्त्या तर्पयित्वा यथाविधि ।
पापकर्तॄनपि पितॄस्तारयेन्नात्र संशयः ॥ ३७.२२॥
चन्द्रतीर्थमिति ख्यातं कावेर्याः प्रभवेऽक्षयम् ।
तीर्थे तत्रभवेद्धत्तं मृतानां स्वर्गतिर्ध्रुवा ॥ ३७.२३॥
विन्ध्यपादे प्रपश्यन्ति देवदेवं सदाशिवम् ।
भक्त्या ये ते न पश्यन्ति यमस्य सदनं द्विजाः ॥ ३७.२४॥
देविकायां वृषो नाम तीर्थं सिद्धनिषेवितम् ।
तत्र स्नात्वोदकं दत्वा योगसिद्धिं च विन्दति ॥ ३७.२५॥
दशाश्वमेधिकं तीर्थं सर्वपापविनाशकम् ।
दशानामश्वमेधानां तत्राप्नोति फलं नरः ॥ ३७.२६॥
पुण्डरीकं महातीर्थं ब्राह्मणैरुपसेवितम् ।
तत्राभिगम्य युक्तात्मा पुण्डरीकफलं लभेत् ॥ ३७.२७॥
तीर्थेभ्यः परमं तीर्थं ब्रह्मतीर्थमिति श्रुतम् ।
ब्रह्माणमर्चयित्वा तु ब्रह्मलोके महीयते ॥ ३३.२८॥
सरस्वत्या विनशनं प्लक्षप्रस्रवणं शुभम् ।
व्यासतीर्थं परं तीर्थं मैनाकं च नगोत्तमम् ॥ ३७.२९॥
यमुनाप्रभवं चैव सर्वपापविनाशनम् ।
पितॄणां दुहिता देवी गन्धकालीति विश्रुता ॥ ३७.३०॥
तस्यां स्नात्वा दिवं याति मृतो जातिस्मरो भवेत् ।
कुबेरतुङ्गं पापघ्नं सिद्धचारणसेवितम् ॥ ३७.३१॥
प्राणांस्तत्र परित्यज्य कुबेरानुचरो भवेत् ।
उमातुङ्गमिति ख्यातं यत्र सा रुद्रवल्लभा ॥ ३७.३२॥
तत्राभ्यर्च्य महादेवीं गोसहस्रफलं लभेत् ।
भृगुतुङ्गे तपस्तप्तं श्राद्धं दानं तथा कृतम् ॥ ३७.३३॥
कुलान्युभयतः सप्त पुनातीति मतिर्मम ।
काश्यपस्य महातीर्थं कालसर्पिरिति श्रुतम् ॥ ३७.३४॥
तत्र श्राद्धानि देयानि नित्यं पापक्षयेच्छया ।
दशार्णायां तथा दानं श्राद्धं होमस्तपो जपः ॥३७.३५॥
अक्षयं चाव्ययं चैव कृतं भवति सर्वदा ।
तीर्थं द्विजातिभिर्जुष्टं नाम्ना वै कुरुजाङ्गलम् ॥ ३७.३६॥
दत्त्वा तु दानं विधिवद् ब्रह्मलोके महीयते ।
वैतरण्यां महातीर्थे स्वर्णवेद्यां तथैव च ॥ ३७.३७॥
धर्मपृष्ठे च सरसि ब्रह्मणः परमे शुभे ।
भरतस्याश्रमे पुण्ये पुण्ये श्राद्धवटे शुभे ॥ ३७.३८ ।
महाह्रदे च कौशिक्यां दत्तं भवति चाक्षयम् ।
मुण्डपृष्ठे पदं न्यस्तं महादेवेन धीमता ॥ ३७.३९॥
हिताय सर्वभूतानां नास्तिकानां निदर्शनम् ।
अल्पेनापि तु कालेन नरो धर्मपरायणः ॥३७.४०॥
पाप्मानमुत्सृजत्याशु जीर्णां त्वचमिवोरगः ।
नाम्ना कनकनन्देति तीर्थं त्रैलोक्यविश्रुतम् ॥ ३७.४१॥
उदीच्यां मुञ्जपृष्ठस्य ब्रह्मर्षिगणसेवितम् ।
तत्र स्नात्वा दिवं यान्ति सशरीरा द्विजातयः ॥ ३७.४२॥
दत्तं चापि सदा श्राद्धमक्षयं समुदाहृतम् ।
ऋणैस्त्रिभिर्नरः स्नात्वा मुच्यते क्षीणकल्मषः ॥ ३७.४३॥
मानसे सरसि स्नात्वा शक्रस्यार्द्धासनं लभेत् ।
उत्तरं मानसं गत्वा सिद्धिं प्राप्नोत्यनुत्तमाम् ॥ ३७.४४॥
तस्मान्निर्वर्त्तयेच्छ्राद्धं यथाशक्ति यथाबलम् ।
कामान् सलभते दिव्यान् मोक्षोपायं च विन्दति ॥ ३७.४५॥
पर्वतो हिमवान्नाम नानाधातुविभूषितः ।
योजनानां सहस्राणि साशीतिस्त्वायतो गिरिः ॥ ३७.४६॥
सिद्धचारणसंकीर्णा देवर्षिगणसेवितः ।
तत्र पुष्करिणी रम्या सुषुम्ना नाम नामतः ॥ ३७.४७॥
तत्र गत्वा द्विजो विद्वान् ब्रह्महत्यां विमुञ्चति ।
श्राद्धं भवति चाक्षय्यं तत्र दत्तं महोदयम् ॥ ३७.४८॥
तारयेच्च पितॄन् सम्यग् दश पूर्वान् दशापरान् ।
सर्वत्र हिमवान् पुण्यो गङ्गा पुण्या समन्ततः ॥ ३७.४९॥
नद्यः समुद्रगाः पुण्याः समुद्रश्च विशेषतः ।
बदर्याश्रममासाद्य मुच्यते कलिकल्बिषात् ॥३७.५०॥
तत्र नारायणो देवो नरेणास्ते सनातनः ।
अक्षयं तत्र दानं स्यात् जप्यं वाऽपि तथाविधम् ॥ ३७.५१॥
महादेवप्रियं तीर्थं पावनं तद् विशेषतः ।
तारयेच्च पितॄन् सर्वान् दत्त्वा श्राद्धं समाहितः ॥ ३७.५२॥
देवदारुवनं पुण्यं सिद्धगन्धर्वसेवितम् ।
महादेवेन देवेन तत्र दत्तं महद् वरम् ॥ ३७.५३॥
मोहयित्वा मुनीन् सर्वान् समस्तैः सम्प्रपूजितः ।
प्रसन्नो भगवानीशो मुनीन्द्रान् प्राह भावितान् ॥ ३७.५४॥
इहाश्रमवरे रम्ये निवसिष्यथ सर्वदा ।
मद्भावनासमायुक्तास्ततः सिद्धिमवाप्स्यथ ॥ ३७.५५॥
येऽत्र मामर्चयन्तीह लोके धर्मपरा जनाः ।
तेषां ददामि परमं गाणपत्यं हि शाश्वतम् ॥ ३७.५६॥
अत्र नित्यं वसिष्यामि सह नारायणेन च ।
प्राणानिह नरस्त्यक्त्वा न भूयो जन्म विन्दति ॥ ३७.५७॥
संस्मरन्ति च ये तीर्थं देशान्तरगता जनाः ।
तेषां च सर्वपापानि नाशयामि द्विजोत्तमाः ॥ ३७.५८॥
श्राद्धं दानं तपो होमः पिण्डनिर्वपणं तथा ।
ध्यानं जपश्च नियमः सर्वमत्राक्षयं कृतम् ॥ ३७.५९॥
तस्मात् सर्वप्रयत्नेन द्रष्टव्यं हि द्विजातिभिः ॥
देवदारुवनं पुण्यं महादेवनिषेवितम् ॥ ३७.६०॥
यत्रेस्वरो महादेवो विष्णुर्वा पुरुषोत्तमः ।
तत्र सन्निहिता गङ्गातीर्थान्यायतनानि च ॥ ३७.६१॥
इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
सप्तत्रिंशोऽध्यायः ॥३७॥
कूर्मपुराणए उत्तरभागे अष्टत्रिंशत्तमोऽध्यायः
ऋषय ऊचुः ।
कथं दारुवनं प्राप्तो भगवान् गोवृषध्वजः ।
मोहयामास विप्रेन्द्रान् सूत वक्तुमिहार्हसि ॥ ३८.१॥
सूत उवाच ।
पुरा दारुवने रम्ये देवसिद्धनिषेविते ।
सपुत्रदारतनयास्तपश्चेरुः सहस्रशः ॥ ३८.२॥
प्रवृत्तं विविधं कर्म प्रकुर्वाणा यथाविधि ।
यजन्ति विविधैर्यज्ञैस्तपन्ति च महर्षयः ॥ ३८.३॥
तेषां प्रवृत्तिविन्यस्तचेतसामथ शूलधृक् ।
व्याख्यापयन् स महादोषं ययौ दारुवनं हरः ॥ ३८.४॥
कृत्वा विश्वगुरुं विष्णुं पार्श्वे देवो महेश्वरः ।
ययौ निवृत्तविज्ञानस्थापनार्थं च शंकरः ॥ ३८.५॥
आस्थाय विपुलञ्चैष जनं विंशतिवत्सरम् ।
लीलालसो महाबाहुः पीनाङ्गश्चारुलोचनः ॥ ३८.६॥
चामीकरवपुः श्रीमान् पूर्णचन्द्रनिभाननः ।
मत्तमातङ्गगामनो दिग्वासा जगदीश्वरः ॥ ३८.७॥
कुशेशयमयीं मालां सर्वरत्नैरलंकृताम् ।
दधानो भगवानीशः समागच्छति सस्मितः ॥ ३८.८॥
योऽनन्तः पुरुषो योनिर्लोकानामव्ययो हरिः ।
स्त्रीवेषं विष्णुरास्थाय सोऽनुगच्छति शूलिनम् ॥ ३८.९॥
सम्पूर्णचन्द्रवदनं पीनोन्नतपयोधरम् ।
शुचिस्मितं सुप्रसन्नं रणन्नुपुरकद्वयम् ॥ ३८.१०॥
सुपीतवसनं दिव्यं श्यामलं चारुलोचनम् ।
उदारहंसचलनं विलासि सुमनोहरम् ॥ ३८.११॥
एवं स भगवानीशो देवदारुवने हरः ।
चचार हरिणा सार्द्धं मायया मोहयन् जगत् ॥ ३८.१२॥
दृष्ट्वा चरन्तं विश्वेशं तत्र तत्र पिनाकिनम् ।
मायया मोहिता नार्यो देवदेवं समन्वयुः ॥ ३८.१३॥
विस्त्रस्तवस्त्राभरणास्त्यक्त्वा लज्जां पतिव्रताः ।
सहैव तेन कामार्त्ता विलासिन्यश्चरन्तिहि ॥ ३८.१४॥
ऋषीणां पुत्रका ये स्युर्युवानो जितमानसाः ।
अन्वगच्छन् हृषीकेशं सर्वे कामप्रपीडिताः ॥ ३८.१५॥
गायन्ति नृत्यन्ति विलासयुक्ता
नारीगणा नायिकमेकमीशम् ।
दृष्ट्वा सपत्नीकमतीवकान्त-
मिच्छन्त्यथालिङ्गनमाचरन्ति ॥ ३८.१६॥
पार्श्वे निपेतुः स्मितमाचरन्ति
गायन्ति गीतानि मुनीशपुत्राः ।
आलोक्य पद्मापतिमादिदेवं
भ्रूभङ्गमन्ये विचरन्ति तेन ॥ ३८.१७॥
आसामथैषामपि वासुदेवो
मायी मुरारिर्मनसि प्रविष्टः ।
करोति भोगान् मनसि प्रवृत्तिं
मायानुभूयन्त इतिव सम्यक् ॥ ३८.१८॥
विभाति विश्वामरभूतभर्त्ता
स माधवः स्त्रीगणमध्यविष्टः ।
अशेषशक्त्यासनसंनिविष्टो
यथैकशक्त्या सह देवदेवः ॥ ३८.१९॥
करोति नृत्यं परमं प्रधानं
तदा विरूढः पुनरेव भूयः ।
ययौ समारुह्य हरिः स्वभावं
तदीशवृत्तामृतमादिदेवः ॥ ३८.२०॥
दृष्ट्वा नारीकुलं रुद्रं पुत्रानपि च केशवम् ।
मोहयन्तं मुनिश्रेष्ठाः कोपं संदधिरे भृशम् ॥ ३८.२१॥
अतीव परुषं वाक्यं प्रोचुर्देवं कपर्दिनम् ।
शेपुश्च र्विविधै र्वाक्यै र्मायया तस्य मोहिताः ॥ ३८.२२॥
तपांसि तेषां सर्वेषां प्रत्याहन्यन्त शंकरे ।
यथादित्यप्रकाशेन तारका नभसि स्थिताः ॥ ३८.२३॥
ते भग्नतपसो विप्राः समेत्य वृषभध्वजम् ।
को भवानिति देवेशं पृच्छन्ति स्म विमोहिताः ॥ ३८.२४॥
सोऽब्रवीद् भगवानीशस्तपश्चर्तुमिहागतः ।
इदानीं भार्यया देशे भवद्भिरिह सुव्रताः ॥ ३८.२५॥
तस्य ते वाक्यमाकर्ण्य भृग्वाद्या मुनिपुंगवाः ।
ऊचुर्गृहीत्वा वसनं त्यक्त्वा भार्यां तपश्चर ॥ ३८.२६॥
अथोवाच विहस्येशः पिनाकी नीललोहितः ।
सम्प्रेक्ष्य जगतां योनिं पार्श्वस्थं च जनार्दनम् ॥ ३८.२७॥
कथं भवद्भिरुदितं स्वभार्यापोषणोत्सुकैः ।
त्यक्तव्या मम भार्येति धर्मज्ञैः शान्तमानसैः ॥ ३८.२८॥
ऋषय ऊचुः ।
व्यभिचाररता भार्याः संत्याज्याः पतिनेरिताः ।
अस्माभिरेषा सुभगा तादृशी त्यागमर्हति ॥ ३८.२९॥
महादेव उवाच ।
न कदाचिदियं विप्रा मनसाप्यन्यमिच्छति ।
नाहमेनामपि तथा विमुञ्चामि कदाचन ॥ ३८.३०॥
ऋषय ऊचुः ।
दृष्ट्वा व्यभिचरन्तीह ह्यस्माभिः पुरुषाधम ।
उक्तं ह्यसत्यं भवता गम्यतां क्षिप्रमेव हि ॥ ३८.३१॥
एवमुक्ते महादेवः सत्यमेव मयेरितम् ।
भवतां प्रतिभात्येषेत्युक्त्वासौ विचचार ह ॥ ३८.३२॥
सोऽगच्छद्धरिणा सार्द्धं मुनिन्द्रस्य महात्मनः ।
वसिष्ठस्याश्रमं पुण्यं भिक्षार्थी परमेश्वरः ॥ ३८.३३॥
दृष्ट्वा समागतं देवं भिक्षमाणमरुन्धती ।
वसिष्ठस्य प्रिया भार्या प्रत्युद्गम्य ननाम नम् ॥ ३८.३४॥
प्रक्षाल्य पादौ विमलं दत्त्वा चासनमुत्तमम् ।
सम्प्रेक्ष्य शिथिलं गात्रमभिघातहतं द्विजैः ।
संधयामास भैषज्यैर्विषण्ण वदना सती ॥ ३८.३५॥
चकार महतीं पूजां प्रार्थयामास भार्यया ।
को भवान् कुत आयातः किमाचारो भवानिति ।
उवाच तां महादेवः सिद्धानां प्रवरोऽस्म्यहम् ॥ ३८.३६॥
यदेतन्मण्डलं शुद्धं भाति ब्रह्ममयं सदा ।
एषैव देवता मह्यं धारयामि सदैव तत् ॥ ३८.३७॥
हत्युक्त्वा प्रययौ श्रीमाननुगृह्य पतिव्रताम् ।
ताडयाञ्चक्रिरे दण्डैर्लोष्टिभिर्मुष्टिभिद्विजाः ॥ ३८.३८॥
दृष्ट्वा चरन्तं गिरिशं नग्नं विकृतलक्षणम् ।
प्रोचुरेतद् भवाँल्लिङ्गमुत्पाटयतु दुर्मते ॥ ३८.३९॥
तानब्रवीन्महायोगी करिष्यामीति शंकरः ।
युष्माकं मामके लिङ्गे यदि द्वेषोऽभिजायते ॥ ३८.४०॥
इत्युक्त्वोत्पाटयामास भगवान् भगनेत्रहा ।
नापश्यंस्तत्क्षणेनेशं केशवं लिङ्गमेव च ॥ ३८.४१॥
तदोत्पाता बभूवुर्हि लोकानां भयशंसिनः ।
न राजते सहस्रांशुश्चचाल पृथिवी पुनः ।
निष्प्रभाश्च ग्रहाः सर्वे चुक्षुभे च महोदधिः ॥ ३८.४२॥
अपश्यच्चानुसूयात्रेः स्वप्नं भार्या पतिव्रता ।
कथयामास विप्राणां भयादाकुलितेक्षणा ॥ ३८.४३॥
तेजसा भासयन् कृत्स्नं नारायणसहायवान् ।
भिक्षमाणः शिवो नूनं दृष्टोऽस्माकं गृहेष्विति ॥ ३८.४४॥
तस्या वचनमाकर्ण्य शङ्कमाना महर्षयः ।
सर्वे जग्मुर्महायोगं ब्रह्माणं विश्वसंभवम् ॥ ३८.४५॥
उपास्यमानममलैर्योगिभिर्ब्रह्मवित्तमैः ।
चतुर्वेदैर्मूर्तिमद्भिः सावित्र्या सहितं प्रभुम् ॥ ३८.४६॥
आसीनमासने रम्ये नानाश्चर्यसमन्विते ।
प्रभासहस्रकलिले ज्ञानैश्वर्यादिसंयुते ॥ ३८.४७॥
विभ्राजमानं वपुषा सस्मितं शुभ्रलोचनम् ।
चतुर्मुखं महाबाहुं छन्दोमयमजं परम् ॥ ३८.४८॥
विलोक्य देवपुरुषं प्रसन्नवदनं शुभम् ।
शिरोभिर्धरणीं गत्वा तोषयामासुरीश्वरम् ॥ ३८.४९॥
तान् प्रसन्नमना देवश्चतुर्मूर्त्तिश्चतुर्मुखः ।
व्याजहार मुनिश्रेष्ठाः किमागमनकारणम् ॥ ३८.५०॥
तस्य ते वृत्तमखिलं ब्रह्मणः परमात्मनः ।
ज्ञापयाञ्चक्रिरे सर्वे कृत्वा शिरसि चाञ्जलिम् ॥ ३८.५१॥
ऋषय ऊचुः ।
कश्चिद् दारुवनं पुण्यं पुरुषोऽतीवशोभनः ।
भार्यया चारुसर्वाङ्ग्या प्रविष्टो नग्न एव हि ॥ ३८.५२॥
मोहयामास वपुषा नारीणां कुलमीश्वरः ।
कन्यकानां प्रिया चास्य दूषयामास पुत्रकान् ॥ ३८.५३॥
अस्माभिर्विविधाः शापाः प्रदत्ताश्च पराहताः ।
ताडितोऽस्माभिरत्यर्थं लिङ्गंतु विनिपातितम् ॥ ३८.५४॥
अन्तर्हितश्च भगवान् सभार्यो लिङ्गमेव च ।
उत्पाताश्चाभवन् घोराः सर्वभूतभयंकराः ॥ ३८.५५॥
क एष पुरुषो देव भीताः स्म पुरुषोत्तम ।
भवन्तमेव शरणं प्रपन्ना वयमच्युत ॥ ३८.५६॥
त्वं हि वेत्सि जगत्यस्मिन् यत्किञ्चिदपि चेष्टितम् ।
अनुग्रहेण विश्वेश तदस्माननुपालय ॥ ३८.५७॥
विज्ञापितो मुनिगणैर्विश्वात्मा कमलोद्भवः ।
ध्यात्वा देवं त्रिशूलाङ्कं कृताञ्जलिरभाषत ॥ ३८.५८॥
ब्रह्मोवाच ।
हा कष्टं भवतामद्य जातं सर्वार्थनाशनम् ।
धिग्बलं धिक् तपश्चर्या मिथ्यैव भवतामिह ॥ ३८.५९॥
सम्प्राप्य पुण्यसंस्कारान्निधीनां परमं निधिम् ।
उपेक्षितं वृथाचारैर्भवद्भिरिह मोहितैः ॥ ३८.६०॥
काङ्क्षन्ते योगिनो नित्यं यतन्तो यतयो निधिम् ।
यमेव तं समासाद्य हा भवद्भिरुपेक्षितम् ॥ ३८.६१॥
यजन्ति यज्ञैर्विविधैर्यत्प्राप्त्यैर्वेदवादिनः ।
महानिधिं समासाद्य हा भवद्भिरुपेक्षितम् ॥ ३८.६२॥
यं समासाद्य देवानैमैश्वर्यमखिलं जगत् ।
तमासाद्याक्षयनिधिं हा भवद्भिरुपेक्षितम् ।
यत्समापत्तिजनितं विश्वेशत्वमिदं मम ।
तदेवोपेक्षितं दृष्ट्वा निधानं भाग्यवर्जितैः ॥ ३८.६३॥
यस्मिन् समाहितं दिव्यमैश्वर्यं यत् तदव्ययम् ।
तमासाद्य निधिं ब्राह्म हा भवद्भिर्वृथाकृतम् ॥ ३८.६४॥
एष देवो महादेवो विज्ञेयस्तु महेश्वरः ।
न तस्य परमं किञ्चित् पदं समधिगम्यते ॥ ३८.६५॥
देवतानामृषीणां च पितॄणां चापि शाश्वतः ।
सहस्रयुगपर्यन्ते प्रलये सर्वदेहिनाम् ॥ ३८.६६॥
संहरत्येष भगवान् कालो भूत्वा महेश्वरः ।
एष चैव प्रजाः सर्वाः सृजत्येषः स्वतेजसा ॥ ३८.६७॥
एष चक्री चक्रवर्ती श्रीवत्सकृतलक्षणः ।
योगी कृतयुगे देवस्त्रेतायां यज्ञ उच्यते ।
द्वापरे भगवान् कालो धर्मकेतुः कलौ युगे ॥ ३८.६८॥
रुद्रस्य मूर्त्तयस्तिस्त्रो याभिर्विश्वमिदं ततम् ।
तमो ह्यग्नी रजो ब्रह्मा सत्त्वं विष्णुरिति प्रभुः ॥ ३८.६९॥
मूर्त्तिरन्या स्मृता चास्य दिग्वासा वै शिवा ध्रुवा ।
यत्र तिष्ठति तद् ब्रह्म योगेन तु समन्वितम् ॥ ३८.७०॥
या चास्य पार्श्वगा भार्या भवद्भिरभिवीक्षिता ।
सा हि नारायणो देवः परमात्मा सनातनः ॥ ३८.७१॥
तस्मात् सर्वमिदं जातं तत्रैव च लयं व्रजेत् ।
स एष मोचयेत् कृत्स्नं स एष परमा गतिः ॥ ३८.७२॥
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
एकशृङ्गो महानात्मा पुराणोऽष्टाक्षरो हरिः ॥ ३८.७३॥
चतुर्वेदश्चतुर्मूर्त्तिस्त्रिमूर्त्तिस्त्रिगुणः परः ।
एकमूर्त्तिरमेयात्मा नारायण इति श्रुतिः ।
रेतोऽस्य गर्भो भगवानापो मायातनुः प्रभुः ।
स्तूयते विविधैर्मन्त्रैर्ब्राह्मणैर्मोक्षकांक्षिभिः ॥ ३८.७४॥
संहृत्य सकलं विश्वं कल्पान्ते पुरुषोत्तमः ।
शेते योगामृतं पीत्वा यत् तद् विष्णोः परं पदम् ॥ ३८.७५॥
न जायते न म्रियते वर्द्धते न च विश्वसृक् ।
मूलप्रकृतिरव्यक्ता गीयते वैदिकैरजः ॥ ३८.७६॥
ततो निशायां वृत्तायां सिसृक्षुरखिलञ्जगत् ।
अजस्य नाभौ तद् बीजं क्षिपत्येष महेश्वरः ॥ ३८.७७॥
तं मां वित्त महात्मानं ब्रह्माणं विश्वतो मुखम् ।
महान्तं पुरुषं विश्वमपां गर्भमनुत्तमम् ॥ ३८.७८॥
न तं जानीथ जनकं मोहितास्तस्य मायया ।
देवदेवं महादेवं भूतानामीश्वरं हरम् ॥ ३८.७९॥
एष देवो महादेवो ह्यनादिर्भगवान् हरः ।
विष्णुना सह संयुक्तः करोति विकरोति च ॥ ३८.८०॥
न तस्य विद्यते कार्यं न तस्माद् विद्यते परम् ।
स वेदान् प्रददौ पूर्वं योगमायातनुर्मम ॥ ३८.८१॥
स मायी मायया सर्वं करोति विकरोति च ।
तमेव मुक्तये ज्ञात्वा व्रजेत शरणं भवम् ॥ ३८.८२॥
इतीरिता भगवता मरीचिप्रमुखा विभुम् ।
प्रणम्य देवं ब्रह्माणं पृच्छन्ति स्म सुदुः खिताः ॥ ३८.८३॥
इति अष्टाचत्वारिंशोऽध्यायः ॥३८॥
कूर्मपुराणए उत्तरभागे नवत्रिंशत्तमोऽध्यायः
मुनय ऊचुः ।
कथं पश्येम तं देवं पुनरेव पिनाकिनम् ।
ब्रूहि विश्वामरेशान त्राता त्वं शरणैषिणाम् ॥ ३९.१॥
पितामह उवाच ।
यद् दृष्टं भवता तस्य लिङ्गं भुवि निपातितम् ।
तल्लिङ्गानुकृतीशस्य कृत्वा लिङ्गमनुत्तमम् ॥ ३९.२॥
पूजयध्वं सपत्नीकाः सादरं पुत्रसंयुताः ।
वैदिकैरेव नियमैर्विविधैर्ब्रह्मचारिणः ॥३९.३॥
संस्थाप्य शांकरैर्मन्त्रैरृग्यजुः सामसंभवैः ।
तपः परं समास्थाय गृणन्तः शतरुद्रियम् ॥ ३९.४॥
समाहिताः पूजयध्वं सपुत्राः सह बन्धुभिः ।
सर्वे प्राञ्जलयो भूत्वा शूलपाणिं प्रपद्यथ ॥ ३९.५॥
ततो द्रक्ष्यथ देवेशं दुर्दर्शमकृतात्मभिः ।
यं दृष्ट्वा सर्वमज्ञानमधर्मश्च प्रणश्यति ॥ ३९.६॥
ततः प्रणम्य वरदं ब्रह्माणममितौजसम् ।
जग्मुः संहृष्टमनसो देवदारुवनं पुनः ॥ ३९.७॥
आराधयितुमारब्धा ब्रह्मणा कथितं यथा ।
अजानन्तः परं देवं वीतरागा विमत्सराः ॥ ३९.८॥
स्थण्डिलेषु विचित्रेषु पर्वतानां गुहासु च ।
नदीनां च विविक्तेषु पुलिनेषु शुभेषु च ॥ ३९.९॥
शैवालभोजनाः केचित् केचिदन्तर्जलेशयाः ।
केचिदभ्रावकाशास्तु पादाङ्गुष्ठे ह्यधिष्ठिताः ॥ ३९.१०॥
दन्तोऽलूखलिनस्त्वन्ये ह्यश्मकुट्टास्तथा परे ।
शाकपर्णाशनः केचित् सम्प्रक्षाला मरीचिपाः ॥ ३९.११॥
वृक्षमूलनिकेताश्च शिलाशय्यास्तथा परे ।
कालं नयन्ति तपसा पूजयन्तो महेश्वरम् ॥ ३९.१२॥
ततस्तेषां प्रसादार्थं प्रपन्नार्त्तिहरो हरः ।
चकार भगवान् बुद्धिं प्रबोधाय वृषध्वजः ॥ ३९.१३॥
देवः कृतयुगे ह्यस्मिन् शृङ्गे हिमवतः शुभे ।
देवदारुवनं प्राप्तः प्रसन्नः परमेश्वरः ॥ ३९.१४॥
भस्मपाण्डुरदिग्धाङ्गो नग्नो विकृतलक्षणः ।
उल्मुकव्यग्रहस्तश्च रक्तपिङ्गललोचनः ॥ ३९.१५॥
क्वचिच्च हसते रौद्रं क्वचिद् गायति विस्मितः ।
क्वचिन्नृत्यति शृङ्गारी क्वचिद्रौति मुहुर्मुहुः ॥ ३९.१६॥
आश्रमे ह्यटते भिक्षुः याचते च पुनः पुनः ।
मायां कृत्वात्मनो रूपं देवस्तद् वनमागतः ॥ ३९.१७॥
कृत्वा गिरिसुतां गौरीं पार्श्वेदेवः पिनाकधृक् ।
सा च पूर्ववद् देवेशी देवदारुवनं गता ॥ ३९.१८॥
दृष्ट्वा समागतं देवं देव्या सह कपर्दिनम् ।
प्रणेमुः शिरसा भूमौ तोषयामासुरीश्वरम् ॥ ३९.१९॥
वैदिकैर्विविधैर्मन्त्रैः सूक्तैर्माहेश्वरैः शुभैः ।
अथर्वशिरसा चान्ये रुद्राद्यैरर्च्चयन्भवम् ॥ ३९.२०॥
नमो देवादिदेवाय महादेवाय ते नमः ।
त्र्यम्बकाय नमस्तुभ्यं त्रिशूलवरधारिणे ॥ ३९.२१॥
नमो दिग्वाससे तुभ्यं विकृताय पिनाकिने ।
सर्वप्रणतदेवाय स्वयमप्रणतात्मने ॥ ३९.२२॥
अन्तकान्तकृते तुभ्यं सर्वसंहरणाय च ।
नमोऽस्तु नृत्यशीलाय नमो भैरवरूपिणे ॥ ३९.२३॥
नरनारीशरीराय योगिनां गुरवे नमः ।
नमो दान्ताय शान्ताय तापसाय हराय च ॥ ३९.२४॥
विभीषणाय रुद्राय नमस्ते कृत्तिवाससे ।
नमस्ते लेलिहानाय शितिकण्ठाय ते नमः ॥ ३९.२५॥
अघोरघोररूपाय वामदेवाय वै नमः ।
नमः कनकमालाय देव्याः प्रियकराय च ॥ ३९.२६॥
गङ्गासलिलधाराय शम्भवे परमेष्ठिने ।
नमो योगाधिपतये ब्रह्माधिपतये नमः ॥ ३९.२७॥
प्राणाय च नमस्तुभ्यं नमो भस्मागधारिणे ।
नमस्ते हव्यवाहाय दंष्ट्रिणे हव्यरेतसे ॥ ३९.२८॥
ब्रह्मणश्च शिरो हर्त्रे नमस्ते कालरूपिणे ।
आगतिं ते न जनीमो गतिं नैव च नैव च ॥ ३९.२९॥
विश्वेश्वर महादेव योऽसि सोऽसि नमोऽस्तु ते ।
नमः प्रमथनाथाय दात्रे च शुभसम्पदाम् ॥ ३९.३०॥
कपालपाणये तुभ्यं नमो मीढुष्टमाय ते ।
नमः कनकलिङ्गाय वारिलिङ्गाय ते नमः ॥ ३९.३१॥
नमो वह्न्यर्कलिङ्गाय ज्ञानलिङ्गाय ते नमः ।
नमो भुजंगहाराय कर्णिकारप्रियाय च ।
किरीटिने कुण्डलिने कालकालाय ते नमः ॥ ३९.३२॥
वामदेव महेशान देवदेव त्रिलोचन ।
क्षम्यतां यत्कृतं मोहात् त्वमेव शरणं हि नः ॥ ३९.३३॥
चरितानि विचित्राणि गुह्यानि गहनानि च ।
ब्रह्मादीनां च सर्वेषां दुर्विज्ञेयोऽसि शंकर ॥ ३९.३४॥
अज्ञानाद् यदि वा ज्ञानाद् यत्किंचित्कुरुते नरः ।
तत्सर्वं भगवानेन कुरुते योगमायया ॥ ३९.३५॥
एवं स्तुत्वा महादेवं प्रहृष्टेनान्तरात्मना ।
ऊचुः प्रणम्य गिरिशं पश्यामस्त्वां यथा पुरा ॥ ३९.३६॥
तेषां संस्तवमाकर्ण्य सोमः मोमविभूषणः ।
स्वमेव परमं रूपं दर्शयामास शंकरः ॥ ३९.३७॥
तं ते दृष्ट्वाऽथ गिरिशं देव्या सह पिनाकिनम् ।
यथा पूर्वं स्थिता विप्राः प्रणेमुर्हृष्टमानसाः ॥ ३९.३८॥
ततस्ते मुनयः सर्वे संस्तूय च महेश्वरम् ।
भृग्वङ्गिरोवसिष्ठास्तु विश्वामित्रस्तथैव च ॥ ३९.३९॥
गौतमोऽत्रिः सुकेशश्च पुलस्त्यः पुलहः क्रतुः ।
मरीचिः कश्यपश्चापि संवर्त्तकमहातपाः ।
प्रणम्य देवदेवेशमिदं वचनमब्रुवन् ॥ ३९.४०॥
कथं त्वां देवदेवेश कर्मयोगेन वा प्रभो ।
ज्ञानेन वाऽथ योगेन पूजयामः सदैव हि ॥ ३९.४१॥
केन वा देवमार्गेण सम्पूज्यो भगवानिह ।
किं तत् सेव्यमसेव्यं वा सर्वमेतद् ब्रवीहि नः ॥ ३९.४२॥
देवदेव उवाच ।
एतद् वः सम्प्रवक्ष्यामि गूढं गहनमुत्तमम् ।
ब्रह्मणे कथितं पूर्वमादावेव महर्षयः ॥ ३९.४३॥
सांख्ययोगो द्विधा ज्ञेयः पुरुषाणां हि साधनम् ।
योगेन सहितं सांख्यं पुरुषाणां विमुक्तिदम् ॥ ३९.४४॥
न केवलेन योगेन दृश्यते पुरुषः परः ।
ज्ञानं तु केवलं सम्यगपवर्गफलप्रदम् ॥ ३९.४५॥
भवन्तः केवलं योगं समाश्रित्य विमुक्तये ।
विहाय सांख्यं विमलमकुर्वत परिश्रमम् ॥ ३९.४६॥
एतस्मात् कारणाद् विप्रानृणां केवलधर्मिणाम् ।
आगतोऽहमिमं देशं ज्ञापयन् मोहसंभवम् ॥ ३९.४७॥
तस्माद् भवद्भिर्विमलं ज्ञानं कैवल्यसाधनम् ।
ज्ञातव्यं हि प्रयत्नेन श्रोतव्यं दृश्यमेव च ॥ ३९.४८॥
एकः सर्वत्रगो ह्यात्मा केवलश्चितिमात्रकः ।
आनन्दो निर्मलो नित्यं स्यादेतत् सांख्यदर्शनम् ॥ ३९.४९॥
एतदेव परं ज्ञानमेष मोक्षोऽत्र गीयते ।
एतत् कैवल्यममलं ब्रह्मभावश्च वर्णितः ॥ ३९.५०॥
आश्रित्य चैतत् परमं तन्निष्ठास्तत्परायणाः ।
पश्यन्ति मां महात्मानो यतयो विश्वमीश्वरम् ॥ ३९.५१॥
एतत् तत् परमं ज्ञानं केवलं सन्निरञ्जनम् ।
अहं हि वेद्यो भगवान् मम मूर्त्तिरियं शिवा ॥ ३९.५२॥
बहूनि साधनानीह सिद्धये कथितानि तु ।
तेषामभ्यधिकं ज्ञानं मामकं द्विजपुंगवाः ॥ ३९.५३॥
ज्ञानयोगरताः शान्ता मामेव शरणं गताः ।
ये हि मां भस्मनिरता ध्यायन्ति सततं हृदि ॥ ३९.५४॥
मद्भक्तिपरमा नित्यं यतयः क्षीणकल्मषाः ।
नाशयाम्यचिरात् तेषां घोरं संसारसागरम् ॥ ३९.५५॥
प्रशान्तः संयतमना भस्मोद्धूलितविग्रहः ।
ब्रह्मचर्यरतो नग्नो व्रतं पाशुपतं चरेत् ॥ ३९.५६॥
निर्मितं हि मया पूर्वं व्रतं पाशुपतं परम् ।
गुह्याद् गुह्यतमं सूक्ष्मं वेदसारं विमुक्तये ॥ ३९.५७॥
यद् वा कौपीनवसनः स्याद्वादिग्वसनो मुनिः ।
वेदाभ्यासरतो विद्वान् ध्यायेत् पशुपतिं शिवम् ॥ ३९.५८॥
एष पाशुपतो योगः सेवनीयो मुमुक्षुभिः ।
भस्मच्छन्नैर्हि सततं निष्कामैरिति श्रुतम् ॥ ३९.५९॥
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।
बहवोऽनेन योगेन पूता मद्भावमागताः ॥ ३९.६०॥
अन्यानि चैव शास्त्राणि लोकेऽस्मिन् मोहनानितु ।
वेदवादविरुद्धानि मयैव कथितानि तु ॥ ३९.६१॥
वामं पाशुपतं सोमं लाकुलं चैव भैरवम् ।
असेव्यमेतत् कथितं वेदबाह्यं तथेतरम् ॥ ३९.६२॥
वेदमुर्त्तिरहं विप्रा नान्यशास्त्रार्थवेदिभिः ।
ज्ञायते मत्स्वरूपं तु मुक्त्वा वेदं सनातनम् ॥ ३९.६३॥
स्थापयध्वमिदं मार्गं पूजयध्वं महेश्वरम् ।
अचिरादैश्वरं ज्ञानमुत्पत्स्यति न संशयः ॥ ३९.६४॥
मयि भक्तिश्च विपुला भवतामस्तु सत्तमाः ।
ध्यातमात्रो हि सान्निध्यं दास्यामि मुनिसत्तमाः ॥ ३९.६५॥
इत्युक्त्वा भगवान् सोमस्तत्रैवान्तरधीयत ।
तोऽपि दारुवने तस्मिन् पूजयन्ति स्म शंकरम् ॥ ३९.६६॥
ब्रह्मचर्यरताः शान्ता ज्ञानयोगपरायणाः ।
समेत्य ते महात्मानो मुनयो ब्रह्मवादिनः ॥ ३९.६७॥
विचक्रिरे बहून् वादान्नध्यात्मज्ञानसमाश्रयान् ।
किमस्य जगतो मूलमात्मा चास्माकमेव हि ॥ ३९.६८॥
कोऽपि स्यात् सर्वभावानां हेतुरीश्वर एव च ।
इत्येवं मन्यमानानां ध्यानमार्गावलम्बिनाम् ।
आविरासीन्महादेवी देवी गिरिवरात्मजा ॥ ३९.६९॥
कोटिसूर्यप्रतीकाशा ज्वालामालासमावृता ।
स्वभाभिर्विमलाभिस्तु पूरयन्ती नभस्तलम् ॥ ३९.७०॥
तामन्वपश्यन् गिरिजाममेयांज्वालासहस्रान्तरसन्निविष्टाम् ।
प्रणेमुरेतामखिलेशपत्नींजानन्ति चैतत् परमस्य बीजम् ॥ ३९.७१॥
अस्माकमेषा परमेशपत्नीगतिस्तथात्मा गगनाभिधाना ।
पश्यन्त्यथात्मानमिदं च कृत्स्नंतस्यामथैते मुनयश्च विप्राः ॥ ३९.७२॥
निरीक्षितास्ते परमेशपत्न्यातदन्तरे देवमशेषहेतुम् ।
पश्यन्ति शंभुं कविमीशितारं रुद्रं बृहन्तं पुरुषं पुराणम् ॥ ३९.७३॥
आलोक्य देवीमथ देवमीशंप्रणेमुरानन्दमवापुरग्र्यम् ।
ज्ञानं तदीशं भगवत्प्रसादा-दाविर्बभौ जन्मविनाशहेतु ॥ ३९.७४॥
इयं हि सा जगतो योनिरेकासर्वात्मिका सर्वनियामिका च ।
माहेश्वरीशक्तिरनादिसिद्धा व्योमाभिधाना दिवि राजतीव ॥ ३९.७५॥
अस्यां महत्परमेष्ठी परस्ता-न्महेश्वरः शिव एकः स रुद्रः ।
चकार विश्वं परशक्तिनिष्ठंमायामथारुह्य च देवदेवः ॥ ३९.७६॥
एको देवः सर्वभूतेषु गूढोमायी रुद्रः सकलो निष्कलश्च ।
स एव देवी न च तद्विभिन्न-मेतज्ज्ञात्वा ह्यमृतत्वं व्रजन्ति ॥ ३९.७७॥
अन्तर्हितोऽभूद् भगवान्महेशोदेव्या तया सह देवादिदेवः ।
आराधयन्ति स्म तमाधिदेवंवनौकसस्ते पुनरेव रुद्रम् ॥ ३९.७८॥
एतद् वः कथितं सर्वं देवदेवस्य चेष्टितम् ।
देवदारुवने पूर्वं पुराणे यन्मया श्रुतम् ॥ ३९.७९॥
यः पठेच्छृणुयान्नित्यं मुच्यते सर्वपातकैः ।
श्रावयेद् वा द्विजान् शान्तान् स याति परमां गतिम् ॥ ३९.८०॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
नवत्रिंशोऽध्यायः ॥३९॥
कूर्मपुराणए उत्तरभागे चत्वारिंशत्तमोऽध्यायः
सूत उवाच ।
एषा पुण्यतमा देवी देवगन्धर्वसेविता ।
नर्मदा लोकविख्याता तीर्थानामुत्तमा नदी ॥ ४०.१॥
तस्याः शृणुध्वं माहात्म्यं मार्कण्डेयेन भाषितम् ।
युधिष्ठिराय तु शुभं सर्वपापप्रणाशनम् ॥ ४०.२॥
युधिष्ठिर उवाच ।
श्रुतास्ते विविधा धर्मास्तत्प्रसादान्महामुने ।
माहात्म्यं च प्रयागस्य तीर्थानि विविधानि च ॥ ४०.३॥
नर्मदा सर्वतीर्थानां मुख्या हि भवतेरिता ।
तस्यास्त्विदानीं माहात्म्यं वक्तुमर्हसि सत्तम ॥ ४०.४॥
मार्कण्डेय उवाच
नर्मदा सरितां श्रेष्ठा रुद्रदेहाद् विनिः सृता ।
तारयेत् सर्वभूतानि स्थावराणि चराणि च ॥ ४०.५॥
नर्मदायास्तु माहात्म्यं पुराणे यन्मया श्रुतम् ।
इदानीं तत्प्रवक्ष्यामि शृणुष्वैकमनाः शुभम् ॥ ४०.६॥
पुण्या कनखले गङ्गा कुरुक्षेत्रे सरस्वती ।
ग्रामे वा यदि वाऽरण्ये पुण्या सर्वत्र नर्मदा ॥ ४०.७॥
त्रिभिः सारस्वतं तोयं सप्ताहेन तु यामुनम् ।
सद्यः पुनाति गाङ्गेयं दर्शनादेव नार्मदम् ॥ ४०.८॥
कलिङ्गदेशपश्चार्द्धे पर्वतेऽमरकण्टके ।
पुण्या च त्रिषु लोकेषु रमणीया मनोरमा ॥ ४०.९॥
सदेवासुरगन्धर्वा ऋषयश्च तपोधनाः ।
तपस्तप्त्वा तु राजेन्द्र सिद्धिं तु परमां गताः ॥ ४०.१०॥
तत्र स्नात्वा नरो राजन् नियमस्थो जितेन्द्रियः ।
उपोष्य रजनीमेकां कुलानां तारयेच्छतम् ॥ ४४०.११॥
योजनानां शतं साग्रं श्रूयते सरिदुत्तमा ।
विस्तारेण तु राजेन्द्र योजनद्वयमायता ॥ ४०.१२॥
षष्टितीर्थसहस्राणि षष्टिकोट्यस्तथैव च ।
पर्वतस्य समन्तात् तु तिष्ठन्त्यमरकण्टके ॥ ४०.१३॥
ब्रह्मचारी शुचिर्भूत्वा जितक्रोधो जितेन्द्रियः ।
सर्वहिंसानिवृत्तस्तु सर्वभूतहिते रतः ॥ ४०.१४॥
एवं शुद्धसमाचारो यस्तु प्राणान् समुत्सृजेत् ।
तस्य पुण्यफलं राजन् शृणुष्वावहितो नृप ॥ ४०.१५॥
शतवर्षसहस्राणि स्वर्गे मोदति पाण्डव ।
सप्सरोगणसंकीर्णो दिव्यस्त्रीपरिवारितः ॥ ४०.१६॥
दिव्यगन्धानुलिप्तश्च दिव्यपुष्पोपशोभितः ।
क्रीडते देवलोके तु दैवतैः सह मोदते ॥ ४०.१७॥
ततः स्वर्गात् परिभ्रष्टो राजा भवति धार्मिकः ।
गृहं तु लभतेऽसौ वै नानारत्नसमन्वितम् ॥ ४०.१८॥
स्तम्भैर्मणिमयैर्दिव्यैर्वज्रवैढूर्यभूषितम् ।
आलेख्यवाहनैः शुभ्रैर्दासीदाससमन्वितम् ॥ ४०.१९॥
राजराजेश्वरः श्रीमान् सर्वस्त्रीजनवल्लभः ।
जीवेद् वर्षशतं साग्रं तत्र भोगसमन्वितः ॥ ४०.२०॥
अग्निप्रवेशेऽथ जले अथवाऽनशने कृते ।
अनिवर्त्तिका गतिस्तस्य पवनस्याम्बरे यथा ॥ ४०.२१॥
पश्चिमे पर्वततटे सर्वपापविनाशनः ।
ह्रदो जलेश्वरो नाम त्रिषु लोकेषु विश्रुतः ॥ ४०.२२॥
तत्र पिण्डप्रदानेन संध्योपासनकर्मणा ।
दशवर्षसहस्राणि तर्पिताः स्युर्न संशयः ॥ ४०.२३॥
दक्षिणे नर्मदाकूले कपिलाख्या महानदी ।
सरलार्जुनसंच्छन्ना नातिदूरे व्यवस्थिता ॥ ४०.२४॥
सा तु पुण्या महाभागा त्रिषु लोकेषु विश्रुता ।
तत्र कोटिशतं साग्रं तीर्थानां तु युधिष्ठिर ॥ ४०.२५॥
तस्मिंस्तीर्थे तु ये वृक्षाः पतिताः कालपर्ययात् ।
नर्मदातोयसंस्पृष्टास्ते यान्ति परमां गतिम् ॥ ४०.२६॥
द्वितीया तु महाभागा विशल्यकरणी शुभा ।
तत्र तीर्थे नरः स्नात्वा विशल्यो भवति क्षणात् ॥ ४०.२७॥
कपिला च विशल्या च श्रूयते राजसत्तम ।
ईश्वरेण पुरा प्रोक्ता लोकानां हितकाम्यया ॥ ४०.२८॥
अनाशकं तु यः कुर्यात् तस्मिंस्तीर्थे नराधिप ।
सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति ॥ ४०.२९॥
तत्र स्नात्वा नरो राजन्नश्वमेधफलं लभेत् ।
ये वसन्त्युत्तरे कूले रुद्रलोके वसन्ति ते ॥ ४०.३०॥
सरस्वत्यां च गङ्गायां नर्मदायां युधिष्ठिर ।
समं स्नानं च दानं च यथा मे शंकरोऽब्रवीत् ॥ ४०.३१॥
परित्यजति यः प्रणान् पर्वतेऽमरकण्टके ।
वर्षकोटिशतं साग्रं रुद्रलोके महीयते ॥ ४०.३२॥
नर्मदायां जलं पुण्यं फेनोर्मिसमलीकृतम् ।
पवित्रं शिरसा धृत्वा सर्वपापैः प्रमुच्यते ॥ ४०.३३॥
नर्मदा सर्वतः पुण्या ब्रह्महत्यापहारिणी ।
अहोरात्रोपवासेन मुच्यते ब्रह्महत्यया ॥ ४०.३४॥
जालेश्वरं तीर्थवरं सर्वपापविनाशनम् ।
तत्र गत्वा नियमवान् सर्वकामांल्लभेन्नरः ॥ ४०.३५॥
चन्द्रसूर्योपरागे तु गत्वा ह्यमरकण्टकम् ।
अश्वमेधाद् दशगुणं पुण्यमाप्नोति मानवः ॥ ४०.३६॥
एष पुण्यो गिरिवरो देवगन्धर्वसेवितः ।
नानाद्रुमलताकीर्णो नानापुष्पोपशोभितः ॥ ४०.३७॥
तत्र संनिहितो राजन् देव्या सह महेश्वरः ।
ब्रह्मा विष्णुस्तथा चेन्द्रो विद्याधरगणैः सह ॥ ४०.३८॥
प्रदक्षिणं तु यः कुर्यात् पर्वतं ह्यमरकण्टकम् ।
पौण्डरीकस्य यज्ञस्य फलं प्राप्नोति मानः ॥ ४०.३९॥
कावेरी नाम विपुला नदी कल्मषनाशिनी ।
तत्र स्नात्वा महादेवमर्चयेद् वृषभध्वजम् ।
संगमे नर्मदायास्तु रुद्रलोके महीयते ॥ ४०.४०॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
चत्वारिंशोऽध्यायः ॥४०॥
कूर्मपुराणए उत्तरभागे एकचत्वारिंशत्तमोऽध्यायः
मार्कण्डेय उवाच
नर्मदा सरितां श्रेष्ठा सर्वपापविनाशिनी ।
मुनिभिः कथिता पूर्वमीश्वरेण स्वयंभुवा ॥ ४१.१॥
मुनिभिः संस्तुता ह्येषा नर्मदा प्रवरा नदी ।
रुद्रगात्राद् विनिष्क्रान्ता लोकानां हितकाम्यया ॥ ४१.२॥
सर्वपापहरा नित्यं सर्वदेवनमस्कृता ।
संस्तुता देवगन्धर्वैरप्यरोभिस्तथैव च ॥ ४१.३॥
उत्तरे चैव तत्कूले तीर्थं त्रैलोक्यविश्रुते ।
नाम्ना भद्रेश्वरं पुण्यं सर्वपापहरं शुभम् ॥ ४१.४॥
तत्र स्नात्वा नरो राजन् दैवतैः सह मोहते ।
ततो गच्छेत राजेन्द्र तीर्थमाम्रातकेश्वरम् ॥ ४१.५॥
तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेत् ।
ततोऽङ्गारकेश्वरं गच्छेन्नियतो नियतायनः ॥ ४१.६॥
सर्वपापविशुद्धात्मा रुद्रलोके महीयते ।
ततो गच्छेत राजेन्द्र केदारं नाम पुण्यदम् ॥ ४१.७॥
तत्र स्नात्वोदकं कृत्वा सर्वान् कामानवाप्नुयात् ।
निष्फलेशंततो गच्छेत् सर्वपापविनाशनम् ॥ ४१.८॥
तत्र स्नात्वा महाराज रुद्रलोके महीयते ।
ततो गच्छेत राजेन्द्र बाणतीर्थमनुत्तमम् ॥ ४१.९॥
तत्र प्राणान् परित्यज्य रुद्रलोकमवाप्नुयात् ।
ततः पुष्करिणीं गच्छेत् स्नानं तत्र समाचरेत् ॥ ४१.१०॥
तत्र स्नात्वा नरो राजन् सिंहासनपतिर्भवेत् ।
शक्रतीर्थं ततो गच्छेत्कूले चैव तु दक्षिणे ॥ ४१.११॥
स्नातमात्रो नरस्तत्र इन्द्रस्यार्द्धासनं लभेत् ।
ततो गच्छेत राजेन्द्र शूलभेदमिति श्रुतम् ॥ ४१.१२॥
तत्र स्नात्वार्चयेद् देवं गोसहस्रफलं लभेत् ।
उपोष्य रजनीमेकां स्नानं कृत्वा यथाविधि ॥ ४१.१३॥
आराधयेन्महायोगं देवं नारायणं हरिम् ।
गोसहस्रफलं प्राप्य विष्णुलोकं स गच्छति ॥ ४१.१४॥
ऋषितीर्थं ततो गत्वा सर्वपापहरं नृणाम् ।
स्नातमात्रो नरस्तत्र शिवलोके महीयते ॥ ४१.१५॥
नारदस्य तु तत्रैव तीर्थं परमशोभनम् ।
स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत् ॥ ४१.१६॥
यत्र तप्तं तपः पूर्वं नारदेन सुरर्षिणा ।
प्रतीस्तस्य ददौ योगं देवदेवो महेश्वरः ॥ ४१.१७॥
ब्रह्मणा निर्मितं लिङ्गं ब्रह्मेश्वरमिति श्रुतम् ।
यत्र स्नात्वा नरो राजन् ब्रह्मलोके महीयते ॥ ४१.१८॥
ऋणतीर्थं ततो गच्छेत् स ऋणान्मुच्यते ध्रुवम् ।
वटेश्वरं ततो गच्छेत् पर्याप्तं जन्मनः फलम् ॥ ४१.१९॥
भीमेश्वरं ततो गच्छेत् सर्वव्याधिविनाशनम् ।
स्नातमात्रो नरस्तत्र सर्वदुःखैः प्रमुच्यते ॥ ४१.२०॥
ततो गच्छेत राजेन्द्र पिङ्गलेश्वरमुत्तमम् ।
अहोरात्रोपवासेन त्रिरात्रफलमाप्नुयात् ॥ ४१.२१॥
तस्मिंमस्तीर्थे तु राजेन्द्र कपिलां यः प्रयच्छति ।
यावन्ति तस्या रोमाणि तत्प्रसूतिकुलेषु च ॥ ४१.२२॥
तावद् वर्षसहस्राणि रुद्रलोके महीयते ॥
यस्तु प्राणपरित्यागं कुर्यात् तत्र नराधिप ॥ ४१.२३॥
अक्षयं मोदते कालं यावच्चन्द्रदिवाकरौ ।
नर्मदातटमाश्रित्य ये च तिष्ठन्ति मानवाः ॥ ४१.२४॥
ते मृताः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ।
ततो दीप्तेश्वरं गच्छेद् व्यासतीर्थं तपोवनम् ॥ ४१.२५॥
निवर्त्तिता पुरा तत्र व्यासभीता महानदी ।
हुंकारिता तु व्यासेन दक्षिणेन ततो गता ॥ ४१.२६॥
प्रदक्षिणं तु यः कुर्यात् तस्मिंस्तीर्थे युधिष्ठिर ।
प्रीतस्तस्य भवेद् व्यासो वाञ्छितं लभते फलम् ॥ ४१.२७॥
ततो गच्छेत राजेन्द्र इक्षुनद्यास्तु संगमम् ।
त्रैलोक्यविश्रुतं पुण्यं तत्र सन्निहितः शिवः ॥ ४१.२८॥
तत्र स्नात्वा नरो राजन् गाणपत्यमवाप्नुयात् ।
स्कन्दतीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् ॥ ४१.२९॥
आजन्मनः कृतं पापं स्नातस्तत्र व्यपोहति ।
तत्र देवाः सगन्धर्वा भर्गात्मजमनुत्तमम् ॥ ४१.३०॥
उपासते महात्मानं स्कन्दं शक्तिधिरं प्रभुम् ।
ततो गच्छेदाङ्गिरसं स्नानं तत्र समाचरेत् ॥ ४१.३१॥
गोसहस्रफलं प्राप्य रुद्रलोकं स गच्छति ।
अङ्गिरा यत्र देवेशं ब्रह्मपुत्रो वृषध्वजम् ॥ ४१.३२॥
तपसाराध्य विश्वेशं लब्धवान् योगमुत्तमम् ।
कुशतीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् ॥ ४१.३३॥
स्नानं तत्र प्रकुर्वीत अश्वमेधफलं लभेत् ।
कोटितीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् ॥ ४१.३४॥
आजन्मनः कृतं पापं स्नातस्तत्र व्यपोहति ।
चन्द्रभागां ततो गच्छेत् स्नानं तत्र समाचरेत् ॥ ४१.३५॥
स्नातमात्रो नरस्तत्र सोमलोके महीयते ।
नर्मदादक्षिणे कूले संगमेश्वरमुत्तमम् ॥ ४१.३६॥
तत्र स्नात्वा नरो राजन् सर्वयज्ञफलं लभेत् ।
नर्मदायोत्तरे कूले तीर्थं परमशोभनम् ॥ ४१.३७॥
आदित्यायतनं रम्यमीश्वरेण तु भाषितम् ।
तत्र स्नात्वा तु राजेन्द्र दत्त्वा दानं तु शक्तितः ॥ ४१.३८॥
तस्य तीर्थप्रभावेण लभते चाक्षयं फलम् ।
दरिद्रा व्याधिता ये तु ये च दुष्कृतकर्मिणः ॥ ४१.३९॥
मुच्यन्ते सर्वपापेभ्यः सूर्यलोकं प्रयान्ति च ।
मातृतीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ॥ ४१.४०॥
स्नातमात्रो नरस्तत्र स्वर्गलोकमवाप्नुयात् ।
ततः पश्चिमतो गच्छेन्मरुदालयमुत्तमम् ॥ ४१.४१॥
तत्र स्नात्वा तु राजेन्द्र शुचिर्भूत्वा समाहितः ।
काञ्चनं तु द्विजो दद्याद् यथाविभवविस्तरम् ॥ ४१.४२॥
पुष्पकेण विमानेन वायुलोकं स गच्छति ।
ततो गच्छेत राजेन्द्र अहल्यातीर्थमुत्तमम् ।
स्नानमात्रादप्सरोभिर्मोदते कालमक्षयम् ॥ ४१.४३॥
चैत्रमासे तु सम्प्राप्ते शुक्लपक्षे त्रयोदशी ।
कामदेवदिने तस्मिन्नहल्यां यस्तु पूजयेत् ॥ ४१.४४॥
यत्र तत्र समुत्पन्नो वरस्तत्र प्रियो भवेत् ।
स्त्रीवल्लभो भवेच्छ्रीमान् कामदेव इवापरः ॥ ४१.४५॥
अयोध्यां तु समासाद्य तीर्थं शक्रस्य विश्रुतम् ।
स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत् ॥ ४१.४६॥
सोमतीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ।
स्नातमात्रो नरस्तत्र सर्वपापैः प्रमुच्यते ॥ ४१.४७॥
सोमग्रहे तु राजेन्द्र पापक्षयकरं भवेत् ।
त्रैलोक्यविश्रुतं राजन् सोमतीर्थं महाफलम् ॥ ४१.४८॥
यस्तु चान्द्रायणं कुर्यात् तत्र तीर्थे समाहितः ।
सर्वपापविशुद्धात्मा सोमलोकं स गच्छति ॥ ४१.४९॥
अग्निप्रवेशं यः कुर्यात् सोमतीर्थे नराधिप ।
जले चानशनं वापि नासौ मर्त्योऽभिजायते ॥ ४१.५०॥
स्तम्भतीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ।
स्नातमात्रो नरस्तत्र सोमलोके महीयते ॥ ४१.५१॥
ततो गच्छेत राजेन्द्र विष्णुतीर्थमनुत्तमम् ।
योधनीपुरमाख्यातं विष्णोः स्थानमनुत्तमम् ॥ ४१.५२॥
असुरा योधितास्तत्र वासुदेवेन कोटिशः ।
तत्र तीर्थं समुत्पन्नं विष्णुश्रीको भवेदिह ॥ ४१.५३॥
अहोरात्रोपवासेन ब्रह्महत्यां व्यपोहति ।
नर्मदादक्षिणे कूले तीर्थं परमशोभनम् ॥ ४१.५४॥
कामतीर्थमिति ख्यातं यत्र कामोऽर्चयद् हरिम् ।
तस्मिंस्तीर्थे नरः स्नात्वा उपवासपरायणः ॥ ४१.५५॥
कुसुमायुधरूपेण रुद्रोलोके महीयते ।
ततो गच्छेत राजेन्द्र ब्रह्मतीर्थमनुत्तमम् ॥ ४१.५६॥
उमाहकमिति ख्यातं तत्र संतर्पयेत् पितॄन् ।
पौर्णमास्याममावास्यां श्राद्धं कुर्याद् यथाविधि ॥ ४१.५७॥
गजरूपा शिला तत्र तोयमध्ये व्यवस्थिता ।
तस्मिंस्तु दापयेत् पिण्डान् वैशाख्यांतु विशेषतः ॥ ४१.५८॥
स्नात्वा समाहितमना दम्भमात्सर्यवर्जितः ।
तृप्यन्ति पितरस्तस्य यावत् तिष्ठति मेदिनी ॥ ४१.५९॥
विश्वेश्वरं ततो गच्छेत् स्नानं तत्र समाचरेत् ।
स्नातमात्रो नरस्तत्र गाणपत्यपदं लभेत् ॥ ४१.६०॥
ततो गच्छेत राजेन्द्र लिङ्गो यत्र जनार्दनः ।
तत्र स्नात्वा तु राजेन्द्र विष्णुलोके महीयते ॥ ४१.६१॥
यत्र नारायणो देवो मुनोनां भावितात्मनाम् ।
स्वात्मानं दर्शयामास लिङ्गं तत् परमं पदम् ॥ ४१.६२॥
अकोल्लंतु ततो गच्छेत् सर्वपापविनाशनम् ।
स्नानं दानं च तत्रैव ब्राह्मणानां च भोजनम् ॥ ४१.६३॥
पिण्डप्रिदानं च कृतं प्रेत्यानन्तफलप्रदम् ।
त्रियम्बकेन तोयेन यश्चरुं श्रपयेत् ततः ॥ ४१.६४॥
अकोल्लमूले दद्याच्च पिण्डांश्चैव यथाविधि ।
तारिताः पितरस्तेन तृप्यन्त्याचन्द्रतारकम् ॥ ४१.६५॥
ततो गच्छेत राजेन्द्र तापसेश्वरमुत्तमम् ।
तत्र स्नात्वा तु राजेन्द्र प्राप्नुयात् तपसः फलम् ॥ ४१.६६॥
शुक्लतीर्थं ततो गच्छेत् सर्वपापविनाशनम् ।
नास्ति तेन समन्तीर्थं नर्मदायां युधिष्ठिर ॥ ४१.६७॥
दर्शनात् स्पर्शनात् तस्य स्नानदानतपोजपात् ।
होमाच्चैवोपवासाच्च शुक्लतीर्थे महत्फलम् ॥ ४१.६८॥
योजनं तत् स्मृतं क्षेत्रं देवगन्धर्वसेवितम् ।
शुक्लतीर्थमिति ख्यातं सर्वपापविनाशनम् ॥ ४१.६९॥
पादपाग्रेण दृष्टेन ब्रह्महत्यां व्यपोहति ।
देव्या सह सदा भर्गस्तत्र तिष्ठति शंकरः ॥ ४१.७०॥
कृष्णपक्षे चतुर्दश्यां वैशाखे मासि सुव्रत ।
कैलासाच्चाभिनिष्क्रम्य तत्र सन्निहितो हरः ॥ ४१.७१॥
देवदानवगन्धर्वाः सिद्धविद्याधरास्तथा ।
गणाश्चाप्सरसो नागास्तत्र तिष्ठन्ति पुंगवाः ॥ ४१.७२॥
रञ्जितं हि यथा वस्त्रं शुक्लं भवति वारिणा ।
आजन्मनि कृतं पापं शुक्लतीर्थे व्यपोहति ॥ ४१.७३॥
स्नानं दानं तपः श्राद्धमनन्तं तत्र दृश्यते ॥
शुक्लतीर्थात् परं तीर्थं न भविष्यति पावनम् ॥ ४१.७४॥
पूर्वे वयसि कर्माणि कृत्वा पापानि मानवः ।
अहोरात्रोपवासेन शुक्लतीर्थे व्यपोहति ॥ ४१.७५॥
कार्त्तिकस्य तु मासस्य कृष्णपक्षे चतुर्दशी ।
घृतेन स्नापयेद् देवमुपोष्य परमेश्वरम् ॥ ४१.७६॥
एकविंशत्कुलोपेतो न च्यवेदीश्वरालयात् ।
तपसा ब्रह्मचर्येण यज्ञदानेन वा पुनः ॥ ४१.७७॥
न तां गतिमवाप्नोति शुक्लतीर्थे तु यां लभेत् ।
शुक्लतीर्थं महातीर्थमृषिसिद्धनिषेवितम् ॥ ४१.७८॥
तत्र स्नात्वा नरो राजन् पुनर्जन्म न विन्दति ।
अयने वा चतुर्दश्यां संक्रान्तौ विषुवे तथा ॥ ४१.७९॥
स्नात्वा तु सोपवासः सन् विजितात्मा समाहितः ।
दानं दद्याद् यथाशक्ति प्रीयेतां हरिशंकरौ ॥ ४१.८०॥
एतत् तीर्थप्रभावेण सर्वं भवति चाक्षयम् ।
अनाथं दुर्गतं विप्रं नाथवन्तमथापि वा ॥ ४१.८१॥
उद्वादयति यस्तीर्थे तस्य पुण्यफलं शृणु ।
यावत् तद्रोमसंख्या तु तत्प्रसूतिकुलेषु च ॥ ४१.८२॥
तावद् वर्षसहस्राणि रुद्रलोके महीयते ।
ततो गच्छेत राजेन्द्र यमतीर्थ मनुत्तमम् ॥ ४१.८३॥
कृष्णपक्षे चतुर्दश्यां माघमासे युधिष्ठिर ।
स्नानं कृत्वा नक्तभोजी न पश्येद् योनिसङ्कटम् ॥ ४१.८४॥
ततो गच्छेत राजेन्द्र एरण्डीतीर्थमुत्तमम् ।
संगमे तु नरः स्नायादुपवासपरायणः ॥ ४१.८५॥
ब्राह्मणं भोजयेदेकं कोटिर्भवति भोजिताः ।
एरण्डीसंगमे स्नात्वा भक्तिभावात्तु रञ्जितः ॥ ४१.८६॥
मृत्तिकां शिरसि स्थाप्य अवगाह्य च तज्जलम् ।
नर्मदोदकसंमिश्रं मुच्यते सर्वकिल्बिषैः ॥ ४१.८७॥
ततो गच्छेत राजेन्द्र तीर्थं कल्लोलकेश्वरम् ।
गङ्गावतरते तत्र दिने पुण्ये न संशयः ॥ ४१.८८॥
तत्र स्नात्वा च पीत्वा च दत्त्वा चैव यथाविधि ।
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥ ४१.८९॥
नन्दितीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ।
प्रीयते तस्य नन्दीशः सोमलोके महीयते ॥ ४१.९०॥
ततो गच्छेत राजेन्द्र तीर्थं त्वनरकं शुभम् ।
तत्र स्नात्वा नरो राजन् नरकं नैव पश्यति ॥ ४१.९१॥
तस्मिंस्तीर्थे तु राजेन्द्र स्वान्यस्थीनि विनिक्षिपेत् ।
रूपवान् जायते लोके धनभोगसमन्वितः ॥ ४१.९२॥
ततो गच्छेत राजेन्द्र कपिलातीर्थमुत्तमम् ।
तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेत् ॥ ४१.९३॥
ज्येष्ठमासे तु सम्प्राप्ते चतुर्दश्यां विशेषतः ।
तत्रोपोष्य नरो भक्त्या दद्याद् दीपं घृतेन तु ॥ ४१.९४॥
घृतेन स्नापयेद् रुद्रं सघृतं श्रीफलं दहेत् ।
घण्टाभरणसंयुक्तां कपिलां वै प्रदापयेत् ॥ ४१.९५॥
सर्वाभरणसंयुक्तः सर्वदेवनमस्कृतः ।
शिवतुल्यबलो भूत्वा शिववत् क्रीडते चिरम् ॥ ४१.९६॥
अङ्गारकदिने प्राप्ते चतुर्थ्यां तु विशेषतः ।
स्नापयित्वा शिवं दद्याद् ब्राह्मणेभ्यस्तु भोजनम् ॥ ४१.९७॥
सर्वभोगसमायुक्तो विमाने सर्वकामिके ।
गत्वा शक्रस्य भवनं शक्रेण सह मोदते ॥ ४१.९८॥
ततः स्वर्गात् परिभ्रष्टो धनवान् भोगवान् भवेत् ।
अङ्गारकनवम्यां तु अमावास्यां तथैव च ॥ ४१.९९॥
स्नापयेत् तत्र यत्नेन रूपवान् सुभगो भवेत् ।
ततो गच्छेत राजेन्द्र गणेश्वरमनुत्तमम् ॥ ४१.१००॥
श्रावणे मासी सम्प्राप्ते कृष्णपक्षे चतुर्दशी ।
स्नातमात्रो नरस्तत्र रुद्रलोके महीयते ॥ ४१.१०१॥
पितॄणां तर्पणं कृत्वा मुच्यते स? ऋणत्रयात् ।
गङ्गेश्वरसमीपे तु गङ्गावदनमुत्तमम् ॥ ४१.१०२॥
अकामो वा सकामो वा तत्र स्नात्वा तु मानवः ।
आजन्मजनितैः पापैर्मुच्यते नात्र संशयः ॥ ४१.१०३॥
तस्य वै पश्चिमे देशे समीपे नातिदूरतः ।
दशाश्वमेधिकं तीर्थं त्रिषु लोकेषु विश्रुतम् ॥ ४१.१०४॥
उपोष्य रजनीमेकां मासि भाद्रपदे शुभे ।
अमावस्यां नरः स्नात्वा पूजयेद् वृषभध्वजम् ॥ ४१.१०५॥
काञ्चनेन विमानेन किङ्किणीजालमालिना ।
गत्वा रुद्रपुरं रम्यं रुद्रेण सह मोदते ॥ ४१.१०६॥
सर्वत्र सर्वदिवसे स्नानं तत्र समाचरेत् ।
पितॄणां तर्पणं कुर्यादश्वमेधफलं लभेत् ॥ ४१.१०७॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
एकचत्वारिशोऽध्यायः ॥४१॥
कूर्मपुराणए उत्तरभागे द्विचत्वारिंशत्तमोऽध्यायः
मार्कण्डेय उवाच
ततो गच्छेत राजेन्द्र भृगुतीर्थ मनुत्तमम् ।
तत्र देवो भृगुः पुर्वं रुद्रमाराधयत् पुरा ॥ ४२.१॥
दर्शनात् तस्य देवस्य सद्यः पापात् प्रमुच्यते ।
एतत् क्षेत्रं सुविपुलं सर्वपापप्रणाशनम् ॥ ४२.२॥
तत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ।
उपानहोस्तथा युग्मं देयमन्नं सकाञ्चनम् ॥ ४२.३॥
भोजनं च यथाशक्ति तदस्याक्षयमुच्यते ।
क्षरन्ति सर्वदानानि यज्ञदानं तपः क्रिया ॥ ४२.४॥
अक्षयं तत् तपस्तप्तं भृगुतीर्थे युधिष्ठिर ।
तस्यैव तपसोग्रेण तुष्टेन त्रिपुरारिणा ॥ ४२.५॥
सान्निध्यं तत्र कथितं भृगुतीर्थे युधिष्ठिर ।
ततो गच्छेत राजेन्द्र गौतमेश्वरमुत्तमम् ॥ ४२.६॥
यत्राराध्य त्रिशूलाङ्कं गौतमः सिद्धिमाप्तवान् ।
तत्र स्नात्वा नरो राजन् उपवासपरायणः ॥ ४२.७॥
काञ्चनेन विमानेन ब्रह्मलोके महीयते ।
वृषोत्सर्गं ततो गच्छेच्छाश्वतं पदमाप्नुयात् ॥ ४२.८॥
न जानन्ति नरा मूढा विष्णोर्मायाविमोहिताः ।
धौतपापं ततो गच्छेद् धौतं यत्र वृषेण तु ॥ ४२.९॥
नर्मदायां स्थितं राजन् सर्वपातकनाशनम् ।
तत्र तीर्थे नरः स्नात्वा ब्रह्महत्यां व्यपोहति ॥ ४२.१०॥
तत्र तीर्थे तु राजेन्द्र प्राणत्यागं करोति यः ।
चतुर्भुजस्त्रिनेत्रश्च हरतुल्यबलो भवेत् ॥ ४२.११॥
वसेत् कल्पायुतं साग्रं शिवतुल्यपराक्रमः ।
कालेन महता जातः पृथिव्यामेकराड् भवेत् ॥ ४२.१२॥
ततो गच्छेत राजेन्द्र हंसतीर्थ मनुत्तमम् ।
तत्र स्नात्वा नरो राजन् ब्रह्मलोके महीयते ॥ ४२.१३॥
ततो गच्छेत राजेन्द्र सिद्धो यत्र जनार्दनः ।
वराहतीर्थ माख्यातं विष्णुलोकगतिप्रदम् ॥ ४२.१४॥
ततो गच्छेत राजेन्द्र चन्द्रतीर्थमनुत्तमम् ।
पौर्णमास्यां विशेषेण स्नानं तत्र समाचरेत् ॥ ४२.१५॥
स्नातमात्रो नरस्तत्र पृथिव्यामेकराड् भवेत् ।
देवतीर्थ ततो गच्छेत् सर्वदेवनमकृतम् ॥ ४२.१६॥
तत्र स्नात्वा च राजेन्द्र दैवतैः सह मोदते ।
ततो गच्छेत राजेन्द्र शङ्कितीर्थमनुत्तमम् ॥ ४२.१७॥
यत् तत्र दीयते दानं सर्वं कोटिगुणं भवेत् ।
ततो गच्छेत राजेन्द्र तीर्थं पैतामहं शुभम् ॥ ४२.१८॥
यत्तत्र क्रियते श्राद्धं सर्वं तदक्षयं भवेत् ।
सावित्रीतीर्थमासाद्य यस्तु प्राणान् परित्यजेत् ॥ ४२.१९॥
विधूय सर्वपापानि ब्रह्मलोके महीयते ।
मनोहरं तु तत्रैव तीर्थं परमशोभनम् ॥ ४२.२०॥
स्नात्वा तत्र नरो राजन् रुद्रलोके महीयते ।
ततो गच्छेत राजेन्द्र कन्यातीर्थमनुत्तमम् ॥ ४२.२१॥
स्नात्वा तत्र नरो राजन्सर्वपारैः प्रमुच्यते ।
शुक्लपक्षे तृतीयायां स्नानमात्रं समाचरेत् ॥ ४२.२२॥
स्नातमात्रो नरस्तत्र पृतिव्यामेकराड् भवेत् ।
स्वर्गबिन्दुं ततो गच्छेत्तीर्थं देवनमस्कृतम् ॥ ४२.२३॥
तत्र स्नात्वा नरो राजन् दुर्गतिं नैव गच्छति ।
अप्सरेशं ततो गच्छेत् स्नानं तत्र समाचरेत् ॥ ४२.२४॥
क्रीडते नाकलोकस्थो ह्यप्सरोभिः स मोदते ।
ततो गच्छेत राजेन्द्र भारभूतिमनुत्तमम् ॥ ४२.२५॥
उपोषितोऽर्चयेदीशं रुद्रलोके महीयते ।
अस्मिंस्तीर्थे मृतो राजन् गाणपत्यमवाप्नुयात् ॥ ४२.२६॥
कार्त्तिके मासि देवेशमर्चयेत् पार्वतीपतिम् ।
अश्वमेधाद् दशगुणं प्रवदन्ति मनीषिणः ॥ ४२.२७॥
वृषभं यः प्रयच्छेत तत्र कुन्देन्दुसप्रभम् ।
वृषयुक्तेन यानेन रुद्रलोकं स गच्छति ॥ ४२.२८॥
एतत् तीर्थं समासाद्य यस्तु प्राणान् परित्यजेत् ।
सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति ॥ ४२.२९॥
जलप्रवेशं यः कुर्यात् तस्मिंस्तीर्थे नराधिप ।
हंसयुक्तेन यानेन स्वर्गलोकं स गच्छति ॥ ४२.३०॥
एरण्ड्या नर्मदायास्तु संगमं लोकविश्रुतम् ।
तच्च तीर्थं महापुण्यं सर्वपापप्रणाशनम् ॥ ४२.३१॥
उपवासकृतो भूत्वा नित्यं व्रतपरायणः ।
तत्र स्नात्वा तु राजेन्द्र मुच्यते ब्रह्महत्यया ॥ ४२.३२॥
ततो गच्छेत राजेन्द्र नर्मदोदधिसंगमम् ।
जमदग्निरिति ख्यातः सिद्धो यत्र जनार्दनः ॥ ४२.३३॥
तत्र स्नात्वा नरो राजन् नर्मदोदधिसंगमे ।
त्रिगुणं चाश्वमेधस्य फलं प्राप्नोति मानवः ॥ ४२.३४॥
ततो गच्छेत राजेन्द्र पिङ्गलेश्वरमुत्तमम् ।
तत्र स्नात्वा नरो राजन् रुद्रलोके महीयते ॥ ४२.३५॥
तत्रोपवासं यः कृत्वा पश्येत विमलेश्वरम् ।
सप्तजन्मकृतं पापं हित्वा याति शिवालयम् ॥ ४२.३६॥
ततो गच्छेत राजेन्द्र अलिकातीर्थमुत्तमम् ।
उपोष्य रजनीमेकां नियतो नियताशनः ॥ ४२.३७॥
अस्य तीर्थस्य माहात्म्यान्मुच्यते ब्रह्महत्यया ।
एतानि तव संक्षेपात् प्राधान्यात् कथितानि तु ॥ ४२.३८॥
न शक्या विस्तराद् वक्तुं संख्या तीर्थेषु पाण्डव ।
एषा पवित्रा विमला नदी त्रैलोक्यविश्रुता ॥ ४२.३९॥
नर्मदा सरितां श्रेष्ठा महादेवस्य वल्लभा ।
मनसा संस्मरेद्यस्तु नर्मदां वै युधिष्ठिर ॥ ४२.४०॥
चान्द्रायणशतं साग्रं लभते नात्र संशयः ।
अश्रद्दधानाः पुरुषा नास्तिक्यं घोरमाश्रिताः ॥ ४२.४१॥
पतन्ति नरके घोरे इत्याह परमेश्वरः ।
नर्मदां सेवते नित्यं स्वयं देवो महेश्वरः ।
तेन पुण्या नदी ज्ञेया ब्रह्महत्यापहारिणी ॥ ४२.४२॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
द्विचत्वारिंशोऽध्यायः ॥४२॥
कूर्मपुराणए उत्तरभागे त्रिचत्वारिंशत्तमोऽध्यायः
इदं त्रैलोक्यविख्यातं तीर्थं नैमिशमुत्तमम् ।
सूत उवाच
महादेवप्रियकरं महापातकनाशनम् ॥ ४३.१॥
महादेवं दिदृक्षूणामृषीणणा परमेष्ठिनाम् ।
ब्रहामणा निर्मितं स्थानं तपस्तप्तुं द्विजोत्तमाः ॥ ४३.२॥
मरीचयोऽत्रये विप्रा वसिष्ठाः क्रतवस्तथा ।
भृगवोऽङ्गिरसः पूर्वं ब्रह्माणं कमलोद्भवम् ॥ ४३.३॥
समेत्य सर्ववरदं चतुर्मूर्ति चतुर्मुखम् ।
पृच्छन्ति प्रणिपत्यैनं विश्वकर्माणमच्युतम् ॥ ४३.४॥
षट्कुलीया ऊचुः ।
भगवन् देवमीशानं तमेवैकं कपर्दिनम् ।
केनोपायेन पश्यामो ब्रूहि देवनमस्तव ॥ ४३.५॥
ब्रह्मोवाच ।
सत्रं सहस्रमासध्वं वाङ्मनोदोषवर्जिताः ।
देशं च वः प्रवक्ष्यामि यस्मिन् देशे चरिष्यथ ॥ ४३.६॥
मुक्त्वा मनोमयं चक्रं संसृष्ट्वा तानुवाच ह ।
क्षिप्तमेतन्मया चक्रमनुव्रजत मा चिरम् ॥ ४३.७॥
यत्रास्य नेमिः शीर्येत स देशः पुरुषर्षभाः ।
ततो मुमोच तच्चक्रं ते च तत्समनुव्रजन् ॥ ४३.८॥
तस्य वै व्रजतः क्षिप्रं यत्र नेमिरशीर्यत ।
नैमिशं तत्स्मृतं नाम्ना पुण्यं सर्वत्र पूजितम् ॥ ४३.९॥
सिद्धचारणसंकीर्णं यक्षगन्धर्वसेवितम् ।
स्थानं भगवतः शंभोरेतन्नैमिशमुत्तमम् ॥ ४३.१०॥
अत्र देवाः सगन्धर्वाः सयक्षोरगराक्षसाः ।
तपस्तप्त्वा पुरा देवा लेभिरे प्रवरान् वरान् ॥ ४३.११॥
इमं देशं समाश्रित्य षट्कुलीयाः समाहिताः ।
सत्रेणाराध्य देवेशं दृष्टवन्तो महेश्वरम् ॥ ४३.१२॥
अत्र दानं तपस्तप्तं स्नानं जप्यादिकं च यत् ।
एकैकं पावयेत् पापं सप्तजन्मकृतं द्विजाः ॥ ४३.१३॥
अत्र पूर्वं स भगवानृषीणां सत्रमासताम् ।
स वै प्रोवाच ब्रह्माण्डं पुराणं ब्रह्मभाषितम् ॥ ४३.१४॥
अत्र देवो महादेवो रुद्राण्या किल विश्वकृत् ।
रमतेऽध्यापि भगवान् प्रमथैः परिवारितः ॥ ४३.१५॥
अत्र प्राणान् परित्यज्य नियमेन द्विजातयः ।
ब्रह्मलोकं गमिष्यन्ति यत्र गत्वा न जायते ॥ ४३.१६॥
अन्यच्च तीर्थप्रवरं जाप्येश्वरमितिश्रुतम् ।
जजाप रुद्रमनिशं यत्र नन्दी महागणः ॥ ४३.१७॥
प्रीतस्तस्य महादेवो देव्या सह पिनाकधृक् ।
ददावात्मसमानत्वं मृत्युवञ्चनमेव च ॥ ४३.१८॥
अभूदृषिः स धर्मात्मा शिलादो नाम धर्मवित् ।
आराधयन्महादेवं पुत्रार्थं वृषभध्वजम् ॥ ४३.१९॥
स्य वर्षसहस्रान्ते तप्यमानस्य विश्वकृत् ।
शर्वः सोमो गणवृतो वरदोऽस्मीत्यभाषत ॥ ४३.२०॥
स वव्रे वरमीशानं वरेण्यं गिरिजापतिम् ।
अयोनिजं मृत्युहीनं देहि पुत्रं त्वया समम् ॥ ४३.२१॥
तथास्त्वित्याह भगवान् देव्या सह महेश्वरः ।
पश्यतस्तस्य विप्रर्षेरन्तर्द्धानं गतो हरः ॥ ४३.२२॥
ततो युयोजितां भूमिं शिलादो धर्मवित्तमः ।
चकर्ष लाङ्गलेनोर्वां भित्त्वादृश्यत शोभनः ॥ ४३.२३॥
संवर्त्तकोऽनलप्रख्यः कुमारः प्रहसन्निव ।
रूपलावण्यसम्पन्नस्तेजसा भासयन् दिशः ॥ ४३.२४॥
कुमारतुल्योऽप्रतिमो मेघगम्भीरया गिरा ।
शिलादं तात तातेति प्राह नन्दी पुनः पुनः ॥ ४३.२५॥
तं दृष्ट्वा नन्दनं जातं शिलादः परिषस्वजे ।
मुनीनां दर्शयामास ये तदाश्रमवासिनः ॥ ४३.२६॥
जातकर्मादिकाः सर्वाः क्रियास्तस्य चकार ह ।
उपनीय यथाशास्त्रं वेदमध्यापयत् सुतम् ॥ ४३.२७॥
अधीतवेदो भगवान् नन्दी मतिमनुत्तमाम् ।
चक्रे महेश्वरं दृष्ट्वा जेष्ये मृत्युमिति प्रभुम् ॥ ४३.२८॥
स गत्वा सरितं पुण्यामेकाग्रश्रद्धयान्वितः ।
जजाप रुद्रमनिशं महेशासक्तमानसः ॥ ४३.२९॥
तस्य कोट्यां तु पूर्णायां शंकरो भक्तवत्सलः ।
आगत्य साम्बः सगणो वरदोऽस्मीत्युवाच ह ॥ ४३.३०॥
स वव्रे पुनरेवेशं जपेयं कोटिमीश्वरम् ।
भवदाहंमहादेव देहीति परमेश्वर ॥ ४३.३१॥
एवमस्त्विति सम्प्रोच्य देवोऽप्यन्तरधीयत ।
जजाप कोटिं भगवान् भूयस्तद्गतमानसः ॥ ४३.३२॥
द्वितीयायां च कोट्यां वै सम्पूर्णायां वृषध्वजः ।
आगत्य वरदोऽस्मीति प्राह भूतगणैर्वृतः ॥ ४३.३३॥
तृतीयां जप्तुमिच्छामि कोटिं भूयोऽपि शंकर ।
तथास्त्वित्याह विश्वात्मा देवोऽप्यन्तरधीयत ॥ ४३.३४॥
कोटित्रयेऽथ सम्पूर्णे देवः प्रीतमना भृशम् ।
आगत्य वरदोऽस्मीति प्राह भूतगणैर्वृतः ॥ ४३.३५॥
जपेयं कोटिमन्यां वै भूयोऽपि तव तेजसा ।
इत्युक्ते भगवानाह न जप्तव्यं त्वया पुनः ॥ ४३.३६॥
अमरो जरया त्यक्तो मम पार्श्वगतः सदा ।
महागणपतिर्देव्याः पुत्रो भव महेश्वरः ॥ ४३.३७॥
योगीश्वरो महायोगी गणानामीश्वरेश्वरः ।
सर्वलोकाधिपः श्रीमान् सर्वज्ञो मद्बलान्वितः ॥ ४३.३८॥
ज्ञानं तन्मामकं दिव्यं हस्तामलकवत्तव ।
आभूतसम्प्लवस्थायी ततो यास्यसि तत्पदम् ॥ ४३.३९॥
एतदुक्त्वा महादेवो गणानाहूय शंकरः ।
अभिषेकेण युक्तेन नन्दीश्वरमयोजयत् ॥ ४३.४०॥
उद्वाहयामास च तं स्वयमेव पिनाकधृक् ।
मरुतां च शुभां कन्यां स्वयमेति च विश्रुताम् ॥ ४३.४१॥
एतज्जप्येश्वरं स्थानं देवदेवस्य शूलिनः ।
यत्र तत्र मृतो मर्त्त्यो रुद्रलोके महीयते ॥ ४३.४२॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
त्रिचत्वारिंशोऽध्यायः ॥४३॥
कूर्मपुराणए उत्तरभागे चतुश्चत्वारिंशत्तमोऽध्यायः
सूत उवाच
अन्यच्च तीर्थप्रवरं जप्येश्वरसमीपतः ।
नाम्ना पञ्चनदं पुण्यं सर्वपापप्रणाशनम् ॥ ४४.१॥
त्रिरात्रमुषितस्तत्र पूजयित्वा महेश्वरम् ।
सर्वपापविशुद्धात्मा रुद्रलोके महीयते ॥ ४४.२॥
अन्यच्च तीर्थप्रवरं शंकरस्यामितौजसः ।
महाभैरवमित्युक्तं महापातकनाशनम् ॥ ४४.३॥
तीर्थानां च परं तीर्थं वितस्ता परमा नदी ।
सर्वपापहरा पुण्या स्वयमेव गिरीन्द्रजा ॥ ४४.४॥
तीर्थं पञ्चतपो नाम शंभोरमिततेजसः ।
यत्र देवादिदेवेन शक्रार्थे पूजितो भवः ॥ ४४.५॥
पिण्डदानादिकं तत्र प्रेत्यानन्तफलप्रदम् ।
मृतस्तत्रापि नियमाद् ब्रह्मलोके महीयते ॥ ४४.६॥
कायावरोहणं नाम महादेवालयं शुभम् ।
यत्र माहेश्वरा धर्मा मुनिभिः सम्प्रवर्त्तिताः ॥ ४४.७॥
श्राद्धं दानं तपो होम उपवासस्तथाऽक्षयः ।
परित्यजति यः प्राणान् रुद्रलोकं स गच्छति ॥ ४४.८॥
अन्यच्च तीर्थप्रवरं कन्यातीर्थमिति श्रुतम् ।
तत्र गत्वा त्यजेत् प्राणाँल्लोकान् प्राप्नोति शाश्वतान् ॥ ४४.९॥
जामदग्न्यस्य तु शुभं रामस्याक्लिष्टकर्मणः ।
तत्र स्नात्वा तीर्थ वरे गोसहस्रफलं लभेत् ॥ ४४.१०॥
महाकालमिति ख्यातं तीर्थं त्रैलोक्यविश्रुतम् ।
गत्वा प्राणान् परित्यज्य गाणपत्यमवाप्नुयात् ॥ ४४.११॥
गुह्याद् गुह्यतमं तीर्थं नकुलीश्वरमुत्तमम् ।
तत्र सन्निहितः श्रीमान् भगवान् नकुलीश्वरः ॥ ४४.१२॥
हिमवच्छिखरे रम्ये गङ्गाद्वारे सुशोभने ।
देव्या सह महादेवो नित्यं शिष्यैश्च संवृतः ॥ ४४.१३॥
तत्र स्नात्वा महादेवं पूजयित्वा वृषध्वजम् ।
सर्वपापैर्विमुच्येत मृतस्तज्ज्ञानमाप्नुयात् ॥ ४४.१४॥
अन्यच्च देवदेवस्य स्थानं पुण्यतमं शुभम् ।
भीमेश्वरमिति ख्यातं गत्वा मुञ्चति पातकम् ॥ ४४.१५॥
तथान्यच्चण्डवेगायाः संभेदः पापनाशनः ।
तत्र स्नात्वा च पीत्वा च मुच्यते ब्रह्महत्यया ॥ ४४.१६॥
सर्वेषामपि चैतेषां तीर्थानां परमा पुरी ।
नाम्ना वाराणसी दिव्या कोटिकोट्ययुताधिका ॥ ४४.१७॥
तस्याः पुरस्तान्माहात्म्यं भाषितं वो मया त्विह ।
नान्यत्र लभ्यते मुक्तिं र्योगेनाप्येकजन्मना ॥ ४४.१८॥
एते प्राधान्यतः प्रोक्ता देशाः पापहरा नृणाम् ।
गत्वा संक्षालयेत् पापं जन्मान्तरशतैः कृतम् ॥ ४४.१९॥
यः स्वधर्मान् परित्यज्य तीर्थसेवां करोति हि ।
न तस्य फलते तीर्थमहि लोके परत्र च ॥ ४४.२०॥
प्रायश्चित्ती च विधुरस्तथा यायावरो गृही ।
प्रकुर्यात् तीर्थसंसेवां ये चान्यस्तादृशा जनाः ॥ ४४.२१॥
सहाग्निर्वा सपत्नीको गच्छेत् तीर्थानि यत्नतः ।
सर्वपापविनिर्मुक्तो यथोक्तां गतिमाप्नुयात् ॥ ४४.२२॥
ऋणानि त्रीण्यपाकृत्य कुर्वन्वा तीर्थसेवनम् ।
विधाय वृत्तिं पुत्राणां भार्यां तेषु विधाय च ॥ ४४.२३॥
प्रायश्चित्तप्रसङ्गेन तीर्थमाहात्म्यमीरितम् ।
यः पठेच्छृणुयाद् वाऽपि मुच्यते सर्वपातकैः ॥ ४४.२४॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
चतुष्चत्वारिंशोऽध्यायः ॥४४॥
कूर्मपुराणए उत्तरभागे पञ्चचत्वारिंशत्तमोऽध्यायः
सूत उवाच
एतदाकर्ण्य विज्ञानं नारायणमुखेरितम् ।
कूर्मरूपधरं देवं पप्रच्छुर्मुनयः प्रभुम् ॥ ४५.१॥
मुनयः ऊचुः
कथिता भवता धर्मो मोक्षज्ञानं सविस्तरम् ।
लोकानां सर्गविस्तारो वंशमन्वन्तराणि च ॥ ४५.२॥
प्रतिसर्गमिदानीं नो वक्तुमर्हसी माधव ।
भूतानां भूतभव्येश यथा पूर्वं त्वयोदितम् ॥ ४५.३॥
सूत उवाच
श्रुत्वा तेषां तदा वाक्यं भगवान् कूर्मरूपधृक् ।
व्याजहार महायोगी भूतानां प्रतिसंचरम् ॥ ४५.४॥
कूर्म उवाच
नित्यो नैमित्तिकश्चैव प्राकृतोऽत्यन्तिकास्तथा ।
चतुर्द्धाऽयं पुराणेऽस्मिन् प्रोच्यते प्रतिसंचरः ॥ ४५.५॥
योऽयं संदृश्यते नित्यं लोके भूतक्षयस्त्विह ।
नित्यः संकीर्त्यते नाम्ना मुनिभिः प्रतिसंचरः ॥ ४५.६॥
ब्राह्मो नैमित्तिको नाम कल्पान्ते यो भविष्यति ।
त्रैलोक्यस्यास्य कथितः प्रतिसर्गो मनीषिभिः ॥ ४५.७॥
महादाद्यां विशेषान्तं यदा संयाति संक्षयम् ।
प्राकृतः प्रतिसर्गोऽयं प्रोच्यते कालचिन्तकैः ॥ ४५.८॥
ज्ञानादात्यन्तिकः प्रोक्तो योगिनः परमात्मनि ।
प्रलयः प्रतिसर्गोऽयं कालचिन्तापरैर्द्विजैः ॥ ४५.९॥
आत्यन्तिकश्च कथितः प्रलयोऽत्र लयसाधनः ।
नैमित्तिकमिदानीं वः कथयिष्ये समासतः ॥ ४५.१०॥
चतुर्युगसहस्रान्ते सम्प्राप्ते प्रतिसंचरे ।
स्वात्मसंस्थाः प्रजाः कर्तुं प्रतिपेदे प्रजापतिः ॥ ४५.११॥
ततो भवत्यनावृष्टिस्तीव्रा सा शतवार्षिकी ।
भूतक्षयकरी घोरा सर्वभूतक्षयंकरी ॥ ४५.१२॥
ततो यान्यल्पसाराणि सत्त्वानि पृथिवीपते ।
तानि चाग्रे प्रलीयन्ते भूमित्वमुपयान्ति च ॥ ४५.१३॥
सप्तरश्मिरथो भूत्वा समुत्तिष्ठन् दिवाकरः ।
असह्यरश्मिर्भवति पिबन्नम्भो गभस्तिभिः ॥ ४५.१४॥
तस्य ते रश्मयः सप्त पिबन्त्यम्बु महार्णवे ।
छतेनाहारेण ता दीप्ताः सूर्याः सप्त भवन्त्युत ॥ ४५.१५॥
ततस्ते रश्मयः सप्त सूर्या भूत्वा चतुर्दिशम् ।
चतुर्लोकमिदं सर्वं दहन्ति शिखिनस्तथा ॥ ४५.१६॥
व्याप्नुवन्तश्च ते विप्रास्तूर्ध्वं चाधश्च रश्मिभिः ।
दीप्यन्ते भास्कराः सप्त युगान्ताग्निप्रदीपिताः ॥ ४५.१७॥
ते सूर्या वारिणा दीप्ता बहुसाहस्ररश्मयः ।
खं समावृत्य तिष्ठन्ति निर्दहन्तो वसुंधराम् ॥ ४५.१८॥
ततस्तेषां प्रतापेन दह्यमाना वसुंधरा ।
साद्रिनद्यर्णवद्वीपा निस्नेहा समपद्यते ॥ ४५.१९॥
दीप्ताभिः संतताभिश्च रश्मिभिर्वै समन्ततः ।
अधश्चोर्ध्वं च लग्नाभिस्तिर्यक् चैव समावृतम् ॥ ४५.२०॥
सूर्याग्निना प्रमृष्टानां संसृष्टानां परस्परम् ।
एकत्वमुपयातानामेकज्वालं भवत्युत ॥ ४५.२१॥
सर्वलोकप्रणाशश्च सोऽग्निर्भूत्वा सुकुण्डली ।
चतुर्लोकमिदं सर्वं निर्दहत्यात्मतेजसा ॥ ४५.२२॥
ततः प्रलीने सर्वस्मिञ्जङ्गमे स्थावरे तथा ।
निर्वृक्षा निस्तृणा भूमिः कूर्मपृष्ठा प्रकाशते ॥ ४५.२३॥
अम्बरीषमिवाभाति सर्वमापूरितं जगत् ।
सर्वमेव तदर्चिर्भिः पूर्णं जाज्वल्यते पुनः ॥ ४५.२४॥
पाताले यानि सत्त्वानि महोदधिगतानि च ।
ततस्तानि प्रलीयन्ते भूमित्वमुपयान्ति च ॥ ४५.२५॥
द्वीपांश्च पर्वतांश्चैव वर्षाण्यथ महोदधीन् ।
तान् सर्वान् भस्मसात् चक्रे सप्तात्मा पावकः प्रभुः ॥ ४५.२६॥
समुद्रेभ्यो नदीभ्यश्च आप शुष्काश्च सर्वशः ।
पिबन्नपः समिद्धोऽग्निः पृथिवीमाश्रितो ज्वलन् ॥ ४५.२७॥
ततः संवर्त्तकः शैलानतिक्रम्य महांस्तथा ।
लोकान् दहति दीप्तात्मा रुद्रतेजोविजॄम्भितः ॥ ४५.२८॥
स दग्ध्वा पृथिवीं देवो रसातलमशोषयत् ।
अधस्तात् पृथिवीं दग्ध्वा दिवमूर्ध्वं दहिष्यति ॥ ४५.२९॥
योजनानां शतानीह सहस्राण्ययुतानि च ।
उत्तिष्ठन्ति शिखास्तस्य वह्नेः संवर्त्तकस्य तु ॥ ४५.३०॥
गन्धर्वांश्च पिशाचांश्च सयक्षोरगराक्षसान् ।
तदा दहत्यसौ दीप्तः कालरुद्रप्रचोदितः ॥ ४५.३१॥
भूर्लोकं च भुवर्लोकं स्वर्लोकं च तथा महः ।
दहेदशेषं कालाग्निः कालाविष्टतनुः स्वयम् ॥ ४५.३२॥
व्याप्तेष्वेतेषु लोकेषु तिर्यगूर्ध्वमथाग्निना ।
तत् तेजः समनुप्राप्य कृत्स्नं जगदिदं शनैः ॥ ४५.३३॥
अतो गूडमिदं सर्वं तदा चैकं प्रकाशते ।
ततो गजकुलाकारास्तडिद्भिः समलंकृताः ॥ ४५.३४॥
उत्तिष्ठन्ति तदा व्योम्नि घोराः संवर्त्तका घनाः ।
केचिन्नीलोत्पलश्यामाः केचित् कुमुदसन्निभाः ।.४५।३५॥
धूम्रवर्णास्तथा केचित् केचित् पीताः पयोधराः ।
केचिद् रासभवर्णास्तु लाक्षारसनिभाः परे ॥ ४५.३६॥
शङ्खकुन्दनिभाश्चान्ये जात्यञ्जननिभास्तथा ।
मनः शिलाभास्त्वन्ये च कपोतसदृशाः परे ॥ ४५.३७॥
इन्द्रगोपनिभाः केचिद्धरितालनिभास्तथा ।
इन्द्रचापनिभाः केचिदुत्तिष्ठन्ति घना दिवि ॥ ४५.३८॥
केचित् पर्वतसंकाशाः केचिद् गजकुलोपमाः ।
कूटाङ्गारनिभाश्चान्ये केचिन्मीनकुलोद्वहाः ॥ ४५.३९॥
बहूरूपा घोररूपा घोरस्वरनिनादिनः ।
तदा जलधराः सर्वे पूरयन्ति नभः स्थलम् ॥ ४५.४०॥
ततस्ते जलदा घोरा राविणो भास्करात्मजाः ।
सप्तधा संवृतात्मानं तमग्निं शमयन्ति ते ॥ ४५.४१॥
ततस्ते जलदा वर्षं मुञ्चन्तीह महौघवत् ।
सुघोरमशिवं वर्षं नाशयन्ति च पावकम् ॥ ४५.४२॥
प्रवृद्धैस्तैस्तदात्यर्थमम्भसा पूर्यते जगत् ।
अद्भिस्तेजोभिभूतत्वात् तदग्निः प्रविशत्यपः ॥ ४५.४३॥
नष्टे चाग्नौ वर्षशतैः पयोदाः क्षयसंभवाः ।
प्लावयन्तोऽथ भुवनं महाजलपरिस्रवैः ॥ ४५.४४॥
धाराभिः पूरयन्तीदं चोद्यमानाः स्वयंभुवा ।
अत्यन्तसलिलौघैश्च वेला इव महोदधेः ॥ ४५.४५॥
साद्रिद्वीपा तथा पृथ्वी जलैः संच्छाद्यते शनैः ।
आदित्यरश्मिभिः पीतं जलमभ्रेषु तिष्ठति ॥ ४५.४६॥
पुनः पतति तद् भूमौ पूर्यन्ते तेन चार्णवाः ।
ततः समुद्राः स्वां वेलामतिक्रान्तास्तु कृत्स्नशः ॥ ४५.४७॥
पर्वताश्च विलीयन्ते मही चाप्सु निमज्जति ।
तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे ॥ ४५.४८॥
योगनिन्द्रां समास्थाय शेते देवः प्रजापतिः ।
चतुर्युगसहस्रान्तं कल्पमाहुर्महर्षयः ॥ ४५.४९॥
वाराहो वर्त्तते कल्पो यस्य विस्तार ईरितः ।
असंख्यातास्तथा कल्पा ब्रह्मविष्णुशिवात्मकाः ॥ ४५.५०॥
कथिता हि पुराणेषु मुनिभिः कालचिन्तकैः ।
सात्त्विकेष्वथ कल्पेषु माहात्म्यमधिकं हरेः ॥ ४५.५१॥
तामसेषु हरस्योक्तं राजसेषु प्रजापतेः ॥
योऽयं प्रवर्त्तते कल्पो वाराहः सात्त्विको मतः ॥ ४५.५२॥
अन्ये च सात्त्विकाः कल्पा मम तेषु परिग्रहः ।
ध्यानं तपस्तथा ज्ञानं लब्ध्वा तेष्वेव योगिनः ॥ ४५.५३॥
आराध्य गिरिशं मां च यान्ति तत् परमं पदम् ।
सोऽहं तत्त्वं समास्थाय मायी मायामयीं स्वयम् ॥ ४५.५४॥
एकार्णवे जगत्यस्मिन् योगनिद्रां व्रजामि तु ।
मां पश्यन्ति महात्मानः सुप्तिकाले महर्षयः ॥ ४५.५५॥
जनलोके वर्त्तमानास्तपसा योगचक्षुषा ।
अहं पुराणपुरुषो भूर्भुवः प्रभवो विभुः ॥ ४५.५६॥
सहस्रचरणः श्रीमान् सहस्रांशुः सहस्रपात् ।
मन्त्रोऽग्निर्ब्राह्मिणा गावः कुशाश्च समिधो ह्यहम् ॥ ४५.५७॥
प्रोक्षणी च श्रुवश्चैव सोमो घृतमथास्म्यहम् ।
संवर्त्तको महानात्मा पवित्रं परमं यशः ॥ ४५.५८॥
मेधाप्यहं प्रभुर्गोप्ता गोपतिर्ब्रह्मणो मुखम् ।
अनन्तस्तारको योगी गतिर्गतिमतां वरः ॥ ४५.५९॥
हंसः प्राणोऽथ कपिलो विश्वमूर्त्तिः सनातनः ।
क्षेत्रज्ञः प्रकृतिः कालो जगद्बीजमथामृतम् ॥ ४५.६०॥
माता पिता महादेवो मत्तो ह्यन्यन्न विद्यते ।
आदित्यवर्णो भुवनस्य गोप्ता
नारायणः पुरुषो योगमूर्त्तिः ।
तं पश्यन्ति यतयो योगनिष्ठा
ञञज्ञात्वात्मानममृतत्वं व्रजन्ति ॥ ४५.६१॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
पञ्चचत्वारिंशोऽध्यायः ॥४५॥
कूर्मपुराणए उत्तरभागे षड्चत्वारिंशत्तमोऽध्यायः
कूर्म उवाच
अतः परं प्रवक्ष्यामि प्रतिसर्गमनुत्तमम् ।
प्राकृतं तत्समासेन शृणुध्वं गदतो मम ॥ ४६.१॥
गते परार्द्धद्वितये कालो लोकप्रकालनः ।
कालाग्निर्भस्मसात् कर्त्तुं करोति निकिलं गतिम् ॥ ४६.२॥
स्वात्मन्यात्मानमावेश्य भूत्वा देवो महेश्वरः ।
दहेदशेषं ब्रह्माण्डं सदेवासुरमानुषम् ॥ ४६.३॥
तमाविश्य महादेवो भगवान्नीललोहितः ।
करोति लोकसंहारं भीषणं रूपमाश्रितः ॥ ४६.४॥
प्रविश्य मण्डलं सौरं कृत्वाऽसौ बहुधा पुनः ।
निर्दहत्यखिलं लोकं सप्तसप्तिस्वरूपधृक् ॥ ४६.५॥
स दग्ध्वा सकलं विश्वमस्त्रं ब्रह्मशिरो महत् ।
देवतानां शरीरेषु क्षिपत्यखिलदाहकम् ॥ ४६.६॥
दग्धेष्वशेषदेवेषु देवी गिरिवरात्मजा ।
एषासा साक्षिणी शंभोस्तिष्ठते वैदिकी श्रुतिः ॥ ४६.७॥
शिरः कपालैर्देवानां कृतस्रग्वरभूषणः ।
आदित्यचन्द्रादिगणैः पूरयन् व्योममण्डलम् ॥ ४६.८॥
सहस्रनयनो देवः सहस्राकृतिरीश्वरः ।
सहस्रहस्तचरणः सहस्रार्चिर्महाभुजः ॥ ४६.९॥
दंष्ट्राकरालवदनः प्रदीप्तानललोचनः ।
त्रिशूलकृत्तिवसनो योगमैश्वरमास्थितः ॥ ४६.१०॥
पीत्वा तत्परमानन्दं प्रभूतममृतं स्वयम् ।
करोति ताण्डवं देवीमालोक्य परमेश्वरः ॥ ४६.११॥
पीत्वा नृत्यामृतं देवी भर्त्तुः परममङ्गलम् ।
योगमास्थाय देवस्य देहमायाति शूलिनः ॥ ४६.१२॥
स भुक्त्वा ताण्डवरसं स्वेच्छयैव पिनाकधृक् ।
ज्योतिः स्वभावं भगवान् दग्ध्वा ब्रह्माण्डमण्डलम् ॥ ४६.१३॥
संस्थितेष्वथ देवेषु ब्रह्मविष्णुपिनाकधृक् ।
गुणैरशेषैः पृथिवीविलयं याति वारिषु ॥ ४६.१४॥
स वारितत्त्वं सगुणं ग्रसते हव्यवाहनः ।
तैजसं गुणसंयुक्तं वायौ संयाति संक्षयम् ॥ ४६.१५॥
आकाशे सगुणो वायुः प्रलयं याति विश्वभृत् ।
भूतादौ च तथाकाशं लीयते गुणसंयुतः ॥ ४६.१६॥
इन्द्रियाणि च सर्वाणि तैजसे याति संक्षयम् ।
वैकारिको देवगणाः प्रलंय यान्ति सत्तमाः ॥ ४६.१७॥
त्रिविधोऽयमहंकारो महति प्रलये व्रजेत् ।
महान्तमेभिः सहितं ब्रह्माणममितौजसम् ॥ ४६.१८॥
अव्यक्तं जगतो योनिः संहरेदेकमव्ययम् ।
एवं संहृत्य भूतानि तत्त्वानि च महेश्वरः ॥ ४६.१९॥
वियोजयति चान्योन्यं प्रधानं पुरुषं परम् ।
प्रधानपुंसोरजयोरेष संहार ईरितः ॥ ४६.२०॥
महेश्वरेच्छाजनितो न स्वयं विद्यते लयः ।
गुणसाम्यं तदव्यक्तं प्रकृतिः परिगीयते ॥ ४६.२१॥
प्रधानं जगतो योनिर्मायातत्त्वमचेतनम् ।
कूटस्थश्चिन्मयो ह्यात्मा केवलः पञ्चविंशकः ॥ ४६.२२॥
गीयते मुनिभिः साक्षी महानेषः पितामहः ॥
एवं संहारकरणी शक्तिर्माहेश्वरी ध्रुवा ॥ ४६.२३॥
प्रधानाद्यं विशेषान्तं देहे रुद्र इति श्रुतिः ।
योगिनामथ सर्वेषां ज्ञानविन्यस्तचेतसाम् ॥ ४६.२४॥
आत्यन्तिकं चैव लयं विदधातीह शंकरः ।
इत्येष भगवान् रुद्रः संहारं कुरुते वशी ॥ ४६.२५॥
स्थापिका मोहनी शक्तिर्नारायण इति श्रुतिः ।
हिरण्यगर्भो भगवान् जगत् सदसदात्मकम् ॥ ४६.२६॥
सृजेदशेषं प्रकृतेस्तन्मयः पञ्चविंशकः ।
सर्वतः सर्वगाः शान्ताः स्वात्मन्येवव्यवस्थिताः ।
शक्तयो ब्रह्मविण्वीशा भुक्तिमुक्तिफलप्रदाः ॥ ४६.२७॥
सर्वेश्वराः सर्ववन्द्याः शाश्वतानन्तभोगिनः
एकमेवाक्षरं तत्त्वं पुंप्रधानेश्वरात्मकम् ॥ ४६.२८॥
अन्याश्च शक्तयो दिव्याः सन्ति तत्र सहस्रशः ।
इज्यन्ते विविधैर्यज्ञैः शक्रादित्यादयोऽमराः ।
एकैकस्य सहस्राणि देहानां वै शतानि च ॥ ४६.२९॥
कथ्यन्ते चैव माहात्म्याच्छक्तिरेकैव निर्गुणाः ।
तां तां शक्तिं समाधाय स्वयं देवो महेश्वरः ॥ ४६.३०॥
करोति देहान् विविधान् दृश्यते चैव लीलया ।
इज्यते सर्वयज्ञेषु ब्राह्मणैर्वेदवादिभिः ॥ ४६.३१॥
सर्वकामप्रदो रुद्र इत्येषा वैदिकी श्रुतिः ।
सर्वासामेव शक्तीनां ब्रह्मविष्णुमहेश्वराः ॥ ४६.३२॥
प्राधान्येन स्मृता देवाः शक्तयः परमात्मनः ।
आभ्यः परस्ताद् भगवान् परमात्मा सनातनः ॥ ४६.३३॥
गीयते सर्वशक्त्यात्मा शूलपाणिर्महेश्वरः ।
एनमेके वदन्त्यग्निं नारायणमथापरे ॥ ४६.३४॥
इन्द्रमेके परे प्राणं ब्रह्माणमपरे जगुः ।
ब्रह्मविष्णवग्निवरुणाः सर्वे देवास्तथर्षयः ॥ ४६.३५॥
एकस्यैवाथ रुद्रस्य भेदास्ते परिकीर्त्तिताः ।
यं यं भेदं समाश्रित्य यजन्ति परमेश्वरम् ॥ ४६.३६॥
तत् तद् रूपं समास्थाय प्रददाति फलं शिवः ।
तस्मादेकतरं भेदं समाश्रित्यापि शाश्वतम् ॥ ४६.३७॥
आराधयन्महादेवं याति तत्परमं पदम् ।
किन्तु देवं महादेवं सर्वशक्तिं सनातनम् ॥ ४६.३८॥
आराधयेद् वै गिरिशं सगुणं वाऽथ निर्गुणम् ।
मया प्रोक्तो हि भवतां योगः प्रागेव निर्गुणः ॥ ४६.३९॥
आरुरुक्षुस्तु सगुणं पूजयेत् परमेश्वरम् ।
पिनाकिनं त्रिनयनं जटिलं कृत्तिवाससम् ॥ ४६.४०॥
पद्मासनस्थं रुक्माभं चिन्तयेद् वैदिकी श्रुतिः ।
एष योगः समुद्दिष्टः सबीजो मुनिसत्तमाः ॥ ४६.४१॥
अत्राप्यशक्तोऽथ हरं विश्वं ब्रह्माणर्चयेत् ।
अथ चेदसमर्थः स्यात्तत्रापि मनिपुङ्गवाः ॥ ४६.४२॥
ततो वायग्निशक्रादीन् पूजयेत्भक्तिसंयुतः ।
तस्मात् सर्वान् परित्यज्य देवान् ब्रह्मपुरोगमान् ॥ ४६.४३॥
आराधयेद् विरूपाक्षमादिमध्यान्तसंस्थितम् ।
भक्तियोगसमायुक्तः स्वधर्मनिरतः शुचिः ॥ ४६.४४॥
तादृशं रूपमास्थाय आसाद्यात्यन्तिकं शिवम् ।
एष योगः समुद्दिष्टः सबीजोऽत्यन्तभावनः ॥ ४६.४५॥
यथाविधि प्रकुर्वाणः प्राप्नुयादैश्वरं पदम् ।
ये चान्ये भावने शुद्धे प्रागुक्ते भवतामिह ॥ ४६.४६॥
अथापि कथितो योगो निर्बीजश्च सबीजकः ।
ज्ञानं तदुक्तं निर्बीजं पूर्वं हि भवतां मया ॥ ४६.४७॥
विष्णुं रुद्रं विरञ्चिंञ्च सबीजं साधयेद्बुधः ।
अथ वाय्वादिकान् देवांस्तत्परः संयतेन्द्रियः ॥ ४६.४८॥
पूजयेत् पुरुषं विष्णुं चतुर्मूर्त्तिधरं हरिम् ।
अनादिनिधनं देवं वासुदेवं सनातनम् ॥ ४६.४९॥
नारायणं जगद्योनिमाकाशं परमं पदम् ।
तल्लिङ्गधारी नियतं तद्भक्तस्तदुपाश्रयः ॥ ४६.५०॥
एष एव विधिर्ब्राह्मे भावने चान्तिके मतः ।
इत्येतत् कथितं ज्ञानं भावनासंश्रयं परम् ॥ ४६.५१॥
इन्द्रद्युम्नाय मुनये कथितं यन्मया पुरा ।
अव्यक्तात्मकमेवेदं चेतनाचेतनं जगत् ॥ ४६.५२॥
तदीश्वरः परं ब्रह्म तस्माद् ब्रह्ममयं जगत् ।
सूत उवाच
एतावदुक्त्वा भगवान् विरराम जनार्दनः ।
तुष्टुवुर्मुनयो विष्णुं शक्रेण सह माधवम् ॥ ४६.५३॥
मुनयः ऊचुः
नमस्ते कूर्मरूपाय विष्णवे परमात्मने ।
नारायणाय विश्वाय वासुदेवाय ते नमः ॥ ४६.५४॥
नमो नमस्ते कृष्णाय गोविन्दाय नमो नमः ।
माधवाय नमस्तुभ्यं नमो यज्ञेश्वराय च ॥ ४६.५५॥
सहस्रशिरसे तुभ्यं सहस्राक्षाय ते नमः ।
नमः सहस्रहस्ताय सहस्रचरणाय च ॥ ४६.५६॥
ॐ नमो ज्ञानरूपाय परमात्मस्वरूपिणे ।
आनन्दाय नमस्तुभ्यं मायातीताय ते नमः ॥ ४६.५७॥
नमो गूढशरीराय निर्गुणाय नमोऽस्तु ते ।
पुरुषाय पुराणाय सत्तामात्रस्वरूपिणे ॥ ४६.५८॥
नमः सांख्याय योगाय केवलाय नमोऽस्तु ते ।
धर्मज्ञानाधिगम्याय निष्कलाय नमोऽस्तु ते ॥ ४६.५९॥
नमस्ते व्योमरूपाय महायोगेश्वराय च ।
परावराणां प्रभवे वेदवेद्याय ते नमः ॥ ४६.६०॥
नमो बुद्धाय शुद्धाय नमो युक्ताय हेतवे ।
नमो नमो नमस्तुभ्यं मायिने वेधसे नमः ॥ ४६.६१॥
नमोऽस्तु ते वराहाय नारसिंहाय ते नमः ।
वामनाय नमस्तुभ्यं हृषीकेशाय ते नमः ॥ ४६.६२॥
स्वर्गापवर्गदात्रे च नमोऽप्रतिहतात्मने ।
नमो योगाधिगम्याय योगिने योगदायिने ॥ ४६.६३॥
देवानां पतये तुभ्यं देवार्त्तिशमनाय ते ।
भगवंस्त्वत्प्रसादेन सर्वसंसारनाशनम् ॥ ४६.६४॥
अस्माभिर्विदितं ज्ञानं यज्ज्ञात्वामृतमश्नुते ।
श्रुतास्तु विविधा धर्मा वंशा मन्वन्तराणि च ॥ ४६.६५॥
सर्गश्च प्रतिसर्गश्च ब्रह्माण्यस्यास्य विस्तरः ।
त्वं हि सर्वजगत्साक्षी विश्वो नारायणः परः ॥ ४६.६६॥
त्रातुमर्हस्यनन्तात्मा त्वामेव शरणं गताः ।
सूत उवाच
एतद् वः कथितं विप्रा भोगमोक्षप्रदायकम् ॥ ४६.६७॥
कौर्मं पुराणमखिलं यज्जगाद गदाधरः ।
अस्मिन् पुराणे लक्ष्म्यास्तु संभवः कथितः पुरा ॥ ४६.६८॥
मोहायाशेषभूतानां वासुदेवेन योजितः ।
प्रजापतीनां सर्गस्तु वर्णधर्माश्च वृत्तयः ॥ ४६.६९॥
धर्मार्थकाममोक्षाणां यथावल्लक्षणं शुभम् ।
पितामहस्य विष्णोश्च महेशस्य च धीमतः ॥ ४६.७०॥
एकत्वं च पृथक्त्वं च विशेषश्चोपवर्णितः ।
भक्तानां लक्षणं प्रोक्तं समाचारश्च भोजनम् ॥ ४६.७१॥
वर्णाश्रमाणां कथितं यथावदिह लक्षणम् ।
आदिसर्गस्ततः पश्चादण्डावरणसप्तकम् ॥ ४६.७२॥
हिरण्यगर्भसर्गश्च कीर्त्तितो मुनिपुंगवाः ।
कालसंख्याप्रकथनं माहात्म्यं चेश्वरस्य च ॥ ४६.७३॥
ब्रह्मणः शयनं चाप्सु नामनिर्वचनं तथा ।
वराहवपुषा भूयो भूमेरुद्धरणं पुनः ॥ ४६.७४॥
मुख्यादिसर्गकथनं मुनिसर्गस्तथापरः ।
व्याख्यतो रुद्रसर्गश्च ऋषिसर्गश्च तापसः ॥ ४६.७५॥
धर्मस्य च प्रजासर्गस्तामसात् पूर्वमेव तु ।
ब्रह्मविष्णोर्विवादः स्यादन्तर्देहप्रवेशनम् ॥ ४६.७६॥
पद्मोद्भवत्वं देवस्य मोहस्तस्य च धीमतः ।
दर्शनं च महेशस्य माहात्म्यं विष्णुनेरितम् ॥ ४६.७७॥
दिव्यदृष्टिप्रदानं च ब्रह्मणः परमेष्ठिना ।
संस्तवो देवदेवस्य ब्रह्मणा परमेष्ठिना ॥ ४६.७८॥
प्रसादो गिरिशस्याथ वरदानं तथैव च ।
संवादो विष्णुना सार्धं शंकरस्य महात्मनः ॥ ४६.७९॥
वरदानं तथापूर्वमन्तर्द्धानं पिनाकिनः ।
वधश्च कथितो विप्रा मधुकैटभयोः पुरा ॥ ४६.८०॥
अवतारोऽथ देवस्य ब्रह्मणो नाभिपङ्कजात् ।
एकीभावश्च देवस्य विष्णुना कथितस्ततः ॥ ४६.८१॥
विमोहो ब्रह्मणश्चाथ संज्ञालाभो हरेस्ततः ।
तपश्चरणमाख्यातं देवदेवस्य धीमतः ॥ ४६.८२॥
प्रादुर्भावो महेशस्य ललाटात् कथितस्ततः ।
रुद्राणां कथिता सृष्टिर्ब्रह्मणः प्रतिषेधनम् ॥ ४६.८३॥
भूतिश्च देवदेवस्य वरदानोपदेशकौ ।
अन्तर्द्धानं च रुद्रस्य तपश्चर्याण्डजस्य च ॥ ४६.८४॥
दर्शनं देवदेवस्य नरनारीशरीरता ।
देव्या विभागकथनं देवदेवात् पिनाकिनः ॥ ४६.८५॥
देव्याश्च पश्चात् कथितं दक्षपुत्रीत्वमेव च ।
हिमवद्दुहितृत्वं च देव्या याथात्म्यमेव च ॥ ४६.८६॥
दर्शनं दिव्यरूपस्य वैश्वरूपस्य दर्शनम् ।
नाम्नां सहस्रं कथितं पित्रा हिमवता स्वयम् ॥ ४६.८७॥
उपदेशो महादेव्या वरदानं तथैव च ।
भृग्वादीनां प्रजासर्गो राज्ञां वंशस्य विस्तरः ॥ ४६.८८॥
प्राचेतसत्वं दक्षस्य दक्षयज्ञविमर्दनम् ।
दधीचस्य च दक्षस्य विवादः कथितस्तदा ॥ ४६.८९॥
ततश्च शापः कथितो मुनीनां मुनिपुंगवाः ।
रुद्रागतिः प्रसादश्च अन्तर्द्धानं पिनाकिनः ॥ ४६.९०॥
पितामहस्योपदेशः कीर्त्त्यते रक्षणाय तु ।
दक्षस्य च प्रजासर्गः कश्यपस्य महात्मनः ॥ ४६.९१॥
हिरण्यकशिपोर्नाशो हिरण्याक्षवधस्तथा ।
ततश्च शापः कथितो देवदारुवनौकसाम् ॥ ४६.९२॥
निग्रहश्चान्धकस्याथ गाणपत्यमनुत्तमम् ।
प्रह्रादनिग्रहश्चाथ बलेः संयमनं ततः ॥ ४६.९३॥
बाणस्य निग्रहश्चाथ प्रसादस्तस्य शूलिनः ।
ऋषीणां वंशविस्तारो राज्ञां वंशाः प्रकीर्त्तिताः ॥ ४६.९४॥
वसुदेवात् ततो विष्णोरुत्पत्तिः स्वेच्छया हरेः ।
दर्शनं चोपमन्योर्वै तपश्चरणमेव च ॥ ४६.९५॥
वरलाभो महादेवं दृष्ट्वा साम्बं त्रिलोचनम् ।
कैलासगमनञ्चाथ निवासस्तस्य शार्ङ्गिणः ॥ ४६.९६॥
ततश्च कथ्यते भीतिर्द्वारवत्यां निवासिनाम् ।
रक्षणं गरुडेनाथ जित्वा शत्रून् महाबलान् ॥ ४६.९७॥
नारादागमनं चैव यात्रा चैव गरुत्मतः ।
ततश्च कृष्णागमनं मुनीनामागतिस्ततः ॥ ४६.९८॥
नैत्यकं वासुदेवस्य शिवलिङ्गार्चनं तथा ।
मार्कण्डेयस्य च मुनेः प्रश्नः प्रोक्तस्ततः परम् ॥ ४६.९९॥
लिङ्गार्चननिमित्तं च लिङ्गस्यापि सलिङ्गिनः ।
यथार्थंकथितञ्चाथ लिङ्गाविर्भाव एव च ॥ ४६.१००॥
ब्रह्मविष्णोस्तथा मध्ये कीर्त्तिता मुनिपुंगवाः ।
मोहस्तयोस्तु कथितो गमनं चोर्ध्वतो ह्यधः ॥ ४६.१०१॥
संस्तवो देवदेवस्य प्रसादः परमेष्ठिनः ।
अन्तर्धानं च लिङ्गस्य साम्बोत्पत्तिस्ततः परम् ॥ ४६.१०२॥
कीर्तिता चानिरुद्धस्य समुत्पत्तिर्द्विजोत्तमाः ।
कृष्णस्य गमने बुद्धिरृषीणामागतिस्तथा ॥ ४६.१०३॥
अनुवशासनञ्च कृष्णेन वरदानं महात्मनः ।
गमनं चैव कृष्णस्य पार्थस्यापि च दर्शनम् ॥ ४६.१०४॥
कृष्णद्वैपायनस्योक्तं युगधर्माः सनातनाः ॥
अनुग्रहोऽथ पार्थस्य वाराणस्यां गतिस्ततः ॥ ४६.१०५॥
पाराशर्यस्य च मुनेर्व्यासस्याद्भुतकर्मणः ।
वाराणस्याश्च माहात्म्यं तीर्थानां चैव वर्णनम् ॥ ४६.१०६॥
तीर्थयात्रा च व्यासस्य देव्याश्चैवाथ दर्शनम् ।
उद्वासनं च कथितं वरदानं तथैव च ॥ ४६.१०७॥
प्रयागस्य च माहात्म्यं क्षेत्राणामथ कीर्त्तिनम् ।
फलं च विपुलं विप्रा मार्कण्डेयस्य निर्गमः ॥ ४६.१०८॥
भुवनानां स्वरूपं च ज्योतिषां च निवेशनम् ।
कीर्त्यन्ते चैव वर्षाणि नदीनां चैव निर्णयः ॥ ४६.१०९॥
पर्वतानां च कथनं स्थानानि च दिवौकसाम् ।
द्वीपानां प्रविभागश्च श्वेतद्वीपोपवर्णनम् ॥ ४६.११०॥
शयनं केशवस्याथ माहात्म्यं च महात्मनः ।
मन्वन्तराणां कथनं विष्णोर्माहात्म्यमेव च ॥ ४६.१११॥
वेदशाखाप्रणयनं व्यासानां कथनं ततः ।
अवेदस्य च वेदानां कथितं मुनिपुंगवाः ॥ ४६.११२॥
योगेश्वराणां च कथा शिष्याणां चाथ कीर्त्तनम् ।
गीताश्च विविधागुह्या ईश्वरस्याथ कीर्त्तिताः ॥ ४६.११३॥
वर्णाश्रमाणामाचाराः प्रायश्चित्तविधिस्ततः ।
कपालित्वं च रुद्रस्य भिक्षाचरणमेव च ॥ ४६.११४॥
पतिव्रतायाश्चाख्यानं तीर्थानां च विनिर्णयः ।
तथा मङ्कणकस्याथ निग्रहः कीर्तितो द्विजाः ॥ ४६.११५॥
वधश्च कथितो विप्राः कालस्य च समासतः ।
देवदारुवने शंभोः प्रवेशो माधवस्य च ॥ ४६.११६॥
दर्शनं षट्कुलीयानां देवदेवस्य धीमतः ।
वरदानं च देवस्य नन्दिने तु प्रकीर्तितम् ॥ ४६.११७॥
नैमित्तिकश्च कथितः प्रतिसर्गस्ततः परम् ।
प्राकृतः प्रलयश्चोर्द्ध्वं सबीजो योग एव च ॥ ४६.११८॥
एवं ज्ञात्वा पुराणस्य संक्षेपं कीर्त्तयेत्तु यः ।
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥ ४६.११९॥
एवमुक्त्वा श्रियं देवीमादाय पुरुषोत्तमः ।
संत्यज्य कूर्मसंस्थानं स्वस्थानं च जगाम ह ॥ ४६.१२०॥
देवाश्च सर्वे मुनयः स्वानि स्थानानि भेजिरे ।
प्रणम्य पुरुषं विष्णुं गृहीत्वा ह्यमृतं द्विजाः ॥ ४६.१२१॥
एतत् पुराणं सकलं भाषितं कूर्मरूपिणा ।
साक्षाद् देवादिदेनेन विष्णुना विश्वयोनिना ॥ ४६.१२२॥
यः पठेत् सततं मर्त्यः नियमेन समासतः ।
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥ ४६.१२३॥
लिखित्वा चैव यो दद्याद् वैशाखे मासि सुव्रतः ।
विप्राय वेदविदुषे तस्य पुण्यं निबोधत ॥ ४६.१२४॥
सर्वपापविनिर्मुक्तः सर्वैश्वर्यसमन्वितः ।
भुक्त्वा च विपुलान्मर्त्यो भोगान्दिव्यान्सुशोभनान् ॥ ४६.१२५॥
ततः स्वर्गात् परिभ्रष्टो विप्राणां जायते कुले ।
पूर्वसंस्कारमाहात्म्याद् ब्रह्मविद्यामवाप्नुयात् ॥ ४६.१२६॥
पठित्वाध्यायमेवैकं सर्वपापैः प्रमुच्यते ।
योऽर्थं विचारयेत् सम्यक् प्राप्नोति परं पदम् ॥ ४६.१२७॥
अध्येतव्यमिदं नित्यं विप्रैः पर्वणि पर्वणि ।
श्रोतव्यं च द्विजश्रेष्ठा महापातकनाशनम् ॥ ४६.१२८॥
एकतस्तु पुराणानि सेतिहासानि कृत्स्नशः ।
एकत्र चेदं परममेतदेवातिरिच्यते ॥ ४६.१२९॥
इदं पुराणं मुक्त्वैकं नास्त्यन्यत् साधनं परम् ।
यथावदत्र भगवान् देवो नारायणो हरिः ॥ ४६.१३०॥
कीर्त्यते हि यथा विष्णुर्न तथाऽन्येषु सुव्रताः ।
ब्राह्मी पौराणिकी चेयं संहिता पापनाशनी ॥ ४६.१३१॥
अत्र तत् परमं ब्रह्म कीर्त्यते हि यथार्थतः ।
तीर्थानां परमं तीर्थं तपसां च परं तपः ॥ ४६.१३२॥
ज्ञानानां परमं ज्ञानं व्रतानां परमं व्रतम् ।
नाध्येतव्यमिदं शास्त्रं वृषलस्य च सन्निधौ ॥ ४६.१३३॥
योऽधीते स तु मोहात्मा स याति नरकान् बहून् ।
श्राद्धे वा दैविके कार्ये श्रावणीयं द्विजातिभिः ॥ ४६.१३४॥
यज्ञान्ते तु विशेषेण सर्वदोषविशोधनम् ।
मुमुक्षूणामिदं शास्त्रमध्येतव्यं विशेषतः ॥ ४६.१३५॥
श्रोतव्यं चाथ मन्तव्यं वेदार्थपरिबृंहणम् ।
ज्ञात्वा यथावद् विप्रेन्द्रान् श्रावयेद् भक्तिसंयुतान् ॥ ४६.१३६॥
सर्वपापविनिर्मुक्तो ब्रह्मसायुज्यमाप्नुयात् ।
योऽश्रद्दधाने पुरुषे दद्याच्चाधार्मिके तथा ॥ ४६.१३७॥
स प्रेत्य गत्वा निरयान् शुनां योनिं व्रजत्यधः ।
नमस्कृत्य हरिं विष्णुं जगद्योनिं सनातनम् ॥ ४६.१३८॥
अध्येतव्यमिदं शास्त्रं कृष्णद्वैपायनं तथा ।
इत्याज्ञा देवदेवस्य विष्णोरमिततेजसः ॥ ४६.१३९॥
पाराशर्यस्य विप्रर्षेर्व्यासस्य च महात्मनः ।
श्रुत्वा नारायणाद्देवान् नारदो भगवानृषिः ॥ ४६.१४०॥
गौतमाय ददौ पूर्वं तस्माच्चैव पराशरः ।
पराशरोऽपि भगवान गङ्गाद्वारे मुनीश्वराः ॥ ४६.१४१॥
मुनिभ्यः कथयामास धर्मकामार्थमोक्षदम् ।
ब्रह्मणा कथितं पूर्वं सनकाय च धीमते ॥ ४६.१४२॥
सनत्कुमाराय तथा सर्वपापप्रणाशनम् ।
सनकाद् भगवान् साक्षाद् देवलो योगवित्तमः ॥ ४६.१४३॥
अवाप्तवान् पञ्चशिखो देवलादिदमुत्तमम् ।
सनत्कुमाराद् भगवान् मुनिः सत्यवतीसुतः ॥ ४६.१४४॥
एतत् पुराणं परमं व्यासः सर्वार्थसंचयम् ।
तस्माद् व्यासादहं श्रुत्वा भवतां पापनाशनम् ॥ ४६.१४५॥
ऊचिवान् वै भवद्भिश्च दातव्यं धार्मिके जने ।
तस्मै व्यासाय मुनये सर्वज्ञाय महर्षये ॥ ४६.१४६॥
पाराशर्याय शान्ताय नमो नारायणात्मने ।
यस्मात् संजायते कृत्सनं यत्र चैव प्रलीयते ।
नमस्तस्मै सुरेशाय विष्णवे कूर्मरूपिणे ॥ ४६.१४७॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे
षट्श्चत्वारिंशोऽध्यायः ॥४६॥
उत्तरभागः समाप्तः ॥
॥ इति श्रीकूर्मपुराणं समाप्तम् ॥
॥ व्यासगीता ब्रह्मपुराणे ॥
अध्यायः २३४ (१२६)
आत्यन्तिकलयनिरूपणम्
व्यास उवाच
आध्यात्मिकादि भो विप्रा ज्ञात्वा तापत्रयं बुधः ।
उत्पन्नज्ञानवैराग्यः प्राप्नोत्यात्यन्तिकं लयम् ॥ २३४.१॥
आध्यात्मिकोऽपि द्विविधा शारीरो मानसस्तथा ।
शारीरो बहुभिर्भेदैर्भिद्यते श्रूयतां च सः ॥ २३४.२॥
शिरोरोगप्रतिश्यायज्वरशूलभगंदरैः ।
गुल्मार्शःश्वयथुश्वासच्छर्द्यादिभिरनेकधा ॥ २३४.३॥
तथाऽक्षिरोगातीसारकुष्ठाङ्गामयसंज्ञकैः ।
भिद्यते देहजस्तापो मानसं श्रोतुमर्हथ ॥ २३४.४॥
कामक्रोधभद्वेषलोभमोहविषादजः ।
शोकासूयावमानेर्ष्यामात्सर्याभिभवस्तथा ॥ २३४.५॥
मानसोऽपि द्विजश्रेष्ठास्तापो भवति नैकधा ।
इत्येवमादिभिर्भेदैस्तापो ह्याध्यात्मिकः स्मृतः ॥ २३४.६॥
मृगपक्षिमनुष्याद्यैः पिशाचोरगराक्षसैः ।
सरीसृपाद्यैश्च नृणां जन्यते चाऽऽधिभौतिकः ॥ २३४.७॥
शीतोष्णवातवर्षाम्बुवैद्युतादिसमुद्भवः ।
तापो द्विजवरश्रेष्ठाः कथ्यते चाऽऽधिदैविकः ॥ २३४.८॥
गर्भजन्मजराज्ञानमृत्युनारकजं तथा ।
दुःखं सहस्रशो भेदैर्भिद्यते मुनिसत्तमाः ॥ २३४.९॥
सुकुमारतनुर्गर्भे जन्तुर्बहुमलावृते ।
उल्बसंवेष्टितो भग्नपृष्ठग्रीवास्थिसंहतिः ॥ २३४.१०॥
अत्यम्लकटुतीक्ष्णोष्णलवणैर्मातृभोजनैः ।
अतितापिभिरत्यर्थं बाध्यमानोऽतिवेदनः ॥ २३४.११॥
प्रसारणाकुञ्चनादौ नागा(ङ्गा)नां प्रभुरात्मनः ।
शकृन्मूत्रमहापङ्कशायी सर्वत्र पीडितः ॥ २३४.१२॥
निरुच्छ्वासः सचैतन्यः स्मरञ्जन्मशतान्यथ ।
आस्ते गर्भेऽतिदुःखेन निजकर्मनिबन्धनः ॥ २३४.१३॥
जायमानः पुरीषासृङ्मूत्रशुक्राविलाननः ।
प्राजापत्येन वातेन पीड्यमानास्थिबन्धनः ॥ २३४.१४॥
अधोमुखस्तैः क्रियते प्रबलैः सूतिमारुतैः ।
क्लेशैर्निष्क्रान्तिमाप्नोति जठरान्मातुरातुरः ॥ २३४.१५॥
मूर्च्छामवाप्य महतीं संस्पृष्टो बाह्यवायुना ।
विज्ञानभ्रंसमाप्नोति जातस्तु मुनिसत्तमाः ॥ २३४.१६॥
कण्टकैरिव तुन्नाङ्गः क्रकचैरिव दारितः ।
पूतिव्रणान्निपतितो धरण्यां क्रिमिको यथा ॥ २३४.१७॥
कण्डूयनेऽपि चाशक्तः परिवर्तेऽप्यनीश्वरः ।
स्तनपानादिकाहारमवाप्नोति परेच्छया ॥ २३४.१८॥
अशुचिस्रस्तरे सुप्तः कीटदंशादिभिस्तथा ।
भक्ष्यमाणोऽपि नैवैषां समर्थो विनिवारणे ॥ २३४.१९॥
जन्मदुःखान्यनेकानि जन्मनोऽनन्तराणि च ।
बालभावे यदाप्नोति आधिभूतादिकानि च ॥ २३४.२०॥
अज्ञानतमसा छन्नो मूढान्तः करणो नरः ।
न जानाति कुतः कोऽहं कुत्र गन्ता किमात्मकः ॥ २३४.२१॥
केन बन्धेन बद्धोऽहं कारणं किमकारणम् ।
किं कार्यं किमकार्यं वा किं वाच्यं किं न चोच्यते ॥ २३४.२२॥
को धर्मः कश्च वाऽधर्मः कस्मिन्वर्तेत वै कथम् ।
किं कर्तव्यमकर्तव्यं किं वा किं गुणदोषवत् ॥ २३४.२३॥
एवं पशुसमैर्मूढैरज्ञानप्रभवं महत् ।
अवाप्यते नरैर्दुःखं शिश्नोदरपरायणैः ॥ २३४.२४॥
अज्ञानं तामसो भावः कार्यारम्भप्रवृत्तयः ।
अज्ञानिनां प्रवर्तन्ते कर्मलोपस्ततो द्विजाः ॥ २३४.२५॥
नरकं कर्मणां लोपात्फलमाहुर्महर्षयः ।
तस्मादज्ञानिनां दुःखमिह चामुत्र चोत्तमम् ॥ २३४.२६॥
जराजर्जरदेहश्च शिथिलावयवः पुमान् ।
विचलच्छीर्णदशनो वलिस्नायुशिरावृतः ॥ २३४.२७॥
दूरप्रनष्टनयनो व्योमान्तर्गततारकः ।
नासाविवरनिर्यातरोमपुञ्जश्चलद्वपुः ॥ २३४.२८॥
प्रकटीभूतसर्वास्थिर्नतपृष्ठास्थिसंहतिः ।
उत्सन्नजठराग्नित्वादल्पाहारोल्पचेष्टितः ॥ २३४.२९॥
कृच्छ्रचंक्रमणोत्थानशयनासनचेष्टितः ।
मन्दीभवच्छ्रोत्रनेत्रगलल्लालाविलाननः ॥ २३४.३०॥
अनायत्तैः समस्तैश्च करणैर्मरणोन्मुखः ।
तत्क्षणेऽप्यनुभूतानामस्मर्ताऽखिलवस्तुनाम् ॥ २३४.३१॥
सकृदुच्चारिते वाक्ये समुद्भूतमहाश्रमः ।
श्वासकासामयायाससमुद्भूतप्रजागरः ॥ २३४.३२॥
अन्येनोत्थाप्यतेऽन्येन तथा संवेश्यते जरी ।
भृत्यात्मपुत्रदाराणामपमानपराकृतः ॥ २३४.३३॥
प्रक्षीणाखिलशौचश्च विहाराहारसंस्पृहः ।
हास्यः परिजनस्यापि निर्विण्णाशेषबान्धवः ॥ २३४.३४॥
अनुभूतमिवान्यस्मिञ्जन्मन्यात्मविचेष्टितम् ।
संस्मरन्यौवने दीर्घं निःश्वसित्यतितापितः ॥ २३४.३५॥
एवमादीनि दुःखानि जरायामनुभूय च ।
मरणे यानि दुःखानि प्राप्नोति शृणु तान्यपि ॥ २३४.३६॥
श्लथग्रीवाङ्घ्रिहस्तोऽथ प्राप्तो वेपथुना नरः ।
मुहुर्ग्लानिपरश्चासौ मुहुर्ज्ञानबलन्वितः ॥ २३४.३७॥
हिरण्यधान्यतयभार्याभृत्यगृहादिषु ।
एते कथं भविष्यन्तीत्यतीवममताकुलः ॥ २३४.३८॥
मर्मविद्भिर्महारोगैः क्रकचैरिव दारुणैः ।
शरैरिवान्तकस्योग्रैश्छिद्यमानास्थिबन्धनः ॥ २३४.३९॥
परिवर्तमानताराक्षिहस्तपादं मुहुः क्षिपन् ।
संशुष्यमाणताल्वोष्ठकण्ठो घुरघुरायते ॥ २३४.४०॥
निरुद्धकण्ठदेशीऽपि उदानश्वासपीडितः ।
तापेन महता व्याप्तस्तृषा व्याप्तस्तथा क्षुधा ॥ २३४.४१॥
क्लेशादुत्क्रान्तिमाप्नोति याम्यकिंकरपीडितः ।
तापेन महात व्याप्तस्तृषा व्याप्तस्तथा क्षुधा ॥ २३४.४२॥
एतान्यन्यानि चोग्राणि दुःखानि मरणे नृणाम् ।
शृणुध्वं दर्शं यानि प्राप्यन्ते पुरुषैर्मृतैः ॥ २३४.४३॥
याम्यकिंकरपाशादिग्रहणं दण्डताडनम् ।
यमस्य दर्शनं चोग्रमुग्रमार्गविलोकनम् ॥ २३४.४४॥
करम्भवालुकाविह्नियन्त्रशस्त्रादिभीषणे ।
प्रत्येकं यातनायाश्च यातनादि द्विजोत्तमाः ॥ २३४.४५॥
क्रकचैःपीड्यमानानांमृ(मू)षायां चापि ध्माप्यताम् ।
कुठारैः पाट्यमानानांभूमौ चापि निखन्यताम् ॥ २३४.४६॥
शूलेष्वारोप्यमाणानां व्याघ्रवक्त्रे प्रवेश्यताम् ।
गृध्रैः संभक्ष्यमाणानां द्वीपिभिश्चोपभुज्यताम् ॥ २३४.४७॥
क्वथ्यतां तैलमध्ये च क्लिद्यतां क्षारकर्दमे ।
उच्चन्निपात्यमानानां क्षिप्यतां क्षेपयन्त्रकैः ॥ २३४.४८॥
नरके यानि दुःखानि पापहेतूद्भवानि वै ।
प्राप्यन्ते नारकैर्विप्रास्तेषां संख्या न विद्यते ॥ २३४.४९॥
न केवलं द्विजश्रेष्ठा नरके दुःखपद्धतिः ।
स्वर्गेऽपि पातभीतस्य क्षयिष्णोर्नास्ति निर्वृतिः ॥ २३४.५०॥
पुनश्च गर्भो भवति जायते च पुनर्नरः ।
गर्भे विलीयते भूयो जायमानोऽस्तमेति च ॥ २३४.५१॥
जातमात्रश्च म्रियते बालभावे च यौवने ।
यद्यत्प्रीतिकरं पुंसां वस्तु विप्राः प्रजायते ॥ २३४.५२॥
तदेव दुःखवृक्षस्य बीजत्वमुपगच्छति ।
कलत्रपुत्रमित्रादिगृहक्षेत्रधनादिकैः ॥ २३४.५३॥
क्रियते न तथा भूरि सुखं पुंसां यथाऽसुखम् ।
इति संसारदुःखार्कतापतापितचेतसाम् ॥ २३४.५४॥
विमुक्तिपादपच्छायामृते कुत्र सुखं नृणाम् ।
तदस्य त्रिविधस्यापि दुःखजातस्य पण्डितैः ॥ २३४.५५॥
गर्भजन्मजराद्येषु स्थानेषु प्रभविष्यतः ।
निरस्तातिशयाह्लादं सुखभावैकलक्षणम् ॥ २३४.५६॥
भेषजं भगवत्प्राप्तिरेका चाऽऽत्यन्तिकी मता ।
तस्मात्तत्प्राप्तये यत्नः कर्तव्यः पण्डितैर्नरैः ॥ २३४.५७॥
तत्प्राप्तिहेतुर्ज्ञानं च कर्म चोक्तं द्विजोत्तमाः ।
आगमोत्थं विवेकाच्च द्विधा ज्ञानं तथोच्यते ॥ २३४.५८॥
शब्दब्रह्माऽऽगममयं परं ब्रह्म विवेकजम् ।
अन्धं तम इवाज्ञानं दीपवच्चेन्द्रियोद्भवम् ॥ २३४.५९॥
यथा सूर्यस्तथा ज्ञानं यद्वै विप्रा विवेकजम् ।
मनुरप्याह वेदार्थं स्मृत्वा यन्मुनिसत्तमाः ॥ २३४.६०॥
तदेतच्छ्रुयतामत्र संबन्धे गदतो मम ।
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ॥ २३४.६१॥
शब्दब्रह्मणि निष्णातः परं ब्रह्मधिगच्छति ।
द्वे विद्ये वेदितव्ये इति चाऽऽथर्वणी श्रुतिः ॥ २३४.६२॥
परया ह्यक्षरप्राप्तिरृग्वेदादिमयाऽपरा ।
यत्तदव्यक्तमजरमचिन्त्यमजमव्ययम् ॥ २३४.६३॥
अनिर्देश्यमरूपं च पाणिपादाद्यसंयुतम् ।
वित्तं सर्वगतं नित्यं भूतयोनिमकारणम् ॥ २३४.६४॥
व्याप्यं व्याप्यं यतः सर्वं तद्वै पश्यन्ति सूरयः ।
तद्ब्रह्म परमं धाम तद्व्येयं मोक्षकाङ्क्षिभिः ॥। २३४.६५॥
श्रुतिवाक्योदितं सूक्ष्मं तद्विष्णोः परमं पदम् ।
उत्पत्तिं प्रलयं चैव भूतानामगतिं गतिम् ॥ २३४.६६॥
वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ।
ज्ञानशक्तिबलवैश्वर्यवीर्यतेजांस्यशेषतः ॥ २३४.६७॥
भगवच्छब्दवाच्यानि च स वाच्यो भगवानिति ।
ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः ॥ २३४.६८॥
भूतेषु च स सर्वात्मा वासुदेवस्ततः स्मृतः ।
उवाचेदं महर्षिभ्यः पुरा पृष्टः प्रजापतिः ॥ २३४.६९॥
नामाव्याख्यामनन्तस्य वासुदेवस्य तत्त्वतः ।
भूतेषु वसते योऽन्तर्वसन्त्यत्र च तानि यत्॥
धाता विधाता जगतां वासुदेवस्ततः प्रभुः ॥ २३४.७०॥
ससर्वभूतप्रकृतिर्गुणांश्च, दोषांश्च सर्वान्स(न)गुणो ह्यतीतः ।
अतीतसर्वावरणोऽखिलात्मा, तेनाऽऽवृतं यद्भवनान्तरालम् ॥ २३४.७१॥
समस्तकल्याणगुणात्मको हि, स्वशक्तिलेशादृतभूतसर्गः ।
इच्छागृहीताभिमतोरुदेहः, संसाधिताशेषजगद्धितोऽसौ ॥ २३४.७२॥
तेजोबलैश्वर्यमहावरोधः, स्ववीर्यशक्त्यादिगुणैकराशिः ।
परः पराणां सकला न यत्र, क्लेशादयः सन्ति परापरेशे ॥ २३४.७३॥
स ईश्वरो व्यष्टिसमष्टिरूपोऽव्यक्तस्वरूपः प्रकटस्वरूपः ।
सर्वेश्वरः सर्वदृक्सर्ववेत्ता, समस्तशक्तिः परमेश्वराख्यः ॥ २३४.७४॥
संज्ञायते येन तदस्तदोषं शुद्धं परं निर्मलमेकरूपम् ।
संदृश्यते वाऽऽप्यथ गम्यते वा,तज्ज्ञानमज्ञानमतोऽन्यदुक्तम् ॥ २३४.७५॥
इति श्रीमहापुराणे आदिब्राह्मे व्यासर्षिसंवाद आत्यन्तिकलयनिरूपणं नाम
चतुस्त्रिंशदधिकद्विशततमोऽध्यायः ॥ २३४॥
अध्यायः २३५ (१२७)
योगाभ्यासनिरूपणम्
मुनय ऊचुः
इदानीं ब्रूहि योगं च दुःखसंयोगभेषजम् ।
यं विदित्वाऽव्ययं तत्र युञ्जामः पुरुषोत्तमम् ॥ २३५.१॥
श्रुत्वा स वचनं तेषां कुष्णद्वैपायनस्तदा ।
अब्रवीत्परमप्रीतो योगी योगविदां वरः ॥ २३५.२॥
योगं वक्ष्यामि भो विप्राः शृणुध्वं भवनाशनम् ।
यमभ्यस्याऽऽप्नु याद्योगी मोक्षं परमदुर्लभम् ॥ २३५.३॥
श्रुत्वाऽऽदौ योगशास्त्राणि गुरुमाराध्य भक्तितः ।
इतिहासं पुराणं च वेदांश्चैव विचक्षणः ॥ २३५.४ ।
आहारं योगदोषांश्च देशकालं च बुद्धिमान् ।
ज्ञात्वा समभ्यसेद्योगं निर्द्वद्वो निष्परिग्रहः ॥ २३५.५॥
भुञ्जन्सक्तुं यवागूं च तक्रमूलफलं पयः ।
यावकं कणपिण्याकमाहारं योगसाधनम् ॥ २३५.६॥
न मनोविकले ध्माते न श्रान्ते क्षुधिते तथा ।
न द्वंद्वे न च शीते च न चोष्णे नानिलात्मके ॥ २३५.७॥
सशब्दे न जलाभ्यासे जीर्णगोष्ठे चतुष्पथे ।
सरीसृपे श्मशाने च न नद्यन्तेऽग्निसंनिधौ ॥ २३५.८॥
न चैत्ये न च वल्मीके सभये कूपसंनिधै ।
न शुष्कपर्णनिचये योगं युञ्जीत कर्हिचित् ॥ २३५.९॥
देशानेताननादृत्य मूढत्वाद्यो युनक्ति वै ।
प्रवक्ष्ये तस्य ये दोषा जायन्ते विघ्नकारकाः ॥ २३५.१०॥
बाधिर्यं जडता लोपः स्मृतेर्मूकत्वमन्धता ।
ज्वरश्च जायते सद्यस्तद्वदज्ञानसंभवः ॥ २३५.११॥
तस्मात्सर्वात्मना कार्या रक्षा योगविदा सदा ।
धर्मार्थकाममोक्षणां शरीरं साधनं यतः ॥ २३५.१२॥
आश्रमे विजने गुह्ये निःशब्दे निर्भये नगे ।
शून्यागारे शुचौरम्ये चैकान्ते देवतालये ॥ २३५.१३॥
रजन्याः पश्चिमे यामे पूर्वे च सुसमाहितः ।
पूर्वाह्णे मध्यमे चाह्नि युक्ताहारो जितेन्द्रियः ॥ २३५.१४॥
आसीनः प्राङ्मुखो रम्य आसने सुखनिश्चले ।
नातिनीचे न चोच्छ्रिते निस्पृहः सत्यवाक्षुचिः ॥ २३५.१५॥
युक्तनिद्रो जितक्रोधः सर्वभूतहिते रतः ।
सर्वद्वंद्वसहो धीरः समकायाङ्घ्रिमस्तकः ॥ २३५.१६॥
नाभौ निधाय हस्तौ द्वौ शान्तः पद्मासने स्थितः ।
संस्थाप्य दृष्टिं नासाग्रे प्राणानायम्य वाग्यतः ॥ २३५.१७॥
समाहृत्येन्द्रियग्रामं मनसा हृदये मुनिः ।
प्रणवं दीर्घमुद्यम्य संवृतास्यः सुनिश्चलः ॥ २३५.१८॥
रजसा तमसो वृत्तिं सत्त्वेन रजसस्तथा ।
संछाद्य निर्मलं शान्ते स्थितः संवृतलोचनः ॥ २३५.१९॥
हृत्पद्मकोटरे लीनं सर्वव्यापि निरञ्जनम् ।
युञ्जीत शान्ते स्थितः संवृतलोचनः ॥ २३५.२०॥
करणेन्द्रियभूतानि क्षेत्रज्ञे प्रथमं न्यसेत् ।
क्षेत्रज्ञश्च परे योज्यस्ततो युञ्जति योगवित् ॥ २३५.२१॥
मनो यस्यान्तमभ्येति परमात्मनि चञ्चलम् ।
संत्यज्य विषयांस्तस्य योगसिद्धिः प्रकाशिता ॥ २३५.२२॥
यदा निर्विषयं चित्तं परे ब्रह्मणि लीयते ।
समाधौ योगयुक्तस्य तदाऽभ्येति परं पदम् ॥ २३५.२३॥
असंसक्तं यदा चित्तं योगिनः सर्वकर्मसु ।
भवत्यानन्दमासाद्य तदा निर्वाणमृच्छति ॥ २३५.२४॥
शुद्धं धामत्रयातीतं तुर्याख्यं पुरुषोत्तमम् ।
प्राप्य योगबलाद्योगी मुच्यते नात्र संशयः ॥ २३५.२५॥
निःस्पृहः सर्वकामेभ्यः सर्वत्र प्रियदर्शनः ।
सर्वत्रानित्यबुद्धिस्तु योगी मुच्येत नान्यथा ॥ २३५.२६॥
इन्द्रियाणि न सेवेन वैराग्येण च योगवित् ।
सदा चाभ्यासयोगेन मुच्यते नात्र संशयः ॥ २३५.२७॥
न च पद्मासनाद्योगो न नासाग्रनिरीक्षणात् ।
मनसश्चेन्द्रियाणां च संयोगो योग उच्यते ॥ २३५.२८॥
एवं मया मुनिश्रेष्ठा योगः प्रोक्तो विमुक्तिदः ।
संसारमोक्षहेतुश्च किमन्यच्छ्रोतुमिच्छथ ॥ २३५.२९॥
लोमहर्षण उवाच
श्रुत्वा ते वचनं तस्य साधु साध्विति चाब्रुवन् ।
व्यासं प्रशस्य सम्पूज्य पुनः प्रष्टुं समुद्यताः ॥ २३५.३०॥
इति श्रीमहापुराणे आदिब्राह्मे व्यासर्षिसंवादे योगाभ्यासनिरूपणं नाम
पञ्चत्रिंशदधिकद्विशततमोऽध्यायः ॥ २३५॥
अध्यायः २३६ (१२८)
सांख्ययोगनिरूपणम्
मुनय ऊचुः
तव वक्त्राब्धिसंभूतममृतं वाङ्मयं मुने ।
पिबतां नो द्विजश्रेष्ठ न नृप्तिरिह दृश्यते ॥ २३६.१॥
तस्माद्योगं मुने ब्रूहि विस्तरेण विमुक्तिदम् ।
सांख्यं च द्विपदां श्रेष्ठ श्रोतुमिच्छामहे वयम् ॥ २३६.२॥
प्रज्ञावाञ्श्रोत्रियो यज्वा ख्यातः प्राज्ञोऽनसूयकः ।
सत्यधर्ममतिर्ब्रह्मन्कथं ब्रह्माधिगच्छति ॥ २३६.३॥
तपसा ब्रह्मचर्येण सर्वत्यागेन मेधया ।
सांख्ये वा यदि वा योग एतत्पृष्टो वदस्व नः ॥ २३६.४॥
मनसश्चेन्द्रियाणां च यथैकागय्रमवाप्यते ।
येनोपायेन पुरुषस्तत्त्वं व्याख्यातुमर्हसि ॥ २३६.५॥
व्यास उवाच
नान्यत्र ज्ञानतपसोर्नान्यत्रेन्द्रियनिग्रहात् ।
नान्यत्र सर्वसंत्यागात्सिद्धिं विन्दति कश्चन ॥ २३६.६॥
महाभूतानि सर्वाणि पूर्वसृष्टिः स्वयंभुवः ।
भूयिष्ठं प्राणभृद्ग्रामे निविष्टानि शरीरिषु ॥ २३६.७॥
भूमेर्देहो जलात्स्नेहो ज्योतिषश्चक्षुषी स्मृते ।
प्राणापानाश्रयो वायुःकोष्ठाकाशं शरीरिणाम् ॥ २३६.८॥
क्रान्तौ विष्णुर्बले शक्रः कोष्ठेऽग्निर्भोक्तुमिच्छति ।
कर्णयोः प्रदिशः श्रोत्रे जिह्वायां वाक्सरस्वती ॥ २३६.९॥
कर्णौ त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी ।
दश तानीन्द्रियोक्तानि द्वाराण्याहारसिद्धये ॥ २३६.१०॥
शब्दस्पर्शौ तथा रूपं रसं गन्धं च पञ्चमम् ।
इन्द्रियार्थान्पृथग्विद्यादिन्द्रियेभ्यस्तु नित्यदा ॥ २३६.११॥
इन्द्रियाणि मनो युङ्क्ते अवश्या(शा)निव राजिनः(लः) ।
मनश्चापि सदा युङ्क्ते भूतात्मा हृदयाश्रितः ॥ २३६.१२॥
इन्द्रियाणां तथैवैषां सर्वेषामीश्वरं मनः ।
नियमे च विसर्गे च भूतात्मा मनसस्तथा ॥ २३६.१३॥
इन्द्रियाणीन्द्रियार्थश्च स्वभावश्चेतना मनः ।
प्राणापानौ च जीवश्च नित्यं देहेषु देहिनाम् ॥ २३६.१४॥
आश्रयो नास्ति सत्त्वस्य गुणशब्दो न चेतनाः ।
सत्त्वं हि तेजः सृजति न गुणान्वै कथंचन ॥ २३६.१५॥
एवं सप्तदशं देहं वृतं षोडशभिर्गुणैः ।
मनीषी मनसा विप्राः पश्यत्यात्मानमात्मनि ॥ २३६.१६॥
न ह्यं चक्षुषा दुश्यो न च सर्वैरपीन्द्रियैः ।
मनसा तु प्रदीप्तेन महानात्मा प्रकशते ॥ २३६.१७॥
अशब्दस्पर्शरूपं तच्च(च्चा)रसागन्धमव्ययम् ।
अशरीरं शरीरे स्वे निरीक्षेत निरिन्द्रियम् ॥ २३६.१८॥
अव्यक्तं सर्वदेहेषु मर्त्येषु परमार्चितम् ।
योऽनुपश्यति स प्रेत्य कल्पते ब्रह्मभूयतः ॥ २३६.१९॥
विद्याविनयसम्पन्नब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ २३६.२०॥
स हि सर्वेषु भूतेषु जङ्गमेषु ध्रुवेषु च ।
वसत्येको महानात्मा येन सर्वमिदं ततम् ॥ २३६.२१॥
सर्वभूतेषु चाऽऽत्मानं सर्वभूतानि चाऽऽत्मनि ।
यदा पश्यति भूतात्मा ब्रह्म सम्पद्यते तदा ॥ २३६.२२॥
यावानात्मनि वेदाऽऽत्मा तावानात्मा परात्मनि ।
य एवं सततं वेद सोऽमृतत्वाय कल्पते ॥ २३६.२३॥
सर्वभूतात्मभूतस्य सर्वभूतहितस्य च ।
देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः ॥ २३६.२४॥
शकुन्तानामिवाऽऽकाशे मत्स्यानामिव चोदके ।
यथा गतिर्न दृश्येन तथा ज्ञानविदां गतिः ॥ २३६.२५॥
कालः पचति भूतानि सर्वाण्येवाऽऽत्मनाऽऽत्मनि ।
यस्मिस्तु पच्यते कालस्तन्न वेदेह कश्चन ॥ २३६.२६॥
न तदुर्ध्वं न तिर्यक्च नाधो न च पुनः पुनः ।
न मध्ये प्रतिगृह्णीते नैव किंचिन्न कश्चन ॥ २३६.२७॥
सर्वे तत्स्था इमे लोका बाह्यमेषां न किंचन ।
यद्यप्यग्रे समागच्छेद्यता बाणो गुणच्युतः ॥ २३६.२८॥
नैवान्तं कारणस्येयाद्यद्यपि स्यान्मनोजवः ।
तस्मात्सूक्ष्मतरं नास्ति नास्ति स्थूलतरं तथा ॥ २३६.२९॥
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ।
सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ २३६.३०॥
तदेवाणोरणुतरं तन्महद्भ्यो महत्तरम् ।
तदन्तः सर्वभूतानां ध्रुवं तिष्ठन्न दृश्यते ॥ २३६.३१॥
अक्षरं च क्षरं चैव द्वेधा भावोऽयमात्मनः ।
क्षकः सर्वेषु भूतेषु दिव्यं त्वमृतमक्षरम् ॥ २३६.३२॥
नवद्वारं पुरं कृत्वा हंसो हि नियतो वशी ।
ईदृशः सर्वभूतस्य स्थावरस्य चरस्य च ॥ २३६.३३॥
हानेनाभिविकल्पानां नराणां संचयेन च ।
शरीराणामजस्याऽऽहुर्हंसत्वं पारदर्शिनः ॥ २३६.३४॥
हंसोक्तं च क्षरं चैव कूटस्थं यत्तदक्षरम् ।
तद्विद्वानक्षरं प्राप्य जहाति प्राणजन्मनी ॥ २३६.३५॥
व्यास उवाच
भवतां पृच्छतां विप्रा यथावदिह तत्त्वतः ।
सांख्यं ज्ञानेन संयुक्तं तदेतत्कीर्तितं मया ॥ २३६.३६॥
योगकृत्यं तु भो विप्राः कीर्तयिष्याम्यतः परम् ।
एकत्वं बुद्धिमनसोरिन्द्रियाणां च सर्वशः ॥ २३६.३७॥
आत्मनो व्यापिनो ज्ञानं ज्ञानमेतदत्तुमम् ।
तदेतदुपशान्तेन दान्तेनाध्यात्मशीलिना ॥ २३६.३८॥
आत्मारामेण बुद्धेन बोद्धव्यं शुचिकर्मणा ।
योगदोषान्समुच्छिद्य पञ्च यान्कवयो विदुः ॥ २३६.३९॥
कामं क्रोदं च लोभं च भयं स्वप्नं पञ्चमम् ।
क्रोधं शमेन जयति कामं संकल्पवर्जनात् ॥ २३६.४०॥
सत्त्वसंसेवनाद्धीरो निद्रामुच्छेत्तुमर्हति ।
धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा ॥ २३६.४१॥
चक्षुः श्रोत्रं च मनसा मनो वाचं च कर्मणा ।
अप्रमादाद्भयं जह्यद्दम्भं प्राज्ञोपसेवनात् ॥ २३६.४२॥
एवमेतान्योगदोषाञ्जयेन्नित्यमतन्द्रितः ।
अग्नींश्च ब्राह्मणांश्चाथ देवताः प्रणमेत्सदा ॥ २३६.४३॥
वर्जयेदुद्धतां वाचं हिंसायुक्तां मनोनुगाम् ।
ब्रह्मतेजोमयं शुक्रं यस्य सर्वमिदं जगत् ॥ २३६.४४॥
एतस्य भूतभूतस्य दृष्टं स्थावरजङ्गमम् ।
ध्यायनमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा ॥ २३६.४५॥
शौचं चैवाऽऽत्मनः शुद्धिरिन्द्रयाणां च निग्रहः ।
एतैर्विवर्घते तेजः पाप्मानं चापकर्षति ॥ २३६.४६॥
समः सर्वेषु भूतेषु लभ्यालभ्येन वर्तयन्
धूतपाप्मा तु तेजस्वी लघ्वाहारो जितेन्द्रियः ॥ २३६.४७॥
तामत्रधौ वशे कृत्वा निषेवेद्ब्रह्मणः पदम् ।
मनसश्चेन्द्रियाणां च कृत्वैकाग्रयं समाहितः ॥ २३६.४८॥
पूर्वरात्रे परार्धे च धारयेन्मन आत्मनः ।
जन्तोः पञ्चेन्द्रियस्यास्य यद्येकं क्लिन्नमिन्द्रियम् ॥ २३६.४९॥
ततोऽस्य स्रवति प्रज्ञा गिरेः पादादिवोदकम् ।
मनसः पूर्वमादद्यात्कूर्माणामिव मत्स्यहा ॥ २३६.५०॥
ततः श्रोत्रं ततश्चक्षुर्जिह्वा घ्राणं च योगवित् ।
तत एतानि संयम्य मनसि स्थापयेद्यदि ॥ २३६.५१॥
तथैवापोह्य संकल्पान्मनो ह्यात्मनि धारयेत् ।
पञ्चेन्द्रियाणि मनसि हृदि संस्थापयेद्यदि ॥ २३६.५२॥
यदैतान्यवतिष्ठन्ते मनः षष्ठानि चाऽऽत्मनि ।
प्रसीदन्ति च संस्थायां तदा ब्रह्म प्रकाशते ॥ २३६.५३॥
विधूम इव दीप्तार्चिरागत्य इव दीप्तिमान् ।
वैद्युतोऽग्निरिवाऽऽकाशे पश्यन्त्यात्मानमात्मनि ॥ २३६.५४॥
सर्व तत्र तु सर्वत्र व्यापकत्वाच्च दृश्यते ।
तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः ॥ २३६.५५॥
धृतिमन्तो महाप्राज्ञाः सर्वभूतहिते रताः ।
एवं परिमितं कालमाचरन्संशितव्रतः ॥ २३६.५६॥
आसीनो हि रहस्येको गच्छेदक्षरसाम्यताम् ।
प्रमोहो भ्रम आवर्तो घ्राणं श्रवणदर्शने ॥ २३६.५७॥
अद्भुतानि रसः स्पर्शः शीतोष्णमारुताकृतिः ।
प्रतिभानुपसर्गाश्च प्रतिसंगृह्य योगतः ॥ २३६.५८॥
तांस्तत्त्वविदनादृत्य साम्येनैव निवर्तयेत् ।
कुर्यात्परिचयं योगे त्रैलोक्ये नियतो मुनिः ॥ २३६.५९॥
गिरिशृङ्गे तथा चैत्ये वृक्षमूलेषु योजयेत् ।
संनियम्येन्द्रियग्रामं कोष्ठे भाण्डमना इव ॥ २३६.६०॥
एकाग्रं चिन्तयेन्नित्यं योगान्नोद्विजते मनः ।
येनोपयेन शक्येत नियन्तुं चञ्चलं मनः ॥ २३६.६१॥
तत्र युक्तो निषेवेत न चैव विचलेत्ततः ।
शून्यागाराणि चैकाग्रो निवासार्थमुपक्रमेत् ॥ २३६.६२॥
नातिव्रजेत्परं वाचा कर्मणा मनसाऽपि वा ।
उपेक्षको यथाहारो लब्धालब्धसमो भवेत् ॥ २३६.६३॥
यश्चैनमभिनन्देत यश्चैनमभिवादयेत् ।
समस्तयोश्चाप्युभयोर्नाभिध्यायेच्छुभाशुभम् ॥ २३६.६४॥
न प्रहृष्येन लाभेषु नालाभेषु च चिन्तयेत् ।
समः सर्वेषु भूतेषु सधर्मा मातरिश्वनः ॥ २३६.६५॥
एवं स्वस्थात्मनः साधोः सर्वत्र समदर्शिनः ।
षण्मासान्नित्ययुक्तस्य शब्दब्रह्मभिवर्तते ॥ २३६.६६॥
वेदनार्तान्परान्दृष्ट्वा समलष्टाश्मकाञ्चनः ।
एवं तु निरतो मार्गं विरमेन्न विमीहितः ॥ २३६.६७॥
अपि वर्णावकृष्टस्तु नारी वा धर्मकाङ्क्षिणी ।
तावप्येतेन मार्गेण गच्छेतां परमां गतिम् ॥ २३६.६८॥
अजं पुराणमजरं सनातनं, यमिन्द्रियातिगमगोचरं द्विजाः ।
अवेक्ष्य चेमां परमेष्ठिसाम्यतां, प्रयान्त्यनावृत्तिगतिं मनीषिणः ॥ २३६.६९॥
इति श्रीमहापुराणे आदिब्राह्मे व्यासर्षिसंवादे सांख्ययोगनिरूपणं नाम
पञ्चत्रिंशदधिकद्विशततमोध्यायः ॥ २३६॥
अध्यायः २३७ (१२९)
ज्ञानिनां मोक्षप्राप्तिनिरूपणम्
मुनय ऊचुः
यद्येवं वेदवचनं कुरु कर्म त्यजेति च ।
कां दिशं विद्यया यान्ति कां च गच्छन्ति कर्मणा ॥ २३७.१॥
एतद्वै श्रोतुमिच्छमस्तद्भवान्प्रब्रवीतु नः ।
एतदन्योन्यवैरूप्यं वर्तते प्रतिकूलतः ॥ २३७.२॥
व्यास उवाच
शृणुध्वं मुनिशार्दूला यत्पृच्छध्वं समासतः ।
कर्मविद्यामयौ चौभौ व्याख्यास्यामि क्षराक्षरौ ॥ २३७.३॥
यां दिशं विद्यया यान्ति यां गच्छन्ति च कर्मणा ।
शृणुध्वं सांप्रतं विप्रा गहनं ह्येतदुत्तरम् ॥ २३७.४॥
अस्ति धर्म इति युक्तं नास्ति तत्रैव यो वदेत् ।
यक्षस्य सादृश्यमिदं यक्षस्येदं भवेदथ ॥ २३७.५॥
द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः ।
प्रवृत्तिलक्षणो धर्मो निवृत्तो वा विभाषितः ॥ २३७.६॥
कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते ।
तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः ॥ २३७.७॥
कर्मणा जायते प्रेत्य मूर्तिमान्षोडशात्मकः ।
विद्यया जायते नित्यमव्यक्तं ह्यक्षरात्मकम् ॥ २३७.८॥
कर्म त्वेके प्रशंसन्ति स्वल्पबुद्धिरता नराः ।
तेन ते देहजालेन रमयन्त उपासते ॥ २३७.९॥
ये तु बुद्धिं परां प्राप्ता धर्मनैपुण्यदर्शिनः ।
न ते कर्म प्रशंसन्ति कूपं नद्यां पिबन्निवः ॥ २३७.१०॥
कर्मणां फलमाप्नोति सुखदुःखे भवाभवौ ।
विद्यया तदवाप्नोति यत्र गत्वा न शोचति ॥ २३७.११॥
न म्रियते यत्र गत्वा यत्र गत्वा न जायते ।
न जीर्यते यत्र गत्वा यत्र गत्वा न वर्धते ॥ २३७.१२॥
यत्र तद्ब्रह्म परममव्यक्तमचलं ध्रुवम् ।
अव्याकृतमनायामममृतं चाधियोगवित् ॥ २३७.१३॥
द्वंद्वैर्न यत्र बाध्यन्ते मानसेन च कर्मणा ।
समाः सर्वत्र मैत्राश्च सर्वभूतहिते रताः ॥ २३७.१४॥
विद्यामयोऽन्यः पुरुषो द्विजाः कर्ममयोऽपरः ।
विप्राश्चन्द्रसमस्पर्शः सूक्ष्मया कलया स्थितः ॥ २३७.१५॥
तदेतदृषिणा प्रोक्तं विस्तरेणानुगीयते ।
न वक्तुं शक्यते द्रष्टुं चक्रतन्तुमिवाम्बरे ॥ २३७.१६॥
एकादशविकारात्मा कलासंभारसंभृतः ।
मूर्तिमानिति तं विद्याद्विप्राः कर्मगुणात्मकम् ॥ २३७.१७॥
देवो यः संश्रितस्तस्मिन्बुद्धीन्दुरिव पुष्करे ।
क्षेत्रज्ञं तं विजानीयान्नित्यं योगजितात्मकम् ॥ २३७.१८॥
तमो रजश्च सत्त्वं च ज्ञेयं जीवगुणात्मकम् ।
जीवमात्मगुणं विद्यादात्मानं परमात्मनः ॥ २३७.१९॥
सचेतनं जीवगुणं वदन्ति, स चेष्टते जीवगुणं च सर्वम् ।
ततः परं क्षेत्रविदो वदन्ति, प्रकल्पयन्तो भुवनानि सप्त ॥ २३७.२०॥
व्यास उवाच
प्रकृत्यास्तु विकारा ये क्षेत्रज्ञास्ते परिश्रुताः ।
ते चैनं न प्रजानन्ति न जानाति स तानपि ॥ २३७.२१॥
तैश्चैव कुरुते कार्यं मनः षष्ठैरिहेन्द्रियैः ।
सुदान्तैरिव संयन्ता दृढः परमवाजिभिः ॥ २३७.२२॥
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यः परमं मनः ।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ २३७.२३॥
महतः परमव्यक्तमव्यक्तात्परतोऽमृतम् ।
अमृतान्न परं किंचित्सा काष्ठा परमा गतिः ॥ २३७.२४॥
एवं सर्वेषु भूतेषु गूढात्मा न प्रकाशते ।
दृश्यते त्वगय्रया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ २३७.२५॥
अन्तरात्मनि संलीय मनःषष्ठानि मेधया ।
इन्द्रियैरिन्द्रियार्थांश्च बहुचित्तमचिन्तयन् ॥ २३७.२६॥
ध्यानेऽपि परमं कृत्वा विद्यासम्पादितं मनः ।
अनीश्वरः प्रशान्तात्मा ततो गच्छेत्परं पदम् ॥ २३७.२७॥
इन्द्रियाणां तु सर्वेषां वश्यात्मा चलितस्मृतिः ।
आत्मनः सम्प्रदानेन मर्त्यो मृत्युमुपाश्नुते ॥ २३७.२८॥
विहत्य सर्वसंकल्पान्सत्त्वे चित्तं निवेशयेत् ।
सत्त्वे चित्तं समावेश्य ततः कालंजरो भवेत् ॥ २३७.२९॥
चित्तप्रसादेन यतिर्जहातीह शुभाशुभम् ।
प्रसन्नात्माऽऽत्मनि स्थित्वा सुखमत्यन्तमश्नुते ॥ २३७.३०॥
लक्षणं तु प्रसादस्य यथा स्वप्ने सुखं भवेत् ।
निर्वाते वा यथा दीपो दीप्यमानो न कम्पते ॥ २३७.३१॥
एवं पूर्वापरे रात्रे युञ्जन्नात्मानमात्मना ।
लघ्वाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि ॥ २३७.३२॥
रहस्यं सर्ववेदानामनैतिह्यमनागमम् ।
आत्मप्रत्यायकं शास्त्रमिदं पुत्रानुशासनम् ॥ २३७.३३॥
धर्माख्यानेषु सर्वेषु सत्याख्यानेषु यद्वसु ।
दशवर्षसहस्राणि निर्मथ्यामृतमुद्धृतम् ॥ २३७.३४॥
नवनीतं यथा दध्नः काष्ठादग्निर्यथैव च ।
तथैव विदुषां ज्ञानं मुक्तिहेतोः समुद्धृतम् ॥ २३७.३५॥
स्नातकानामिदं शास्त्रं वाच्यं पुत्रानुशासनम् ।
तदिदं नाप्रशान्ताय नादान्ताय तपस्विने ॥ २३७.३६॥
नावेदविदुषे वाच्यं तथा नानुगताय च ।
नासूयकायानृजवे न चानिर्दिष्टकारिणे ॥ २३७.३७॥
न तर्कशास्त्रदग्धाय तथैव पिशुनाय च ।
श्लाघिने श्लाघनीयाय प्रशान्ताय तपस्विने ॥ २३७.३८॥
इदं प्रियाय पुत्राय शिष्यायानुगताय तु ।
रहस्यधर्मं वक्तव्यं नान्यस्मै तु कथंचन ॥ २३७.३९॥
यदप्यस्य महीं दद्याद्रत्नपूर्णामिमां नरः ।
इतमेव ततः श्रेय इति मन्येत तत्त्ववित् ॥ २३७.४०॥
अतो गुह्यतरार्थं तदध्यात्ममतिमानुषम् ।
यत्तन्महर्षिभिर्दुष्टं वेदान्तेषु च गीयते ॥ २३७.४१॥
तद्युष्मभ्यं प्रयच्छामि यन्मां पृच्छत सत्तमाः ।
यन्मे मनसि वर्तेत यस्तु वो हृदि संशयः॥
श्रुतं भवद्भिस्तत्सर्वं किमन्यत्कथयामि वः ॥ २३७.४२॥
मुनय ऊचुः
अध्यात्मं विस्तरेणेह पुनरेव वदस्व नः ।
यदध्यात्मं यथा विद्मो भगवन्नृषिसत्तम ॥ २३७.४३॥
व्यास उवाच
अध्यात्मं यदिदं विप्राः पुरुषस्येह पठ्यते ।
युष्मभ्यं कथयिष्यामि तस्य व्याख्याऽवधार्यताम् ॥ २३७.४४॥
भीमिरापस्तथा ज्योतिर्वायुराकाशमेव च ।
महाभूतानि यश्चैव सर्वभूतेषु भूतकृत् ॥ २३७.४५॥
मुनय ऊचुः
आकारं तु भवेद्यस्य यस्मिन्देहं न पश्यति ।
आकासाद्यं शरीरेषु कथं तदुपवर्णयेत्॥
इन्द्रियाणां गुणाः केचित्कथं तानुपलक्षयेत् ॥ २३७.४६॥
व्यास उवाच
एतद्वो वर्णयिष्यामि यथावदनुदर्शनम् ।
शृणुध्वं तदिहैकाग्य्रा यथातत्त्वं यथा च तत् ॥ २३७.४७॥
शब्दः श्रोत्रं तथा खानि त्रयमाकाशलक्षणम् ।
प्राणश्चेष्टा तथा स्पर्श एते वायुगुणास्त्रयः ॥ २३७.४८॥
रूपं चक्षुर्विपाकश्च त्रिधा ज्योतिर्विधीयते ।
रसोऽथ रसनं स्वेदो गुणास्त्वेते त्रयोऽम्भसाम् ॥ २३७.४९॥
घ्रेयं घ्राणं शरीरं च भूमेरेते गुणास्त्रयः ।
एतावानिन्द्रियग्रामो व्याख्यातः पाञ्चभौतिकः ॥ २३७.५०॥
वायोः स्पर्शो रसोऽद्भ्यश्च ज्योतिषो रूपमुच्यते ।
आकाशप्रभवः शब्दो गन्धो भूमिगुणः स्मृतः ॥ २३७.५१॥
मनो बुद्धिः स्वभावश्च गुणा एते स्वयोनिजाः ।
ते गुणानतिवर्तन्ते गुणेभ्यः परमा मताः ॥ २३७.५२॥
यथा कुर्म इवाङ्गानि प्रसार्य संनियच्छति ।
एवमेवेन्द्रियग्रामं बुद्धिश्रेष्ठो नियच्छति ॥ २३७.५३॥
यदूर्ध्वं पादतलयोरवार्केर्द्वं च(गधश्च)पश्यति ।
एतस्मिन्नेव कृत्ये सा वर्तते बुद्धिरुत्तमा ॥ २३७.५४॥
गुणैस्तु नीयते बुद्धिर्बुद्धिरेवेन्द्रियाण्यपि ।
मनःषष्ठानि सर्वाणि बुद्ध्या भवात्कुतो गृणाः ॥ २३७.५५॥
इन्द्रियाणि नरैः पञ्च षष्ठं तन्मन उच्यते ।
सप्तमीं बुद्धिमेवाऽऽहुः क्षेत्रज्ञं विद्धि चाष्टमम् ॥ २३७.५६॥
चक्षुरालोकनायैव संशयं कुरुते मनः ।
बुद्धिरध्यवसानाय साक्षी क्षेत्रज्ञ उच्यते ॥ २३७.५७॥
रजस्तमश्च सत्त्वं च त्रय एते स्वयोनिजाः ।
समाः सर्वेषु भूतेषु तान्गुणानुपलक्षयेत् ॥ २३७.५८॥
तत्र यत्प्रीतिसंयुक्तं किंचिदात्मनि लक्षयेत् ।
प्रशान्तमिव संयुक्तं सत्त्वं तदुपधारयेत् ॥ २३७.५९॥
यत्तु संतापसंयुक्तं काये मनसि वा भवेत् ।
प्रवृत्तं रज इत्येवं तत्र चाप्युपलक्षयेत् ॥ २३७.६०॥
यत्तु संमोहसंयुक्तमव्यक्तं विषमं भवेत् ।
अप्रतर्क्यमविज्ञेयं तमस्तदुपदारयेत् ॥ २३७.६१॥
प्रहर्षः प्रीतिरानन्दं स्वाम्यं स्वस्थात्मचित्तता ।
अकस्माद्यदि वा कस्माद्वदन्ति सात्त्विकान्गुणान् ॥ २३७.६२॥
अभिमानो मृषावादो लोभो महोस्तथा क्षमा ।
लिङ्गानि रजसस्तानि वर्तन्ते हेतुतत्त्वतः ॥ २३७.६३॥
तथा मोहः प्रमादश्च तन्द्री निन्द्राऽप्रबोधिता ।
कथंचिदभिवर्तन्ते विज्ञेयास्तामसा गुणाः ॥ २३७.६४॥
मनः प्रसृजते भावं बुद्धिरध्यवसायिनी ।
हृदयं प्रियमेवेह त्रिविधा कर्मचोदना ॥ २३७.६५॥
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा परः स्मृतः ॥ २३७.६६॥
बुद्धिरात्मा मनुष्यस्य बुद्धिरेवाऽऽमनायिका ।
यदा विकुरुते भावं तदा भवति सा मनः ॥ २३७.६७॥
इन्द्रियाणां पृथग्भावाद्बुद्धिर्विकुरुते ह्यनु ।
क्षृण्वती भवति श्रोत्रं स्पृशती स्पर्श उच्यते ॥ २३७.६८॥
पश्यन्ति च भवेद्दृष्टी रसन्ती भवेत् ।
जिघ्रन्ती भवति घ्राणं बुद्धिर्विकुरुते पृथक् ॥ २३७.६९॥
इन्द्रियाणि तु तान्याहुस्तेषां वृत्त्या वितिष्ठति ।
तिष्ठति पुरुषे बुद्धिर्बुद्धिभावव्यवस्थिता ॥ २३७.७०॥
कदाचिल्लभते प्रीतिं कदाचिदपि शोचति ।
न सुखेन न दुःखेन कदाचिदिह मुह्यते ॥ २३७.७१॥
स्वयं भावात्मिका भावांस्त्रीनेतानतिवर्तते ।
सरितां सागरो भर्ता महावेलामिवोर्मिमान् ॥ २३७.७२॥
यदा प्रार्थयते किंचित्तदा भवति सा मनः ।
अधिष्ठाने च वै बुद्ध्या पृथगेतानि संस्मरेत् ॥ २३७.७३॥
इन्द्रियाणि च मेध्यानि विचेतव्यानि कृत्स्नशः ।
सर्वाण्येवानुपूर्वेण यद्यदा च विधीयते ॥ २३७.७४॥
अभिभागमना बुद्धिर्भावो मनसि वर्तते ।
प्रवर्तमानस्तु रजः सत्त्वमप्यतिवर्तते ॥ २३७.७५॥
ये वै भावेन वर्तन्ते सर्वेष्वेतेषु ते त्रिषु ।
अन्वर्थान्सम्प्रवर्तन्ते रथनेमिमरा इव ॥ २३७.७६॥
प्रदीपार्थं मनः कुर्यादिन्द्रियैर्बुद्धिसत्तमैः ।
निश्चरद्भिर्यथायोगमुदासीनैर्यदृच्छया ॥ २३७.७७॥
एवं स्वभावमेवेदमिति बुद्ध्वा न मुह्यति ।
अशोचन्सम्प्रहृष्यंश्च नित्य विगतमत्सरः ॥ २३७.७८॥
न ह्यात्मा शक्यते द्रष्टुमिन्द्रियैः कामगोचरैः ।
प्रवर्तमानैरनेकैर्कर्धदुरैरकृतात्मभिः ॥ २३७.७९॥
तेषां तु मनसा रश्मीन्यदा सम्यङ्नियच्छति ।
तदा प्रकाशतेऽस्याऽऽत्मा दीपदीप्ता यथाऽऽकृतिः ॥ २३७.८०॥
सर्वेषामेव भूतानां तमस्युपगते यथा ।
प्रकाशं भवते सर्वं तथैवमुपधार्यताम् ॥ २३७.८१॥
यथा वारिचरः पक्षी न लिप्यति जले चरन् ।
विमुक्तात्मा तथा योगी गुणदोषैर्न लिप्यते ॥ २३७.८२॥
एवमेव कृतप्रज्ञो न दोषैर्विषयांश्चरन् ।
असज्जमानः सर्वेषु न कथंचित्प्रलिप्यते ॥ २३७.८३॥
त्यक्त्वा पूर्वकृतं कर्मरतिर्यस्य सदाऽऽत्मनि ।
सर्वभूतात्मभूतस्य गुणसङ्गेन सज्जतः ॥ २३७.८४॥
स्वयमात्मा प्रसवति गुणेष्वपि कदाचन ।
न गुणा विदुरात्मानं गुणान्वेद स सर्वदा ॥ २३७.८५॥
परिदध्याद्गुणानां स द्रष्टा चैव यथातथम् ।
सत्तवक्षेत्रज्ञयोरेवमन्तरं लक्षयेन्नरः ॥ २३७.८६॥
सृजते तु गुणानेक एको न सृजते गुणान् ।
पृथग्भूतौ प्रकृत्यैतौ सम्प्रयुक्तौ च सर्वदा ॥ २३७.८७॥
यथाऽश्मना हिरण्यस्य सम्प्रयुक्तौ तथैव तौ ।
मशकौदुम्बरौ वाऽपि सम्प्रयुक्तौ यथा सह ॥ २३७.८८॥
इषिका वा यथा मुञ्जे पृथक्च सह चैवाह ।
तथैव सहितावेतौ अन्योन्यस्मिन्प्रतिष्ठितौ ॥ २३७.८९॥
इति श्रीमहापुराणे आदिब्राह्मे व्यासर्षिसंवादे
सप्तत्रिंशदधिकद्विशततमोध्यायः ॥ २३७॥
अध्यायः २३८ (१३०)
गुणसर्जनकथनम्
व्यास उवाच
सृजते तु गुणान्सत्त्वे क्षेत्रज्ञस्त्वधितिष्ठति ।
गुणान्विक्रियतः सर्वानुदासीनवदीश्वरः ॥ २३८.१॥
स्वभावयुक्तं तत्सर्वं यदिमान्सृजते गुणान् ।
ऊर्णनाभिर्यथा सूत्रं सृजते तद्गुणांस्तथा ॥ २३८.२॥
प्रवृत्ता न निवर्तन्ते प्रवृत्तिर्नोपलभ्यते ।
एवमेक व्यवस्यन्ति निवृत्तिमिति चापरे ॥ २३८.३॥
उभयं सम्प्रधार्यैतदध्यवस्येद्यथामति ।
अनेनैव विधानेन भवेद्वै संशयो महान् ॥ २३८.४॥
अनादिनिधनो ह्यात्मा तं बुद्ध्वा विहरेन्नरः ।
अक्रुध्यन्नप्रहृष्यंश्च नित्यं विगतमत्सरः ॥ २३८.५॥
इत्येवं हृदये सर्वो बुद्धिचिन्तामयं दृढम् ।
अनित्यं सुखमासीनमशोच्यं छिन्नसंशयः ॥ २३८.६॥
तरयेत्प्रच्युतां पृथ्वीं यथा पूर्णां नदीं नराः ।
अवगाह्य च विद्वांसो विप्रा लोलमिमं तथा ॥ २३८.७॥
न तु तप्यति वै विद्वान्स्थले चरति तत्त्ववित् ।
एवं विचिन्त्य चाऽऽत्मानं केवलं ज्ञानमात्मनः ॥ २३८.८॥
तां(तं)तु बुद्ध्वा नरः सर्गं भूतानामागतिं गतिम् ।
समचेष्टश्च वै सम्यग्लभते शममुत्तमम् ॥ २३८.९॥
एतद्द्विजन्मसामग्य्रं ब्राह्मणस्य विशेषतः ।
आत्मज्ञानसमस्नेहपर्याप्तं तत्परायणम् ॥ २३८.१०॥
त्वं बुद्ध्वा भवेद्बुद्धः किमन्यद्बुद्धलक्षणम् ।
विज्ञायैतद्विमुच्यन्ते कृतकृत्या मनीषिणः ॥ २३८.११॥
न भवति विदुषां महद्भयं, यदविदुषां सुमहद्भयं परत्र ।
न हि गतिरधिकाऽस्ति कस्यचिद्भवति हि या विदुषः सनातनी ॥ २३८.१२॥
लोके मातरमसूयते नरस्तत्र देवमनिरीक्ष्य शोचते ।
तत्र चेत्कुशलो न शोचते, ये विदुस्तदुभयं कृताकृतम् ॥ २३८.१३॥
यत्करोत्यनभिसंधिपूर्वकं, तच्च निन्दयति यत्पुरा कृतम् ।
यत्प्रियं तदुभयं न वाऽप्रियं, तस्य तज्जनयतीह कुर्वतः ॥ २३८.१४॥
मुनय ऊचुः
यस्माद्वर्मात्परो धर्मो विद्यते नेह कश्चन ।
यो विशिष्टश्च भूतेभ्यस्तद्भवान्प्रब्रवीतु नः ॥ २३८.१५॥
व्यास उवाच
धर्मं च सम्प्रवक्ष्यामि पुराणमृषिभिः स्तुतम् ।
विशिष्टं सर्वधर्मेभ्यः शृणुध्वं मुनिसत्तमाः ॥ २३८.१६॥
इन्द्रियाणि प्रमाथीनि बुद्ध्या संयम्य तत्त्वतः ।
सर्वतः प्रसृतानीह पिता बालानिवाऽऽत्मजान् ॥ २३८.१७॥
मनसश्चेन्द्रियाणां चाप्यैकाग्रयं परमं तपः ।
विज्ञेयः सर्वधर्मेभ्यः स धर्मः पर उच्यते ॥ २३८.१८॥
तानि सर्वाणि संधाय मनः षष्ठानि मेधया ।
आत्मतृप्तः स एवाऽऽसीद्बहुचिन्त्यमचिन्तयन् ॥ २३८.१९॥
गोचरेभ्यो निवृत्तानि यदा स्थास्यन्ति वेश्मनि ।
तदा चैवाऽऽत्मनाऽऽत्मानं परं द्रक्ष्यथ शाश्वतम् ॥ २३८.२०॥
सर्वात्मानं महात्मानं विधूममिव पावकम् ।
प्रपश्यन्ति महात्मानं ब्राह्मणा ये मनीषिणः ॥ २३८.२१॥
यथा पुष्पफलोपेतो बहुशाखो महाद्रुमः ।
आत्मनो नाभिजानीते क्व मे पुष्पं क्व मे फलम् ॥ २३८.२२॥
एवमात्मा न जानीते क्व गमिष्ये कुतोऽन्वहम् ।
अन्यो ह्यस्यान्तरात्माऽस्ति यः सर्वमनुपश्यति ॥ २३८.२३॥
ज्ञानदीपेन दीप्तेमन पश्यत्यात्मानमात्मना ।
दृष्ट्वाऽऽत्मानं तथा यूयं विरागा भवत द्विजाः ॥ २३८.२४॥
विमुक्ताः सर्वपापेभ्यो मुक्तत्वच इवोरगाः ।
परां बुद्धिमवाप्येहाप्यचिन्ता विगतज्वराः ॥ २३८.२५॥
सर्वतः स्रोतसं घोरां नदीं लोकप्रवाहिणीम् ।
पञ्चेन्द्रियग्राहवतीं मनःसंकल्परोधसम् ॥ २३८.२६॥
लोभमोहतृणच्छन्नां कामक्रोधसरीसृपाम् ।
सत्यतीर्थानृतक्षोभां क्रोधपङ्कां सरिद्वराम् ॥ २३८.२७॥
अव्यक्तप्रभवां शीघ्रां कामक्रोधसमाकुलाम् ।
प्रतरध्वं नदीं बुद्ध्या दुस्तरामकृतात्मभिः ॥ २३८.२८॥
संसारसागरगमां योनिपातालदुस्तराम् ।
आत्मजन्मोद्भवां तां तु जिह्वावर्तदुरासदाम् ॥ २३८.२९॥
यां तरन्ति कृतप्रज्ञा धृतिमन्तो मनीषिणः ।
तां तीर्णः सर्वतो मुक्तो विधूतात्माऽऽत्मवाञ्शुचिः ॥ २३८.३०॥
उत्तमां बुद्धिमास्थाय ब्रह्मभूयाय कल्पते ।
उत्तीर्णः सर्वसंक्लेशान्प्रसन्नात्मा विक्लमषः ॥ २३८.३१॥
भूयिष्ठानीव भूतानि सर्वस्थानान्निरीक्ष्य च ।
अक्रुध्यन्नप्रसीदंश्च ननृशंसमतिस्तथा ॥ २३८.३२॥
ततो द्रक्ष्यथ सर्वेषां भूतानां प्रभवाप्ययात् ।
एतद्वि सर्वधर्मेभ्यो विशिष्टं मेनिरे बुधाः ॥ २३८.३३॥
धर्मं धर्मभृतां श्रेष्ठा मनुयः सत्यदर्शिनः ।
आत्मानो व्यापिनो विप्रा इति पुत्रानुशासनम् ॥ २३८.३४॥
प्रयताय प्रवक्तव्यं हितायानुगताय च ।
आत्मज्ञानमिदं गुह्यं सर्वगुह्यतमं महत् ॥ २३८.३५॥
अब्रवं यदहं विप्रा आत्मसाक्षिकमञ्जसा ।
नैव स्त्री न पुमानेवं न चैवेदं नपुंसकम् ॥ २३८.३६॥
अदुः खमसुखं ब्रह्म भूतभव्यभवात्मकम् ।
यथा मतानि सर्वाणि तथैतानि यथा तथा ।
कथितानि मया विप्रा भवन्ति न भवन्ति च ॥ २३८.३७॥
यथा मतानि सर्वाणि तथैतानि यथा तथा ।
कथितानि मया विप्रा भवन्ति न भवन्ति च ॥ २३८.३८॥
तत्प्रीतियुक्तेन गुणान्वितेन, पुत्रेण सत्पुत्रदयान्वितेन ।
दृष्ट्वा हितं प्रीतमना यदर्थं, ब्रूयात्सुतस्येह यदुक्तमेतत् ॥ २३८.३९॥
मुनय ऊचुः
मोक्षः पितामहेनोक्त उपायान्नानुपायतः ।
तमुपायं यथान्यायं श्रोतुमिच्छामहे मुने ॥ २३८.४०॥
व्यास उवाच
अस्मासु तन्महाप्राज्ञा युक्तं निपुणदर्शनम् ।
यदुपायेन सर्वार्थान्मृगयध्वं सदाऽनघाः ॥ २३८.४१॥
घटोपकरणे बुद्धिर्घटोत्पत्तौ न सा मता ।
एवं धर्माद्युपायार्थ नान्यधर्मेषु कारणम् ॥ २३८.४२॥
पूर्वे समुद्रेयः पन्था न स गच्छति पश्चिमम् ।
एकः पन्था हि मोक्षस्य तच्छृणुध्वं ममानघाः ॥ २३८.४३॥
क्षमया क्रोधमुच्छिन्द्यात्कामं संकल्पवर्जनात् ।
सत्त्वसंसेवनाद्धीरो निद्रामुच्छेत्तुमर्हति ॥ २३८.४४॥
अप्रमादाद्भयं रक्षेद्रक्षेत्क्षेत्रं च संविदम् ।
इच्छां द्वेषं च कामं च धैर्येण विनिवर्तयेत् ॥ २३८.४५॥
निद्रां च प्रतिभां चैव ज्ञानाभ्यासेन तत्त्ववित् ।
उपद्रवांस्तथा योगी हितजीर्णमिताशनात् ॥ २३८.४६॥
लोभं मोहं च संतोषाद्विषयांस्तत्त्वदर्शनात् ।
अनुक्रोशादधर्मं च जयेद्धर्ममुपेक्षया ॥ २३८.४७॥
आयत्या च जयेदाशां सामर्थ्यं सङ्गवर्जनात् ।
अनित्यत्वेन च स्नेहं क्षुधां योगेन पण्डितः ॥ २३८.४८॥
कारुण्येनाऽऽत्मनाऽऽत्मानं तृष्णां च परितोषतः ।
उत्थानेन जयेत्तन्द्रां वितर्कं निश्चयाज्जयेत् ॥ २३८.४९॥
मौनेन बहुभाषां च शौर्येण च भयं जयेत् ।
यच्छेद्वाङ्मनसी बुद्ध्या तां यच्छेज्ज्ञानचक्षुषा ॥ २३८.५०॥
ज्ञानमात्मा महान्यच्छेत्तं यच्छेच्छान्तिरात्मनः ।
तदेतदुपशान्तेन बोद्धव्यं शुचिकर्मणा ॥ २३८.५१॥
योगदोषान्समुच्छिद्य पञ्च यान्कवयो विदुः ।
कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम् ॥ २३८.५२॥
परित्यज्य निषेवेत यथावद्योगसाधनात् ।
ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा ॥ २३८.५३॥
शौचमाचारतः शुद्धिरिन्द्रियाणां च संयमः ।
एतैर्विवर्धते तेजः पाप्मानमुपहन्ति च ॥ २३८.५४॥
सिध्यन्ति चास्य संकल्पा विज्ञानं च प्रवर्तते ।
धूतपातः स तेजस्वी लघ्वाहारो जितेन्द्रियः ॥ २३८.५५॥
कामक्रोधौ वशे कृत्वा निर्विशेद्ब्रह्मणः पदम् ।
अमूढत्वमसङ्गित्वं कामक्रोधविवर्जनम् ॥ २३८.५६॥
अदैन्यमनुदीर्णत्वमनुद्वेगो ह्यवस्थितिः ।
एष मार्गो हि मोक्षस्य प्रसन्नो विमलः शुचिः॥
तथा वाक्कायमनसां नियमाः कामतोऽव्ययाः ॥ २३८.५७॥
इति श्रीमहापुराणे आदिब्राह्मे सांख्ययोगनिरूपणं नाम
अष्टात्रिंशदधिकद्विशततमोऽध्यायः ॥ २३८॥
अध्यायः २३९ (१३१)
योगविधिनिरूपणम्
मुनय ऊचुः
सांख्यं योगस्य नो विप्र विशेषं वक्तुमर्हसि ।
तव धर्मज्ञ सर्वं हि विदितं मुनिसत्तम ॥ २३९.१॥
व्यास उवाच
सांख्यां सांख्यं प्रशंसन्ति योगान्योगविदुत्तमाः ।
वदन्ति कारणैः श्रेष्ठैः स्वपक्षोद्भवनाय वै ॥ २३९.२॥
अनीश्वरः कथं मुच्येदित्येवं मुनिसत्तमाः ।
वदन्ति कारणैः श्रेष्ठं योगं सम्यङ्मनीषिणः ॥ २३९.३॥
वदन्ति कारणं वेदं सांख्यं सम्यग्द्विजातयः ।
विज्ञायेह गतीः सर्वा विरक्तो विषयेषु यः ॥ २३९.४॥
ऊर्ध्वं स देहात्सुव्यक्तं विमुच्येदिति नान्यथा ।
एतदाहुर्महाप्राज्ञाः सांख्यं वै मोक्षदर्शनम् ॥ २३९.५॥
स्वपक्षे कारणं ग्राह्यं समर्थं वचनं हितम् ।
शिष्टानां हि मतं ग्राह्यं भवद्भिः शिष्टसंमतैः ॥ २३९.६॥
प्रत्यक्षं हेतवो योगाः सांख्याः शास्त्रविनिश्चयाः ।
उभे चैते तत्त्वे समवेते द्विजोत्तमाः ॥ २३९.७॥
उभे चैते मते ज्ञाते मुनीन्द्राः शिष्टसंमते ।
अनुष्ठिते यथाशास्त्रं नयेतां परमां गतिम् ॥ २३९.८॥
तुल्यं शौचं तयोर्युक्तं दया भूतेषु चानघाः ।
व्रतानां धारणं तुल्यं दर्शनं त्वसमं तयोः ॥ २३९.९॥
मुनय ऊचुः
यदि तुल्यं व्रतं शौचं दया चात्र महामुने ।
तुल्यं तद्दर्शनं कस्मात्तन्नौ ब्रूहि द्विजोत्तम ॥ २३९.१०॥
व्यास उवाच
रागं मोहं तथा स्नेहं कामं क्रोधं च केवलम् ।
योगास्थिरोदितान्दोषान्पञ्चैतान्प्राप्नुवन्ति तान् ॥ २३९.११॥
यथा वाऽनिमिषाः स्थूलं जालं छित्त्वा पुनर्जलम् ।
प्राप्नुयुर्विमलं मार्गं विमुक्ताः सर्वबन्धनैः ॥ २३९.१२॥
तथैव वागुरां छित्त्वा बलवन्तो यथा मृगाः ।
प्राप्नुयुर्विमलं मार्गं विमुक्ताः सर्वबन्धनैः ॥ २३९.१३॥
लोभजानि तथा विप्रा बन्धनानि बलान्वितः ।
छित्त्वा योगात्परं मार्गं गच्छन्ति विमलं शुभम् ॥ २३९.१४॥
अचलास्त्वाविला विप्रा वागुरासु तथाऽऽपरे ।
विनश्यन्ति न संदेहस्तद्वद्योगबलादृते ॥ २३९.१५॥
बलहीनाश्च विप्रेन्द्रा यथा जालं गता द्विजाः ।
बन्धं न गच्छन्त्यनघा योगास्ते तु सुदुर्लभाः ॥ २३९.१६॥
यथा च शकुनाः सूक्ष्मं प्राप्य जालमरिन्दमाः ।
तत्राशक्ता विपद्यन्ते मुच्यन्ते तु बलान्विताः ॥ २३९.१७॥
कर्मजैर्बन्धनैर्बद्धास्तद्वद्योगपरा द्विजाः ।
अबला न विमुच्यन्ते मुच्यन्ते च बलान्विताः ॥ २३९.१८॥
अल्पकश्च यथा विप्रा वह्निः शाम्यति दुर्बलः ।
आक्रान्त इन्धनैः स्थूलैस्तद्वद्योगबलः स्मृतः ॥ २३९.१९॥
स एव च तदा विप्रा वह्निर्जातबलः पुनः ।
समीरणगतः कृत्स्नां दहेत्क्षिप्रं महीमिमाम् ॥ २३९.२०॥
तत्त्वज्ञानबलो विप्रा वह्निर्जातबलः पुनः ।
समीरणगतः कृत्स्नां दहेत्क्षिप्रं महीमिमाम् ॥ २३९.२१॥
दुर्बलश्च यथा विप्राः स्रोतसा ह्रियते नरः ।
बलहीनस्तथा योगी विषयैर्ह्रियते च सः ॥ २३९.२२॥
तदेव तु यथा स्रोतसा विष्कम्भयति वारणः ।
तद्वद्योगबलं लब्धवा न भवेद्विषयैर्हृतः ॥ २३९.२३॥
विशन्ति वा वशाद्वाऽथ योगाद्योगबलन्विताः ।
प्रजापतीन्मनून्सर्वान्महाभूतानि चेश्वराः ॥ २३९.२४॥
न यमो नान्तकः क्रुद्धो न मृत्युर्भीमविक्रमः ।
विशन्ते तद्द्विजाः सर्वे योगस्यामिततेजसः ॥ २३९.२५॥
आत्मनां च सहस्राणि बहूनि द्विजसत्तमाः ।
योगं कुर्याद्बलं प्राप्य तैश्च सर्वैर्महीं चरेत् ॥ २३९.२६॥
प्राप्नुयाद्विषयान्कश्चित्पुनश्चोग्रं तपश्चरेत् ।
संक्षिप्येच्च पुनर्विप्राः सूर्यस्तेजोगुणानिव ॥ २३९.२७॥
बलस्थस्य हि योगस्य बलार्थं मुनिसत्तमाः ।
विमोक्षप्रभवं विष्णुमुपपन्नमसंशयम् ॥ २३९.२८॥
बलानि योगप्रोक्तानि मयैतानि द्विजोत्तमाः ।
निदर्शनार्थं सूक्ष्माणि वक्ष्यामि च पुनर्द्विजाः ॥ २३९.२९॥
आत्मनश्च समाधाने धारणां प्रति वा द्विजाः ।
निदर्शनानि सूक्ष्माणि सूक्ष्माणि शृणुध्वं मुनिसत्तमाः ॥ २३९.३०॥
अप्रमत्तो यथा धन्वी लक्ष्यं हन्ति समाहितः ।
युक्तः सम्यक्तथा योगी मोक्षं प्राप्नोत्यसंशयम् ॥ २३९.३१॥
स्नेहपात्रे यथा पूर्णे मन आधाय निश्चलम् ।
पुरुषो युक्त आरोहेत्सोपानं युक्तमानसः ॥ २३९.३२॥
मुक्तस्तथाऽयमात्मानं योगं तद्वत्सुनिश्चलम् ।
करोत्यमलामात्मानं भास्करोपमदर्शने ॥ २३९.३३॥
यथा च नावं विप्रेन्द्राः कर्णधारः समाहितः ।
महार्णवगतां शीघ्रं नयेद्विप्रांस्तु पत्तनम् ॥ २३९.३४॥
तद्वदात्मसमाधानं युक्तो योगेन योगवित् ।
दुर्गमं स्थानमाप्नोति हित्वा देहमिमं द्विजाः ॥ २३९.३५॥
सारथिश्च यथा युक्तः सदश्वान्सुसमाहितः ।
प्राप्नोत्याशु परं स्थानं लक्ष्यमुक्त इवाऽऽशुगः ॥ २३९.३६॥
तथैव च द्विजा योगी धारणासु समाहितः ।
प्राप्नोत्यशु परं स्थानं लक्ष्यमुक्त इवाऽऽशुगः ॥ २३९.३७॥
आविश्याऽऽत्मनि चाऽऽत्मानं योऽवतिष्ठति सोऽचलः ।
पाशं वहत्वे मीनानां पदमाप्नोति सोऽजरम् ॥ २३९.३८॥
नाभ्यां शीर्षे च कुक्षौ च हृदि वक्षसि पार्श्वयोः ।
दर्शने श्रवणे वाऽपि घ्राणे चामितविक्रमः ॥ २३९.३९॥
स्थानेष्वेतेषु यो योगी महाव्रतसमाहितः ।
आत्मना सूक्ष्ममात्मानं युङ्क्ते सम्यग्द्विजोत्तमाः ॥ २३९.४०॥
सुशीघ्रमचलप्रख्यं कर्म दग्ध्वा शुभाशुभम् ।
उत्तमं योगमास्थाय यदीच्छति विमुच्यते ॥ २३९.४१॥
मुनय ऊचुः
आहारान्कीदृशान्कृत्वा कानि जित्वा च सत्तम ।
योगी बलमवाप्नोति तद्भवान्वक्तुमर्हति ॥ २३९.४२॥
व्यास उवाच
कणानां भक्षणे युक्तः पिण्याकस्य च भो द्विजाः ।
स्नेहानां वर्जने युक्तो योगी बलमवाप्नुयात् ॥ २३९.४३॥
भुञ्जानो यावकं रूक्षं दीर्घकालं द्विजोत्तमाः ।
एकाहारी विशुद्धात्मा योगी बलमवाप्नुयात् ॥ २३९.४४॥
पक्षान्मासानृतूंश्चित्रान्संचरंश्च गुहास्तथा ।
अपः पीत्वा पयोमिश्रा योगी बलमावाप्नुयात् ॥ २३९.४५॥
अखण्डमपि वा मासं सततं मुनिसत्तमाः ।
उपोष्य सम्यक्षुद्धात्मा योगी बलमवाप्यनुयात् ॥ २३९.४६॥
कामं जित्वा तथा क्रोधं शीतोष्णं वर्षमेव च ।
भयं शोकं तथा स्वापं पौरुषीन्विषयांस्तथा ॥ २३९.४७॥
अरतिं दुर्जयां चैव घोरां दृष्ट्वा च भो द्विजाः ।
स्पर्शं निद्रां तथा तन्द्रां दुर्जयां मुनिसत्तमाः ॥ २३९.४८॥
दीपयन्ति महात्मानं सूक्ष्ममात्मानमात्मना ।
वीतरागा महाप्राज्ञा ध्यानाध्ययनसम्पदा ॥ २३९.४९॥
दुर्गस्त्वेष मतः पन्था ब्राह्मणानां विपश्चिताम् ।
यः कश्चिद्व्रजति क्षिप्रं क्षेमेण मुनिपुंगवाः ॥ २३९.५०॥
यथा कश्चिद्वनं घोरं बहुसर्पसरीसृपम् ।
श्वभ्रवत्तोयहीनं च दुर्गमं बहुकण्टकम् ॥ २३९.५१॥
अभक्तमटवीप्रायं दावदग्धमहीरुहम् ।
पन्थानं तस्कराकीर्णं क्षेमेणाभिपतेत्तथा ॥ २३९.५२॥
योगमार्गं समासाद्य यः कश्चिद्व्रजते द्विजः ।
क्षेमेणोपरमेन्मार्गाद्बहुदोषोऽपि संमतः ॥ २३९.५३॥
आस्थेयं क्षुरधारासु निशितासु द्विजोत्तमाः ।
धारणा सा तु योगस्य दुर्गेयमकृतात्मभिः ॥ २३९.५४॥
विषमा धारणा विप्रा यान्ति वैन शुभां गतिम् ।
नेतृहीना यथा नावः पुरुषाणां तु वै द्विजाः ॥ २३९.५५॥
यस्तु तिष्ठति योगाधौ धारणासु यथाविधि ।
मरणं जन्मदुःखित्वं सुखित्वं स विशिष्यते ॥ २३९.५६॥
नानाशास्त्रेषु नियतं नानामुनिनिषेवितम् ।
परं योगस्य पन्थानं निश्चितं तं द्विजातिषु ॥ २३९.५७॥
परं हि तद्ब्रह्ममयं मुनीन्द्रा, ब्रह्मणमीशं वरदं च विष्णुम् ।
भवं च धर्मं च महानुभावं यद्ब्रह्मपुत्रान्सुमहानुभावान् ॥ २३९.५८॥
तमश्च कष्टं सुमहद्रजश्च, सत्त्वं च शुद्धं प्रकृतिं परां च ।
सिद्धिं च देवीं वरुणस्य पत्नीं, तेजश्च कृत्स्नं सुमहच्च धैर्यम्॥
२३९.५९ ॥
ताराधिपं खे विमलं सुतारं, विश्वांश्च देवानुरगान्पितॄंश्च ।
शैलांश्च कृत्स्नानुदधींश्च वाऽचलान्नदीश्च सर्वाः सनगांश्च
नागान् ॥ २३९.६०॥
साध्यांस्तथा यक्षगणान्दिशश्च, गन्धर्वसिद्धान्पुरुषान्स्त्रियश्च ।
परस्परं प्राप्य महान्महात्मा विशेत योगी नचिराद्विमुक्तः ॥ २३९.६१॥
कथा च या विप्रवराः प्रसक्ता, दैवे महावीर्यमतौ शुभेयम् ।
योगान्स सर्वाननुभूय मर्त्या, नारायणं तं द्रुतमाप्नुवन्ति ॥ २३९.६२॥
इति श्रीमहापुराणे आदिब्राह्मे व्यासर्षिसंवादे योगविधिनिरूपणं नाम
एकोनचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ २३९॥
अध्यायः २४० (१३२)
सांख्यविधिनिरूपणम्
मुनय ऊचुः
सम्यक्क्रियेयं विप्रेन्द्र वर्णिता शिष्टसंमता ।
योगमार्गो यथान्यायं शिष्यायेह हितषिणा ॥ २४०.१॥
सांख्ये त्विदानीं धर्मस्य विधिं प्रब्रूहि तत्त्वतः ।
त्रिषु लोकेषु यज्ज्ञानं सर्वं तद्विदितं हि ते ॥ २४०.२॥
व्यास उवाच
शृणुध्वं मुनयः सर्वमाख्यानं विदितात्मनाम् ।
विहितं यतिभिर्वृद्धैः कपिलादिभिरीश्वरैः ॥ २४०.३॥
यस्मिन्सुविभ्रामाः केचिद्दृश्यन्ते मुनिसत्तमाः ।
गुणाश्च यस्मिन्बहवो दोषहानिश्च केवला ॥ २४०.४॥
ज्ञानेन परिसंख्याय सदोषान्विषयान्द्विजाः ।
मानुषान्दुर्जयान्कृत्स्नान्पैशाचान्विषयांस्तथा ॥ २४०.५॥
विषयानौरगाञ्ज्ञात्वा गन्धर्वविषयांस्तथा ।
पितॄणां विषयाञ्ज्ञात्वा तिर्यक्त्वं चरतां द्विजाः ॥ २४०.६॥
सुपर्णविषयाञ्ज्ञात्वा मरुतां विषयांस्तथा ।
महर्षिविषयांश्चैव राजर्षिविषयांस्तथा ॥ २४०.७॥
आसुरान्विषयाञ्ज्ञात्वा वैश्वदेवांस्तथैव च ।
देवर्षिविषयाञ्ज्ञात्वा योगानामपि वै परान् ॥। २४०.८॥
विषयांश्च प्रमाणस्य ब्रह्मणो विषयांतथा ।
आयुषश्च परं कालं लोकैर्विज्ञाय तत्त्वतः ॥ २४०.९॥
सुखस्य च परं कालं विज्ञाय मुनिसत्तमाः ।
प्राप्तकाले च यद्दुःखं पततां विषयैषिणाम् ॥ २४०.१०॥
तिर्यक्त्वे पततां विप्रास्तथैव नरकेषु यत् ।
स्वर्गस्य च गुणाञ्ज्ञात्वा दोषान्सर्वांश्च भो द्विजाः ॥ २४०.११॥
वेदवादे च ये दोषा गुणा ये चापि वैदिकाः ।
ज्ञानयोगे च ये दोषा ज्ञानयोगे च ये गुणाः ॥ २४०.१२॥
सांख्यज्ञाने च ये दोषांस्तथैव च गुणां तथा ।
षड्गुणं च नभो ज्ञात्वा तमश्च त्रिगुणं महत् ॥ २४०.१३॥
तमश्चाष्टगुणं ज्ञात्वा बुद्धिं सप्तगुणां तथा ।
षड्गुणं च नभो ज्ञात्वा तपश्च त्रिगुणं महत् ॥ २४०.१४॥
द्विगुणं च रजो ज्ञात्वा सत्त्वं चैकगुणं पुनः ।
मार्गं विज्ञाय तत्त्वेन प्रलयप्रेक्षणेन तु ॥ २४०.१५॥
ज्ञानविज्ञानसम्पन्नाः कारणैर्भावितात्मभिः ।
प्राप्नुवन्ति शुभं मोक्षं सूक्ष्मा इव नभः परम् ॥ २४०.१६॥
रूपेण दृष्टिं संयुक्तां घ्राणं गन्धगुणेन च ।
शब्दग्राह्यं तथा श्रोत्रं जिह्वां रसगुणेन च ॥ २४०.१७॥
त्वचं स्पर्शं तथा शक्यं वायुं चैव तदाश्रितम् ।
मोहं तमसि संयुक्तं लोभं मोहेषु संश्रिताः ॥ २४०.१८॥
विष्णुं क्रान्ते बले शक्रं कोष्ठे सक्तं तथाऽनलम् ।
अप्सु देवीं समायुक्तामापस्तेजसि संश्रिताः ॥ २४०.१९॥
तेजो वायौ तु संयुक्तं वायुं नभसि चाऽऽश्रितम् ।
नभो महति संयुक्तं तमो महसि संस्थितम् ॥ २४०.२०॥
रजः सत्त्वं तथा सक्तं सत्त्वं सक्तं तथाऽऽत्मनि ।
सक्तमात्मानमीशे च देवे नारायणे तथा ॥ २४०.२१॥
देवं मोक्षे च संयुक्तं ततो मोक्षं च न क्वचित् ।
ज्ञात्वा सत्त्वगुणं देहं वृतं षोडशभिर्गुणैः ॥ २४०.२२॥
स्वभावं भावनां चैव ज्ञात्वा देहसमाश्रिताम् ।
मध्यस्थमिव चाऽऽत्मानं पापं यस्मिन्न विद्यत ॥ २४०.२३॥
द्वितीयं कर्म वै ज्ञात्वा विप्रेन्द्रा विष्यैषिणाम् ।
इन्द्रियाणीन्द्रियार्थांश्च सर्वानात्मनि संश्रितान् ॥ २४०.२४॥
दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम् ।
प्राणापानौ समानं च व्यानोदानौ च तत्त्वतः ॥ २४०.२५॥
आद्यं चैवानिलं ज्ञात्वा प्रभवं चानिलं पुनः ।
सप्तधा तांस्तथा शेषासप्तधा विधिवत्पुनः ॥ २४०.२६॥
प्रजापतीनृषींश्चैव सर्गांश्च सुबहून्वरान् ।
सप्तर्षीश्च बहूञ्ज्ञात्वा राजर्षींश्च परंतपान् ॥ २४०.२७॥
सुरर्षीन्मरुतश्चान्यान्ब्रह्मर्षीन्सूर्यसंनिभान् ।
ऐश्वर्याच्च्यावितान्दृष्ट्वा कालेन महता द्विजाः ॥ २४०.२८॥
महतां भूतसंघानां श्रुत्वा नाशं च भो द्विजाः ।
गतिं वाचां शुभां ज्ञात्वा अर्चार्हाः पापकर्मणाम् ॥ २४०.२९॥
वैतरण्यां च यद्दुःखं पतितानां यमक्षये ।
योनिषु च विचित्रासु संचारानशुभांस्तथा ॥ २४०.३०॥
जठरे चाशुभे वासं शोणितोदकभाजने ।
श्लेष्ममूत्रपुरीषे च तीव्रगन्धसमन्विते ॥ २४०.३१॥
शुक्रशोणितसंघाते मज्जास्नायुपरिग्रहे ।
शिरशतसमाकीर्णे नवद्वारे पुरेऽथ वै ॥ २४०.३२॥
विज्ञाय हितमात्मानं योगांश्च विविधान्द्विजाः ।
तामसानां च जन्तूनां रमणीयानृतात्मनाम् ॥ २४०.३३॥
सात्त्विकानां च जन्तूनां कुत्सितं मुनिसत्तमाः ।
गर्हिंतं महातामर्थे सांख्यानां विदितात्मनाम् ॥ २४०.३४॥
उपप्लवांस्तथा घोराञ्शशिनस्तेजस्तथा ।
ताराणां पतनं दृष्ट्वा नक्षत्राणां च पर्ययम् ॥ २४०.३५॥
द्वंद्वानां विप्रयोगं च विज्ञाय कृपणं द्विजाः ।
अन्योन्यभक्षणं दृष्ट्वा भूतानामपि चाशुभम् ॥ २४०.३६॥
बाल्ये मोहं च विज्ञाय पक्षदेहस्य चाशुभम् ।
रागं मोहं च सम्प्राप्तं क्वचित्सत्त्वं समाश्रितम् ॥ २४०.३७॥
सहस्रेषु नरः कश्चिन्मोक्षबुद्धिं समाश्रितः ।
दुर्लभत्वं च मोक्षस्य विज्ञानं श्रुतिपूर्वकम् ॥ २४०.३८॥
बहुमानमलब्धेषु लब्धे मध्यस्थतां पुनः ।
विषयाणां च दौरात्म्यं विज्ञाय च पुनर्द्विजाः ॥ २४०.३९॥
गतासूनां च सत्त्वानां देहान्भित्त्वा तथा शुभान् ।
वासं कुलेषु जन्तूनां मरणाय धृतात्मनाम् ॥ २४०.४०॥
सात्त्विकानां च जन्तूनां दुःखं विज्ञाय भो द्विजाः ।
ब्रह्मघ्नानां गतिं ज्ञात्वा पतितानां सुदारुणाम् ॥ २४०.४१॥
सुरापाने च सक्तानां ब्राह्मणानां दुरात्मनाम् ।
गुरुदारप्रसक्तानां गतिं विज्ञाय चाशुभाम् ॥ २४०.४२॥
जननीषु च वर्तन्ते येन सम्यग्द्विजोत्तमाः ।
सदेवकेषु लोकेषु येन वर्तन्ति मानवाः ॥ २४०.४३॥
तेन ज्ञानेन विज्ञाय गतिं चाशुभकर्मणाम् ।
तिर्यग्योनिगतानां च विज्ञाय च गतीः पृथक् ॥ २४०.४४॥
वेदवादांस्तथा चित्रानृतूनां पर्ययांस्तथा ।
क्षयं संवत्सराणां च मासानां च क्षयं तथा ॥ २४०.४५॥
पक्षक्षयं तथा दृष्ट्वा दिवसानां च संक्षयम् ।
क्षय संवत्सराणां च मासानां च क्षयं तथा ॥ २४०.४६॥
वृद्धिं दृष्ट्वा समुद्राणां क्षयं तेषां तथा पुनः ।
क्षयं धनानां दृष्ट्वा च पुनर्वृद्धिं तथैव च ॥ २४०.४७॥
संयोगानां तथा दृष्ट्वा युगानां च विशेषतः ।
देहवैक्लव्यतां चैव सम्यग्विज्ञाय तत्त्वतः ॥ २४०.४८॥
आत्मदोषांश्च विज्ञाय सर्वानात्मनि संस्थितान् ।
स्वदेहादुत्थितान्गन्धांस्तथा विज्ञाय चाशुभाम् ॥ २४०.४९॥
मुनय ऊचुः
कानुत्पातभवान्दोषान्पश्यति ब्रह्मवित्तम ।
एतं नः संशयं कृत्स्नं वक्तुमर्हस्यशेषतः ॥ २४०.५०॥
व्यास उवाच
पञ्च दोषान्द्विजा देहे प्रवदन्ति मनीषिणः ।
मार्गज्ञाः कापिलाः सांख्याः शृणुध्वं मुनिसत्तमाः ॥ २४०.५१॥
कामक्रोधौ भयं निद्रा पञ्चमः श्वास उच्यते ।
एते दोषाः शरीरेषु दृश्यन्ते सर्वदेहिनाम् ॥ २४०.५२॥
छिन्दन्ति क्षमया क्रोधं कामं संकल्पवर्जनात् ।
सत्त्वसंसेवनान्निद्रामप्रमादाद्भयं तथा ॥ २४०.५३॥
छिन्दन्ति पञ्चमं श्वासमल्पाहारतया द्विजाः ।
गुणान्गुणशतैर्ज्ञात्वा दोषान्दोषशतैरपि ॥ २४०.५४॥
हेतून्हेतुशतैश्चित्रैश्चित्रान्विज्ञाय तत्त्वतः ।
अपां फेनोपमं लोकं विष्णोर्मायाशतैः कृतम् ॥ २४०.५५॥
चित्रभित्तिप्रतीकाशं नलसारमनर्थकम् ।
तमः संभ्रमितं दृष्ट्वा वर्षबुद्बुदसंनिभम् ॥ २४०.५६॥
नाशप्रायं सुखाधानं नाशोत्तरमहाभयम् ।
रजस्तमसि संमग्नं पङ्के द्विपमिवावशम् ॥ २४०.५७॥
सांख्या विप्रा महाप्राज्ञास्त्यक्त्वा स्नेहं प्रजाकृतम् ।
ज्ञानज्ञेयेन सांख्येन व्यापिना महता द्विजाः ॥ २४०.५८॥
राजसानशुभान्गन्धांस्तामसांश्च तथाविधान् ।
पुण्यांश्च सात्त्विकान्गन्धान्स्पर्शजान्देहसंश्रितान् ॥ २४०.५९॥
छित्त्वाऽऽमज्ञानशस्त्रेण तपोदण्डेन सत्तमाः ।
ततो दुःखादिकं घोरं चिन्ताशोकमहाह्रदम् ॥ २४०.६०॥
व्याधिमत्युमहाघोरं महाभयमहोरगम् ।
ततः कूर्मं रजोमीनं प्रज्ञया संतरन्त्युत ॥ २४०.६१॥
स्नेहपङ्कं जरादुर्गं स्पर्शद्वीपं द्विजोत्तमाः ।
कर्मागाधं सत्यतीरं स्थितं व्रतमनीषिणः ॥ २४०.६२॥
हर्षसंघमहावेगं नानारससमाकुलम् ।
नानाप्रीतिमहारत्नं दुःखज्वरसमीरितम् ॥ २४०.६३॥
शोकतृष्णामहावर्तं तीक्ष्णव्याधिमहारुजम् ।
अस्थिसंघातसंघट्टं श्लेष्मयोगं द्विजोत्तमाः ॥ २४०.६४॥
दानमुक्ताकरं घोरं शोणितोद्गारविद्रुमम् ।
हसितोत्क्रुष्टनिर्घोषं नानाज्ञासुदुष्करम् ॥ २४०.६५॥
रोदनाश्रुमलक्षारं सङ्गयोगपरायणम् ।
प्रलब्ध्वा जन्मलोको यं पुत्रबान्धवपत्तनम् ॥ २४०.६६॥
अहिंसासत्यमर्यादं प्राणयोगमयोर्मिलम् ।
वृन्दानुगामिनं क्षीरं सर्वभूतपयोदधिम् ॥ २४०.६७॥
मोक्षदुर्लभविषयं वाडवासुखसागरम् ।
तरन्ति यतयः सिद्धा ज्ञानयोगेन चानघाः ॥ २४०.६८॥
तीर्त्वा च दुस्तरं जन्म विशन्ति विमलं नभः ।
ततस्तान्सुकृतीञ्ज्ञात्वा सूर्यो वहतिरश्मिभिः ॥ २४०.६९॥
पद्मतन्तुवदाविश्य प्रवहन्विषयान्द्विजाः ।
तत्र तान्प्रवहो वायुः प्रतिगृह्णाति चानघाः ॥ २४०.७०॥
वीतरागान्यतीन्सिद्धान्वीर्ययुक्तांस्तपोधनान् ।
सूक्ष्मः शीतः सुगन्धश्च सुखस्पर्शश्च भो द्विजाः ॥ २४०.७१॥
सप्तानां मरुतां श्रेष्ठो लोकान्गच्छति यः शुभान् ।
स तान्वहति विप्रेन्द्रा नभसः परमां गतिम् ॥ २४०.७२॥
नभो वहति लोकेशान्रजसः परमां गतिम् ।
रजो वहति विप्रेन्द्राः सत्त्वस्य परमांगतिम् ॥ २४०.७३॥
सत्त्वं वहति शुद्धात्मा परं नारायणं प्रभुम् ।
प्रभुर्वहति शुद्धात्मा परमात्मानमात्मना ॥ २४०.७४॥
परमात्मानमासाद्य तद्भूता यतयोऽमलाः ।
अमृतत्वाय कल्पन्ते न निवर्तन्ति च द्विजाः ॥ २४०.७५॥
परमा सा गतिर्विप्रा निर्द्वन्द्वानां महात्मनाम् ।
सत्यार्जवरतानां वै सर्वभूतदयावताम् ॥ २४०.७६॥
मुनय ऊचुः
स्थानमुत्तममासाद्य भगवन्तं स्थिरव्रताः ।
आजन्ममरणं वा ते रमन्ते तत्र वा न वा ॥ २४०.७७॥
यदत्र तथ्यं तत्त्वं नो यथावद्वक्तुमर्हसि ।
त्वदृते मानवं नान्यं प्रष्टुमर्हाम सत्तम ॥ २४०.७८॥
मोक्षदोषो महानेष प्राप्य सिद्धिं गतानृषीन् ।
यदि तत्रैव विज्ञाने वर्तन्ते यतयः परे ॥ २४०.७९॥
प्रवृत्तिलक्षणं धर्मं पश्याम परमं द्विज ।
मग्नस्य हि परे ज्ञाने किंतु दुःखान्तरं भवेत् ॥ २४०.८०॥
व्यास उवाच
यथानायायं मुनिश्रेष्ठाः प्रश्नः पृष्टश्च संकटः ।
बुधानामपि संमोहः प्रश्नेऽस्मिन्मुनिसत्तमाः ॥ २४०.८१॥
अत्रापि तत्त्वं परमं शृणुध्वं वचनं मम ।
बुद्धिश्च परमा यत्र कपिलानां महात्मनाम् ॥ २४०.८२॥
इन्द्रियाण्यपि बुध्यन्ते स्वदेहं देहिनां द्विजाः ।
करणान्यात्मनस्तानि सूक्ष्मं पश्यन्ति तैस्तु सः ॥ २४०.८३॥
आत्मना विप्रहीणानि काष्ठकुड्यसमानि तु ।
विनश्यन्ति न संदेहो वेला इव महार्णवे ॥ २४०.८४॥
इन्द्रियैः सह सुप्तस्य देहिनो द्विजसत्तमाः ।
सूक्ष्मश्चरति सर्वत्र नभसीव समीरणः ॥ २४०.८५॥
स पश्यति यथान्यायं स्मृत्वा स्पृशति चानघाः ।
बुध्यमानो यथापूर्वमखिलेनेह भो द्विजाः ॥ २४०.८६॥
इन्द्रियाणि ह सर्वाणि स्वे स्वे स्थाने यथाविधि ।
अनीशत्वात्प्रलीयन्ते सर्पा विषहता इव ॥ २४०.८७॥
इन्द्रियाणि ह सर्वाणि स्वस्थानेष्वेव सर्वशः ।
आक्रम्य गतयः सूक्ष्माव(श्च)रत्यात्मा न संशयः ॥ २४०.८८॥
सत्त्वस्य च गुणान्कृत्स्नान्रजसश्च गुणान्पुनः ।
गुणांश्च तमसः सर्वान्गुणान्बुद्धेश्च सत्तमाः ॥ २४०.८९॥
गुणांश्च मनसश्चापि नभसश्च गुणांस्तथा ।
गुणान्वायोश्च सर्वज्ञाः स्नेहजांश्च गुणान्पुनः ॥ २४०.९०॥
अपां गुणास्तथा विप्राः पार्थिवांश्च गुणानपि ।
सर्वानेव गुणैर्व्याप्य क्षेत्रज्ञेषु द्विजोत्तमाः ॥ २४०.९१॥
आत्मा चरति क्षेत्रज्ञः कर्मणा च शुभाशुभे ।
शिष्या इवमहात्मानमिन्द्रियाणि च तं द्विजाः ॥ २४०.९२॥
प्रकृतिं चाप्यतिक्रम्य सुद्धं सूक्ष्मं परात्परम् ।
नारायणं महात्मानं निर्विकारं परात्परम् ॥ २४०.९३॥
विमुक्तं सर्वपापेक्ष्यः प्रविष्टं च ह्यनामयम् ।
परमात्मानमगुणं निर्वृतं तं च सप्तमाः ॥ २४०.९४॥
श्रेष्ठं तत्र मनो विप्रा इन्द्रियाणि च भोः द्विजाः ।
आगच्छन्ति यथाकालं गुरोः संदेशकारिणः ॥ २४०.९५॥
शक्यं वाऽल्पेन कालेन शान्तिं प्राप्तुं गुणांस्तथा ।
एवमुक्तेन विप्रेन्द्राः सांख्य योगेन मोक्षिणीम् ॥ २४०.९६॥
सांख्या विप्रा महाप्राज्ञा गच्छन्ति परमां गतिम् ।
ज्ञानेनानेन विप्रेन्द्रास्तुल्यं ज्ञानं न विद्यते ॥ २४०.९७॥
अत्र वः संशयो मा भूज्ज्ञानं सांख्यं परं मतम् ।
अक्षरं ध्रुवमेवोक्तं पूर्वं ब्रह्म सनातनम् ॥ २४०.९८॥
अनादिमध्यनिधनं निर्द्वंद्वं कर्तृ शाश्वतम् ।
कूटस्थं चैव नित्यं च यद्वदन्ति शमात्मकाः ॥ २४०.९९॥
यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः ।
एवं शंसन्ति शास्त्रेषु प्रवक्तारो महर्षयः ॥ २४०.१००॥
सर्वे विप्राश्च वेदाश्च तथा सामविदो जनाः ।
ब्रह्मण्यं परमं देवमनन्तं परमाच्युतम् ॥ २४०.१०१॥
प्रर्थयन्तश्च तं विप्रा वदन्ति गुणबुद्धयः ।
सम्यगुक्तास्तथा योगाः सांख्याश्चामितदर्शनाः ॥ २४०.१०२॥
अमूर्तिस्तस्य विप्रेन्द्राः सांख्यं मूर्तिरिति श्रुतिः ।
अभिज्ञानानि तस्याऽऽहुर्महान्ति मुनिसत्तमाः ॥ २४०.१०३॥
द्विविधानि हि भूतानि पृथिव्यां द्विजसत्तमाः ।
अगम्यगम्यसंज्ञानि गम्यं तत्र विशिष्यते ॥ २४०.१०४॥
ज्ञानं महद्वै महतश्च विप्रा, वेदेषु सांख्येषु तथैव योगे ।
यच्चापि दृष्टं विधिवत्पुराणे, सांख्यागतं तन्निखिलं मुनीन्द्राः ॥ २४०.१०५॥
यच्चेतिहासेषु महत्सु दृष्टं, यथार्थशास्त्रेषु विशिष्टदृष्टम् ।
ज्ञानं च लोके यदिहास्ति किंचित्सांख्यागतं तच्च महामुनीन्द्राः ॥ २४०.१०६॥
समस्तदृष्टं परमं बलं च, ज्ञानं च मोक्षश्च यथावदुक्तम् ।
तपांसि सूक्ष्माणि च यानि चैव, सांख्यं यथावद्विहितानि विप्राः ॥ २४०.१०७॥
विपर्ययं तस्य हितं सदैव, गच्छन्ति सांख्याः सततं सुखेन ।
तांश्चापि संधार्य ततः कृतार्थाः, पतन्ति विप्रायतनेषु भूयः ॥ २४०.१०८॥
हित्वा च देहं प्रविशन्ति मोक्षं दिवौकसश्चापि च योगसांख्याः ।
अतोऽधिकं तेऽभिरता महार्हे, साख्ये द्विजा भो इह शिष्टजुष्टे ॥ २४०.१०९॥
तेषां तु तिर्यग्गमनं हि दृष्टं, नाधो गतिः पापकृतां निवासः ।
न वा प्रधाना अपि ते द्विजातयो, ये ज्ञानमेतन्मुनयो न सक्ताः ॥ २४०.११०॥
सांख्यां विशालं परमं पुराणं, महार्णवं विमलमुदारकान्तम् ।
कृत्स्नं हि सांख्या मुनया महात्मनारायणे धारयथाप्रमेयम् ॥ २४०.१११॥
एतन्मयोक्तं परमं हि तत्त्वं, नारायणाद्विश्वमिदं पुराणम् ।
स सर्गकाले च करोति सर्गं, संहारकाले च हरेत भूयः ॥ २४०.११२॥
इति श्रीमहापुराणे आदिब्राह्मे व्यासऋषिसंवादे सांख्यविधिनिरूपणं
नामैकोनचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ २४०॥
अध्यायः २४१ (१३३)
वसिष्ठकरालजनकसंवादे क्षराक्षरविचारनिरूपणम्
मुनय ऊचुः
किं तदक्षरमित्युक्तं यस्मान्नाऽऽवर्तते पुनः ।
किंस्वित्तत्क्षरमित्युक्तं यस्मादावर्तते पुनः ॥ २४१.१॥
अक्षराक्षरयोर्व्यक्तिं पृच्छामस्त्वां महामुने ।
उपलब्धुं मुनिश्रेष्ठ तत्त्वेन मुनिपुंगव ॥ २४१.२॥
त्वं हि ज्ञानविदां श्रेष्ठः प्रोच्यसे वेदपारगैः ।
ऋषिभिश्च महाभागैर्यतिभिश्च महात्मभिः ॥ २४१.३॥
तदेतच्छ्रोतुमिच्छास्त्वत्तः सर्वं महामते ।
न तृप्तिमधिगच्छामः शृण्वन्तोऽमृतमुत्तमम् ॥ २४१.४॥
व्यास उवाच
अत्र वो वर्णयिष्यामि इतिहासं पुरातनम् ।
वसिष्ठस्य च संवादं करालजनकस्य च ॥ २४१.५॥
वसिष्ठं श्रेष्ठमासीनमृषीणां भास्करद्युतिम् ।
पप्रच्छ जनको राजा ज्ञानं नैःश्रेयसं परम् ॥ २४१.६॥
परमात्मनि कुशलमध्यात्मगतिनिश्चयम् ।
मैत्रावरुणमिमासीनमभिवाद्य कृताञ्जलिः ॥ २४१.७॥
स्वच्छन्दं सुकृतं चैव मधुरं चाप्यनुल्बणम् ।
पप्रच्छर्षिवरं राजा करालजनकः पुरा ॥ २४१.८॥
करालजनक उवाच
भगवञ्श्रोतुमिच्छामि परं ब्रह्म सनातनम् ।
यस्मिन्न पुनरावृत्तिं प्राप्नुवन्ति मनीषिणः ॥ २४१.९॥
यच्च तत्क्षरमित्युक्तं यत्रेदं क्षरते जगत् ।
यच्चाक्षरमिति प्रोक्तं शिवं क्षेममनामयम् ॥ २४१.१०॥
वसिष्ठ उवाच
श्रूयतां पृथिवीपाल क्षरतीदं यथा जगत् ।
यत्र क्षरति पूर्वेण यावत्कालेन चाप्यथ ॥ २४१.११॥
युगं द्वादशसाहस्रं कल्पं विद्धि चतुर्युगम् ।
दशकल्पशतावर्तंमहस्तद्ब्राह्मुच्यते ॥ २४१.१२॥
रात्रिश्चैतावती राजन्यस्यन्ते प्रतिबुध्यते ।
सृजत्यनन्तकर्माणि महान्तं भूतमग्रजम् ॥ २४१.१३॥
मूर्तिमन्तममूर्तात्मा विश्वं शंभुः स्वयंभुवः ।
यत्रोत्पत्तिं प्रवक्ष्यामि मूलतो नृपसत्तम ॥ २४१.१४॥
अणिमा लघिमा प्राप्तिरीशानं ज्योतिरव्ययम् ।
सर्वतःपाणिपादान्तं सर्वतोऽक्षिशिरोमुखम् ॥ २४१.१५॥
सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ।
हिरण्यगर्भो भगवानेष बुद्धिरिति स्मृतिः ॥ २४१.१६॥
महानिति च योगेषु विरिञ्चिरिति चाप्यथ ।
सांख्ये च पठ्यते शास्त्रे नामभिर्बहुधात्मकः ॥ २४१.१७॥
विचित्ररूपो विश्वात्मा एकाक्षर इति श्रुतः ।
धृतमेकात्मकं येन कृत्स्नं त्रैलोक्यमात्मना ॥ २४१.१८॥
तथैव बहुरूपत्वाद्विश्वरूप इति श्रुतः ।
एष वै विक्रियापन्नः सृजत्यात्मानमात्मना ॥ २४१.१९॥
प्रधानं तस्य संयोगादुत्पन्नं सुमहत्पुरम् ।
अहंकारं महातेजाः प्रजापतिनमस्कृतम् ॥ २४१.२०॥
अव्यक्ताद्व्यक्तिमापन्नं विद्यासर्गं वदन्ति तम् ।
महान्तं चाप्यहंकारमविद्यासर्ग एव च ॥ २४१.२१॥
अचरश्च चरश्चैव समुत्पन्नौ तथैकतः ।
विद्याऽविद्योति विख्याते श्रुतिशास्त्रानुचिन्तकैः ॥ २४१.२२॥
भूतसर्गमहंकारत्तृतीयं विद्धि पार्थिव ।
अहंकारेषु नृपते चतुर्थं विद्धि वैकृतम् ॥ २४१.२३॥
वायुर्ज्योतिरथाऽऽकाशमापोऽथ पृथिवी तथा ।
शब्दस्पर्शौ च रूपं च रसो गन्धस्तथैव च ॥ २४१.२४॥
एवं युगपदुत्पन्नं दशवर्गमसंशयम् ।
पञ्चमं विद्धि राजेन्द्र भौतिकं सर्गमर्थकृत् ॥ २४१.२५॥
श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणमेव च पञ्चमम् ।
वाघस्तौ चैव पादौ च पायुर्मेढ्रं तथैव च ॥ २४१.२६॥
बुद्धीन्द्रियाणि चैतानि तथा कर्मेन्द्रियाणि च ।
संभूतानीह युगपन्मनसा सह पार्थिव ॥ २४१.२७॥
एषा तत्त्वचतुर्विंशा सर्वाऽऽकृतिः प्रवर्तते ।
यां ज्ञात्वा नाभिशोचन्ति ब्राह्मणास्तत्त्वदर्शिनः ॥ २४१.२८॥
एवमेतत्समुत्पन्नं त्रैलोक्यमिदमुत्तमम् ।
वेदितव्यं नरश्रेष्ठ सदैव नरकार्णवे ॥ २४१.२९॥
सयक्षभूतगन्धर्वे सकिंनरमहोरगे ।
सचारणपिशाचे वै सदेवर्षिनिशाचरे ॥ २४१.३०॥
सदंशकीटमशके सपूतिकृमिमूषके ।
शुनि श्वपाके चैणेये सचाण्डाले सपुल्कसे ॥ २४१.३१॥
हस्त्यश्वखरशार्दूले सवृके गवि चैव ह ।
या च मूर्तिश्च यत्किंचित्सर्वत्रैतन्निदर्शनम् ॥ २४१.३२॥
जले भुवि तथाऽऽकाशे नान्यत्रेति विनिश्चयः ।
स्थानं देहवतामासीदित्येवनुशुश्रुम ॥ २४१.३३॥
कृत्स्नमेतावतस्तात क्षरते व्यक्तसंज्ञकः ।
अहन्यहनि भूतात्मा यच्चाक्षर इति स्मृतम् ॥ २४१.३४॥
ततस्तत्क्षरमित्युक्तं क्षरतीदं यथा जगत् ।
जगन्मोहात्मकं चाऽऽहुरव्यक्ताद्व्यक्तसंज्ञकम् ॥ २४१.३५॥
महांश्चैवाक्षरो नित्यमेतत्क्षरविवर्जनम् ।
कथितं ते महाराज यस्मान्नाऽऽवर्तते पुनः ॥ २४१.३६॥
पञ्चविंशतिकोऽमूर्तः स नित्यस्तत्त्वसंज्ञकः ।
सत्त्वसंश्रयणात्तत्वं सत्त्वमाहुर्मनीषिणः ॥ २४१.३७॥
यदमूर्तिः सृजद्व्यक्तं तन्मूर्तिमधितिष्ठति ।
चतुर्विंशतिमो व्यक्तो ह्यमूर्तिः पञ्चविंशकः ॥ २४१.३८॥
स एव हृदि सर्वासु मूर्तिष्वातिष्ठताऽऽत्मवान् ।
चेतयंश्चेतनीं नित्यं सर्वमूर्तिरमूर्तिमान् ॥ २४१.३९॥
सर्गप्रलयधर्मेण स सर्गप्रलयात्मकः ।
गोचरे वर्तते नित्यं निर्गुणो गुणसंज्ञितः ॥ २४१.४०॥
एवमेष महात्मा च सर्गप्रलयकोटिशः ।
विकुर्वाणः प्रकृतिमान्नाभिमन्येत बुद्धिमान् ॥ २४१.४१॥
तमःसत्त्वरजोयुक्तस्तासु तास्विह योनिषु ।
लीयते प्रतिबुद्धत्वादबुद्धजनसेवनात् ॥ २४१.४२॥
सहवासनिवासत्वाद्बालोऽहमिति मन्यते ।
योऽहं न सोऽहमित्युक्ते गुणानेवानुवर्तते ॥ २४१.४३॥
तमसा तामसान्भावन्विविधान्प्रतिपद्यते ।
रजसा राजसांश्चैव सात्त्विकान्सत्त्वसंक्षयात् ॥ २४१.४४॥
शुक्ललोहितकृष्णानि रूपाण्येतानि त्रीणि तु ।
सर्वाण्येतानि रूपाणि जानीहि प्राकृतानि तु ॥ २४१.४५ ।
तामसा निरयं यान्ति राजसा मानुषानथ ।
सात्त्विका देवलोकाय गच्छन्ति सुखभागिनः ॥ २४१.४६॥
निष्केवलेन पापेन तिर्यग्योनिमवाप्नुयात् ।
पुण्यपापेषु मानुष्यं पुण्यमात्रेण देवताः ॥ २४१.४७॥
एवमव्यक्तविषयं मोक्षमाहुर्मनीषिणः ।
पञ्चविंशतिमो योऽयं ज्ञानादेव प्रवर्तते ॥ २४१.४८॥
इति श्रीमहापुराणे आदिब्राह्मे वसिष्ठकरालजनकसंवादे
क्षराक्षरविचारनिरूपणं नाम एकचत्वारिंशदधिकद्विशततमोऽध्यायः॥
२४१ ॥
अध्यायः २४२ (१३४)
वशिष्ठकरालजनकसंवादवर्णनम्
वसिष्ठ उवाच
एवमप्रतिबुद्धत्वादबुद्धमनुवर्तते ।
देहाद्देहसहस्राणि तथा च न स भिद्यते ॥ २४२.१॥
तिर्यग्योनिसहस्रेषु कदाचिद्देवतास्वपि ।
उत्पद्यति तपोयोगाद्गुणैः सह गुणक्षयात् ॥ २४२.२॥
मनुष्यत्वाद्दिवं याति देवो मानुष्यमेति च ।
मानुष्यान्निरयस्थानमालयं प्रतिपद्यते ॥ २४२.३॥
कोषकारो यथाऽऽत्मानं कीटः समभिरुन्धति ।
सूत्रतन्तुगुणैर्नित्यं तथाऽयमगुणो गुणैः ॥ २४२.४॥
द्वंद्वंमेति च निर्द्वंद्वस्तासु तास्विह योनिषु ।
शीर्षरोगेऽक्षिरोगे च दन्तशूले गलग्रहे ॥ २४२.५॥
जलोदरेऽतिसारे च गण्डमालविचर्चिके ।
श्वत्रकुष्ठेऽग्निदग्धे च सिध्मापस्मारयोरपि ॥ २४२.६॥
यानि चान्यानि द्वंद्वानि प्राकृतानि शरीरिणाम् ।
उत्पद्यन्ते विचित्राणि तान्येवाऽऽत्माऽभिमन्यते ॥ २४२.७॥
अभिमानातिमानानां तथैव सुकृतान्यपि ।
एकवासाश्चतुर्वासाः शायी नित्यमधस्तथा ॥ २४२.८॥
मण्डूकशायी च तथा वीरासनगतस्तथा ।
वीरमासनमाकाशे तथा शयनमेव च ॥ २४२.९॥
इष्टकाप्रस्तरे चैव चक्रकप्रस्तरे तथा ।
भस्माप्रस्तरशायी च भूमिशय्यानुलेपनः ॥ २४२.१०॥
वीरस्थानाम्बुपाके च शयनं फलकेषु च ।
विविधासु च शय्यासु फलगृह्यान्वितासु च ॥ २४२.११॥
उद्याने खललाग्ने तु क्षौमकृष्णाजिनान्वितः ।
मणिवालपरीधानो व्याघ्रचर्मपरिच्छदः ॥ २४२.१२॥
सिंहचर्मपरीधानः पट्टवासास्तथैव च ।
फलकं(?)परिधानश्च तथा कटकवस्त्रधृक् ॥ २४२.१३॥
कटैकवसनश्चैव चीरवासास्तथैव च ।
वस्त्राणि चान्यानि बहून्यभिमत्य य बुद्धिमान् ॥ २४२.१४॥
भोजनानि विचित्राणि रत्नानि विविधानि च ।
एकरात्रान्तराशित्वमेककालिभोजनम् ॥ २४२.१५॥
चतुर्थाष्टमकालं च षष्ठकालिकमेव च ।
षड्रात्रभोजनश्चैव तथा चाष्टाहभोजनः ॥ २४२.१६॥
मासोपवासी मूलाशी फलाहारस्तथैव च ।
वायुभक्षश्च पिण्याकदधिगोमयभोजनः ॥ २४२.१७॥
गोमूत्रभोजनश्चैव काशपुष्पाशनस्तथा ।
शैवालभोजनश्चैव तथा चान्येन वर्तयन् ॥ २४२.१८॥
वर्तयञ्शीर्मपर्णैश्च प्रकीर्णफलभोजनः ।
विविधानि च कृच्छ्राणि सेवते सिद्धिकाङ्क्षया ॥ २४२.१९॥
चान्द्रायणानि विधिवल्लिङ्गानि विविधानि च ।
चातुराश्रम्ययुक्तानि धर्माधर्माश्रयाण्यपि ॥ २४२.२०॥
उपाश्रयानप्यपरान्पाखण्डान्विविधानपि ।
विविक्ताश्च शिलाछायास्तथा प्रस्रवणानि च ॥ २४२.२१॥
पुलिनानि विविक्तानि विविधानि तपांसि च ।
यज्ञांश्च विविधाकारान्विद्याश्च विविधास्तथा ॥ २४२.२२॥
नियमान्विविधांश्चापि विविधानि तपांसि च ।
यज्ञांश्च विविधाकारान्विद्याश्च विविधास्तथा ॥ २४२.२३॥
वणिक्पथं द्विजक्षत्रवैश्यशूद्रांस्तथैव च ।
दानां च विविधाकारं दीनान्धकृपणादिषु ॥ २४२.२४॥
अभिमन्येत संधातुं तथैव विविधान्गुणान् ।
सत्त्वं रजस्तमश्चैव धर्मार्थै काम एव च ॥ २४२.२५॥
यजनाध्ययने दानं तथैवाऽऽहुः प्रतिग्रहम् ।
याजनाध्यापने चैव तथाऽन्यदपि किंचन ॥ २४२.२६॥
यजनाध्ययने दानं तथैवाऽऽहुः प्रतिग्रहम् ।
याजनाध्यापने चैव तथाऽन्यदपि किंचन ॥ २४२.२७॥
जन्ममृत्युविधानेन तथा विशसनेन च ।
शुभाशुभमयं सर्वमेतदाहुः सनातनम् ॥ २४२.२८॥
प्रकृतिः कुरुते देवी भयं प्रलयमेव च ।
दिवसान्ते गुणानेतानतीत्यैकोऽवतिष्ठते ॥ २४२.२९॥
रश्मिजालमिवाऽऽदित्यस्तत्कालं संनियच्छति ।
एवमेवैष तत्सर्वं क्रीडार्थमभिमन्यते ॥ २४२.३०॥
आत्मरूपगुणानेतान्विविधान्हृदयप्रियान् ।
एवमेतां प्रकुर्वाणः सर्गप्रलयधर्मिणीम् ॥ २४२.३१॥
क्रियां क्रियापथे रक्तस्त्रिगुणस्त्रिगुणाधिपः ।
क्रियाक्रियापतोपेतस्तथा तदिति मन्यते ॥ २४२.३२॥
प्रकृत्या सर्वमेवेदं जगदन्धीकृतं विभो ।
रजसा तमसा चैव व्याप्तं सर्वमनेकधा ॥ २४२.३३॥
एवं द्वंद्वान्यतीतानि मम वर्तन्ति नित्यशः ।
मत्त एतानि जायन्ते प्रलये यान्ति मामपि ॥ २४२.३४॥
निस्तर्तव्याण्थैतानि सर्वाणीति नराधिप ।
मन्यते पक्षबुद्धत्वात्तथैव सुकृतान्यपि ॥ २४२.३५॥
भोक्तव्यानि ममैतानि वेवलोकगतेन वै ।
इहैव चैनं भोक्ष्यामि शुभासुभफलोदयम् ॥ २४२.३६॥
सुखमेवं तु कर्तव्यं सकृत्कृत्वा सुखं मम॥
यावदेव तु मे सौख्यं जात्यां जात्यां भविष्यति ॥ २४२.३७॥
भविष्यति न मे दुःखं कृतेनेहाप्यनन्तकम् ।
सुखदुःखं हि मानुष्यं निरये चापि मज्जनम् ॥ २४२.३८॥
निरयाच्चापि मानुष्यं कालेनैष्याम्यहं पुनः ।
मनुष्यत्वाच्च देवत्वं देवत्वात्पौरुषं पुनः ॥ २४२.३९॥
मनुष्यत्वाच्च निरयं पर्यायेणोपगच्छति ।
एष एवं द्विजातीनामात्मा वै स गुणैर्वृतः ॥ २४२.४०॥
तेन देवमनुष्येषु निरयं चोपपद्यते ।
ममत्वेनाऽऽवृतो नित्यं तत्रैव परिवर्तते ॥ २४२.४१॥
सर्गकोटिसहस्राणि मरणान्तासु मूर्तिषु ।
य एवं कुरुते कर्म शूभाशुभफलात्मकम् ॥ २४२.४२॥
स एव फलमाप्नोति त्रिषु लोकेषु मूर्तिमान् ।
प्रकृतिः कुरुते कर्मशुभशुभफलात्मकम् ॥ २४२.४३॥
प्रकृतिश्व तथाऽऽनोति त्रिषु लोकेषु कामणा ।
तिर्यग्योनिमनुष्यत्वले देवलोके तथैव च ॥ २४२.४४॥
त्रीणि स्थानानि चैतानि जानीयात्प्राकृतानि ह ।
अलिङ्गप्रकृतित्वाच्च लिङ्गैरप्यनुमीयते ॥ २४२.४५॥
तथैव पौरुषं लिङ्गमनुमानाद्धि मन्यते ।
स लिङ्गान्तरमासाद्य प्राकृतं लिङ्गमव्रणम् ॥ २४२.४६॥
व्रणद्वाराण्यधिष्ठाय कर्माण्यात्मनि मन्यते ।
श्रोत्रादीनि तु सर्वाणि पञ्च कर्मेन्द्रियाण्यथ ॥ २४२.४७॥
रागादीनि प्रवर्तन्ते गुणेष्विह गुणैः सह ।
अहमेतानि वै कुर्वन्ममैतानीन्द्रियाणिह ॥ २४२.४८॥
निरिन्द्रियो हि मन्येत व्रणवानस्मि निर्व्रणः ।
अलिङ्गो लिङ्गमात्मानमकालं कालमात्मनः ॥ २४२.४९॥
असत्त्वं सत्त्वमात्मानममृतं मृतमात्मनः ।
अमृत्युं मृत्युमात्मात्मानमभवं भवमात्मनः ॥ २४२.५०॥
अक्षेत्रं क्षेत्रमात्मानमसङ्गं सङ्गमात्मनः ।
अतत्त्वं तत्त्वमात्मानमभवं भवमात्मनः ॥ २४२.५१॥
अक्षरं क्षरमात्मानमबुद्धत्वाद्धि मन्यते ।
एवमप्रतिबुद्धत्वादबुद्धजनसेवनात् ॥ २४२.५२॥
सर्गकोटिसहस्राणि पतनान्तानि गच्छति ।
जन्मान्तरसहस्राणि मरणान्तानि गच्छति ॥ २४२.५३॥
तिर्यग्योनिमनुष्यत्वे देवलोके तथैव च ।
चन्द्रमा इव कोशानां पुनस्तत्र सहस्रशः ॥ २४२.५४॥
नीयतेऽप्रतिबुद्धत्वादेवमेव कुबुद्धिमान् ।
कला पञ्चदशी योनिस्तद्धाम इति पठ्यते ॥ २४२.५५॥
नित्यमेव विजानीहि सोमं वै षोडशांशकैः ।
कलया जायतेऽजस्रं पुनः पुनरबुद्धिमान् ॥ २४२.५६॥
धीमांश्चायं न भवति नृप एवं हि जायते ।
षोडशी तु कला सूक्ष्मा स सोम उपधार्यताम् ॥ २४२.५७॥
न तूपयूज्यते देवैर्दैवानपि युनक्ति सः ।
ममत्वं क्षपयित्वा तु जायते नृपसत्तम॥
प्रकृतेस्त्रिगुणायास्तु स एव त्रिगुणो भवेत् ॥ २४२.५८॥
इति श्रीमहापुराणे आदिब्राह्मे वसिष्ठकरालजनकसंवादे
द्विचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ २४२॥
रह्मपुराणम्
अध्यायः २४३ (१३५)
वशिष्ठं प्रति मोक्षधर्मविषयको जनकप्रश्नः
जनक उवाच
अक्षरक्षरयोरेष द्वयोः संबन्ध इष्यते ।
स्त्रीपुंसयोर्वा सम्बन्ध स वै पुरुष उच्यते ॥ २४३.१॥
ऋते तु पुरुषं नेह स्त्री गर्भान्धारयत्युत ।
ऋते स्त्रियं न पुरुषो रूपं निर्वर्तते तथा ॥ २४३.२॥
अन्योन्यस्याभिसंबन्धानयोन्यगुणसंश्रयात् ।
रूपं निर्वर्तयेदेतदेवं सर्वासु योनिषु ॥ २४३.३॥
रत्यर्थमतिसंयोगादन्योन्यगुमसंश्रयात् ।
ऋतौ निर्वर्तते रूपं तद्वक्ष्यामि निदर्शनम् ॥ २४३.४॥
ये गुणाः परुषस्येह ये च मातुर्गुणास्तथा ।
अस्थि स्नायु च मज्जा च जानीमः पितृतो द्विज ॥ २४३.५॥
त्वङ्मासशोणितं चेति मातृजान्यनुशुश्रुम ।
एवमेतद्द्विजश्रेष्ठ वेदशास्त्रेषु पठ्यते ॥ २४३.६॥
प्रमाणं यच्च वेदोक्तं शास्त्रोक्तं यच्च पठ्यते ।
वेदशास्त्रप्रमाणं च प्रमाणं तत्सनातनम् ॥ २४३.७॥
एवमेवाभिसम्बन्धौ नित्यं प्रकृतिपूरुषौ ।
यच्चापि भगवंस्तस्मान्मोक्षधर्मो न विद्यते ॥ २४३.८॥
अथवाऽनन्तरकृतं किंचिदेव निदर्शनम् ।
तन्ममाऽऽचक्ष्व तत्त्वेन प्रत्यक्षो ह्यसि सर्वदा ॥ २४३.९॥
मोक्षकामा वयं चापि काङ्क्षामो यदनामयम् ।
अजेयमजरं नित्यमतीन्द्रियमनीश्वरम् ॥ २४३.१०॥
वसिष्ठ उवाच
यदेतदुक्तं भवता वेदशास्त्रनिदर्शनम् ।
एवमेतद्यता वक्ष्ये तत्त्वग्राही यथा भवान् ॥ २४३.११॥
धार्यते हि त्वाया ग्रन्थ उभयोर्वेदशास्त्रयोः ।
न च ग्रन्थस्य तत्त्वज्ञो यथातत्त्वं नरेश्वर ॥ २४३.१२॥
यो हि वेदे च शास्त्रे च ग्रान्थधारणतत्परः ।
न च ग्रन्तार्थतत्त्वज्ञस्तस्य तद्धारणं वृथा ॥ २४३.१३॥
भारं स वहते तस्य ग्रन्थस्यार्थं न वेत्ति यः ।
यस्तु ग्रन्थार्थतत्त्वज्ञो नास्य ग्रन्थागमो वृथा ॥ २४३.१४॥
ग्रन्थस्यार्थं स पृष्टस्तु मादृशो वक्तुमर्हति ।
यथातत्त्वाभिगमनादर्थं तस्य स विन्दति ॥ २४३.१५॥
न यः समुत्सुकः कश्चिद्ग्रन्थार्थं स्थूलबुद्धिमान् ।
स कथं मन्दविज्ञानो ग्रन्थं वक्ष्यति निर्णयात् ॥ २४३.१६॥
अज्ञात्वा ग्रन्थतत्त्वानि वादं यः कुरुते नरः ।
लोभाद्वाऽप्यथवा दम्भात्स पापी नरकं व्रजेत् ॥ २४३.१७॥
निर्णयं चापि च्छिद्रात्मा न तद्वक्ष्यति तत्त्वतः ।
सोऽपीहास्यार्थतत्त्वज्ञो यस्मान्नैवाऽऽत्मवानपि ॥ २४३.१८॥
तस्मात्त्वं शृणु राजेन्द्र यथैतदनुदृश्यते ।
यथा तत्त्वेन सांख्येषु योगेषु च महात्मसु ॥ २४३.१९॥
यदेव योगाः पश्यन्ति सांख्यं तदनुगम्यते ।
एकं सांख्यां च योगं च यः यपश्यति स बुद्धिमान् ॥ २४३.२०॥
त्वङ्मांसं रुधिरं मेदः पित्तं मज्जाऽस्थि स्नायु च ।
एतदैन्द्रियकं तात यद्भवानित्थमात्थ माम् ॥ २४३.२१॥
द्रव्याद्द्रव्यस्य निर्वृत्तिरिन्द्रियादिन्द्रियं तथा ।
देहाद्देहमवाप्नोति बीजाद्बीजं तथैव च ॥ २४३.२२॥
निरिन्द्रियस्य बीजस्य निर्द्रव्यस्यापि देहिनः ।
कथं गुणा भविष्यन्ति निर्गुणत्वान्महात्मनः ॥ २४३.२३॥
गुणा गुणेषु जायन्ते तत्रैव विरमन्ति च ।
एवं गुणाः प्रकृतिजा जायन्ते न च यान्ति च ॥ २४३.२४॥
त्वङ्मांसं रुधिरं मेदः पित्तं मज्जाऽस्ति स्नायु च ।
अष्टौ तान्यथ शुक्रेण जानीहि प्राकृतेन वै ॥ २४३.२५॥
पुमांश्चैवापुमांस्चैव स्त्रीलिङ्गं प्राकृतं स्मृतम् ।
वायुरेष पुमांश्चैव रस इत्यभिधीयते ॥ २४३.२६॥
अलिङ्गा प्रकृतिर्लिङ्गैरुपलभ्यति साऽऽत्मजैः ।
यथा पुष्पफलैर्नित्यं मूर्तं चामूर्तयस्तथा ॥ २४३.२७॥
एवमप्यनुमानेन स लिङ्गमुपलभ्यते ।
पञ्चविंशतिकस्तात लिङ्गेषु नियतात्मकः ॥ २४३.२८॥
अनादिनिधनोऽनन्तः सर्वदर्शनकेवलः ।
केवलं त्वभिमानित्वाद्गुणेषु गुण उच्यते ॥ २४३.२९॥
गुणा गुणवतः सन्ति निर्गुणस्य कुतो गुणाः ।
तस्मादेवं विजानन्ति ये जना गुणदर्शिनः ॥ २४३.३०॥
यदा त्वेष गुणानेतान्प्राकृतानभिमन्यते ।
तदा स गुणवानेव गुणभेदान्प्रपश्यति ॥ २४३.३१॥
यत्तद्बुद्धेः परं प्राहुः सांख्ययोगं च सर्वशः ।
बुध्यमानं महाप्राज्ञाः प्रबुद्धपरिवर्जनात् ॥ २४३.३२॥
अप्रबुद्धं यथा व्यक्तं स्वगुणैः प्राहुरीश्वरम् ।
निर्गुणं चेश्वरं नित्यमधिष्ठातारमेव च ॥ २४३.३३॥
प्रकृतेश्च गुणानां च पञ्चविंशतिकं बुधाः ।
सांख्ययोगे च कुशला बुध्यन्ते परमैषिणः ॥ २४३.३४॥
यदा प्रबुद्धमव्यक्तमवस्थात(प)ननी(भी)रवः ।
बुध्यमानं न बुध्यन्तेऽवगच्छन्ति समं तदा ॥ २४३.३५॥
एतन्नदर्शनं सम्यङ्न सम्यगनुदर्शनम् ।
बुध्यमानं प्रबुध्यन्ते द्वाभ्यां पृथगरिंदम ॥ २४३.३६॥
परस्परेणैतदुक्तं क्षराक्षरनिदर्शनम् ।
एकत्वदर्शनं चास्य नानात्वं चास्य दर्शनम् ॥ २४३.३७॥
पञ्चविंशतिनिष्ठोऽयं तदा सम्यक्प्रचक्षते ।
एकत्वदर्शनं चास्य नानात्वं चास्य दर्शनम् ॥ २४३.३८॥
तत्त्ववित्तत्त्वयोरेव पृथगेतन्निदर्शनम् ।
पञ्चविंसतिभिस्तत्त्वं तत्त्वमाहुर्मनीषिणः ॥ २४३.३९॥
निस्तत्त्वं पञ्चविंशस्य परमाहुर्मषिणः ।
वर्ज्यस्य वर्ज्यमाचारं तत्त्वं तत्त्वात्सनातनम् ॥ २४३.४०॥
करालजनक उवाच
नानात्वैकत्वमित्युक्तं त्वयैतद्द्विजसत्तम ।
पश्यतस्तद्वि संदिग्धमेतयोर्वै निदर्शनम् ॥ २४३.४१॥
तथा बुद्धप्रबुद्धाभ्यां बुध्यमानस्य चानघ ।
स्थूलबुद्ध्या न पश्यामि तत्त्वमेतन्न संशयः ॥ २४३.४२॥
अक्षरक्षरयोरुक्तं त्वया यदपि कारणम् ।
तदप्यस्थिरबुद्धित्वात्प्रनष्टमिव मेऽनघ ॥ २४३.४३॥
तदेतच्छ्रोतुमिच्छामि नानात्वैकत्वदर्शनम् ।
द्वंद्वं चैवानिरुद्धं च बुध्यमानं च तत्त्वतः ॥ २४३.४४॥
विद्याविद्ये च भगवन्नक्षरं क्षरमेव च ।
सांख्ययोगं च कृत्स्नेन बुद्धाबुद्धिं पृथक्पृथक् ॥ २४३.४५॥
वसिष्ठ उवाच
हन्त ते सम्प्रवक्ष्यामि यदेतदनुपृच्छसि ।
योगकृत्यं महाराज पृथगेव शृणुष्व मे ॥ २४३.४६॥
योगकृत्यं तु योगानां ध्यानमेव परं बलम् ।
तच्चापि द्विविधं ध्यानमाहुर्विद्याविदो जनाः ॥ २४३.४७॥
एकग्रता च मनसः प्राणायामस्तथैव च ।
प्राणायामस्तु सगुणो निर्गुणो मानसस्तथा ॥ २४३.४८॥
मूत्रोत्सर्गे पुरीषे च भोजने च नराधिप(?) ।
द्विकालं नोपभृञ्जीत शेषं भुञ्जीत तत्परः ॥ २४३.४९॥
इन्द्रियाणीन्द्रियार्थेभ्यो निवर्त्य मनसा मुनिः ।
दशद्वादशभिर्वाऽपि चतुर्विंशात्परं यतः ॥ २४३.५०॥
स चोदनाभिर्मतिमान्नात्मानं चोदयेदथ ।
तिष्ठन्तमजरं तं तु यत्तदुक्तं मनीषिभिः ॥ २४३.५१॥
विश्वात्मा सततं ज्ञेय इत्येवमनुसुश्रुम ।
द्रव्यं ह्यहीनमनसो नान्यथेति विनिश्चयः ॥ २४३.५२॥
विमुक्तः सर्वसङ्गेभ्यो लवाहारो जितेन्द्रियः ।
पूर्वरात्रे पार्धे च धारयीत मनो हृदि ॥ २४३.५३॥
स्थिरीकृत्येन्द्रियग्रामं मनसा मिथिलेश्वर ।
मनो बुद्ध्या स्थिरं कृत्वा पाषाण इव निश्चलः ॥ २४३.५४॥
स्थाणुवच्चाप्यकम्प्यः स्याद्दारुवच्चापि निश्चलः ।
बुद्ध्या विधिविधानज्ञास्ततो युक्तं प्रचक्षते ॥ २४३.५५॥
न शृणोति न चाऽऽघ्राति न च पश्यति किंचन ।
न च सपर्शं विजानाति न च संकल्पते मनः ॥ २४३.५६॥
न चापि मन्यते किंचिन्न च बुध्येत काष्ठवत् ।
तदा प्रकृतिमापन्नं युक्तमाहुर्मनीषिणः ॥ २४३.५७॥
न भाति हि यथा दीपो दीप्तिस्तद्वच्च दृश्यते ।
निलिङ्गस्चाधश्चोर्ध्वं च तिर्यग्गतिमवाप्नुयात् ॥ २४३.५८॥
तदा तदुपपन्नश्च यस्मिन्दृष्टे च कथ्यते ।
हृदयस्थोऽन्तरात्मेति ज्ञेयो ज्ञस्तात मद्विधैः ॥ २४३.५९॥
निर्धूम इव सप्तार्चिरादित्य इव रश्मिवान् ।
वैद्युतोऽग्निरिवाऽकाशे पस्यत्यात्मानमात्मनि ॥ २४३.६०॥
यं पस्यन्ति महात्मानो धृतिमन्तो मनीषिणः ।
ब्राह्मणा ब्रह्मयोनिस्था ह्ययोनिममृतात्मकम् ॥ २४३.६१॥
तदेवाऽऽहुरणुभ्योऽणु तन्महद्भ्यो महत्तरम् ।
सर्वत्र सर्वभूतेषु ध्रुवं तिष्ठन्न दृश्यते ॥ २४३.६२॥
बुद्धिद्रव्येण दृश्येन मनोदीपेन लोककृत् ।
महतस्तमसस्ततात पारे तिष्ठन्न तामसः ॥ २४३.६३॥
तमसो दूर इत्युक्तस्तत्त्वज्ञैर्वेदपारगैः ।
विमलो विमतश्चैव निर्लिङ्गोऽलिङ्गसंज्ञकः ॥ २४३.६४॥
योग एष हि लोकानां किमन्यद्योगलक्षणम् ।
एवं पश्यन्प्रपश्येन आत्मानमजरं परम् ॥ २४३.६५॥
योगदर्शनमेतावदुक्तं ते तत्त्वतो मया ।
सांख्यज्ञानं प्रवक्ष्यामि परिसंख्यानिदर्शनम् ॥ २४३.६६॥
अव्यक्तमाहुः प्रख्यानं परां प्रकृतिमात्मनः ।
तस्मान्महात्समुत्पन्नं द्वितीयं राजसत्तम ॥ २४३.६७॥
अहंकारस्तु महतस्तृतीय इति नः श्रुतम् ।
पञ्चभूतान्यहंकारादाहुः सांख्यात्मदर्शिनः ॥ २४३.६८॥
एताः प्रकृतयस्त्वष्टौ विकाराश्चापि षोडश ।
पञ्च चैव विशेषाश्च तथा पञ्चेन्द्रियाणि च ॥ २४३.६९॥
एतावदेव तत्त्वानां सांख्यमाहुर्मनीषिणः ।
सांख्ये सांख्यविधानज्ञा नित्यं सांख्यपथे स्थिताः ॥ २४३.७०॥
यस्माद्यदभिजायेत तत्तत्रैव प्रलीयते ।
लीयन्ते प्रतिलोमानि गृह्यन्ते चान्तरात्मना ॥ २४३.७१॥
आनुलोम्येन जायन्ते लीयन्ते प्रतिलोमतः ।
गुणा गुणेषु सततं सागरस्योर्मयो यथा ॥ २४३.७२॥
सर्गप्रलय एतावान्प्रकृतेर्नृपसत्तम ।
एकत्वं प्रलये चास्य बहुत्वं च तथा सृजि ॥ २४३.७३॥
एवमेव च राजेन्द्र विज्ञेयं ज्ञानकोविदैः ।
अधिष्ठातारमव्यक्तमस्याप्येतन्निदर्शनम् ॥ २४३.७४॥
एकत्वं च बहुत्वं च प्रकृतेरनुतत्त्ववान् ।
एक्तंव प्रलये चास्य बहुत्वं च प्रवर्तनात् ॥ २४३.७५॥
बहुलाऽऽत्मा राजेन्द्र प्रोच्यते यतिसत्तमैः ।
अधिष्ठानादधिष्ठाता क्षेत्राणामिति नः श्रुतम् ॥ २४३.७६॥
अधिष्ठातेति राजेन्द्र प्रोच्यते यतिसत्तमैः ।
अधिष्ठानादधिष्ठाता क्षेत्राणामिति नःश्रुतम् ॥ २४३.७७॥
क्षेत्रं जानाति चाव्यक्तं ज्ञेत्रज्ञ इति चोच्यते ।
अव्यक्तिके पुरे शेते पुरुषश्चेति कथ्यते ॥ २४३.७८॥
अन्यदेव च क्षेत्रं स्यादन्यः क्षेत्रज्ञ उच्यते ।
क्षेत्रमव्यक्त इत्युक्तं ज्ञातारं पञ्चविंशकम् ॥ २४३.७९॥
अन्यदेव च ज्ञानं स्यादन्यज्ज्ञेयं तदुच्यते ।
ज्ञानमव्यक्तमित्युक्तं ज्ञेयो वै पञ्चविंशकम् ॥ २४३.८०॥
अव्यक्तं क्षेत्रमित्युक्तं तथा सत्त्वं तथेश्वरम् ।
अनीश्वरमतत्त्वं च तत्त्वं तत्पञ्चविंशकम् ॥ २४३.८१॥
सांक्यदर्शनमेतावत्परिसंख्या न विद्यते ।
संख्यां प्रकुरुते चैव प्रकृतिं च प्रवक्ष्यते ॥ २४३.८२॥
चत्वारिंशच्चतुर्विंशत्प्रतिसंख्याय तत्त्वतः ।
संख्या सहस्रकृत्या तु निस्तत्त्वः पञ्चविंशकः ॥ २४३.८३॥
पञ्चविंशत्प्रबुद्धात्मा बुध्यमान इति श्रुतः ।
यदा बुध्यति आत्मानं तदा भवति केवलः ॥ २४३.८४॥
सम्यग्दर्शनमेतावद्भाषितं तव तत्त्वतः ।
एवमेतद्विजानन्तः साम्यतां प्रतियान्त्युत ॥ २४३.८५॥
सम्यङ्निदर्शनं नाम प्रत्यक्षं प्रकृतेस्तथा ।
गुणवत्त्वाद्यथैतानि निर्गुणेभ्यस्तथा भवेत् ॥ २४३.८६॥
सम्यङ्निदर्शनं नाम प्रत्यक्षं प्रकृतेस्तथा ।
गुणवत्त्वाद्यथैतानि निर्गुणेभ्यस्तथा भवेत् ॥ २४३.८७॥
पश्यन्त्यमतयो ये नच सम्यक्तेषु च दर्शनम् ।
ते व्यक्तिं प्रतिपद्यन्ते पुनः पुनररिंदम ॥ २४३.८८॥
सर्वमेतद्विजानन्तो न सर्वस्य प्रबोधनात् ।
व्यक्तिभूता भविष्यन्ति व्यक्तस्यैवानुवर्तनात् ॥ २४३.८९॥
सर्वमव्यक्तमित्युक्तमसर्वः पञ्चविंशकः ।
य एवमभिजानन्ति न भयं तेषु विद्यते ॥ २४३.९०॥
इति श्रीमहापुराणे आदिब्राह्मे वसिष्ठकरालजनकसंवादे
त्रिचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ २४३॥
अध्यायः २४४ (१३६)
विद्याविद्ययोःस्वरूपकथनम्
वसिष्ठ उवाच
सांख्यदर्शनमेतावदुक्तं ते नृपसत्तम ।
विद्याविद्ये त्विदानीं मे त्वं निबोधानुपूर्वशः ॥ २४४.१॥
अभेद्यमाहुरव्यक्तं सर्गप्रलयधर्मिणः ।
सर्गप्रलय इत्युक्तं विद्याविद्ये च विंशकः ॥ २४४.२॥
परस्परस्य विद्या वै तन्निबोधानुपूर्वशः ।
यथोक्तमृषिभिस्तात सांख्यस्यातिनिदर्शनम् ॥ २४४.३॥
कर्मेन्द्रियाणां सर्वेषां विद्या बुद्धीन्द्रियं स्मृतम् ।
बुद्धीन्द्रियाणां च तथा विशषा इति नः श्रुतम् ॥ २४४.४॥
विषयाणां मनस्तेषां विद्यामाहुर्मनीषिणः ।
मनसः पञ्च भूतानि विद्या इत्यभिचक्षते ॥ २४४.५॥
अहंकारस्तु भूतानां पञ्चानां नात्र संशयः ।
अहंकारस्तथा विद्या बुद्धिर्विद्या नरेश्वर ॥ २४४.६॥
बुद्ध्या प्रकृतिरव्यक्तं तत्त्वानां परमेश्वरः ।
विद्या ज्ञेया नरश्रेष्ठ विधिश्च परमः स्मृतः ॥ २४४.७॥
अव्यक्तमपरं प्राहुर्विद्या वै पञ्चविंशकः ।
सर्वस्य सर्वमित्युक्तं ज्ञेयज्ञानस्य पारगः ॥ २४४.८॥
ज्ञानमव्यक्तमित्युक्तं ज्ञेयं वै पञ्चविंसकम् ।
तथैव ज्ञानमव्यक्तं विज्ञाता पञ्चविंशकः ॥ २४४.९॥
विद्याविद्ये तु तत्त्वेन मयोक्ते वै विशेषतः ।
अक्षरं च क्षरं चैव यदुक्तं तन्निबोध मे ॥ २४४.१०॥
उभावेतौ क्षरावुक्तौ उभावेतावन(था)क्षरौ ।
कारणं तु प्रवक्ष्यामि यथाज्ञानं तु ज्ञानतः ॥ २४४.११॥
अनादिनिधनावेतौ उभावेवेश्वरौ मतौ ।
तत्तवसंज्ञावुभावेव प्रोच्यते ज्ञानचिन्तकैः ॥ २४४.१२॥
सर्गप्रलयधर्मित्वादव्यक्तं प्राहुरव्ययम् ।
तदेतद्गुणसर्गाय विकुर्वाणं पुनः पुनः ॥ २४४.१३॥
गुणानां महदादीनामुत्पद्यति परस्परम् ।
अधिष्ठानं क्षेत्रमाहुरेतद्वै पञ्चविंशकम् ॥ २४४.१४॥
यदन्तर्गुणजालं तु तद्व्यक्तात्मनि संक्षिपेत् ।
तदहं तद्गुणैस्तस्तु पञ्चविंशे विलीयते ॥ २४४.१५॥
गुणा गुणेषु लीयन्ते तदेका प्रकृतिर्भवेत् ।
क्षेत्रज्ञोऽपि तदा तावत्क्षेत्रज्ञः सम्प्रणीयते ॥ २४४.१६॥
यदाऽक्षरं प्रकृतिर्यं गच्छते गुणसंज्ञिता ।
निर्गुणत्वं च वै देहे गुणेषु परिवर्तनात् ॥ २४४.१७॥
एवमेव च क्षेत्रज्ञः क्षेत्रज्ञानपरिक्षयात् ।
प्रकृत्या निर्गुणस्त्वेष इत्येवमनुशुश्रुम ॥ २४४.१८॥
क्षरो भवत्येष यदा गुणवती गुणेष्वथ ।
प्रकृतिं त्वथ जनाति निर्गुणत्वं तथात्मनः ॥ २४४.१९॥
तथा विशुद्धो भवति प्रकृते परिवर्जनात् ।
अन्योऽहमन्येयमिति यदा बुध्यति बुद्धिमान् ॥ २४४.२०॥
तदैषोऽव्यथतामेति न च मिश्रत्वमाव्रजेत् ।
प्रकृत्या चैष राजेन्द्र मिश्रोऽन्योऽन्यस्य दृश्यते ॥ २४४.२१॥
यदा तु गुणजालं तत्प्राकृतं विजुगुप्सते ।
पश्यते च परं पश्यंस्तदा पश्यंस्तदा पश्यन्नु संसृजेत् ॥ २४४.२२॥
किं मया कृतमेतावद्योऽहं कालनिमज्जनः ।
यथा मत्स्यो ह्यभिज्ञानादनुवर्तितवाञ्जलम् ॥ २४४.२३॥
अहमेव हि संमोहादन्यमन्यं जनाज्जनम् ।
मत्स्यो यथोदकज्ञानादनुवर्तितवानिह ॥ २४४.२४॥
मत्स्योऽन्यत्वमथाज्ञानादुदकान्नाभिमन्यते ।
आत्मानं तदवज्ञानादन्यं चैव न वेद्म्यहम् ॥ २४४.२५॥
ममास्तु धिक्कुबुद्धस्य योऽहं मग्न इमं पुनः ।
अनुवर्तितवान्मोहादन्यमन्यं जनाज्जनम् ॥ २४४.२६॥
अयमनुभवेद्बन्धुरनेन सह मे भयम् ।
साम्यमेकत्वातं यातो यादृशस्तादृशस्त्वहम् ॥ २४४.२७॥
तुल्यतामिह पश्यामि सदृशोऽहमनेन वै ।
अयं हि विमलो व्यक्तमहमीदृशकस्तदा ॥ २४४.२८॥
योऽहमज्ञानसंमोहादज्ञया सम्प्रवृत्तवान् ।
संसर्गादतिसंसर्गात्स्थितः कालमिमं त्वहम् ॥ २४४.२९॥
सोऽहमेवं वशीभूतः कालमेतं न बुद्धवान् ।
उत्तमाधममध्यानां तामहं कथमावसे ॥ २४४.३०॥
समानमायया चेह सहवासमहं कथम् ।
गच्छाम्यबुद्धभावत्वादिहेदीनीं स्थिरो व ॥ २४४.३१॥
सहवासं न यास्यामि कालमेतं विवञ्चनात् ।
वञ्चितो ह्यनया यद्धि निर्विकारो विकारया ॥ २४४.३२॥
न तत्तदपराद्दं स्यादपराधो ह्ययं मम ।
योऽहमत्रभवं सक्तः पराङ्मुखमुपस्थितः ॥ २४४.३३॥
ततोऽस्मिन्बहुरूपोऽथ स्थितो मूर्तिरमूर्तिमान् ।
अमूर्तिश्चाप्यमूर्तात्मा ममत्वेन प्रधर्षितः ॥ २४४.३४॥
प्रकृत्या च तया तेन तासु तास्विह योनिषु ।
निर्ममस्य ममत्वेन विकृतं तासु तासु च ॥ २४४.३५॥
योनिषु वर्तमानेन नष्टसंज्ञेन चेतसा ।
समता न मया काचिदहंकारे कृता मया ॥ २४४.३६॥
आत्मानं बहुधा कृत्वा सोऽयं भूयो युनक्ति माम् ।
इदानीमवबुद्धोऽस्मि निर्ममो निरहंकृतः ॥ २४४.३७॥
ममत्वं मनसा नित्यमहंकारकृतात्मकम् ।
अपलग्नामिमां हित्वा संश्रयिष्ये निरामयम् ॥ २४४.३८॥
अनेन साम्यं यास्यामि नानयाऽहमचेतसा ।
क्षेमं मम सहानेन नैवैकमनया सह ॥ २४४.३९॥
एवं परमसंबोधात्पञ्चविंशोऽनुबुद्धवान् ।
अक्षरत्वं निगच्छति त्यक्त्वा क्षरमनामयम् ॥ २४४.४०॥
अव्यक्तं व्यक्तधर्माणं सगुणं निर्गुणं तथा ।
निर्गुणं प्रथमं दृष्ट्वा तादृग्भवति मैथिल ॥ २४४.४१॥
अक्षरक्षरयोरेतदुक्तं तव निदर्शनम् ।
मयेह ज्ञानसम्पन्नं यथा श्रुतिनिद्रशनात् ॥ २४४.४२॥
निःसंदिग्धं च सूक्ष्मं च विशुद्धं विमलं तथा ।
प्रवक्ष्यामि तु ते भूयस्तन्निबोध यथाश्रुतम् ॥ २४४.४३॥
सांख्ययोगो मया प्रोक्तः शास्त्रद्वयनिदर्शनात् ।
यदेव सांक्यशास्त्रोक्तं योगदर्शनमेव तत् ॥ २४४.४४॥
प्रबोधनपरं ज्ञानं सांख्यानामवनीपते ।
विस्पष्टं प्रोच्यते तत्र शिष्याणां हितकाम्यया ॥ २४४.४५॥
बृहच्चैवमिदं शास्त्रमित्याहुर्विदुषो जनाः ।
अस्मिंश्च शास्त्रे योगानां पुनर्भवपुरःसरम् ॥ २४४.४६॥
पञ्चविंशात्परं तत्त्वं पठ्यते च नराधिप ।
सांख्यानां तु परं तत्त्वं यथावदनुवर्णितम् ॥ २४४.४७॥
बुद्धमप्रतिबुद्धं च बुध्यमानं च तत्त्वतः ।
बुध्यमानं च बुद्धत्वं प्राहुर्योगनिदर्शनम् ॥ २४४.४८॥
बुद्धमप्रतिबुद्धं च बुध्यमानं च तत्त्वतः ।
बुध्यमानं च बुद्धत्वं प्राहुर्योगनिदर्शनम् ॥ २४४.४९॥
इति श्रीमहापुराणे आदिब्राह्मे वसिष्ठकरालजनकसंवादे
चतुश्चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ २४४॥
अध्यायः २४५ (१३७)
अजस्यापि विक्रियया नानाभवनम्
वसिष्ठ उवाच
अप्रबुद्धमथाव्यक्तमिमं गुणनिधिं सदा ।
गुणानां धार्यतां तत्त्वं सृजत्याक्षिपते तथा ॥ २४५.१॥
अजो हि क्रीडया भूप विक्रियां प्राप्त इत्युत ।
आत्मानं बहुधा कृत्वा नानेन प्रतिचक्षते ॥ २४५.२॥
एतदेवं विकुर्वाणो बुध्यमानो न बुध्यते ।
गुणानाचरते ह्येष सृजत्याक्षिपते तथा ॥ २४५.३॥
अव्यक्तबोधनाच्चैव बुध्यमानं वदन्त्यपि ।
न त्वेवं बुध्यतेऽव्यक्तं सगुणं तात निर्गुणम् ॥ २४५.४॥
कदाचित्त्वेव खल्वेतत्तदाहुः प्रतिबुद्धकम् ।
बुध्यते यदि चाव्यक्तमेतद्वै पञ्चविंशकम् ॥ २४५.५॥
बुध्यमानो भवत्येष ममात्मक इति क्षुतः ।
अन्योन्यप्रतिबुद्धेन वदन्त्यव्यक्तमच्युतम् ॥ २४५.६॥
अव्यक्तबोधनाच्चैव बुध्यमानं वदन्त्युत ।
पञ्चविंशं महात्मनां न चासावपि बुध्यते ॥ २४५.७॥
षड्विंशं विमलं बुद्धमप्रमेयं महाद्युते ।
सततं पञ्चविंशं तु चतुर्विंशं विबुध्यते ॥ २४५.८॥
दृश्यादृश्ये ह्यनुगततत्स्वभावे महाद्युते ।
अव्यक्तं चैव तद्ब्रह्म बुध्यते तात केवलम् ॥ २४५.९॥
पञ्चविंशं चतुर्विंशमात्मानमनुपश्यति ।
बुध्यमानो यदाऽऽत्मानमन्याऽहमिति मन्यते ॥ २४५.१०॥
तदा प्रकृतिमानेष भवत्यव्यक्तलोचनः ।
बुध्यते च परां बुद्धिं विशुद्धाममलां यथा(दा) ॥ २४५.११॥
षड्विंशं राजशार्दूल तदा बुद्धः कृतो व्रजेत् ।
ततस्त्यजति सोऽव्यक्तसर्गप्रलयधर्मिणम् ॥ २४५.१२॥
निर्गुणां प्रकृतिं वेद गुणयुक्तामचेतनाम् ।
ततः केवलधर्माऽसौ भवत्यव्यक्तदर्शनात् ॥ २४५.१३॥
केवलेन समागम्य विमुक्तात्मानमाप्नुयात् ।
एतत्तु तत्त्वमित्याहुर्निस्तत्त्वमजरामरम् ॥ २४५.१४॥
तत्त्वसंश्रवणादेव तत्त्वज्ञो जायते नृप ।
पञ्चविंशतितत्त्वानि प्रवदन्ति मनीषिणः ॥ २४५.१५॥
न चैव तत्त्ववांस्तात संसारेषु निमज्जति ।
एषामुपैति तत्त्वं हि क्षिप्रं बुध्यस्व लक्षणम् ॥ २४५.१६॥
षड्विंशोऽयमिति प्राज्ञो गृह्यमाणोऽजरामरः ।
केवलेन बलेनैव समतां यात्यसंशयम् ॥ २४५.१७॥
षड्विंशेन प्रबुद्धेन बुध्यमानोऽप्यबुद्धिमान् ।
एतन्नानात्वमित्युक्तं सांख्यश्रुतिनिदर्शनात् ॥ २४५.१८॥
चेतनेन समेतस्य पञ्चविंशतिकस्य ह ।
एकत्वं वै भवेत्तस्य यदा बुद्ध्याऽनुबुध्यते ॥ २४५.१९॥
बुध्यमानेन बुद्धेन समतां याति मैतिल ।
सङ्गधर्मा भवत्येष निःसङ्गात्मा नराधिप ॥ २४५.२०॥
निःसङ्गात्मानमासाद्य षड्विंशं कर्मज विदुः ।
विभुस्त्यजति चाव्यक्तं यदा त्वेतद्विबुध्यते ॥ २४५.२१॥
चतुर्विंशमगाधं च षड्विंशस्य प्रबोधनात् ।
एष ह्यप्रतिबुद्धश्च बुध्यमानस्तु तेऽनघ ॥ २४५.२२॥
उक्तो बुद्धश्च तत्त्वेन यथाश्रुतिनिदर्शनात् ।
मशकोदुम्बरे यद्वदन्यत्वं तद्वदेतयोः(कता) ॥ २४५.२३॥
मत्स्योदकं यथा तद्वदन्यत्पमुपलभ्यते ।
एवमेव च गन्तव्यं नानात्वैकत्वमेतयोः ॥ २४५.२४॥
एतावन्मोक्ष इत्युक्तो ज्ञानविज्ञानसंज्ञितः ।
पञ्चविंशतिकस्याऽऽशु योऽयं देहे प्रवर्तते ॥ २४५.२५॥
एष मोक्षयितव्येति प्राहुरव्यक्तगोचरात् ।
सोऽयमेवं विमुच्येत नान्यथेति विनिश्चयः ॥ २४५.२६॥
परश्च परधर्मा च भवत्येव समेत्य वै ।
विशुद्धधर्माशुद्धेन नाशुद्धेन च बुद्धिमान् ॥ २४५.२७॥
विमुक्तधर्मा बुद्धेन समेत्य पुरुषर्षभ ।
वियोगधर्मिणा चैव विमुक्तात्मा भवत्यथ ॥ २४५.२८॥
विमोक्षिणा विमोक्षश्च समेत्येह तथा भवेत् ।
शुचिकर्मा शुचिश्चैव भवत्यमितबुद्धिमान् ॥ २४५.२९॥
विमलात्मा च भवति समेत्य विमलात्मना ।
केवलात्मा तथा चैव केवलेन समेत्य वै॥
स्वतन्त्रश्च स्वतन्त्रेण स्वतन्त्रत्वमवाप्यते ॥ २४५.३०॥
एतावदेतत्कथितं मया ते तथ्यं महाराज यथार्थतत्त्वम् ।
अमत्सरस्त्वं प्रतिगृह्य बुद्ध्या, सनातनं ब्रह्म विशुद्धमाद्यम् ॥ २४५.३१॥
तद्वेदनिष्ठस्य जनस्य राजन्, प्रदेयमेतत्परमं त्वया भवेत् ।
विधित्सामानाय निबोधकारकं, प्रबोधहेतोः प्रणतस्य शासनम् ॥ २४५.३२॥
न देयमेतच्च यथाऽनृतात्मने, शठाय क्लीबाय न जिह्मबुद्धये ।
न पण्डितज्ञानपरोपतापिने, देयं तथा शिष्यविबोधनाय ॥ २४५.३३॥
श्रद्धान्वितायाथ गुणान्विताय, परापवादाद्विरताय नित्यम् ।
विशुद्धयोगाय बुधाय चैव, कृपावतेऽथ क्षमिणे हिताय ॥ २४५.३४॥
विविक्तशीलाय विधिप्रिययाय, विवादहीनाय बहुश्रुताय ।
विनीतवेशाय नहैतुकात्मने, सदैव गृह्यं त्विदमेव देयम् ॥ २४५.३५॥
एतैर्गुणैर्हीनतमे न देयमेतत्परं ब्रह्म विशुद्धमाहुः ।
न श्रेयसे योक्ष्यति तादृशे कृतं, धर्मप्रवक्तारमपात्रदानात् ॥ २४५.३६॥
पृथ्वीमिमां वा यदि रत्नपूर्णां,दद्याददेयं त्विदमव्रताय ।
जितेन्द्रियाय प्रयताय देयं, देयं परं तत्त्वविदे नरेन्द्र ॥ २४५.३७॥
कराल मा ते भयमस्ति किंचिदेतच्च्रुतं ब्रह्म परं त्वयाऽद्य ।
यथावदुक्तं परमं वपित्रं, विशोकमत्यन्तमनादिमध्यम् ॥ २४५.३८॥
अगाधमेतदजरामरं च, निरामयं वीतभयं शिवं च ।
समीक्ष्य मोहं परवादसंज्ञमेतस्य तत्त्वार्थमिमं विदित्वा ॥ २४५.३९॥
अवाप्तमेतद्धि पुरा सनातनाद्धिरण्यगर्भाद्धि ततो नराधिप ।
प्रसाद्य यत्नेन तमुग्रतेजसं, सनातनं ब्रह्म यथा त्वयैतत् ॥ २४५.४०॥
पृष्टस्त्वया चाऽस्मि यथा नरेन्द्र, तथा मयेदं त्वयि नोक्तमन्यत् ।
यथाऽवाप्नं ब्रह्मणो मे नरेन्द्र, महाज्ञानं मोक्षविदां परायणम् ॥ २४५.४१॥
एतदुक्तं परं ब्रह्म यस्मान्नाऽवर्तते पुनः ।
पञ्चविशं मुनिश्रेष्ठा वसिष्ठेन यथा पुरा ॥ २४५.४२॥
पुनरावृत्तिमाप्नोति परमं ज्ञानमव्ययम् ।
नाति बुध्यति तत्त्वेन बुध्यमानोऽजरामरम् ॥ २४५.४३॥
एतन्निःश्रेयसकरं ज्ञानं परमं मया ।
कथितं तत्त्वतो विप्राः श्रुत्वा देवर्षितो द्विजाः ॥ २४५.४४॥
हिरण्यगर्भादृषिणा वसिष्ठेन समाहृतम् ।
वसिष्ठादृषिसार्दूलो नारदोऽवाप्तवानिदम् ॥ २४५.४५॥
नारदाद्विदितं मह्यमेतदुक्तं सनातनम् ।
मा शुचध्वं मुनिश्रेष्ठाः श्रुत्वैतत्परमं पदम् ॥ २४५.४६॥
येन क्षराक्षरे भिन्ने न भयं तस्य विद्यते ।
विद्यते तु भयं यस्य यो नैनं वेत्ति तत्त्वतः ॥ २४५.४७॥
अविज्ञानाच्च मूढात्मा पुनः पुनरुपद्रवान् ।
प्रेत्य जातिसहस्राणि मरणान्तान्युपाश्नुते ॥ २४५.४८॥
देवलोकं तथा तिर्यङ्मानुष्यमपि चाश्नुते ।
यदि वा मुच्यते वाऽपि तस्मादज्ञानसागरात् ॥ २४५.४९॥
अज्ञानसागरे घोरे ह्यव्यक्तागाध उच्यते ।
अहन्यहनि मज्जन्ति यत्र भूतानि भो द्विजाः ॥ २४५.५०॥
तस्मादगाधादव्यक्तादुपक्षीणात्सनातनात् ।
तस्माद्युयं विरजसका वितमस्काश्च भो द्विजाः ॥ २४५.५१॥
एवं मया मुनिश्रेष्ठाः सारात्सारतरं परम् ।
कथितं परमं मोक्षं यं ज्ञात्वा न निवर्तते ॥ २४५.५२॥
न नास्तिकाय दातव्य नाभक्ताय कदाचन ।
न दुष्टमतये विप्रा न श्रद्धाविमुखाय च ॥ २४५.५३॥
इति श्रीमहापुराणे आदिब्राह्मे वसिष्ठकरालजनकसंवादसमाप्तिनिरूपणं नाम
पञ्चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ २४५॥
॥ शङ्करगीता ॥
अथ श्रीविष्णुधर्मोत्तरे प्रथमखण्डान्तर्गते शङ्करगीतासु
प्रथमोऽध्यायः ॥१॥
मार्कण्डेय उवाच ।
कैलासशिखरे रम्ये नानाधातुविचित्रिते ।
नानाद्रुमलताकीर्णे नानापक्षिनिनादिते ॥ १॥
गङ्गानिर्झरसंजाते सततं चारुनिःस्वने ।
देवदेवं महादेवं पर्यपृच्छत भार्गवः ॥ २॥
राम उवाच ।
देवदेव महादेव गङ्गालुलितमूर्धज ।
शशाङ्कलेखासंयुक्त जटाभारतिभास्वर ॥ ३॥
पार्वतीदत्तदेहार्ध कामकालाङ्गनाशन ।
भगनेत्रान्तकाचिन्त्य पूष्णो दशनशातन ॥ ४॥
त्वत्तः परतरं देवं नान्यं पश्यामि कञ्चन ।
पूजयन्ति सदा लिङ्गं तव देवाः सवासवाः ॥ ५॥
स्तुवन्ति त्वामृषिगणा ध्यायन्ति च मुहुर्मुहुः ।
पूजयन्ति तथा भक्त्या वरदं परमेश्वर ॥ ६॥
जगतोऽस्य समुत्पत्तिस्थितिसंहारपालने ।
त्वामेकं कारणं मन्ये त्वयि सर्वं प्रतिष्ठितम् ॥ ७ ॥
कं त्वं ध्यायसि देवेश तत्र मे संशयो महान् ।
आचक्ष्व तन्मे भगवन् यद्यनुग्राह्यता मयि ॥ ८॥
प्रमादसाम्मुख्यतया मयैतद्विस्रम्भमासाद्य जगत्प्रधान ।
भवन्तमीड्यं प्रणिपत्य मूर्ध्ना पृच्छामि सञ्जातकुतूहलात्मा ॥ ९॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे
परशुरामोपाख्याने
शङ्करगीतासु रामप्रश्नो नमैकपञ्चाशत्तमोऽध्यायः ॥५१॥
अथ श्रीविष्णुधर्मोत्तरे प्रथमखण्डान्तर्गते
शङ्करगीतासु द्वितीयोऽध्यायः ॥२॥
शङ्कर उवाच ।
त्वदुक्तोऽयमनुप्रश्नो राम राजीवलोचन ।
त्वमेकः श्रोतुमर्होऽसि मत्तो भृगुकुलोद्वह ॥ १॥
यत्तत्परमकं धाम मम भार्गवनन्दन ।
यत्तदक्षरमव्यक्तं पारं यस्मान्न विद्यते ।
ज्ञानज्ञेयं ज्ञानगम्यं हृदि सर्वस्य चाश्रितम् ॥ २॥
त्वामहं पुण्डरीकाक्षं चिन्तयामि जनार्दनम् ।
एतद्राम रहस्यं ते यथावत्कथितं वचः ॥ ३॥
ये भक्तास्तमजं देवं न ते यान्ति पराभवम् ।
तमीशमजमव्यक्तं सर्वभूतपरायणम् ॥ ४॥
नारायणमनिर्देश्यं जगत्कारणकारणम् ।
सर्वतः पाणिपादं तं सर्वतोऽक्षिशिरोमुखम् ॥ ५॥
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ।
सार्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ॥ ६॥
असक्तं सर्वतश्चैव निर्गुणं गुणभोक्तृ च ।
बहिरन्तश्च भूतनामचरश्चर एव च ॥ ७॥
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिकं च यत् ।
अविभक्तं विभक्तेषु विभक्तमिव च स्थितम् ॥ ८॥
भूतवर्ति च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च । भूतभर्तृ-as per
BG)
ज्योतिषामपि तज्ज्योतिः तमसां परमुच्यते ॥ ९॥ (तमसः-as per BG)
अनादिमत्परं ब्रह्म न सत्तन्नाऽसदुच्यते ।
प्रकृतिर्विकृतिर्योऽसौ जगतां भूतभावनः ॥ १०॥
यस्मात्परतरं नास्ति तं देवं चिन्तयाम्यहम् ।
इच्छामात्रमिदं सर्वं त्रैलोक्यं सचराचरम् ॥ ११॥
यस्य देवादिदेवस्य तं देवं चिन्तयाम्यहम् ।
यस्मिन् सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः ॥ १२॥
यश्च सर्वमयो देवस्तं देवं चिन्तयाम्ययम् ।
योगीश्वरं पद्मनाभं विष्णुं जिष्णुं जगत्पतिम् ॥ १३॥
जगन्नाथं विशालाक्षं चिन्तयामि जगद्गुरुम् ।
शुचिं शुचिपदं हंसं तत्परं परमेष्ठिनम् ॥ १४॥
युक्त्वा सर्वात्मनाऽऽत्मानं तं प्रपद्ये जगत्पतिम् ।
यस्मिन् विश्वानि भूतानि तिष्ठन्ति च विशन्ति च ॥ १५॥
गुणभूतानि भूतेशे सूत्रे मणिगणा इव ।
यस्मिन्नित्ये तते तन्तौ दृष्टे स्रगिव तिष्ठति ॥ १६॥
सदसद्ग्रथितं विश्वं विश्वाङ्गे विश्वकर्मणि ।
हरिं सहस्रशिरसं सहस्रचरणेक्षणम् ॥ १७॥
प्राहुर्नारायणं देवं यं विश्वस्य परायणम् ।
अणीयसामणीयांसं स्थविष्ठं च स्थवीयसाम् ॥ १८॥
गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसामपि ।
यं वाकेष्वनुवाकेषु निषत्सूपनिषत्स्वपि ॥ १९॥
गृणन्ति सत्यकर्माणं सत्यं सत्येषु सामसु ।
चतुर्भिश्चतुरात्मानं सत्त्वस्थं सात्त्वतां पतिम् ॥ २०॥
यं दिव्यैर्देवमर्चन्ति मुह्यैः परमनामभिः ।
यमनन्यो व्यपेताशीरात्मानं वीतकल्मषम् ॥ २१॥
इष्ट्वानन्त्याय गोविन्दं पश्यत्यात्मन्यवस्थितम् ।
पुराणः पुरुषः प्रोक्तो ब्रह्मा प्रोक्तो युगादिषु ॥ २२॥
क्षये सङ्कर्षणः प्रोक्तस्तमुपास्यमुपास्महे ।
यमेकं बहुधाऽऽत्मानं प्रादुर्भूतमधोक्षजम् ॥ २३॥
नान्यभक्ताः क्रियावन्तो यजन्ते सर्वकामदम् ।
यमाहुर्जगतां कोशं यस्मिन् सन्निहिताः प्रजाः ॥ २४॥
यस्मिन् लोकाः स्फुरन्तीमे जले शकुनयो यथा ।
ऋतमेकाक्षरं ब्रह्म यत्तत्सदसतः परम् ॥ २५॥
अनादिमध्यपर्यन्तं न देवा नर्षयो विदुः ।
यं सुरासुरगन्धर्वास्ससिद्धर्षिमहोरगाः ॥ २६॥
प्रयता नित्यमर्चन्ति परमं दुःखभेषजम् ।
अनादिनिधनं देवमात्मयोनिं सनातनम् ॥ २७॥
अप्रतर्क्यमविज्ञेयं हरिं नारायणं प्रभुम् ।
अतिवाय्विन्द्रकर्माणं चातिसूर्याग्नितेजसम् ॥ २८॥
अतिबुद्धीन्द्रियग्रामं तं प्रपद्ये प्रजापतिम् ।
यं वै विश्वस्य कर्तारं जगतस्तस्थुषां पतिम् ॥ २९॥
वदन्ति जगतोऽध्यक्षमक्षरं परमं पदम् ।
यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः ॥ ३०॥
चन्द्रादित्यौ च नयने तं देवं चिन्तयाम्यहम् ।
यस्य त्रिलोकी जठरे यस्य काष्ठाश्च वाहनाः ॥ ३१॥
यस्य श्वासश्च पवनस्तं देवं चिन्तयाम्यहम् ।
विषये वर्तमानानां यं तं वैशेषिकैर्गुणैः ॥ ३२॥
प्राहुर्विषयगोप्तारं तं देवं चिन्तयाम्यहम् ।
परः कालात्परो यज्ञात्परस्सदसतश्च यः ॥ ३३॥
अनादिरादिर्विश्वस्य तं देवं चिन्तयाम्यहम् ।
पद्भ्यां यस्य क्षितिर्जाता श्रोत्राभ्यां च तथा दिशः ॥ ३४॥
पूर्वभागे दिवं यस्य तं देवं चिन्तयाम्यहम् ।
नाभ्यां यस्यान्तरिक्षस्य नासाभ्यां पवनस्य च ॥ ३५॥
प्रस्वेदादम्भसां जन्म तं देवं चिन्तयाम्यहम् ॥ ३६॥
वराहशीर्षं नरसिंहरूपं
देवेश्वरं वामनरूपरूपम् ।
त्रैलोक्यनाथं वरदं वरेण्यं
तं राम नित्यं मनसा नतोऽस्मि ॥ ३७॥
वक्त्राद्यस्य ब्राह्मणास्सम्प्रभूता
यद्वक्षसः क्षत्रियाः सम्प्रभूताः ।
यस्योरुयुग्माच्च तथैव वैश्याः
पद्भ्यां तथा यस्य शूद्राः प्रसूताः ॥ ३८॥
व्याप्तं तथा येन जगत्समग्रं
विभूतिभिर्भूतभवोद्भवेन ।
देवाधिनाथं वरदं वरेण्यं
तं राम नित्यं मनसा नतोऽस्मि ॥ ३९॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे
श्रीभार्गवरामप्रश्ने
शङ्करगीतासु ध्येयनिर्देशो नाम द्विपञ्चाशत्तमोऽध्यायः ॥५२॥
अथ श्रीविष्णुधर्मोत्तरे प्रथमखण्डान्तर्गते शङ्करगीतासु
तृतीयोऽध्यायः ॥३॥
राम उवाच ।
वराहं नरसिंहं च वामनं च महेश्वर ।
त्वत्तोऽहं श्रोतुमिच्छामि प्रादुर्भावान्महात्मनः ॥ १॥
शङ्कर उवाच ।
अदितिश्च दितिश्चैव द्वे भार्ये कश्यपस्य च ।
अदितिर्जनयामास देवानिन्द्रपुरोगमान् ॥ २॥
दितिश्च जनयामास द्वौ पुत्रौ भीमविक्रमौ ।
हिरण्याक्षं दुराधर्षं हिरण्यकशिपुं तथा ॥ ३॥
ततोऽभिषिक्तवान् शक्रं देवराज्ये प्रजापतिः ।
दानवानां तथा राज्ये हिरण्याक्षं बलोत्कटम् ॥ ४॥
अभिषिच्य तयोः प्रादात्स्वर्गं पातालमेव च ।
पातालं शासति तथा हिरण्याक्षे महासुरे ॥ ५॥
धराधारा धरां त्यक्त्वा खमुत्पेतू रयात्पुरा । धराधरा?
पक्षवन्तो महाभाग नूनं भाव्यर्थचोदिताः ॥ ६॥
धराधरपरित्यक्ता धरा चलनिबन्धना ।
यदा तदा दैत्यपुरं सकलं व्याप्तमम्भसा ॥ ७॥
दृष्ट्वैव स्वपुरं व्याप्तमम्भसा दितिजोत्तमः ।
सैन्यमुद्योजयामास जातशङ्कः सुरान् प्रति ॥ ८॥
उद्युक्तेन स सैन्येन दैत्यानां चतुरङ्गिणा ।
विजित्य त्रिदशाञ्जन्ये आजहार त्रिविष्टपम् ॥ ९॥
हृताधिकारास्त्रिदशा जग्मुः शरणमञ्जसा ।
देवराजं पुरस्कृत्य वासुदेवमजं विभुम् ॥ १०॥
त्रिदशान् शरणं प्रप्तान् हिरण्याक्षविवासितान् ।
संयोज्याभयदानेन विससर्ज जनार्दनः ॥ ११॥
विसृज्य त्रिदशान् सर्वान् चिन्तयामास केशवः ।
किन्नु रूपमहं कृत्वा घातयिष्ये सुरार्दनम् ॥ १२॥
तिर्यङ्मनुष्यदेवानामवध्यः स सुरान्तकः ।
ब्रह्मणो वरदानेन तस्मात्तस्य वधेप्सया ॥ १३॥
नृवराहो भविष्यामि न देवो न च मानुषः ।
तिर्यग्रूपेण चैवाहं घातयिष्यामि तं ततः ॥ १४॥
एतावदुक्त्वा सङ्गेन नृवराहोऽभवत्प्रभुः ।
चूर्णिताञ्जनशैलाभस्तप्तजाम्बूनदाम्बरः ॥ १५॥
यमुनावर्त्तकृष्णाङ्गः तदावर्ततनूरुहः ।
तदोघ इव दुर्वार्यस्तत्पित्रा तेजसा समः ॥ १६॥
तत्प्रवाह इवाक्षोभ्यस्तत्प्रवाह इवौघवान् ।
तत्प्रवाहामलतनुस्तत्प्रवाहमनोहरः ॥ १७॥
सजलाञ्जनकृष्णाङ्गः सजलाम्बुदसच्छविः ।
पीतवासास्तदा भाति सविद्युदिव तोयदः ॥ १८॥
उरसा धारयन् हारं शशाङ्कसदृशच्छविः ।
शुशुभे सर्वभूतात्मा सबलाक इवाम्बुदः ॥ १९॥
शशाङ्कलेखाविमले दंष्ट्रे तस्य विरेजतुः ।
मेघान्तरितबिम्बस्य द्वौ भागौ शशिनो यथा ॥ २०॥
कराभ्यां धारयन् भाति शङ्खचक्रे जनार्दनः ।
चन्द्रार्कसदृशे राम पादचारीव पर्वतः ॥ २१॥
महाजीमूतसङ्काशो महाजीमूतसन्निभः ।
महाजीमूतवद्वेगी महाबलपराक्रमः ॥ २२॥
दानवेन्द्रवधाकाङ्क्षी हिरण्याक्षसभां ययौ ।
हिरण्याक्षोऽपि तं दृष्ट्वा नृवराहं जनार्दनम् ॥ २३॥
दानवांश्चोदयामास तिर्यग्जातमपूर्वकम् ।
गृह्यतां बध्यतां चैव क्रीडार्थं स्थाप्यतां तथा ॥ २४॥
इत्येवमुक्तः संरब्धः पाशहस्तांस्तु दानवान् ।
जिघृक्षमाणांश्चक्रेण जघान शतशो रणे ॥ २५॥
हन्यमानेषु दैत्येषु हिरण्याक्षोऽथ दानवान् ।
चोदयामास संरब्धान् वराहाधिककारणात् ॥ २६॥
चोदिता दानवेन्द्रेण दानवाः शस्त्रपाणयः ।
प्रववर्षुस्तथा देवं शस्त्रवर्षेण केशवम् ॥ २७॥
दैत्याः शस्त्रनिपातेन देवदेवस्य चक्रिणः ।
नैव शेकुर्वृथाकर्तुं यत्नवन्तोऽपि निर्भयाः ॥ २८॥
हन्यमानोऽपि दैत्येन्द्रैः दानवान् मधुसूदनः ।
जघान चक्रेण तदा शतशोऽथ सहस्रशः ॥ २९॥
हन्यमानेषु सैन्येषु हिरण्याक्षः स्वयं ततः ।
उत्थाय धनुषा देवं प्रववर्ष सुरोत्तमम् ॥ ३०॥
हिरण्याक्षस्तु तान् दृष्ट्वा विफलांश्च शिलीमुखान् ।
शिलीमुखाभान् सम्पश्यन् समपश्यन्महद्भयम् ॥ ३१॥
ततोऽस्त्रैर्युयुधे तेन देवदेवेन चक्रिणा ।
तान्यस्य फलहीनानि चकार भगवान् स्वयम् ॥ ३२॥
ततो गदां काञ्चनपट्टनद्धां विभूषितां किङ्किणिजालसङ्घैः ।
चिक्षेप दैत्याधिपतिः स घोरां तां चापि देवो विफलीचकार ॥ ३३॥
शक्तिं ततः पट्टविनद्धमध्यामुल्कानलाभां तपनीयचित्राम् ।
चिक्षेप दैत्यस्स वराहकाये हुङ्कारदग्धा निपपात सा च ॥ ३४॥
ततस्त्रिशूलं ज्वलिताग्रशूलं स शीघ्रगं देवगणस्य सङ्ख्ये ।
दैत्याधिपस्तस्य ससर्ज वेगादवेक्षितः सोऽपि जगाम भूमिम् ॥ ३५॥
शङ्खस्वनेनापि जनार्दनश्च विद्राव्य दैत्यान् सकलान् महात्मा ।
सकुण्डलं दैत्यगणाधिपस्य चिच्छेद चक्रेण शिरः प्रसह्य ॥ ३६॥
निपातिते दैत्यपतौ स देवः सम्पूजितः शक्रपितामहाभ्याम् ।
मया च सर्वैस्त्रिदशैः समेतैर्जगाम काष्ठां मनसा त्वभीष्टाम् ॥ ३७॥
शक्रोऽपि लब्ध्वा त्रिदिवं महात्मा चिच्छेद पक्षान् धरणीधराणाम् ।
ररक्ष चेमां सकलां त्रिलोकीं धर्मेण धर्मज्ञभृतां वरिष्ठः ॥ ३८॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे शङ्करगीतासु नृवराहप्रादुर्भावे
हिरण्याक्षवधो नाम त्रिपञ्चाशत्तमोऽध्यायः ॥५३॥
अथ श्रीविष्णुधर्मोत्तरे प्रथमखण्डान्तर्गते शङ्करगीतासु
चतुर्थोऽध्यायः ॥४॥
शङ्कर उवाच ।
हिरण्याक्षे हते दैत्ये भ्राता तस्य महात्मनः ।
हिरण्यकशिपुर्नाम चकारोग्रं महत्तपः ॥ १॥
दशवर्षसहस्राणि दशवर्षशतानि च ।
जयोपवासनिरतः स्नानमौनाश्रितव्रतः ॥ २॥
तपःशमदमाभ्यां च ब्रह्मचर्येण चानघ ।
ब्रह्मा प्रीतमनास्तस्य स्वयमागत्य भार्गव ॥ ३॥
विमानेनार्कवर्णेन हंसयुक्तेन भास्वता ।
आदित्यैस्सहितः साध्यैस्सहितो मरुदश्विभिः ॥ ४॥
रुद्रैर्विश्वसहायैश्च यक्षराक्षसपन्नगैः ।
दिग्भिर्विदिग्भिश्च तथा खेचरैश्च महाग्रहैः ॥ ५॥
निम्नगाभिः समुद्रैश्च मासर्त्वयनसंधिभिः ।
नक्षत्रैश्च मुहूर्तैश्च कालस्यावयवैस्तथा ॥ ६॥
देवर्षिभिः पुण्यतमैः सिद्धैः सप्तर्षिभिस्तथा ।
राजर्षिभिः पुण्यतमैर्गन्धर्वैरप्सरोगणैः ॥ ७॥
चराचरगुरुः श्रीमान् वृतः सर्वैर्दिवौकसैः ।
ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनमब्रवीत् ॥ ८॥
ब्रह्मोवाच ।
प्रीतोऽस्मि तव भक्तस्य तपसानेन सुव्रत ।
वरं वरय भद्रं ते यथेष्टं काममाप्नुहि ॥ ९॥
हिरण्यकशिपुरुवाच ।
न देवासुरगन्धर्वा न यक्षोरगराक्षसाः ।
न मानुषाः पिशाचा वा हन्युर्मां देवसत्तम ॥ १०॥
ऋषयोऽपि न मां शापं क्रुद्धा लोकपितामह ।
शपेयुस्तपसा युक्ता वरमेतद्वृणोम्यहम् ॥ ११॥
न शस्त्रेण न चास्त्रेण गिरिणा पादपेन च ।
न शुष्केन न चाऽऽर्द्रेण वधं मे स्यात्कथञ्चन ॥ १२॥
भवेयमहमेवार्कः सोमो वायुर्हुताशनः ।
सलिलं चान्तरिक्षं च नक्षत्राणि दिशो दश ॥ १३॥
अहं क्रोधश्च कामश्च वरुणो वासवो यमः ।
धनदश्च तथाध्यक्षो यक्षः किम्पुरुषाधिपः ॥ १४॥
ब्रह्मोवाच ।
एते दिव्यवरांस्तात मया दत्तास्तवाद्भुताः ।
सर्वान् कामानिमांस्तस्मात्प्राप्स्यसि त्वं न संशयः ॥ १५॥
शङ्कर उवाच ।
एवमुक्त्वा स भगवान् जगामाकाशमेव हि ।
वैराजं देवसदनं महर्षिगणसेवितम् ॥ १६॥
ततो देवाश्च नागाश्च गन्धर्वा मुनयस्तथा ।
वरप्रदानं श्रुत्वैव पितामहमुपस्थिताः ॥ १७॥
देवा ऊचुः ।
वरेणानेन भगवन् वधिष्यति स नोऽसुरः ।
तन्नः प्रसीद भगवन् वधोऽप्यस्य विचिन्त्यताम् ॥ १८॥
भगवान् सर्वभूतानां स्वयम्भूरादिकृत्प्रभुः ।
स्रष्टा च हव्यकव्यानां चाव्यक्तः प्रकृतिर्ध्रुवः ॥ १९॥
शङ्कर उवाच ।
सर्वलोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः ।
प्रोवाच वरदो वाक्यं सर्वान् देवगणांस्ततः ॥ २०॥
ब्रह्मोवाच ।
अवश्यं त्रिदशास्तेन प्राप्तव्यं तपसः फलम् ।
तत(?)स्तस्य वधं विष्णुस्तपसोऽन्ते करिष्यति ॥ २१॥
शङ्कर उवाच ।
एवं श्रुत्वा सुराः सर्वे वाक्यं पङ्कजजन्मनः ।
स्वानि स्थानानि दिव्यानि जग्मुस्ते वै मुदान्विताः ॥ २२॥
लघुमात्रे वरे तस्मिन् सर्वाः सोऽबाधत प्रजाः । (लब्धमात्रे?)
हिरण्यकशिपुर्दैत्यो वरदानेन दर्पितः ॥ २३॥
आश्रमेषु महात्मानो मुनीन्द्रान् संशितव्रतान् ।
सत्यधर्मरतान् दान्तान् दुराधर्षो भवंस्तु सः ॥ २४॥
देवन् त्रिभुवनस्थांश्च पराजित्य महासुरः ।
त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः ॥ २५॥
यदा वरमदोन्मत्तो ह्यावासं कृतवान् दिवि ।
याज्ञियान् कृतवान् दैत्यानयाज्ञेयाश्च देवताः ॥ २६॥
आदित्यवसवो रुद्रा विश्वेदेवास्तथाश्विनौ ।
भृगवोऽङ्गिरसः साध्या मरुतश्च सवासवाः ॥ २७॥
शरण्यं शरणं विष्णुमुपतस्थुर्महाबलम् ।
देवं ब्रह्ममयं विष्णुं ब्रह्मभूतसनातनम् ॥ २८॥
भूतभव्यभविष्यस्य प्रभुं लोकपरायणम् ।
नारायणं विभुं देवाः शरण्यं शरणं गताः ॥ २९॥
देवा ऊचुः ।
त्रायस्व नोऽद्य देवेश हिरण्यकशिपोर्वधात् ।
त्वं हि नः परमो देवो ब्रह्मादीनां सुरोत्तम ॥ ३०॥
प्रोत्फुल्लामलपत्राक्ष शत्रुपक्षक्षयङ्कर ।
क्षयाय दितिवंशस्य शरणं त्वं भवस्व नः ॥ ३१॥
श्रीभगवानुवाच ।
भयं त्यजध्वममरा अभयं वो ददाम्यहम् ।
तथैव त्रिदिवं देवाः प्रतिपद्यत माचिरम् ॥ ३२॥
एषोऽमुं सबलं दैत्यं वरदानेन दर्पितम् ।
अवध्यममरेन्द्राणां दानवेन्द्रं निहन्म्यहम् ॥ ३३॥
शङ्कर उवाच ।
एवमुक्त्वा स भगवान् विसृज्य त्रिदिवेश्वरान् ।
नारसिंहं वपुश्चक्रे सहस्रांशुसमप्रभम् ॥ ३४॥
प्रांशुं कनकशैलाभं ज्वालापुञ्जविभूषितम्
।दैत्यसैन्यमहाम्भोधिवडवानलवर्चसम् ॥ ३५॥
सन्ध्यानुरक्तमेघाभं नीलवाससमच्युतम् ।
देवदारुवनच्छन्नं यथा मेरुं महागिरिम् ॥ ३६॥
सम्पूर्णवक्त्रदशनैः शशाङ्कशकलोपमैः ।
पूर्णं मुक्ताफलैः शुभ्रैः समुद्रमिव काञ्चनम् ॥ ३७॥
नखैर्विद्रुमसङ्काशैर्विराजितकरद्वयम् ।
दैत्यनाथक्षयकरैः क्रोधस्येव यथाङ्कुरैः ॥ ३८॥
सटाभारं सकुटिलं वह्निज्वालाग्रपिङ्गलम् ।
धारयन् भाति सर्वात्मा दावानलमिवाचलः ॥ ३९॥
दृश्यादृश्यमुखे तस्य जिह्वाभ्युदितचञ्चला ।
प्रलयान्ताम्बुदस्येव चञ्चला तु तडिल्लता ॥ ४०॥
आवर्तिभिर्लोमघनैः व्याप्तं विग्रहमूर्जितम् ।
महाकटितटस्कन्धमलातप्रतिमेक्षणम् ॥ ४१॥
कल्पान्तमेघनिर्घोषज्वालानिःश्वासमारुतम् ।
दुर्निरीक्ष्यं दुराधर्षं वज्रमध्यविभीषणम् ॥ ४२॥
कृत्वा मूर्तिं नृसिंहस्य दानवेन्द्रसभां ययौ ।
तां बभञ्ज तु वेगेन दैत्यानां भयवर्धनः ॥ ४३॥
भज्यमानां सभां दृष्ट्वा नृसिंहेन महात्मना ।
हिरण्यकशिपू राजा दानवान् समचोदयत् ॥ ४४॥
सत्त्वजातमिदं घोरं चापूर्वं पुनरागतम् ।
घातयध्वं दुराधर्षं येन मे नाशिता सभा ॥ ४५॥
तस्य तद्वचनं श्रुत्वा दैत्याः शतसहस्रशः ।
आयुधैर्विविधैर्जघ्नुर्देवदेवं जनार्दनम् ॥ ४६॥
नानायुधसहस्राणि तस्य गात्रेषु भार्गव ।
विशीर्णान्येव दृश्यन्ते मृल्लोष्टानीव पर्वते ॥ ४७॥
दैत्यायुधानां वैफल्यं कृत्वा हत्वा च दानवान् ।
करपादप्रहारैश्च शतशोऽथ सहस्रशः ॥ ४८॥
जग्राह वेगाद्दैतेयं हिरण्यकशिपुं ततः ।
नृसिंहहेतोर्विक्रान्तमस्त्रवर्षमहाम्बुदम् ॥ ४९॥
वेगेनोत्सङ्गमारोप्य कदलीदललीलया ।
दारयामास दैत्येशं वक्षस्थलमहागिरिम् ॥ ५०॥
कृत्वा तमसुभिर्हीनं दैत्येशं केशवः स्वयम् ।
असुराणां विनाशं च क्रुद्धो नरहरिर्व्यधात् ॥ ५१॥
हत्वासुरं शोणितबिन्दुचित्रं सम्पूज्य देवाः सह वासवेन ।
जग्मुः स्वधिष्ण्यानि मुदा समेता देवोऽप्यथान्तर्हितमूर्तिरास ॥ ५२॥
इति श्रिविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्करगीतासु
नरसिंहप्रादुर्भावो नाम चतुष्पञ्चाशत्तमोऽध्यायः ॥५४॥
अथ श्रीविष्णुधर्मोत्तरे प्रथमखण्डान्तर्गते शङ्करगीतासु
पञ्चमोऽध्यायः ॥५॥
शङ्कर उवाच ।
हते हिरण्यकशिपौ दानवे देवकण्टके ।
हतशेषास्तु दैतेयाः पातालतलमाश्रिताः ॥ १॥
पातालतलसंस्थेषु दानवेषु महायशाः ।
प्रह्लादपौत्रो धर्मात्मा विरोचनसुतो बलिः ॥ २॥
आराध्य तपसोग्रेण वरं लेभे पितामहात् ।
अवध्यत्वमजेयत्वं समरेषु सुरासुरैः ॥ ३॥
वरलब्धं बलिं ज्ञात्वा पुनश्चक्रुर्दितेः सुताः ।
प्रहृष्टा दैत्यराजानं प्रह्लादानुमतेर्बलिम् ॥ ४॥
सम्प्राप्य दैत्यराज्यं तु बलेन चतुरङ्गिणा ।
जित्वा देवेश्वरं शक्रमाजहारामरावतीम् ॥ ५॥
स्थानभ्रष्टो महेन्द्रोऽपि कश्यपं शरणं गतः ।
कश्यपेन तदा सार्धं ब्रह्माणं शरणं गतः ॥ ६॥
ब्रह्मणाऽभिहितो देवं जगाम शरणं हरिम् ।
अमृताध्मातमेघाभं शङ्खचक्रगदाधरम् ॥ ७॥
देवोऽप्यभयदानेन संयोज्य बलसूदनं ।
उवाच वचनं काले मेघगंभीरया गिरा ॥ ८॥
श्रीभगवानुवाच ।
गच्छ शक्र भविष्यामि त्राता ते बलसूदन ।
देवरूपधरो भूत्वा वञ्चयिष्यामि तं बलिम् ॥ ९॥
शङ्कर उवाच ।
एवमुक्तस्तदा शक्रः प्रययौ कश्यपाश्रमम् ।
आदिदेशादितेर्गर्भं चांशेनाथ च सर्वदा ॥ १०॥
गर्भस्य एव तेजांसि दानवेभ्यः स आददे ।
ततः कालेन सुषुवे अदितिर्वामनाकृतिम् ॥ ११॥
यस्मिन् जाते सुरगणाः प्रहर्षमतुलं गताः ।
ऋषयश्च महाभागास्त्रैकाल्यामलदर्शिनः ॥ १२॥
एतस्मिन्नेव काले तु हयमेधाय दीक्षितः ।
बलिर्दैत्यपतिः श्रिमान् स्यालिग्राममुपाश्रितः ॥ १३॥
वामस्कन्धे तमादाय तस्य यज्ञे बृहस्पतिः ।
अनयद्भृगुशार्दूल नूनं तस्यैव मायया ॥ १४॥
यज्ञवाटं स सम्प्राप्य यज्ञं तुष्टाव वामनः ।
आत्मानमात्मना ब्रह्मन् भस्मच्छन्न इवानलः ॥ १५॥
प्रवेशयामास च तं बलिर्धर्मभृतां वरः ।
ददर्श च महाभागं वामनं सुमनोहरम् ॥ १६॥
संयुक्तसर्वावयवैः पीनैः सङ्क्षिप्तपर्वभिः ।
कृष्णाजिनजटादण्डकमण्डलुविराजितम् ॥ १७॥
विक्रमिष्यन् यथा व्याघ्रो लीयति स्म स्वविग्रहम् ।
विक्रमिष्यंस्तथैवोर्वीं लीनगात्रः स्वविग्रहे ॥ १८॥
एतस्मिन्नेव काले तु हयमेधाय दीक्षितः ।
तस्मात्तु प्रार्थयद्राजन् देहि मह्यं क्रमत्रयम् ॥ १९॥
एवमुक्तस्तु देवेन बलिर्दैत्यगणाधिपः ।
प्रददावुदकं तस्य पावयस्वेति चाब्रवीत् ॥ २०॥
अन्न्यच्च यदभीष्टं ते तद्गृहाण द्विजोत्तम ।
प्रतिजग्राह च जलं प्रवात्येव तदा हरिः ॥ २१॥
उदङ्मुखैर्दैत्यवरैः वीक्ष्यमाण इवाम्बुदः ।
आक्रमंस्तु हरिर्लोकान् दानवाः शस्त्रपाणयः ॥ २२॥
अभिद्रवन्ति वेगेन नानावक्त्रशिरोधराः ।
गरुडाननाः खड्गमुखा मयूरवदनास्तदा ॥ २३॥
घोरा मकरवक्त्राश्च क्रोष्टुवक्त्राश्च दानवाः ।
आखुदर्दुरवक्त्राश्च घोरवृकमुखास्तथा ॥ २४॥
मार्जारशशवक्त्राश्च हंसकाकाननास्तथा ।
गोधाशल्यकवक्त्राश्च अजाविमहिषाननाः ॥ २५॥
सिंहव्याघ्रशृगालानां द्वीपिवानरपक्षिणाम् ।
हस्त्यश्वगोखरोष्ट्राणां भुजगानां समाननाः ॥ २६॥
प्रतिग्रहजलं प्राप्य व्यवर्धत तदा हरिः ।
उदङ्मुखैर्देवगणैरीक्षमाण इवाम्बुदः ॥ २७॥
विक्रमन्तं हरिं लोकान् दानवाः शस्त्रपाणयः ।
मत्स्यकच्छपवक्त्राणां दर्दुराणां समाननाः ॥ २८॥
स्थूलदन्ता विवृत्ताक्षा लम्बोष्ठजठरास्तथा ।
पिङ्गलाक्षा विवृत्तास्या नानाबाहुशिरोधराः ॥ २९॥
स्थूलाग्रनासाश्चिपिटा महाहनुकपालिनः ।
चीनांशुकोत्तरासङ्गाः केचित्कृष्णाजिनाम्बराः ॥ ३०॥
भुजङ्गभरणाश्चान्ये केचिन्मुकुटभूषिताः ।
सकुण्डलाः सकटकाः सशिरस्त्राणमस्तकाः ॥ ३१॥
धनुर्बाणधराश्चान्ये तथा तोमरपाणयः ।
खड्गचर्मधराश्चान्ये तथा परिघपाणयः ॥ ३२॥
शतघ्नीचक्रहस्ताश्च गदामुसलपाणयः ।
अश्मयन्त्रायुधोपेता भिण्डिपालायुधास्तथा ॥ ३३॥
शूलोलूखलहस्ताश्च परश्वधधरास्तथा ।
महावृक्षप्रवहणा महापर्वतयोधिनः ॥ ३४॥
क्रममाणं हृषीकेशमुपावर्तन्त सर्वशः ।
स तान् ममर्द सर्वात्मा तन्मुखान् दैत्यदानवान् ॥ ३५॥
सरसीव महापद्मान् महाहस्तीव दानवान् ।
प्रमथ्य सर्वान् दैतेयान् हस्तपादतलैस्ततः ॥ ३६॥
रूपं कृत्वा महाभीममाजहाराऽऽशु मेदिनीम् ।
तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे ॥ ३७॥
परं प्रक्रममाणस्य नाभिदेशे व्यवस्थितौ ।
ततः प्रक्रममाणस्य जानुदेशे व्यवस्थितौ ॥ ३८॥
ततोऽपि क्रममाणस्य पद्भ्यां देवौ व्यवस्थितौ ।
जित्वा स मेदिनीं कृत्स्नां हत्वा चासुरपुङ्गवान् ॥ ३९॥
ददौ शक्राय वसुधां विष्णुर्बलवतां वरः ।
स्वं रूपं च तथाऽऽसाद्य दानवेन्द्रमभाषत ॥ ४०॥
श्रीभगवानुवाच ।
यज्ञवाटे त्वदीयेऽस्मिन् सालिग्रामे महासुर ।
मया निविष्टपादेन मापितेयं वसुन्धरा ॥ ४१॥
प्रथमं तु पदं जातं नौर्बन्धशिखरे मम ।
द्वितीयं मेरुशिखरे तृतीयं नाभवत्क्वचित् ॥ ४२॥
तन्मे वरय दैत्येन्द्र यन्मयाऽऽप्तं प्रतिग्रहम् ।
बलिरुवाच ।
यावती वसुधा देव त्वयैव परिनिर्मिता ॥ ४३॥
तावती ते न सम्पूर्णा देवदेव क्रमत्रयम् ।
न कृतं यत्त्वया देव कुतस्तन्मे महेश्वर ॥ ४४॥
न च तद्विद्यते देव तथैवान्यस्य कस्यचित् ।
श्रीभगवानुवाच ।
न मे त्वयाऽऽपूर्यते मे दानवेन्द्र यथाश्रुतम् ॥ ४५॥
सुतलं नाम पातालं वस तत्र सुसंयतः ।
मयैव निर्मिता तत्र मनसा शोभना पुरी ॥ ४६॥
ज्ञातिभिः सह धर्मिष्ठैर्वस तत्र यथासुखम् ।
तत्र त्वं भोक्ष्यसे भोगान् विशिष्टान् बलसूदनात् ॥ ४७॥
अवाप्स्यसि तथा भोगान् लोकाद्विधिविवर्जितान् ।
प्राकाम्ययुक्तश्च तथा लोकेषु विहरिष्यसि ॥ ४८॥
मन्वन्तरे द्वितीये च महेन्द्रत्वं करिष्यसि ।
तेजसा च मदीयेन शक्रत्वे योक्ष्यसे बले ॥ ४९॥
तव शत्रुगणान् सर्वान् घातयिष्याम्यहं तदा ।
ब्रह्मण्यस्त्वं शरण्यस्त्वं यज्ञशीलः प्रियंवदः ॥ ५०॥
तपस्वी दानशीलश्च वेदवेदाङ्गपारगः ।
तस्माद्यशोभिर्वृद्ध्यर्थं मया त्वमभिसन्धितः ॥ ५१॥
देवराजाधिकान् भोगान् पातालस्थोऽपि भोक्ष्यसे ।
सन्निधानञ्च तत्राहं करिष्याम्यसुराधिप ॥ ५२॥
मया च रंस्यसे सार्धं स्पृहणीयः सुरैरपि ।
शक्रत्वं च तथा कृत्वा भाव्ये सावर्णिकेऽन्तरे ॥ ५३॥
सर्वसंधिविनिर्मुक्तो मयैव सह रंस्यसे ॥ ५४॥
शङ्कर उवाच ।
इत्येवमुक्त्वा सजलाम्बुदाभः प्रतप्तचामीकरधौतवस्त्रः ।
अदर्शनं देववरो जगाम शक्रश्च लेभे सकलां त्रिलोकीम् ॥ ५५॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्करगीतासु
वामनप्रादुर्भावो नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥५५॥
अथ श्रीविष्णुधर्मोत्तरे प्रथमखण्डान्तर्गते शङ्करगीतासु
षष्ठोऽध्यायः ॥६॥
राम उवाच ।
तस्य देवादिदेवस्य विष्णोरमिततेजसः ।
त्वत्तोऽहं श्रोतुमिच्छामि दिव्या आत्मविभूतयः ॥ १॥
शङ्कर उवाच ।
न शक्या विस्तराद्वक्तुं देवदेवस्य भूतयः ।
प्राधान्यतस्ते वक्ष्यामि शृणुष्वैकमना द्विज ॥ २॥
सर्गे ब्रह्मा स्थितौ विष्णुः संहारे च तथा हरः ।
वरुणो वायुराकाशो ज्योतिश्च पृथिवी तथा ॥ ३॥
दिशश्च विदिश्चापि तथा ये च दिगीश्वराः ।
आदित्या वसवो रुद्रा भृगवोऽङ्गिरसस्तथा ॥ ४॥
साध्याश्च मरुतो देवा विश्वेदेवास्तथैव च ।
अश्विनौ पुरुहूतश्च गन्धर्वाप्सरसां गणाः ॥ ५॥
पर्वतोदधिपाताला लोका द्वीपाश्च भार्गव ।
तिर्यगूर्ध्वमधश्चैव त्विङ्गितं यश्च नेङ्गते ॥ ६॥
सच्चासच्च महाभाग प्रकृतिर्विकृतिश्च यः ।
कृमिकीटपतङ्गानां वयसां योनयस्तथा ॥ ७॥
विद्याधरास्तथा यक्षा नागाः सर्पाः सकिन्नराः ।
राक्षसाश्च पिशाचाश्च पितरः कालसंधयः ॥ ८॥
धर्मार्थकाममोक्षाश्च धर्मद्वाराणि यानि च ।
यज्ञाङ्गानि च सर्वाणि भूतग्रामं चतुर्विधम् ॥ ९॥
जरायुजाण्डजाश्चैव संस्वेदजमथोद्भिजम् ।
एकज्योतिः स मरुतां वसूनां स च पावकः ॥ १०॥
अहिर्बुध्न्यश्च रुद्राणां नादैवाश्विनयोस्तथा ।
नारायणश्च साध्यानां भृगूणां च तथा क्रतुः ॥ ११॥
आदित्यानां तथा विष्णुरायुरङ्गिरसां तथा ।
विश्वेषां चैव देवानां रोचमानः सुकीर्तितः ॥ १२॥
वासवः सर्वदेवानां ज्योतिषां च हुताशनः ।
यमः संयमशीलानां विरूपाक्षः क्षमाभृताम् ॥ १३॥
यादसां वरुणश्चैव पवन प्लवतां तथा ।
धनाध्यक्षश्च यक्षाणां रुद्रो रौद्रस्तथान्तरः ॥ १४॥
अनन्तः सर्वनागानां सूर्यस्तेजस्विनां तथा ।
ग्रहाणां च तथा चन्द्रो नक्षत्राणां च कृत्तिका ॥ १५॥
कालः कलयतां श्रेष्ठो युगानां च कृतं युगम् ।
कल्पं मन्वन्तरेशाश्च मनवश्च चतुर्दश ॥ १६॥
स एव देवः सर्वात्मा ये च देवेश्वरास्तथा ।
संवत्सरस्तु वर्षाणां चायनानां तथोत्तरः ॥ १७॥
मार्गशीर्षस्तु मासानां ऋतूनां कुसुमाकरः ।
शुक्लपक्षस्तु पक्षाणां तिथीनां पूर्णिमा तिथिः ॥ १८॥
कारणानां वधः (?) प्रोक्तो मुहूर्तानां तथाऽभिजित् ।
पातालानां सुतलश्च समुद्राणां पयोदधिः ॥ १९॥
जम्बूद्वीपश्च द्वीपानां लोकानां सत्य उच्यते ।
मेरुः शिलोच्चयानां च वर्षेष्वपि च भारतम् ॥ २०॥
हिमालयः स्थावराणां जाह्नवी सरितां तथा ।
पुष्करः सर्वतीर्थानां गरुडः पक्षिणां तथा ॥ २१॥
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ।
ऋषीणां च भृगुर्देवो देवर्षीणां च नारदः ॥ २२॥
तथा ब्रह्मर्षीणां च अङ्गिराः परिकीर्तितः ।
विद्याधराणां सर्वेषां देवश्चित्राङ्गदस्तथा ॥ २३॥
कंवरः किन्नराणां च सर्पाणामथ वासुकिः । (कंधरः?)
प्रह्लादः सर्वदैत्यानां रम्भा चाप्सरसां तथा ॥ २४॥
उच्चैःश्रवसमश्वानां धेनूनां चैव कामधुक् ।
ऐरावतो गजेन्द्राणां मृगाणां च मृगाधिपः ॥ २५॥
आयुधानां तथा वज्रो नराणां च नराधिपः ।
क्षमा क्षमावतां देवो बुद्धिर्बुद्धिमतामपि ।२६॥
धर्माविरुद्धः कामश्च तथा धर्मभृतां नृणाम् ।
धर्मो धर्मभृतां देवस्तपश्चैव तपस्विनाम् ॥ २७॥
यज्ञानां जपयज्ञश्च सत्यः सत्यवतां तथा ।
वेदानां सामवेदश्च अंशुनां ज्योतिषां पतिः ॥ २८॥
गायत्री सर्वमन्त्राणां वाचः प्रवदतां तथा ।
अक्षराणामकारश्च यन्त्राणां च तथा धनुः ॥ २९॥
अध्यात्मविद्या विद्यानां कवीनामुशना कविः ।
चेतना सर्वभूतानामिन्द्रियाणां मनस्तथा ॥ ३०॥
ब्रह्मा ब्रह्मविदां देवो ज्ञानं ज्ञानवतां तथा ।
कीर्तिः श्रीर्वाक् च नारीणां स्मृतिर्मेधा तथा क्षमा ॥ ३१॥
आश्रमाणां चतुर्थश्च वर्णानां ब्राह्मणस्तथा ।
स्कन्दः सेनाप्रणेतॄणां सदयश्च दयावताम् ॥ ३२॥
जयश्च व्यवसायश्च तथोत्साहवतां प्रभुः ।
अश्वत्थः सर्ववृक्षाणामोषधीनां तथा यवः ॥ ३३॥
मृत्युः स एव म्रियतामुद्भवश्च भविष्यताम् ।
झषाणां मकरश्चैव द्यूतं छलयतां तथा ॥ ३४॥
मानश्च सर्वगुह्यानां रत्नानां कनकं तथा ।
धृतिर्भूमौ रसस्तेजस्तेजश्चैव हुताशने ॥ ३५॥
वायुः स्पर्शगुणानां च खं च शब्दगुणस्तथा ।
एवं विभूतिभिः सर्वं व्याप्य तिष्ठति भार्गव ॥ ३६॥
एकांशेन भृगुश्रेष्ठ तस्यांशत्रितयं दिवि ।
देवाश्च ऋषयश्चैव ब्रह्मा चाहं च भार्गव ॥ ३७॥
चक्षुषा यन्न पश्यन्ति विना ज्ञानगतिं द्विज ।
ज्ञाता ज्ञेयस्तथा ध्याता ध्येयश्चोक्तो जनार्दनः ॥ ३८॥
यज्ञो यष्टा च गोविन्दः क्षेत्रं क्षेत्रज्ञ एव च ।
अन्नमन्नाद एवोक्तः स एव च गुणत्रयम् ।३९॥
गामाविश्य च भूतानि धारयत्योजसा विभुः ।
पुष्णाति चौषधीः सर्वा सोमो भूत्वा रसात्मकः ॥ ४०॥
प्राणिनां जठरस्थोऽग्निर्भुक्तपाची स भार्गव ।
चेष्टाकृत्प्राणिनां ब्रह्मन् स च वायुः शरीरगः ॥ ४१॥
यथादित्यगतं तेजो जगद्भासयतेऽखिलम् ।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजस्तत्र कीर्तितम् ॥ ४२॥
सर्वस्य चासौ हृदि सन्निविष्टस्तस्मात्स्मृतिर्ज्ञानमपोहनं च ।
सर्वैश्च देवैश्च स एव वन्द्यो वेदान्तकृद्वेदकृदेव चासौ ॥४३॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे
शङ्करगीतासु
विभूतिवर्णनं नाम षट्पञ्चाशत्तमोऽध्यायः ॥५६॥
अथ श्रीविष्णुधर्मोत्तरे प्रथमखण्डान्तर्गते शङ्करगीतासु
सप्तमोऽध्यायः ॥७॥
राम उवाच ।
आराध्यते स भगवान् कर्मणा येन शङ्कर ।
तन्ममाचक्ष्व भगवन् सर्वसत्त्वसुखप्रदम् ॥ १॥
शङ्कर उवाच ।
साधु राम महाभाग साधु दानवनाशन ।
यन्मां पृच्छसि धर्मज्ञ केशवाराधनं प्रति ॥ २॥
दिवसं दिवसार्धं वा मुहूर्तमेकमेव वा ।
नाशश्चाशेषपापस्य भक्तिर्भवति केशवे ॥ ३॥
अनेकजन्मसाहस्रैर्नानायोन्यन्तरेषु च ।
जन्तोः कल्मषहीनस्य भक्तिर्भवति केशवे ॥ ४॥
नाधन्यः केशवं स्तौति नाधन्योऽर्चयति प्रभुम् ।
नमत्यधन्यश्च हरिं नाधन्यो वेत्ति माधवम् ॥ ५॥
मनश्च तद्धि धर्मज्ञ केशवे यत्प्रवर्तते ।
सा बुद्धिस्तद्व्रतायैव सततं प्रतितिष्ठति ॥ ६॥
सा वाणी केशवं देवं या स्तौति भृगुनन्दन ।
श्रवणौ तौ श्रुता याभ्यां सततं तत्कथाः शुभाः ॥ ७॥
अवेहि धर्मज्ञ तथा तत्पूजाकरणात्करौ ।
तदेकं सफलं कर्म केशवार्थाय यत्कृतम् ॥ ८॥
यतो मुख्यफलावाप्तौ करणं सुप्रयोजनम् ।
मनसा तेन किं कार्यं यन्न तिष्ठति केशवे ॥ ९॥
बुद्ध्या वा भार्गवश्रेष्ठ तया नास्ति प्रयोजनम् ।
रोगः सा रसना वापि यया न स्तूयते हरिः ॥ १०॥
गर्तौ ब्रह्मव्रतौ कर्णौ याभ्यां तत्कर्म न श्रुतम् ।
भारभूतैः करैः कार्यं कि तस्य नृपशोर्द्विज ॥ ११॥
यैर्न सम्पूजितो देवः शङ्खचक्रगदाधरः ।
पादौ तौ सफलौ राम केशवालयगामिनौ ॥ १२॥
ते च नेत्रे महाभाग याभ्यां सन्दृश्याते हरिः ।
किं तस्य चरणैः कार्यं कृतस्य निपुणैर्द्विज ॥ १३॥
याभ्यां न व्रजते जन्तुः केशवालयदर्शने ।
जात्यन्धतुल्यं तं मन्ये पुरुषं पुरुषोत्तम ॥ १४॥
यो न पश्यति धर्मज्ञ केशवार्चा पुनः पुनः ।
क्लेशसंजननं कर्म वृथा तद्भृगुनन्दन ॥ १५॥
केशवं प्रति यद्राम क्रियतेऽहनि सर्वदा ।
पश्य केशवमाराध्य मोदमानं शचीपतिम् ॥ १६॥
यमञ्च वरुणञ्चैव तथा वैश्रवणं प्रभुम् ।
देवेन्द्रत्वमतिस्फीतं सर्वभूतिस्मितं(??) पदम् ॥ १७॥
हरिभक्तिद्रुमात्पुष्पं राजसात्सात्त्विकं फलम् ।
अणिमा महिमा प्राप्तिः प्राकाम्यं लघिमा तथा ॥ १८॥
ईशित्वञ्च वशित्वञ्च यत्र कामावसायिता ।
आराध्य केशवं देवं प्रप्यन्ते नात्र संशयः ॥ १९॥
हतप्रत्यङ्गमातङ्गो रुधिरारुणभूतले ।
सङ्ग्रामे विजयं राम प्राप्यते तत्प्रसादतः ॥ २०॥
महाकटितटश्रोण्यः पीनोन्नतपयोधराः ।
अकलङ्कशशाङ्काभवदना नीलमूर्धजाः ॥ २१॥
रमयन्ति नरं स्वप्ने देवरामा मनोहराः ।
सकृद्येनार्चितो देवो हेलया वा नमस्कृतः ॥ २२॥
वेदवेदाङ्गवपुषां मुनीनां भावितात्मनाम् ।
ऋषित्वमपि धर्मज्ञ विज्ञेयं तत्प्रसादजम् ॥ २३॥
रमन्ते सह रामाभिः प्राप्य वैद्याधरं पदम् ।
अन्यभावतया नाम्नः कीर्तनादपि भार्गव ॥ २४॥
रत्नपर्यङ्कशयिता महाभोगाश्च भोगिनः ।
वीज्यन्ते सह रामाभिः केशवस्मरणादपि ॥ २५॥
सौगन्धिके वने रम्ये कैलासपर्वते द्विज ।
यद्यक्षा विहरन्ति स्म तत्प्राहुः कुसुमं नतेः ॥ २६॥
रत्नचित्रासु रम्यासु नन्दनोद्यानभूमिषु ।
क्रीडन्ति च सह स्त्रीभिर्गन्धर्वीभिः कथाश्रुतेः ॥ २७॥
चतुस्समुद्रवेलायां मेरुविन्ध्यपयोधराम् ।
धरां ये भुञ्जते भूपाः प्रणिपातस्य तत्फलम् ॥ २८॥
तस्मात्तवाहं वक्ष्यामि यद्यदा चरतः सदा ।
पुरुषस्येह भगवान् सुतोषस्तुष्यते हरिः ॥ २९॥
पूज्यः स नित्यं वरदो महात्मा स्तव्य स नित्यं जगदेकवन्द्यः ।
ध्येयः स नित्यं सकलाघहर्ता चैतावदुक्तं तव राम गुह्यम् ॥ ३०॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे
शङ्करगीतासु
भक्तिफलप्रदर्शनं नाम सप्तपञ्चाशत्तमोऽध्यायः ॥५७॥
॥ शम्पाकगीता ॥
अध्ययः १७६
युधिष्ठिर उवाच ।
धनिनश्चाधना ये च वर्तयन्ते स्वतन्त्रिणः ।
सुखदुःखागमस्तेषां कः कथं वा पितामह ॥ १॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
शंपाकेनेह मुक्तेन गीतं शान्तिगतेन च ॥ २॥
अब्रवीन्मां पुरा कश्चिद्ब्राह्मणस्त्यागमाश्रितः ।
क्लिश्यमानः कुदारेण कुचैलेन बुभुक्षया ॥ ३॥
उत्पन्नमिह लोके वै जन्मप्रभृति मानवम् ।
विविधान्युपवर्तन्ते दुःखानि च सुखानि च ॥ ४॥
तयोरेकतरे मार्गे यदेनमभिसन्नयेत् ।
न सुखं प्राप्य संहृष्येन्नासुःखं प्राप्य सञ्ज्वरेत् ॥ ५॥
न वै चरसि यच्छ्रेय आत्मनो वा यदीशिषे ।
अकामात्मापि हि सदा धुरमुद्यम्य चैव ह ॥ ६॥
अकिञ्चनः परिपतन्सुखमास्वादयिष्यसि ।
अकिञ्चनः सुखं शेते समुत्तिष्ठति चैव ह ॥ ७॥
आकिञ्चन्यं सुखं लोके पथ्यं शिवमनामयम् ।
अनमित्रपथो ह्येष दुर्लभः सुलभो मतः ॥ ८॥
अकिञ्चनस्य शुद्धस्य उपपन्नस्य सर्वतः ।
अवेक्षमाणस्त्रीँल्लोकान्न तुल्यमिह लक्षये ॥ ९॥
आकिञ्चन्यं च राज्यं च तुलया समतोलयम् ।
अत्यरिच्यत दारिद्र्यं राज्यादपि गुणाधिकम् ॥ १०॥
आकिञ्चन्ये च राज्ये च विशेषः सुमहानयम् ।
नित्योद्विग्नो हि धनवान्मृत्योरास्य गतो यथा ॥ ११॥
नैवास्याग्निर्न चारिष्टो न मृत्युर्न च दस्यवः ।
प्रभवन्ति धनत्यागाद्विमुक्तस्य निराशिषः ॥ १२॥
तं वै सदा कामचरमनुपस्तीर्णशायिनम् ।
बाहूपधानं शाम्यन्तं प्रशंसन्ति दिवौकसः ॥ १३॥
धनवान्क्रोधलोभाभ्यामाविष्टो नष्ट चेतनः ।
तिर्यगीक्षः शुष्कमुखः पापको भ्रुकुटीमुखः ॥ १४॥
निर्दशन्नधरोष्ठं च क्रुद्धो दारुणभाषिता ।
कस्तमिच्छेत्परिद्रष्टुं दातुमिच्छति चेन्महीम् ॥ १५॥
श्रिया ह्यभीक्ष्णं संवासो मोहयत्यविचक्षणम् ।
सा तस्य चित्तं हरति शारदाभ्रमिवानिलः ॥ १६॥
अथैनं रूपमानश्च धनमानश्च विन्दति ।
अभिजातोऽस्मि सिद्धोऽस्मि नास्मि केवलमानुषः ॥ १७
इत्येभिः कारणैस्तस्य त्रिभिश्चित्तं प्रमाद्यति ।
सम्प्रसक्तमना भोगान्विसृज्य पितृसञ्चितान् ।
परिक्षीणः परस्वानामादानं साधु मन्यते ॥ १८॥
तमतिक्रान्तमर्यादमाददानं ततस्ततः ।
प्रतिषेधन्ति राजानो लुब्धा मृगमिवेषुभिः ॥ १९॥
एवमेतानि दुःखानि तानि तानीह मानवम् ।
विविधान्युपपान्ते गात्रसंस्पर्शजान्यपि ॥ २०॥
तेषां परमदुःखानां बुद्ध्या भैषज्यमाचरेत् ।
लोकधर्ममवज्ञाय ध्रुवाणामध्रुवैः सह ॥ २१॥
नात्यक्त्वा सुखमाप्नोति नात्यक्त्वा विन्दते परम् ।
नात्यक्त्वा चाभयः शेते त्यक्त्वा सर्वं सुखी भव ॥ २२॥
इत्येतद्धास्तिनपुरे ब्राह्मणेनोपवर्णितम् ।
शंपाकेन पुरा मह्यं तस्मात्त्यागः परो मतः ॥ २३॥
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
शंपाकगीतायां षट्सप्त्यत्यधिकशततमोऽध्यायः ॥ १७६॥
॥ इति॥
॥ शान्तिगीता ॥
मङ्गलाचरणम्
शान्तायाव्यक्तरूपाय मायाधाराय विष्णवे ।
स्वप्रकाशाय सत्याय नमोऽस्तु विश्वसाक्षिणे ॥ १॥
वाणी यस्य प्रकटति परं ब्रह्मतत्त्वं सुगूढं
मुक्तीच्छूनां गमयति पदं पूर्णमानन्दरूपम् ।
विभ्रान्तानां शमयति मतिं व्याकुलां भ्रान्तिमूलां
ब्रह्मा ह्येकां विदिशति परं श्रीगुरुं तं नमामि ॥ २॥
अथ प्रथमोऽध्यायः ।
विख्यातः पाण्डवे वंशे नृपेशो जनमेजयः ।
तस्य पुत्रो महाराजः शतानीको महामतिः ॥ १॥
एकदा सचिवैर्मित्रैर्वेष्टितो राजमन्दिरे ।
उपविष्टः स्तूयमाने मागधैः सूतवन्दिभिः ॥ २॥
सिंहासनसमारूढो महेन्द्रसदृशप्रभः ।
नानाकाव्यरसालापैः पण्डितैः सह मोदितः ॥ ३॥
एतस्मिन् समये श्रीमान् शान्तव्रतो महातपाः ।
समागतः प्रसन्नात्मा तेजोराशिस्तपोनिधिः ॥ ४॥
राजा दर्शनमात्रेण सामात्यमित्रबान्धवैः ।
प्रोत्थितो भक्तिभावेन हर्षेणोत्फुल्लमानसः ॥ ५॥
प्रणम्य विनयापन्नः प्रह्वीभावेन श्रद्धया ।
ददौ सिंहासनं तस्मै चोपवेशनकाङ्क्षया ॥ ६॥
पाद्यमर्घ्यं यथायोग्यं भक्तियुक्तेन चेतसा ।
दिव्यासने समासीनं मुनिं शान्तव्रतं नृपः ॥ ७॥
पप्रच्छ विनतः स्वास्थ्यं कुशलं तपसस्ततः ।
मुनिः प्रोवाच सर्वत्र सुखं सर्वसुखान्वयात् ॥ ८॥
अस्माकं कुशलं राजन् राज्ञः कुशलतः सदा ।
स्वाच्छन्द्यं राजदेहस्य राज्यस्य कुशलं वद ॥ ९॥
राजोवाच यत्र ब्रह्मन्नीदृशस्तापसोऽनिशम् ।
तिष्ठन् विराजते तत्र कुशलं कुशलेप्सया ॥ १०॥
क्षेमयुक्तो प्रसादेन भवतः शुभदृष्टितः ।
देहे गेहे शुभं राज्ये शान्तिर्मे वर्तते सदा ॥ ११॥
प्रणिपत्य ततो राजा विनयावनतः पुनः ।
कृताञ्जलिपुटः प्रह्वः प्राह तं मुनिसत्तमम् ॥ १२॥
श्रुता भवत्प्रसादेन तत्त्ववार्ता सुधा पुरा ।
इदानीं श्रोतुमिच्छामि यच्च सारतरं प्रभो ।
श्रुत्वा तत् कृतकृत्यः स्यां कृपया वद मे मुने ॥ १३॥
शान्तव्रत उवाच ।
शृणु राजन् प्रवक्ष्यामि सारं गुह्यतमं परम् ।
यदुक्तं वासुदेवेन पार्थाय शोकशान्तये ॥ १४॥
शान्तिगीतेति विख्याता सदा शान्तिप्रदायिनी ।
पुरा श्रीगुरुणा दत्ता कृपया परया मुदा ॥ १५॥
तं ते वक्ष्यामि राजेन्द्र रक्षिता यत्नतो मया ।
भवद्बुभुत्सया राजन् शृणुष्वावहितः स्थिरः ॥ १६॥
इत्यध्यात्मविद्यायां योगशास्त्रे शान्तिगीतायां
श्रीवासुदेवर्जुनसंवादे प्रथमोऽध्यायः ॥१॥
अथ द्वितीयोऽध्यायः ।
युद्धे विनिहते पुत्रे शोकविह्वलमर्जुनम् ।
दृष्ट्वा तं बोधयामास भगवान् मधसूदनः ॥ १॥
श्रीभगवानुवाच ।
किं शोचसि सखे पार्थ विस्मृतोऽसि पुरोदितम् ।
मूढप्रायो विमुग्धोऽसि मग्नोऽसि शोकसागरे ॥ २॥
मायिके सत्यवज्ज्ञानं शोकमोहस्य कारणम् ।
त्वं बुद्धोऽसि च धीरोऽसि शोकं त्यक्त्वा सुखी भव ॥ ३॥
संसारे मायिके घोरे सत्यभावेन मोहितः ।
ममताबद्धचित्तोऽसि देहाभिमानयोगतः ॥ ४॥
को वासि त्वं कथं जातः कः सुतो वा कलत्रकम् ।
कथं वा स्नेहबद्धोऽसि क्षणमात्रं विचारय ॥ ५॥
अज्ञानप्रभवं सर्वं जीवा मायावशंगताः ।
देहाभिमानयोगेन नानादुःखादि भुञ्जते ॥ ६॥
मनःकल्पितसंसारं सत्यं मत्वा मृषात्मकम् ।
दुःखं सुखं च मन्यन्ते प्रातिकूल्यानुकूल्ययोः ॥ ७॥
ममतापाशसंबद्धः संसारे भ्रमप्रत्यये ।
अनादिकालतो जीवः सत्यबुद्ध्या विमोहितः ॥ ८॥
त्यक्त्वा गृहं याति नवं पुराणमालम्बते दिव्यगृहं यथान्यत् ।
जीवस्तथा जीर्णवपुर्विहाय गृह्णाति देहान्तरमाशु दिव्यम् ॥ ९॥
अभावः प्रागभावस्य चावस्थापरिवर्तनात् ।
परिणामान्विते देहे पूर्वभावो न विद्यते ॥ १०॥
न दृश्यते बाल्यभावो देहस्य यौवनोदये ।
अवस्थान्तरसम्प्राप्तौ देहः परिणमेद्यतः ॥ ११॥
अतीते बहुले काले दृष्ट्वा न ज्ञायते हि सः ।
बुद्धेः प्रत्ययमात्रं तत् स एवेति विनिश्चयः ॥ १२॥
न पश्यन्ति बाल्यभावं देहस्य यौवनागमे ।
सुतस्य जनकस्तेन न शोचति न रोदिति ।
तथा देहान्तरप्राप्तिर्मत्वा शोकं सखे जहि ॥ १३॥
यत्पश्यसि महाबाहो जगत्तत्प्रातिभासिकम् ।
संस्कारवशतो बुद्धेर्दृष्टपूर्वेति प्रत्ययः ॥ १४॥
दृष्ट्वा तु शुक्तिरजतं लोभाद्ग्रहीतुमुद्यतः ।
प्राक् च बोधोदयात् द्रष्टा स्थानान्तरगतस्ततः ॥ १५॥
पुनरागत्य तत्रैव रजतं स प्रपश्यति ।
पूर्वदृष्टं मन्यमानो रजतं हर्षमोदितः ।
बुद्धेः प्रत्ययसङ्कल्पात् नास्ति रूपं त्रिकालके ॥ १६॥
देहो भार्या धनं पुत्रस्तरुराजिनिकेतनम् ।
शुक्तिरजतवत् सर्वं न किञ्चित् सत्यमस्ति तत् ॥ १७॥
सुषुप्तिकाले न हि दृश्यमानं मनःस्थितं सर्वमनन्तविश्वम् ।
समुत्थिते तन्मनसि प्रभाति चराचरं विश्वमिदं न सत्यम् ॥ १८॥
सदेवासीत्पुरा सृष्टेर्नान्यत् किञ्चिन्मिषत्ततः ।
न देशो नापि वा कालो नो भूतं नापि भौतिकम् ॥ १९॥
मायाविजृम्भिते तस्मिन् स्रक्फणीवोत्थितं जगत् ।
तत्सत् मायाप्रभावेन विश्वाकारेण भासते ॥ २०॥
भोक्ता भोगस्तथा भोग्यं कर्ता च करणं क्रिया ।
ज्ञाता ज्ञानं तथा ज्ञेयं स्वप्नवद्भाति सर्वशः ॥ २१॥
मायानिद्रावशात् स्वप्नः संसारो जीवगः खलु ।
कारणं ह्यात्मनोऽज्ञानं संसारस्य धनञ्जय ॥ २२॥
अज्ञानं गुणभेदेन शक्तिभेदेन न वै पुनः ।
मायाऽविद्या भवेदेका चिदाभासेन दीपिता ॥ २३॥
मायाभासेन जीवेशो करोति च पृथग्विधौ ।
मायाभासो भवेदीशोऽविद्योपाधिश्च जीवकः ॥ २४॥
चिदध्यासाच्चिदाभासो भासितौ चेतनाकृती ।
मायावच्छिन्नचैतन्यञ्चाभासाध्यासयोगतः ॥ २५॥
ईशः कर्ता ब्रह्म साक्षी मायोपहितसत्तया ।
अखण्डं सच्चिदानन्दं पूर्वाधिष्ठानमव्ययम् ॥ २६॥
न जायते म्रियाते वा न दह्यते न शोष्यते ।
अधिकारः सदासङ्गो नित्यमुक्तो निरञ्जनः ।
इत्युक्तं ते मया पूर्वं स्मृत्वात्मन्यवधारय ॥ २७॥
शुक्रशोणितयोगेन देहोऽयं भौतिकः स्मृतः ।
बाल्ये बालकरूपोऽसौ यौवने युवकः पुनः ॥ २८॥
गृहीतान्यस्य कन्यां हि पत्नीभावेन मोहितः ।
पुरा यया न सम्बन्धः सार्द्धाङ्गी सहधर्मिणी ॥ २९॥
तद्गर्भे रेतसा जातः पुत्रश्च स्नेहभाजनः ।
देहमलोद्भवः पुत्रः कीटवन्मलनिर्मितः ।
पितरौ ममतापाशं गले बद्ध्वा विमोहितौ ॥ ३०॥
न देहे तव सम्बन्धो न दारेषु सुते न च ।
पाशबद्धः स्वयं भूत्वा मुग्धोऽसि ममतागुणैः ॥ ३१॥
दुर्जयो ममतापाशश्चाच्छेद्यः सुरमानवैः ।
मम भार्या ममापत्यः मत्वा मुग्धोऽसि मूढवत् ॥ ३२॥
न त्वं देहो महाबाहो तव पुत्रः कथं वद ।
सर्वं त्यक्त्वा विचारेण स्वरूपमवधारय ॥ ३३॥
अर्जुन उवाच ।
किं करोमि जगन्नाथ शोकेन दह्यते मनः ।
पुत्रस्य गुणकर्माणि रूपं च स्मरतो मम ॥ ३४॥
चिन्तापरं मनो नित्यं धैर्यं न लभते क्षणम् ।
उपायं वद मे कृष्ण येन शोकः प्रशाम्यति ॥ ३५॥
श्रीभगवानुवाच ।
मनसि शोकसन्तापौ दह्यमानस्ततो मनः ।
त्वं पश्यसि महाबाहो द्रष्टासि त्वं मनो न हि ॥ ३६॥
द्रष्टा दृश्यात् पृथक् न्यासात् त्वं पृथक् च विलक्षणः ।
अविवेकात् मनो भूत्वा दग्धोऽहमिति मन्यसे ॥ ३७॥
अन्तःकरणमेकं तच्चतुर्वृत्तिसमन्वितम् ।
मनः सङ्कल्परूपं वै बुद्धिश्च निश्चयात्मिका ॥ ३८॥
अनुसन्धानवच्चित्तमहङ्कारोऽभिमानकः ।
पञ्चभूतांशसंभूता विकारी दृश्यचञ्चलः ॥ ३९॥
यदङ्गमग्निना दग्धं जानाति पुरुषो यथा ।
तथा मनः शुचा तप्तं त्वं जानासि धनञ्जय ॥ ४०॥
दग्धहस्तो यथा लोको दग्धोऽहमिति मन्यते ।
अविवेकात्तथा शोकतप्तोऽहमिति मन्यते ॥ ४१॥
जाग्रति जायमानं तत् सुषुप्तौ लीयते पुनः ।
त्वं च पश्यसि बोधस्त्वं न मनोऽसि शुचालयः ॥ ४२॥
सुषुप्तो मानसे लीने न शोकोऽप्यणुमात्रकः ।
जाग्रति शोकदुःखादि भवेन्मनसि चोत्थिते ॥ ४३॥
सर्वं पश्यसि साक्षी त्वं तव शोकः कथं वद ।
शोको मनोमये कोषे दुःखोद्वेगभयादिकम् ॥ ४४॥
स्वरूपोऽनबोधेन तादात्म्याध्यासयोगतः ।
अविवेकान्मनोधर्मं मत्वा चात्मनि शोचसि ॥ ४५॥
शोकं तरति चात्मज्ञः श्रुतिवाक्यं विनिश्चिनु ।
अतः प्रयत्नतो विद्वान्नात्मानं विद्धि फाल्गुन ॥ ४६॥
इत्यध्यात्मविद्यायां योगशास्त्रे शान्तिगीतायां
श्रीवासुदेवर्जुनसंवादे द्वितीयोऽध्यायः ॥२॥
अथ तृतीयोऽध्यायः ।
अर्जुन उवाच ।
मनोबुद्धीन्द्रियादीनां य आत्मा न हि गोचरः ।
स कथं लभ्यते कृष्ण तद्ब्रूहि यदुनन्दन ॥ १॥
श्रीभगवानुवाच ।
आत्मातिसूक्ष्मरूपत्वात् बुद्ध्यादीनामगोचरः ।
लभ्यते वेदवाक्येन चाचार्यानुग्रहेण च ॥ २॥
महावाक्यविचारेण गुरूपदिष्टमार्गतः ।
शिष्यो गुणाभिसम्पन्नो लभेत शुद्धमानसः ॥ ३॥
एकार्थबोधकं वेदे महावाक्यचतुष्टयम् ।
तत्त्वमसि गुरोर्वक्त्रात् श्रुत्वा सिद्धिमवाप्नुयात् ॥ ४॥
गुरुसेवां प्रकुर्वाणो गुरुभक्तिपरायणः ।
गुरोः कृपावशात् पार्थ लभ्य आत्मा न संशयः ॥ ५॥
आत्मवासनया युक्तो जिज्ञासुः शुद्धमानसः ।
विषयासक्तिसंत्यक्तः स्वात्मानं वेत्ति श्रद्धया ॥ ६॥
वैराग्यं कारणं चादौ यद्भवेद्बुधिशुद्धितः ।
कर्मणा चित्तशुद्धिः स्याद्विशेषं शृणु काथ्यते ॥ ७॥
स्ववर्णाश्रमधर्मेण वेदोक्तेन च कर्मणा ।
निष्कामेन सदाचार ईश्वरं परितोषयेत् ॥ ८॥
कामसङ्कल्पसंत्यागादीश्वरप्रीतिमानसात् ।
स्वधर्मपालनाच्चैव श्रद्धाभक्तिसमन्वयात् ॥ ९॥
नित्यनैमित्तिकाचारात् ब्रह्मणि कर्मणोऽर्पणात् ।
देवायतनतीर्थानां दर्शनात् परिसेवनात् ।
यथाविधि क्रमेणैव बुद्धिशुद्धिः प्रजायते ॥ १०॥
पापेन मलिना बुद्धिः कर्मणा शोधिता यदा ।
तदा शुद्धा भवेत् सैव मलदोषविवर्जनात् ॥ ११॥
निर्मलायां तत्र पार्थ विवेक उपजायते ।
किं सत्यं किमसत्यं वेत्यद्यालोचनतत्परः ॥ १२॥
ब्रह्म सत्यं जगन्मिथ्या विवेकाद्दृढनिश्चयः ।
ततो वैराग्यमासक्तेस्त्यागो मिथ्यात्मकेषु च ॥ १३॥
भोग्यं वै भोगिभोगं विषमयविषयं प्लोषिणी चापि पत्नी
वित्तं चित्तप्रमाथं निधनकरधनं शत्रुवत् पुत्रकन्ये ।
मित्रं मित्रोपतापं वनमिव भवनं चान्धवद्बन्धुवर्गाः
सर्वं त्यक्त्वा विरागी निजहितनिरतः सौख्यलाभे प्रसक्तः ॥ १४॥
भोगासक्ताः प्रमुग्धाः सततधनपरा भ्राम्यमाणा यथेच्छं
दारापत्यादिरक्ता निजजनभरणे व्यग्रचित्ता विषण्णाः ।
लप्स्येऽहं कुत्र दर्भं स्मरणमनुदिनं चिन्तया व्याकुलात्मा
हा हा लोका विमूढाः सुखरसविमुखाः केवला दुःखभाराः ॥ १५॥
ब्रह्मादि स्तम्बपर्यन्तं वस्तु सर्वं जुगुप्सितम् ।
शुनो विष्ठासमं त्याज्यं भोगवासनया सह ॥ १६॥
नोदेति वासना भोगे घृणा वान्ताशने यथा ।
ततः शमदमौ चैव मन इन्द्रियनिग्रहः ॥ १७॥
तितिक्षोपरतिश्चैव समाधानं ततः परम् ।
श्रद्धा श्रुति-गुरोर्वाक्ये विश्वासः सत्यनिश्चयात् ॥ १८॥
संसारग्रन्धिभेदेन मोक्तुमिच्छा मुमुक्षुता ।
एतत्साधनसम्पन्नो जिज्ञासुर्गुरुमाश्रयेत् ॥ १९॥
ज्ञानदाता गुरुः साक्षात् संसारार्णवतारकः ।
श्रीगुरुकृपया शिष्यस्तरेत् संसारवारिधिम् ॥ २०॥
विनाचार्यं न हि ज्ञानं न मुक्तिर्नापि सद्गतिः ।
अतः प्रयत्नतो विद्वान् सेवया तोषयेद्गुरुम् ॥ २१॥
सेवया सम्प्रसन्नात्मा गुरुः शिष्यं प्रबोधयेत् ।
न त्वं देहो नेन्द्रियाणि न प्राणो न मनोधियः ॥ २२॥
एषां द्रष्टा च साक्षी त्वं सच्चिदानन्दविग्रहः ।
प्रतिबन्धकशून्यस्य ज्ञानं स्यात् श्रुतिमात्रतः ॥ २३॥
न चेन्मननयोगेन निदिध्यासनतः पुनः ।
प्रतिबन्धक्षये ज्ञानं स्वयमेवोपजायते ॥ २४॥
विस्मृतं स्वरूपं तत्र लब्ध्वा चामीकरं यथा ।
कृतार्थः परमानन्दो मुक्तो भवति तत्क्षणम् ॥ २५॥
अर्जुन उवाच ।
जीवः कर्ता सदा भोक्ता निष्क्रियं ब्रह्म यादव ।
ऐक्यज्ञानं तयोः कृष्ण विरुद्धत्वात् कथं भवेत् ॥ २६॥
एतन्मे संशयं छिन्धि प्रपन्नोऽहं जनार्दन ।
त्वां विना संशयच्छेत्ता नास्ति कश्चिद्विनिश्चयः ॥ २७॥
श्रीवासुदेव उवाच ।
संशोध्य त्वं पदं पूर्वं स्वरूपमवधारयेत् ।
प्रकारं शृणु वक्ष्यामि वेदवाक्यानुसारतः ॥ २८॥
देहत्रयं जडत्वेन नाश्यत्वेन निरासय ।
स्थूलं सूक्ष्मं कारणं च पुनः पुनर्विचारय ॥ २९॥
काष्ठादि लोष्टवत् सर्वमनात्मजडनश्वरम् ।
कदलीदलवत् सर्वं क्रमेणैव परित्यज ॥ ३०॥
तद्बाधस्य हि सीमानं त्यागयोग्यं स्वयम्प्रभम् ।
त्वमात्मत्वेन संविद्धि चेति त्वं-पद-शोधनम् ॥ ३१॥
तत्पदस्य च पारोक्ष्यं मायोपाधिं परित्यज ।
तदधिष्ठानचैतन्यं पूर्णमेकं सदव्ययम् ॥ ३२॥
तयोरैक्यं महाबाहो नित्याखण्डावधारणम् ।
घटाकाशो महाकाश इवात्मानं परात्मनि ।
ऐक्यमखण्डभावं त्वं ज्ञात्वा तूष्णीं भवार्जुन ॥ ३३॥
ज्ञात्वैवं योगयुक्तात्मा स्थिरप्रज्ञः सदा सुखी ।
प्रारब्धवेगपर्यन्तं जीवन्मुक्तो विहारवान् ॥ ३४॥
न तस्य पुण्यं न हि तस्य पापं निषेधनं नैव पुनर्न वैधम् ।
सदा स मग्नः सुखवारिराशौ वपुश्चरेत् प्राक्कृतकर्मयोगात् ॥ ३५॥
इत्यध्यात्मविद्यायां योगशास्त्रे शान्तिगीतायां
श्रीवासुदेवर्जुनसंवादे तृतीयोऽध्यायः ॥३॥
अथ चतुर्थोऽध्यायः ।
अर्जुन उवाच ।
योगयुक्तः कथं कृष्ण व्यवहारे चरेद्वद ।
विना कस्याप्यहङ्कारं व्यवहारो न सम्भवेत् ॥ १॥
श्रीभगवानुवाच ।
शृणु तत्त्वं महाबाहो गुह्यात् गुह्यतरं परम् ।
यच्छ्रुत्वा संशयच्छेदात् कृतकृत्यो भविष्यसि ॥ २॥
व्यावहारिकदेहेऽस्मिन्नात्मबुद्ध्या विमोहितः ।
करोति विविधं कर्म जीवोऽहङ्कारयोगतः ॥ ३॥
न जानाति स्वमात्मानमहं कर्तेति मोहितः ।
अहङ्कारस्य सद्धर्मं संघातं न विचालयेत् ॥ ४॥
आत्मा शुद्धः सदा मुक्तः सङ्गहीनश्चिदक्रियः ।
न हि सम्बन्धगन्धं तत् संघातैर्मायिकैः क्वचित् ॥ ५॥
सच्चिदानन्दमात्मानं यदा जानाति निष्क्रियम् ।
तदा तेभ्यः समुत्तीर्णः स्वस्वरूपे व्यवस्थितम् ॥ ६॥
प्रारब्धात् विचरेद्देहो व्यवहारं करोति च ।
स्वयं स सच्चिदानन्दो नित्यः सङ्गविवर्जितः ॥ ७॥
अखण्डमद्वयं पूर्णं सदा सच्चित्सुखात्मकम् ।
देशकालजगज्जीवा न हि तत्र मनागपि ॥ ८॥
मायाकार्यमिदं सर्वं व्यवहारिकमेव तु ।
इन्द्रजालमयं मिथ्या मायामात्रविजृम्भितम् ॥ ९॥
जाग्रदादि विमोक्षान्तं मायिकं जीवकल्पितम् ।
जीवस्यानुभवः सर्वः स्वप्नवद्भरतर्षभ ॥ १०॥
न त्वं नाहं न वा पृथ्वी न दारा न सुतादिकम् ।
भ्रान्तोऽसि शोकसन्तापैः सत्यं मत्वा मृषात्मकम् ॥ ११॥
शोकं जहि महाबाहो ज्ञात्वा मायाविलासकम् ।
त्वं सदाद्वयरूपोऽसि द्वैतलेशविवर्जितः ।
द्वैतं मायामयं सर्वं त्वयि न स्पृश्यते क्वचित् ॥ १२॥
एकं न सङ्ख्याबद्धत्वात् न द्वयं तत्र शोभते ।
एकं स्वजातिहीनत्वाद्विजातिशून्यमद्वयम् ॥ १३॥
केवलं सर्वशून्यत्वादक्षयाच्च सदव्ययम् ।
तुरीयं त्रितयापेक्षं प्रत्यक् प्रकाशकत्वतः ॥ १४॥
साक्षि-साक्ष्यमपेक्ष्यैव द्रष्टृदृश्यव्यपेक्षया ।
अलक्ष्यं लक्षणाभावात् ज्ञानं वृत्यधिरूढतः ॥ १५॥
अर्जुन उवाच ।
का माया वाऽद्भुता कृष्ण काऽविद्या जीवसूतिका ।
नित्या वाप्यपराऽनित्या कः स्वभावस्तयोर्हरे ॥ १६॥
श्रीभगवानुवाच ।
शृणु महाद्भुता माया सत्त्वादि त्रिगुणान्विता ।
उत्पत्तिरहिताऽनादिर्नैसर्गिक्यपि कथ्यते ॥ १७॥
अवस्तु वस्तुवद्भाति वस्तुसत्तासमाश्रिता ।
सदसद्भ्यामनिर्वाच्या सान्ता च भावरूपिणी ॥ १८॥
ब्रह्माश्रया चिद्विषया ब्रह्मशक्तिर्महाबला ।
दुर्घटोद्घटनाशीला ज्ञाननाश्या विमोहिनी ॥ १९॥
शक्तिद्वयं हि मायाया विक्षेपावृत्तिरूपकम् ।
तमोऽधिकावृतिः शक्तिविक्षेपाख्या तु राजसी ॥ २०॥
विद्यारूपा शुद्धसत्त्वा मोहिनी मोहनाशिनी ।
तमःप्राधान्यतोऽविद्या सावृतिशक्तिमत्त्वतः ॥ २१॥
मायाऽविद्या न वै भिन्ना समष्टि-व्यष्टिरूपतः ।
मायाविद्या-समष्टिः सा चैकैव बहुधा मता ॥ २२॥
चिदाश्रया चितिभास्या विषयं तां करोति हि ।
आवृत्य चित्स्वभावं सद्विक्षेपं जनयेत्ततः ॥ २३॥
अर्जुन उवाच ।
यद्ब्रह्मशक्तिर्या माया सापि नाश्या भवेत् कथम् ।
यदि मिथ्या हि सा माया नाशस्तस्याः कथं वद ॥ २४॥
श्रीभगवानुवाच ।
मायाख्यां भावसंयुक्तां कथयामि शृणुष्व मे ।
प्रकृतिं गुणसाम्यात्तां मायां चाद्भुतकारिणीम् ॥ २५॥
प्रधानमात्मसात्कृत्वा सर्वं तिष्ठेदुदासिनी ।
विद्या नाश्या तथाऽविद्या शक्तिर्ब्रह्माश्रयत्वतः ॥ २६॥
विना चैतन्यमन्यत्र नोदेति न च तिष्ठति ।
अत,एव ब्रह्मशक्तिरित्याहुर्ब्रह्मवादिनः ॥ २७॥
शक्तितत्त्वं प्रवक्ष्यामि शृणुष्व तत्समाहितः ।
ब्रह्मणश्चिज्जडैर्भेदात् द्वे शक्ती परिकीर्तिते ॥ २८॥
चिच्छक्तिः स्वरूपं ज्ञेया माया जडा विकारिणी ।
कार्यप्रसाधिनी माया निर्विकारा चितिः परा ॥ २९॥
अग्नेर्यथा द्वयी शक्तिर्दाहिका च प्रकाशिका ।
न हि भिन्नाथवाऽभिन्ना दाहशक्तिश्च पावकात् ॥ ३०॥
न ज्ञायते कथं कुत्र विद्यते दाहतः पुरा ।
कार्यानुमेया सा ज्ञेया दाहेनानुमितिर्यतः ॥ ३१॥
मणिमन्त्रादियोगेन रुध्यते न प्रकाशते ।
सा शक्तिरनलाद्भिन्ना रोधनान्न हि तिष्ठति ॥ ३२॥
नोदेति पावकाद्भिन्ना ततोऽभिन्नेति मन्यते ।
नानले वर्तते सा च न कार्ये स्फोटके तथा ॥ ३३॥
अनिर्वाच्याद्दता चैव मायाशक्तिस्तथेष्यताम् । dda?dhR^i
या शक्तिर्नानलाद्भिन्ना तां विनाग्निर्न किञ्चन ॥ ३४॥
अनलस्वरूपा ज्ञेया शक्तिः प्रकाशरूपिणी ।
चिच्छक्तिर्ब्रह्मणस्तद्वत् स्वरूपं ब्रह्मणः स्मृतम् ॥ ३५॥
दाहिकासदृशी माया जडा नाश्या विकारिणी ।
मृषात्मिका तु याऽवस्तु तन्नाशस्तत्त्वदृष्टितः ॥ ३६॥
मिथ्येति निश्चयात् पार्थ मिथ्यावस्तु विनश्यति ।
आश्चर्यरूपिणी माया स्वनाशेन हि हर्षदा ॥ ३७॥
अज्ञानात् मोहिनी माया प्रेक्षणेन विनश्यति ।
मायास्वभावविज्ञानं सान्निध्यं न हि वाञ्छति ॥ ३८॥
महामाया घोरा जनयति महामोहमतुलं
ततो लोकाः स्वार्थे विवशपतिताः शोकविकलाः ।
सहन्ते दुःसह्यं जनिमृतिजराक्लेशबहुलं
सुभुञ्जाना दुःखं न हि गतिपरां जन्मबहुभिः ॥ ३९॥
इत्यध्यात्मविद्यायां योगशास्त्रे श्रीवासुदेवार्जुनसंवादे
शान्तिगीतायां चतुर्थोऽध्यायः ॥४॥
अथ पञ्चमोऽध्यायः ।
अर्जुन उवाच ।
मायाऽवस्तु मृषारूपा कार्यं तस्या न सम्भवेत् ।
वन्ध्यापुत्रो रणे दक्षो जयी युद्धे तथा न किम् ॥ १॥
व्योमारविन्दवासेन यथा वासः सुवासितम् ।
मायायाः कार्यविस्तारस्तथा यादव मे मतिः ॥ २॥
श्रीभगवानुवाच ।
दृश्यते कार्यबाहुल्यं मिथ्यारूपस्य भारत ।
असत्यो भुजगो रज्ज्वां जनयेद्वेपथुं भयम् ॥ ३॥
उत्पादयेद्रूप्यखण्डं शुक्तौ च लोभमोहनम् ।
सूयते हि मृषामाया व्यवहारास्पदं जगत् ॥ ४॥
तत्त्वज्ञस्य मृषामाया पुरा प्रोक्ता मयानघ ।
मृषामाया च तत्कार्यं मृषाजीवः प्रपश्यति ।
सर्वं तत्स्वप्नवद्भानं चैतन्येन विभास्यते ॥ ५॥
अज्ञः सत्यं विजानाति तत्कार्येण विमोहितः ॥ ६॥
प्रबुद्धतत्त्वस्य तु पूर्णबोधे न सत्यमाया न च कार्यमस्याः ।
तमन्तमःकार्यमसत्यसर्वं न दृश्यते भानुमहाप्रकाशे ॥ ७॥
अर्जुन उवाच ।
अकर्मकर्मणोर्भेदं पुरोक्तं यत्त्वया हरे ।
तत्तात्पर्यं सुगूढं यद्विशेषं कथयाधुना ॥ ८॥
श्रीवासुदेव उवाच ।
कर्मण्यकर्म यः पश्येद्यदुक्तं कुरुनन्दन ।
शृणुष्वावहितो विद्वन् तत्तात्पर्यं वदामि ते ॥ ९॥
भवति स्वप्ने यत्कर्म शयानस्य न कर्तृता ।
पश्यत्यकर्म बुद्धः सन्नसङ्गं न फलं यतः ॥ १०॥
स्वप्नव्यापारमिथ्यात्वात् न सत्यं कर्म तत्फलम् ।
अतोऽकर्मैव तत्कर्म दार्ष्टान्तिकमतः शृणु ॥ ११॥
सङ्घात्यैर्मायिकैः कर्म व्यवहारश्च लौकिकः ।
मायानिद्रावशात्स्वप्नमनृतं सर्वमेव हि ॥ १२॥
साभासाहङ्कृतिर्जीवः कर्ता भोक्ता च तत्र वै ।
ज्ञानी प्रबुद्धो निद्रायाः सर्वं मिथ्येति निश्चयी ॥ १३॥
कर्मण्यकर्म पश्येत् स स्वयं साक्षिस्वरूपतः ।
ज्ञानाभिमानिनस्त्वज्ञास्त्यक्त्वा कर्माण्यवस्थिताः ॥ १४॥
प्रत्यवायाद्भवेद्भोगः ज्ञानी कर्म तमिच्छति ।
उद्देश्यं सर्ववेदानां सफलं कृत्स्नकर्मणाम् ॥ १५॥
तत्तत्त्वज्ञो यतो विद्वानतः स कृत्स्नकर्मकृत् ।
सर्वे वेदा यत्र चैकीभवन्तीति प्रमाणतः ।
उद्देश्यं सर्ववेदानां फलं तत्कृत्स्नकर्मणाम् ॥ १६॥
अज्ञानिनां जगत् सत्यं तत्तुच्छं हि विचारिणाम् ।
विज्ञानां मायिकं मिथ्या त्रिविधो भावनिर्णयः ॥ १७॥
अर्जुन उवाच ।
ज्ञात्वा तत्त्वमिदं सत्यं कृतार्थोऽहं न संशयः ।
अन्यत् पृच्छामि तत्तथ्यं कथयस्व सविस्तरम् ॥ १८॥
सर्वकर्म परित्यज्य मामेकं शरणं व्रज ।
पुरा प्रोक्तस्य तात्पर्यं श्रोतुमिच्छामि तद्वद ॥ १९॥
श्रीभगवानुवाच ।
नित्यं नैमित्तिकं कार्यं स्वाभाव्यं च निषेधितम् ।
एतत् पञ्चविधं कर्म विशेषं शृणु कथ्यते ॥ २०॥
कर्तुं विधानं यद्वेदे नित्यादि विहितं मतम् ।
निवारयति यद्वेदस्तन्निषिद्धं परन्तप ।
वेदः स्वाभाविके सर्वं औदसीन्यावलम्बितः ॥ २१॥
प्रत्यवायो भवेद्यस्याऽकरणे नित्यमेव तत् ।
फलं नास्तीति नित्यस्य केचिद्वदन्ति पण्डिताः ॥ २२॥
न सत् तद्युक्तितः पार्थ कर्तव्यं निष्फलं कथम् ।
न प्रवृत्तिः फलाभावे तां विनाचरणं न हि ॥ २३॥
नित्येनैव देवलोकं तथैव बुद्धिशोधनम् ।
फलमकरणे पापं प्रत्यवायाच्च दृश्यते ॥ २४॥
प्रत्यवायः फलं पापं फलाभावे न सम्भवेत् ।
नाभावाज्जायते भावो फलाभावो न सम्मतः ॥ २५॥
नैमित्तिकं निमित्तेन कर्तव्यं विहितं सदा ।
चन्द्रसूर्यग्रहे दानं श्राद्धादि तर्पणं यथा ॥ २६॥
काम्यं तत् कामनायुक्तं स्वर्गादिसुखसाधनम् ।
धनागमश्च कुशलं समृद्धिर्जय ऐहिके ॥ २७॥
तद्बन्धदृढताहेतुः सत्यबुद्धेस्तु संसृतौ ।
अतः प्रयत्नतस्त्याज्यः काम्यञ्चैव निषेधितम् ॥ २८॥
अधिकारिविशेषे तु काम्यस्याप्युपयोगिता ।
कामनासिद्धिरुक्तत्वात् काम्ये लोभप्रदर्शनात् ॥ २९॥
प्रवृत्तिजननाच्चैव लोभवाक्यं प्रलोभनात् ।
बहिर्मुखानां दुर्वृत्तिनिवृत्तिः काम्यकर्मभिः ॥ ३०॥
सत्प्रवृत्तिविवृद्ध्यर्थं विधानं काम्यकर्मणाम् ।
काम्योऽवान्तरभोगश्च तदन्ते बुद्धिशोधनम् ॥ ३१॥
ईश्वराराधनादुग्धं कामनाजलमिश्रितम् ।
वैराग्यानलतापेन तज्जलं परिशोष्यते ॥ ३२॥
ईश्वराराधना तत्र दुग्धवदवशिष्यते ।
तेन शुद्धं भवेच्चित्तं तात्पर्यं कामकर्मणः ॥ ३३॥
कर्मबीजादिहैकस्माज्जायते चाङ्कुरद्वयम् ।
अपूर्वमेकमपरा वासना परिकीर्तिता ॥ ३४॥
भवत्यपूर्वतो भोगो दत्वा भोगं स नश्यति ।
वासना सूयते कर्म शुभाशुभविभेदतः ॥ ३५॥
वासनया भवेत् कर्म कर्मणा वासना पुनः ।
एताभ्यां भ्रमितो जीवः संसृतेर्न निवर्तते ॥ ३६॥
दुःखहेतुस्ततः कर्म जीवानां पदशृङ्खलम् ।
चिन्ता वैषम्यचित्तस्य अशेषदुःखकारणम् ॥ ३७॥
सर्वं कर्म परित्यज्य एकं मां शरणं व्रजेत् ।
मांशब्दस्तत्त्वदृष्ट्या तु न हि सङ्घातदृष्टितः ॥ ३८॥
एकोऽहं सच्चिदानन्दस्तात्पर्येण तमाश्रय ।
सदेकासीदिति श्रौतं प्रमाणमेकशब्दके ।
एकं मां सर्वभूतेषु यः पश्यति स पश्यति ॥ ३९॥
सर्वकर्म महाबाहो त्यजेत् सन्न्यासपूर्वकम् ।
सर्वकर्म तथा चिन्तां त्यक्त्वा सन्न्यासयोगतः ।
जानीयादेकमात्मानं सदा तच्चित्तसंयतः ॥ ४०॥
विधिना कर्मसंत्यागः सन्न्यासेन विवेकतः ।
अवैधं स्वेच्छया कर्म त्यक्त्वा पापेन लिप्यते ॥ ४१॥
आत्मज्ञानं विना न्यासं पातित्यायैव कल्प्यते ।
कर्म ब्रह्मोभयभ्रष्टो नद्यां द्विकूलवर्जितः ।
अहङ्कारमहाग्राहग्रस्यमानो विनश्यति ॥ ४२॥
जाठरे भरणे रक्तः संसक्तः सञ्चये तथा ।
पराङ्मुखः स्वात्मतत्त्वे स सन्न्यासी विडम्बितः ॥ ४३॥
सर्वकर्मविरागेण सन्न्यसेद्विधिपूर्वकम् ।
अथवा सन्न्यसेत् कर्म जन्महेतुं हि सर्वतः ॥ ४४॥
एकं मां संश्रयेत् पार्थ सच्चिदानन्दमव्ययम् ।
अहंपदस्य लक्ष्यं तदहमः साक्षि निष्कलम् ॥ ४५॥
आत्मानं ब्रह्मरूपेण ज्ञात्वा मुक्तो भवार्जुन ॥ ४६॥
देहात्ममानिनां दृष्टिर्देहेऽहंममशब्दतः ।
कुबुद्धयो न जानन्ति मम भावमनामयम् ॥ ४७॥
चैतन्यं त्वमहं सर्वं स्वरूपमवलोकय ।
इति ते कथितं तत्त्वं सर्वसारमनुत्तमम् ॥ ४८॥
इत्यध्यात्मविद्यायां योगशास्त्रे श्रीवासुदेवार्जुनसंवादे
शान्तिगीतायां पञ्चमोऽध्यायः ॥५॥
अथ षष्ठोऽध्यायः ।
अर्जुन उवाच ।
किं कर्तव्यं विदां कृष्ण किं निरुद्धं वदस्व मे ।
विशेषलक्षणं तेषां विस्तरेण प्रकाशय ॥ १॥
श्रीकृष्ण उवाच ।
कर्तव्यं वाप्यकर्तव्यं नास्ति तत्त्वविदां सखे ।
तेऽकर्तारो ब्रह्मरूपा निषेधविधिवर्जिताः ॥ २॥
वेदः प्रभुर्न वै तेषां नियोजननिषेधने ।
स्वयं ब्रह्म सदानन्दा विश्रान्ताः परमात्मनि ॥ ३॥
न प्रवृत्तिर्निवृत्तिर्वा शुभे वाप्यशुभे तथा ।
फलं भोगस्तथा कर्म नादेहस्य भवेत्क्वचित् ॥ ४॥
देहः प्राणो मनो बुद्धिश्चित्ताहङ्कारमिन्द्रियम् ।
दैवं च वासना चेष्टा तद्योगात् कर्म सम्भवेत् ॥ ५॥
ज्ञानी सर्वं विचारेण निरस्य जडबोधतः ।
स्वरूपे सच्चिदानन्दे विश्रान्तश्चाद्वयत्वतः ॥ ६॥
कर्मलेशो भवेन्नास्य निष्क्रियात्मतया यतेः ।
तस्यैव फलभोगः स्याद्येन कर्म कृतं भवेत् ॥ ७॥
शरीरे सति यत्कर्म भवतीति प्रपश्यसि ।
अहङ्कारश्च साभासः कर्ता भोक्तात्र कर्मणः ॥ ८॥
साक्षिणा भास्यते सर्वं ज्ञानी साक्षी स्वयंप्रभः ।
सङ्गस्पर्शौ ततो न स्तो भानुवल्लोककर्मभिः ॥ ९॥
विचरति गृहकार्ये त्यक्तदेहाभिमानो
विहरति जनसङ्गे लोकयात्रानुरूपम् ।
पवनसमविहारी रागसङ्गादिमुक्तो
विलसति निजरूपे तत्त्वविद्व्यक्तलिङ्गः ॥ १०॥
लक्षणं किं ते वक्ष्यामि स्वभावतो विलक्षणः ।
भावातीतस्य को भावः किमलक्ष्यस्य लक्षणम् ॥ ११॥
विहरेद्विविधैर्भावैर्भावाभावविवर्जितः ।
सर्वाचारानतीतः स नानाचारैश्चरेद्यतिः ॥ १२॥
प्रारब्धैर्नीयते देहः कञ्चुकं पवनैर्यथा ।
भोगे नियोज्यते काले यथायोग्यं शरीरकम् ॥ १३॥
नानावेशधरो योगी विमुक्तः सर्ववेशतः ।
क्वचिद्भिक्षुः क्वचिन्नग्नो भोगे मग्नमनाः क्वचित् ॥ १४॥
शैलूषसदृशो वेशैर्नानारूपधरः सदा ।
भिक्षाचाररतः कश्चित् कश्चित्तु राजवैभवः ॥ १५॥
कश्चिद्भोगरतः कामी कश्चिद्वैराग्यमाश्रितः ।
दिव्यवासाश्चीराच्छन्नो दिग्वासा बद्धमेखलः ॥ १६॥
कश्चित् सुगन्धलिप्ताङ्गः कश्चिद्भस्मानुलेपितः ।
कश्चिद्भोगविहारी च युवती-यान-ताम्बूलैः ॥ १७॥
कश्चिदुन्मत्तवद्वेशः पिशाच इव वा वने ।
कश्चिन्मौनी भवेत् पार्थ कश्चिद्वक्तातितार्किकः ॥ १८॥
कश्चिच्छुभाशीः सत्पात्रः कश्चित्तद्भाववर्जितः ।
कश्चिद्गृही वनस्थोऽन्यः कश्चिन्मूढोऽपरः सुखी ॥ १९॥
इत्यादि विविधैर्भावैश्चरन्ति ज्ञानिनो भुवि ।
अव्यक्ता व्यक्तलिङ्गश्च भ्रमन्ति भ्रमवर्जिताः ॥ २०॥
नानाभावेन वेशेन चरन्ति गतसंशयाः ।
न ज्ञायते तु तान् दृष्ट्वा किञ्चिच्चिह्नञ्च बाह्यतः ॥ २१॥
देहात्मबुद्धितो लोके बाह्यलक्षणमीक्षते ।
अन्तर्भावे न वै वेद्यो बहिर्लक्षणतः क्वचित् ॥ २२॥
यो जानाति स जानाति नान्ये वादरता जनाः ।
शास्त्रारण्ये भ्रमन्ते ते न तेषां निष्कृतिः क्वचित् ॥ २३॥
दुष्प्राप्यतत्त्वं बहुना धनेन लभ्यं परं जन्मशतेन चैव ।
भाग्यं यदि स्याच्छुभसञ्चयेन पुण्येन चाचार्यकृपावशेन ॥ २४॥
यदि सर्वं परित्यज्य मयि भक्तिपरायणः ।
साधयेदेकचित्तेन साधनानि पुनः पुनः ॥ २५॥
विधाय कर्म निष्कामं सत्प्रीति-लाभ-मानसः ।
मयि कृत्वार्पणं सर्वं चित्तशुद्धिरवाप्यते ॥ २६॥
ततो विवेकसम्प्राप्तः साधनानि समाचरेत् ।
आत्मवासनया युक्तो बुभुत्सुर्व्यग्रमानसः ॥ २७॥
संश्रयेत् सद्गुरुं प्राज्ञं दम्भादिदोषवर्जितः ।
गुरुसेवारतो नित्यं तोषयेद्गुरुमीश्वरम् ।
तत्त्वातीतो भवेत्तत्त्वं लब्ध्वा गुरुप्रसादतः ॥ २८॥
गुरौ प्रसन्ने परतत्त्वलाभस्ततः क्व तापो भवबन्धमुक्तः ।
विमुक्तसङ्गः परमात्मरूपो न संसरेत् सोऽपि पुनर्भवाब्धौ ॥ २९॥
ज्ञानी कश्चिद्विरक्तः प्रविरतविषयस्त्यक्तभोगो निराशः
कश्चिद्भोगी प्रसिद्धो विचरति विषये भोगरागप्रसक्तः ।
प्रारब्धस्तत्र हेतुर्जनयति विविधा वासनाः कर्मयोगात्
प्रारब्धे यस्य भोगः स यतति विभवे भोगहीनो विरक्तः ॥ ३०॥
प्रारब्धाद्वासना चेच्छा प्रवृत्तिर्जायते नृणाम् ।
प्रवृत्तो वा निवृत्तो वा प्रभुत्वं तस्य सर्वतः ॥ ३१॥
भोगो ज्ञानं भवेद्देहे एकेनारब्धकर्मणा ।
प्रारब्धं भोगदं लोके दत्वा भोगं विनश्यति ॥ ३२॥
प्रारब्धं लक्ष्यसम्पन्ने घटवज्ज्ञानजन्मतः ।
शेषस्तिष्ठेत्समुत्पन्ने घटे चक्रस्य वेगवत् ॥ ३३॥
प्रारब्धं विदुषाः पार्थ ज्ञानोत्तरमृषात्मकम् ।
कर्तुं नातिशयं किञ्चित् प्रारब्धं ज्ञानिनां क्षमम् ॥ ३४॥
तद्देहारम्भिका शक्तिर्भोगदानाय देहिनाम् ।
दद्याज्ज्ञानोत्तरं भोगं देहाभासं विधाय तत् ॥ ३५॥
आभासशरीरे भोगो भवेत् प्रारब्धकल्पिते ।
मुक्तो ज्ञानदशायान्तु तत्त्वज्ञो भोगवर्जितः ॥ ३६॥
इत्यध्यात्मविद्यायां योगशास्त्रे श्रीवासुदेवार्जुनसंवादे
शान्तिगीतायां षष्ठोऽध्यायः ॥६॥
अथ सप्तमोऽध्यायः ।
श्रीभगवनुवाच ।
सारं तत्त्वं प्रवक्ष्यामि तच्छृणुष्व सखेऽर्जुन ।
अतिगुह्यं महत्पूर्णं यच्छ्रुत्वा मुच्यते नरः ॥ १॥
पूर्णं चैतन्यमेकं सत्ततोऽन्यन्न हि किञ्चन ।
न माया नेश्वरो जीवो देशः कालश्चराचरम् ॥ २॥
न त्वं नाहं न वा पृथ्वी नेमे लोका भुवादयः ।
किञ्चिन्नास्त्यपि लेशेन नास्ति नास्तीति निश्चिनु ॥ ३॥
केवलं ब्रह्ममात्रं सन्नान्यदस्तीति भावय ।
पश्यसि स्वप्नवत्सर्वं विवर्तं चेतने खलु ॥ ४॥
विषयं देशकालादिं भोक्तृज्ञातृक्रियादिकम् ।
मिथ्या तत्स्वप्नवद्भानं न किञ्चिन्नापि किञ्चन ॥ ५॥
यत्सत्त्वं सततं प्रकाशममलं संसारधारावहं
नान्यत् किञ्च तरङ्गफेनसलिलं सत्तैव विश्वं तथा ।
दृश्यं स्वप्नमयं न चास्ति विततं मायामयं दृश्यते
चैतन्यं विषयो विभाति बहुधा ब्रह्मादिकं मायया ॥ ६॥
विश्वं दृश्यमसत्यमेतदखिलं मायाविलासास्पदं
आत्माऽज्ञाननिदानभानमनृतं सद्वच्च मोहालयम् ।
बाध्यं नाश्यमचिन्त्यचित्ररचितं स्वप्नोपमं तद्ध्रुवम्
आस्थां तत्र जहि स्वदुःखनिलये रज्ज्वां भुजङ्गोपमे ॥ ७॥
अर्जुन उवाच ।
निर्गुणं परमं ब्रह्म निर्विकारं विनिष्क्रियम् ।
जगत्सृष्टिः कथं तस्माद्भवति तद्वदस्व मे ॥ ८॥
श्रीभगवानुवाच ।
सृष्टिर्नास्ति जगन्नास्ति जीवो नास्ति तथेश्वरः ।
मायया दृश्यते सर्वं भास्यते ब्रह्मसत्तया ॥ ९॥
यथा स्तिमितगम्भीरे जलराशौ महार्णवे ।
समीरणवशाद्वीचिर्न वस्तु सलिलेतरत् ॥ १०॥
तथा हि पूर्णचैतन्ये मायया दृश्यते जगत् ।
न तरङ्गो जलाद्भिन्नो ब्रह्मणोऽन्यज्जगन्न हि ॥ ११॥
चैतन्यं विश्वरूपेण भासते मायया तथा ।
किञ्चिद्भवति नो सत्यं स्वप्नकर्मेव निद्रया ॥ १२॥
यावन्निद्रा ऋतं तावत् तथाऽज्ञानादिदं जगत् ।
न माया कुरुते किञ्चिन्मायावी न करोत्यणु ।
इन्द्रजालसमं सर्वं बद्धदृष्टिः प्रपश्यति ॥ १३॥
अज्ञानजनबोधार्थं बाह्यदृष्ट्या श्रुतीरितम् ।
बालानां प्रीतये यद्वद्धात्री जल्पति कल्पितम् ।
तत्प्रकारं प्रवक्ष्यामि शृणुष्व कुन्तिनन्दन ॥ १४॥
चैतन्ये विमले पूर्णे कस्मिन् देशेऽणुमात्रकम् ।
अज्ञानमुदितं सत्तां चैतन्यस्फूर्तिमाश्रितम् ॥ १५॥
तदज्ञानं परिणतं स्वस्यैव शक्तिभेदतः ।
मायारूपा भवेदेका चाविद्यारूपिणीतरा ॥ १६॥
सत्त्वप्रधानमायायां चिदाभासो विभासितः ।
चिदध्यासाच्चिदाभास ईश्वरोऽभूत्स्वमायया ॥ १७॥
मायावृत्या भवेदीशः सर्वज्ञः सर्वशक्तिमान् ।
इच्छादि सर्वकर्तृत्वं मायावृत्या तथेश्वरे ॥ १८॥
ततः सङ्कल्पवानीशस्तद्वृत्या स्वेच्छया स्वतः ।
बहुः स्यामहमेवैकः सङ्कल्पोऽस्य समुत्थितः ॥ १९॥
मायाया उद्गतः कालो महाकाल इति स्मृतः ।
कालशक्तिर्महाकाली चाद्या सद्यसमुद्भवात् ॥ २०॥
कालेन जायते सर्वं काले च परितिष्ठति ।
काले विलयमाप्नोति सर्वे कालवशानुगाः ॥ २१॥
सर्वव्यापी महाकालो निराकारो निरामयः ।
उपाधियोगतः कालो नानाभावेन भासते ॥ २२॥
निमेषादिर्युगः कल्पः सर्वं तस्मिन् प्रकाशितम् ।
कालतोऽभून्महत्तत्त्वं महत्तत्त्वादहङ्कृतिः ॥ २३॥
त्रिविधः सोऽप्यहङ्कारः सत्त्वादिगुणभेदतः ।
अहङ्काराद्भवेत् सूक्ष्मतन्मात्राण्यपि पञ्च वै ॥ २४॥
सूक्ष्माणि पञ्चभूतानि स्थूलानि व्याकृतानि तु ।
सत्त्वांशात् सूक्ष्मभूतानां क्रमाद्धीन्द्रियपञ्चकम् ।
अन्तःकरणमेकं तत् समष्टिगुणतत्त्वतः ॥ २५॥
कर्मेन्द्रियाणि रजसः प्रत्येकं भूतपञ्चकात् ।
पञ्चवृत्तिमयः प्राणः समष्टिः पञ्चराजसैः ॥ २६॥
पञ्चीकृतं तामसांशं तत्पञ्चस्थूलतां गतम् ।
स्थूलभूतात् स्थूलसृष्टिर्ब्रह्माण्डशरीरादिकम् ॥ २७॥
मायोपाधिर्भवेदीशश्चाविद्या जीवकारणम् ।
शुद्धसत्त्वाधिका माया चाविद्या सा तमोमयी ॥ २८॥
मलिनसत्त्वप्रधाना ह्यविद्याऽऽवरणात्मिका ।
चिदाभासस्तत्र जीवः स्वल्पज्ञश्चापि तद्वशः ।
चैतन्ये कल्पितं सर्वं बुद्बुदा इव वारिणि ॥ २९॥
तैलबिन्दुर्यथा क्षिप्तः पतितः सरसीजले ।
नानारूपेण विस्तीर्णो भवेत्तन्न जलं तथा ॥ ३०॥
अनन्तपूर्णचैतन्ये महामाया विजृम्भिता ।
कस्मिन् देशे चाणुमात्रं बिभृता नामरूपतः ॥ ३१॥
न मायातिशयं कर्तुं ब्रह्मणि कश्चिदर्हति ।
चैतन्यं स्वबलेनैव नानाकारं प्रदर्शयेत् ॥ ३२॥
विवर्तं स्वप्नवत्सर्वमधिष्ठाने तु निर्मले ।
आकाशे धूमवन्माया तत्कार्यमपि विस्तृतम् ।
सङ्गः स्पर्शस्ततो नास्ति नाम्बरं मलिनं ततः ॥ ३३॥
कार्यानुमेया सा माया दाहकानलशक्तिवत् ।
अधिज्ञैरनुमीयेत जगद्दृष्ट्यास्य कारणम् ॥ ३४॥
न माया चैतन्ये न हि दिनमणावन्धकारप्रवेशः
दिवान्धाः कल्पन्ते दिनकरकरे शार्वरं घोरदृष्ट्या ।
न सत्यं तद्भावः स्वमतिविषयं नास्ति तल्लेशमात्रः
तथा मूढाः सर्वे मनसि सततं कल्पयन्त्येव माया ॥ ३५॥
स्वसत्ताहीनरूपत्वादवस्तुत्वात्तथैव च ।
अनात्मत्वाज्जडत्वाच्च नास्ति मायेति निश्चिनु ॥ ३६॥
माया नास्ति जगन्नास्ति नास्ति जीवस्तथेश्वरः ।
केवलं ब्रह्ममात्रत्वात् स्वप्नकल्पेव कल्पना ॥ ३७॥
एकं वक्त्रं न योग्यं तद्द्वितीयं कुत इष्यते ।
संख्याबद्धं भवेदेकं ब्रह्मणि तन्न शोभते ॥ ३८॥
लेशमात्रं न हि द्वैतं द्वैतं न सहते श्रुतिः ।
शब्दातीतं मनोऽतीतं वाक्यातीतं सदामलम् ।
उपमाभावहीनत्वादीदृशस्तादृशो न हि ॥ ३९॥
न हि तत् श्रूयते श्रोत्रैर्न स्पृश्यते त्वचा तथा ।
न हि पश्यति चक्षुस्तद्रसनास्वादयेन्न हि ।
न च जिघ्रति तद्घ्राणं न वाक्यं व्याकरोति च ॥ ४०॥
सद्रूपो ह्यविनाशित्वात् प्रकाशत्वाच्चिदात्मकः ।
आनन्दः प्रियरूपत्वान्नात्मन्यप्रियता क्वचित् ॥ ४१॥
व्यापकत्वादधिष्ठानाद्देहस्यात्मेति कथ्यते ।
बृंहणत्वाद्बृहत्वाच्च ब्रह्मेति गीयते श्रुतौ ॥ ४२॥
यदा ज्ञात्वा स्वरूपं स्वं विश्रान्तिं लभसे सखे ।
तदा धन्यः कृतार्थः सन् जीवन्मुक्तो भविष्यसि ॥ ४३॥
मोक्षरूपं तमेवाहुर्योगिनस्तत्त्वदर्शिनः ।
स्वरूपज्ञानमात्रेण लाभस्तत्कण्ठहारवत् ॥ ४४॥
प्रबुद्धतत्त्वस्य तु पूर्णबोधे न सत्यमाया न च कार्यमस्याः ।
तमस्तमःकार्यमसत्यसर्वं न दृश्यते भानोर्महाप्रकाशे ॥ ४५॥
अतस्ततो नास्ति जगत्प्रसिद्धं शुद्धे परे ब्रह्मणि लेशमात्रम् ।
मृषामयं कल्पितनामरूपं रज्ज्वां भुजङ्गो मृदि कुम्भभाण्डम् ॥ ४६॥
इत्यध्यात्मविद्यायां योगशास्त्रे श्रीवासुदेवार्जुनसंवादे
शान्तिगीतायां सप्तमोऽध्यायः ॥७॥
अथाष्टमोऽध्यायः ।
अर्जुन उवाच ।
किं लक्ष्यं स्वात्मरूपेण यद्ब्रह्म कथ्यते विदा ।
यज्ज्ञात्वा ब्रह्मरूपेण स्वात्मानं वेद्मि तद्वद ॥ १॥
श्रीभगवनुवाच ।
अङ्गुष्ठमात्रः पुरुषो हृत्पद्मे यो व्यवस्थितः ।
तमात्मानञ्च वेत्तारं विद्धि बुद्ध्या सुसूक्ष्मया ॥ २॥
हृदयकमलं पार्थ अङ्गुष्ठपरिमाणतः ।
तत्र तिष्ठति यो भाति वंशपर्वणीवाम्बरम् ।
अङ्गुष्ठमात्रं पुरुषं तेनैव वदति श्रुतिः ॥ ३॥
महाकाशे घटे जातेऽवकाशो घटमध्यगः ।
घटावच्छिन्न आकाशः कथ्यते लोकपण्डितैः ॥ ४॥
कूटस्थोऽपि तथा बुद्धिः कल्पिता तु यदा भवेत् ।
तदा कूटस्थचैतन्यः बुद्ध्यन्तस्थं विभासते ।
बुद्ध्यवच्छिन्नचैतन्यं जीवलक्ष्यं त्वमेव हि ॥ ५॥
प्रज्ञानं तच्च गायन्ति वेदशास्त्रविशारदाः ।
आनन्दं ब्रह्मशब्दाभ्यां विशेषणविशेषितम् ॥ ६॥
शृणोति येन जानाति पश्यति च विजिघ्रति ।
स्वादास्वादं विजानाति शीतञ्चोष्णादिकं तथा ॥ ७॥
चैतन्यं वेदनारूपं तत्सर्ववेदनाश्रयम् ।
अलक्ष्यं शुद्धचैतन्यं कूटस्थं लक्षयेत् श्रुतिः ॥ ८॥
बुद्ध्यावच्छिन्नचैतन्यं वृत्यारूढं यदा भवेत् ।
ज्ञानशब्दाभिधं तर्हि तेन चैतन्यबोधनम् ॥ ९॥
यदा वृत्तिः प्रमाणेन विषयेणैकतां व्रजेत् ।
वृत्तविषयचैतन्ये एकत्वेन फलोदयः ॥ १०॥
तदा वृत्तिलये प्राप्ते ज्ञानं चैतन्यमेव तत् ।
प्रबोधनाय चैतन्यं ज्ञानशब्देन कथ्यते ॥ ११॥
शृणोषि वीक्षसे यद्यत्तत्र संविदनुत्तमा ।
अनुस्यूततया भाति तत्तत्सर्वप्रकाशिका ॥ १२॥
संविदं तां विचारेण चैतन्यमवधारय ।
तत्र पश्यसि यद्वस्तु जानामीति विभासते ।
तद्धि संवित्प्रभावेन विज्ञेयं स्वरूपं ततः ॥ १३॥
सर्वं निरस्य दृश्यत्वादनात्मत्वाज्जडत्वतः ।
तमविच्छिन्नमात्मानं विद्धि सुसूक्ष्मया धिया ॥ १४॥
या संवित् सैव हि त्वात्मा चैतन्यं ब्रह्म निश्चिनु ।
त्वंपदस्य च लक्ष्यं तज्ज्ञातव्यं गुरुवाक्यतः ॥ १५॥
घटाकाशो महाकाश इव जानीहि चैकताम् ।
अखण्डत्वं भवेदैक्यं ज्ञात्वा ब्रह्ममयो भव ॥ १६॥
कुम्भाकाशमहाकाशो यथाऽभिन्नो स्वरूपतः ।
तथात्मब्रह्मणोऽभेदं ज्ञात्वा पूर्णो भवार्जुन ॥ १७॥
नानाधारे यथाकाशः पूर्ण एको हि भासते ।
तथोपाधिषु सर्वत्र चैकात्मा पूर्णनिरद्वयः ॥ १८॥
यथा दीपसहस्रेषु वह्निरेको हि भास्वरः ।
तथा सर्वशरीरेषु ह्येकात्मा चित्सदव्ययः ॥ १९॥
सहस्रधेनुषु क्षीरं सर्पिरेकं न भिद्यते ।
नानारणिप्रस्तरेषु कृशानुर्भेदवर्जितः ॥ २०॥
नानाजलाशयेष्वेवं जलमेकं स्फुरत्यलम् ।
नानावर्णेषु पुष्पेषु ह्येकं तन्मधुरं मधु ॥ २१॥
इक्षुदण्डेष्वसंख्येषु चैकं हि रसमैक्षवम् ।
तथा हि सर्वभावेषु चैतन्यं पूर्णमद्वयम् ॥ २२॥
अद्वये पूर्णचैतन्ये कल्पितं माययाखिलम् ।
मृषा सर्वमधिष्ठानं नानारूपेण भासते ॥ २३॥
अखण्डे विमले पूर्णे द्वैतगन्धविवर्जिते ।
नान्यत्किञ्चित्केवलं सन्नानाभावेन राजते ॥ २४॥
स्वप्नवद्दृश्यते सर्वं चिद्विवर्तं चिदेव हि ।
केवलं ब्रह्ममात्रन्तु सच्चिदानन्दमव्ययम् ॥ २५॥
सच्चिदानन्दशब्देन तल्लक्ष्यं लक्षयेत् श्रुतिः ।
अक्षरमक्षरातीतं शब्दातीतं निरञ्जनम् ।
तत्स्वरूपं स्वयं ज्ञात्वा ब्रह्मवित्त्वं परित्यज ॥ २६॥
अभिमानावृतिर्मुख्या तेनैव स्वरूपावृतिः ।
पञ्चकोशेष्वहङ्कारः कर्तृभावेन राजते ॥ २७॥
ब्रह्मवित्त्वाभिमानं यद्भवेद्विज्ञानसंज्ञिते ।
अहङ्कारस्य तद्धर्म पिहिते स्वरूपेऽमले ॥ २८॥
अतः संत्यज्य तद्भावं केवलं स्वरूपे स्थितम् ।
तत्त्वज्ञानमिति प्राहुर्योगिनस्तत्त्वदर्शिनः ॥ २९॥
अन्धकारगृहे शायी शरीरं तूलिकावृतम् ।
देहादिकं च नास्तीति निश्चयेन विभावय ॥ ३०॥
न पश्यसि तदा किञ्चिद्विभाति साक्षि सत्स्वयम् ।
अहमस्मीति भावेन चान्तः स्फुरति केवलम् ॥ ३१॥
निःशेषत्यक्तसंघातः केवलः पुरुषः स्वयम् ।
अस्ति नास्ति बुद्धिधर्मे सर्वात्मना परित्यजेत् ॥ ३२॥
अहं सर्वात्मना त्यक्त्वा सर्वभावेन सर्वदा ।
अहमस्मीत्यहं भामि विसृज्य केवलो भव ॥ ३३॥
जाग्रदपि सुषुप्तिस्थो जाग्रद्धर्मविवर्जितः ।
सौषुप्ते क्षयिते धर्मे त्वज्ञाने चेतनः स्वयम् ॥ ३४॥
हित्वा सुषुप्तावज्ञानं यद्भावो भाववर्जितः ।
प्रज्ञया स्वरूपं ज्ञात्वा प्रज्ञाहीनस्तथा भव ॥ ३५॥
न शब्दः श्रवणं नापि न रूपं दर्शनं तथा ।
भावाभावौ न वै किञ्चित् सदेवास्ति न किञ्चन ॥ ३६॥
सुसूक्ष्मया धिया बुद्ध्वा स्वरूपं स्वस्थचेतनम् ।
बुद्धौ ज्ञानेने लीनायां यत्तच्छुद्धस्वरूपकम् ॥ ३७॥
इति ते कथितं तत्त्वं सारभूतं शुभाशय ।
शोको मोहस्त्वयि नास्ति शुद्धरूपोऽसि निष्कलः ॥ ३८॥
शान्तव्रत उवाच ।
श्रुत्वा प्रोक्तं वासुदेवेन पार्थो हित्वाऽऽसक्तिं मायिकेऽसत्यरूपे ।
त्यक्त्वा सर्वं शोकसन्तापजालं ज्ञात्वा तत्त्वं सारभूतं कृतार्थः ॥ ३९॥
कृष्णं प्रणम्याथ विनीतभावैर्ध्यात्वा हृदिस्थं विमलं प्रपन्नम् ।
प्रोवाच भक्त्या वचनेन पार्थः कृताञ्जलिर्भावभरेण नम्रः ॥ ४०॥
अर्जुन उवाच ।
त्वमाद्यरूपः पुरुषः पुराणो न वेद वेदस्तव सारतत्त्वम् ।
अहं न जाने किमु वच्मि कृष्ण नमामि सर्वान्तरसम्प्रतिष्ठम् ॥ ४१॥
त्वमेव विश्वोद्भवकारणं सत् समाश्रयस्त्वं जगतः प्रसिद्धः ।
अनन्तमूर्तिर्वरदः कृपालुर्नमामि सर्वान्तरसम्प्रतिष्ठम् ॥ ४२॥
वदामि किं ते परिशेषतत्त्वं न जाने किञ्चित्तव मर्म गूढम् ।
त्वमेव सृष्टिस्थितिनाशकर्ता नमामि सर्वान्तरसम्प्रतिष्ठम् ॥ ४३॥
विश्वरूपं पुरा दृष्टं त्वमेव स्वयमीश्वरः ।
मोहयित्वा सर्वलोकान् रूपमेतत् प्रकाशितम् ॥ ४४॥
सर्वे जानन्ति त्वं वृष्णिः पाण्डवानां सखा हरिः ।
किं ते वक्ष्यामि तत्तत्त्वं न जानन्ति दिवौकसः ॥ ४५॥
श्रीभगवानुवाच ।
तत्त्वज्ञोऽसि यदा पार्थ तूष्णीं भव तदा सखे ।
यद्दृष्टं विश्वरूपं मे मायामात्रं तदेव हि ॥ ४६॥
तेन भ्रान्तोऽसि कौन्तेय स्वस्वरूपं विचिन्तय ।
मुह्यन्ति मायया मूढास्तत्त्वज्ञा मोहवर्जिताः ॥ ४७॥
शान्तिगीतामिमां पार्थ मयोक्तां शान्तिदायिनीम् ।
यः शृणुयात् पठेद्वापि मुक्तः स्याद्भवबन्धनात् ॥ ४८॥
न कदाचिद्भवेत् सोऽपि मोहितो मम मायया ।
आत्मज्ञानाच्छोकशान्तिर्भवेद्गीताप्रसादतः ॥ ४९॥
शान्तव्रत उवाच ।
इत्युक्त्वा भगवान् कृष्णः प्रफुल्लवदनः स्वयम् ।
अर्जुनस्य करं धृत्वा युधिष्ठिरान्तिकं ययौ ॥ ५०॥
इयं गीता तु शान्त्याख्या गुह्याद्गुह्यतरा परा ।
तव स्नेहान्मया प्रोक्ता यद्दत्ता गुरुणा मयि ॥ ५१॥
न दातव्या क्वचिन्मोहाच्छठाय नास्तिकाय च ।
कुतर्काय च मूर्खाय निर्देयोन्मार्गवर्तिने ॥ ५२॥
प्रदातव्या विरक्ताय प्रपन्नाय मुमुक्षवे ।
गुरुदैवतभक्ताय शान्ताय ऋजवे तथा ॥ ५३॥
सश्रद्धाय विनीताय दयाशीलाय साधवे ।
विद्वेषक्रोधहीनाय देया गीता प्रयत्नतः ॥ ५४॥
इति ते कथिता राजन् शान्तिगीता सुगोपिता ।
शोकशान्तिकरी दिव्या ज्ञानदीपप्रदीपनी ॥ ५५॥
गीतेयं शान्तिनाम्नी मधुरिपुगदिता पार्थशोकप्रशान्त्यै
पापौघं तापसंघं प्रहरति पठनात् सारभूतातिगुह्या ।
आविर्भूता स्वयं सा स्वगुरुकरुणया शान्तिदा शान्तभावा
काशीसत्त्वे सभासा तिमिरचयहरा नर्तयन् पद्यबन्धैः ॥ ५६॥
इत्यध्यात्मविद्यायां योगशास्त्रे श्रीवासुदेवार्जुनसंवादे
शान्तिगीतायामष्टमोऽध्यायः ॥८॥
इति शान्तिगीता समाप्ता ॥
॥ शिव गीता ॥
अथ श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे
१ शिवभक्त्युत्कर्षनिरूपणं नाम प्रथमोऽध्यायः ॥ १ ॥ ४०
२ वैराग्योपदेशो नाम द्वितीयोऽध्यायः ॥ २ ॥ ४३
३ विरजादीक्षानिरूपणं नाम तृतीयोऽध्यायः ॥ ३ ॥ ३५
४ शिवप्रदुर्भावाख्यः नाम चतुर्थोऽध्यायः ॥ ४ ॥ ५२
५ रामाय वरप्रदानं नाम पञ्चमोऽध्यायः ॥ ५ ॥ ४१
६ विभूतियोगो नाम षष्ठोऽध्यायः ॥ ६ ॥ ६०
७ विश्वरूपदर्शनं नाम सप्तमोऽध्यायः ॥ ७ ॥ ४७
८ पिण्डोत्पत्तिकथनं नाम अष्टमोऽध्यायः ॥ ८ ॥ ७०
९ देहस्वरूपनिर्णयो नाम नवमोऽध्यायः ॥ ९ ॥ ५१
१० जीवस्वरूपकथनं नाम दशमोऽध्यायः ॥ १० ॥ ६३
११ जीवगत्यादिनिरूपणं नाम एकादशोऽध्यायः ॥ ११ ॥ ४५
१२ उपासनाज्ञानफलं नाम द्वादशोऽध्यायः ॥ १२ ॥ ४२
१३ मोक्षयोगो नाम त्रयोदशोऽध्यायः ॥ १३ ॥ ३८
१४ पञ्चकोशोपपादनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥ ४५
१५ भक्तियोगो नाम पञ्चदशोऽध्यायः ॥ १५ ॥ ४२
१६ गीताधिकारिनिरूपणं नाम षोडशोऽध्यायः ॥ १६ ॥ ६९ ट् = ७८३
॥ शिव गीता ॥
अथ प्रथमोऽध्यायः ।
सूत उवाच ॥
अथातः सम्प्रवक्ष्यामि शुद्धं कैवल्यमुक्तिदम् ।
अनुग्रहान्महेशस्य भवदुःखस्य भेषजम् ॥ १॥
न कर्मणामनुष्ठानैर्न दानैस्तपसापि वा ।
कैवल्यं लभते मर्त्यः किंतु ज्ञानेन केवलम् ॥ २॥
रामाय दण्डकारण्ये पार्वतीपतिना पुरा ।
या प्रोक्ता शिवगीताख्या गुह्याद्गुह्यतमा हि सा ॥ ३॥
यस्याः श्रवणमात्रेण नृणां मुक्तिर्ध्रुवं भवेत् ।
पुरा सनत्कुमाराय स्कन्देनाभिहिता हि सा ॥ ४॥
सनत्कुमारः प्रोवाच व्यासाय मुनिसत्तमाः ।
मह्यं कृपातिरेकेण प्रददौ बादरायणः ॥ ५॥
उक्तं च तेन कस्मैचिन्न दातव्यमिदं त्वया ।
सूतपुत्रान्यथा देवाः क्षुभ्यन्ति च शपन्ति च ॥ ६॥
अथ पृष्टो मया विप्रा भगवान्बादरायणः ।
भगवन्देवताः सर्वाः किं क्षुभ्यन्ति शपन्ति च ॥ ७॥
तासामत्रास्ति का हानिर्यया कुप्यन्ति देवताः ।
पाराशर्योऽथ मामाह यत्पृष्टं शृणु वत्स तत् ॥ ८॥
नित्याग्निहोत्रिणो विप्राः संति ये गृहमेधिनः ।
त एव सर्वफलदाः सुराणां कामधेनवः ॥ ९॥
भक्ष्यं भोज्यं च पेयं च यद्यदिष्टं सुपर्वणाम् ।
अग्नौ हुतेन हविषा सत्सर्वं लभ्यते दिवि ॥ १०॥
नान्यदस्ति सुरेशानामिष्टसिद्धिप्रदं दिवि ।
दोग्ध्री धेनुर्यथा नीता दुःखदा गृहमेधिनाम् ॥ ११॥
तथैव ज्ञानवान्विप्रो देवानां दुःखदो भवेत् ।
त्रिदशास्तेन विघ्नन्ति प्रविष्टा विषयं नृणाम् ॥ १२॥
ततो न जायते भक्तिः शिवे कस्यापि देहिनः ।
तस्मादविदुषां नैव जायते शूलपाणिनः ॥ १३॥
यथाकथंचिज्जातापि मध्ये विच्छिद्यते नृणाम् ।
जातं वापि शिवज्ञानं न विश्वासं भजत्यलम् ॥ १४॥
ऋषय ऊचुः ॥
यद्येवं देवता विघ्नमाचरन्ति तनूभृताम् ।
पौरुषं तत्र कस्यास्ति येन मुक्तिर्भविष्यति ॥ १५॥
सत्यं सूतात्मज ब्रूहि तत्रोपायोऽस्ति वा न वा ॥
सूत उवाच ॥
कोटिजन्मार्जितैः पुण्यैः शिवे भक्तिः प्रजायते ॥ १६॥
इष्टापूर्तादिकर्माणि तेनाचरति मानवः ।
शिवार्पणधिया कामान्परित्यज्य यथाविधि ॥ १७॥
अनुग्रहात्तेन शंभोर्जायते सुदृढो नरः ।
ततो भीताः पलायन्ते विघ्नं हित्वा सुरेश्वराः ॥ १८॥
जायते तेन शुश्रूषा चरिते चन्द्रमौलिनः ।
शृण्वतो जायते ज्ञानं ज्ञानादेव विमुच्यते ॥ १९॥
बहुनात्र विमुक्तेन यस्य भक्तिः शिवे दृढा ।
महापापोपपापौघकोटिग्रस्तोऽपि मुच्यते ॥ २०॥
अनादरेण शाठ्येन परिहासेन मायया ।
शिवभक्तिरतश्चेत्स्यादन्त्यजोऽपि विमुच्यते ॥ २१॥
एवं भक्तिश्च सर्वेषां सर्वदा सर्वतोमुखी ।
तस्यां तु विद्यमानायां यस्तु मर्त्यो न मुच्यते ॥ २२॥
संसारबन्धनात्तस्मादन्यः को वास्ति मूढधीः ।
नियमाद्यस्तु कुर्वीत भक्तिं वा द्रोहमेव वा ॥ २३॥
तस्यापि चेत्प्रसन्नोऽसौ फलं यच्छति वाञ्छितम् ।
ऋद्धं किंचित्समादाय क्षुल्लकं जलमेव वा ॥ २४॥
यो दत्ते नियमेनासौ तस्मै दत्ते जगत्त्रयम् ।
तत्राप्यशक्तो नियमान्नमस्कारं प्रदक्षिणाम् ॥ २५॥
यः करोति महेशस्य तस्मै तुष्टो भवेच्छिवः ।
प्रदक्षिणास्वशक्तोऽपि यः स्वान्ते चिन्तयेच्छिवम् ॥ २६॥
गच्छन्समुपविष्टो वा तस्याभीष्टं प्रयच्छति ।
चन्दनं बिल्वकाष्ठस्य पुष्पाणि वनजान्यपि ॥ २७॥
फलानि तादृशान्येव यस्य प्रीतिकराणि वै ।
दुष्करं तस्य सेवायां किमस्ति भुवनत्रये ॥ २८॥
वन्येषु यादृशी प्रीतिर्वर्तते परमेशितुः ।
उत्तमेष्वपि नास्त्येव तादृशी ग्रामजेष्वपि ॥ २९॥
तं त्यक्त्वा तादृशं देवं यः सेवेतान्यदेवताम् ।
स हि भागीरथीं त्यक्त्वा काङ्क्षते मृगतृष्णिकाम् ॥ ३०॥
किंतु यस्यास्ति दुरितं कोटिजन्मसु संचितम् ।
तस्य प्रकाशते नायमर्थो मोहान्धचेतसः ॥ ३१॥
न कालनियमो यत्र न देशस्य स्थलस्य च ।
यत्रास्य चित्रं रमते तस्य ध्यानेन केवलम् ॥ ३२॥
आत्मत्वेन शिवस्यासौ शिवसायुज्यमाप्नुयात् ।
अतिस्वल्पतरायुः श्रीर्भूतेशांशाधिपोऽपि यः ॥ ३३॥
स तु राजाहमस्मीति वादिनं हन्ति सान्वयम् ।
कर्तापि सर्वलोकानामक्षयैश्वर्यवानपि ॥ ३४॥
शिवः शिवोऽहमस्मीति वादिनं यं च कञ्चन ।
आत्मना सह तादात्म्यभागिनं कुरुते भृशम् ॥ ३५॥
धर्मार्थकाममोक्षाणां पारं यस्याथ येन वै ।
मुनयस्तत्प्रवक्ष्यामि व्रतं पाशुपताभिधम् ॥ ३६॥
कृत्वा तु विरजां दीक्षां भूतिरुद्राक्षधारिणः ।
जपन्तो वेदसाराख्यं शिवनामसहस्रकम् ॥ ३७॥
संत्यज्य तेन मर्त्यत्वं शैवीं तनुमवाप्स्यथ ।
ततः प्रसन्नो भगवाञ्छंकरो लोकशंकरः ॥ ३८॥
भवतां दृश्यतामेत्य कैवल्यं वः प्रदास्यति ।
रामाय दण्डकारण्ये यत्प्रादात्कुम्भसंभवः ॥ ३९॥
तत्सर्वं वः प्रवक्ष्यामि शृणुध्वं भक्तियोगिनः ॥ ४०॥
इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे
शिवभक्त्युत्कर्षनिरूपणं नाम प्रथमोऽध्यायः ॥ १ ॥
अथ द्वितीयोऽध्यायः ॥
ऋषय ऊचुः ॥
किमर्थमागतोऽगस्त्यो रामचन्द्रस्य सन्निधिम् ।
कथं वा विरजां दीक्षां कारयामास राघवम् ।
ततः किमाप्तवान् रामः फलं तद्वक्तुमर्हसि ॥ १॥
सूत उवाच ॥
रावणेन यदा सीताऽपहृता जनकात्मजा ।
तदा वियोगदुःखेन विलपन्नास राघवः ॥ २॥
निर्निद्रो निरहंकारो निराहारो दिवानिशम् ।
मोक्तुमैच्छत्ततः प्राणान्सानुजो रघुनन्दनः ॥ ३॥
लोपामुद्रापतिर्ज्ञात्वा तस्य सन्निधिमागमत् ।
अथ तं बोधयामास संसारासारतां मुनिः ॥ ४॥
अगस्त्य उवाच ॥
किं विषीदसि राजेन्द्र कान्ता कस्य विचार्यताम् ।
जडः किं नु विजानाति देहोऽयं पाञ्चभौतिकः ॥ ५॥
निर्लेपः परिपूर्णश्च सच्चिदानन्दविग्रहः ।
आत्मा न जायते नैव म्रियते न च दुःखभाक् ॥ ६॥
सूर्योऽसौ सर्वलोकस्य चक्षुष्ट्वेन व्यवस्थितः ।
तथापि चाक्षुषैर्दोषैर्न कदाचिद्विलिप्यते ॥ ७॥
सर्वभूतान्तरात्मापि तद्वद्दृश्यैर्न लिप्यते ।
देहोऽपि मलपिण्डोऽयं मुक्तजीवो जडात्मकः ॥ ८॥
दह्यते वह्निना काष्ठैः शिवाद्यैर्भक्ष्यतेऽपि वा ।
तथापि नैव जानाति विरहे तस्य का व्यथा ॥ ९॥
सुवर्णगौरी दूर्वाया दलवच्छ्यामलापि वा ।
पीनोत्तुङ्गस्तनाभोगभुग्नसूक्ष्मवलग्निका ॥ १०॥
बृहन्नितम्बजघना रक्तपादसरोरुहा ।
राकाचन्द्रमुखी बिम्बप्रतिबिम्बरदच्छदा ॥ ११॥
नीलेन्दीवरनीकाशनयनद्वयशोभिता ।
मत्तकोकिलसँल्लापा मत्तद्विरदगामिनी ॥ १२॥
कटाक्षैरनुगृह्णाति मां पञ्चेषुशरोत्तमैः ।
इति यां मन्यते मूढ स तु पञ्चेषुशासितः ॥ १३॥
तस्याविवेकं वक्ष्यामि शृणुष्वावहितो नृप ।
न च स्त्री न पुमानेष नैव चायं नपुंसकः ॥ १४॥
अमूर्तः पुरुषः पूर्णो द्रष्टा देही स जीविनः ।
या तन्वङ्गी मृदुर्बाला मलपिण्डात्मिका जडा ॥ १५॥
सा न पश्यति यत्किंचिन्न शृणोति न जिघ्रति ।
चर्ममात्रा तनुस्तस्या बुद्ध्वा त्यक्षस्व राघव ॥ १६॥
या प्राणादधिका सैव हंत ते स्याद्घृणास्पदम् ।
जायन्ते यदि भूतेभ्यो देहिनः पाञ्चभौतिकाः ॥ १७॥
आत्मा यदेकलस्तेषु परिपूर्णः सनातनः ।
का कान्ता तत्र कः कान्तः सर्व एव सहोदराः ॥ १८॥
निर्मितायां गृहावल्यां तदवच्छिन्नतां गतम् ।
नभस्तस्यां तु दग्धायां न कांचित्क्षतिमृच्छति ॥ १९॥
तद्वदात्मापि देहेषु परिपूर्णः सनातनः ।
हन्यमानेषु तेष्वेव स स्वयं नैव हन्यते ॥ २०॥
हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् ।
तावुभौ न विजानीतो नायं हन्ति न हन्यते ॥ २१॥
अस्मान्नृपातिदुःखेन किं खेदस्यास्ति कारणम् ।
स्वस्वरूपं विदित्वेदं दुःखं त्यक्त्वा सुखी भव ॥ २२॥
राम उवाच ॥
मुने देहस्य नो दुःखं नैव चेत्परमात्मनः ।
सीतावियोगदुःखाग्निर्मां भस्मीकुरुते कथम् ॥ २३॥
सदाऽनुभूयते योऽर्थः स नास्तीति त्वयेरितः ।
जायातां तत्र विश्वासः कथं मे मुनिपुङ्गव ॥ २४॥
अन्योऽत्र नास्ति को भोक्ता येन जन्तुः प्रतप्यते ।
सुखस्य वापि दुःखस्य तद्ब्रूहि मुनिसत्तम ॥ २५॥
अगस्त्य उवाच ॥
दुर्ज्ञेया शांभवी माया तया संमोह्यते जगत् ।
माया तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ।२६॥
तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत्।
सत्यज्ञानात्मकोऽनन्तो विभुरात्मा महेश्वरः ॥ २७॥
तस्यैवांशो जीवलोके हृदये प्राणिनां स्थितः ।
विस्फुलिङ्गा यथा वह्नेर्जायन्ते काष्ठयोगतः ॥ २८॥
अनादिकर्मसंबद्धास्तद्वदंशा महेशितुः ।
अनादिवासनायुक्ताः क्षेत्रज्ञा इति ते स्मृताः ॥ २९॥
मनो बुद्धिरहंकारश्चित्तं चेति चतुष्टयम् ।
अन्तःकरणमित्याहुस्तत्र ते प्रतिबिम्बिताः ॥ ३०॥
जीवत्वं प्राप्नुयुः कर्मफलभोक्तार एव ते ।
ततो वैषयिकं तेषां सुखं वा दुःखमेव वा ॥ ३१॥
त एव भुञ्जते भोगायतनेऽस्मिन् शरीरके ।
स्थावरं जङ्गमं चेति द्विविधं वपुरुच्यते ॥ ३२॥
स्थावरास्तत्र देहाः स्युः सूक्ष्मा गुल्मलतादयः ।
अण्डजाः स्वेदजास्तद्वदुद्भिज्जा इति जङ्गमाः ॥ ३३॥
योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ।
स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ॥ ३४॥
सुख्यहं दुःख्यहं चेति जीव एवाभिमन्यते ।
निर्लेपोऽपि परं ज्योतिर्मोहितः शंभुमायया ॥ ३५॥
कामः क्रोधस्तथा लोभो मदो मात्सर्यमेव च ।
मोहश्चेत्यरिषड्वर्गमहंकारगतं विदुः ॥ ३६॥
स एव बध्यते जीवः स्वप्नजाग्रदवस्थयोः ।
सुषुप्तौ तदभावाच्च जीवः शंकरतां गतः ॥ ३७॥
स एव मायासंस्पृष्टः कारणं सुखदुःखयोः ।
शुक्तो रजतवद्विश्वं मायया दृश्यते शिवे ॥ ३८॥
ततो विवेकज्ञानेन न कोऽप्यत्रास्ति दुःखभाक् ।
ततो विरम दुःखात्त्वं किं मुधा परितप्यसे ॥ ३९॥
श्रीराम उवाच ॥
मुने सर्वमिदं तथ्यं यन्मदग्रे त्वयेरितम् ।
तथापि न जहात्येतत्प्रारब्धादृष्टमुल्बणम् ॥ ४०॥
मत्तं कुर्याद्यथा मद्यं नष्टाविद्यमपि द्विजम् ।
तद्वत्प्रारब्धभोगोऽपि न जहाति विवेकिनम् ॥ ४१॥
ततः किं बहुनोक्तेन प्रारब्धसचिवः स्मरः ।
बाधते मां दिवारात्रमहंकारोऽपि तादृशः ॥ ४२॥
अत्यन्तपीडितो जीवः स्थूलदेहं विमुञ्चति ।
तस्माज्जीवाप्तये मह्यमुपायः क्रियतां द्विज ॥ ४३॥
इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे
वैराग्योपदेहो नाम द्वितीयोऽध्यायः ॥ २ ॥
अथ तृतीयोऽध्यायः ॥
अगस्त्य उवाच ॥
न गृह्णाति वचः पथ्यं कामक्रोधादिपीडितः ।
हितं न रोचते तस्य मुमूर्षोरिव भेषजम् ॥ १॥
मध्येसमुद्रं या नीता सीता दैत्येन मायिना ।
आयास्यति नरश्रेष्ठ सा कथं तव संनिधिम् ॥ २॥
बध्यन्ते देवताः सर्वा द्वारि मर्कटयूथवत् ।
किं च चामरधारिण्यो यस्य संति सुराङ्गनाः ॥ ३॥
भुङ्क्ते त्रिलोकीमखिलां यः शंभुवरदर्पितः ।
निष्कण्टकं तस्य जयः कथं तव भविष्यति ॥ ४॥
इन्द्रजिन्नाम पुत्रो यस्तस्यास्तीशवरोद्धतः ।
तस्याग्रे संगरे देवा बहुवारं पलायिताः ॥ ५॥
कुम्भकर्णाह्वयो भ्राता यस्यास्ति सुरसूदनः ।
अन्यो दिव्यास्त्रसंयुक्तश्चिरजीवी बिभीषणः ॥ ६॥
दुर्गं यस्यास्ति लंकाख्यं दुर्जेयं देवदानवैः ।
चतुरङ्गबलं यस्य वर्तते कोटिसंख्यया ॥ ७॥
एकाकिना त्वया जेयः स कथं नृपनन्दन ।
आकांक्षते करे धर्तुं बालश्चन्द्रमसं यथा ।
तथा त्वं काममोहेन जयं तस्याभिवाञ्छसि ॥ ८॥
श्रीराम उवाच ॥
क्षत्रियोऽहं मुनिश्रेष्ठ भार्या मे रक्षसा हृता ।
यदि तं न निहन्म्याशु जीवने मेऽस्ति किं फलम् ॥ ९॥
अतस्ते तत्त्वबोधेन न मे किंचित्प्रयोजनम् ।
कामक्रोधादयः सर्वे दहन्त्येते तनुं मम ॥ १०॥
अहंकारोऽपि मे नित्यं जीवनं हन्तुमुद्यतः ।
हृतायां निजकान्तायां शत्रुणाऽवमतस्य वा ॥ ११॥
यस्य तत्त्वबुभुत्सा स्यात्स लोके पुरुषाधमः ।
तस्मात्तस्य वधोपायं लङ्घयित्वाम्बुधिं रणे ॥ १२॥
अगस्त्य उवाच ॥
एवं चेच्छरणं याहि पार्वतीपतिमव्ययम् ।
स चेत्प्रसन्नो भगवान्वाञ्छितार्थं प्रदास्यति ॥ १३॥
देवैरजेयः शक्राद्यैर्हरिणा ब्रह्मणापि वा ।
स ते वध्यः कथं वा स्याच्छंकरानुग्रहं विना ॥
अतस्त्वां दीक्षयिष्यामि विरजामार्गमाश्रितः ।
तेन मार्गेन मर्त्यत्वं हित्वा तेजोमयो भव ॥ १५॥
येन हत्वा रणे शत्रून्सर्वान्कामानवाप्स्यसि ।
भुक्त्वा भूमण्डले चान्ते शिवसायुज्यमाप्स्यसि ॥ १६॥
सूत उवाच ॥
अथ प्रणम्य रामस्तं दण्डवन्मुनिसत्तमम् ।
उवाच दुःखनिर्मुक्तः प्रहृष्टेनान्तरात्मना ॥ १७॥
श्रीराम उवाच ॥
कृतार्थोऽहं मुने जातो वाञ्छितार्थो ममागतः ।
पीताम्बुधिः प्रसन्नस्त्वं यदि मे किमु दुर्लभम् ।
अतस्त्वं विरजां दीक्षां ब्रूहि मे मुनिसत्तम ॥ १८॥
अगस्त्य उवाच ॥
शुक्लपक्षे चतुर्दश्यामष्टम्यां वा विशेषतः ।
एकादश्यां सोमवारे आर्द्रायां वा समारभेत् ॥ १९॥
यं वायुमाहुर्यं रुद्रं यमग्निं परमेश्वरम् ।
परात्परतरं चाहुः परात्परतरं शिवम् ॥ २०॥
ब्रह्मणो जनकं विष्णोर्वह्नेर्वायोः सदाशिवम् ।
ध्यात्वाग्निनाऽवसथ्याग्निं विशोध्य च पृथक्पृथक् ॥ २१॥
पञ्चभूतानि संयम्य ध्यात्वा गुणविधिक्रमात् ।
मात्राः पञ्च चतस्रश्च त्रिमात्रादिस्ततः परम् ॥ २२॥
एकमात्रममात्रं हि द्वादशान्तं व्यवस्थितम् ।
स्थित्यां स्थाप्यामृतो भूत्वा व्रतं पाशुपतं चरेत् ॥ २३॥
इदं व्रतं पाशुपतं करिष्यामि समासतः ।
प्रातरेवं तु संकल्प्य निधायाग्निं स्वशाखया ॥ २४॥
उपोषितः शुचिः स्नातः शुक्लाम्बरधरः स्वयम् ।
शुक्लयज्ञोपवीतश्च शुक्लमाल्यानुलेपनः ॥ २५॥
जुहुयाद्विरजामन्त्रैः प्राणापानादिभिस्ततः ।
अनुवाकान्तमेकाग्रः समिदाज्यचरून्पृथक् ॥ २६॥
आत्मन्यग्निं समारोप्य याते अग्नेति मंत्रतः ।
भस्मादायाग्निरित्याद्यैर्विमृज्याङ्गानि संस्पृशेत् ॥ २७॥
भस्मच्छन्नो भवेद्विद्वान्महापातकसंभवैः ।
पापैर्विमुच्यते सत्यं मुच्यते च न संशयः ॥ २८॥
वीर्यमग्नेर्यतो भस्म वीर्यवान्भस्मसंयुतः ।
भस्मस्नानरतो विप्रो भस्मशायी जितेन्द्रियः ॥ २९॥
सर्वपापविनिर्मुक्तः शिवसायुज्यमाप्नुयात् ।
एवं कुरु महाभाग शिवनामसहस्रकम् ॥ ३०॥
इदं तु सम्प्रदास्यामि तेन सर्वार्थमाप्स्यसि ।
सूत उवाच ॥
इत्युक्त्वा प्रददौ तस्मै शिवनामसहस्रकम् ॥ ३१॥
वेदसाराभिधं नित्यं शिवप्रत्यक्षकारकम् ।
उक्तं च तेन राम त्वं जप नित्यं दिवानिशम् ॥ ३२॥
ततः प्रसन्नो भगवान्महापाशुपतास्त्रकम् ।
तुभ्यं दास्यति तेन त्वं शत्रून्हत्वाऽऽप्स्यसि प्रियाम् ॥ ३३॥
तस्यैवास्त्रस्य माहात्म्यात्समुद्रं शोषयिष्यसि ।
संहारकाले जगतामस्त्रं तत्पार्वतीपतेः ॥ ३४॥
तदलाभे दानवानां जयस्तव सुदुर्लभः ।
तस्माल्लब्धं तदेवास्त्रं शरणं याहि शंकरम् ॥ ३५॥
इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे
विरजादीक्षानिरूपणं नाम तृतीयोऽध्यायः ॥ ३ ॥
अथ चतुर्थोऽध्यायः ॥
सूत उवाच ॥
एवमुक्त्वा मुनिश्रेष्ठ गते तस्मिन्निजाश्रमम् ।
अथ रामगिरौ रामस्तस्मिन्गोदावरीतटे ॥ १॥
शिवलिङ्गं प्रतिष्ठाप्य कृत्वा दीक्षां यथाविधि ।
भूतिभूषितसर्वाङ्गो रुद्राक्षाभरणैर्युतः ॥ २॥
अभिषिच्य जलैः पुण्यैर्गौतमीसिन्धुसंभवैः ।
अर्चयित्वा वन्यपुष्पैस्तद्वद्वन्यफलैरपि ॥ ३॥
भस्मच्छन्नो भस्मशायी व्याघ्रचर्मासने स्थितः ।
नाम्नां सहस्रं प्रजपन्नक्तंदिवमनन्यधीः ॥ ४॥
मासमेकं फलाहारो मासं पर्णाशनः स्थितः ।
मासमेकं जलाहारो मासं च पवनाशनः ॥ ५॥
शान्तो दान्तः प्रसन्नात्मा ध्यायन्नेवं महेश्वरम् ।
हृत्पङ्कजे समासीनमुमादेहार्धधारिणम् ॥ ६॥
चतुर्भुजं त्रिनयनं विद्युत्पिङ्गजटाधरम् ।
कोटिसूर्यप्रतीकाशं चन्द्रकोटिसुशीतलम् ॥ ७॥
सर्वाभरणसंयुक्तं नागयज्ञोपवीतिनम् ।
व्याघ्रचर्माम्बरधरं वरदाभयधारिणम् ॥ ८॥
व्याघ्रचर्मोत्तरीयं च सुरासुरनमस्कृतम् ।
पञ्चवक्त्रं चन्द्रमौलिं त्रिशूलडमरूधरम् ॥ ९॥
नित्यं च शाश्वतं शुद्धं ध्रुवमक्षरमव्ययम् ।
एवं नित्यं प्रजपतो गतं मासचतुष्टयम् ॥ १०॥
अथ जातो महानादः प्रलयाम्बुदभीषणः ।
समुद्रमथनोद्भूतमन्दरावनिभृद्ध्वनिः ॥ ११॥
रुद्रबाणाग्निसंदीप्तभ्रश्यत्त्रिपुरविभ्रमः ।
तमाकर्ण्याथ संभ्रान्तो यावत्पश्यति पुष्करम् ॥ १२॥
तावदेवो महातेजो समस्यासीत्पुरो द्विजाः ।
तेजसा तेन संभ्रान्तो नापश्यत्स दिशो दश ॥ १३॥
अन्धीकृतेक्षणस्तूर्णं मोहं यातो नृपात्मजः ।
विचिन्त्य तर्कयामास दैत्यमायां द्विजेश्वराः ॥ १४॥
अथोत्थाय महावीरः सज्जं कृत्वा स्वकं धनुः ।
अविध्यन्निशितैर्बाणैर्दिव्यास्त्रैरभिमन्त्रितैः ॥ १५॥
आग्नेयं वारुणं सौम्यं मोहनं सौरपार्वतम् ।
विष्णुचक्रं महाचक्रं कालचक्रं च वैष्णवम् ॥ १६॥
रौद्रं पाशुपतं ब्राह्मं कौबेरं कुलिशानिलम् ।
भार्गवादिबहून्यस्त्राण्ययं प्रायुङ्क्त राघवः ॥ १७॥
तस्मिंस्तेजसि शस्त्राणि चास्त्रान्यस्य महीपतेः ।
विलीनानि महाभ्रस्य करका इव नीरधौ ॥ १८॥
ततः क्षणेन जज्वाल धनुस्तस्य करच्च्युतम् ।
तूणीरं चाङ्गुलित्राणं गोधिकापि महीपते ॥ १९॥
तद्दृष्ट्वा लक्ष्मणो भीतः पपात भुवि मूर्च्छितः ।
अथाकिञ्चित्करो रामो जानुभ्यामवनिं गतः ॥ २०॥
मीलिताक्षो भयाविष्टः शंकरं शरणं गतः ।
स्वरेणाप्युच्चरन्नुच्चैः शंभोर्नामसहस्रकम् ॥ २१॥
शिवं च दण्डवद्भूमौ प्रणनाम पुनः पुनः ।
पुनश्च पूर्ववच्चासीच्छब्दो दिङ्मण्डलं ग्रसन् ॥ २२॥
चचाल वसुधा घोरं पर्वताश्च चकम्पिरे ।
ततः क्षणेन शीतांशुशीतलं तेज आपतत् ॥ २३॥
उन्मीलिताक्षो रामस्तु यावदेतत्प्रपश्यति ।
तावद्ददर्श वृषभं सर्वालंकारसंयुतम् ॥ २४॥
पीयूषमथनोद्भूतनवनीतस्य पिण्डवत् ।
प्रोतस्वर्णं मरकतच्छायशृङ्गद्वयान्वितम् ॥ २५॥
नीलरत्नेक्षणं ह्रस्वकण्ठकम्बलभूषितम् ।
रत्नपल्याणसंयुक्तं निबद्धं श्वेतचामरैः ॥ २६॥
घण्टिकाघर्घरीशब्दैः पूरयन्तं दिशो दश ।
तत्रासीनं महादेवं शुद्धस्फटिकविग्रहम् ॥ २७॥
कोटिसूर्यप्रतीकाशं कोटिशीतांशुशीतलम्।
व्याघ्रचर्माम्बरधरं नागयज्ञोपवीतिनम् ॥ २८॥
सर्वालंकारसंयुक्तं विद्युत्पिङ्गजटाधरम् ।
नीलकण्ठं व्याघ्रचर्मोत्तरीयं चन्द्रशेखरम् ॥ २९॥
नानाविधायुधोद्भासिदशबाहुं त्रिलोचनम् ।
युवानं पुरुषश्रेष्ठं सच्चिदानन्दविग्रहम् ॥ ३०॥
तत्रैव च सुखासीनां पूर्णचन्द्रनिभाननाम् ।
नीलेन्दीवरदामाभामुद्यन्मरकतप्रभाम् ॥ ३१॥
मुक्ताभरणसंयुक्तां रात्रिं ताराञ्चितामिव ।
विन्ध्यक्षितिधरोत्तुङ्गकुचभारभरालसाम् ॥ ३२॥
सदसत्संशयाविष्टमध्यदेशान्तराम्बराम् ।
दिव्याभरणसंयुक्तां दिव्यगन्धानुलेपनाम् ॥ ३३॥
दिव्यमाल्याम्बरधरां नीलेन्दीवरलोचनाम् ।
अलकोद्भासिवदनां ताम्बूलग्रासशोभिताम् ॥ ३४॥
शिवालिङ्गनसंजातपुलकोद्भासिविग्रहाम् ।
सच्चिदानन्दरूपाढ्यां जगन्मातरमम्बिकाम् ॥ ३५॥
सौन्दर्यसारसंदोहां ददर्श रघुनन्दनः ।
स्वस्ववाहनसंयुक्तान्नानायुधलसत्करान् ॥ ३६॥
बृहद्रथन्तरादीनि सामानि परिगायतः ।
स्वस्वकान्तासमायुक्तान्दिक्पालान्परितः स्थितान् ॥ ३७॥
अग्रगं गरुडारूढं शंखचक्रगदाधरम् ।
कालाम्बुदप्रतीकाशं विद्युत्कान्त्या श्रिया युतम् ॥ ३८॥
जपन्तमेकमनसा रुद्राध्यायं जनार्दनम् ।
पश्चाच्चतुर्मुखं देवं ब्रह्माणं हंसवाहनम् ॥ ३९॥
चतुर्वक्त्रैश्चतुर्वेदरुद्रसूक्तैर्महेश्वरम् ।
स्तुवन्तं भारतीयुक्तं दीर्घकूर्चं जटाधरम् ॥ ४०॥
अथर्वशिरसा देवं स्तुवन्तं मुनिमण्डलम् ।
गङ्गादितटिनीयुक्तमम्बुधिं नीलविग्रहम् ॥ ४१॥
श्वेताश्वतरमन्त्रेण स्तुवन्तं गिरिजापतिम् ।
अनन्तादिमहानागान्कैलासगिरिसन्निभान् ॥ ४२॥
कैवल्योपनिषत्पाठान्मणिरत्नविभूषितान् ।
सुवर्णवेत्रहस्ताढ्यं नन्दिनं पुरतः स्थितम् ॥ ४३॥
दक्षिणे मूषकारूढं गणेशं पर्वतोपमम् ।
मयूरवाहनारूढमुत्तरे षण्मुखं तथा ॥ ४४॥
महाकालं च चण्डेशं पार्श्वयोर्भीषणाकृतिम् ।
कालाग्निरुद्रं दूरस्थं ज्वलद्दावाग्निसन्निभम् ॥ ४५॥
त्रिपादं कुटिलाकारं नटद्भृङ्गिरिटिं पुरः ।
नानाविकारवदनान्कोटिशः प्रमथाधिपान् ॥ ४६॥
नानावाहनसंयुक्तं परितो मातृमण्डलम् ।
पञ्चाक्षरीजपासक्तान्सिद्धविद्याधरादिकान् ॥ ४७॥
दिव्यरुद्रकगीतानि गायत्किन्नरवृन्दकम् ।
तत्र त्रैयम्बकं मन्त्रं जपद्द्विजकदम्बकम् ॥ ४८॥
गायन्तं वीणया गीतं नृत्यन्तं नारदं दिवि ।
नृत्यतो नाट्यनृत्येन रम्भादीनप्सरोगणान् ॥ ४९॥
गायच्चित्ररथादीनां गन्धर्वाणां कदम्बकम् ।
कम्बलाश्वतरौ शंभुकर्णभूषणतां गतौ ॥ ५०॥
गायन्तौ पन्नगौ गीतं कपालं कम्बलं तथा ।
एवं देवसभां दृष्ट्वा कृतार्थो रघुनन्दनः ॥ ५१॥
हर्षगद्गदया वाचा स्तुवन्देवं महेश्वरम् ।
दिव्यनामसहस्रेण प्रणनाम पुनः पुनः ॥ ५२॥
इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे
शिवप्रादुर्भावाख्यश्चतुर्थोऽध्यायः ॥ ४ ॥
अथ पञ्हमोऽध्यायः ॥
सूत उवाच ॥
अथ प्रादुरभूत्तत्र हिरण्मयरथो महान् ।
अनेकदिव्यरत्नांशुकिर्मीरितदिगन्तरः ॥ १॥
नद्युपान्तिकपङ्काढ्यमहाचक्रचतुष्टयः ।
मुक्तातोरणसंयुक्तः श्वेतच्छत्रशतावृतः ॥ २॥
शुद्धहेमखलीनाढ्यतुरङ्गगणसंयुतः ।
शुक्तावितानविलसदूर्ध्वदिव्यवृषध्वजः ॥ ३॥
मत्तवारणिकायुक्तः पट्टतल्पोपशोभितः ।
पारिजाततरूद्भूतपुष्पमालाभिरञ्चितः ॥ ४॥
मृगनाभिसमुद्भूतकस्तूरिमदपङ्किलः ।
कर्पूरागधूपोत्थगन्धाकृष्टमधुव्रतः ॥ ५॥
संवर्तघनघोषाढ्यो नानावाद्यसमन्वितः ।
वीणावेणुस्वनासक्तकिन्नरीगणसंकुलः ॥ ६॥
एवं दृष्ट्वा रथश्रेष्ठं वृषादुत्तीर्य शंकरः ।
अम्बया सहितस्तत्र पट्टतल्पेऽविशत्तदा ॥ ७॥
नीराजनैः सुरस्त्रीणां श्वेतचामरचालनैः ।
दिव्यव्यजनपातैश्च प्रहृष्टो नीललोहितः ॥ ८॥
क्वणत्कङ्कणनिध्वानैर्मंजुमञ्जीरसिञ्जितैः ।
वीणावेणुस्वनैर्गीतैः पूर्णमासीज्जगत्त्रयम् ॥ ९॥
शुककेकिकुलारावैः श्वेतपारावतस्वनैः ।
उन्निद्रभूषाफणिनां दर्शनादेव बर्हिणः ॥ १०॥
ननृतुर्दर्शयन्तः सर्वांश्चन्द्रकान्कोटिसंख्यया ।
प्रणमन्तं ततो राममुत्थाप्य वृषभध्वजः ॥ ११॥
आनिनाय रथं दिव्यं प्रहृष्टेनान्तरात्मना ।
कमण्डलुजलैः स्वच्छैः स्वयमाचम्य यत्नतः ॥ १२॥
समाचम्याथ पुरतः स्वांके राममुपानयत् ।
अथ दिव्यं धनुस्तस्मै ददौ तूणीरमक्षयम् ॥ १३॥
महापाशुपतं नाम दिव्यमस्त्रं ददौ ततः ।
उक्तश्च तेन रामोऽपि सादरं चन्द्रमौलिना ॥ १४॥
जगन्नाशकरं रौद्रमुग्रमस्त्रमिदं नृप ।
अतो नेदं प्रयोक्तव्यं सामान्यसमरादिके ॥ १५॥
अन्यन्नास्ति प्रतीघातमेतस्य भुवनत्रये ।
तस्मात्प्राणत्यये राम प्रयोक्तव्यमुपस्थिते ॥ १६॥
अन्यदैत्यत्प्रयुक्तं तु जगत्संक्षयकृद्भवेत् ।
अथाहूय सुरश्रेष्ठान् लोकपालान्महेश्वरः ॥ १७॥
उअवाच परमप्रीतः स्वं स्वमस्त्रं प्रयच्छत ।
राघवोऽयं च तैरस्त्रै रावणं निहनिष्यति ॥ १८॥
तस्मै देवैरवध्यत्वमिति दत्तो वरो मया ।
तस्माद्वानरतामेत्य भवन्तो युद्धदुर्मदाः ॥ १९॥
साहाय्यमस्य कुर्वन्तु तेन सुस्था भविष्यथ ।
तदाज्ञां शिरसा गृह्य सुराः प्राञ्जलयस्तथा ॥ २०॥
प्रणम्य चरणौ शंभोः स्वं स्वमस्त्रं ददुर्मुदा ।
नारायणास्त्रं दैत्यारिरैन्द्रमस्त्रं पुरंदरः ॥ २१॥
ब्रह्मापि ब्रह्मदण्डास्त्रमाग्नेयास्त्रं धनंजयः ।
याम्यं यमोऽपि मोहास्त्रं रक्षोराजस्तथा ददौ ॥ २२॥
वरुणो वारुणं प्रादाद्वायव्यास्त्रं प्रभञ्जनः ।
कौबेरं च कुबेरोऽपि रौद्रमीशान एव च ॥ २३॥
सौरमस्त्रं ददौ सूर्यः सौम्यं सोमश्च पार्वतम् ।
विश्वेदेवा ददुस्तस्मै वसवो वासवाभिधम् ॥ २४॥
अथ तुष्टः प्रणम्येशं रामो दशरथात्मजः ।
प्राञ्जलिः प्रणतो भूत्वा भक्तियुक्तो व्यजिज्ञपत् ॥ २५॥
श्रीराम उवाच ॥
भगवान्मानुषेणैव नोल्लङ्घ्यो लवणाम्बुधिः ।
तत्र लङ्काभिधं दुर्गं दुर्जयं देवदानवैः ॥ २६॥
अनेककोटयस्तत्र राक्षसा बलवत्तराः ।
सर्वे स्वाध्यायनिरताः शिवभक्ता जितेन्द्रियाः ॥ २७॥
अनेकमायासंयुक्ता बुद्धिमन्तोऽग्निहोत्रिणः ।
कथमेकाकिना जेया मया भ्रात्रा च संयुगे ॥ २८॥
श्रीमहादेव उवाच ॥
रावणस्य वधे राम रक्षसामपि मारणे ।
विचारो न त्वया कार्यस्तस्य कालोऽयमागतः ॥ २९॥
अधर्मे तु प्रवृत्तास्ते देवब्राह्मणपीडने ।
तस्मादायुःक्षयं यातं तेषां श्रीरपि सुव्रत ॥ ३०॥
राजस्त्रीकामनासक्तं रावणं निहनिष्यसि ।
पापासक्तो रिपुर्जेतुः सुकरः समराङ्गणे ॥ ३१॥
अधर्मे निरतः शत्रुर्भाग्येनैव हि लभ्यते ।
अधीतधर्मशास्त्रोऽपि सदा वेदरतोऽपि वा ॥ ३२॥
विनाशकाले सम्प्राप्ते धर्ममार्गाच्च्युतो भवेत् ।
पीड्यन्ते देवताः सर्वाः सततं येन पापिना ॥ ३३॥
ब्राह्मणा ऋषयश्चैव तस्य नाशः स्वयं स्थितः ।
किष्किंधानगरे राम देवानामंशसंभवाः ॥ ३४॥
वानरा बहवो जाता दुर्जया बलवत्तराः ।
साहाय्यं ते करिष्यन्ति तैर्बध्वा च पयोनिधिम् ॥ ३५॥
अनेकशैलसंबद्धे सेतौ यान्तु वलीमुखाः ।
रावणं सगणं हत्वा तामानय निजां प्रियाम् ॥ ३६॥
शस्त्रैर्युद्धे जयो यत्र तत्रास्त्राणि न योजयेत् ।
निरस्त्रेष्वल्पशस्त्रेषु पलायनपरेषु च ॥ ३७॥
अस्त्राणि मुञ्चन् दिव्यानि स्वयमेव विनश्यति ।
अथवा किं बहूक्तेन मयैवोत्पादितं जगत् ॥ ३८॥
मयैव पाल्यते नित्यं मया संह्रियतेऽपि च ।
अहमेको जगन्मृत्युर्मृत्योरपि महीपते ॥ ३९॥
ग्रसेऽहमेव सकलं जगदेतच्चराचरम् ।
मम वक्त्रगताः सर्वे राक्षसा युद्धदुर्मदाः ॥ ४०॥
निमित्तमात्रं त्वं भूयाः कीर्तिमाप्स्यसि संगरे ॥ ४१॥
इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे
रामाय वरप्रदानं नाम पञ्चमोऽध्यायः ॥ ५ ॥
अथ षष्ठोऽध्यायः ॥
श्रीराम उवाच ॥
भगवन्नत्र मे चित्रं महदेतत्प्रजायते ।
शुद्धस्फटिकसंकाशस्त्रिनेत्रश्चन्द्रशेखरः ॥ १॥
मूर्तस्त्वं तु परिच्छिन्नाकृतिः पुरुषरूपधृक् ।
अम्बया सहितोऽत्रैव रमसे प्रमथैः सह ॥ २॥
त्वं कथं पञ्चभूतादि जगदेतच्चराचरम् ।
तद्ब्रूहि गिरिजाकान्त मयि तेऽनुग्रहो यदि ॥ ३॥
श्रीभगवानुवाच ॥
साधु पृष्टं महाभाग दुर्ज्ञेयममरैरपि।
तत्प्रवक्ष्यामि ते भक्त्या ब्रह्मचर्येण सुव्रत ॥ ४॥
पारं यास्यस्यनायासाद्येन संसारनीरधेः ।
दृश्यन्ते पञ्चभूतानि ये च लोकाश्चतुर्दश ॥ ५॥
समुद्राः सरितो देवा राक्षसा ऋषयस्तथा ।
दृश्यन्ते यानि चान्यानि स्थावराणि चराणि च ॥ ६॥
गन्धर्वाः प्रमथा नागाः सर्वे ते मद्विभूतयः ।
पुरा ब्रह्मादयो देवा द्रष्टुकामा ममाकृतिम् ॥ ७॥
मंदरं प्रययुः सर्वे मम प्रियतरं गिरिम् ।
स्तुत्वा प्राञ्जलयो देवा मां तदा पुरतः स्थिताः ॥ ८॥
तान्दृष्ट्वाथ मया देवान् लीलाकुलितचेतसः ।
तेषामपहृतं ज्ञानं ब्रह्मादीनां दिवौकसाम् ॥ ९॥
अथ तेऽपहृतज्ञाना मामाहुः को भवानिति ।
अथाब्रुवमहं देवानहमेव पुरातनः ॥ १०॥
आसं प्रथममेवाहं वर्तामि च सुरेश्वराः ।
भविष्यामि च लोकेऽस्मिन्मत्तो नान्यस्ति कश्चन ॥ ११॥
व्यतिरिक्तं च मत्तोऽस्ति नान्यत्किञ्चित्सुरेश्वराः ।
नित्योऽनित्योऽहमनघो ब्रह्मणां ब्रह्मणस्पतिः ॥ १२॥
दक्षिणाञ्च उदञ्चोऽहं प्राञ्चः प्रत्यञ्च एव च ।
अधश्चोर्ध्वं च विदिशो दिशश्चाहं सुरेश्वराः ॥ १३॥
सावित्री चापि गायत्री स्त्री पुमानपुमानपि ।
त्रिष्टुब्जगत्यनुष्टुप् च पंक्तिश्छन्दस्त्रयीमयः ॥ १४॥
सत्योऽहं सर्वगः शान्तस्त्रेताग्निर्गौर्यहं गुरुः ।
गौर्यहं गह्वरं चाहं द्यौरहं जगतां विभुः ॥ १५॥
ज्येष्ठः सर्वसुरश्रेष्ठो वरिष्ठोऽहमपांपतिः ।
आर्योऽहं भगवानीशस्तेजोऽहं चादिरप्यहम् ॥ १६॥
ऋग्वेदोऽहं यजुर्वेदः सामवेदोऽहमात्मभूः ।
अथर्वणश्च मन्त्रोऽहं तथा चाङ्गिरसो वरः ॥ १७॥
इतिहासपुराणानि कल्पोऽहं कल्पवानहम् ।
नाराशंसी च गाथाहं विद्योपनिषदोऽस्म्यहम् ॥ १८॥
श्लोकाः सूत्राणि चैवाहमनुव्याख्यानमेव च ।
व्याख्यानानि परा विद्या इष्टं हुतमथाहुतिः ॥ १९॥
दत्तादत्तमयं लोकः परलोकऽहमक्षरः ।
क्षरः सर्वाणि भूतानि दान्तिः शान्तिरहं खगः ॥ २०॥
गुह्योऽहं सर्ववेदेषु आरण्योहमजोऽप्यहम् ।
पुष्करं च पवित्रं च मध्यं चाहमतः परम् ॥ २१॥
बहिश्चाहं तथा चान्तः पुरस्तादहमव्ययः ।
ज्योतिश्चाहं तमश्चाहं तन्मात्राणीन्द्रियाण्यहम् ॥ २२॥
बुद्धिश्चाहमहंकारो विषयाण्यहमेव हि ।
ब्रह्मा विष्णुर्महेशोहमुमा स्कन्दो विनायकः ॥ २३॥
इन्द्रोऽग्निश्च यमश्चाहं निरृतिर्वरुणोऽनिलः ।
कुबेरोऽहं तथेशानो भूर्भुवः स्वर्महर्जनः ॥ २४॥
तपः सत्यं च पृथिवी चापस्तेजोऽनिलोऽप्यहम् ।
आकाशोऽहं रविः सोमो नक्षत्राणि ग्रहास्तथा ॥ २५॥
प्राणः कालस्तथा मृत्युरमृतं भूतमप्यहम् ।
भव्यं भविष्यत्कृत्स्नं च विश्वं सर्वात्मकोऽप्यहम् ॥ २६॥
ओमादौ च तथा मध्ये भूर्भुवः स्वस्तथैव च ।
ततोऽहं विश्वरूपोऽस्मि शीर्षं च जपतां सदा ॥ २७॥
अशितं पायितं चाहं कृतं चाकृतमप्यहम् ।
परं चैवापरं चाहमहं सर्वपरायणः ॥ २८॥
अहं जगद्धितं दिव्यमक्षरं सूक्ष्ममव्ययम् ।
प्राजापत्यं पवित्रं च सौम्यमग्राह्यमग्रियम् ॥ २९॥
अहमेवोपसंहर्ता महाग्रासौजसां निधिः ।
हृदि यो देवतात्वेन प्राणत्वेन प्रतिष्ठितः ॥ ३०॥
शिरश्चोत्तरतो यस्य पादौ दक्षिणतस्तथा ।
यश्च सर्वोत्तरः साक्षादोङ्कारोऽहं त्रिमात्रकः ॥ ३१॥
ऊर्ध्वं चोन्नामहे यस्मादधश्चापनयाम्यहम् ।
तस्मादोङ्कार एवाहमेको नित्यः सनातनः ॥ ३२॥
ऋचो यजूंषि सामानि यो ब्रह्मा यज्ञकर्मणि ।
प्रणामहे ब्राह्मणेभ्यस्तेनाहं प्रणवो मतः ॥ ३३॥
स्नेहो यथा मांसपिण्डं व्याप्नोति व्याप्ययत्यपि ।
सर्वान् लोकानहं तद्वत्सर्वव्यापी ततोऽस्म्यहम् ॥ ३४॥
ब्रह्मा हरिश्च भगवानाद्यन्तं नोपलब्धवान् ।
ततोऽन्ये च सुरा यस्मादनन्तोऽहमितीरितः ॥ ३५॥
गर्भजन्मजरामृत्युसंसारभवसागरात् ।
तारयामि यतो भक्तं तस्मात्तारोऽहमीरितः ॥ ३६॥
चतुर्विधेषु देहेषु जीवत्वेन वसाम्यहम् ।
सूक्ष्मो भूत्वा च हृद्देशे यत्तत्सूक्ष्मं प्रकीर्तितः ॥ ३७॥
महातमसि मग्नेभ्यो भक्तेभ्यो यत्प्रकाशये ।
विद्युद्वदतुलं रूपं तस्माद्विद्युतमस्म्यहम् ॥ ३८॥
एक एव यतो लोकान् विसृजामि सृजामि च ।
विवासयामि गृह्णामि तस्मादेकोऽहमीश्वरः ॥ ३९॥
न द्वितीयो यतस्तस्थे तुरीयं ब्रह्म यत्स्वयम् ।
भूतान्यात्मनि संहृत्य चैको रुद्रो वसाम्यहम् ॥ ४०॥
सर्वांल्लोकान्यदीशेहमीशिनीभिश्च शक्तिभिः ।
ईशानमस्य जगतः स्वर्दृशं चक्षुरीश्वरम् ॥ ४१॥
ईशानश्चास्मि जगतां सर्वेषामपि सर्वदा ।
ईशानः सर्वविद्यानां यदीशानस्ततोऽस्म्यहम् ॥ ४२॥
सर्वभावान्निरीक्षेऽहमात्मज्ञानं निरीक्षये ।
योगं च गमये तस्माद्भगवान्महतो मतः ॥ ४३॥
अजस्रं यच्च गृह्णामि विसृजामि सृजामि च ।
सर्वांल्लोकान्वासयामि तेनाहं वै महेश्वरः ॥ ४४॥
महत्यात्मज्ञानयोगैश्वर्ये यस्तु महीयते ।
सर्वान् भावान् परित्यज्य महादेवश्च सोऽस्म्यहम् ॥ ४५॥
एषोऽस्मि देवः प्रदिशो नु सर्वाः
पूर्वो हि जातोस्म्यहमेव गर्भे ।
अहं हि जातश्च जनिष्यमाणः
प्रत्यग्जनस्तिष्ठति सर्वतोमुखः ॥ ४६॥
विश्वतश्चक्षुरुत विश्वतोमुखो
विश्वतोबाहुरुत विश्वतस्पात् ।
संवाहुभ्यां धमति सम्पतत्रै-
र्द्यावाभूमी जनयन्देव एकः ॥ ४७॥
वालाग्रमात्रं हृदयस्य मध्ये
विश्वं देवं जातवेदं वरेण्यम् ।
मामात्मस्थं येऽनुपश्यन्ति धीरा-
स्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ ४८॥
अहं योनिमधितिष्ठामि चैको
मयेदं पूर्णं पञ्चविधं च सर्वम् ।
मामीशानं पुरुषं देवमीड्यं विदित्वा
निचाय्येमां शान्तिमत्यन्तमेति ॥ ४९॥
प्राणेष्वन्तर्मनसो लिङ्गमाहु-
रस्मिन्क्रोधोउआ च तृष्णा क्षमा च ।
तृष्णां हित्वा हेतुजालस्य मूलं
बुद्ध्या चित्तं स्थापयित्वा मयीह ।
एवं ये मां ध्यायमाना भजंते
तेषां शान्तिः शाश्वती नेतरेषाम् ॥ ५०॥
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।
आनन्दं ब्रह्म मां ज्ञात्वा न बिभेति कुतश्चन ॥ ५१॥
श्रुत्वेति देवा मद्वाक्यं कैवल्यज्ञानमुत्तमम् ।
जपन्तो मम नामानि मम ध्यानपरायणाः ॥ ५२॥
सर्वे ते स्वस्वदेहान्ते मत्सायुज्यं गताः पुरा ।
ततोऽग्रे परिदृश्यन्ते पदार्था मद्विभूतयः ॥ ५३॥
मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् ।
मयि सर्वं लयं याति तद्ब्रह्माद्वयमस्म्यहम् ॥ ५४॥
अणोरणीयानहमेव तद्व-
न्महानहं विश्वमहं विशुद्धः ।
पुरातनोऽहं पुरुषोऽहमीशो
हिरण्मयोऽहं शिवरूपमस्मि ॥ ५५॥
अपाणिपादोऽहमचिन्त्यशक्तिः
पश्याम्यचक्षुः स शृणोम्यकर्णः ।
अहं विजानामि विविक्तरूपो
न चास्ति वेत्ता मम चित्सदाहम् ॥ ५६॥
वेदैरशेषैरहमेव वेद्यो
वेदान्तकृद्वेदविदेव चाहम् ।
न पुण्यपापे मम नास्ति नाशो
न जन्म देहेन्द्रियबुद्धिरस्ति ॥ ५७॥
न भूमिरापो न च वह्निरस्ति
न चानिलो मेऽस्ति न मे नभश्च ।
एवं विदित्वा एवं मां तत्त्वतो वेत्ति यस्तु राम महाम्ते
परमात्मरूपं
गुहाशयं निष्कलमद्वितीयम्॥ ५८॥
समस्तसाक्षिं सदसद्विहीनः
प्रयाति शुद्धं पर्मात्मरूपम् ॥ ५९॥
एवं मां तत्त्वतो वेत्ति यस्तु राम महामते ।
स एव नान्य लोकेषु कैवल्यफलमश्नुते ॥ ६०॥
इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे
विभूतियोगो नाम षष्ठोऽध्यायः ॥ ६ ॥
अथ सप्तमोऽध्यायः ॥
श्रीराम उवाच ॥
भगवन्यन्मया पृष्टं तत्तथैव स्थितं विभो ।
अत्रोत्तरं मया लब्धं त्वत्तो नैव महेश्वर ॥ १॥
परिच्छिन्नपरीमाणे देहे भगवतस्तव ।
उत्पत्तिः पञ्चभूतानां स्थितिर्वा विलयः कथम् ॥ २॥
स्वस्वाधिकारसंबद्धाः कथं नाम स्थिताः सुराः ।
ते सर्वे कथं देव भुवनानि चतुर्दश ॥ ३॥
त्वत्तः श्रुत्वापि देवात्र संशयो मे महानभूत् ।
अप्रत्यायितचित्तस्य संशयं छेत्तुमर्हसि ॥ ४॥
श्रीभगवानुवाच ॥
वटबीजेऽतिसूक्ष्मेऽपि महावटतरुर्यथा ।
सर्वदास्तेऽन्यथा वृक्षः कुत आयाति तद्वद ॥ ५॥
तद्वन्मम तनौ राम भूतानामागतिर्लयः ।
महासैन्धवपिण्डोऽपि जले क्षिप्तो विलीयते ॥ ६॥
न दृश्यते पुनः पाकात्कुत आयाति पूर्ववत् ।
प्रातःप्रातर्यथाऽऽलोको जायते सूर्यमण्डलात् ॥ ७॥
एवं मत्तो जगत्सर्वं जायतेऽस्ति विलीयते ।
मय्येव सकलं राम तद्वज्जानीहि सुव्रत ॥ ८॥
श्रीराम उवाच ॥
कथितेऽपि महाभाग दिग्जडस्य यथा दिशि ।
निवर्तते भ्रमो नैव तद्वन्मम करोमि किम् ॥ ९॥
श्रीभगवानुवाच ॥
मयि सर्वं यथा राम जगदेतच्चराचरम् ।
वर्तते तद्दर्शयामि न द्रष्टुं क्षमते भवान् ॥ १०॥
दिव्यं चक्षुः प्रदास्यामि तुभ्यं दशरथात्मज ।
तेन पश्य भयं त्यक्त्वा मत्तेजोमण्डलं ध्रुवम् ॥ ११॥
न चर्मचक्षुषा द्रष्टुं शक्यते मामकं महः ।
नरेण वा सुरेणापि तन्ममानुग्रहं विना ॥ १२॥
सूत उवाच ॥
इत्युक्त्वा प्रददौ तस्मै दिव्यं चक्षुर्महेश्वरः ।
अथादर्शयदेतस्मै वक्त्रं पातालसंनिभम् ॥ १३॥
विद्युत्कोटिप्रभं दीप्तमतिभीमं भयावहम् ।
तद्दृष्ट्वैव भयाद्रामो जानुभ्यामवनिं गतः ॥ १४॥
प्रणम्य दण्डवद्भूमौ तुष्टाव च पुनः पुनः ।
अथोत्थाय महावीरो यावदेव प्रपश्यति ॥ १५॥
वक्त्रं पुरभिदस्तत्र अन्तर्ब्रह्माण्डकोटयः ।
चटका इव लक्ष्यन्ते ज्वालामालासमाकुलाः ॥ १६॥
मेरुमन्दरविन्ध्याद्या गिरयः सप्तसागराः ।
दृश्यन्ते चन्द्रसूर्याद्याः पञ्च भूतानि ते सुराः ॥ १७॥
अरण्यानि महानागा भुवनानि चतुर्दश ।
प्रतिब्रह्माण्डमेवं तद्दृष्ट्वा दशरथात्मजः ॥ १८॥
सुरासुराणां संग्रामस्तत्र पूर्वापरानपि ।
विष्णोर्दशावतारांश्च तत्तत्कर्माण्यपि द्विजाः ॥ १९॥
पराभवांश्च देवानां पुरदाहं महेशितुः ।
उत्पद्यमानानुत्पन्नान्सर्वानपि विनश्यतः ॥ २०॥
दृष्ट्वा रामो भयाविष्टः प्रणनाम पुनः पुनः ।
उत्पन्नतत्त्वज्ञानोऽपि बभूव रघुनन्दनः ॥ २१॥
अथोपनिषदां सारैरर्थैस्तुष्टाव शंकरम् ॥ २२॥
श्रीराम उवाच ॥
देव प्रपन्नार्तिहर प्रसीद
प्रसीद विश्वेश्वर विश्ववन्द्य ।
प्रसीद गङ्गाधर चन्द्रमौले
मां त्राहि संसारभयादनाथम् ॥ २३॥
त्वत्तो हि जातं जगदेतदीश
त्वय्येव भूतानि वसन्ति नित्यम् ।
त्वय्येव शंभो विलयं प्रयान्ति
भूमौ यथा वृक्षलतादयोऽपि ॥ २४॥
ब्रह्मेन्द्र रुद्राश्च मरुद्गणाश्च
गन्धर्वयक्षाऽसुरसिद्धसङ्घाः ।
गङ्गादि नद्यो वरुणालयाश्च
वसन्ति शूलिंस्तव वक्त्रयंत्रे ॥ २५॥
त्वन्मायया कल्पितमिन्दुमौले
त्वय्येव दृश्यत्वमुपैति विश्वम् ।
भ्रान्त्या जनः पश्यति सर्वमेत-
च्छुक्तौ यथा रौप्यमहिं च रज्जौ ॥ २६॥
तेजोभिरापूर्य जगत्समस्तं
प्रकाशमानः कुरुषे प्रकाशम् ।
विना प्रकाशं तव देवदेव
न दृश्यते विश्वमिदं क्षणेन ॥ २७॥
अल्पाश्रयो नैव बृहन्तमर्थं
धत्तेऽणुरेको न हि विन्ध्यशैलम् ।
त्वद्वक्त्रमात्रे जगदेतदस्ति
त्वन्माययैवेति विनिश्चिनोमि ॥ २८॥
रज्जौ भुजङ्गो भयदो यथैव
न जायते नास्ति न चैति नाशम् ।
त्वन्मायया केवलमात्ररूपं
तथैव विश्वं त्वयि नीलकण्ठ ॥ २९॥
विचार्यमाणे तव यच्छरीर-
माधारभावं जगतामुपैति ।
तदप्ययश्यं मदविद्ययैव
पूर्णश्चिदानदमयो यतस्त्वम् ॥ ३०॥
पूजेष्टपूर्तादिवरक्रियाणां
भोक्तुः फलं यच्छसि विश्वमेव ।
मृषैतदेवं वचनं पुरारे
त्वत्तोऽस्ति भिन्नं न च किञ्चिदेव ॥ ३१॥
अज्ञानमूढा मुनयो वदन्ति
पूजोपचारादिबहिःक्रियाभिः ।
तोषं गिरीशो भजतीति मिथ्या
कुतस्त्वमूर्तस्य तु भोगलिप्सा ॥ ३२॥
किञ्चिद्दलं वा चुलकोदकं वा
यस्त्वं महेश प्रतिगृह्य दत्से ।
त्रैलोक्यलक्ष्मीमपि यज्जनेभ्यः
सर्वं त्वविद्याकृतमेव मन्ये ॥ ३३॥
व्याप्नोषि सर्वा विदिशो दिशश्च
त्वं विश्वमेकः पुरुषः पुराणः ।
नष्टेऽपि तस्मिंस्तव नास्ति हानि-
र्घटे विनष्टे नभसो यथैव ॥ ३४॥
यथैकमाकाशगमर्कबिम्बं
क्षुद्रेषु पात्रेषु जलान्वितेषु ।
भजत्यनेकप्रतिबिम्बभावं
तथा त्वमन्तःकरणेषु देव ॥ ३५॥
संसर्जने वाऽप्यवने विनाशे
विश्वस्य किञ्चित्तव नास्ति कार्यम् ।
अनादिभिः प्राणभृतामदृष्टै-
स्तथापि तत्स्वप्नवदातनोषि ॥ ३६॥
स्थूलस्य सूक्ष्मस्य जडस्य भोगो
देहस्य शंभो न चिदं विनास्ति ।
अतस्त्वदारोपणमातनोति
श्रुतिः पुरारे सुखदुःखयोः सदा ॥ ३७॥
नमः सच्चिदाम्भोधिहंसाय तुभ्यं
नमः कालकालाय कालात्मकाय ।
नमस्ते समस्ताघसंहारकर्त्रे
नमस्ते मृषाचित्तवृत्त्यैकभोक्त्रे ॥ ३८॥
सूत उवाच ॥
एवं प्रणम्य विश्वेशं पुरतः प्राञ्जलिः स्थितः ।
विस्मितः परमेशानं जगाद रघुनन्दनः ॥ ३९॥
श्रीराम उवाच ॥
उपसंहर विश्वात्मन्विश्वरूपमिदं तव ।
प्रतीतं जगदैकात्म्यं शंभो भवदनुग्रहात् ॥ ४०॥
श्रीभगवानुवाच ॥
पश्य राम महाबाहो मत्तो नान्योऽस्ति कश्चन ॥ ४१॥
सूत उवाच ॥
उत्युक्त्वैवोपसंजह्रे स्वदेहे देवतादिकान् ।
मीलिताक्षः पुनर्हर्षाद्यावद्रामः प्रपश्यति ॥ ४२॥
तावदेव गिरेः शृङ्गे व्याघ्रचर्मोपरि स्थितम् ।
ददर्श पञ्चवदनं नीलकण्ठं त्रिलोचनम् ॥ ४३॥
व्याघ्रचर्माम्बरधरं भूतिभूषितविग्रहम् ।
फणिकङ्कणभूषाढ्यं नागयज्ञोपवीतिनम् ॥ ४४॥
व्याघ्रचर्मोत्तरीयं च विद्युत्पिङ्गजटाधरम् ।
एकाकिनं चन्द्रमौलिं वरेण्यमभयप्रदम् ॥ ४५॥
चतुर्भुजं खण्डपरशुं मृगहस्तं जगत्पतिम् ।
अथाज्ञया पुरस्तस्य प्रणम्योपविवेश सः ॥ ४६॥
अथाह रामं देवेशो यद्यत्प्रष्टुमभीच्छसि ।
तत्सर्वं पृच्छ राम त्वं मत्तो नान्योऽस्ति ते गुरुः ॥ ४७॥
इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे
विश्वरूपदर्शनं नाम सप्तमोऽध्यायः ॥ ७ ॥
अथ अष्टमोऽध्यायः ॥
श्रीराम उवाच ॥
पाञ्चभौतिकदेहस्य चोत्पत्तिर्विलयः स्थितिः ।
स्वरूपं च कथं देव भगवन्वक्तुमर्हसि ॥ १॥
श्रीराम उवाच ॥
पाञ्चभौतिकदेहस्य चोत्पत्तिर्विलयः स्थितिः ।
स्वरूपं च कथं देव भगवन्वक्तुमर्हसि ॥ १॥
श्रीभगवानुवाच ॥
पञ्चभूतैः समारब्धो देहोऽयं पाञ्चभौतिकः ।
तत्र प्रदानं पृथिवी शेषाणां सहकारिता ॥ २॥
जरायुजोऽण्डजश्चैव स्वेदजश्चोद्भिजस्तथा ।
एवं चतुर्विधः प्रोक्तो देहोऽयं पाञ्चभौतिकः ॥ ३॥
मानसस्तु परः प्रोक्तो देवानामेव संस्मृतः ।
तत्र वक्ष्ये प्रथमतः प्रधानत्वाज्जरायुजम् ॥ ४॥
शुक्रशोणितसंभूता वृत्तिरेव जरायुजः ।
स्त्रीणां गर्भाशये शुक्रमृतुकाले विशेद्यदा ॥ ५॥
योषितो रजसा युक्तं तदेव स्याज्जरायुजम् ।
बाहुल्याद्रजसा स्त्री स्याच्छुक्राधिक्ये पुमान्भवेत् ॥ ६॥
शुक्रशोणितयोः साम्ये जायते च नपुंसकः ।
ऋतुस्नाता भवेन्नारी चतुर्थे दिवसे ततः ॥ ७॥
ऋतुकालस्तु निर्दिष्ट आषोडशदिनावधि ।
तत्रायुग्मदिने स्त्री स्यात्पुमान्युग्मदिने भवेत् ॥ ८॥
षोडशे दिवसे गर्भो जायते यदि सुभ्रुवः ।
चक्रवर्ती भवेद्राजा जायते नात्र संशयः ॥ ९॥
ऋतुस्नाता यस्य पुंसः साकाङ्क्षं मुखमीक्षते ।
तदाकृतिर्भवेदर्भस्तत्पश्येत्स्वामिनो मुखम् ॥ १०॥
याऽस्ति चर्मावृतिः सूक्ष्मा जरायुः सा निगद्यते ।
शुक्रशोणितयोर्योगस्तस्मिन्नेव भवेद्यतः ।
तत्र गर्भो भवेद्यस्मात्तेन प्रोक्तो जरायुजः ॥ ११॥
अण्डजाः पक्षिसर्पाद्याः स्वेदजा मशकादयः ।
उद्भिज्जास्तृणगुल्माद्या मानसाश्च सुरर्षयः॥ १२॥
जन्मकर्मवशादेव निषिक्तं स्मरमन्दिरे ।
शुक्रं रजःसमायुक्तं प्रथमे मासि तद्द्रवम् ॥ १३॥
बुद्बुदं कललं तस्मात्ततः पेशी भवेदिदम् ।
पेशीघनं द्वितीये तु मासि पिण्डः प्रजायते ।१४॥
कराङ्घ्रिशीर्षकादीनि तृतीये संभवन्ति हि ।
अभिव्यक्तिश्च जीवस्य चतुर्थे मासि जायते ॥ १५॥
ततश्चलति गर्भोऽपि जनन्या जठरे स्वतः ।
पुत्रश्चेद्दक्षिणे पार्श्वे कन्या वामे च तिष्ठति ॥ १६॥
नपुंसकस्तूदरस्य भागे तिष्ठति मध्यतः ।
अतो दक्षिणपार्श्वे तु शेते माता पुमान्यदि ॥ १७॥
अङ्गप्रत्यङ्गभागाश्च सूक्ष्माः स्युर्युगपत्तदा ।
विहाय श्मश्रुदन्तादीञ्जन्मानन्तरसंभवान् ॥ १८॥
चतुर्थे व्यक्तता तेषां भावानामपि जायते ।
पुंसां स्थैर्यादयो भावा भीरुत्वाद्यास्तु योषिताम् ॥ १९॥
नपुंसके च ते मिश्रा भवन्ति रघुनन्दन ।
मातृजं चास्य हृदयं विषयानभिकाङ्क्षति ॥ २०॥
ततो मातुर्मनोऽभीष्टं कुर्याद्गर्भविवृद्धये ।
तां च द्विहृदयां नारीमाहुर्दौहृदिनीं ततः ॥ २१॥
अदानाद्दौहृदानां स्युर्गर्भस्य व्यङ्गतादयः ।
मातुर्यद्विषये लोभस्तदार्तो जायते सुतः ॥ २२॥
प्रबुद्धं पञ्चमे चित्तं मांसशोणितपुष्टता ।
षष्ठेऽस्थिस्नायुनखरकेशलोमविविक्तता ॥ २३॥
बलवर्णौ चोपचितौ सप्तमे त्वङ्गपूर्णता ।
पादान्तरितहस्ताभ्यां श्रोत्ररन्ध्रे पिधाय सः ॥ २४॥
उद्विग्नो गर्भसंवासादस्ति गर्भलयान्वितः ॥ २५॥
आविर्भूतप्रबोधोऽसौ गर्भदुःखादिसंयुतः ।
हा कष्टमिति निर्विण्णः स्वात्मानं शोशुचीत्यथ ॥ २६॥
अनुभूता महासह्याः पुरा मर्मच्छिदोऽसकृत् ।
करंभवालुकास्तप्ताश्चादह्यन्तासुखाशयाः ॥ २७॥
जठरानलसंतप्तपित्ताख्यरसविप्लुषः ।
गर्भाशये निमग्नं तु दहन्त्यतिभृशं तु माम् ॥ २८॥
उदर्यकृमिवक्त्राणि कूटशाल्मलिकण्टकैः ।
तुल्यानि च तुदन्त्यार्तं पार्श्वास्थिक्रकचार्दितम् ॥ २९॥
गर्भे दुर्गन्धभूयिष्ठे जठराग्निप्रदीपिते ।
दुःखं मयाप्तं यत्तस्मात्कनीयः कुम्भपाकजम् ॥ ३०॥
पूयासृक्श्लेष्मपायित्वं वाग्ताशित्वं च यद्भवेत् ।
अशुचौ कृमिभावश्च तत्प्राप्तं गर्भशायिना ॥ ३१॥
गर्भशय्यां समारुह्य दुःखं यादृङ् मयापि तत् ।
नातिशेते महादुःखं निःशेषनरकेषु तत् ॥ ३२॥
एवं स्मरन्पुरा प्राप्ता नानाजातीश्च यातनाः ।
मोक्षोपायमभिध्यायन्वर्ततेऽभ्यासतत्परः ॥ ३३॥
अष्टमे त्वक्सृती स्यातामोजस्तेजश्च हृद्भवम् ।
शुभ्रमापीतरक्तं च निमित्तं जीवितं मतम् ॥ ३४॥
मातरं च पुनर्गर्भं चञ्चलं तत्प्रधावति ।
ततो जातोऽष्टमे गर्भो न जीवत्योजसोज्झितः ॥ ३५॥
किंचित्कालमवस्थानं संस्कारात्पीडिताङ्गवत् ।
समयः प्रसवस्य स्यान्मासेषु नवमादिषु ॥ ३६॥
मातुरस्रवहां नाडीमाश्रित्यान्ववतारिता ।
नाभिस्थनाडी गर्भस्य मात्राहाररसावह ।
तेन जीवति गर्भोऽपि मात्राहारेण पोषितः ॥ ३७॥
अस्थियन्त्रविनिष्पिष्टः पतितः कुक्षिवर्त्मना ।
मेदोऽसृग्दिग्धसर्वाङ्गो जरायुपुटसंवृतः ॥ ३८॥
निष्क्रामन्भृशदुःखार्तो रुदन्नुच्चैरधोमुखः ।
यन्त्रादेव विनिर्मुक्तः पतत्त्युत्तानशाय्युत ॥ ३९॥
अकिंचित्कस्तथा बालो मांसपेशीसमास्थितः ।
श्वमार्जारादिदंष्ट्रिभ्यो रक्ष्यते दण्डपाणिभिः ॥ ४०॥
पितृवद्राक्षसं वेत्ति मातृवड्डाकिनीमपि ।
पूयं पयोवदज्ञानाद्दीर्घकष्टं तु शैशवम् ॥ ४१॥
श्लेष्मणा पिहिता नाडी सुषुम्ना यावदेव हि ।
व्यक्तवर्णं च वचनं तावद्वक्तुं न शक्यते ॥ ४२॥
अत एव च गर्भेऽपि रोदितुं नैव शक्यते ॥ ४३॥
दृप्तोऽथ यौवनं प्राप्य मन्मथज्वरविह्वलः ।
गायत्यकस्मादुच्चैस्तु तथा कस्माच्च वल्गति ॥ ४४॥
आरोहति तरून्वेगाच्छान्तानुद्वेजयत्यपि ।
कामक्रोधमदान्धः सन्न कांश्चिदपि वीक्षते ॥ ४५॥
अस्थिमांसशिरालाया वामाया मन्मथालये ।
उत्तानपूतिमण्डूकपाटितोदरसन्निभे ।
आसक्तः स्मरबाणार्त आत्मना दह्यते भृशम् ॥ ४६॥
अस्थिमांसशिरात्वग्भ्यः किमन्यद्वर्तते वपुः ।
वामानां मायया मूढो न किंचिद्वीक्षते जगत् ॥ ४७॥
निर्गते प्राणपवने देहो हंत मृगीदृशः ।
यथाहि जायते नैव वीक्ष्यते पञ्चषैर्दिनैः ॥ ४८॥
महापरिभवस्थानं जरां प्राप्यातिदुःखितः ।
श्लेष्मणा पिहितोरस्को जग्धमन्नं न जीर्यति ॥ ४९॥
सन्नदन्तो मन्ददृष्टिः कटुतिक्तकषायभुक् ।
वातभुग्नकटिग्रीवकरोरुचरणोऽबलः ॥ ५०॥
गदायुतसमाविष्टः परित्यक्तः स्वबन्धुभिः ।
निःशौचो मलदिग्धाङ्ग आलिङ्गितवरोषितः ॥ ५१॥
ध्यायन्नसुलभान्भोगान्केवलं वर्तते चलः ।
सर्वेन्द्रियक्रियालोपाद्धस्यते बालकैरपि ॥ ५२॥
ततो मृतिजदुःखस्य दृष्टान्तो नोपलभ्यते ।
यस्माद्बिभ्यति भूतानि प्राप्तान्यपि परां रुजम् ॥ ५३॥
नीयते मृत्युना जन्तुः परिष्वक्तोऽपि बन्धुभिः ।
सागरान्तर्जलगतो गरुडेनेव पन्नगः ॥ ५४॥
हा कान्ते हा धनं पुत्राः क्रन्दमानः सुदारुणम् ।
मण्डूक इव सर्पेण मृत्युना नीयते नरः ॥ ५५॥
मर्मसून्मथ्यमानेषु मुच्यमानेषु संधिषु ।
यद्दुःखं म्रियमाणस्य स्मर्यतां तन्मुमुक्षुभिः ॥ ५६॥
दृष्टावाक्षिप्यमाणायां संज्ञया ह्रियमाणया ।
मृत्युपाशेन बद्धस्य त्राता नैवोपलभ्यते ॥ ५७॥
संरुध्यमानस्तमसा मच्चित्तमिवाविशन् ।
उपाहूतस्तदा ज्ञातीनीक्षते दीनचक्षुषा ॥ ५८॥
अयः पाशेन कालेन स्नेहपाशेन बन्धुभिः ।
आत्मानं कृष्यमाणं तं वीक्षते परितस्तथा ॥ ५९॥
हिक्कया बाध्यमानस्य श्वासेन परिशुष्यतः ।
मृत्युनाकृष्यमाणस्य न खल्वस्ति परायणम् ॥ ६०॥
संसारयन्त्रमारूढो यमदूतैरधिष्ठितः ।
क्व यास्यामीति दुःखार्तः कालपाशेन योजितः ॥ ६१॥
किं करोमि क्व गच्छामि किं गृह्णामि त्यजामि किम् ।
इति कर्तव्यतामूढः कृच्छ्राद्देहात्त्यजत्यसून् ॥ ६२॥
यातनादेहसंबद्धो यमदूतैरधिष्ठिताः ।
इतो गत्वानुभवति या यास्ता यमयातनाः ।
तासु यल्लभते दुःखं तद्वक्तुं क्षमते कुतः ॥ ६३॥
कर्पूरचन्दनाद्यैस्तु लिप्यते सततं हि यत् ।
भूषणैर्भूष्यते चित्रैः सुवस्त्रैः परिवार्यते ॥ ६४॥
अस्पृश्यं जायतेऽप्रेक्ष्यं जीवत्यक्तं सदा वपुः ।
निष्कासयन्ति निलयात्क्षणं न स्थापयन्त्यपि ॥ ६५॥
दह्यते च ततः काष्ठैस्तद्भस्म क्रियते क्षणात् ।
भक्ष्यते वा सृगालैश्च गृध्रकुक्करवायसैः ।
पुनर्न दृश्यते सोऽथ जन्मकोटिशतैरपि ॥ ६६॥
माता पिता गुरुजनः स्वजनो ममेति
मायोपमे जगति कस्य भवेत्प्रतिज्ञा ।
एको यतो व्रजतो कर्मपुरःसरोऽयं
विश्रामवृक्षसदृशः खलु जीवलोकः ॥ ६७॥
सायं सायं वासवृक्षं समेताः
प्रातः प्रातस्तेन तेन प्रयान्ति ।
त्यक्त्वान्योन्यं तं च वृक्षं
विहङ्गा यद्वत्तद्वज्ज्ञातयोऽज्ञातयश्च ॥ ६८॥
मृतिबीजं भवेज्जन्म जन्मबीजं भवेन्मृतिः ।
घटयन्त्रवदश्रान्तो बम्भ्रमीत्यनिशं नरः ॥ ६९॥
गर्भे पुंसः शुक्रपाताद्यदुक्तं मरणावधि ।
तदेतस्य महाव्याधेर्मत्तो नान्योऽस्ति भेषजम् ॥ ७०॥
इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे
पिण्डोत्पत्तिकथनं नामाष्टमोऽध्यायः ॥ ८ ॥
अथ नवमोऽध्यायः ॥
श्रीभगवानुवाच ॥
देहस्वरूपं वक्ष्यामि श्रुणुष्वावहितो नृप ।
मत्तो हि जायते विश्वं मयैवैतत्प्रधार्यते ।
मय्येवेदमधिष्ठाने लीयते शुक्तिरौप्यवत् ॥ १॥
अहं तु निर्मलः पूर्णः सच्चिदानन्दविग्रहः ।
असंगो निरहंकारः शुद्धं ब्रह्म सनातनम् ॥ २॥
अनाद्यविद्यायुक्तः सन् जगत्कारणतां व्रजे ॥ ३॥
अनिर्वाच्या महाविद्या त्रिगुणा परिणामिनी ।
रजः सत्त्वं तमश्चेति त्रिगुणाः परिकीर्तिताः ॥ ४॥
सत्त्वं शुक्लं समादिष्टं सुखज्ञानास्पदं नृणाम् ।
दुःखास्पदं रक्तवर्णं चञ्चलं च रजो मतम् ॥ ५॥
तमः कृष्णं जडं प्रोक्तमुदासीनं सुखादिषु ॥ ६॥
अतो मम समायोगाच्छक्तिः सा त्रिगुणात्मिका ।
अधिष्ठाने तु मय्येव भजते विश्वरूपताम् ।
शुक्तौ रजतवद्रज्जौ भुजङ्गो यद्वदेव तु ॥ ७॥
आकाशादीनि जायन्ते मत्तो भूतानि मायया ।
तैरारब्धमिदं विश्वं देहोऽयं पाञ्चभौतिकः ॥ ८॥
पितृभ्यामशितादन्नात्षट्कोशं जायते वपुः ।
स्नायवोऽस्थीनि मज्जा च जायन्ते पितृतस्तथा ॥ ९॥
त्वङ्मांशोणितमिति मातृतश्च भवन्ति हि ।
भावाः स्युः षड्विधास्तस्य मातृजाः पितृजास्तथा ।
रसजा आत्मजाः सत्त्वसंभूताः स्वात्मजास्तथा ॥ १०॥
मृदवः शोणितं मेदो मज्जा प्लीहा यकृद्गुदम् ।
हृन्नाभीत्येवमाद्यास्तु भावा मातृभवा मताः ॥ ११॥
श्मश्रुलोमकचस्नायुशिराधमनयो नखाः ।
दशनाः शुक्रमित्याद्याः स्थिराः पितृसमुद्भवाः ॥ १२॥
शरीरोपचितिर्वर्णो वृद्धिस्तृप्तिर्बलं स्थितिः ।
अलोलुपत्वमुत्साह इत्यादि रसजं विदुः ॥ १३॥
इच्छा द्वेषः सुखं दुःखं धर्माधर्मौ च भावना ।
प्रयत्नो ज्ञानमायुश्चेन्द्रियाणीत्येवमात्मजाः ॥ १४॥
ज्ञानेन्द्रियाणि श्रवणं स्पर्शनं दर्शनं तथा ।
रसनं घ्राणमित्याहुः पञ्च तेषां तु गोचराः ॥ १५॥
शब्दः स्पर्शस्तथा रूपं रसो गन्ध इति क्रमात् ।
वाक्कराङ्घ्रिगुदोपस्थान्याहुः कर्मेन्द्रियाणि हि ॥ १६॥
वचनादानगमनविसर्गरतयः क्रमात् ।
कर्मेन्द्रियाणां जानीयान्मनश्चैवोभयात्मकम् ॥ १७॥
क्रियास्तेषां मनोबुद्धिरहंकारस्ततः परम् ।
अन्तःकरणमित्याहुश्चित्तं चेति चतुष्टयम् ॥ १८॥
सुखं दुःखं च विषयौ विज्ञेयौ मनसः क्रियाः ।
स्मृतिभीतिविकल्पाद्या बुद्धिः स्यान्निश्चयात्मिका ।
अहं ममेत्यहंकारश्चित्तं चेतयते यतः ॥ १९॥
सत्त्वाख्यमन्तःकरणं गुणभेदास्त्रिधा मतम् ।
सत्त्वं रजस्तम इति गुणाः सत्त्वात्तु सात्त्विकाः ॥ २०॥
आस्तिक्यशुद्धिधर्मैकमतिप्रभृतयो मताः ।
रजसो राजसा भावाः कामक्रोधमदादयः ॥ २१॥
निद्रालस्यप्रमादादि वञ्चनाद्यास्तु तामसाः ।
प्रसन्नेन्द्रियतारोग्यानालस्याद्यास्तु सत्त्वजाः ॥ २२॥
देहो मात्रात्मकस्तस्मादादत्ते तद्गुणानिमान् ।
शब्दः श्रोत्रं मुखरता वैचित्र्यं सूक्ष्मता धृतिः ॥ २३॥
बलं च गगनाद्वायोः स्पर्शश्च स्पर्शनेन्द्रियम् ।
उत्क्षेपणमपक्षेपाकुञ्चने गमनं तथा ॥ २४॥
प्रसारणमितीमानि पञ्च कर्माणि रूक्षता ।
प्राणापानौ तथा व्यानसमानोदानसंज्ञकान् ॥ २५॥
नागः कूर्मश्च कृकलो देवदत्तो धनञ्जयः ।
दशैता वायुविकृतीस्तथा गृह्णाति लाघवम् ॥ २६॥
तेषां मुख्यतरः प्राणो नाभेः कण्ठादवस्थितः ।
चरत्यसौ नासिकयोर्नाभौ हृदयपङ्कजे ॥ २७॥
शब्दोच्चारणनिश्वासोच्छ्वासादेरपि कारणम् ॥ २८॥
अपानस्तु गुदे मेढ्रे कटिजङ्घोदरेष्वपि ।
नाभिकण्ठे वंक्षणयोरूरुजानुषु तिष्ठति ।
तस्य मूत्रपुरीषादिविसर्गः कर्म कीर्तितम् ॥ २९॥
व्यानोऽक्षिश्रोत्रगुल्फेषु जिह्वाघ्राणेषु तिष्ठति ।
प्राणायामधृतित्यागग्रहणाद्यस्य कर्म च ॥ ३०॥
समानो व्याप्य निखिलं शरीरं वह्निना सह ।
द्विसप्ततिसहस्रेषु नाडीरन्ध्रेषु संचरन् ॥ ३१॥
भुक्तपीतरसान्सम्यगानयन्देहपुष्टिकृत् ।
उदानः पादयोरास्ते हस्तयोरङ्गसंधिषु ॥ ३२॥
कर्मास्य देहोन्नयनोत्क्रमणादि प्रकीर्तितम् ।
त्वगादिधातूनाश्रित्य पञ्च नागादयः स्थिताः ॥ ३३॥
उद्गारादि निमेषादि क्षुत्पिपासादिकं क्रमात् ।
तन्द्रीप्रभृति शोकादि तेषां कर्म प्रकीर्तितम् ॥ ३४॥
अग्नेस्तु रोचकं रूपं दीप्तं पाकं प्रकाशताम् ।
अमर्षतीक्ष्णसूक्ष्माणामोजस्तेजश्च शूरताम् ॥ ३५॥
मेधावितां तथाऽऽदत्ते जलात्तु रसनं रसम् ।
शैत्यं स्नेहं द्रवं स्वेदं गात्रादिमृदुतामपि ॥ ३६॥
भूमेर्घ्राणेन्द्रियं गन्धं स्थैर्यं धैर्यं च गौरवम् ।
त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः ॥ ३७॥
अन्नं पुंसाशितं त्रेधा जायते जठराग्निना ।
मलः स्थविष्ठो भागः स्यान्मध्यमो मांसतां व्रजेत् ।
मनः कनिष्ठो भागः स्यात्तस्मादन्नमयं मनः ॥ ३८॥
अपां स्थविष्ठो मूत्रं स्यान्मध्यमो रुधिरं भवेत् ।
प्राणः कनिष्ठो भागः स्यात्तस्मात्प्राणो जलात्मकः ॥ ३९॥
तेजसोऽस्थि स्थविष्ठः स्यान्मज्जा मध्यम संभवः ।
कनिष्ठा वाङ्मता तस्मात्तेजोऽवन्नात्मकं जगत् ॥ ४०॥
लोहिताज्जायते मांसं मेदो मांससमुद्भवम् ।
मेदसोऽस्थीनि जायन्ते मज्जा चास्थिसमुद्भवा ॥ ४१॥
नाड्योपि मांससंघाताच्छुक्रं मज्जासमुद्भवम् ॥ ४२॥
वातपित्तकफाश्चात्र धातवः परिकीर्तिताः ।
दशाञ्जलि जलं ज्ञेयं रसस्याञ्जलयो नव ॥ ४३॥
रक्तस्याष्टौ पुरीषस्य सप्त स्युः श्लेष्मणश्च षट्।
पित्तस्य पञ्च चत्वारो मूत्रस्याञ्जलयस्त्रयः ॥ ४४॥
वसाया मेदसो द्वौ तु मज्जा त्वञ्जलिसंमिता ।
अर्धाञ्जलि तथा शुक्रं तदेव बलमुच्यते ॥ ४५॥
अस्थ्नां शरीरे संख्या स्यात्षष्टियुक्तं शतत्रयम् ।
जलजानि कपालानि रुचकास्तरणानि च ।
नलकानीति तान्याहुः पञ्चधास्थीनि सूरयः ॥ ४६॥
द्वे शते त्वस्थिसंधीनां स्यातां तत्र दशोत्तरे ।
रौरवाः प्रसराः स्कन्दसेचनाः स्युरुलूखलाः ॥ ४७॥
समुद्गा मण्डलाः शंखावर्ता वामनकुण्डलाः ।
इत्यष्टधा समुद्दिष्टाः शरीरेष्वस्थिसंधयः ॥ ४८॥
सार्धकोटित्रयं रोम्णां श्मश्रुकेशास्त्रिलक्षकाः ।
देहस्वरूपमेवं ते प्रोक्तं दशरथात्मज ॥ ४९॥
यस्मादसारो नास्त्येव पदार्थो भुवनत्रये ।
देहेऽस्मिन्नभिमानेन न महोपायबुद्धयः ॥ ५०॥
अहंकारेण पापेन क्रियन्ते हंत सांप्रतम् ।
तस्मादेतत्स्वरूपं तु विबोद्धव्यं मुमुक्षिभिः ॥ ५१॥
इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे
देहस्वरूपनिर्णयो नाम नवमोऽध्यायः ॥ ९ ॥
अथ दशमोऽध्यायः ॥
श्रीराम उवाच ॥
भगवन्नत्र जीवोऽसौ जन्तोर्देहेऽवतिष्ठते ।
जायते वा कुतो जीवः स्वरूपं चास्य किं वद ॥ १॥
देहान्ते कुत्र वा याति गत्वा वा कुत्र तिष्ठति ।
कथमायाति वा देहं पुनर्नायाति वा वद ॥ २॥
श्रीभगवानुवाच ॥
साधु पृष्टं महाभाग गुह्याद्गुह्यतरं हि यत् ।
देवैरपि सुदुर्ज्ञेयमिन्द्राद्यैर्वा महर्षिभिः ॥ ३॥
अन्यस्मै नैव वक्तव्यं मयापि रघुनन्दन ।
त्वद्भक्त्याहं परं प्रीतो वक्ष्याम्यवहितः श्रुणु ॥ ४॥
सत्यज्ञानात्मकोऽनन्तः परमानन्दविग्रहः ।
परमात्मा परंज्योतिरव्यक्तो व्यक्तकारणम् ॥ ५॥
नित्यो विशुद्धः सर्वात्मा निर्लेपोऽहं निरञ्जनः ।
सर्वधर्मविहीनश्च न ग्राह्यो मनसापि च ॥ ६॥
नाहं सर्वेन्द्रियग्राह्यः सर्वेषां ग्राहको ह्यहम् ।
ज्ञाताहं सर्वलोकस्य मम ज्ञाता न विद्यते ॥ ७॥
दूरः सर्वविकाराणां परिणामादिकस्य च ॥ ८॥
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।
आनन्दं ब्रह्म मां ज्ञात्वा न बिभेति कुतश्चन ॥ ९॥
यस्तु सर्वाणि भूतानि मय्येवेति प्रपश्यति ।
मां च सर्वेषु भूतेषु ततो न विजुगुप्सते ॥ १०॥
यस्य सर्वाणि भूतानि ह्यात्मैवाभूद्विजानतः ।
को मोहस्तत्र कः शोक एकत्वमनुपश्यतः ॥ ११॥
एष सर्वेषु भूतेषु गूढात्मा न प्रकाशते ।
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ १२॥
अनाद्यविद्यया युक्तस्तथाप्येकोऽहमव्ययः ।
अव्याकृतब्रह्मरूपो जगत्कर्ताहमीश्वरः ॥ १३॥
ज्ञानमात्रे यथा दृश्यमिदं स्वप्ने जगत्त्रयम् ।
तद्वन्मयि जगत्सर्वं दृश्यतेऽस्ति विलीयते ॥ १४॥
नानाविद्यासमायुक्तो जीवत्वेन वसाम्यहम् ।
पञ्च कर्मेन्द्रियाण्येव पञ्च ज्ञानेन्द्रियाणि च ॥ १५॥
मनो बुद्धिरहंकारश्चित्तं चेति चतुष्टयम् ।
वायवः पञ्चमिलिता यान्ति लिङ्गशरीरताम् ॥ १६
तत्राविद्यासमायुक्तं चैतन्यं प्रतिबिम्बितम् ।
व्यावहारिकजीवस्तु क्षेत्रज्ञः पुरुषोऽपि च ॥ १७॥
स एव जगतां भोक्तानाद्ययोः पुण्यपापयोः ।
इहामुत्र गती तस्य जाग्रत्स्वप्नादिभोक्तृता ॥ १८॥
यथा दर्पणकालिम्ना मलिनं दृश्यते मुखम् ।
तद्वदन्तःकरणगैर्दोषैरात्मापि दृश्यते ॥ १९॥
परस्पराध्यासवशात्स्यादन्तःकरणात्मनोः ॥
एकीभावाभिमानेन परात्मा दुःखभागिव॥ २०॥
मरुभूमौ जलत्वेन मध्याह्नार्कमरीचिकाः ।
दृश्यन्ते मूढचित्तस्य न ह्यार्द्रास्तापकारकाः ॥ २१॥
तद्वदात्मापि निर्लेपो दृश्यते मूढचेतसाम् ।
स्वाविद्यात्मात्मदोषेण कर्तृत्वाधिकधर्मवान् ॥ २२॥
तत्र चान्नमये पिण्डे हृदि जीवोऽवतिष्ठते ।
आनखाग्रं व्याप्य देहं तद्ब्रुवेऽवहितः श्रुणु ।
सोऽयं तदभिधानेन मांसपिण्डो विराजते ॥ २३॥
नाभेरूर्ध्वमधः कण्ठाद्व्याप्य तिष्ठति यः सदा ।
तस्य मध्येऽस्ति हृदयं सनालं पद्मकोशवत् ॥ २४॥
अधोमुखं च तत्रास्ति सूक्ष्मं सुषिरमुत्तमम् ।
दहराकाशमित्युक्तं तत्र जीवोऽवतिष्ठते ॥ २५॥
वालाग्रशतभागस्य शतधा कल्पितस्य च ।
भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ॥ २६॥
कदम्बकुसुमोद्बद्धकेसरा इव सर्वतः ।
प्रसृता हृदयान्नाड्यो याभिर्व्याप्तं शरीरकम् ॥ २७॥
हितं बलं प्रयच्छन्ति तस्मात्तेन हिताः स्मृताः ।
द्वासप्ततिसहस्रैस्ताः संख्याता योगवित्तमैः ॥ २८॥
हृदयात्तास्तु निष्क्रान्ता यथार्काद्रश्मयस्तथा ।
एकोत्तरशतं तासु मुख्या विष्वग्विनिर्गतः ॥ २९॥
प्रतीन्द्रियं दश दश निर्गता विषयोन्मुखाः ।
नाड्यः शर्मादिहेतुत्वात् स्वप्नादिफलभुक्तये ॥ ३०॥
वहन्त्यम्भो यथा नद्यो नाड्यः कर्मफलं तथा ।
अनन्तैकोर्ध्वगा नाडी मूर्धपर्यन्तमञ्जसा ॥ ३१॥
सुषुम्नेति मादिष्टा तया गच्छन्विमुच्यते ।
तयोपचितचैतन्यं जीवात्मानं विदुर्बुधाः ॥ ३२॥
यथा राहुरदृश्योऽपि दृश्यते चन्द्रमण्डले ।
तद्वत्सर्वगतोऽप्यात्मा लिङ्गदेहे हि दृश्यते ॥ ३३॥
दृश्यमाने यथा कुंभे घटाकाशोऽपि दृश्यते ।
तद्वत्सर्वगतोऽप्यात्मा लिङ्गदेहे हि दृश्यते ॥ ३४॥
निश्चलः परिपूर्णोऽपि गच्छतीत्युपचर्यते ।
जाग्रत्काले यथाज्ञेयमभिव्यक्तविशेषधीः ॥ ३५॥
व्याप्नोति निष्क्रियः सर्वान् भानुर्दश दिशो यथा ।
नाडीभिर्वृत्तयो यान्ति लिङ्गदेहसमुद्भवाः ॥ ३६॥
तत्तत्कर्मानुसारेण जाग्रद्भोगोपलब्धये ।
इदं लिङ्गशरीराख्यमामोक्षं न विनश्यति ॥ ३७॥
आत्मज्ञानेन नष्टेऽस्मिन्साविद्ये स्वशरीरके ।
आत्मस्वरूपावस्थानं मुक्तिरित्यभिधीयते ॥ ३८॥
उत्पादिते घटे यद्वद्घटाकाशत्वमृच्छति ।
घटे नष्टे यथाकाशः स्वरूपेणावतिष्ठते ॥ ३९॥
जाग्रत्कर्मक्षयवशात्स्वप्नभोग उपस्थिते ।
बोधावस्थां तिरोधाय देहाद्याश्रयलक्षणाम् ॥ ४०॥
कर्मोद्भावितसंस्कारस्तत्र स्वप्नरिरंसया ।
अवस्थां च प्रयात्यन्यां मायावी चात्ममायया ॥ ४१॥
घटादिविषयान्सर्वान्बुद्ध्यादिकरणानि च ।
भूतानि कर्मवशतो वासनामात्रसंस्थितान् ॥ ४२॥
एतान् पश्यन् स्वयंज्योतिः साक्ष्यात्मा व्यवतिष्ठते ॥ ४३॥
अत्रान्तःकरणादीनां वासनाद्वासनात्मता ।
वासनामात्रसाक्षित्वं तेन तच्च परात्मनः ॥ ४४॥
वासनाभिः प्रपञ्चोऽत्र दृश्यते कर्मचोदितः ।
जाग्रद्भूमौ यथा तद्वत्कर्तृकर्मक्रियात्मकः ॥ ४५॥
निःशेषबुद्धिसाक्ष्यात्मा स्वयमेव प्रकाशते ।
वासनामात्रसाक्षित्वं साक्षिणः स्वाप उच्यते ॥ ४६॥
भूतजन्मनि यद्भूतं कर्म तद्वासनावशात् ।
नेदीयस्त्वाद्वयस्याद्ये स्वप्नं प्रायः प्रपश्यति ॥ ४७॥
मध्ये वयसि कार्कश्यात्करणानामिहार्जितः ।
वीक्षते प्रायशः स्वप्नं वासनाकर्मणोर्वशात् ॥ ४८॥
इयासुः परलोकं तु कर्मविद्यादिसंभृतम् ।
भाविनो जन्मनो रूपं स्वप्न आत्मा प्रपश्यति ॥ ४९॥
यद्वत्प्रपतनाच्छ्येनः श्रान्तो गगनमण्डले ।
आकुञ्च्य पक्षौ यतते नीडे निलयनायनीः ॥ ५०॥
एवं जाग्रत्स्वप्नभूमौ श्रान्त आत्माभिसंचरन् ।
आपीतकरणग्रामः कारणेनैति चैकताम् ॥ ५१॥
नाडीमार्गैरिन्द्रियाणामाकृष्यादाय वासनाः ।
सर्वं ग्रसित्वा कार्यं च विज्ञानात्मा विलीयते ॥ ५२॥
ईश्वाराख्येऽव्याकृतेऽथ यथा सुखमयो भवेत् ।
कृत्स्नप्रपञ्चविलयस्तथा भवति चात्मनः ॥ ५३॥
योषितः काम्यमानायाः संभोगान्ते यथा सुखम् ।
स आनन्दमयोऽबाह्यो नान्तरः केवलस्तथा ॥ ५४॥
प्राज्ञात्मानं समासाद्य विज्ञानात्मा तथैव सः ।
विज्ञानात्मा कारणात्मा तथा तिष्ठंस्तथापि सः ॥ ५५॥
अविद्यासूक्ष्मवृत्त्यानुभवत्येव सुखं यथा ।
तथाहं सुखमस्वाप्सं नैव किञ्चिदवेदिषम्।५६॥
अज्ञानमपि साक्ष्यादि वृत्तिभिश्चानुभूयते ।
इत्येवं प्रत्यभिज्ञापि पश्चात्तस्योपजायते ॥ ५७॥
जाग्रत्स्वप्नसुषुप्त्याख्यमेवेहामुत्र लोकयोः ।
पश्चात्कर्मवशादेव विस्फुलिङ्गा यथानलात् ।
जायन्ते कारणादेव मनोबुद्ध्यादिकानि तु ॥ ५८॥
पयःपूर्णो घटो यद्वन्निमग्नः सलिलाशये ।
तैरेविद्धत आयाति विज्ञानात्मा तथैत्यजात् ॥ ५९॥
विज्ञानात्मा कारणात्मा तथा तिष्ठंस्तथापि सः ।
दृश्यते सत्सु तेष्वेव नष्टेष्वायात्यदृश्यताम् ॥ ६०॥
एकाकारोऽर्यमा तत्तत्कार्येष्विव परः पुमान् ।
कूटस्थो दृश्यते तद्वद्गच्छत्यागच्छतीव सः॥ ६१॥
मोहमात्रान्तरायत्वात्सर्वं तस्योपपद्यते ।
देहाद्यतीत आत्मापि स्वयंज्योतिः स्वभावतः ॥ ६२॥
एवं जीवस्वरूपं ते प्रोक्तं दशरथात्मज ॥ ६३॥
इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे
जीवस्वरूपकथनं नाम दशमोऽध्यायः ॥ १० ॥
अथ एकादशोऽध्यायः ॥
श्रीभगवानुवाच ॥
देहान्तरगतिं तस्य परलोकगतिं तथा ।
वक्ष्यामि नृपशार्दूल मत्तः शृणु समाहितः ॥ १॥
भुक्तं पीतं यदस्त्यत्र तद्रसादामबन्धनम् ।
स्थूलदेहस्य लिङ्गस्य तेन जीवनधारणम् ॥ २॥
व्याधिना जरया वापि पीड्यते जाठरोऽनलः ।
श्लेष्मणा तेन भुक्तान्नं पीतं वा न पचत्यलम् ॥ ३॥
भुक्तपीतरसाभावादाशु शुष्यन्ति धातवः ।
भुक्तपीतरसेनैव देहं लिम्पन्ति वायवः ॥ ४॥
समीकरोति यस्मात्तत्समानो वायुरुच्यते ।
तदानीं तद्रसाभावादामबन्धनहानितः ॥ ५॥
परिपक्वरसत्वेन यथा गौरवतः फलम् ।
स्वयमेव पतत्याशु तथा लिङ्गं तनोर्व्रजेत् ॥ ६॥
तत्तत्स्थानादपाकृष्य हृषीकाणां च वासनाः ।
आध्यात्मिकाधिभूतानि हृत्पद्मे चैकतां गतः ॥ ७॥
तदोर्ध्वगः प्राणवायुः संयुक्तो नववायुभिः ।
ऊर्ध्वोच्छ्वासी भवत्येष तथा तेनैकतं गतः ॥ ८॥
चक्षुषो वाथ मूर्ध्नो वा नाडीमार्गं समाश्रितः ।
विद्याकर्मसमायुक्तो वासनाभिश्च संयुतः।
प्राज्ञात्मानं समाश्रित्य विज्ञानात्मोपसर्पति ॥ ९॥
यथा कुम्भो नीयमानो देशाद्देशान्तरं प्रति ।
खपूर्ण एव सर्वत्र स साकाशोऽपि तत्र तु ॥ १०॥
घटाकाशाख्यतां याति तद्वल्लिङ्गं परात्मनः ॥ ११॥
पुनर्देहान्तरं याति यथा कर्मानुसारतः ।
आमोक्षात्संचरेत्येवं मत्स्यः कूलद्वयं यथा ॥ १२॥
पापभोगाय चेद्गच्छेद्यमदूतैरधिष्ठितः ।
यातनादेहमाश्रित्य नरकानेव केवलम् ॥ १३॥
इष्टापूर्तादिकर्माणि योऽनुतिष्ठति सर्वदा ।
पितृलोकं व्रजत्येष धूममाश्रित्य बर्हिषः ॥ १४॥
धूमाद्रात्रिं ततः कृष्णपक्षं तस्माच्च दक्षिणम् ।
अयनं च ततो लोकं पितॄणां च ततः परम् ।
चन्द्रलोके दिव्यदेहं प्राप्य भुङ्क्ते परां श्रियम् ॥ १५॥
तत्र चन्द्रमसा सोऽसौ यावत्कर्मफलं वसेत् ।
तथैव कर्मशेषेण यथेतं पुनराव्रजेत् ॥ १६॥
वपुर्विहाय जीवत्वमासाद्याकाशमेति सः ।
आकाशाद्वायुमागत्य वायोरम्भो व्रजत्यथ ॥ १७॥
अद्भ्यो मेघं समासाद्य ततो वृष्टिर्भवेदसौ ।
ततो धान्यानि भक्ष्याणि जायते कर्मचोदितः ॥ १८॥
योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ।
मुक्तिमन्येऽनुसंयान्ति यथाकर्म यथाश्रुतम् ॥ १९॥
ततोऽन्नत्वं समासाद्य पितृभ्यां भुज्यते परम् ।
ततः शुक्रं रजश्चैव भूत्वा गर्भोऽभिजायते ॥ २०॥
ततः कर्मानुसारेण भवेत्स्त्रीपुंनपुंसकः ।
एवं जीवगतिः प्रोक्ता मुक्तिं तस्य वदामि ते ॥ २१॥
यस्तु शान्त्यादियुक्तः सन्सदा विद्यारतो भवेत् ।
स याति देवयानेन ब्रह्मलोकावधिं नरः ॥ २२॥
अर्चिर्भूत्वा दिनं प्राप्य शुक्लपक्षमथो व्रजेत् ।
उत्तरायणमासाद्य संवत्सरमथो व्रजेत् ॥ २३॥
आदित्यचन्द्रलोकौ तु विद्युल्लोकमतः परम् ।
अथ दिव्यः पुमान्कश्चिद्ब्रह्मलोकादिहैति सः ॥ २४॥
दिव्ये वपुषि संधाय जीवमेवं नयत्यसौ ॥ २५॥
ब्रह्मलोके दिव्यदेहे भुक्त्वा भोगान्यथेप्सितान् ।
तत्रोषित्वा चिरं कालं ब्रह्मणा सह मुच्यते ॥ २६॥
शुद्धब्रह्मरतो यस्तु न स यात्येव कुत्रचित् ।
तस्य प्राणा विलीयन्ते जले सैन्धवखिल्यवत् ॥ २७॥
स्वप्नदृष्टा यथा स्ऱिष्टिः प्रबुद्धस्य विलीयते ।
ब्रह्मज्ञानवतस्तद्वद्विलीयन्ते तदैव ते ।
विद्याकर्मविहीनो यस्तृतीयं स्थानमेति सः ॥ २८।
भुक्त्वा च नरकान्घोरान्महारौरवरौरवान् ।
पश्चात्प्राक्तनशेषेण क्षुद्रजन्तुर्भवेदसौ ॥ २९॥
यूकामशकदंशादि जन्मासौ लभते भुवि ।
एवं जीवगतिः प्रोक्ता किमन्यच्छ्रोतुमिच्छसि ॥ ३०॥
श्रीराम उवाच ॥
भगवन्यत्त्वया प्रोक्तं फलं तज्ज्ञानकर्मणोः ।
ब्रह्मलोके चंद्रलोके भुङ्क्ते भोगानिति प्रभो ॥ ३१॥
गन्धर्वादिषु लोकेषु कथं भोगः समीरितः ।
देवत्वं प्राप्नुयात्कश्चित्कश्चिदिन्द्रत्वमेति च ॥ ३२॥
एतत्कर्मफलं वास्तु विद्याफलमथापि वा ।
तद्ब्रूहि गिरिजाकान्त तत्र मे संशयो महान् ॥ ३३॥
श्रीभगवानुवाच ॥
तद्विद्याकर्मणोरेवानुसारेण फलं भवेत् ।
युवा च सुन्दरः शूरो नीरोगो बलवान् भवेत् ॥ ३४॥
सप्तद्वीपां वसुमतीं भुङ्क्ते निष्कण्टकं यदि ।
स प्रोक्तो मानुषानन्दस्तस्माच्छतगुणो मतः ॥ ३५॥
मनुष्यस्तपसा युक्तो गन्धर्वो जायतेऽस्य तु ।
तस्माच्छतगुणो देवगन्धर्वाणां न संशयः ॥ ३६॥
एवं शतगुणानन्द उत्तरोत्तरतो भवेत् ।
पितॄणां चिरलोकानामाजानसुरसम्पदाम् ॥ ३७॥
देवतानामथेन्द्रस्य गुरोस्तद्वत्प्रजापतेः ।
ब्रह्मणश्चैवमानन्दः पुरस्तादुत्तरोत्तरः ॥ ३८॥
ज्ञानाधिक्यात्सुखाधिक्यं नान्यदस्ति सुरालये ।
श्रोत्रियोऽवृजिनोऽकामहतो यश्च द्विजो भवेत् ॥ ३९॥
तस्याप्येवं समाख्याता आनन्दाश्चोत्तरोत्तरम् ।
आत्मज्ञानात्परं नास्ति तस्माद्दशरथात्मज ॥ ४०॥
ब्राह्मणः कर्मभिर्नैव वर्धते नैव हीयते ।
न लिप्यते पातकेन कर्मणा ज्ञानवान्यदि ॥ ४१॥
तस्मात्सर्वाधिको विभो ज्ञानवानेव जायते ।
ज्ञात्वा यः कुरुते कर्म तस्याक्षय्यफलं लभेत् ॥ ४२॥
यत्फलं लभते मर्त्यः कोटिब्राह्मणभोजनैः ।
तत्फलं समवाप्नोति ज्ञानिनं यस्तु भोजयेत् ॥ ४३॥
ज्ञानवन्तं द्विजं यस्तु द्विषते च नराधमः ।
स शुष्यमाणो म्रियते यस्मादीश्वर एव सः ॥ ४४॥
उपासको न यात्येव यस्मात्पुनरधोगतिम् ।
उपासनरतो भूत्वा तस्मादास्स्व सुखी नृप ॥ ४५॥
इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे
जीवगत्यादिनिरूपणं नामैकादशोऽध्यायः ॥ ११ ॥
अथ द्वादशोऽध्यायः ॥
श्रीराम उवाच ॥
भगवन्देवदेवेश नमस्तेऽस्तु महेश्वर ।
उपासनविधिं ब्रूहि देशं कालं च तस्य तु ॥ १॥
अङ्गानि नियमांश्चैव मयि तेऽनुग्रहो यदि ॥
ईश्वर उवाच ॥
शृणु राम प्रवक्ष्यामि देशं कालमुपासने ॥ २॥
सर्वाकारोऽहमेवैकः सच्चिदानन्दविग्रहः ।
मदंशेन परिच्छिन्ना देहाः सर्वदिवौकसाम् ॥ ३॥
ये त्वन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः ।
तेऽपि मामेव राजेन्द्र यजन्त्यविधिपूर्वकम् ॥ ४॥
यस्मात्सर्वमिदं विश्वं मत्तो न व्यतिरिच्यते ।
सर्वक्रियाणां भोक्ताहं सर्वस्याहं फलप्रदः ॥ ५॥
येनाकारेण ये मर्त्या मामेवैकमुपासते ।
तेनाकारेण तेभ्योऽहं प्रसन्नो वाञ्छितं ददे ॥ ६॥
विधिनाऽविधिना वापि भक्त्या ये मामुपासते ।
तेभ्यः फलं प्रयच्छामि प्रसन्नोऽहं न संशयः ॥ ७॥
अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ ८॥
स्वजीवत्वेन यो वेत्ति मामेवैकमनन्यधीः ।
तं न स्पृशन्ति पापानि ब्रह्महत्यादिकान्यपि ॥ ९॥
उपासाविधयस्तत्र चत्वारः परिकीर्तिताः ।
सम्पदारोपसंवर्गाध्यासा इति मनीषिभिः ॥ १०॥
अल्पस्य चाधिकत्वेन गुणयोगाद्विचिन्तनम् ।
अनन्तं वै मन इति सम्पद्विधिरुदीरितः ॥ ११॥
विधावारोप्य योपासा सारोपः परिकीर्तितः ।
यद्वदोङ्कारमुद्गीथमुपासीतेत्युदाहृतः ॥ १२॥
आरोपो बुद्धिपूर्वेण य उपासाविधिश्च सः ।
योषित्यग्निमतिर्यत्तदध्यासः स उदाहृतः ॥ १३॥
क्रियायोगेन चोपासाविधिः संवर्ग उच्यते ।
संवर्तवायुः प्रलये भूतान्येकोऽवसीदति ॥ १४॥
उपसंगम्य बुद्ध्या यदासनं देवतात्मना ।
तदुपासनमन्तः स्यात्तद्बहिः सम्पदादयः ॥ १५॥
ज्ञानान्तरानन्तरितसजातिज्ञानसंहतेः ।
सम्पन्नदेवतात्मत्वमुपासनमुदीरितम् ॥ १६॥
सम्पदादिषु बाह्येषु दृढबुद्धिरुपासनम् ।
कर्मकाले तदङ्गेषु दृष्टिमात्रमुपासनम् ।
उपासनमिति प्रोक्तं तदङ्गानि ब्रुवे शृणु ॥ १७॥
तीर्थक्षेत्रादिगमनं श्रद्धां तत्र परित्यजेत् ।
स्वचित्तैकाग्रता यत्र तत्रासीत सुखं द्विजः ॥ १८॥
कम्बले मृदुतल्पे वा व्याघ्रचर्मणि वास्थितः ।
विविक्तदेशे नियतः समग्रीवशिरस्तनुः ॥ १९॥
अत्याश्रमस्थः सकलानीन्द्रियाणि निरुध्य च ।
भक्त्याथ स्वगुरुं नत्वा योगं विद्वान्प्रयोजयेत् ॥ २०॥
यस्त्वविज्ञानवान्भवत्ययुक्तमनसा सदा ।
तस्येन्द्रियाण्यवश्यानि दुष्टाश्वाइव सारथेः ॥ २१॥
विज्ञानी यस्तु भवति युक्तेन मनसा सदा ।
तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥ २२॥
यस्त्वविज्ञानवान् भवत्यमनस्कः सदाऽशुचिः ।
न स तत्पदमाप्नोति संसारमधिगच्छति ॥ २३॥
विज्ञानी यस्तु भवति समनस्कः सदा शुचिः ।
स तत्पदमवाप्नोति यस्माद्भूयो न जायते ॥ २४॥
विज्ञानसारथिर्यस्तु मनः प्रग्रह एव च ।
सोऽध्वनः पारमाप्नोति ममैव परमं पदम् ॥ २५॥
हृत्पुण्डरीकं विरजं विशुद्धं विशदं तथा ।
विशोकं च विचिन्त्यात्र ध्यायेन्मां परमेश्वरम् ॥ २६॥
अचिन्त्यरूपमव्यक्तमनन्तममृतं शिवम् ।
आदिमध्यान्तरहितं प्रशान्तं ब्रह्म कारणम् ॥ २७॥
एकं विभुं चिदानन्दमरूपमजमद्भुतम् ।
शुद्धस्फटिकसंकाशमुमादेहार्धधारिणम् ॥ २८॥
व्याघ्रचर्माम्बरधरं नीलकण्ठं त्रिलोचनम् ।
जटाधरं चन्द्रमौलिं नागयज्ञोपवीतिनम् ॥ २९॥
व्याघ्रचर्मोत्तरीयं च वरेण्यमभयप्रदम् ।
पराभ्यामूर्ध्वहस्ताभ्यां बिभ्राणं परशुं मृगम् ॥ ३०॥
कोटिमध्याह्नसूर्याभं चन्द्रकोटिसुशीतलम् ।
चन्द्रसूर्याग्निनयनं स्मेरवक्त्रसरोरुहम् ॥ ३१॥
भूतिभूषितसर्वाङ्गं सर्वाभरणभूषितम् ।
एवमात्मारणिं कृत्वा प्रणवं चोत्तरारणिम् ।
ध्याननिर्मथनाभ्यासात्साक्षात्पश्यति मां जनः ॥ ३२॥
वेदवाक्यैरलभ्योऽहं न शास्त्रैर्नापि चेतसा ।
ध्यानेन वृणुते यो मां सर्वदाहं वृणोमि तम् ॥ ३३॥
नाविरतो दुश्चरितान्नाशान्तो नासमाहितः ।
नाशान्तमानसो वापि प्रज्ञानेन लभेत माम् ॥ ३४॥
जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चो यः प्रकाशते ।
तद्ब्रह्माहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते ॥ ३५॥
त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यद्भवेत् ।
तज्ज्योतिर्लक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः ॥ ३६॥
एको देवः सर्वभूतेषु गूढः
सर्वव्यापी सर्वभूतान्तरात्मा ।
सर्वाध्यक्षः सर्वभूताधिवासः
साक्षी चेता केवलो निर्गुणश्च ॥ ३७
एको वशी सर्वभूतान्तरात्मा-
प्येकं बीजं नित्यदा यः करोति ।
तं मां नित्यं येऽनुपश्यन्ति धीरा-
स्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ ३८॥
अग्निर्यथैको भुवनं प्रविष्टो
रूपं रूपं प्रतिरूपो बभूव ।
एकस्तथा सर्वभूतान्तरात्मा
न लिप्यते लोकदुःखेन बाह्यः ॥ ३९॥
वेदेह यो मां पुरुषं महान्त-
मादित्यवर्णं तमसः परस्तात् ।
स एव विद्वानमृतोऽत्र भूया-
न्नान्यस्तु पन्था अयनाय विद्यते ॥ ४०॥
हिरण्यगर्भं विदधामि पूर्वं
वेदांश्च तस्मै प्रहिणोमि योऽहम् ।
तं देवमीड्यं पुरुषं पुराणं
निश्चित्य मां मृत्युमुखात्प्रमुच्यते ॥ ४१॥
एवं शान्त्यादियुक्तः सन् वेत्ति मां तत्त्वतस्तु यः ।
निर्मुक्तदुःखसंतानः सोऽन्ते मय्येव लीयते ॥ ४२॥
इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे
उपासनाज्ञानफलं नाम द्वादशोऽध्यायः ॥ १२ ॥
अथ त्रयोदशोऽध्यायः ।
सूत उवाच ॥
एवं श्रुत्वा कौसलेयस्तुष्टो मतिमतां वरः ।
पप्रच्छ गिरिजाकान्तं सुभगं मुक्तिलक्षणम् ॥ १॥
श्रीराम उवाच ॥
भगवन्करुणाविष्टहृदय त्वं प्रसीद मे ।
स्वरूपलक्षणं मुक्तेः प्रब्रूहि परमेश्वर ॥ २॥
श्रीभगवानुवाच ॥
सालोक्यमपि सारूप्यं सार्ष्ट्यं सायुज्यमेव च ।
कैवल्यं चेति तां विद्धि मुक्तिं राघव पञ्चधा ॥ ३॥
मां पूजयति निष्कामः सर्वदा ज्ञानवर्जितः ।
स मे लोकं समासाद्य भुङ्क्ते भोगान्यथेप्सितान् ॥ ४॥
ज्ञात्वा मां पूजयेद्यस्तु सर्वकामविवर्जितः ।
मया समानरूपः सन्मम लोके महीयते ॥ ५॥
इष्टापूर्तादि कर्माणि मत्प्रीत्यै कुरुते तु यः ।
यत्करोति यदश्नाति यज्जुहोति ददाति यत् ॥ ६॥
यत्तपस्यति तत्सर्वं यः करोति मदर्पणम् ।
मल्लोके स श्रियं भुङ्क्ते मत्तुल्यं प्राभवं भजेत् ॥ ७॥
यस्तु शान्त्यादियुक्तः सन्मामात्मत्वेन पश्यति ।
स जायते परं ज्योतिरद्वैतं ब्रह्म केवलम् ।
आत्मस्वरूपावस्थानं मुक्तिरित्यभिधीयते ॥ ८॥
सत्यं ज्ञानमनन्तं सदानन्दं ब्रह्मकेवलम् ।
सर्वधर्मविहीनं च मनोवाचामगोचरम् ॥ ९॥
सजातीयविजातीयपदार्थानामसंभवात् ।
अतस्तद्व्यतिरिक्तानामद्वैतमिति संज्ञितम् ॥ १०॥
मत्वा रूपमिदं राम शुद्धं यदभिधीयते ।
मय्येव दृश्यते सर्वं जगत्स्थावरजङ्गमम् ॥ ११॥
व्योम्नि गन्धर्वनगरं यथा दृष्टं न दृश्यते ।
अनाद्यविद्यया विश्वं सर्वं मय्येव कल्प्यते ॥ १२॥
मम स्वरूपज्ञानेन यदाऽविद्या प्रणश्यति ।
तदैक एव वर्त्तेऽहं मनोवाचामगोचरः ॥ १३॥
सदैव परमानन्दः स्वप्रकाशश्चिदात्मकः।
न कालः पञ्चभूतानि न दिशो विदिशश्च न ॥ १४॥
मदन्यन्नास्ति यत्किञ्चित्तदा वर्त्तेऽहमेकलः ॥ १५॥
न संदृशे तिष्ठति मे स्वरूपं
न चक्षुषा पश्यति मां तु कश्चित् ।
हृदा मनीषा मनसाभिक्लृप्तं
ये मां विदुस्ते ह्यमृता भवन्ति ॥ १६॥
श्रीराम उवाच ॥
कथं भगवतो ज्ञानं शुद्धं मर्त्यस्य जायते ।
तत्रोपायं हर ब्रूहि मयि तेऽनुग्रहो यदि ॥ १७॥
श्रीभगवानुवाच ॥
विरज्य सर्वभूयेभ्य आविरिंचिपदादपि ।
घृणां वितत्य सर्वत्र पुत्रमित्रादिकेष्वपि ॥ १८॥
श्रद्धालुर्भक्तिमार्गेषु वेदान्तज्ञानलिप्सया ।
उपायनकरो भूत्वा गुरुं ब्रह्मविदं व्रजेत् ॥ १९॥
सेवाभिः परितोष्यैनं चिरकालं समाहितः ।
सर्ववेदान्तवाक्यार्थं शृणुयात्सुसमाहितः ॥ २०॥
सर्ववेदान्तवाक्यानां मयि तात्पर्यनिश्चयम् ।
श्रवणं नाम तत्प्राहुः सर्वे ते ब्रह्मवादिनः ॥ २१॥
लोहमण्यादिदृष्टान्तयुक्तिभिर्यद्विचिन्तनम् ।
तदेव मननं प्राहुर्वाक्यार्थस्योपबृंहणम् ॥ २२॥
निर्ममो निरहंकारः समः संगवर्जितः।
सदा शान्त्यादियुक्तः सन्नात्मन्यात्मानमीक्षते ॥ २३॥
यत्सदा ध्यानयोगेन तन्निदिध्यासनं स्मृतम् ॥ २४॥
सर्वकर्मक्षयवशात्साक्षात्कारोऽपि चात्मनः ।
कस्यचिज्जायते शीघ्रं चिरकालेन कस्यचित् ॥ २५॥
कूटस्थानीह कर्माणि कोटिजन्मार्जितान्यपि ।
ज्ञानेनैव विनश्यन्ति न तु कर्मायुतैरपि ॥ २६॥
ज्ञानादूर्ध्वं तु यत्किञ्चित्पुण्यं वा पापमेव वा ।
क्रियते बहु वाल्पं वा न तेनायं विलिप्यते ॥ २७॥
शरीरारम्भकं यत्तु प्रारब्धं कर्म जन्मिनः ।
तद्भोगेनैव नष्टं स्यान्न तु ज्ञानेन नश्यति ॥ २८॥
निर्मोहो निरहंकारो निर्लेपः संगवर्जितः ।
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।
यः पश्यन्संचरत्येष जीवन्मुक्तोऽभिधीयते ॥ २९॥
अहिनिर्ल्वयनी यद्वद्द्रष्टुः पूर्वं भयप्रदा ।
ततोऽस्य न भयं किंचित्तद्वद्द्रष्टुरयं जनः ॥ ३०॥
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य वशं गताः ।
अथ मर्त्योऽमृतो भवत्येतावदनुशासनम् ॥ ३१॥
मोक्षस्य न हि वासोऽस्ति न ग्रामान्तरमेव वा ।
अज्ञानहृदयग्रन्थिनाशो मोक्ष इति स्मृतः ॥ ३२॥
वृक्षाग्रच्युतपादो यः स तदैव पतत्यधः ।
तद्वज्ज्ञानवतो मुक्तिर्जायते निश्चितापि तु ॥ ३३॥
तीर्थं चाण्डालगेहे वा यदि वा नष्टचेतनः ।
पएरित्यजन्देहमिमं ज्ञानादेव विमुच्यते ॥ ३४॥
संवीतो येन केनाश्नन्भक्ष्यं वाभक्ष्यमेव वा ।
शयानो यत्र कुत्रापि सर्वात्मा मुच्यतेऽत्र सः ॥ ३५॥
क्षीरादुद्धृतमाज्यं तत्क्षिप्तं पयसि तत्पुनः ।
न तेनैवैकतां याति संसारे ज्ञानवांस्तथा ॥ ३६॥
नित्यं पठति योऽध्यायमिमं राम शृणोति वा ।
स मुच्यते देहबन्धादनायासेन राघव ॥ ३७॥
अतः संयतचित्तस्त्वं नित्यं पठ महीपते ।
अनायासेन तेनैव सर्वथा मोक्षमाप्स्यसि ॥ ३८॥
इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे
मोक्षयोगो नाम त्रयोदशोऽध्यायः ॥ १३ ॥
अथ चतुर्दशोऽध्यायः ॥
श्रीराम उवाच ॥
भगवन्यदि ते रूपं सच्चिदानन्दविग्रहम् ।
निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् ॥ १॥
सर्वधर्मविहीनं च मनोवाचामगोचरम् ।
सर्वव्यापितयात्मानमीक्षते सर्वतः स्थितम् ॥ २॥
आत्मविद्यातपोमूलं तद्ब्रह्मोपनिषत्परम् ।
अमूर्तं सर्वभूतात्माकारं कारणकारणम् ॥ ३॥
यत्तददृश्यमग्राह्यं तद्ग्राह्यं वा कथं भवेत् ।
अत्रोपायमजानानस्तेन खिन्नोऽस्मि शंकर ॥ ४॥
श्रीभगवानुवाच ॥
शृणु राजन्प्रवक्ष्यामि तत्रोपायं महाभुज ।
सगुणोपासनाभिस्तु चित्तैकाग्र्यं विधाय च ॥ ५॥
स्थूलसौरांभिकान्यायात्तत्र चित्तं प्रवर्तयेत् ।
तस्मिन्नन्नमये पिण्डे स्थूलदेहे तनूभृताम् ॥ ६॥
जन्मव्याधिजरामृत्युनिलये वर्तते दृढा ॥ ७॥
आत्मबुद्धिरहंमानात्कदाचिन्नैव हीयते ।
आत्मा न जायते नित्यो म्रियते वा कथंचन ॥ ८॥
संजायतेऽस्ति विपरिणमते वर्धते तथा ।
क्षीयते नश्यतीत्येते षड्भावा वपुषः स्मृताः ॥ ९॥
आत्मनो न विकारित्वं घटस्थनभसो यथा ।
एवमात्मावपुस्तस्मादिति संचिन्तयेद्बुधः ॥ १०॥
मूषानिक्षिप्तहेमाभः कोशः प्राणमयोऽत्र तु ।
वर्ततेऽन्तरतो देहे बद्धः प्राणादिवायुभिः ॥ ११॥
कर्मेन्द्रियैः समायुक्तश्चलनादिक्रियात्मकः ।
क्षुत्पिपासापराभूतो नायमात्मा जडो यतः ॥ १२॥
चिद्रूप आत्मा येनैव स्वदेहमभिपश्यति ।
आत्मैव हि परं ब्रह्म निर्लेपः सुखनीरधिः ॥ १३॥
न तदश्नाति किंचैतत्तदश्नाति न कश्चन ॥ १४॥
ततः प्राणमये कोशे कोशोऽस्त्येव मनोमयः ।
स संकल्पविकल्पात्मा बुद्धीन्द्रियसमायुतः ॥ १५॥
कामः क्रोधस्तथा लोभो मोहो मात्सर्यमेव च ।
मदश्चेत्यरिषड्वर्गो ममतेच्छादयोऽपि च ।
मनोमयस्य कोशस्य धर्मा एतस्य तत्र तु ॥ १६॥
या कर्मविषया बुद्धिर्वेदशास्त्रार्थनिश्चिता ।
सा तु ज्ञानेन्द्रियैः सार्धं विज्ञानमयकोशतः ॥ १७॥
इह कर्तृत्वाभिमानी स एव तु न संशयः ।
इहामुत्र गतिस्तस्य स जीवो व्यावहारिकः ॥ १८॥
व्योमादिसात्त्विकांशेभ्यो जायन्ते धीन्द्रियाणि तु ।
व्योम्नः श्रोत्रं भुवो घ्राणं जलाज्जिह्वाथ तेजसः ॥ १९।
चक्षुर्वायोस्त्वगुत्पन्ना तेषां भौतिकता ततः ॥ २०॥
व्योमादीनां समस्तानां सात्त्विकांशेभ्य एव तु ।
जायन्ते बुद्धिमनसी बुद्धिः स्यान्निश्चयात्मिका ॥ २१॥
वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाणि तु ।
व्योमादीनां रजोंऽशेभ्यो व्यस्तेभ्यस्तान्यनुक्रमात् ॥ २२॥
समस्तेभ्यो रजोंऽशेभ्यः पञ्च प्राणादिवायवः ।
जायन्ते सप्तदशकमेवं लिङ्गशरीरकम् ॥ २३॥
एतल्लिङ्गशरीरं तु तप्तायःपिण्डवद्यतः ।
परस्पराध्यासयोगात्साक्षिचैतन्यसंयुतम् ॥ २४॥
तदानन्दमयः कोशो भोक्तृत्वं प्रतिपद्यते ।
विद्याकर्मफलादीनां भोक्तेहामुत्र स स्मृतः ॥ २५॥
यदाध्यासं विहायैष स्वस्वरूपेण तिष्ठति ।
अविद्यामात्रसंयुक्तः साक्ष्यात्मा जायते तदा ॥ २६॥
द्रष्टान्तःकरणादीनामनुभूतेः स्मृतेरपि ।
अतोऽन्तःकरणाध्यासादध्यासित्वेन चात्मनः ।
भोक्तृत्वं साक्षिता चेति द्वैधं तस्योपपद्यते ॥ २७॥
आतपश्चापि तच्छाया तत्प्रकाशे विराजते ।
एको भोजयिता तत्र भुङ्क्तेऽन्यः कर्मणः फलम् ॥ २८॥
क्षेत्रज्ञं रथिनं विद्धि शरीरं रथमेव तु ।
बुद्धिं तु सारथिं विद्धि प्रग्रहं तु मनस्तथा ॥ २९॥
इन्द्रियाणि हयान्विद्धि विषयांस्तेषु गोचरान् ।
इन्द्रियैर्मनसा युक्तं भोक्तारं विद्धि पूरुषम् ॥ ३०॥
एवं शान्त्यादियुक्तः सन्नुपास्ते यः सदा द्विजः।
उद्घाट्योद्घाट्यैकमेकं यथैव कदलीतरोः ॥ ३१॥
वल्कलानि ततः पश्चाल्लभते सारमुत्तमम् ।
तथैव पञ्चकोशेषु मनः संक्रामयन्क्रमात् ।
तेषां मध्ये ततः सारमात्मानमपि विन्दति ॥ ३२॥
एवं मनः समाधाय संयतो मनसि द्विजः ।
अथ प्रवर्तयेच्चित्तं निराकारे परात्मनि ॥ ३३॥
ततो मनः प्रगृह्णाति परमात्मानमव्ययम् ।
यत्तदद्रेश्यमग्राह्यमस्थूलाद्युक्तिगोचरम् ॥ ३४॥
श्रीराम उवाच ॥
भगवञ्छ्रवणे नैव प्रवर्तन्ते जनाः कथम् ।
वेदशास्त्रार्थसम्पन्ना यज्वानः सत्यवादिनः ॥ ३५॥
शृण्वन्तोऽपि तथात्मानं जानते नैव केचन ।
ज्ञात्वापि मन्वते मिथ्या किमेतत्तव मायया ॥ ३६॥
श्रीभगवानुवाच ॥
एवमेव महाबाहो नात्र कार्या विचारणा ।
दैवी ह्येषा गुणमयी मम माया दुरत्यया ॥ ३७॥
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ।
अभक्ता ये महाबाहो मम श्रद्धा विवर्जिताः ॥ ३८॥
फलं कामयमानास्ते चैहिकामुष्मिकादिकम् ।
क्षयिष्ण्वल्पं सातिशयं यतः कर्मफलं मतम् ॥ ३९॥
तदविज्ञाय कर्माणि ये कुर्वन्ति नराधमाः ।
मातुः पतन्ति ते गर्भे मृत्योर्वक्त्रे पुनः पुनः ॥ ४०॥
एवं शान्त्यादियुक्तः सन्नुपास्ते यः सदा द्विजः।
उद्घाट्योद्घाट्यैकमेकं यथैव कदलीतरोः ॥ ३१॥
वल्कलानि ततः पश्चाल्लभते सारमुत्तमम् ।
तथैव पञ्चकोशेषु मनः संक्रामयन्क्रमात् ।
तेषां मध्ये ततः सारमात्मानमपि विन्दति ॥ ३२॥
एवं मनः समाधाय संयतो मनसि द्विजः ।
अथ प्रवर्तयेच्चित्तं निराकारे परात्मनि ॥ ३३॥
ततो मनः प्रगृह्णाति परमात्मानमव्ययम् ।
यत्तदद्रेश्यमग्राह्यमस्थूलाद्युक्तिगोचरम् ॥ ३४॥
श्रीराम उवाच ॥
भगवञ्छ्रवणे नैव प्रवर्तन्ते जनाः कथम् ।
वेदशास्त्रार्थसम्पन्ना यज्वानः सत्यवादिनः ॥ ३५॥
शृण्वन्तोऽपि तथात्मानं जानते नैव केचन ।
ज्ञात्वापि मन्वते मिथ्या किमेतत्तव मायया ॥ ३६॥
श्रीभगवानुवाच ॥
एवमेव महाबाहो नात्र कार्या विचारणा ।
दैवी ह्येषा गुणमयी मम माया दुरत्यया ॥ ३७॥
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ।
अभक्ता ये महाबाहो मम श्रद्धा विवर्जिताः ॥ ३८॥
फलं कामयमानास्ते चैहिकामुष्मिकादिकम् ।
क्षयिष्ण्वल्पं सातिशयं यतः कर्मफलं मतम् ॥ ३९॥
तदविज्ञाय कर्माणि ये कुर्वन्ति नराधमाः ।
मातुः पतन्ति ते गर्भे मृत्योर्वक्त्रे पुनः पुनः ॥ ४०॥
नानायोनिषु जातस्य देहिनो यस्यकस्यचित् ।
कोटिजन्मार्जितैः पुण्यैर्मयि भक्तिः प्रजायते ॥ ४१॥
स एव लभते ज्ञानं मद्भक्तः श्रद्धयान्वितः ।
नान्यकर्माणि कुर्वाणो जन्मकोटिशतैरपि ॥ ४२॥
ततः सर्वं परित्यज्य मद्भक्तिं समुदाहर ।
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ॥ ४३॥
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ।
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ॥ ४४॥
यत्तपस्यसि राम त्वं तत्कुरुष्व मदर्पणम् ।
ततः परतरा नास्ति भक्तिर्मयि रघूत्तम ॥ ४५॥
इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे
पञ्चकोशोपपादनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥
अथ पञ्चदशोऽध्यायः ॥
श्रीराम उवाच ॥
भक्तिस्ते कीदृशी देव जायते वा कथंचन ।
यया निर्वाणरूपं तु लभते मोक्षमुत्तमम् ।
तद् ब्रूहि गिरिजाकान्त मयि तेऽनुग्रहो यदि ॥ १॥
श्रीभगवानुवाच ॥
यो वेदाध्ययनं यज्ञं दानानि विविधानि च ।
मदर्पणधिया कुर्यात्स मे भक्तः स मे प्रियः ॥ २॥
नर्यभस्म समादाय विशुद्धं श्रोत्रियालयात् ।
अग्निरित्यादिभिर्मन्त्रैरभिमन्त्र्य यथाविधि ॥ ३॥
उद्धूलयति गात्राणि तेन चार्चति मामपि ।
तस्मात्परतरा भक्तिर्मम राम न विद्यते ॥ ४॥
सर्वदा शिरसा कण्ठे रुद्राक्षान्धारयेत्तु यः ।
पञ्चाक्षरीजपरतः स मे भक्तः स मे प्रियः ॥ ५॥
भस्मच्छन्नो भस्मशायी सर्वदा विजितेन्द्रियः ।
यस्तु रुद्रं जपेन्नित्यं चिन्तयेन्मामनन्यधीः ॥ ६॥
स तेनैव च देहेन शिवः संजायते स्वयम् ।
जपेद्यो रुद्रसूक्तानि तथाथर्वशिरः परम् ॥ ७॥
कैवल्योपनिषत्सूक्तं श्वेताश्वतरमेव च ।
ततः परतरो भक्तो मम लोके न विद्यते ॥ ८॥
अन्यत्र धर्मादन्यस्मादन्यत्रास्मात्कृताकृतात् ।
अन्यत्र भूताद्भव्याच्च यत्प्रवक्ष्यामि तच्छृणु ॥ ९॥
वदन्ति यत्पदं वेदाः शास्त्राणि विविधानि च ।
सर्वोपनिषदां सारं दध्नो घृतमिवोद्धृतम् ॥ १०॥
यदिच्छन्तो ब्रह्मचर्यं चरन्ति मुनयः सदा ।
तत्ते पदं संग्रहेण ब्रवीम्योमिति यत्पदम् ॥ ११॥
एतदेवाक्षरं ब्रह्म एतदेवाक्षरं परम् ।
एतदेवाक्षरं ज्ञात्वा ब्रह्मलोके महीयते ॥ १२॥
छन्दसां यस्तु धेनूनामृषभत्वेन चोदितः ।
इदमेव पतिः सेतुरमृतस्य च धारणात् ॥ १३॥
मेधसा पिहिते कोशे ब्रह्म यत्परमोमिति ॥ १४॥
चतस्रस्तस्य मात्राः स्युरकारोकारकौ तथा ।
मकारश्चावसानेऽर्धमात्रेति परिकीर्तिता ॥ १५॥
पूर्वत्र भूश्च ऋग्वेदो ब्रह्माष्टवसवस्तथा ।
गार्हपत्यश्च गायत्री गङ्गा प्रातःसवस्तथा ॥ १६॥
द्वितीया च भुवो विष्णू रुद्रोऽनुष्टुब्यजुस्तथा ।
यमुना दक्षिणाग्निश्च माध्यन्दिनसवस्तथा ॥ १७॥
तृतीया च सुवः सामान्यादित्यश्च महेश्वरः ।
अग्निराहवनीयश्च जगती च सरस्वती ॥ १८॥
तृतीयं सवनं प्रोक्तमथर्वत्वेन यन्मतम् ।
चतुर्थी यावसानेऽर्धमात्रा सा सोमलोकगा ॥ १९॥
अथर्वाङ्गिरसः संवर्तकोऽग्निश्च महस्तथा ।
विराट् सभ्यावसथ्यौ च शुतुद्रिर्यज्ञपुच्छकः॥ २०॥
प्रथमा रक्तवर्णा स्याद् द्वितीया भास्वरा मता ।
तृतीया विद्युदाभा स्याच्चतुर्थी शुक्लवर्णिनी ॥ २१॥
सर्वं जातं जायमानं तदोङ्कारे प्रतिष्ठितम् ।
विश्वं भूतं च भुवनं विचित्रं बहुधा तथा ॥ २२॥
जातं च जायमानं यत्तत्सर्वं रुद्र उच्यते ।
तस्मिन्नेव पुनः प्राणाः सर्वमोङ्कार उच्यते ॥ २३॥
प्रविलीनं तदोङ्कारे परं ब्रह्म सनातनम् ।
तस्मादोङ्कारजापी यः स मुक्तो नात्र संशयः ॥ २४॥
त्रेताग्नेः स्मार्तवह्नेर्वा शैवाग्नेर्वा समाहृतम् ।
भस्माभिमन्त्र्य यो मां तु प्रणवेन प्रपूजयेत् ॥ २५॥
तस्मात्परतरो भक्तो मम लोके न विद्यते ॥ २६॥
शालाग्नेर्दाववह्नेर्वा भस्मादायाभिमन्त्रितम् ।
यो विलिम्पति गात्राणि स शूद्रोऽपि विमुच्यते ॥ २७॥
कुशपुष्पैर्बिल्वदलैः पुष्पैर्वा गिरिसंभवैः ।
यो मामर्चयते नित्यं प्रणवेन प्रियो हि सः ॥ २८॥
पुष्पं फलं समूलं वा पत्रं सलिलमेव वा ।
यो दद्यात्प्रणवैर्मह्यं तत्कोटिगुणितं भवेत् ॥ २९॥
अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः ।
यस्यास्त्यध्ययनं नित्यं स मे भक्तः स मे प्रियः ॥ ३०॥
प्रदोषे यो मम स्थानं गत्वा पूजयते तु माम् ।
स परं श्रियमाप्नोति पश्चान्मयि विलीयते ॥ ३१॥
अष्टम्यां च चतुर्दश्यां पर्वणोरुभयोरपि ।
भूतिभूषितसर्वांगो यः पूजयति मां निशि ॥ ३२॥
कृष्णपक्षे विशेषेण स मे भक्तः स मे प्रियः ॥ ३३॥
एकादश्यामुपोष्यैव यः पूजयति मां निशि ।
सोमवारे विशेषेण स मे भक्तो न नश्यति ॥ ३४॥
पञ्चामृतैः स्नापयेद्यः पञ्चगव्येन वा पुनः ।
पुष्पोदकैः कुशजलैस्तस्मान्नन्यः प्रियो मम ॥ ३५॥
पयसा सर्पिषा वापि मधुनेक्षुरसेन वा ।
पक्वाम्रफलजेनापि नारिकेरजलेन वा ॥ ३६॥
गन्धोदकेन वा मां यो रुद्रमन्त्रं समुच्चरन् ।
अभिषिञ्चेत्ततो नान्यः कश्चित्प्रियतरो मम ॥ ३७॥
आदित्याभिमुखो भूत्वा ऊर्ध्वबाहुर्जले स्थितः ।
मां ध्यायन् रविबिम्बस्थमथर्वांगिरस जपेत् ॥ ३८॥
प्रविशेन्मे शरीरेऽसौ गृहं गृहपतिर्यथा ।
बृहद्रथन्तरं वामदेव्यं देवव्रतानि च ॥ ३९॥
तद्योगयाज्यदोहांश्च यो गायति ममाग्रतः ।
इह श्रियं परां भुक्त्वा मम सायुज्यमाप्नुयात् ॥ ४०॥
ईशावास्यादि मन्त्रान् यो जपेन्नित्यं ममाग्रतः ।
मत्सायुज्यमवाप्नोति मम लोके महीयते ॥ ४१॥
भक्तियोगो मया प्रोक्त एवं रघुकुलोद्भव ।
सर्वकामप्रदो मत्तः किमन्यच्छ्रोतुमिच्छसि ॥ ४२॥
इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे
भक्तियोगो नाम पञ्चदशोऽध्यायः ॥ १५ ॥
अथ षोडशोऽध्यायः ॥
श्रीराम उवाच ॥
भगवन्मोक्षमार्गो यस्त्वया सम्यगुदाहृतः ।
तत्राधिकारिणं ब्रूहि तत्र मे संशयो महान् ॥ १॥
श्रीभगवानुवाच ॥
ब्रह्मक्षत्रविशः शूद्राः स्त्रियश्चात्राधिकारिणः ।
ब्रह्मचारी गृहस्थो वा।आनुपनीतोऽथवा द्विजः ॥ २॥
वनस्थो वाऽवनस्थो वा यतिः पाशुपतव्रती ।
बहुनात्र किमुक्तेन यस्य भक्तिः शिवार्चने ॥ ३॥
स एवात्राधिकारी स्यान्नान्यचित्तः कथंचन ।
जडोऽन्धो बधिरो मूको निःशौचः कर्मवर्जितः ॥ ४॥
अज्ञोपहासकाभक्ता भूतिरुद्राक्षधारिणः ।
लिंगिनो यश्च वा द्वेष्टि ते नैवात्राधिकारिणः ॥ ५॥
यो मां गुरुं पाशुपतं व्रतं द्वेष्टि धराधिप ।
विष्णुं वा न स मुच्येत जन्मकोटिशतैरपि ॥ ६॥
अनेककर्मसक्तोऽपि शिवज्ञानविवर्जितः ।
शिवभक्तिविहीनश्च संसारान्नैव मुच्यते ॥ ७॥
आसक्ताः फलरागेण ये त्ववैदिककर्मणि ।
दृष्टमात्रफलास्ते तु न मुक्तावधिकारिणः ॥ ८॥
अविमुक्ते द्वारकायां श्रीशैले पुण्डरीकके ।
देहान्ते तारकं ब्रह्म लभते मदनुग्रहात् ॥ ९॥
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् ।
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥ १०॥
विप्रस्यानुपनीतस्य विधिरेवमुदाहृतः ।
नाभिव्याहारयेद्ब्रह्म स्वधानिनयनादृते ॥ ११॥
स शूद्रेण समस्तावद्यावद्वेदान्न जायते ।
नामसंकीर्तने ध्याने सर्व एवाधिकारिणः ॥ १२॥
संसारान्मुच्यते जन्तुः शिवतादात्म्यभावनात् ।
तथा दानं तपो वेदाध्ययनं चान्यकर्म वा ।
सहस्रांशं तु नार्हन्ति सर्वदा ध्यानकर्मणः ॥ १३॥
जातिमाश्रममङ्गानि देशं कालमथापि वा ।
आसनादीनि कर्माणि ध्यानं नापेक्षते क्वचित् ॥ १४॥
गच्छंस्तिष्ठन् जपन्वापि शयानो वान्यकर्मणि ।
पातकेनापि वा युक्तो ध्यानादेव विमुच्यते ॥ १५॥
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ १६॥
आश्चर्ये वा भये शोके क्षुते वा मम नाम यः ।
व्याजेनापि स्मरेद्यस्तु स याति परमां गतिम् ॥ १७॥
महापापैरपि स्पृष्टो देहान्ते यस्तु मां स्मरेत् ।
पञ्चाक्षरीं वोच्चरति स मुक्तो नात्र संशयः ॥ १८॥
विश्वं शिवमयं यस्तु पश्यत्यात्मानमात्मना ।
तस्य क्षेत्रेषु तीर्थेषु किं कार्यं वान्यकर्मसु ॥ १९॥
सर्वेण सर्वदा कार्यं भूतिरुद्राक्षधारणम् ।
युक्तेनाथाप्ययुक्तेन शिवभक्तिमभीप्सता ॥ २०॥
नर्यभस्मसमायुक्तो रुद्राक्षान्यस्तु धारयेत् ।
महापापैरपि स्पृष्टो मुच्यते नात्र संशयः ॥ २१॥
अन्यानि शैवकर्माणि करोतु न करोतु वा ।
शिवनाम जपेद्यस्तु सर्वदा मुच्यते तु सः ॥ २२॥
अन्तकाले तु रुद्राक्षान्विभूतिं धारयेत्तु यः ।
महापापोपपापोघैरपि स्पृष्टो नराधमः ॥ २३॥
सर्वथा नोपसर्पन्ति तं जनं यमकिंकराः ॥ २४॥
बिल्वमूलमृदा यस्तु शरीरमुपलिम्पति ।
अन्तकालेऽन्तकजनैः स दूरीक्तियते नरः ॥ २५॥
श्रीराम उवाच ॥
भगवन्पूजितः कुत्र कुत्र वा त्वं प्रसीदसि ।
तद्ब्रूहि मम जिज्ञासा वर्तते महती विभो ॥ २६॥
श्रीभगवानुवाच ॥
मृदा वा गोमयेनापि भस्मना चन्दनेन वा ।
सिकताभिर्दारुणा वा पाषाणेनापि निर्मिता ॥ २७॥
लोहेन वाथ रङ्गेण कांस्यखर्परपित्तलैः ।
ताम्ररौप्यसुवर्णैर्वा रत्नैर्नानाविधैरपि ॥ २८॥
अथवा पारदेनैव कर्पूरेणाथवा कृता ।
प्रतिमा शिवलिङ्गं वा द्रव्यैरेतैः कृतं तु यत् ॥ २९॥
तत्र मां पूजयेत्तेषु फलं कोटिगुणोत्तरम् ॥ ३०॥
मृद्दारुकांस्यलोहैश्च पाषाणेनापि निर्मिता ।
गृहिणा प्रतिमा कार्या शिवं शश्वदभीप्सता ।
आयुः श्रियं कुलं धर्मं पुत्रानाप्नोति तैः क्रमात् ॥ ३१॥
बिल्ववृक्षे तत्फले वा यो मां पूजयते नरः ।
परां श्रियमिह प्राप्य मम लोके महीयते ॥ ३२॥
बिल्ववृक्षं समाश्रित्य यो मन्त्रान्विधिना जपेत् ।
एकेन दिवसेनैव तत्पुरश्चरणं भवेत् ॥ ३३॥
यस्तु बिल्ववने नित्यं कुटीं कृत्वा वसेन्नरः ।
सर्वे मन्त्राः प्रसिद्ध्यन्ति जपमात्रेण केवलम् ॥ ३४॥
पर्वताग्रे नदीतीरे बिल्वमूले शिवालये ।
अग्निहोत्रे केशवस्य संनिधौ वा जपेत्तु यः ॥ ३५॥
नैवास्य विघ्नं कुर्वन्ति दानवा यक्षराक्षसः ।
तं न स्पृशन्ति पापानि शिवसायुज्यमृच्छति ॥ ३६॥
स्थण्डिले वा जले वह्नौ वायावाकाश एव वा ।
गिरौ स्वात्मनि वा यो मां पूजयेत्प्रयतो नरः ॥ ३७॥
स कृत्स्नं फलमाप्नोति लवमात्रेण राघव ।
आत्मपूजासमा नास्ति पूजा रघुकुलोद्भव ॥ ३८॥
मत्सायुज्यमवाप्नोति चण्डालोऽप्यात्मपूजया ।
सर्वान्कामानवाप्नोति मनुष्यः कम्बलासने ॥ ३९॥
कृष्णाजिने भवेन्मुक्तिर्मोक्षश्रीर्व्याघ्रचर्मणि ।
कुशासने भवेज्ज्ञानमारोग्यं पत्रनिर्मिते ॥ ४०॥
पाषाणे दुःखमाप्नोति काष्ठे नानाविधान् गदान् ।
वस्त्रेण श्रियमाप्नोति भूमौ मन्त्रो न सिद्ध्यति ।
प्राङ्मुखोदङ्मुखो वापि जपं पूजां समाचरेत् ॥ ४१॥
अक्षमालाविधिं वक्ष्ये शृणुष्वावहितो नृप ॥ ४२॥
साम्राज्यं स्फाटिके स्यात्तु पुत्रजीवे परां श्रियम् ।
आत्मज्ञानं कुशग्रन्थौ रुद्राक्षः सर्वकामदः ॥ ४३॥
प्रवालैश्च कृता माला सर्वलोकवशप्रदा ।
मोक्षप्रदा च माला स्यादामलक्याः फलैः कृता ॥ ४४॥
मुक्ताफलैः कृता माला सर्वविद्याप्रदायिनी ।
माणिक्यरचिता माला त्रैलोकस्य वशंकरी ॥ ४५॥
नीलैर्मरकतैर्वापि कृता शत्रुभयप्रदा ।
सुवर्णरचिता माला दद्याद्वै महतीं श्रियम् ॥ ४६॥
तथा रौप्यमयी माला कन्यां यच्छति कामिताम् ।
उक्तानां सर्वकामानां दायिनी पारदैः कृता ॥ ४७॥
अष्टोत्तरशता माला तत्र स्यादुत्तमोत्तमा ।
शतसंख्योत्तमा माला पञ्चाशन्मध्यमा मता ॥ ४८॥
चतुः पञ्चशती यद्वा अधमा सप्तविंशतिः ।
अधमा पञ्चविंशत्या यदि स्याच्छतनिर्मिता ॥ ४९॥
पञ्चाशदक्षराण्यत्रानुलोमप्रतिलोमतः ।
इत्येवं स्थापयेत्स्पष्टं न कस्मैचित्प्रदर्शयेत् ॥ ५०॥
वर्णैर्विन्यस्तया यस्तु क्रियते मालया जपः ।
एकवारेण तस्यैव पुरश्चर्या कृता भवेत्॥ ५१॥
सव्यपार्ष्णिं गुदे स्थाप्य दक्षिणं च ध्वजोपरि ।
योनिमुद्राबन्ध एष भवेदासनमुत्तमम् ॥ ५२॥
योनिमुद्रासने स्थित्वा प्रजपेद्यः समाहितः ।
यं कंचिदपि वा मन्त्रं तस्य स्युः सर्वसिद्धयः ॥ ५३॥
छिन्ना रुद्धाः स्तम्भिताश्च मिलिता मूर्छितास्तथा ।
सुप्ता मत्ता हीनवीर्या दग्धास्त्रस्तारिपक्षगाः ॥ ५४॥
बाला यौवनमत्तश्च वृद्धा मन्त्राश्च ये मताः ।
योनिमुद्रासने स्थित्वा मन्त्रानेवंविधान् जपेत् ॥ ५५॥
तत्र सिद्ध्यन्ति ते मन्त्रा नान्यस्य तु कथंचन ।
ब्राह्मं मुहूर्तमारभ्यामध्याह्नं प्रजपेन्मनुम् ॥ ५६॥
अत ऊर्ध्वं कृते जाप्ये विनाशाय भवेद्ध्रुवम् ।
पुरश्चर्याविधावेवं सर्वकाम्यफलेष्वपि ॥ ५७॥
नित्ये नैमित्तिके वापि तपश्चर्यासु वा पुनः ।
सर्वदैव जपः कार्यो न दोषस्तत्र कश्चन ॥ ५८॥
यस्तु रुद्रं जपेन्नित्यं ध्यायमानो ममाकृतिम् ।
षडक्षरं वा प्रणवं निष्कामो विजितेन्द्रियः ॥ ५९॥
तथाथर्वशिरोमन्त्रं कैवल्यं वा रघूत्तम ।
स तेनैव च देहेन शिवः संजायते स्वयम् ॥ ६०॥
अधीते शिवगीतां यो नित्यमेतां जितेन्द्रियः ।
शृणुयाद्वा स मुक्तः स्यात्संसारान्नात्र संशयः ॥ ६१॥
सूत उवाच ॥
एवमुक्त्वा महादेवस्तत्रैवान्तरधीयत ।
रामः कृतार्थमात्मानममन्यत तथैव सः ॥ ६२॥
एवं मया समासेन शिवगीता समीरिता ।
एतां यः प्रजपेन्नित्यं शृणुयाद्वा समाहितः ॥ ६३॥
एकाग्रचित्तोयो मर्त्यस्तस्य मुक्तिः करे स्थिता ।
अतः शृणुध्वं मुनयो नित्यमेतां स्माहिताः ॥ ६४॥
अनायासेन वो मुक्तिर्भविता नात्र संशयः ।
कायक्लेशो मनःक्षोभो धनहानिर्न चात्मनः ॥ ६५॥
पीडास्ति श्रवणादेव यस्मात्कैवल्यमाप्नुयात् ।
शिवगीतामतो नित्यं शृणुध्वमृषिसत्तमाः ॥ ६६॥
ऋषय ऊचुः ॥
अद्यप्रभृति नः सूत त्वमाचार्यः पिता गुरुः ।
अविद्यायाः परं पारं यस्मात्तारयितासि नः ॥ ६७॥
उत्पादकब्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता ।
तस्मात्सूतात्मज त्वत्तः सत्यं नान्योऽस्ति नो गुरुः ॥ ६८॥
व्यास उवाच ॥
इत्युक्त्वा प्रययुः सर्वे सायंसंध्यामुपासितुम् ।
स्तुवन्तः सूतपुत्रं ते संतुष्टा गोमतीतटम् ॥ ६९॥
इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे
गीताधिकारिनिरूपणं नाम षोडशोऽध्यायः ॥ १६॥
॥ इति श्रीमच्छिवगीता समाप्ता ॥
॥ शृगालगीता ॥
भीष्मेण युधिष्ठिरम्प्रति इतरनिपेधपूर्वकं प्रज्ञायाः
सुखसाधनतायां प्रमाणतया सृगालकाश्यपसंवादानुवादः ॥ १॥
युधिष्ठिर उवाच । ०
बान्धवाः कर्म वित्तं वा प्रज्ञा वेह पितामह ।
नरस्य का प्रतिष्ठा स्यादेतत्पृष्टो वदस्व मे ॥ १॥
भीष्म उवाच । २
प्रज्ञा प्रतिष्ठा भूतानां प्रज्ञा लाभः परो मतः ।
प्रज्ञा निःश्रेयसी लोके प्रज्ञा स्वर्गो मतः सताम् ॥ २॥
प्रज्ञया प्रापितार्थो हि बलिरैश्वर्यसङ्क्षये ।
प्रह्लादो नमुचिर्मङ्किस्तस्याः किं विद्यते परम् ॥ ३॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
इन्द्रकाश्यपसंवादं तन्निबोध युधिष्ठिर ॥ ४॥
वैश्यः कश्चिदृषिसुतं काश्यपं संशितव्रतम् ।
रथेन पातयामास श्रीमान्दृप्तस्तपस्विनम् ॥ ५॥
आर्तः स पतितः क्रुद्धस्त्यक्त्वाऽऽत्मानमथाब्रवीत् ।
मरिष्याम्यधनस्येह जीवितार्थो न विद्यते ॥ ६॥
तथा मुमूर्षमासीनमकूजन्तमचेतसम् ।
इन्द्रः सृगालरूपेण बभाषे क्षुब्धमानसम् ॥ ७॥
मनुष्ययोनिमिच्छन्ति सर्वभूतानि सर्वशः ।
मनुष्यत्वे च विप्रत्वं सर्व एवाभिनन्दति ॥ ८॥
मनुष्यो ब्राह्मणश्चासि श्रोत्रियश्चासि काश्यप ।
सुदुर्लभमवाप्यैतन्न दोषान्मर्तुमर्हसि ॥ ९॥
सर्वे लाभाः साभिमाना इति सत्यवती श्रुतिः ।
सन्तोषणीयरूपोऽसि लोभाद्यदभिमन्यसे ॥ १०॥
अहो सिद्धार्थता तेषां येषां सन्तीह पाणयः ।
[अतीव स्पृहये तेषां येषां सन्तीह पाणयः ॥] ११॥
पाणिमद्भ्यः स्पृहाऽस्माकं यथा तव धनस्य वै ।
न पाणिलाभादधिको लाभः कश्चन विद्यते ॥ १२॥
अपाणित्वाद्वयं ब्रह्मन्कण्टकं नोद्धरामहे ।
जन्तूनुच्चावचानङ्गे दशतो न कषाम वा ॥ १३॥
अथ येषां पुनः पाणी देवदत्तौ दशाङ्गुली ।
उद्धरन्ति कृमीनङ्गाद्दशतो निकषन्ति च ॥ १४॥
वर्षाहिमातपानां च परित्राणानि कुर्वते ।
चेलमन्नं सुखं शय्यां निवातं चोपभुञ्जते ॥ १५॥
अधिष्ठाय च गां लोके भुञ्जते वाहयन्ति च ।
उपायैर्बहुभिश्चैव वश्यानात्मनि कुर्वते ॥ १६॥
ये खल्वजिह्वाः कृपणा अल्पप्राणा अपाणयः ।
सहन्ते तानि दुःखानि दिष्ट्या त्वं न तथा मुने ॥ १७॥
दिष्ट्या त्वं न शृगालो वै न कृमिर्न च मूषकः ।
न सर्पो न च मण्डूको न चान्यः पापयोनिजः ॥ १८॥
एतावताऽपि लाभेन तोष्टुमर्हसि काश्यप ।
किं पुनर्योसि सत्वानां सर्वेषां ब्राह्मणोत्तमः ॥ १९॥
इमे मां कृमयोऽदन्ति येषामुद्धरणाय वै ।
नास्ति शक्तिरपाणित्वात्पश्यावस्थामिमां मम ॥ २०॥
अकार्यमिति चैवेमं नात्मानं सन्त्यजाम्यहम् ।
नातः पापीयसीं योनिं पतेयमपरामिति ॥ २१॥
मध्ये वै पापयोनीनां सृगालीयामहं गतः ।
पापीयस्यो बहुतरा इतोऽन्याः पापयोनयः ॥ २२॥
जात्यैवैके सुखितराः सन्त्यन्ये भृशदुःखिताः ।
नैकान्तं सुखमेवेह क्वचित्पश्यामि कस्यचित् ॥ २३॥
मनुष्या ह्याढ्यतां प्राप्य राज्यमिच्छन्त्यनन्तरम् ।
राज्याद्देवत्वमिच्छन्ति देवत्वादिन्द्रतामपि ॥ २४॥
भवेस्त्वं यद्यपि त्वाढ्यो न राजा न च दैवतम् ।
देवत्वं प्राप्य चेन्द्रत्वं नैव तुष्येस्तथा सति ॥ २५॥
न तृप्तिः प्रियलाभेऽस्ति तृष्णा नाद्भिः प्रशाम्यति ।
सम्प्रज्वलति सा भूयः समिद्भिरिव पावकः ॥ २६॥
अस्त्येव त्वयि शोकोऽपि हर्षश्चापि तथा त्वयि ।
सुखदुःखे तथा चोभे तत्र का परिदेवना ॥ २७॥
परिच्छिद्यैव कामानां सर्वेषां चैव कर्मणाम् ।
मूलं बुद्धीन्द्रियग्रामं शकुन्तानिव पञ्जरे ॥ २८॥
न द्वितीयस्य शिरसश्छेदनं विद्यते क्वचित् ।
न च पाणेस्तृतीयस्य यन्नास्ति न ततो भयम् ॥ २९॥
न खल्वप्यरसज्ञस्य कामः क्वचन जायते ।
संस्पर्शाद्दर्शनाद्वापि श्रवणाद्वापि जायते ॥ ३०॥
न त्वं स्मरसि वारुण्या लट्वाकानां च पक्षिणाम् ।
ताभ्यां चाभ्यधिको भक्ष्यो न कश्चिद्विद्यते क्वचित् ॥ ३१॥
यानि चान्यानि भूतेषु भक्ष्यभोज्यानि काश्यप ।
येषामभुक्तपूर्वाणि तेषामस्मृतिरेव ते ॥ ३२॥
अप्राशनमसंस्पर्शमसन्दर्शनमेव च ।
पुरुषस्यैष नियमो मन्ये श्रेयो न संशयः ॥ ३३॥
पाणिमन्तो बलवन्तो धनवन्तो न संशयः ।
मनुष्या मानुषैरेव दासत्वमुपपादिताः ॥ ३४॥
वधबन्धपरिक्लेशैः क्लिश्यन्ते च पुनः पुनः ।
ते खल्वपि रमन्ते च मोदन्ते च हसन्ति च ॥ ३५॥
अपरे बाहुबलिनः कृतविद्या मनस्विनः ।
जुगुप्सितां च कृपणां पापवृत्तिमुपासते ॥ ३६॥
उत्सहन्ते च ते वृत्तिमन्यामप्युपसेवितुम् ।
स्वकर्मणा तु नियतं भवितव्यं तु तत्तथा ॥ ३७॥
न पुल्कसो न चण्डाल आत्मानं त्यक्तुमिच्छति ।
तया तुष्टः स्वया योन्या मायां पश्यस्व यादृशीम् ॥ ३८॥
दृष्ट्वा कुणीन्पक्षहतान्मनुष्यानामयाविनः ।
सुसम्पूर्णः स्वया योन्या लब्धलाभोसि काश्यप ॥ ३९॥
यदि ब्राह्मणदेहस्ते निरातङ्को निरामयः ।
अङ्गानि च समग्राणि न च लोकेषु धिक्कृतः ॥ ४०॥
न केनचित्प्रवादेन सत्येनैवापहारिणा ।
धर्मायोत्तिष्ठ विप्रर्षे नात्मानं त्यक्तुमर्हसि ॥ ४१॥
यदि ब्रह्मञ्शृणोष्येतच्छ्रद्दधासि च मे वचः ।
वेदोक्तस्यैव धर्मस्य फलं मुख्यमवाप्स्यसि ॥ ४२॥
स्वाध्यायमग्निसंस्कारमप्रमत्तोऽनुपालय ।
सत्यं दमं च दानं च स्पर्धिष्ठा मा च केनचित् ॥ ४३॥
ये केचन स्वध्ययनाः प्राप्ता यजनयाजनम् ।
कथं ते चानुशोचेयुर्ध्यायेयुर्वाऽप्यशोभनम् ॥ ४४॥
इच्छन्तस्ते विहाराय सुखं महदवाप्नुयुः ।
येऽनुजाताः सुनक्षत्रे सुतिथौ सुमुहूर्तके ।
यज्ञदानप्रजेहायां यतन्ते शक्तिपूर्वकम् ॥ ४५॥
नक्षत्रेष्वासुरेष्वन्ये दुस्तिथौ दुर्मुहूर्तजाः ।
सम्पतन्त्यासुरीं योनिं यज्ञप्रसववर्जिताः ॥ ४६॥
अहमासं पण्डितको हैतुको वेदनिन्दकः ।
आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थिकाम् ॥ ४७॥
हेतुवादान्प्रवदिता वक्ता संसत्सु हेतुमत् ।
आक्रोष्टा चातिवक्ता च ब्रह्मवाक्येषु च द्विजान् ॥ ४८॥
नास्तिकः सर्वशङ्की च मूर्खः पण्डितमानिकः ।
तस्येयं फलनिर्वृत्तिः सृगालत्वं मम द्विज ॥ ४९॥
अपि जातु तथा तत्स्यादहोरात्रशतैरपि ।
यदहं मानुषीं योनिं सृगालः प्राप्नुयां पुनः ॥ ५०॥
सन्तुष्टश्चाप्रमत्तश्च यज्ञदानतपोरतः ।
ज्ञेयं ज्ञाता भवेयं वै वर्ज्यं वर्जयिता तथा ॥ ५१॥
भीष्म उवाच । ५२
ततः स मुनिरुत्थाय काश्यपस्तमुवाच ह ।
अहो बतामि कुशलो बुद्धिमांश्चेति विस्मितः ॥ ५२॥
समवैक्षत तं विप्रो ज्ञानदीर्घेण चक्षुषा ।
ददर्श चैनं देवानां देवमिन्द्रं शचीपतिम् ॥ ५३॥
ततः सम्पूजयामास काश्यपो हरिवाहनम् ।
अनुज्ञातस्तु तेनाथ प्रविवेश स्वमालयम् ॥ ॥ ५४॥
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
अष्टसप्तत्यधिकशततमोऽध्यायः ॥ १७८॥
Mahabharata - Shanti Parva - Chapter Footnotes
५ रथेन रथघातेन । वैश्यः कश्चिदृषिं दान्तं इति
ट। पाठः ॥
६ आत्मानं धैर्यं त्यक्त्वा ॥
७ अकूजन्तं मूर्च्छया निःशब्दम् ॥
९ श्रोत्रियोऽधीतदेवः । दोषात् मौढ्यात् ॥
१० यत्सन्तोषणीयं रूपं त्वं स्वस्याऽभिमन्यसेऽवमन्यसे ॥
१३ न कषाम न नाशयाम्। १२-१७८-१४ निकषन्ति कण्डूयनेन। ।
१६ अधिष्ठायाध्यास्य । गां पृथिवीम्। बलीवर्दादि वा। आत्मनि
आत्मभोगनिमित्तम् ॥
१७ अल्पप्राणा अल्पबलाः ॥
२० अदन्ति दशन्ति ॥
२३ एके देवाद्याः । अन्ये पश्वाद्याः ॥
२५ यदि कदाचिद्भवेस्तथापि न तुष्येरिति योज्यम् ॥
२८ कामादीनां मूलं बुद्धीन्द्रियग्रामं शकुन्तानिव
शरीरपञ्चरे परिच्छिद्य निरुध्य स्थितस्य भयं नास्तीत्युत्तरेण
सम्बन्धः ॥
३१ वारुण्या मद्यस्य लट्वाख्यपक्षिमासस्य च । कर्मणि
षष्ठ्यौ। त्वं न स्मरसि ब्राह्मणत्वेन तव तद्रसग्रहाभावात् ॥
३२ येषां यान्यभुक्तपूर्वाणि ॥
३८ असन्तुष्टः स्वया वृत्त्या मायां प्रेक्षस्व यादृशीन् । इति
टड़।थ। पाठः ॥
३९ पक्षहतानर्धाङ्गवातादिना नष्टान् । आमयाविनोरोगाक्रान्तान् ॥
४१ प्रवादेन कलङ्केन । अपहारिणा जाविभ्रंशकरेण ॥
४५ विहाराय यथोचितेन यज्ञादिना विहर्तुम् ॥
४८ पण्डितकः कुत्सितः पण्डितः हेतुमदेव वक्ता न श्रुतिमत्
। आक्रोष्टापरुषवाक् ॥
४९ सर्वशङ्की स्वर्गादृष्टादिसद्भावेऽपि शङ्कावान् ॥
५४ हरिवाहनमिन्द्रम् ॥
॥ शौनकगीता ॥
॥ अथ शौनकगीता॥
शोकस्थानसहस्राणि भयस्थानशतानि च ।
दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥ १॥
न हि ज्ञानविरुद्धेषु बहुदोषेषु कर्मसु ।
श्रेयोघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥ २॥
अष्टाङ्गां बुद्धिमाहुर्या सर्वाश्रेयोविघातिनीम् ।
श्रुतिस्मृतिसमायुक्तां राजन्सा त्वय्यवस्थिता ॥ ३॥
अर्थकृच्छ्रेषु दुर्गेषु व्यापत्सु स्वजनस्य च ।
शारीर मानसैर्दुःखैर्नसीदन्ति भवद्विधाः ॥ ४॥
श्रूयतां चाभिधास्यामि जनकेन यथा पुरा ।
आत्मव्यवस्थानकरा गीताः श्लोका महात्मना ॥ ५॥
मनोदेहसमुत्थाभ्यां दुःखाभ्यां मर्दितं जगत् ।
तयोर्व्याससमासाभ्यां शमोपायमिमं श्रुणु ॥ ६॥
व्याधेरनिष्टसंस्पर्शाच्छ्रमादिष्टविवर्जनात् ।
दुःखं चतुर्भिः शारीरं कारणैः सम्प्रवर्तते ॥ ७॥
तदातत्प्रतिकाराच्च सततं चाविचिन्तनात् ।
आधिव्याधिप्रशमनं क्रियायोगद्वयेन तु ॥ ८॥
मतिमन्तो ह्यतो वैद्याः शमं प्रागेव कुर्वते ।
मानसस्य प्रियाख्यानैः संभोगोपनयैर्नृणाम् ॥ ९॥
मानसेनहि दुःखेन शरीरमुपतप्यते ।
अयस्तप्तेन पिण्डेन कुम्भसंस्थमिवोदकम् ॥ १०॥
मानसं शमयेत्तस्माज्ज्ञानेनाग्निमिवाम्बुना ।
प्रशान्ते मानसे ह्यस्य शारीरमुपशाम्यति ॥ ११॥
मनसो दुःखमूलं तु स्नेह इत्युपलभ्यते ।
स्नेहात्तु सज्जते जन्तुर्दुःखयोगमुपैति च ॥ १२॥
स्नेहमूलानि दुःखानि स्नेहजानि भयानि च ।
शोकहर्षौ तथायासः सर्वस्नेहात्प्रवर्तते ॥ १३॥
स्नेहाद्भावोऽनुरागश्च प्रजज्ञे विषये तथा ।
अश्रेयस्कावुभावेतौ पूर्वस्तत्र गुरुः स्मृतः ॥ १४॥
कोटराग्निर्यथाशेषं समूलं पादपं दहेत् ।
धर्मार्थौ तु तथाऽल्पोपि रागदोषो विनाशयेत् ॥ १५॥
विप्रयोगेन तु त्यागी दोषदर्शी समागमे ।
विरागं भजते जन्तुर्निर्वैरो निरवग्रहः ॥ १६॥
तस्मात्स्नेहं न लिप्सेत मित्रेभ्यो धनसंचयात् ।
स्वशरीरसमुत्थं च ज्ञानेन विनिवर्तयेत् ॥ १७॥
ज्ञानान्वितेषु युक्तेषु शास्त्रज्ञेषु कृतात्मसु ।
न तेषु सज्जते स्नेहः पद्मपत्रेष्विवोदकम् ॥ १८॥
रागाभिभूतः पुरुषः कामेन परिकृष्यते ।
इच्छा संजायते तस्य ततस्तृष्णा विवर्धते ॥ १९॥
तृष्णाहि सर्वपापिष्ठा नित्योद्वेगकरी स्मृता ।
अधर्मबहुला चैव घोरा पापानुबन्धिनी ॥ २०॥
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ।
योसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥ २१॥
अनाद्यन्ता हि सा तृष्णा अन्तर्देहगता नृणाम् ।
विनाशयति भूतानि अयोनिज इवानलः ॥ २२॥
यथैधः स्वसमुत्थेन वह्निना नाशमृच्छति ।
तथाऽकृतात्मा लोभेन सहजेन विनश्यति ॥ २३॥
राजतः सलिलादग्नेश्चोरतः स्वजनादपि ।
भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव ॥ २४॥
यथा ह्यामिषमाकाशे पक्षिभिः श्वापदैर्भुवि ।
भक्ष्यन्ते सलिले मत्स्यैस्तथा सर्वत्र वित्तवान् ॥ २५॥
अर्थ एव हि केषांचिदनर्थ भजते नृणाम् ।
अर्थ श्रेयसि चासक्तो न श्रेयो विन्दते नरः ॥ २६॥
तस्मादर्थागमाः सर्वे मनोमोहविवर्धनाः ।
कार्पण्यं दर्पमानौ च भयमुद्वेग एव च ॥ २७॥
अर्थजानिं विदुः प्राज्ञा दुःखन्येतानि देहिनाम् ।
अर्थस्योत्पादने चैव पालने च तथाक्षये ॥ २८॥
सहन्ति च महद्दुःखं घ्नन्ति चैवार्थकारणात् ।
अर्थाद्दुःखं परित्यक्तं पालिताश्चैव शत्रवः ॥ २९॥
दुःखेन चाधिगम्यन्ते तस्मान्नाशं न चिन्तयेत् ।
असन्तोषपरा मूढाः सन्तोषं यान्ति पण्डिताः ॥ ३०॥
अन्तो नास्ति पिपासायाः सन्तोषः परमं सुखम् ।
तस्मात्सन्तोषमेवेह परं पश्यन्ति पण्डिताः ॥ ३१॥
अनित्यं यौवनं रूपं जीवितं रत्नसंचयः ।
ऐश्वर्यं प्रियसंवासो गृद्ध्येत्तत्र न पण्डितः ॥ ३२॥
त्यजेत सञ्चयांस्तस्मात्तज्जान्क्लेशान् सहेत च ।
न हि सञ्चयवान्कश्चिद्दृश्यते निरुपद्रवः ।
अतश्च धार्मिकैः पुंभिरनीहार्थः प्रशस्यते ॥ ३३॥
धर्मार्थ यस्य वित्तेहा वरं तस्य निरीहता ।
प्रक्षालनाद्धि पङ्कस्य श्रेयो न स्पर्शनं नृणाम् ॥ ३४॥
युधिष्ठिरैवं सर्वेषु न स्पृहां कर्तुमर्हसि ।
धर्मेण यदिते कार्य विमुक्तेच्छो भवार्थतः ॥ ३५॥
॥ इति शौनकगीता समाप्ता ॥
श्रुतिगीता २
प्राकृताः श्रुतयः सर्वा भगवन्तमधोक्षजम् ।
स्तुवन्ति दोषनाशाय तत्राविष्टो भवेद्यथा ॥ १॥
सत्यो हरिः समस्तेषु भ्रमभातेष्वपि स्थिरः ।
अतः सन्तः समस्तार्थे कृष्णमेव विजानते ॥ २॥
कथानन्त्योक्तिहृदयाः साधनानि न कुर्वते ।
साक्षात्ते पादसंश्लिष्टास्ते किं वाच्या महाशयाः ॥ ३॥
कृष्ण एव सदा सेव्यो निर्णीतः पञ्चधा बुधैः ।
शरीरदः प्रेरकश्च सुखदः शेषसत्पदः ॥ ४॥
कर्मरूपं हरिं केचित्सेवन्ते योगरूपिणम् ।
तेभ्योऽप्यक्षररूपस्य सेवकाः सम्मताः सताम् ॥ ५॥
सर्वत्र भगवांस्तुत्यः सर्वदोषविवर्जितः ।
क्रीडार्थमनुकुर्वन्हि सर्वत्रैव विराजते ॥ ६॥
गुप्तानन्दा यतो जीवा निरानन्दं जगद्यतः ।
पूर्णानन्दो हरिस्तस्माञ्जीवैः सेव्यः सुखार्थिभिः ॥ ७॥
कृष्णे हरौ भगवति परमानन्दसागरः ।
वर्तते नात्र सन्देहः कथा तत्र नियामिका ॥ ८॥
असत्सङ्गो न कर्तव्यो भक्तिमार्गस्य बाधकः ।
देहे ह्यनुगुणे कृष्णे नेन्द्रियाणां प्रियं चरेत् ॥ ९॥
सर्व एव हरेर्भक्तास्तुल्या यान्मन्यते हरिः ।
अतः कृष्णो यथात्मीयान्मन्यते भजनं तथा ॥ १०॥
ज्ञानमार्गो भ्रान्तिमूलमतः कृष्णं भजेद्बुधः ।
प्रवर्तकं ज्ञानकाण्डं चित्तशुद्ध्यै यतो भवेत् ॥ ११॥
भ्रान्तिमूलतया सर्वसमयानामयुक्तितः ।
न तद्विरोधात्कृष्णाख्यं परं ब्रह्म त्यजेद्बुधः ॥ १२॥
जीवानां ब्रह्मरूपत्वाद्दोषा अपि च मानसाः ।
जगच्च सकलं ब्रह्य ततो दोषः कथं हरौ ॥ १३॥
सर्वथा सर्वतः शुद्धा भक्ता एव न चापरे ।
अतः शुद्धिमभीप्सद्भिस्सेव्या भक्ता न चापरे ॥ १४॥
सुवर्णप्रतिमावासौ सर्वानन्दमयोऽधिराट् ।
सर्वसेव्यो नियन्ता च निर्दुष्टः सर्वथैव हि ॥ १५॥
सर्वभावविनिर्मुक्तः पूर्णः क्रोडार्थमुद्गतः ।
निमित्तं तं समाश्रित्य जायन्ते जीवराशयः ॥ १६॥
नियन्ता जीवसङ्घस्य हरिस्तेनाणवो मताः ।
जीवा न व्यापकाः क्वापि चिन्मया ज्ञानिनो मताः ॥ १७॥
नामरूपप्रपञ्चं हि देवतिर्यङ्नरात्मकम् ।
कृष्णादेव समुद्भूतं लीनं तत्रैव तन्मयम् ॥ १८॥
नॄणां दुर्गतिमालोक्य ये सेवन्ते दृढव्रताः ।
कृष्णं तद्भ्रुकुटिः कालो न तान्हन्ति कदाचन ॥ १९॥
अदान्ते मनसि ज्ञानयोगार्थं न यतेद्बुधः ।
गुरुसेवापरो भूत्वा भक्तिमेव सदाभ्यसेत् ॥ २०॥
सर्वलोकोपकारार्थं कृष्णेन सहितास्तु ते ।
परिभ्रमन्ति लोकानां निस्ताराय महाशयाः ॥ २१॥
पुत्रादीन्सम्परित्यज्य कृष्णः सेव्यो न तैः सह ।
तत्सुखं भगवान्दाता ते तु क्लिष्टेऽतिदुःखदाः ॥ २२॥
परिभ्रमंस्तीर्थनिष्ठो गुरुलब्धहरिस्मृतिः ।
न सेवेत गृहान् दुष्टान् सद्धर्मात्यन्तनाशकान् ॥ २३॥
सद्बुद्ध्या सर्वथा सद्भिर्न सेव्यमखिलं जगत् ।
भ्रान्त्या सद्बुद्धिरत्रेति सन्तं कृष्णं भजेद्बुधः ॥ २४॥
खपुष्पादिसमत्वाद्धि मिथ्याभूतं जगद्यतः ।
अधिष्ठानाच्च सद्भानं तं कृष्णं नियतं भजेत् ॥ २५॥
कालादितृणपर्यन्ता न सेव्या मुक्तिमिच्छता ।
दोषत्याजनशक्तो हि सेव्यो दाता गणस्य च ॥ २६॥
जीवेषु भगवानात्मा सञ्च्छन्नस्तेन तत्र न ।
भजनं सर्वथा कार्यं ततोऽन्यत्रैव पूजयेत् ॥ २७॥
सुखसेवापरो यस्तु सदानन्दं हरिं भजेत् ।
अन्यथा सुखमप्रेप्सुः सर्वथा दुःखमाप्नुयात् ॥ २८॥
कृष्णानन्दः परानन्दो नान्यानन्दस्तथाविधः ।
वेदा अपि न तच्छक्ताः प्रतिपादयितुं स्वतः ॥ २९॥
इत्येव श्रुतिगीतायाः सङ्क्षेपेण निरूपितः ।
अर्थराशिसमुद्रो हि यथाङ्गुल्या निरूप्यते ॥ ३०॥
इति श्रीवल्लभाचार्यविरचिता श्रुतिगीता सम्पूर्णा ।
॥ श्रुतिगीता ॥
श्रुतयः ऊचुः ।
जय जय जह्यजामजित दोषगृभीतगुणां त्वमसि यदात्मना समवरुद्धसमस्तभगः ।
अगजगदोकसामखिलशक्त्यवबोधक ते क्वचिदजयात्मना च चरतोऽनुचरेन्निगमः ॥ १४॥
बृहदुपलब्धमेतदवयन्त्यवशेषतया यत उदयास्तमयौ विकृतेर्मृदि वाऽविकृतात् ।
अत ऋषयो दधुस्त्वयि मनोवचनाचरितं कथमयथा भवन्ति भुवि दत्तपदानि नृणाम् ॥ १५॥
इति तव सूरयस्त्र्यधिपतेऽखिललोकमलक्षणपणकथामृताब्धिमवगाह्य तपांसि जहुः ।
किमुत पुनः स्वधामविधुताशयकालगुणाः परम भजन्ति ये पदमजस्रसुखानुभवम् ॥ १६॥
दृतय इव श्वसन्त्यसुभृतो यदि तेऽनुविधा महदमायोऽण्डमसृजन्यदनुग्रहतः ।
पुरुषविधोऽन्वयोऽत्र चरमोऽन्नमयादिषु यः सदसतः परं त्वमथ यदेष्ववशेषमृतम् ॥ १७॥
उदरमुपासते य ऋषिवर्त्मसु कूर्पदृशः परिसरपद्धतिं हृदयमारुणयो दहरम् ।
तत उदगादनन्त तव धाम शिरः परमं पुनरिह यत्समेत्य न पतन्ति कृतान्तमुखे ॥ १८॥
स्वकृतविचित्रयोनिषु विशन्निव हेतुतया तरतमतश्चकास्स्यनलवत्स्वकृतानुकृतिः ।
अथ वितथास्वमूष्ववितथं तव धाम समं विरजधियोऽन्वयन्त्यभिविपण्यव एकरसम् ॥ १९॥
स्वकृतपुरेष्वमिष्वबहिरन्तरसंवरणं तव पुरुषं वदन्त्यखिलशक्तिधृतोंऽशकृतम् ।
इति नृगतिं विविच्य कवयो निगमापवनं भवत उपासतेऽङ्घ्रिमभवं भुवि विश्वसिताः ॥ २०॥
दुरवगमात्मतत्त्वनिगमाय तवात्ततनोश्चरितमहामृताब्धिपरिवर्तपरिश्रमणाः ।
न परिलषन्ति केचिदपवर्गमपीश्वर ते चरणसरोजहंसकुलसङ्गविसृष्टगृहाः ॥ २१॥
त्वदनुपथं कुलायमिदमात्मसुहृत्प्रियवच्चरति तथोन्मुखे त्वयि हिते प्रिय आत्मनि च ।
न बत रमन्त्यहो असदुपासनयात्महनो यदनुशया भ्रमन्त्युरुभये कुशरीरभृतः ॥ २२॥
निभृतमरुन्मनोक्षदृढयोगयुजो हृदि यन्मुनय उपासते तदरयोऽपि ययुः स्मरणात् ।
स्त्रिय उरगेन्द्रभोगभुजदण्डविषक्तधियो वयमपि ते समां समदृधोऽङ्घ्रिसरोजसुधाः ॥ २३॥
क इह नु वेद बतवरजन्मलयोऽग्रसरं यत उदगादृषिर्यमनु देवगणा उभये ।
तर्हि न सन्न चासदुभयं न च कालजवः किमपि न तत्र शास्त्रमवकृष्य शयीत यदा ॥ २४॥
जनिमसतः सतो मृतिमुतात्मनि ये वेद च भिदां विपणमृतं स्मरन्त्युपदिशन्ति त आरुपतैः ।
त्रिगुणमयः पुमानिति भिदा यदबोधकृता त्वयि न ततः परत्र स भवेदवबोधरसे ॥ २५॥
सदिव मनस्त्रिवृत्त्वयि विभात्यसदामनुजात्सदभिमृशन्त्यशेषमिदमात्मत्यात्मविदः ।
न हि विकृतिं त्यजन्ति कनकस्य तदात्मतया स्वकृतमनुप्रविष्टमिदमात्मतयाऽवसितम् ॥ २६॥
तव परि ये चरन्त्यखिलसत्त्वनिकेततया त उत पदाक्रमन्त्यविगणय्य शिरो निरृतेः ।
परिवयसे पशूनिव गिरा विबुधानपि तांस्त्वयि कृतसौहृदाः खलु पुनन्ति न ये विमुखाः ॥ २७॥
त्वमकरणः स्वराडखिलकारकशक्तिधरस्तव बलिमुद्वहन्ति समदन्त्यजयाऽनिमिषाः ।
वर्षभुजोऽखिलक्षितिपतेरिव विश्वसृजो विदधति यत्र ये त्वदधिकृता भवतश्चकिताः ॥ २८॥
स्थिरचरजातयः स्युरजयोथनिमित्तयुजो विहर उदीक्षया यदि परस्य विमुक्त ततः ।
न हि परमस्य कश्चिदपरो न परश्च भवेद्वियत इवापदस्य तव शून्यतुलां दधतः ॥ २९॥
अपरमिता ध्रुवास्तनुभृतो यदि सर्वगतास्तर्हि न शास्यतेति नियमो ध्रुव नेतरथा ।
अजनि च यन्मयं तद्विमुच्य नियन्तृ भवेत्सममनुजानतां यदमतं मतदृष्टतया ॥ ३०॥
न घटत उद्भवः प्रकृतिपूरुषयोर्जयोरुभययुजा भवन्त्यसुभृतो जलबुद्बुदवत् ।
त्वयि त इमे ततो विविधनामगुणैः परमे सरित इवार्णवे मधुनि लिल्युरुशेषरसाः ॥ ३१॥
नृषु तव मायया भ्रमममीष्ववगत्य भृशं त्वयि सुधियोऽभवे दधति भावमनुप्रभवम् ।
कथमनुवर्ततां भवभयं तव यद्भ्रुकुटिः सृजति मुहुस्त्रिणेमिरभवच्छरणेषु भयम् ॥ ३२॥
विजितहृषीकवायुभिरदान्तमनस्तुरगं य इह यतन्ति यन्तुमतिलोलमुपायखिदः ।
व्यसनशतान्विताः समवहाय गुरोश्चरणं वणिज इवाज सन्त्यकृतकर्णधरा जलधौ ॥ ३३॥
स्वजनसुतात्मदारधनधामधरासुरथैस्त्वयि सति किं नृणां श्रयत आत्मनि सर्वरसे ।
इति सदजानतां मिथुनतो रतये चरतां सुखयति को न्विह स्वविहते स्वनिरस्तभगे ॥ ३४॥
भुवि पुरुपुण्यतीर्थसदनान्यृषयो विमदास्त उत भवत्पदाम्बुजहृदोऽघभिदङ्घ्रिजलाः ।
दधति सुकृन्मनस्त्वयि य आत्मनि नित्यसुखे न पुनरुपासते पुरुषसारहरावसथान् ॥ ३५॥
सत इदमुत्थितं सदिति चेन्ननु तर्कहतं व्यभिचरति क्व च क्व च मृषा न तथोभययुक् ।
व्यवहृतये विकल्प इषितोऽन्धपरम्परया भ्रमयति भारति त उरुवृत्तिभिरुक्थजडान् ॥ ३६॥
न यदिदमग्र आस न भविष्यदतो निधनादनुमितमन्तरा त्वयि विभाति मृषैकरसे ।
अत उपमीयते द्रविणजातिविकल्पपथैर्वितथमनोविलासमृतमित्यवयन्त्यबुधाः ॥ ३७॥
स यदजया त्वजामनुशयित गुणांश्च जुषन्भजति स्वरूपतां तदनु मृत्युमपेतभगः ।
त्वमुत जहासि तामहिरिव त्वचमात्तभगो महसि महीयसेऽष्टगुणितेऽपरिमेयभग।ः ॥ ३८॥
यदि न समुद्धरन्ति यतयो हृदि कामजटा दुरधिगमोऽसतां हृदि गतोऽस्मृतकण्ठमणिः ।
असुतृपयोगिनामुभयतोऽप्यसुखं भगवन्ननपगतान्तकादनधिरूढपदाद्भवतः ॥ ३९॥
त्वदवगमी न वेत्ति भवदुत्थशुभयोर्गुणविगुणान्वयांस्तर्हि देहभृतां च गिरः ।
अनुयुगमन्वहं सगुण गीतपरम्परया श्रवणभृतो यतस्त्वमपवर्गगतिर्मनुजैः ॥ ४०॥
द्युपतय एव ते न ययुरन्तमनन्ततया त्वमपि यदन्ताऽण्डनिचया ननु सावरणाः ।
ख इव रजांसि वान्ति वयसा सह यच्छ्रुतयस्त्वयि हि फलन्त्यतान्निरसनेन भवनिधनाः ॥ ४१॥
॥ षड्जगीता ॥
अध्यायः १६१
व्
इत्युक्तवति भीष्मे तु तूष्णी भूते युधिष्ठिरः ।
पप्रच्छावसरं गत्वा भ्रातॄन्विदुर पञ्चमान् ॥ १॥
धर्मे चार्थे च कामे च लोकवृत्तिः समाहिता ।
तेषां गरीयान्कतमो मध्यमः को लघुश्च कः ॥ २॥
कस्मिंश्चात्मा नियन्तव्यस्त्रिवर्गविजयाय वै ।
सन्तुष्टा नैष्ठिकं वाक्यं यथावद्वक्तुमर्हथ ॥ ३॥
ततोऽर्थगतितत्त्वज्ञः प्रथमं प्रतिभानवान् ।
जगाद विरुदो वाक्यं धर्मशास्त्रमनुस्मरन् ॥ ४॥
बाहुश्रुत्यं तपस्त्यागः श्रद्धा यज्ञक्रिया क्षमा ।
भावशुद्धिर्दया सत्यं संयमश्चात्मसम्पदः ॥ ५॥
एतदेवाभिपद्यस्व मा ते भूच्चलितं मनः ।
एतन्मूलौ हि धर्मार्थावेतदेकपदं हितम् ॥ ६॥
धर्मेणैवर्षयस्तीर्णा धर्मे लोकाः प्रतिष्ठिताः ।
धर्मेण देवा दिविगा धर्मे चार्थः समाहितः ॥ ७॥
धर्मो राजन्गुणश्रेष्ठो मध्यमो ह्यर्थ उच्यते ।
कामो यवीयानिति च प्रवदन्ति मनीषिणः ।
तस्माद्धर्मप्रधानेन भवितव्यं यतात्मना ॥ ८॥
समाप्तवचने तस्मिन्नर्थशास्त्रविशारदः ।
पार्थो वाक्यार्थतत्त्वज्ञो जगौ वाक्यमतन्द्रितः ॥ ९॥
कर्मभूमिरियं राजन्निह वार्ता प्रशस्यते ।
कृषिवाणिज्य गोरक्ष्यं शिल्पानि विविधानि च ॥ १०॥
अर्थ इत्येव सर्वेषां कर्मणामव्यतिक्रमः ।
न ऋतेऽर्थेन वर्तेते धर्मकामाविति श्रुतिः ॥ ११॥
विजयी ह्यर्थवान्धर्ममाराधयितुमुत्तमम् ।
कामं च चरितुं शक्तो दुष्प्रापमकृतात्मभिः ॥ १२॥
अर्थस्यावयवावेतौ धर्मकामाविति श्रुतिः ।
अर्थसिद्ध्या हि निर्वृत्तावुभावेतौ भविष्यतः ॥ १३॥
उद्भूतार्थं हि पुरुषं विशिष्टतर योनयः ।
ब्रह्माणमिव भूतानि सततं पर्युपासते ॥ १४॥
जटाजिनधरा दान्ताः पङ्कदिग्धा जितेन्द्रियाः ।
मुण्डा निस्तन्तवश्चापि वसन्त्यर्थार्थिनः पृथक् ॥ १५॥
काषायवसनाश्चान्ये श्मश्रुला ह्रीसुसंवृताः ।
विद्वांसश्चैव शान्ताश्च मुक्ताः सर्वपरिग्रहैः ॥ १६॥
अर्थार्थिनः सन्ति के चिदपरे स्वर्गकाङ्क्षिणः ।
कुलप्रत्यागमाश्चैके स्वं स्वं मार्गमनुष्ठिताः ॥ १७॥
आस्तिका नास्तिकाश्चैव नियताः संयमे परे ।
अप्रज्ञानं तमो भूतं प्रज्ञानं तु प्रकाशता ॥ १८॥
भृत्यान्भोगैर्द्विषो दण्डैर्यो योजयति सोऽर्थवान् ।
एतन्मतिमतां श्रेष्ठ मतं मम यथातथम् ।
अनयोस्तु निबोध त्वं वचनं वाक्यकण्ठयोः ॥ १९॥
ततो धर्मार्थकुशलौ माद्रीपुत्रावनन्तरम् ।
नकुलः सहदेवश्च वाक्यं जगदतुः परम् ॥ २०॥
आसीनश्च शयानश्च विचरन्नपि च स्थितः ।
अर्थयोगं दृढं कुर्याद्योगैरुच्चावचैरपि ॥ २१॥
अस्मिंस्तु वै सुसंवृत्ते दुर्लभे परमप्रिय ।
इह कामानवाप्नोति प्रत्यक्षं नात्र संशयः ॥ २२॥
योऽर्थो धर्मेण संयुक्तो धर्मो यश्चार्थसंयुतः ।
मध्विवामृत संयुक्तं तस्मादेतौ मताविह ॥ २३॥
अनर्थस्य न कामोऽस्ति तथार्थोऽधर्मिणः कुतः ।
तस्मादुद्विजते लोको धर्मार्थाद्यो बहिष्कृतः ॥ २४॥
तस्माद्धर्मप्रधानेन साध्योऽर्थः संयतात्मना ।
विश्वस्तेषु च भूतेषु कल्पते सर्व एव हि ॥ २५॥
धर्मं समाचरेत्पूर्वं तथार्थं धर्मसंयुतम् ।
ततः कामं चरेत्पश्चात्सिद्धार्थस्य हि तत्फलम् ॥ २६॥
विरेमतुस्तु तद्वाक्यमुक्त्वा तावश्विनोः सुतौ ।
भीमसेनस्तदा वाक्यमिदं वक्तुं प्रचक्रमे ॥ २७॥
नाकामः कामयत्यर्थं नाकामो धर्ममिच्छति ।
नाकामः कामयानोऽस्ति तस्मात्कामो विशिष्यते ॥ २८॥
कामेन युक्ता ऋषयस्तपस्येव समाहिताः ।
पलाशफलमूलाशा वायुभक्षाः सुसंयताः ॥ २९॥
वेदोपवादेष्वपरे युक्ताः स्वाध्यायपारगाः ।
श्राद्धयज्ञक्रियायां च तथा दानप्रतिग्रहे ॥ ३०॥
वणिजः कर्षका गोपाः कारवः शिल्पिनस्तथा ।
दैवकर्म कृतश्चैव युक्ताः कामेन कर्मसु ॥ ३१॥
समुद्रं चाविशन्त्यन्ये नराः कामेन संयुताः ।
कामो हि विविधाकारः सर्वं कामेन सन्ततम् ॥ ३२॥
नास्ति नासीन्नाभविष्यद्भूतं कामात्मकात्परम् ।
एतत्सारं महाराज धर्मार्थावत्र संश्रितौ ॥ ३३॥
नव नीतं यथा दध्नस्तथा कामोऽर्थधर्मतः ।
श्रेयस्तैलं च पिण्याकाद्धृतं श्रेय उदश्वितः ॥ ३४॥
श्रेयः पुष्पफलं काष्ठात्कामो धर्मार्थयोर्वरः ।
पुष्पितो मध्विव रसः कामात्सञ्जायते सुखम् ॥ ३५॥
सुचारु वेषाभिरलङ्कृताभिर्
मदोत्कटाभिः प्रियवादिनीभिः ।
रमस्व योषाभिरुपेत्य कामं
कामो हि राजंस्तरसाभिपाती ॥ ३६॥
बुद्धिर्ममैषा परिषत्स्थितस्य
मा भूद्विचारस्तव धर्मपुत्र ।
स्यात्संहितं सद्भिरफल्गुसारं
समेत्य वाक्यं परमानृशंस्यम् ॥ ३७॥
धर्मार्थकामाः सममेव सेव्या
यस्त्वेकसेवी स नरो जघन्यः ।
द्वयोस्तु दक्षं प्रवदन्ति मध्यं
स उत्तमो यो निरतिस्त्रिवर्गे ॥ ३८॥
प्राज्ञः सुहृच्चन्दनसारलिप्तो
विचित्रमाल्याभरणैरुपेतः ।
ततो वचः सङ्ग्रहविग्रहेण
प्रोक्त्वा यवीयान्विरराम भीमः ॥ ३९॥
ततो मुहूर्तादथ धर्मराजो
वाक्यानि तेषाम् अनुचिन्त्य सम्यक् ।
उवाच वाचावितथं स्मयन्वै
बहुश्रुतो धर्मभृतां वरिष्ठः ॥ ४०॥
निःसंशयं निश्चित धर्मशास्त्राः
सर्वे भवन्तो विदितप्रमाणाः ।
विज्ञातु कामस्य ममेह वाक्यम्
उक्तं यद्वै नैष्ठिकं तच्छ्रुतं मे ।
इह त्ववश्यं गदतो ममापि
वाक्यं निबोधध्वमनन्यभावाः ॥ ४१॥
यो वै न पापे निरतो न पुण्ये
नार्थे न धर्मे मनुजो न कामे ।
विमुक्तदोषः समलोष्ट काञ्चनः
स मुच्यते दुःखसुखार्थ सिद्धेः ॥ ४२॥
भूतानि जाती मरणान्वितानि
जरा विकारैश्च समन्वितानि ।
भूयश्च तैस्तैः प्रतिबोधितानि
मोक्षं प्रशंसन्ति न तं च विद्मः ॥ ४३॥
स्नेहे न बुद्धस्य न सन्ति तानीत्य्
एवं स्वयम्भूर्भगवानुवाच ।
बुधाश्च निर्वाणपरा वदन्ति
तस्मान्न कुर्यात्प्रियमप्रियं च ॥ ४४॥
एतत्प्रधानं न तु कामकारो
यथा नियुक्तोऽस्मि तथा चरामि ।
भूतानि सर्वाणि विधिर्नियुङ्क्ते
विधिर्बलीयानिति वित्तसर्वे ॥ ४५॥
न कर्मणाप्नोत्यनवाप्यमर्थं
यद्भावि सर्वं भवतीति वित्त ।
त्रिवर्गहीनोऽपि हि विन्दतेऽर्थं
तस्मादिदं लोकहिताय गुह्यम् ॥ ४६॥
ततस्तदग्र्यं वचनं मनोऽनुगं
समस्तमाज्ञाय ततोऽतिहेतुमत् ।
तदा प्रणेदुश्च जहर्षिरे च ते
कुरुप्रवीराय च चक्रुरञ्जलीन् ॥ ४७॥
सुचारु वर्णाक्षर शब्दभूषितां
मनोऽनुगां निर्धुत वाक्यकण्टकाम् ।
निशम्य तां पार्थिव पार्थ भाषितां
गिरं नरेन्द्राः प्रशशंसुरेव ते ।
पुनश्च पप्रच्छ सरिद्वरासुतं
ततः परं धर्ममहीन सत्त्वः ॥ ४८॥
॥ इति षड्जगीता समाप्ता ॥
श्रीसरस्वतीगीता
॥ अथ सरस्वतीगीता ॥
मार्कण्डेय उवाच -
अत्रैव च सरस्वत्या गीतं परपुरञ्जय ।
पृष्टा या मुनिना वीर शृणु तार्क्ष्येण धीमता ॥ १॥
तार्क्ष्य उवाच -
किनु श्रेयः पुरुषस्येह भद्रे कथं कुर्वन्न च्यवते स्वधर्मात् ।
आचक्ष्व मे चारुसर्वांगि कुर्यात्वयाशिष्टो न च्यवेयं स्वधर्मात् ॥ २॥
कथं वाग्निं जुहुयां पूजये वा कस्मिन्काले केन धर्मो न नश्येत् ।
एतत्सर्व सुभगे प्रब्रवीहि यथा लोकान् विरजाः संचरेयम् ॥ ३॥
मार्कण्डेय उवाच -
एवं पृष्टा प्रीतियुक्तेन तेन शुश्रूमीक्ष्योत्तमबुद्धियुक्तम् ।
तार्क्ष्यं विप्रं धर्मयुक्तं हितं च सरस्वती वाक्यमिदं बभाषे ॥ ४॥
सरस्वत्युवाच -
यो ब्रह्म जानाति यथाप्रदेशं स्वाध्यायनित्यः सुचिरप्रमत्तः ।
स वै पारं देवलोकस्य गन्ता सहामरैः प्राप्नुयात्प्रीतियोगम् ॥ ५॥
तत्र स्म रम्याविपुला विशोकाः सुपुष्पिताः पुष्करिण्यः सुपुण्याः ।
अकर्दमामीनवत्यः सुतीर्था हिरण्मयैरावृताः पुण्डरीकैः ॥ ६॥
तासां तीरेष्वासते पुण्यभाजो महीयमानाः पृथगप्सरोभिः ।
सुपुण्यगन्धाभिरलंकृताभिर्हिरण्यवर्णाभिरतीव दृष्टाः ॥ ७॥
परं लोकं गोप्रदास्त्वाप्नुवन्ति दत्वानडुहं सूर्यलोकं व्रजन्ति ।
वासो दत्वा चान्द्रमसं तु लोकं दत्वा हिरण्यममरत्वमेति ॥ ८॥
धेनुं दत्वा सुप्रभां सुप्रदोहां कल्याणवत्सामपलायिनीं च ।
यावन्ति रोमाणि भवन्ति तस्यास्तावद्वर्षाण्यासते देवलोके ॥ ९॥
अनड्वाहं सुव्रतं यो ददाति हलस्य वोढारमनन्तवीर्यम् ।
धुरन्धरं बलवन्तं युद्मनं प्राप्नोति लोकान्दशधेनुदस्य ॥ १०॥
ददाति यो वै कपिलां सचैलां कांस्योपदोहां द्रविणैरुत्तरीयै ।
तैस्तैर्गुणैः कामदुहाथ भूत्वा नरं प्रदातारमुपैति सा गौः ॥ ११॥
यावन्ति रोमाणि भवन्ति धेन्वास्तावत्फलं भवति गोप्रदाने ।
पुत्रांश्च पौत्रांश्च कुलं च सर्वमासप्तमं तारयते परत्र ॥ १२॥
सदक्षिणां कांचनचारुशृङ्गीं कांस्योपदोहां द्रविणैरुत्तरीयैः ।
धेनुं तिलानां ददतो द्विजाय लोका वसूनां सुलभा भवन्ति ॥ १३॥
स्वकर्मभिर्दानवसंनिरुद्धे तीव्रान्धकारे नरके पतन्तम् ।
महार्णवे नौरिव वातयुक्ता दानं गवां तारयते परत्र ॥ १४॥
यो ब्राह्मदेयां तु ददाति कन्यां भूमिप्रदानं च करोति विप्रे ।
ददाति दानं विधिना च यश्च स लोकमाप्नोति पुरन्दरस्य ॥ १५॥
यः सप्तवर्षाणि जुहोति तार्क्ष्य हव्यं त्वग्नौ नियतः साधुशील ।
सप्तावरान्सप्तपूर्वान्पुनाति पितामहानात्मना कर्मभिः स्वैः ॥ १६॥
तार्क्ष्य उवाच -
किमग्निहोत्रस्य व्रतं पुराणमाचक्ष्व मे पृच्छतश्चानुरूपे ।
त्वयानुशिष्टोहमिहाद्य विद्यां यदग्निहोत्रस्य व्रतं पुराणम् ॥ १७॥
सरस्वती उवाच -
न वाशुचिर्नाप्यनिर्णिक्य पाणिर्नाब्रह्मविज्जुहुयान्नाविपश्चित् ।
बुभुत्सवः शुचिकामा हि देवा नाश्रद्दधानाद्धिहविर्जुहन्ति ॥ १८॥
नाश्रोत्रियं देवहव्ये नियुंज्यान्मोघं पुरा सिंचति तादृशो हि ।
अपूर्वमश्रोत्रियमाह तार्क्ष्य न वै तादृग्जुहुयादग्निहोत्रम् ॥ १९॥
कृशाश्च ये जुह्वति श्रद्दधानाः सत्यव्रता हुतशिष्टाशिनश्च ।
गवां लोकं प्राप्य ते पुण्यगन्धं पश्यन्ति देवं परमं चापि सत्यम् ॥ २०॥
तार्क्ष्य उवाच -
क्षेत्रज्ञभूतां परलोकभावे कर्मोदये बुद्धिमति प्रविष्टाम् ।
प्रज्ञां च देवीं सुभगे विमृश्य पृच्छामि त्वां काह्यसि चारुरूपे ॥ २१॥
सरस्वत्युवाच -
अग्निहोत्रादहमभ्यागतास्मि विसर्पमाणा संशयच्छेदनाय ।
त्वत्सन्नियोगादहमेतदब्रुबं भावे स्थिता तथ्यमर्थं यथावत् ॥ २२॥
तार्क्ष्य उवाच -
न हि त्वया सदृशी काचिदस्ति विभ्राजसे ह्यतिमात्रं यथा श्रीः ।
रूपं च ते दिव्यमनन्तकान्ति प्रज्ञां च देवीं सुभगे बिभर्षि ॥ २३॥
सरस्वत्युवाच -
श्रेष्ठानि यानि द्विपदां वरिष्ठ यज्ञेषु विद्वन्नुपपादयन्ति ।
तैरेव चाहं सम्प्रवृद्धा भवामि चाप्यायिता रूपवती च विप्र ॥ २४॥
यच्चापि द्रव्यमुपयुज्यतेह वानस्पत्यमायसम्पार्थिवं वा ।
दिव्येन रूपेण च प्रज्ञया च तवैव सिद्धिरिति विद्धि विद्वन् ॥ २५॥
तार्क्ष्य उवाच -
इदं श्रेयः परमं मन्यमाना व्यापृच्छन्ते मुनयः सम्प्रतीताः ।
आचक्ष्व मे तं परमं विशोकं मोक्षं परं यं प्रविशन्ति धीराः ।
सांख्यं योगाः परमं यं विदन्ति परं पुराणं तमहं न वेद्मि ॥ २६॥
सरस्वत्युवाच -
तं वै परं वेदविदः प्रपन्नाः परं परेभ्यः प्रथितं पुराणम् ।
स्वाध्यायवन्तो व्रतपुण्ययोगैस्तपोधना वीतशोका विमुक्ताः ॥ २७॥
तस्याथ मध्ये चेतसः पुण्यगन्धाः सहस्र शाखा विपुला विभान्ति ।
तस्य मूलात्सरितः प्रस्रवन्ति मधूदकप्रस्रवणाः सुपुण्याः ॥ २८॥
शाखां शाखां महानद्यः संयान्ति सिकताशयाः ।
धानाः पूपा मांसशाका सदा पायसकर्दमाः ॥ २९॥
यस्मिन्नग्निमुखा देवाः सेन्द्राः सहमरुद्गणाः ।
ईजिरे क्रतुभिः श्रेष्ठैस्तत्पदं परमं मम ॥ ३०॥
इति सरस्वतीगीता समाप्ता॥
॥ सिद्धगीता ॥
अस्त्यस्तमितसर्वापदुद्यत्सम्पदुदारधीः ।
विदेहानां महीपालो जनको नाम वीर्यवान् ॥ १॥
कल्पवृक्षोऽर्थिसार्थानां मित्रालानां दिवाकरः ।
माधवो बन्धुपुष्पाणां स्त्रीणां मकरकेतनः ॥ २॥
द्विजकैरवशीतांशुर्द्विषत्तिमिरभास्करः ।
सौजन्यरत्नजलधिर्भुवं विष्णुरिवास्थितः ॥ ३॥
प्रफुल्लबाललतिके मञ्जरीपुञ्जपिञ्जिरे ।
स कदाचिन्मधौ मत्ते कोकिलालापलासिनि ॥ ४॥
ययौ कुसुमिताभोगं सुविलासलताङ्गनम् ।
लीलयोपवनं कान्तं नन्दनं वासवो यथा ॥ ५॥
तस्मिन्वरवने हृद्ये केसरोद्दाममारुते ।
दूरस्थानुचरः सानुकुञ्जेषु विचचार ह ॥ ६॥
अथ शुश्राव कस्मिंश्चित्तमालवनगुल्मके ।
सिद्धानामप्रदृश्यानां स्वप्रसङ्गादुदाहृताः ॥ ७॥
विविक्तवासिनां नित्यं शैलकन्दरचारिणाम् ।
इमाः कमलपत्राक्ष गीता गीतात्मभावनाः ॥ ८॥
सिद्धा ऊचुः ।
द्रष्टुदृश्यसमायोगात्प्रत्ययानन्दनिश्चयः ।
यस्तं स्वमात्मतत्त्वोत्थं निःस्पन्दं समुपास्महे ॥ ९॥
अन्ये ऊचुः ।
द्रष्टृदर्शनदृश्यानि त्यक्त्वा वासनया सह ।
दर्शनप्रथमाभासमात्मानं समुपास्महे ॥ १०॥
अन्ये ऊचुः ।
द्वयोर्मध्यगतं नित्यमस्तिनास्तीति पक्षयोः ।
प्रकाशनं प्रकाश्यानामात्मानं समुपास्महे ॥ ११॥
अन्ये ऊचुः ।
यस्मिन्सर्वं यस्य सर्वं यतः सर्वं यस्मायिदम् ।
येन सर्वं यद्धि सर्वं तत्सत्यं समुपास्महे ॥ १२॥
अन्ये ऊचुः ।
अशिरस्कं हकारान्तमशेषाकारसंस्थितम् ।
अजस्रमुच्चरन्तं स्वं तमात्मानमुपास्महे ॥ १३॥
अन्ये ऊचुः ।
सन्त्यज्य हृद्गुहेशानं देवमन्यं प्रयान्ति ये ।
ते रत्नमभिवाञ्छन्ति त्यक्तहस्तस्थकौस्तुभाः ॥ १४॥
अन्ये ऊचुः ।
सर्वाशाः किल सन्त्यज्य फलमेतदवाप्यते ।
येनाशाविषवल्लीनां मूलमाला विलूयते ॥ १५॥
अन्ये ऊचुः ।
बुद्ध्वाप्यत्यन्तवैरस्यं यः पदार्थेषु दुर्मतिः ।
बध्नाति भावनां भूयो नरो नासौ स गर्दभः ॥ १६॥
अन्ये ऊचुः ।
उत्थितानुत्थितानेतानिन्द्रियाहीन्पुनः पुनः ।
हन्याद्विवेकदण्डेन वज्रेणेव हरिर्गिरीन् ॥ १७॥
अन्ये ऊचुः ।
उपशमसुखमाहरेत्पवित्रं
सुशमवतः शममेति साधुचेतः ।
प्रशमितमनसः स्वके स्वरूपे
भवति सुखे स्थितिरुत्तमा चिराय ॥ १८॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये देवदूतोक्ते
मोक्षोपायेषूपशमप्रकरणे सिद्धगीतानामाष्टमः सर्गः ॥ ८॥
सूतगीता
श्रीमत्सूतसंहितायां । चतुर्थस्य यज्ञवैभवखण्डस्योपरिभागे
सूतगीताप्रारम्भः ।
प्रथमोऽध्यायः । १. सूतगीतिः । १-२८
द्वितीयोऽध्यायः । २. आत्मना सृष्टिकथनम् । १-८०
तृतीयोऽध्यायः । ३. सामान्यसृष्टिकथनम् । १-६५
चतुर्थोऽध्यायः । ४. विशेषसृष्टिकथनम् । १-४९
पञ्चमोऽध्यायः । ५. आत्मस्वरूपकथनम् । १-७४
षष्ठोऽध्यायः । ६. सर्वशास्त्रार्थसङ्ग्रहवर्णनम् । १-३७
सप्तमोऽध्यायः । ७. रहस्यविचारः । १-३४
अष्टमोऽध्यायः । ८. सर्ववेदान्तसङ्ग्रहः ॥ १-९१
Total chapters 8 versess 458
अथ प्रथमोऽध्यायः ।
१. सूतगीतिः ।
ऐश्वरं परमानन्दमनन्तं सत्यचिद्घनम् ।
आत्मत्वेनैव पश्यन्तं निस्तरङ्गसमुद्रवत् ॥ १॥
निर्विकल्पं सुसम्पूर्णं सुप्रसन्नं शुचिस्मितम् ।
भासयन्तं जगद्भासा भानुमन्तमिवापरम् ॥ २॥
प्रणम्य मुनयः सूतं दण्डवत्पृथिवीतले ।
कृतञ्जलिपुटा भूत्वा तुष्टुवुः परया मुदा ॥ ३॥
नमस्ते भगवन् शम्भुप्रसादावाप्तवेदन ।
नमस्ते भगवन् शम्भुचरणाम्भोजवल्लभ ॥ ४॥
नमस्ते शम्भुभक्तानामग्रगण्य समाहित ।
नमस्ते शम्भुभक्तानामतीव हितबोधक ॥ ५॥
नमस्ते वेदवेदान्तपद्मखण्डदिवाकर ।
व्यासविज्ञानदीपस्य वर्तिभूताय ते नमः ॥ ६॥
पुराणमुक्तामालायाः सूत्रभूताय ते नमः ।
अस्माकं भववृक्षस्य कुठाराय नमोऽस्तु ते ॥ ७॥
कृपासागर सर्वेषां हितप्रद नमोऽस्तु ते ।
नमोऽविज्ञातदोषाय नमो ज्ञानगुणाय ते ॥ ८॥
मातृभूताय मर्त्यानां व्यासशिष्याय ते नमः ।
धर्मिष्ठाय नमस्तुभ्यं ब्रह्मनिष्ठाय ते नमः ॥ ९॥
समाय सर्वजन्तूनां सारभूताय ते नमः ।
साक्षात्सत्यपराणां तु सत्यभूताय ते नमः ॥ १०॥
नमो नमो नमस्तुभ्यं पुनर्भूयो नमो नमः ।
अस्माकं गुरवे साक्षान्नमः स्वात्मप्रदायिने ॥ ११॥
एवं गोत्रर्षयः स्तुत्वा सूतं सर्वहितप्रदम् ।
प्रश्नं प्रचक्रिरे सर्वे सर्वलोकहितैषिणः ॥ १२॥
सोऽपि सूतः स्वतः सिद्धः स्वरूपानुभवात्परात् ।
उत्थाय स्वगुरुं व्यासं दध्यौ सर्वहिते रतम् ॥ १३॥
अस्मिन्नवसरे व्यासः साक्षात्सत्यवतीसुतः ।
भस्मोद्धूलितसर्वाङ्गस्त्रिपुण्ड्राङ्कितमस्तकः ॥ १४॥
कृष्णाजिनी सोत्तरीय आषाढेन विराजितः ।
रुद्राक्षमालाभरणस्तत्रैवाविरभूत्स्वयम् ॥ १५॥
तं दृष्ट्वा देशिकेन्द्राणां देशिकं करुणाकरम् ।
सूतः सत्यवतीसूनुं स्वशिष्यैः सह सत्तमैः ॥ १६॥
प्रणम्य दण्डवद्भूमौ प्रसन्नेन्द्रियमानसः ।
यथार्हं पूजयामास दत्त्वा चाऽऽसनमुत्तमम् ॥ १७॥
भद्रमस्तु सुसम्पूर्णं सूत शिष्य ममाऽऽस्तिक ।
तवैषामपि किं कार्यं मया तद्ब्रूहि मेऽनघ ॥ १९॥
एवं व्यासवचः श्रुत्वा सूतः पौराणिकोत्तमः ।
उवाच मधुरं वाक्यं लोकानां हितमुत्तमम् ॥ २०॥
सूत उवाच -
इमे हि मुनयः शुद्धाः सत्यधर्मपरायणाः ।
मद्गीताश्रवणे चैषामस्ति श्रद्धा महत्तरा ॥ २१॥
भवत्प्रसादे सत्येव शक्यते सा विभाषितुम् ।
यदि प्रसन्नो भगवन् वदेत्याज्ञापयाद्य माम् ॥ २२॥
इति सूतवचः श्रुत्वा भगवान् करुणानिधिः ।
त्वदीयामद्य तां गीतां वदैषामर्थिनां शुभाम् ॥ २३॥
इत्युक्त्वा शिष्यमालिङ्ग्य हृदयं तस्य संस्पृशन् ।
साम्बं सर्वेश्वरं ध्यात्वा निरीक्ष्यैनं कृपाबलात् ॥ २४॥
स्थापयित्वा महादेवं हृदये तस्य सुस्थिरम् ।
तस्य मूर्धानमाघ्राय भगवानगमद्गुरुः ॥ २५॥
सोऽपि सूतः पुनः साम्बं ध्यात्वा देवं त्र्यम्बकम् ।
प्रणम्य दण्डवद्भूमौ स्मृत्वा व्यासं च सद्गुरुम् ॥ २६॥
कृताञ्जलिपुटो भूत्वा मन्त्रमाद्यं षडक्षरम् ।
जपित्वा श्रद्धया सार्धं निरीक्ष्य मुनिपुङ्गवन् ॥ २७॥
कृतप्रणामो मुनिभिः स्वगीतामतिनिर्मलाम् ।
वक्तुमारभते सूत सर्वलोकहिते रतः ॥ २८॥
॥ इति श्रीसूतसंहितायां यज्ञवैभवखण्डस्योपरिभागे
सूतगीतायां सूतगीतिर्नाम प्रथमोऽध्यायः ॥ १ ॥
अथ द्वितीयोऽध्यायः ॥
२. आत्मना सृष्टिकथनम् ।
सूत उवाच -
श्रुणुत ब्रह्मविच्छ्रेष्ठा भाग्यवन्तः समाहिताः ।
वक्ष्यामि परमं गुह्यं विज्ञानं वेदसंमतम् ॥ १॥
अस्ति कश्चित्स्वत सिद्धः सत्यज्ञानसुखाद्वयः ।
विश्वस्य जगतः कर्ता पशुपाशविलक्षणः ॥ २॥
आकाशादीनि भूतानि पञ्च तेषां प्रकीर्तिताः ।
गुणाः शब्दादयः पञ्च पञ्च कर्मेन्द्रियाणि च ॥ ३॥
ज्ञानेन्द्रियाणि पञ्चैव प्राणाद्या दश वायवः ।
मनो बुद्धिरहङ्कारश्चित्तं चेति चतुष्टयम् ॥ ४॥
तेषां कारणभूतैकाऽविद्या षट्त्रिंशकः पशुः ।
विश्वस्य जगतः कर्ता पशोरन्यः परः शिवः ॥ ५॥
आत्मानः पशवः सर्वे प्रोक्ता अज्ञानिनः सदा ।
अज्ञानमात्मनामेषामनाद्येव स्वभावतः ॥ ६॥
संसारबीजमज्ञानं संसार्यज्ञः पुमान्यतः ।
ज्ञानात्तस्य निवृत्तिः स्यात्प्रकाशात्तमसो यथा ॥ ७॥
अज्ञानाकारभेदेनाविद्याख्येनैव केवलम् ।
पशूनामात्मनां भेदः कल्पितो न स्वभावतः ॥ ८॥
अज्ञानाकारभेदेन मायाख्येनैव केवलम् ।
विभागः कल्पितो विप्राः परमातत्वलक्षणः ॥ ९॥
घटाकाशमहाकाशविभागः कल्पितो यथा ।
तथैव कल्पितो भेदो जीवात्मपरमात्मनोः ॥ १०॥
यथा जीवबहुत्वं तु कल्पितं मुनिपुङ्गवाः ।
तथा परबहुत्वं च कल्पितं न स्वभावतः ॥ १०॥
यथोच्चावचभावस्तु जीवभेदे तु कल्पितः ।
तथोच्चावचभावश्च परभेदे च कल्पितः ॥ १२॥
देहेन्द्रियादिसङ्घातवासनाभेदभेदिता ।
अविद्या जीवभेदस्य हेतुर्नान्यः प्रकीर्तितः ॥ १३॥
गुणानां वासनाभेदभेदिता या द्विजर्षभाः ।
माया सा परभेदस्य हेतुर्नान्यः प्रकीर्तितः ॥ १४॥
यस्य मायागतं सत्त्वं शरीरं स्यात्तमोगुणः ।
संहाराय त्रिमूर्तीनां स रुद्रः स्यान्न चापरः ॥ १५॥
तथा यस्य तमः साक्षाच्छरीरं सात्त्विको गुणः ।
पालनाय त्रिमूर्तीनां स विष्णुः स्यान्न चापरः ॥ १६॥
रजो यस्य शरीरं स्यात्तदेवोत्पादनाय च ।
त्रिमूर्तीनां स वै ब्रह्मा भवेद्विप्रा न चापरः ॥ १७॥
रुद्रस्य विग्रहं शुक्लं कृष्णं विष्णोश्च विग्रहम् ।
ब्रह्मणो विग्रहं रक्तं चिन्तयेद्भुक्तिमुक्तये ॥ १८॥
शौक्ल्यं सत्त्वगुणाज्जातं रागो जातो रजोगुणात् ।
कार्ष्ण्यं तमोगुणाज्जातमिति विद्यात्समासतः ॥ १९॥
परतत्त्वैकताबुद्ध्या ब्रह्माणं विष्णुमीश्वरम् ।
परतत्त्वतया वेदा वदन्ति स्मृतयोऽपि च ॥ २०॥
पुराणानि समस्तानि भारतप्रमुखान्यपि ।
परतत्त्वैकताबुद्ध्या तात्पर्यं प्रवदन्ति च ॥ २१॥
ब्रह्मविष्ण्वादिरूपेण केवलं मुनिपुङ्गवाः ।
ब्रह्मविष्ण्वादयस्त्वेव न परं तत्त्वमास्तिकाः ॥ २२॥
तथाऽपि रुद्रः सर्वेषामुत्कृष्टः परिकीर्तितः ।
स्वशरीरतया यस्मान्मनुते सत्त्वमुत्तमम् ॥ २३॥
रजसस्तमसः सत्त्वमुत्कृष्टं हि द्विजोत्तमाः ।
सत्त्वात्सुखं च ज्ञानं च यत्किञ्चिदपरं परम् ॥ २४॥
परतत्त्वप्रकाशस्तु रुद्र्स्यैव महत्तरः ।
ब्रह्मविष्ण्वादिदेवानां न तथा मुनिपुङ्गवाः ॥ २५॥
परतत्त्वतया रुद्रः स्वात्मानं मनुते भृशम् ।
परतत्त्वप्रकाशेन न तथा देवतान्तरम् ॥ २६॥
हरिब्रह्मादिरूपेण स्वात्मानं मनुते भृशम् ।
हरिब्रह्मादयो देवा न तथा रुद्रमास्तिकाः ॥ २७॥
रुद्रः कथंचित्कार्यार्थं मनुते रुद्ररूपतः ।
न तथा देवताः सर्वा ब्रह्मस्फूर्त्यल्पताबलात् ॥ २८॥
ब्रह्मविष्ण्वादयो देवाः स्वात्मानं मन्वतेऽञ्जसा ।
न कश्चित्तत्त्वरूपेण न तथा रुद्र आस्तिकाः ॥ २९॥
ब्रह्मविष्ण्वादयो देवाः स्वात्मानं मन्वतेऽञ्जसा ।
कथंचित्तत्त्वरूपेण न तथा रुद्र आस्तिकाः ॥ ३०॥
तत्त्वबुद्धिः स्वतःसिद्धा रुद्रस्यास्य तपोधनाः ।
हरिब्रह्मादिबुद्धिस्तु तेषां स्वाभाविकी मता ॥ ३१॥
हरिब्रह्मादिदेवान्ये पूजयन्ति यथाबलम् ।
अचिरान्न परप्राप्तिस्तेषामस्ति क्रमेण हि ॥ ३२॥
रुद्रं ये वेदविच्छ्रेष्ठाः पूजयन्ति यथाबलम् ।
तेषामस्ति परप्राप्तिरचिरान्न क्रमेण तु ॥ ३३॥
रुद्राकारतया रुद्रो वरिष्ठो देवतान्तरात् ।
इति निश्चयबुद्धिस्तु नराणां मुक्तिदायिनी ॥ ३४॥
गुणाभिमानिनो रुद्राद्धरिब्रह्मादिदेवताः ।
वरिष्ठा इति बुद्धिस्तु सत्यं संसारकारणम् ॥ ३५॥
परतत्त्वादपि श्रेष्ठो रुद्रो विष्णुः पितामहः ।
इति निश्चयबुद्धिस्तु सत्यं संसारकारणम् ॥ ३६॥
रुद्रो विष्णुः प्रजानाथः स्वराट्सम्राट्पुरन्दरः ।
परतत्त्वमिति ज्ञानं नराणां मुक्तिकारणम् ॥ ३७॥
अमात्ये राजबुद्धिस्तु न दोषाय फलाय हि ।
तस्माद्ब्रह्ममतिर्मुख्या सर्वत्र न हि संशयः ॥ ३८॥
तथाऽपि रुद्रे विप्रेन्द्राः परतत्त्वमतिर्भृशम् ।
वरिष्ठा न तथाऽन्येषु परस्फूर्त्यल्पताबलात् ॥ ३९॥
अस्ति रुद्रस्य विप्रेन्द्रा अन्तः सत्त्वं बहिस्तमः ।
विष्णोरन्तस्तमः सत्त्वं बहिरस्ति रजोगुणः ॥ ४०॥
अन्तर्बहिश्च विप्रेन्द्रा अस्ति तस्य प्रजापतेः ।
अतोऽपेक्ष्य गुणं सत्त्वं मनुष्या विवदन्ति च ॥ ४१॥
हरिः श्रेष्ठो हरः श्रेष्ठ इत्यहो मोहवैभवम् ।
सत्त्वाभावात्प्रजानाथं वरिष्ठं नैव मन्वते ॥ ४२॥
अनेकजन्मसिद्धानां श्रौतस्मार्तानुवर्तिनाम् ।
हरः श्रेष्ठो हरेः साक्षादिति बुद्धिः प्रजायते ॥ ४३॥
महापापवतां नॄणां हरिः श्रेष्ठो हरादिति ।
बुद्धिर्विजायते तेषां सदा संसार एव हि ॥ ४४॥
निर्विकल्पे परे तत्त्वे श्रद्धा येषां विजायते ।
अयत्नसिद्धा परमा मुक्तिस्तेषां न संशयः ॥ ४५॥
निर्विकल्पं परं तत्त्वं नाम साक्षाच्छिवः परः ।
सोऽयं साम्बस्त्रिनेत्रश्च चन्द्रार्धकृतशेखरः ॥ ४६॥
स्वात्मतत्त्वसुखस्फूर्तिप्रमोदात्ताण्डवप्रियः ।
रुद्रविष्णुप्रजानाथैरुपास्यो गुणमूर्तिभिः ॥ ४७॥
ईदृशी परमा मूर्तिर्यस्यासाधारणी सदा ।
तद्धि साक्षात्परं तत्त्वं नान्यत्सत्यं मयोदितम् ॥ ४८॥
विष्णुं ब्रह्माणमन्यं वा स्वमोहान्मन्वते परम् ।
न तेषां मुक्तिरेषाऽस्ति ततस्ते न परं पदम् ॥ ४९॥
तस्मादेषा परा मूर्तिर्यस्यासाधारणी भवेत् ।
स शिवः सच्चिदानन्दः साक्षात्तत्त्वं न चापरः ॥ ५०॥
ब्रह्मा विष्णुश्च रुद्रश्च विभक्ता अपि पण्डिताः ।
परमात्मविभागस्था न जीवव्यूहसंस्थिताः ॥ ५१॥
अविद्योपाधिको जीवो न मायोपाधिकः खलु ।
मायोपाधिकचैतन्यं परमात्मा हि नापरम् ॥ ५२॥
मायाकार्यगुणच्छन्ना ब्रह्मविष्णुमहेश्वराः ।
मायोपाधिपरव्यूहा न जीवव्यूहसंस्थिताः ॥ ५३॥
परमात्मविभागत्वं ब्रह्मादीनां द्विजर्षभाः ।
समानमपि रुद्रस्तु वरिष्ठो नात्र संशयः ॥ ५४॥
ब्रह्मा विष्णुश्च रुद्रस्य स्वासाधारणरूपतः ।
स्वविभूत्यात्मना चापि कुर्वाते एव सेवनम् ॥ ५५॥
रुद्र स्वेनैव रूपेण विष्णोश्च ब्रह्मणस्तथा ।
सेवनं नैव कुरुते विभूतेर्वा द्वयोरपि ॥ ५६॥
केवलं कृपया रुद्रो लोकानां हितकाम्यया ।
स्वविभूत्यात्मना विष्णोर्ब्रह्मणश्चापरस्य च ॥ ५७॥
करोति सेवां हे विप्राः कदाचित्सत्यमीरितम् ।
न तथा ब्रह्मणा विष्णुर्न ब्रह्मा न पुरन्दरः ॥ ५८॥
एतावन्मात्रमालम्ब्य रुद्रं विष्णुं प्रजापतिम् ।
मन्वते हि समं मर्त्या मायया परिमोहिताः ॥ ५९॥
केचिदेषां महायासात्साम्यं वाञ्छन्ति मोहिताः ।
हरेरजस्य चोत्कर्षं हराद्वाञ्छन्ति केचन ॥ ६०॥
रुद्रेण साम्यमन्येषां वाञ्छन्ति च विमोहिताः ।
ते महापातकैर्युक्ता यास्यन्ति नरकार्णवम् ॥ ६१॥
रुद्रादुत्कर्षमन्येषां ये वाञ्छन्ति मोहिताः ।
पच्यन्ते नरके तीव्रे सदा ते न हि संशयः ॥ ६२॥
केचिदद्वैतमाश्रित्य बैडालव्रतिका नराः ।
साम्यं रुद्रेण सर्वेषां प्रवदन्ति विमोहिताः ॥ ६३॥
देहाकारेण चैकत्वे सत्यपि द्विजपुङ्गवाः ।
शिरसा पादयोः साम्यं सर्वथा नास्ति हि द्विजाः ॥ ६४॥
यथाऽऽस्यापानयोः साम्यं छिद्रतोऽपि न विद्यते ।
तथैकत्वेऽपि सर्वेषां रुद्रसाम्यं न विद्यते ॥ ६५॥
विष्णुप्रजापतीन्द्राणामुत्कर्षं शङ्करादपि ।
प्रवदन्तीव वाक्यानि श्रौतानि प्रतिभान्ति च ॥ ६६॥
पौराणिकानि वाक्यानि स्मार्तानि प्रतिभान्ति च ।
तानि तत्त्वात्मना तेषामुत्कर्षं प्रवदन्ति हि ॥ ६७॥
विष्णुप्रजापतीन्द्रेभ्यो रुद्रस्योत्कर्षमास्तिकाः ।
वदन्ति यानि वाक्यानि तानि सर्वाणि हे द्विजाः ॥ ६८॥
प्रवदन्ति स्वरूपेण तथा तत्त्वात्मनाऽपि च ।
नैवं विष्ण्वादिदेवानामिति तत्त्वव्यवस्थितिः ॥ ६९॥
बहुनोक्तेन किं जीवास्त्रिमूर्तीनां विभूतयः ।
वरिष्ठा हि विभूतिभ्यस्ते वरिष्ठा न संशयः ॥ ७०॥
तेषु रुद्रो वरिष्ठश्च ततो मायी परः शिवः ।
मायाविशिष्टात्सर्वज्ञः साम्बः सत्यादिलक्षणः ॥ ७१॥
वरिष्ठो मुनयः साक्षाच्छिवो नात्र विचारणा ।
शिवाद्वरिष्ठो नैवास्ति मया सत्यमुदीरितम् ॥ ७२॥
शिवस्वरूपमालोड्य प्रवदामि समासतः ।
शिवादन्यतया भातं शिव एव न संशयः ॥ ७३॥
शिवादन्यतया भातं शिवं यो वेद वेदतः ।
स वेद परमं तत्त्वं नास्ति संशयकारणम् ॥ ७४॥
यः शिवः सकलं साक्षाद्वेद वेदान्तवाक्यतः ।
स मुक्तो नात्र सन्देहः सत्यमेव मयोदितम् ॥ ७५॥
भासमानमिदं सर्वं भानमेवेति वेद यः ।
स भानरूपं देवेशं याति नात्र विचारणा ॥ ७६॥
प्रतीतमखिलं शम्भुं तर्कतश्च प्रमाणतः ।
स्वानुभूत्या च यो वेद स एव परमार्थवित् ॥ ७७॥
जगद्रूपतया पश्यन्नपि नैव प्रपश्यति ।
प्रतीतमखिलं ब्रह्म सम्पश्यन्न हि संशयः ॥ ७८॥
प्रतीतमप्रतीतं च सदसच्च परः शिवः ।
इति वेदान्तवाक्यानां निष्ठाकाष्ठा सुदुर्लभा ॥ ७९॥
इति सकलं कृपया मयोदितं वः
श्रुतिवचस कथितं यथा तथैव ।
यदि हृदये निहितं समस्तमेत-
त्परमगतिर्भवतामिहैव सिद्धा ॥ ८०॥
॥ इति श्रीसूतसंहितायां यज्ञवैभवखण्डस्योपरिभागे
सूतगीतायां आत्मना सृष्टिकथनं नाम द्वितीयोऽध्यायः ॥ २॥
अथ तृतीयोऽध्यायः ।
३. सामान्यसृष्टिकथनम् ।
सूत उवाच -
शिवात्सत्यपरानन्दप्रकाशैकस्वलक्षणात् ।
आविर्भूतमिदं सर्वं चेतनाचेतनात्मकम् ॥ १॥
अद्वितीयोऽविकारी च निर्मलः स शिवः परः ।
तथाऽपि सृजति प्राज्ञाः सर्वमेतच्चराचरम् ॥ २॥
मणिमन्रौषधादीनां स्वभावोऽपि न शक्यते ।
किमु वक्तव्यमाश्चर्यं विभोरस्य परात्मनः ॥ ३॥
श्रुतिः सनातनी साध्वी सर्वमानोत्तमोत्तमा ।
प्राह चाद्वैतनैर्मल्यं निर्विकारत्वमात्मनः ॥ ४॥
सर्गस्थित्यन्तमप्याह चेतनाचेतनस्य च ।
अतीन्द्रियार्थविज्ञाने मानं नः श्रुतिरेव हि ॥ ५॥
श्रुत्यैकगम्ये सूक्ष्मार्थे स तर्कः किं करिष्यति ।
मानानुग्राहकस्तर्को न स्वतन्त्रः कदाचन ॥ ६॥
श्रुतिः सनातनी शम्भोरभिव्यक्ता न संशयः ।
शङ्करेण प्रणीतेति प्रवदन्त्यपरे जनाः ॥ ७॥
यदा साऽनादिभूतैव तदा मानमतीव सा ।
स्वतश्च परतो दोषो नास्ति यस्माद्द्विजर्षभाः ॥ ८॥
स्वतो दोषो न वेदस्य विद्यते सूक्ष्मदर्शने ।
अस्ति चेद्व्यवहारस्य लोप एव प्रसज्यते ॥ ९॥
परतश्च न दोषोऽस्ति परस्याभावतो द्विजाः ।
स्वतो दुष्टोऽपि शब्दस्तु मानमेवाऽऽप्तसङ्गमात् ॥ १०॥
इति वार्ताऽपि वार्तैव मुनीन्द्राः सूक्ष्मदर्शने ।
स्वतो दुष्टः कथं मानं भवत्यन्यस्य सङ्गमात् ॥ ११॥
यत्सम्बन्धेन यो भावो यस्य प्राज्ञाः प्रसिद्ध्यति ।
स तस्य भ्रान्तिरेव स्यान्न स्वभावः कथंचन ॥ १२॥
जपाकुसुमलौहित्यं विभाति स्फटिके भृशम् ।
तथाऽपि तस्य लौहित्यं भ्रान्तिरेव न वास्तवम् ॥ १३॥
वह्निपाकजलौहित्यमिष्टकायां न वास्तवम् ।
लौहित्यं तैजसांशस्तु नेष्टकाया निरूपणे ॥ १४॥
अन्यत्रान्यस्य धर्मस्तु प्रतीतो विभ्रमो मतः ।
आप्तापेक्षी तु शब्दस्तु प्रामाण्याय न सर्वथा ॥ १५॥
अनाप्तयोगाच्छब्दस्य प्रामाण्यं मुनिपुङ्गवाः ।
स्वतःसिद्धं तिरोभूतं स्वनाशाय हि केवलम् ॥ १६॥
यदा सा शङ्कएरेणोक्ता तदाऽपि श्रुतिरास्तिकाः ।
प्रमाणं सुतरामाप्ततम एव महेश्वरः ॥ १७॥
सर्वदोषविहीनस्य महाकारुणिकस्य च ।
सर्वज्ञस्यैव शुद्धस्य कथं दोषः प्रकल्प्यते ॥ १८॥
सर्वदोषविशिष्टस्य निर्घृणस्य दुरात्मनः ।
अल्पज्ञस्य च जीवस्य दृष्टाऽनाप्तिर्हि सत्तमाः ॥ १९॥
यस्य स्मरणमात्रेण समलो निर्मलो भवेत् ।
ब्रूत सत्यतपोनिष्ठाः कथं स मलिनो भवेत् ॥ २०॥
अतः पक्षद्वयेनापि वेदो मानं न संशयः ।
वेदोऽनादिः शिवस्तस्य व्यञ्जकः परमार्थतः ॥ २१॥
अभिव्यक्तिमपेक्ष्यैव प्रणेतेत्युच्यते शिवः ।
तस्माद्वेदोपदिष्टार्थो यथार्थो नात्र संशयः ॥ २२॥
इह तावन्मया प्रोक्तमद्वितीयः परः शिवः ।
तथाऽपि तेन सकलं निर्मितं तत्स एव हि ॥ २३॥
चित्स्वरूपः शिवश्चेत्यं जगत्सर्वं चराचरम् ।
तथा सति विरुद्धं तज्जगच्छम्भुः कथं भवेत् ॥ २४॥
इत्येवमादिचोद्यस्य द्विजेन्द्रा नास्ति सम्भवः ।
यत्र वेदविरोधः स्यात्तत्र चोद्यस्य सम्भवः ॥ २५॥
चोदनालक्षणे धर्मे न यथा चोद्यसम्भवः ।
तथा न चोदनागम्ये शिवे चोद्यस्य सम्भवः ॥ २६॥
बाध्यबाधकभावस्तु व्याधिभेषजयोर्यथा ।
शास्त्रेण गम्यते तद्वदयमर्थोऽपि नान्यतः ॥ २७॥
ईश्वरस्य स्वरूपे च जगत्सर्गादिषु द्विजाः ।
अतीन्द्रियार्थेष्वन्येषु मानं नः श्रुतिरेव हि ॥ २८॥
अथवा देवदेवस्य सर्वदुर्घटकारिणी ।
शक्तिरस्ति तया सर्वं घटते माययाऽनघाः ॥ २९॥
प्रतीतिसिद्धा सा माया तत्त्वतोऽत्र न संशयः ।
तया दुर्घटकारिण्या सर्वं तस्योपपद्यते ॥ ३०॥
सा तिष्ठतु महामाया सर्वदुर्घटकारिणी ।
वेदमानेन संसिद्धं सर्वं तद्ग्राह्यमेव हि ॥ ३१॥
चोद्यानर्हे तु वेदार्थे चोद्यं कुर्वन् पतत्यधः ।
अतः सर्वं परित्यज्य वेदमेकं समाश्रयेत् ॥ ३२॥
रूपावलोकने चक्षुर्यथाऽसाधारणं भवेत् ।
तथा धर्मादिविज्ञाने वेदोऽसाधारणः परः ॥ ३३॥
रूपावलोकनस्येदं यथा घ्राणं न कारणम् ।
तथा धर्मादिबुद्धेस्तु द्विजास्तर्को न कारणम् ॥ ३४॥
तस्माद्वेदोदितेनैव प्रकारेण महेश्वरः ।
अद्वितीयः स्वयं शुद्धस्तथाऽपीदं जगत्ततः ॥ ३५॥
आविर्भूतं तिरोभूतं स एव सकलं जगत् ।
वैभवं तस्य विज्ञातुं न शक्यं भाषितुं मया ॥ ३६॥
स एव साहसी साक्षात्सर्वरूपतया स्थितः ।
परिज्ञातुं च वक्तुं च समर्थो नापरः पुमान् ॥ ३७॥
यथाऽयः पावकेनेद्धं भातीव दहतीव च ।
तथा वेदः शिवेनेद्धः सर्वं वक्तीव भासते ॥ ३८॥
अयोऽवयवसङ्क्रान्तो यथा दहति पावकः ।
तथा वेदेषु सङ्क्रान्तः शिवः सर्वार्थसाधकः ॥ ३९॥
तथाऽपि वेदरहितः स्वयं धर्मादिवस्तुनि ।
न प्रमाणं विना तेन वेदोऽपि द्विजपुङ्गवाः ॥ ४० ॥
तस्माद्वेदो महेशेद्धः प्रमाणं सर्ववस्तुनि ।
अन्यथा न जडः शब्दोऽतीन्द्रियार्थस्य साधकः ॥ ४१॥
मेरुपार्श्वे तपस्तप्त्वा दृष्ट्वा शम्भुं जगद्गुरुम् ।
अयमर्थो मया ज्ञातस्ततस्तस्य प्रसादतः ॥ ४२॥
तदाज्ञयैव विप्रेन्द्राः संहितेयं मयोदिता ।
अहं क्षुद्रोऽपि युष्माकं महतामपि देशिकः ॥ ४३॥
अभवं सा शिवस्याऽऽज्ञा लङ्घनीया न केनचित् ।
शिवस्याऽऽज्ञाबलाद्विष्णुर्जायते म्रियतेऽपि च ॥ ४४॥
ब्रह्मा सर्वजगत्कर्ता विराट्सम्राट्स्वराडपि ।
खरोष्ट्रतरवः क्षुद्रा ब्रह्मविष्ण्वादयोऽभवन् ॥ ४५॥
तस्माद् गुरुत्वं मे विप्रा युज्यते न हि संशयः ।
शिष्यत्वं चापि युष्माकं स्वतन्त्रः खलु शङ्करः ॥ ४६॥
महादेवस्य भक्ताश्च तद्भक्ता अपि देहिनः ।
स्वतन्त्रा वेदविच्छ्रेष्ठाः किं पुनः स महेश्वरः ॥ ४७॥
स्वातन्त्र्याद्धि शिवेनैव विषं भुक्तं विनाऽमृतम् ।
ब्रह्मणश्च शिरश्छिन्नं विष्णोरपि तथैव च ॥ ४८॥
स्वातन्त्र्याद्धि कृतं तेन मुनीन्द्रा ब्रह्मवादिनः ।
तत्प्रसादान्मया सर्वं विदितं करबिल्ववत् ॥ ४९॥
प्रसादबलतः साक्षात्सत्यार्थः कथितो मया ।
प्रसादेन विना वक्तुं को वा शक्तो मुनीश्वराः ॥ ५०॥
तस्मात्सर्वं परित्यज्य श्रद्धया परया सह ।
मदुक्तं परमाद्वैतं विद्याद्वेदोदितं बुधः ॥ ५१॥
विज्ञानेन विनाऽन्येन नास्ति मुक्तिर्न संशयः ।
अतो यूयमपि प्राज्ञा भवताद्वैतवादिनः ॥ ५२॥
परमाद्वैतविज्ञानं सिद्धं स्वानुभवेन च ।
श्रुतिस्मृतिपुराणाद्यैस्तर्कैर्वेदानुसारिभिः ॥ ५३॥
परमाद्वैतविज्ञानमेव ग्राह्यं यथास्थितम् ।
नान्यतर्कैश्च हन्तव्यमिदमाम्नायवाक्यजम् ॥ ५४॥
विनैव परमाद्वैतं भेदं केचन मोहिताः ।
कल्पयन्ति तदा शम्भुः सद्वितीयो भविष्यति ॥ ५५॥
आम्नायार्थं महाद्वैतं नैव जानन्ति ये जनाः ।
वेदसिद्धं महाद्वैतं को वा विज्ञातुमर्हति ॥ ५६॥
भिन्नाभिन्नतया देवं परमाद्वैतलक्षणम् ।
कल्पयन्ति महामोहात्केचित्तच्च न सङ्गतम् ॥ ५७॥
भेदाभेदेऽपि भेदांशो मिथ्या भवति सत्तमाः ।
भेदानिरूपणादेव धर्म्यादेरनिरूपणात् ॥ ५८॥
तस्मान्नास्तीश्वरादन्यत्किञ्चिदप्यास्तिकोत्तमाः ।
द्वितीयाद्वै भयं जन्तोर्भवतीत्याह हि श्रुतिः ॥ ५९॥
को मोहस्तत्र कः शोक एकत्वमनुपश्यतः ।
इति चाऽऽह हि सा साध्वी श्रुतिरद्वैतमास्तिकाः ॥ ६०॥
एकत्वमेव वाक्यार्थो नापरः परमास्तिकाः ।
स्तुतिनिन्दे विरुध्येते भेदो यदि विवक्षितः ॥ ६१॥
अतीव शुद्धचित्तानां केवलं करुणाबलात् ।
परमाद्वैतमाम्नायात्प्रभाति श्रद्धया सह ॥ ६२॥
शिवभट्टारकस्यैव प्रसादे पुष्कले सति ।
परमाद्वैतमाभाति यथावन्नान्यहेतुना ॥ ६३॥
न भाति परमाद्वैतं प्रसादरहितस्य तु ।
दुर्लभः खलु देवस्य प्रसादः परमास्तिकाः ॥ ६४॥
अतश्च वेदोदितवर्त्मनैव
विहाय वादान्तरजन्मबुद्धिम् ।
विमुक्तिकामः परमाद्वितीयं
समाश्रयेदेव शिवस्वरूपम् ॥ ६५॥
॥ इति श्रीसूतसंहितायां यज्ञवैभवखण्डस्योपरिभागे
सूतगीतायां सामान्यसृष्टिकथनं नाम तृतीयोऽध्यायः ॥ ३॥
अथ चतुर्थोऽध्यायः ।
४. विशेषसृष्टिकथनम् ।
सूत उवाच -
ईश्वरो जगतः कर्ता मायया स्वीयया पुरा ।
अभेदेन स्थितः पूर्वकल्पवासनयान्वितः ॥ १॥
कालकर्मानुगुण्येन स्वाभिन्नस्वीयमायया ।
अभिन्नोऽपि तया स्वस्य भेदं कल्पयति प्रभुः ॥ २॥
कल्पितोऽयं द्विजा भेदो नाभेदं बाधते सदा ।
कल्पितानामवस्तुत्वादविरोधश्च सिध्यते ॥ ३॥
पुनः पूर्वक्षणोत्पन्नवासनाबलतोऽनघाः ।
ईक्षिता पूर्ववद्भूत्वा स्वशक्त्या परया युतः ॥ ४॥
मायाया गुणभेदेन रुद्रं विष्णुं पितामहम् ।
सृष्ट्वानुप्राविशत्तेषामन्तर्यामितया हरः ॥ ५॥
तेषां रुद्रः पराभेदात्परतत्त्ववदेव तु ।
करोति सर्गस्थित्यन्तं रुद्ररूपेण सत्तमाः ॥ ६॥
संहरत्यविशेषेण जगत्सर्वं चराचरम् ।
विष्णुरप्यास्तिकाः साक्षात्परभेदेन केवलम् ॥ ७॥
करोति सर्गस्थित्यन्तं विष्णुरूपेण हे द्विजाः ।
पालयत्यविशेषेण जगत्सर्वं चराचरम् ॥ ८॥
ब्रह्माऽपि मुनिशार्दूलाः पराभेदेन केवलम् ।
करोति सर्गस्थित्यन्तं ब्रह्मरूपेण सत्तमाः ।
करोति विविधं सर्वं जगत्पूर्वं यथा तथा ॥ ९॥
शब्दादिभूतसृष्टिस्तुपरस्यैव शिवस्य तु ॥ १०॥
सर्वान्तःकरणानां तु समष्टेः सृष्टिरास्तिकाः ।
त्रिमूर्तीनां हरस्यैव प्राधान्येन न संशयः ॥ ११॥
प्राणानामपि सर्वेषां समष्टेः सृष्टिरास्तिकाः ।
अपि रुद्रस्य तस्यैव प्राधान्येन न संशयः ॥ १२॥
सर्वज्ञानेन्द्रियाणां तु समष्टीनां जनिर्द्विजाः ।
त्रिमूर्तीनां हरस्यैव प्राधान्येन न संशयः ॥ १३॥
सर्वकर्मेन्द्रियाणां तु समष्टीनां जनिर्द्विजाः ।
त्रिमूर्तीनां हरस्यैव प्राधान्येन न संशयः ॥ १४॥
तथाऽपि परमं तत्त्वं त्रिमूर्तीनां तु कारणम् ।
ब्रह्मविष्णुमहेशानां सृष्टावुपकरोति च ॥ १५॥
उपचारतया तेऽपि स्रष्टार इति शब्दिताः ।
तत्रापि तत्त्वतः स्रष्टृ ब्रह्मैवाद्वयमास्तिकाः ॥ १६॥
व्यष्टयस्तु समष्टिभ्यो जायन्ते ब्रह्मणानघाः ।
समष्टिषु विजायन्ते देवताः पूर्वकल्पवत् ॥ १७॥
समष्टिव्यष्टिरूपाणां सृष्टानां पालको हरिः ।
रुद्रस्तेषां तु संहर्ता द्विजा रूपान्तरेण च ॥ १८॥
या देवताऽन्तःकरणसमष्टौ पूर्वकल्पवत् ।
विजाता स मुनिश्रेष्ठा रुक्मगर्भ इतीरितः ॥ १९॥
जाता प्राणसमष्टौ या स सूत्रात्मसमाह्वयः ।
दिग्वाय्वर्कजलाध्यक्षपृथिव्याख्यास्तु देवताः ।
जायन्ते क्रमशः श्रोत्रप्रमुखेषु समष्टिषु ॥ २०॥
पादपाण्यादिषु प्राज्ञाः कर्मेन्द्रिय समष्टिषु ।
त्रिविक्रमेन्द्रप्रमुखा जायन्ते देवताः क्रमात् ॥ २१॥
समष्टिषु विजाता या देवतास्ता यथाक्रमम् ।
व्यष्टिभूतेन्द्रियाणां तु नियन्त्र्यो देवता द्विजाः ॥ २२॥
मारुतस्त्वगधिष्ठाता दिग्देवी कर्णदेवता ॥ २३॥
नेत्राभिमानी सूर्यः स्याज्जिह्वाया वरुणस्तथा ।
घ्राणाभिमानिनी देवी पृथिवीति प्रकीर्तिता ॥ २४॥
पायोर्मित्रोऽभिमान्यात्मा पादस्यापि त्रिविक्रमः ।
इन्द्रो हस्तनियन्ता स्याच्छिवः सर्वनियामकः ॥ २५॥
मनो बुद्धिरहङ्कारश्चित्तं चेति चतुर्विधम् ।
स्यादन्तःकरणं प्राज्ञाः क्रमात्तेषां हि देवताः ॥ २६॥
चन्द्रो वाचस्पतिर्विप्राः साक्षात्कालाग्निरुद्रकः ।
शिवश्चेति मया प्रोक्ताः साक्षावेदान्तपारगाः ॥ २७॥
आकाशादीनि भूतानि स्थूलानि पुनरास्तिकाः ।
जायन्ते सूक्ष्मभूतेभ्यः पूर्वकल्पे यथा तथा ॥ २८॥
अण्डभेदस्तथा लोकभेदास्तेषु च चेतनाः ।
अचेतनानि चान्यानि भौतिकानि च पूर्ववत् ॥ २९॥
विजायन्ते च भोगार्थं चेतनानां शरीरिणाम् ।
भोक्तारः पशवः सर्वे शिवो भोजयिता परः ॥ ३०॥
सुखदुःखादिसंसारो भोगः सर्वमिदं सुराः ।
स्वप्नवद्देवदेवस्य माययैव विनिर्मितम् ॥ ३१॥
मायया निर्मितं सर्वं मायैव हि निरूपणे ।
कारणव्यतिरेकेण कार्यं नेति हि दर्शितम् ॥ ३२॥
मायाऽपि कारणत्वेन कल्पिता मुनिपुङ्गवाः ।
अधिष्ठानातिरेकेण नास्ति तत्त्वनिरूपणे ॥ ३३॥
व्यवहारदृशा मायाकल्पना नैव वस्तुतः ।
वस्तुतः परमाद्वैतं ब्रह्मैवास्ति न चेतरत् ॥ ३४॥
मायारूपतया साक्षाद्ब्रह्मैव प्रतिभासते ।
जगज्जीवादिरूपेणाप्यहो देवस्य वैभवम् ॥ ३५॥
स्वस्वरूपातिरेकेण ब्रह्मणो नास्ति किंचन ।
तथाऽपि स्वातिरेकेण भाति हा दैववैभवम् ॥ ३६॥
जगदात्मतया पश्यन्बध्यते न विमुच्यते ॥ ३७॥
सर्वमेतत्परं ब्रह्म पश्यन्स्वानुभवेन तु ।
मुच्यते घोरसंसारात्सद्य एव न संशयः ॥ ३८॥
सर्वमेतत्परं ब्रह्म विदित्वा सुदृढं बुधाः ।
मानतर्कानुभूत्यैव गुरूक्त्या च प्रसादतः ।
ज्ञानप्राकट्यबाहुल्याज्ज्ञानं च स्वात्मनैव तु ॥ ३९॥
स्वात्मना केवलेनैव तिष्ठन्मुच्येत बन्धनात् ।
य एवं वेद वेदार्थं मुच्यते स तु बन्धनात् ॥ ४०॥
सोपानक्रमतश्चैवं पश्यन्नात्मानमद्वयम् ।
सर्वं जगदिदं विप्राः पश्यन्नपि न पश्यति ॥ ४१॥
भासमानमिदं सर्वं भानरूपं परं पदम् ।
पश्यन्वेदान्तमानेन सद्य एव विमुच्यते ॥ ४२॥
एवमात्मानमद्वैतमपश्यन्नेव पश्यतः ।
जगदात्मतया भानमपि स्वात्मैव केवलम् ॥ ४३॥
विदित्वैवं महायोगी जगद्भानेऽपि निश्चलः ।
यथाभातमिदं सर्वमनुजानाति चाऽऽत्मना ॥ ४४॥
निषेधति च तत्सिद्धिरनुज्ञातस्य केवलम् ।
तदसिद्धिर्निषेधोऽस्य सिद्ध्यसिद्धी च तस्य न ॥ ४५॥
प्रकाशात्मतया साक्षात्स्थितिरेवास्य केवलम् ।
विद्यते नैव विज्ञानं नाज्ञानं न जगत्सदा ॥ ४६॥
प्रकाशात्मतया साक्षात्स्थितिरत्यपि भाषणम् ।
अहं वदामि मोहेन तच्च तस्मिन्न विद्यते ॥ ४७॥
तस्य निष्ठा मया वक्तुं विज्ञातुं च न शक्यते ।
श्रद्धामात्रेण यत्किंचिज्जप्यते भ्रान्तचेतसा ॥ ४८॥
इति गुह्यमिदं कथितं मया
निखिलोपनिषद्धृदयङ्गमम् ।
हरपङ्कजलोचनपालितं
विदिअतं यदि वेदविदेव सः ॥ ४९॥
॥ इति श्रीसूतसंहितायां यज्ञवैभवखण्डस्योपरिभाभागे
सूतगीतायां विशेषसृष्टिकथनंनाम चतुर्थोऽध्यायः ॥ ४॥
अथ पञ्चमोऽध्यायः ।
५. आत्मस्वरूपकथनम् ।
सूत उवाच -
वक्ष्यामि परमं गुह्यं युष्माकं मुनिपुङ्गवाः ।
विज्ञानं वेदसम्भूतं भक्तानामुत्तमोत्तमम् ॥ १॥
रुद्र विष्णुप्रजानाथप्रमुखाः सर्वचेतनाः ।
स्वरसेनाहमित्याहुरिदमित्यपि च स्वतः ॥ २॥
इदंबुद्धिश्च बाह्यार्थे त्वहंबुद्धिस्तथाऽऽत्मनि ।
प्रसिद्धा सर्वजन्तूनां विवादोऽत्र न कश्चन ॥ ३॥
इदमर्थे घटाद्यर्थेऽनात्मत्वं सर्वदेहिनाम् ।
अहमर्थे तथाऽऽत्मत्वमपि सिद्धं स्वभावतः ॥ ४॥
एवं समस्तजन्तूनामनुभूतिर्व्यवस्थिता ।
भ्रान्ता अपि न कुर्वन्ति विवादं चात्र सत्तमाः ॥ ५॥
एवं व्यवस्थिते ह्यर्थे सति बुद्धिमतां वराः ।
संसारविषवृक्षस्य मूलच्छेदनकाङ्क्षिभिः ॥ ६॥
यत्र यत्रेदमित्येषा बुद्धिर्दृष्टा स्वभावतः ।
तत्र तत्र त्वनात्मत्वं विज्ञातव्यं विचक्षणैः ॥ ७॥
यत्र यत्राहमित्येषा बुद्धिर्दृष्टा स्वभावतः ।
तत्र तत्र तथात्मत्वं विज्ञातव्यं मनीषिभिः ॥ ८॥
शरीरे दृश्यते सर्वैरिदंबुद्धिस्तथैव च ।
अहंबुद्धिश्च विप्रेन्द्रास्ततस्ते भिन्नगोचरे ॥ ९॥
शरीरालम्बना बुद्धिरिदमित्यास्तिकोत्तमाः ।
चिदात्मलम्बना साक्षादहंबुद्धिर्न संशयः ॥ १०॥
इदमर्थे शरीरे तु याऽहमित्युदिता मतिः ।
सा महाभ्रान्तिरेव स्यादतस्मिंस्तद्ग्रहत्वतः ॥ ११॥
अचिद्रूपमहंबुद्धीः पिण्डं नाऽलम्बनं भवेत् ।
मृत्पिण्डादिष्वदृष्टत्वात्ततोऽनात्मैव विग्रहः ॥ १२॥
अचित्त्वादिन्द्रियाणां च प्राणस्य मनसस्तथा ।
आलम्बनत्वं नास्त्येव बुद्धेश्चाहंमतिं प्रति ॥ १३॥
बुद्धेरचित्त्वं सङ्ग्राह्यं दृष्टत्वाज्जन्मनाशयोः ।
अचिद्रूपस्य कुड्यादेः खलु जन्मावनाशनम् ॥ १४॥
अहङ्कारस्य चाचित्त्वाच्चित्तस्य च तथैव च ।
आलम्बनत्वं नास्त्येव सदाऽहंप्रत्ययं प्रति ॥ १५॥
सर्वप्रत्ययरूपेण सदाऽहङ्कार एव हि ।
निवर्ततेऽतोहङ्कारस्त्वनात्मैव शरीरवत् ॥ १६॥
परिणामस्वभावस्य क्षीरादेर्द्विजपुङ्गवाः ।
अचेतनत्वं लोकेऽस्मिन्प्रसिद्धं खलु सन्ततम् ॥ १७॥
तस्माच्चिद्रूप एवाऽऽत्माऽहंबुद्धेरर्थ आस्तिकाः ।
अचिद्रूपमिदंबुद्धेरनात्मैवार्तह् ईरुतः ॥ १८॥
सत्यपि प्रत्ययार्थत्वे प्रत्यगात्मा स्वयंप्रभः ।
वृत्त्यधीनतया नैव विभाति घटकुड्यवत् ॥ १९॥
स्वच्छवृत्तिमनुप्राप्य वृत्तेः साक्षितया स्थितः ।
वृत्त्या निवर्त्यमज्ञानं ग्रसते तेन तेजसा ॥ २०॥
अनुप्रविष्टचैतन्यसम्बन्धात् वृत्तिरास्तिकाः ।
जडरूपं घटाद्यर्थं भासयत्यात्मरूपवत् ॥ २१॥
अतोऽहंप्रत्ययार्थेऽपि नानात्मा स्याद्घटादिवत् ।
स्वयंप्रकाशरूपेण साक्षादात्मैव केवलम् ॥ २२॥
यत्सम्बन्धादहंवृत्तिः प्रत्ययत्वेन भासते ।
स कथं प्रत्ययाधीनप्रकाशः स्यात्स्वयंप्रभः ॥ २३॥
अहंवृत्तिः स्वतःसिद्धचैतन्येद्भाऽवभासते ।
तत्सम्बन्धादहङ्कारः प्रत्ययीव प्रकाशते ॥ २४॥
आत्माऽहंप्रत्ययाकारसम्बन्धभ्रान्तिमात्रतः ।
कर्ता भोक्ता सुखी दुःखी ज्ञातेति प्रतिभासते ॥ २५॥
वस्तुतस्तस्य नास्त्येव चिन्मात्रादपरं वपुः ।
चिद्रूपमेव स्वाज्ञानादन्यथा प्रतिभासते ॥ २६॥
सर्वदेहेष्वहंरूपः प्रत्ययो यः प्रकाशते ।
तस्य चिद्रूप एवाऽऽत्मा साक्षादर्थो न चापरः ॥ २७॥
गौरिति प्रत्ययस्यार्थो यथा गोत्वं तु केवलम् ।
तथाऽहंप्रत्ययस्यार्थश्चिद्रूपात्मैव केवलम् ॥ २८॥
व्यक्तिसम्बन्धरूपेण गोत्वं भिन्नं प्रतीयते ।
चिदहङ्कारसम्बन्धाद्भेदेन प्रतिभाति च ॥ २९॥
यथैवैकोऽपि गोशब्दो भिन्नार्थो व्यक्तिभेदतः ।
तथैवैकोऽप्यहंशब्दो भिन्नार्थो व्यक्तिभेदतः ॥ ३०॥
यथा प्रतीत्या गोव्यक्तिर्गोशब्दार्थो न तत्त्वतः ।
तत्त्वतो गोत्वमेवार्थः साक्षाद्वेदविदां वराः ॥ ३१॥
तथा प्रतीत्याऽहंकारोऽहंशब्दार्थो न तत्त्वतः ।
तत्त्वतः प्रत्यगात्मैव स एवाखिलसाधकः ॥ ३२॥
एकत्वेऽपि पृथक्त्वेन व्यपदेशोऽपि युज्यते ।
अन्तःकरणभेदेन साक्षिणः प्रत्यगात्मनः ॥ ३३॥
रुद्रविष्णुप्रजानाथप्रमुखाः सर्वचेतनाः ।
चिन्मात्रात्मन्यहंशब्दं प्रयुञ्जन्ते हि तत्त्वतः ॥ ३४॥
सुषुप्तोऽस्मीति सर्वोऽयं सुषुप्तादुत्थितो जनः ।
सुषुप्तिकालीनस्वात्मन्यहंशब्दं द्विजोत्तमाः ॥ ३५॥
प्रयुङ्क्ते तत्र देहादिविशेषाकारभासनम् ।
न हि केवलचैतन्यं सुषुप्तेः साधकं स्वतः ॥ ३६॥
प्रतिभाति ततस्तस्मिंश्चिन्मात्रे प्रत्यगात्मनि ।
अहंशब्दप्रवृत्तिः स्यान्न तु सोपाधिकात्मनि ॥ ३७॥
यथाऽयो दहतीत्युक्ते वह्निर्दहति केवलम् ।
नायस्तद्वदहंशब्दश्चैतन्यस्यैव वाचकः ॥ ३८॥
प्रतीत्या वह्निसम्बन्धाद्यथाऽयो दाहकं तथा ।
चित्सम्बन्धादहङ्कारोऽहंशब्दार्थः प्रकीर्तितः ॥ ३९॥
चैतन्येद्धाहम स्पर्शाद्देहादौ भ्रान्तचेतसाम् ।
अहंशब्दप्रयोगः स्यात्तथाऽहंप्रत्ययोऽपि च ॥ ४०॥
इत्थं विवेकतः साक्ष्यं देहादिप्राणपूर्वकम् ।
अन्तःकरणमात्मानं विभज्य स्वात्मनः पृथक् ॥ ४१॥
सर्वसाक्षिणमात्मानं स्वयंज्योतिःस्वलक्षणम् ।
सत्यमानन्दमद्वैतमहमर्थं विचिन्तयेत् ॥ ४२॥
रुद्रविष्णुप्रजानाथप्रमुखाः सर्वचेतनाः ।
अहमेव परं ब्रह्मेत्याहुरात्मानमेव हि ॥ ४३॥
ते तु चिन्मात्रमद्वैतमहमर्थतया भृशम् ।
अङ्गीकृत्याहमद्वैतं ब्रह्मेत्याहुर्न देहतः ॥ ४४॥
चिन्मात्रं सर्वगं सत्यं सम्पूर्णसुखमद्वयम् ।
साक्षाद्ब्रह्मैव नैवान्यदिति तत्त्वविदां स्थितिः ॥ ४५॥
शास्त्रं सत्यचिदानन्दमनन्तं वस्तु केवलम् ।
शुद्धं ब्रह्मेति सश्रद्धं प्राह वेदविदां वराः ॥ ४६॥
प्रत्यगात्माऽयमद्वन्द्वः साक्षी सर्वस्य सर्वदा ।
सत्यज्ञानसुखानन्तलक्षणः सर्वदाऽनघाः ॥ ४७॥
अतोऽयं प्रत्यगात्मैव स्वानुभूत्येकगोचरः ।
शास्त्रसिद्धं परं ब्रह्म नापरं परमार्थतः ॥ ४८॥
एवं तर्कप्रमाणाभ्यामाचार्योक्त्या च मानवः ।
अविज्ञाय शिवात्मैक्यं संसारे पतति भ्रमात् ॥ ४९॥
शास्त्राचार्योपदेशेन तर्कैः शास्त्रानुसारिभिः ।
सर्वसाक्षितयाऽऽत्मानं सम्यङ् निश्चित्य सुस्थिरः ॥ ५०॥
स्वात्मनोऽन्यतया भातं समस्तमविशेषतः ।
स्वात्ममात्रतया बुद्ध्वा पुनः स्वात्मानमद्वयम् ॥ ५१॥
शुद्धं ब्रह्मेति निश्चित्य स्वयं स्वानुभवेन च ।
निश्चयं च स्वचिन्मात्रे विलाप्याविक्रियेऽद्वये ॥ ५२॥
विलापनं च चिद्रूपं बुद्ध्वा केवलरूपतः ।
स्वयं तिष्ठेदयं साक्षाद्ब्रह्मवित्प्रवरो मुनिः ॥ ५३॥
ईदृशी परमा निष्ठा श्रौती स्वानुभवात्मिका ।
देशिकालोकनेनैव केवलेन हि सिध्यति ॥ ५४॥
देशिकालोकनं चापि प्रसादात्पारमेश्वरात् ।
सिध्यत्ययत्नतः प्राज्ञाः सत्यमेव मयोदितम् ॥ ५५॥
सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते ।
प्रसादादेव सर्वेषां सर्वसिद्धिर्महेशितुः ॥ ५६॥
प्रसादे शाम्भवे सिद्धे सर्वं शम्भुतया स्वतः ।
विभाति नान्यथा विप्राः सत्यमेव मयोदितम् ॥ ५७॥
यदा शम्भुतया सर्वं विभाति स्वत एव तु ।
तदा हि शाम्भवः साक्षात्प्रसादः सत्यमीरितम् ॥ ५८॥
शिवादन्यतया किंचिदपि भाति यदा द्विजाः ।
तदा न शाङ्करो बोधः संजात इति मे मतिः ॥ ५९॥
शिवादन्यतया सर्वं प्रतीतमपि पण्डितः ।
तत्त्वदृष्ट्या शिवं सर्वं सुस्थिरं परिपश्यति ॥ ६०॥
शिवाकारेण वा नित्यं प्रपञ्चाकारतोऽपि वा ।
जीवाकारेण वा भातं यत्तद्ब्रह्म विचिन्तयेत् ॥ ६१॥
शम्भुरेव सदा भाति सर्वाकारेण नापरः ।
इति विज्ञानसम्पन्नः शाङ्करज्ञानिनां वरः ॥ ६२॥
शम्भुरूपतया सर्वं यस्य भाति स्वभावतः ।
न तस्य वैदिकं किंचित्तान्त्रिकं चास्ति लौकिकम् ॥ ६३॥
यथाभातस्वरूपेण शिवं सर्वं विचिन्तयन् ।
योगी चरति लोकानामुपकाराय नान्यथा ॥ ६४॥
स्वस्वरूपातिरेकेण निषिद्धं विहितं तु वा ।
न पश्यति महायोगी भाति स्वात्मतयाऽखिलम् ॥ ६५॥
चण्डालगेहे विप्राणां गृहे वा परमार्थवित् ।
भक्ष्यभोज्यादिवैषम्यं न किंचिदपि पश्यति ॥ ६६॥
यथेष्टं वर्तते योगी शिवं सर्वं विचिन्तयन् ।
तादृशो हि महायोगी को वा तस्य निवारकः ॥ ६७॥
बहुनोक्तेन किं साक्षाद्देशिकस्य निरीक्षणात् ।
प्रसादादेव रुद्रस्य परशक्तेस्तथैव च ॥ ६८॥
श्रुतिभक्तिबलात्पुण्यपरिपाकबलादपि ।
शिवरूपतया सर्वं स्वभावादेव पश्यति ॥ ६९॥
शिवः सर्वमिति ज्ञानं शाङ्करं शोकमोहनुत् ।
अयमेव हि वेदार्थो नापरः सत्यमीरितम् ॥ ७०॥
श्रुतौ भक्तिर्गुरौ भक्तिः शिवे भक्तिश्च देहिनाम् ।
साधनं सत्यविद्यायाः सत्यमेव मयोदितम् ॥ ७१॥
सोपानक्रमतो लब्धं विज्ञानं यस्य सुस्थिरम् ।
तस्य मुक्तिः परा सिद्धा सत्यमेव मयोदितम् ॥ ७२॥
नित्यमुक्तस्य संसारो भ्रान्तिसिद्धः सदा खलु ।
तस्माज्ज्ञानेन नाशः स्यात्संसारस्य न कर्मणा ॥ ७३॥
ज्ञानलाभाय वेदोक्तप्रकारेण समाहितः ।
महाकारुणिकं साक्षाद्गुरुमेव समाश्रयेत् ॥ ७४॥
॥ इति श्रीसूतसंहितायां यज्ञवैभवखण्डस्योपरिभागे
सूतगीतायां आत्मस्वरूपकथनं नाम पञ्चमोऽध्यायः ॥ ५॥
अथ षष्ठोऽध्यायः ।
६. सर्वशास्त्रार्थसंग्रहवर्णनम् ।
सूत उवाच -
वक्ष्यामि परमं गुह्यं सर्वशास्त्रार्थसङ्ग्रहम् ।
यं विदित्वा द्विजा मर्त्यो न पुनर्जायते भुवि ॥ १॥
साक्षात्परतरं तत्त्वं सच्चिदानन्दलक्षणम् ।
सर्वेषां नः सदा साक्षादात्मभूतमपि स्वतः ॥ २॥
दुर्दर्शमेव सूक्ष्मत्वाद्देवानां महतामपि ।
रुद्रः स्वात्मतया भातं तत्सदा परिपश्यति ॥ ३॥
विष्णुः कदाचित्तत्त्वं कथंचित्परिपश्यति ।
तथा कथंचिद्ब्रह्माऽपि कदाचित्परिपश्यति ॥ ४॥
त्रिमूर्तीनां तु यज्ज्ञानं ब्रह्मैकविषयं परम् ।
तस्यापि साधकं तत्त्वं साक्षित्वान्नैव गोचरम् ॥ ५॥
प्रसादादेव तस्यैव परतत्त्वस्य केवलम् ।
देवादयोऽपि पश्यन्ति तत्रापि ब्रह्म साधकम् ॥ ६॥
अतः प्रसादसिद्ध्यर्थं परया श्रद्धया सह ।
ध्येयमेव परं तत्त्वं हृदयाम्भोजमध्यगम् ॥ ७॥
त्रिमूर्तीनां तु रुद्रोऽपि शिवं परमकारणम् ।
सदा मूर्त्यात्मना प्रीत्या ध्यायति द्विजपुङ्गवाः ॥ ८॥
त्रिमूर्तीनां तु विष्णुश्च शिवं परमकारणम् ।
सदा मूर्त्यात्मना प्रीत्या ध्यायति द्विजपुङ्गवाः ॥ ९॥
त्रिमूर्तीनां विरिञ्चोऽपि शिवं परमकारणम् ।
सदा मूर्त्यात्मना प्रीत्या ध्यायति द्विजपुङ्गवाः ॥ १०॥
ब्रह्मविष्णुमहेशानां त्रिमूर्तीनां विचक्षणाः ।
विभूतिरूपा देवाश्च ध्यायन्ति प्रीतिसंयुताः ॥ ११॥
घृतकाठिन्यवन्मूर्तिः सच्चिदानन्दलक्षणा ।
शिवाद्भेदेन नैवास्ति शिव एव हि सा सदा ॥ १२॥
ब्रह्मविष्णुमहेशाद्याः शिवध्यानपरा अपि ।
परमात्मविभागस्था न जीवव्यूहसंस्थिताः ॥ १३॥
ब्रह्मविष्णुमहेशानामाविर्भावा अपि द्विजाः ।
परमात्मविभागस्था न जीवव्यूहसंस्थिताः ॥ १४॥
परतत्त्व परं ब्रह्म जीवात्मपरमात्मनोः ।
औपाधिकेन भेदेन द्विधाभूतमिव स्थितम् ॥ १५॥
पुण्यपापावृता जीवा रागद्वेषमलावृताः ।
जन्मनाशाभिभूताश्च सदा संसारिणोऽवशाः ॥ १६॥
ब्रह्मविष्णुमहेशानां तथा तेषां द्विजर्षभाः ।
आविर्भावविशेषाणां पुण्यपापादयो न हि ॥ १७॥
आज्ञया परतत्त्वस्य जीवानां हितकाम्यया ।
आविर्भावतिरोभावौ तेषां केवलमास्तिकाः ॥ १८॥
हरिब्रह्महरास्तेषामाविर्भावाश्च सुव्रताः ।
सदा संसारिभिर्जीवैरुपास्या भुक्तिमुक्तये ॥ १९॥
उपास्यत्वे समानेऽपि हरः श्रेष्ठो हरेरजात् ।
न समो न विहीनश्च नास्ति सन्देहकारणम् ॥ २०॥
विहीनं वा समं वाऽपि हरिणा ब्रह्मणा हरम् ।
ये पश्यन्ति सदा ते तु पच्यन्ते नरकानले ॥ २१॥
हरिब्रह्मादिदेवेभ्यः श्रेष्ठं पश्यन्ति ये हरम् ।
ते महाघोरसंसारान्मुच्यन्ते नात्र संशयः ॥ २२॥
प्राधान्येन परं तत्त्वं मूर्तिद्वारेण योगिभिः ।
ध्येयं मुमुक्षिभिर्नित्यं हृदयाम्भोजमध्यमे ॥ २३॥
कार्यभूता हरिब्रह्मप्रमुखाः सर्वदेवताः ।
अप्रधानतया ध्येया न प्रधानतया सदा ॥ २४॥
सर्वैश्वर्येण सम्पन्नः सर्वेशः सर्वकारणम् ।
शम्भुरेव सदा साम्बो न विष्णुर्न प्रजापतिः ॥ २५॥
तस्मात्तत्कारणं ध्येयं प्राधान्येन मुमुक्षुभिः ।
न कार्यकोटिनिक्षिप्ता ब्रह्मविष्णुमहेश्वराः ॥ २६॥
शिवंकरत्वं सर्वेषां देवानां वेदवित्तमाः ।
स्वविभूतिमपेक्ष्यैव न परब्रह्मवत्सदा ॥ २७॥
शिवंकरत्वं सम्पूर्णं शिवस्यैव परात्मनः ।
साम्बमूर्तिधरस्यास्य जगतः कारणस्य हि ॥ २८॥
अतोऽपि स शिवो ध्येयः प्राधान्येन शिवंकरः ।
सर्वमन्यत्परित्यज्य दैवतं परमेश्वरात् ॥ २९॥
साक्षात्परशिवस्यैव शेषत्वेनाम्बिकापतेः ।
देवताः सकला ध्येया न प्राधान्येन सर्वदा ॥ ३०॥
शिखाऽप्याथर्वणी साध्वी सर्ववेदोत्तमोत्तमा ।
अस्मिन्नर्थे समाप्ता सा श्रुतयश्चापरा अपि ॥ ३१॥
यथा साक्षात्परं ब्रह्म प्रतिष्ठा सकलस्य च ।
तथैवाथर्वणो वेदः प्रतिष्ठैवाखिलश्रुतेः ॥ ३२॥
कन्दस्तारस्तथा बिन्दुः शक्तिस्तारो महाद्रुमः ।
स्कन्धशाखा अकाराद्या वर्णा यद्वत्तथैव तु ॥ ३३॥
तारस्कन्दः श्रुतेर्जातिः शक्तिराथर्वणो द्रुमः ।
स्कन्धशाखास्त्रयो वेदाः पर्णाः स्मृतिपुराणकाः ॥ ३४॥
अङ्गानि शाखावरणं तर्कास्तस्यैवरक्षकाः ।
पुष्पं शिवपरिज्ञानं फलं मुक्तिः परा मता ॥ ३५॥
बहुनोक्तेन किं विप्राः शिवो ध्येयः शिवंकरः ।
सर्वमन्यत्परित्यज्य दैवतं भुक्तिमुक्तये ॥ ३६॥
सर्वमुक्तं समासेन सारात्सारतरं बुधाः ।
शिवध्यानं सदा यूयं कुरुध्वं यत्नतः सदा ॥ ३७॥
॥ इति श्रीसूतसंहितायां यज्ञवैभवखण्डस्योपरिभागे
सूतगीतायां सर्वशास्त्रार्थसङ्ग्रहो नाम षष्ठोऽध्यायः ॥ ६ ॥
अथ सप्तमोऽध्यायः ।
७. रहस्यविचारः ।
सूत उवाच -
रहस्यं सम्प्रवक्ष्यामि समासेन न विस्तरात् ।
श्रुणुत श्रद्धया विप्राः सर्वसिद्ध्यर्थमुत्तमम् ॥ १॥
देवताः सर्वदेहेषु स्थिताः सत्यतपोधनाः ।
सर्वेषां कारणं साक्षात्परतत्त्वमपि स्थितम् ॥ २॥
पञ्चभूतात्मके देहे स्थूले षाट्कौशिके सदा ।
पृथिव्यादिक्रमेणैव वर्तन्ते पञ्च देवताः ॥ ३॥
कार्यं ब्रह्मा महीभागे कार्यं विष्णुर्जलांशके ।
कार्यं रुद्रोऽग्निभागे च वाय्वंशे चेश्वरः परः ।
आकाशांशे शरीरस्य स्थितः साक्षात्सदाशिवः ॥ ४॥
शरीरस्य बहिर्भागे विराडात्मा स्थितः सदा ॥ ५॥
अन्तर्भागे स्वराडात्मा सम्राड्देहस्य मध्यमे ।
ज्ञानेन्द्रियसमाख्येषु श्रोत्रादिषु यथाक्रमात् ॥ ६॥
दिग्वाय्वर्कजलाध्यक्षभूमिसंज्ञाश्च देवताः ।
कर्मेन्द्रियसमाख्येषु पादपाण्यादिषु क्रमात् ॥ ७॥
त्रिविक्रमेन्द्रवह्न्याख्या देवताश्च प्रजापतिः ।
मित्रसंज्ञश्च वर्तन्ते प्राणे सूत्रात्मसंज्ञितः ॥ ८॥
हिरण्यगर्भो भगवानन्तःकरणसंज्ञिते ।
तदवस्थाप्रभेदेषु चन्द्रमा मनसि स्थितः ॥ ९॥
बुद्धौ बृहस्पतिर्विप्राः स्थितः कालाग्निरुद्रकः ।
अहङ्कारे शिवश्चित्ते रोमसु क्षुद्रदेवताः ॥ १०॥
भूतप्रेतादयः सर्वे देहस्यास्थिषु संस्थिताः ।
पिशाचा राक्षसाः सर्वे स्थिताः स्नायुषु सर्वशः ॥ ११॥
मज्जाख्ये पितृगन्धर्वास्त्वङ्मांसरुधिरेषु च ।
वर्तन्ते तत्र संसिद्धा देवताः सकला द्विजाः ॥ १२॥
त्रिमूर्तीनां तु यो ब्रह्मा तस्य घोरा तनुर्द्विजाः ।
दक्षिणाक्षिणि जन्तूनामन्तर्भागे रविर्बहिः ॥ १३॥
त्रिमूर्तीनां तु यो ब्रह्मा तस्य शान्ता तनुर्द्विजाः ।
वर्तते वामनेत्रान्तर्भागे बाह्ये निशाकरः ॥ १४॥
त्रिमूर्तीनां तु यो विष्णुः स कण्ठे वर्तते सदा ।
अन्तः शान्ततनुर्घोरा तनुर्बाह्ये द्विजर्षभाः ॥ १५॥
त्रिमूर्तीनां तु यो रुद्रो हृदये वर्तते सदा ।
अन्तः शान्ततनुर्घोरा तनुर्बाह्ये द्विजर्षभाः ॥ १६॥
सर्वेषां कारणं यत्तद्ब्रह्म सत्यादिलक्षणम् ।
ब्रह्मरन्ध्रे महास्थाने वर्तते सततं द्विजाः ॥ १७॥
चिच्छक्तिः परमा देहमध्यमे सुप्रतिष्ठिता ।
मायाशक्तिर्ललाटाग्रभागे व्योमाम्बुजादधः ॥ १८॥
नादरूपा परा शक्तिर्ललाटस्य तु मध्यमे ।
भागे बिन्दुमयी शक्तिर्ललाटस्यापरांशके ॥ १९॥
बिन्दुमध्ये तु जीवात्मा सूक्ष्मरूपेण वर्तते ।
हृदये स्थूलरूपेण मध्यमेन तु मध्यमे ॥ २०॥
देवी सरस्वती साक्षाद्ब्रह्मपत्नी सनातनी ।
जिह्वाग्रे वर्तते नित्यं सर्वविद्याप्रदायिनी ॥ २१॥
विष्णुपत्नी महालक्ष्मीर्वर्ततेऽनाहते सदा ।
रुद्रपत्नी तु रुद्रेण पार्वती सह वर्तते ॥ २२॥
सर्वत्र वर्तते साक्षाच्छिवः साम्बः सनातनः ।
सत्यादिलक्षणः शुद्धः सर्वदेवनमस्कृतः ॥ २३॥
सम्यग्ज्ञानवतां देहे देवताः सकला अमूः ।
प्रत्यगात्मतया भान्ति देवतारूपतोऽपि च ॥ २४॥
वेद मार्गैकनिष्ठानां विशुद्धानां तु विग्रहे ।
देवतारूपतो भान्ति द्विजा न प्रत्यगात्मना ॥ २५॥
तान्त्रिकाणां शरीरे तु देवताः सकला अमूः ।
वर्तन्ते न प्रकाशन्ते द्विजेन्द्राः शुद्ध्यभावतः ॥ २६॥
यथाजातजनानां तु शरीरे सर्वदेवताः ।
तिरोभूततया नित्यं वर्तन्ते मुनिसत्तमाः ॥ २७॥
अतश्च भोगमोक्षार्थी शरीरं देवतामयम् ।
स्वकीयं परकीयं च पूजयेत्तु विशेषतः ॥ २८॥
नावमानं सदा कुर्यान्मोहतो वाऽपि मानवः ।
यदि कुर्यात्प्रमादेन पतत्येव भवोदधौ ॥ २९॥
दुर्वृत्तमपि मूर्खं च पूजयेद्देवतात्मना ।
देवतारूपतः पश्यन्मुच्यते भवबन्धनात् ॥ ३०॥
मोहेनापि सदा नैव कुर्यादप्रियभाषणम् ।
यदि कुर्यात्प्रमादेन हन्ति तं देवता परा ॥ ३१॥
न क्षतं विग्रहे कुर्यादस्त्रशस्त्रनखादिभिः ।
तथा न लोहितं कुर्याद्यदि कुर्यात्पतत्यधः ॥ ३२॥
स्वदेहे परदेहे वा न कुर्यादङ्कनं नरः ।
यदि कुर्याच्च चक्राद्यैः पतत्येव न संशयः ॥ ३३॥
रहस्यं सर्वशास्त्राणां मया प्रोक्तं समासतः ।
शरीरं देवतारूपं भजध्वं यूयमास्तिकः ॥ ३४॥
॥ इति श्रीसूतसंहितायां यज्ञवैभवखण्डस्योपरिभागे
सूतगीतायां रहस्यविचारो नाम सप्तमोऽध्यायः ॥ ७॥
अथ अष्टमोऽध्यायः ।
८. सर्ववेदान्तसङ्ग्रहः ।
सूत उवाच -
अथ वक्ष्ये समासेन सर्ववेदान्तसङ्ग्रहम् ।
यं विदित्वा नरः साक्षान्निर्वाणमधिगच्छति ॥ १॥
परात्परतरं तत्त्वं शिवः सत्यादिलक्षणः ।
तस्यासाधारणी मूर्तिरम्बिकासहिता सदा ॥ २॥
स्वस्वरूपमहानन्दप्रमोदात्ताण्डवप्रिया ।
शिवादिनामान्येवास्य नामानि मुनिपुङ्गवाः ॥ ३॥
ब्रह्मा विष्णुश्च रुद्रश्च परतत्त्वविभूतयः ।
त्रिमूर्तीनां तु रुद्रस्तु वरिष्ठो ब्रह्मणो हरेः ॥ ४॥
संसारकारणं माया सा सदा सद्विलक्षणा ।
प्रतीत्यैव तु सद्भावस्तस्या नैव प्रमाणतः ॥ ५॥
साऽपि ब्रह्मातिरेकेण वस्तुतो नैव विद्यते ।
तत्त्वज्ञानेन मायाया बाधो नान्येन कर्मणा ॥ ६॥
ज्ञानं वेदान्तवाक्योत्थं ब्रह्मात्मैकत्वगोचरम् ।
तच्च देवप्रसादेन गुरोः साक्षान्निरीक्षणात् ।
जायते शक्तिपातेन वाक्यादेवाधिकारिणाम् ॥ ७॥
ज्ञानेच्छाकारणं दानं यज्ञाश्च विविधा अपि ।
तपांसि सर्ववेदानां वेदान्तानां तथैव च ॥ ८॥
पुराणानां समस्तानां स्मृतीनां भारतस्य च ।
वेदाङ्गानां च सर्वेषामपि वेदार्थपारगाः ॥ ९॥
अध्यापनं चाध्ययनं वेदार्थे त्वरमाणता ।
उपेक्षा वेदबाह्यार्थे लौकिकेष्वखिलेष्वपि ॥ १०॥
शान्तिदान्त्यादयो धर्मा ज्ञानस्याङ्गानि सुव्रताः ॥ ११॥
ज्ञानाङ्गेषु समस्तेषु भक्त्या लिङ्गे शिवार्चनम् ।
प्रतिष्ठा देवदेवस्य शिवस्थाननिरीक्षणम् ॥ १२॥
शिवभक्तस्य पूजा च शिवभक्तिस्तथैव च ।
रुद्राक्षधारणं भक्त्या कर्णे कण्ठे तथा करे ॥ १३॥
अग्निरित्यादिभिर्मन्त्रैर्भस्मनैवावगुण्ठनम् ।
त्रिपुण्ड्रधारणं चापि ललाटादिस्थलेषु च ॥ १४॥
वेदवेदान्तनिष्ठस्य महाकारुणिकस्य च ।
गुरोः शुश्रूषणं नित्यं वरिष्ठं परिकीर्तितम् ॥ १५॥
चिन्मन्त्रस्य पदाख्यस्य हंसाख्यस्य मनोर्जपः ।
षडक्षरस्य तारस्य वरिष्ठः परिकीर्तितः ॥ १६॥
अविमुख्यसमाख्यं च स्थानं व्याघ्रपुराभिधम् ।
श्रीमद्दक्षिणकैलाससमाख्यं च सुशोभनम् ॥ १७॥
मार्गान्तरोदिताचारात्स्मार्तो धर्मः सुशोभनः ।
स्मार्ताच्छ्रौतः परो धर्मः श्रौताच्छ्रेष्ठो न विद्यते ॥ १८॥
अतीन्द्रियार्थे धर्मादौ शिवे परमकारणे ।
श्रुतिरेव सदा मानं स्मृतिस्तदनुसारिणी ॥ १९॥
आस्तिक्यं सर्वधर्मस्य कन्दभूतं प्रकीर्तितम् ।
प्रतिषिद्धक्रियात्यागः कन्दस्यापि च कारणम् ॥ २०॥
शिवः सर्वमिति ज्ञानं सर्वज्ञानोत्तमोत्तमम् ।
तत्तुल्यं तत्परं चापि न किंचिदपि विद्यते ॥ २१॥
वक्तव्यं सकलं प्रोक्तं मयाऽतिश्रद्धया सह ।
अतः परं तु वक्तव्यं न पश्यामि मुनीश्वराः ॥ २२॥
इत्युक्त्वा भगवान्सूतो मुनीनां भावितात्मनाम् ।
साम्बं सर्वेश्वरं ध्यात्वा भक्त्या परवशोऽभवत् ॥ २३॥
अथ परशिवभक्त्या सच्चिदानन्दपूर्णं
परशिवमनुभूय त्वात्मरूपेण सूतः ।
मुनिगणमवलोक्य प्राह साक्षाद्घृणाब्धि-
र्जनपदहितरूपं वेदितव्यं तु किंचित् ॥ २४॥
श्रुतिपथगलितानां मानुषाणां तु तन्त्रं
गुरुगुरुरखिलेशः सर्ववित्प्राह शम्भुः ।
श्रुतिपथनिरतानां तत्र नैवास्ति किंचि-
द्धितकरमिह सर्वं पुष्कलं सत्यमुक्तम् ॥ २५॥
श्रुतिरपि मनुजानां वर्णधर्मं बभाषे
परगुरुरखिलेशः प्राह तन्त्रेषु तद्वत् ।
श्रुतिपथगलितानां वर्णधर्मं घृणाब्धिः
श्रुतिपथनिरतानां नैव तत्सेवनीयम् ॥ २६॥
श्रुतिपथनिरतानामाश्रमा यद्वदुक्ताः
परगुरुरखिलेशस्तद्वदाहाऽऽश्रमांश्च ।
श्रुतिपथगलितानां मानुषाणां तु तन्त्रं
हरिरपि मुनिमुख्याः प्राह तन्त्रे स्वकीये ॥ २७॥
विधिरपि मनुजानामाह वर्णाश्रमांश्च
श्रुतिपथगलितानामेव तन्त्रे स्वकीये ।
श्रुतिपथनिरतानां ते न संसेवनीयाः ।
श्रुतिपथसममार्गौ नैव सत्यं मयोतम् ॥ २८॥
हरहरिविधिपूजा कीर्तिता सर्वतन्त्र
श्रुतिपथनिरतानं यद्वदुक्तातु पूजा ।
श्रुतिपथगलितानांयद्वदुक्ता तु पूजा ।
श्रुतिपथगलितानामेव तन्त्रोक्तपूजा
श्रुतिपथनिरतानां सर्ववेदोदितैव ॥ २९॥
श्रुतिपथगलितानां सर्वतन्त्रेषु लिङ्गं
कथितमखिलदुःखध्वंसध्वंसकं तत्र तत्र ।
श्रुतिपथनिरतानां तत्सदा नैव धार्यं
श्रुतिरपिमनुजानामाह लिङ्गं विशुद्धम् ॥ ३०॥
शिवागमोक्ताश्रमनिष्ठमानव-
स्त्रिपुण्ड्रलिङ्गं तु सदैव धारयेत् ।
तदुक्ततन्त्रेण ललाटमध्यमे
महादरेणैव सितेन भस्मना ॥ ३१॥
विष्ण्वागमोक्ताश्रमनिष्ठमानव-
स्तथैव पुण्ड्रान्तरमूर्ध्वरूपकम् ।
त्रिशूलरूपं चतुरश्रमेव वा
मृदा ललाटे तु सदैव धारयेत् ॥ ३२॥
ब्रह्मागमोक्ताश्रमनिष्ठमानवो
ललाटमध्येऽपि च वर्तुलाकृतिम् ।
तदुक्तमन्त्रेण सितेन भस्मना
मृदाऽथवा चन्दनस्तु धारयेत् ॥ ३३॥
अश्वत्थपत्रसदृशं हरिचन्दनेन
मध्येललाटमतिशोभनमादरेण ।
बुद्धागमे मुनिवरा यदि संस्कृतश्चे-
न्मृद्वारिणा सततमेव तु धारयेच्च ॥ ३४॥
ऊर्ध्वपुण्ड्रत्रयं नित्यं धारयेद्भस्मना मृदा ।
ललाटे हृदये बाह्वोश्चन्दनेनाथवा नरः ॥ ३५॥
सितेन भस्मना तिर्यक्त्रिपुण्ड्रस्य च धारणम् ।
सर्वागमेषु निष्ठानां तत्तन्मन्त्रेण शोभनम् ॥ ३६॥
शिवागमेषु निष्ठानां धार्यं तिर्यक्त्रिपुण्ड्रकम् ।
एकमेव सदा भूत्या नैव पुण्ड्रान्तरं बुधाः ॥ ३७॥
वेदमार्गैकनिष्ठानां वेदोक्तेनैव वर्त्मना ।
ललाटे भस्मना तिर्यक्त्रिपुण्ड्रं धार्यमेव हि ॥ ३८॥
ललाटे भस्मना तिर्यक्त्रिपुण्ड्रस्य तु धारणम् ।
विना पुण्ड्रान्तरं मोहाद्धारयन्पतति द्विजः ॥ ३९॥
विष्ण्वागमादितन्त्रेषु दीक्षितानां विधीयते ।
शङ्खचक्रगदापूर्वैरङ्कनं नान्यदेहिनाम् ॥ ४०॥
दीक्षितानां तु तन्त्रेषु नराणामङ्कन द्विजाः ।
उपकारकमेवोक्तं क्रमेण मुनिपुङ्गवाः ॥ ४१॥
पुण्ड्रान्तरस्य तन्त्रेषु धारणं दीक्षितस्य तु ।
उपकारकमेवोक्तं क्रमेण मुनिपुङ्गवाः ॥ ४२॥
वेदमार्गैकनिष्ठस्तु मोहेनाप्यङ्कितो यदि ।
पतत्येव न सन्देहस्तथा पुण्ड्रान्तरादपि ॥ ४३॥
नाङ्कनं विग्रहे कुर्याद्वेदपन्थानमाश्रितः ।
पुण्ड्रान्तरं भ्रमाद्वापि ललाटे न धारयेत् ॥ ४४॥
तन्त्रोक्तेन प्रकारेण देवता या प्रतिष्ठिता ।
साऽपि वन्द्या सुसेव्या च पूजनीया च वैदिकैः ॥ ४५॥
शुद्धमेव हि सर्वत्र देवतारूपमास्तिकाः ।
तत्तत्तन्त्रोक्तपूजा तु तन्त्रनिष्ठस्य केवलम् ॥ ४६॥
तन्त्रेषु दीक्षितो मर्त्यो वैदिकं न स्पृशेत्सदा ।
वैदिकश्चापि तन्त्रेषु दीक्षितं न स्पृशेत्सदा ॥ ४७॥
राजा तु वैदिकान्सर्वांस्तान्त्रिकानखिलानपि ।
असंकीर्णतया नित्यं स्थापयेन्मतिमत्तमाः ॥ ४८॥
अन्नपानादिभिर्वस्त्रैः सर्वान् राजाऽभिरक्षयेत् ।
वैदिकांस्तु विशेषेण ज्ञानिनं तु विशेषतः ॥ ४९॥
महादेवसमो देवो यथा नास्ति श्रुतौ स्मृतौ ।
तथा वैदिकतुल्यस्तु नास्ति तन्त्रावलम्बिषु ॥ ५०॥
शिवज्ञानसमं ज्ञानं यथा नास्ति श्रुतौ स्मृतौ ।
तथा वैदिकतुल्यस्तु नास्ति तन्त्रावलम्बिषु ॥ ५१॥
यथा वाराणसी तुल्या पुरी नास्ति श्रुतौ स्मृतौ ।
तथा वैदिकतुल्यस्तु नास्ति तन्त्रावलम्बिषु ॥ ५२॥
षडक्षरोसमो मन्त्रो यथा नास्ति श्रुतौ स्मृतौ ।
तथा वैदिकतुल्यस्तु नास्ति तन्त्रावलम्बिषु ॥ ५३॥
यथा भागीरथीतुल्या नदी नास्ति श्रुतौ स्मृतौ ।
तथा वैदिकतुल्यस्तु नास्ति तन्त्रावलम्बिषु ॥ ५४॥
ओदनेन समं भोज्यं यथा लोके न विद्यते ।
तथा वैदिकतुल्यस्तु नास्ति तन्त्रावलम्बिषु ॥ ५५॥
देवदेवो महादेवो यथा सर्वैः प्रपूज्यते ।
तथैव वैदिको मर्त्यः पूज्यः सर्वजनैरपि ॥ ५६॥
आदित्येन विहीनं तु जगदन्धं यथा भवेत् ।
तथा वैदिकहीनं तु जगदन्धं न संशयः ॥ ५७॥
प्राणेन्द्रियादिहीनं तु शरीरं कुणपं यथा ।
तथा वैदिकहीनं तु जगद्व्यर्थं न संशयः ॥ ५८॥
अहो वैदिकमाहात्म्यं मया वक्तुं न शक्यते ।
वेद एव तु माहात्म्यं वैदिकस्याब्रवीन्मुदा ॥ ५९॥
स्मृतयश्च पुराणानि भारतादीनि सुव्रताः ।
वैदिकस्य तु माहात्म्यं प्रवदन्ति सदा मुदा ॥ ६०॥
वेदोक्तं तान्त्रिकाः सर्वे स्वीकुर्वन्ति द्विजर्षभाः ।
नोपजीवन्ति तन्त्रोक्तं वेद साक्षात्सनातनः ॥ ६१॥
इत्युक्त्वा भगवान्सूतः स्वगुरुं व्याससंज्ञितम् ।
स्मृत्वा भक्त्या वशो भूत्वा पपात भुवि दण्डवत् ॥ ६२॥
अस्मिन्नवसरे श्रीमान्मुनिः सत्यवतीसुतः ।
शिष्यस्मृत्यङ्कुशाकृष्टस्तत्रैवाऽऽविरभूत्स्वयम् ॥ ६३॥
तं दृष्ट्वा मुनयः सर्वे सन्तोषाद्गद्गदस्वराः ।
निश्चेष्टा नितरां भूमौ प्रणम्य करुणानिधिम् ॥ ६४॥
स्तोत्रैः स्तुत्वा महात्मानं व्यासं सत्यवतीसुतम् ।
पूजयामासुरत्यर्थं वन्यपुष्पफलादिभिः ॥ ६५॥
भगवानपि सर्वज्ञः करुणासागरः प्रभुः ।
उवाच मधुरं वाक्यं मुनीनालोक्य सुव्रतान् ॥ ६६॥
व्यास उवाच -
शिवमस्तु मुनीन्द्राणां नाशिवं तु कदाचन ।
अहो भाग्यमहो भाग्यं मया वक्तुं न शक्यते ॥ ६७॥
श्रूयतां मुनयः सर्वे भाग्यवन्तः समाहिताः ।
प्रसादादेव रुद्रस्य प्रभोः कारुणिकस्य च ॥ ६८॥
पुराणानां समस्तानामहं कर्ता पुराऽभवम् ।
मत्प्रसादादयं सूतस्त्वभवद्रुद्रवल्लभः ॥ ६९॥
रुद्रस्याऽऽज्ञाबलादेव प्रभोः कारुणिकस्य च ।
पुराणसंहितकर्ता देशिकश्चाभवद्भृशम् ॥ ७०॥
पुरा कृतेन पुण्येन भवन्तोऽपीश्वराज्ञया ।
सूतादस्माच्छ्रुतेरर्थं श्रुतवन्तो यथातथम् ॥ ७१॥
कृतार्थाश्च प्रसादश्च रौद्रः किं न करिष्यति ।
आज्ञया केवलं शम्भोरहं वेदार्थवेदने ॥ ७२॥
सम्पूर्णः सर्ववेदान्तवाक्यानामर्थनिश्चये ।
समर्थश्च नियुक्तश्च सूत्रारम्भकृतेऽपि च ॥ ७३॥
आज्ञया देवदेवस्य भवतामपि योगिनाम् ।
ज्ञाने गुरुगुरुश्चाहमभवं मुनिपुङ्गवाः ॥ ७४॥
भवन्तोऽपि शिवज्ञाने वेदसिद्धे विशेषतः ।
भक्त्या परमया युक्ता निष्ठा भवत सर्वदा ॥ ७५॥
इत्युक्त्वा भगवान् व्यासः स्वशिष्यं सूतमुत्तमम् ।
उत्थाप्याऽऽलिङ्ग्य देवेशं स्मृत्वा नत्वाऽगमद्गुरुः ॥ ७६॥
पुनश्च सूतः सर्वज्ञः स्वशिष्यानवलोक्य च ।
प्राह गम्भीरया वाचा भवतां शिवमस्त्विति ॥ ७७॥
मयोक्ता परमा गीता पठिता येन तस्य तु ।
आयुरारोग्यमैश्वर्यं विज्ञानं च भविष्यति ॥ ७८॥
शिवप्रसादः सुलभो भविष्यति न संशयः ।
गुरुत्वं च मनुष्याणां भविष्यति न संशयः ॥ ७९॥
विद्यारूपा या शिवा वेदवेद्या
सत्यानन्दानन्तसंवित्स्वरूपा ।
तस्या वाचः सर्वलोकैक मातु-
र्भक्त्या नित्यं चम्बिकायाः प्रसादात् ॥ ८०॥
गुरुप्रसादादपि सुव्रता मया
शिवप्रसादादपि चोत्तमोत्तमात् ।
विनायकस्यापि महाप्रसादात्
षडाननस्यापि महाप्रसादात् ॥ ८१॥
यज्ञवैभवसमाह्वयः कृतः
सर्ववेदमथनेन सत्तमाः ।
अत्र मुक्तिरपि शोभना परा
सुस्थितैव न हि तत्र संशयः ॥ ८२॥
यज्ञवैभवसमाह्वयं परं
खण्डमत्र विमलं पठेन्नरः ।
सत्यबोधसुखलक्षणं
सत्यमेव झटिति प्रयाति हि ॥ ८३॥
मदुक्तसंहिता परा समस्तदुःखहारिणी
नरस्य मुक्तिदायिनी शिवप्रसादकारिणी ।
समस्तवेदसारतः सुनिर्मिताऽतिशोभना
महत्तरानुभूतिमद्भिरादृता न चापरैः ॥ ८४॥
मदुक्तसंहिता तु या तया विरुद्धमस्ति चे-
दनर्थकं हि तद्बुधा वचः प्रयोजनाय न ।
श्रुतिप्रमाणरूपिणी सुसंहिता मयोदिता
श्रुतिप्रमाणमेव सा महाजनस्य सन्ततम् ॥ ८५॥
मदुक्तसंहितामिमामतिप्रियेण मानवः
पठन्न याति संसृतिं प्रयाति शङ्करं परम् ।
अतश्च शोभनामिमामहर्निशं समाहितः
श्रुतिप्रमाणवत्पठेदतन्द्रितः स्वमुक्तये ॥ ८६॥
पुराणसंहितामिमामतिप्रियेण यः पुमान्
श्रुणोति संसृतिं पुनर्न याति याति शङ्करम् ।
परानुभूतिरद्वया विजायते च तस्य सा
शिवा च वाचि नृत्यति प्रियेण शङ्करोऽपि च ॥ ८७॥
सत्यपूर्णसुखबोधलक्षणं
तत्त्वमर्थविभवं सनातनम् ।
सत्स्वरूपमशुभापहं शिवं
भक्तिगम्यममलं सदा नुमः ॥ ८८॥
याऽनुभूतिरमला सदोदिता
वेदमाननिरता शुभावहा ।
तामतीव सुखदामहं शिवां
केशवादिजनसेवितां नुमः ॥ ८९॥
वेदपद्मनिकरस्य भास्करं
देवदेवसदृशं घृणानिधिम् ।
व्यासमिष्टफलदं गुरुं नुमः
शोकमोहविषरोगभेषजम् ॥ ९०॥
ये वेदवेदान्तधना महाजनाः
शिवाभिमानैकनिरस्तकिल्बिषाः ।
नमामि वाचा शिरसा हृदा च तान्
भवाहिवेगस्य निवारकानहम् ॥ ९१॥
॥ इति श्रीस्कान्दपुराणे सूतसंहितायां चतुर्थस्य
यज्ञवैभवखण्डस्योपरिभागे सूतगीतायां
सर्ववेदान्तसङ्ग्रहो नामाष्टमोऽध्यायः ॥ ८॥
सूतगीता समाप्ता ।
ॐ तत्सत्
॥ सूर्य गीता ॥
॥ श्री गणेशाय नमः ॥
॥ अथ सूर्यगीता प्रारभ्यते ॥
ब्रह्मा उवाच -
प्रपञ्चसृष्टिकर्मेदं मम श्रीगुरुनायक ।
अहार्यं द्विपरार्धान्तमाधिकारिकतावशात् ॥ १ ॥
इति त्वद्वदनाम्भोजात्सम्यग्विदितवानहम् ।
तथाप्यत्र न मे चिन्ता जायते त्वत्कृपाबलात् ॥ २ ॥
त्वयि प्रसन्ने मय्येवं बोधानन्दः स्वरूपतः ।
पुनर्जन्मभयाभावाद्धीर एवास्मि वृत्तिषु ॥ ३ ॥
तथाऽपि कर्मभागेषु श्रोतव्यमवशिष्यते ।
तत्सर्वं च विदित्वैव सर्वज्ञः स्यामहं प्रभो ॥ ४ ॥
जगज्जीवेश्वरादीनां प्रागुत्पत्तेर्निरंजनम् ।
निर्विशेषमकर्मैकं ब्रह्मैवासीत्तदद्वयम् ॥ ५ ॥
तस्य जीवेश स्रष्टृत्वं प्रोच्यते वेदवादिभिः ।
अकर्मणः कथं सृष्टिकर्मकर्तृत्वमुच्यते ॥ ६ ॥
सकर्मा सेन्द्रियो लोके दृश्यते न निरिन्द्रियः ।
ब्रह्मणोऽतीन्द्रियत्वं च सर्वशास्त्रेषु घुष्यते ॥ ७ ॥
नश्यमानतयोत्पत्तिमत्वादाद्यस्य कर्मणः ।
न मुख्यमवकल्पेताप्यनादित्वोपवर्णनम् ॥ ८ ॥
ब्रह्म चेत्कर्मकुर्वीत यनेकेनापि हेतुना ।
तथा च संसृतिस्तस्य प्रसज्येत तु नात्मनः ॥ ९ ॥
तस्मादाद्यस्य पुण्यस्य पापस्य च दयानिधे ।
कर्मणो ब्रूहि मे स्पष्टमुपपत्तिं गुरूत्तम ॥ १० ॥
इत्युक्तो विधिना देवो दक्षिणामूर्तिरीश्वरः ।
विचित्रप्रश्नसन्तुष्ट इदं वचनमब्रवीत् ॥ ११ ॥
श्रीगुरुमूर्तिरुवाच -
ब्रह्मन्साधुरयं प्रश्नस्तव प्रश्नविदां वर ।
शृणुष्व सावधानेन चेतसाऽस्योत्तरं मम ॥ १२ ॥
प्रागुत्पत्तेरकर्मैकमकर्तृ च निरिन्द्रियम् ।
निर्विशेषं परं ब्रह्मैवासीन्नात्रास्ति संशयः ॥ १३ ॥
तथाऽपि तस्य चिच्छक्तिसंयुतत्वेन हेतुना ।
प्रतिच्छायात्मिके शक्ती मायाविद्ये बभूवतुः ॥ १४ ॥
अद्वितीयमपि ब्रह्म तयोर्यत्प्रतिबिम्बितम् ।
तेन द्वैविध्यमासाद्य जीव ईश्वर इत्यपि ॥ १५ ॥
पुण्यपापादिकर्तृत्वं जगत्सृष्ट्यादिकर्तृताम् ।
अभजत्सेन्द्रियत्वं च सकर्मत्वं विशेषतः ॥ १६ ॥
यः स्वशक्त्या समुल्लास उदभूत्परमात्मनः ।
स्वबन्धजनकं सूक्ष्मं तदाद्यं कर्म कथ्यते ॥ १७ ॥
न तेन निर्विशेषत्वं हीयते तस्य किंचन ।
न च संसारबन्धश्च कश्चिद्ब्रह्मन्प्रसज्यते ॥ १८ ॥
पारमार्थिकसंसारी जीवः पुण्यादिकर्मवान् ।
प्रातिभासिकसंसारी त्वीशः सृष्ट्यादिकर्मवान् ॥ १९ ॥
असंसारि परं ब्रह्म जीवेशोभयकारणम् ।
ततोऽप्यतीतं नीरूपं अवाङ्मनसगोचरम् ॥ २० ॥
कर्मवन्तौ परित्यज्य जीवेशौ ये महाधियः ।
अकर्मवत्परं ब्रह्म प्रयान्त्यत्र समाधिभिः ॥ २१ ॥
ते विदेहविमुक्ता वा जीवन्मुक्ता नरोत्तमाः ।
कर्माकर्मोभयातीतास्तद्ब्रह्मारूपमाप्नुयुः ॥ २२ ॥
कर्मणा संसृतौ बद्धा मुच्यन्ते ते ह्यकर्मणा ।
बन्धमोक्षोभयातीताः कर्मिणो नाप्यकर्मिणः ॥ २३ ॥
जीवस्य कर्मणा बन्धस्तस्य मोक्षश्च कर्मणा ।
तस्माद्धेयं च कर्म स्यादुपादेयं च कर्म हि ॥ २४ ॥
त्यक्ते कर्मणि जीवत्वमात्मनो गच्छति स्वयम् ।
गृहीते कर्मणि क्षिप्रं ब्रह्मत्वं च प्रसिध्यति ॥ २५ ॥
आविद्यकमशुद्धं यत्कर्म दुःखाय तन्नृणाम् ।
विद्यासम्बन्धि शुद्धं यत् तत्सुखाय च कथ्यते ॥ २६ ॥
विद्याकर्मक्षुरात्तीक्ष्णात् छिनत्ति पुरुषोत्तमः ।
अविद्याकर्मपाशांश्चेत्स मुक्तो नात्र संशयः ॥ २७ ॥
सर्वस्य व्यवहारस्य विधे कर्मैव कारणम् ।
इति निश्चयसिद्ध्यै ते सूर्यगीतां वदाम्यहम् ॥ २८ ॥
कर्मसाक्षिणमादित्यं सहस्रकिरणं प्रभुम् ।
सप्ताश्वं सर्वधर्मज्ञमपृच्छदरुणः पुरा ॥ २९ ॥
अरुण उवाच -
भगवन् केन संसारे प्राणिनः संभ्रमन्त्यमी ।
केनैतेषां निवृत्तिश्च संसाराद्वद सद्गुरो ॥ ३० ॥
इति पृष्टः स सर्वज्ञः सहस्रकिरणोज्वलः ।
सूर्योऽब्रवीदिदं शिष्यमरुणं निजसारथिम् ॥ ३१ ॥
सूर्य उवाच -
अरुण त्वं भवस्यद्य मम प्रियतमः खलु ।
यतः पृच्छसि संसारभ्रमकारणमादरात् ॥ ३२ ॥
भ्रमन्ति केवलं सर्वे संसारे प्राणिनोऽनिशम् ।
न तु तत्कारणं केनाप्यहो किंचिद्विचार्यते ॥ ३३ ।
तज्जिज्ञासुतया त्वं तु श्लाघ्योऽसि विबुधोत्तमैः ।
शृणुश्वारुण वक्ष्यामि तव संसारकारणम् ॥ ३४ ॥
पुण्यपापात्मकं कर्म यत्सर्वप्राणिसंचितम् ।
अनादिसुखदुःखानां जनकं चाभिधीयते ॥ ३५ ॥
शास्त्रैः सर्वैश्च विहितं प्रतिषिद्धं च सादरम् ।
कामादिजनितं तत्त्वं विद्धि संसारकारणम् ॥ ३६ ॥
पश्वादीनामभावेऽपि तयोर्विधिनिषेधयोः ।
संसारस्य न लोपोऽस्ति पूर्वकर्मानुसारतः ॥ ३७ ॥
पूर्वं मनुष्यभूतानां पापकर्मावशादिह ।
श्वखरोष्ट्रादिजन्मानि निकृष्टानि भवन्त्यहो ॥ ३८ ॥
पापकर्मसु भोगेन प्रक्षीणेषु पुनश्च ते ।
प्राप्नुवन्ति मनुष्यत्वं पुनश्च श्वादिजन्मिताम् ॥ ३९ ॥
जननैर्मरणैरेवं पौनःपुन्येन संसृतौ ।
भ्रमन्त्यब्धितरंगस्थदारुवद्धीमतां वर ॥ ४० ॥
अरुण उवाच -
प्रक्षीणपापकर्माणः प्राप्तवन्तो मनुष्यताम् ।
पुनश्च श्वादिजन्मानि केन गच्छन्ति हेतुना ॥ ४१ ॥
न हि दुर्जन्महेतुत्वं पुण्यानां युक्तमीरितुम् ।
न च पुण्यवतां भूयः पापकर्मोपपद्यते ॥ ४२ ॥
पुण्यैर्विशुद्धचित्तानां ज्ञानयोगादिसाधनैः ।
संसारमोक्षसंसिद्ध्या पापकर्माप्रसक्तितः ॥ ४३ ॥
जीवेषु पौनःपुन्यं चेदुत्तमाधमजन्मनाम् ।
नियमेनाभिधीयेत येन केनापि हेतुना ॥ ४४ ॥
मोक्षशास्त्रस्य वैयर्थ्यमापतत्येव सर्वथा ।
तस्मादपापिनां जन्म पुनश्चेति न युज्यते ॥ ४५ ॥
इत्युक्तो भगवानाह सर्वज्ञः करुणानिधिः ।
रविः संशयविच्छेदनिपुणोऽरुणमादरात् ॥ ४६ ॥
रविरुवाच -
प्रक्षीणेष्वपि भोगेन पापकर्मसु देहिनः ।
पुनश्च पापकर्माणि कुर्वन्तो यान्ति दुर्गतिम् ॥ ४७ ॥
तानि दुर्जन्मबीजानि कामात्पापानि देहिनाम् ।
पुनरप्युपपद्यन्ते पूर्वपुण्यवतामपि ॥ ४८ ॥
सकामानां च पुण्यानां भोगहेतुतया नृणाम् ।
न चित्तशुद्धिहेतुत्वं क्वचिद्भवितुमर्हति ॥ ४९ ॥
कुतश्चाशुद्धचित्तानां ज्ञानयोगादिसंभवः ।
ज्ञानयोगादिहीनानां कुतो मोक्षश्च संसृतेः ॥ ५० ॥
कामेन हेतुना सत्स्वप्युत्तमाधमजन्मसु ।
मोक्षशास्त्रस्य सार्थक्यं नैष्काम्योदयहेतुकम् ॥ ५१ ॥
सुखदुःखोपभोगेन यदा निर्वेदमागतः ।
निष्कामत्वमवाप्नोति स्वविवेकपुरस्सरम् ॥ ५२ ॥
ततःप्रभृति कैश्चित्स्याज्जन्मभिर्ज्ञानयोगवान् ।
श्रवणादिप्रयत्नैर्हि मुक्तिः स्वात्मन्यवस्थितिः ॥ ५३ ॥
कर्माध्यक्षं परात्मानं सर्वकर्मैकसाक्षिणम् ।
सर्वकर्मविदूरन्तं कर्मवान्कथमाप्नुयात् ॥ ५४ ॥
पुण्येष्वपि च पापेषु पौर्विकेषु तु भोगतः ।
क्षपितेषु परात्मा स स्वयमाविर्भविष्यति ॥ ५५ ॥
कर्तृभिर्भुज्यते जीवैः सर्वकर्मफलं न तु ।
साक्षिणा निर्विकल्पेन निर्लेपेन परात्मना ॥ ५६ ॥
जीवानां तदनन्यत्वत्भोगस्यावसरः कुतः ।
इति केचन शंकन्ते वेदान्तापातदर्शिनः ॥ ५७ ॥
परमार्थदशायां हि तदनन्यत्वमिष्यते ।
व्यवहारदशायां नानुपपत्तिश्च काचन ॥ ५८ ॥
परमार्थदशारूढे जीवन्मुक्तेऽपि कर्मणाम् ।
भोगोऽङ्गीक्रियते सम्यक् दृश्यते च तथा सति ॥ ५९ ॥
अज्ञानां व्यवहारैकनिष्ठानां तदनन्यता ।
अभोक्तृता च केनैव वक्तुं शक्या मनीषिणा ॥ ६० ॥
ज्ञानिनः कर्मकर्तृत्वं दृश्यमानमपि स्फुटम् ।
उत्पादयेत्फलं नेति मन्यन्ते स्वप्नकर्मवत् ॥ ६१ ॥
तदयुक्तं न हि स्वप्ने पापकर्तुः स्वतन्त्रता ।
जाग्रति प्राणिनः कर्म स्वातन्त्र्यं वर्तते खलु ॥ ६२ ॥
तिरश्चां जागरावस्था यथा भोगैककारणम् ।
तथा स्वप्नदशा नॄणां फलभोगैककारणम् ॥ ६३ ॥
नृणां च जागरावस्था बालानां स्यात्तथा न तु ।
यूनां वृद्धतमानां वा किमुत स्वात्मवेदिनाम् ॥ ६४ ॥
भाविभोगार्थकं कर्म जाग्रत्येव नृणां भवेत् ।
फलं तु कर्मणः स्वप्ने जाग्रत्यपि च युज्यते ॥ ६५ ॥
कर्मण्यध्यस्य भोगं ये भोगेऽध्यस्याथ कर्म च ।
कर्म तद्भोगयोर्भेदमज्ञात्वाहुर्यथेप्सितम् ॥ ६६ ॥
तेषां मन्दधियां ज्ञानवादिनां पापकारिणाम् ।
कथं कृतार्थतां ब्रूयामध्यासक्षयसंभवाम् ॥ ६७ ॥
कर्मण्यकर्मधीर्येषामकर्मणि च कर्मधीः ।
ते चाध्यासवशा मन्दा ज्ञानिनः स्वैरचारिणः ॥ ६८ ॥
वर्णाश्रमादिधर्माणामद्वैतं कर्मणैव ये ।
अनुतिष्ठन्ति ते मूढाः कर्माकर्मोभयच्युताः ॥ ६९ ॥
स्वानुभूतिं वरिष्ठां तां सर्वानुष्ठानवर्जिताम् ।
सर्वानुष्ठानवन्तोऽपि सिद्धामाहुर्बतात्मनाम् ॥ ७० ॥
अभेदध्यानसाध्यां तां स्वानुभूतिं महत्तमाम् ।
विचारसाध्यां मन्यन्ते ते महापापकर्मिणः ॥ ७१ ॥
निदिध्यासनमप्यात्मा भेदाभिध्यानलक्षणम् ।
उपेक्षन्ते वृथाद्वैतज्ञानवादैकमोहतः ॥ ७२ ॥
आश्रित्यैव विचारं ये वाक्यार्थमननात्मकम् ।
मन्यन्ते कृतकृत्यत्वमात्मनां ते हि मोहिताः ॥ ७३ ॥
आद्यज्ञानोदये काम्यकर्मत्याग उदीर्यते ।
द्वितीयसम्यग्ज्ञाने तु नैमित्तिकनिराकृतिः ॥ ७४ ॥
तृतीयपूर्णज्ञाने च नित्यकर्मनिराकृतिः ।
चतुर्थाद्वैतबोधे तु सोऽतिवर्णाश्रमी भवेत् ॥ ७५ ॥
नित्यनैमित्तिकोपेतज्ञानान्मुक्तिः क्रमाद्भवेत् ।
सम्यग्ज्ञानात्तु सा जीवन्मुक्तिर्नित्यैकसंयुतात् ॥ ७६ ॥
पूर्णज्ञानाद्विदेहाख्या शाश्वती मुक्तिरिष्यते ।
यथा नैष्कर्म्यसंसिद्धिर्जीवन्मुक्ते निरंकुशा ॥ ७७ ॥
अत्रैवं सति नैष्कर्म्यं ज्ञानकर्मसमुच्चयात् ।
सिध्येत्क्रमेण सद्यो वा नान्यथा कल्पकोटिभिः ॥ ७८ ॥
यावद्विदेहमुक्तिः सा न सिध्यति शरीरिणः ।
तावत्समुच्चयः सिद्धो ज्ञानोपासनकर्मणाम् ॥ ७९ ॥
तस्माद् ज्ञात्वा परात्मानं ध्याननिष्ठो महामतिः ।
भूयान्निजाश्रमाचारनिरतः श्रेयसे सदा ॥ ८० ॥
ज्ञानोपास्ती कर्मसापेक्षके ते
कर्मोपास्ती ज्ञानसापेक्षके च ।
कर्मज्ञाने चान्यसापेक्षके तन्-
मुक्त्यै प्रोक्तं साहचर्यं त्रयाणाम् ॥ ८१ ॥
ज्ञानोपास्ती स्वीयकर्मस्वपास्यापेकं
मुक्तिर्नैव कस्यापि सिध्येत् ।
तस्माद्धीमानाश्रयेदप्रमत्तस्त्री-
ण्युक्तानि श्रद्धयाऽऽदेहपातात् ॥ ८२ ॥
॥ इति सूर्यगीतायां प्रथमोऽध्यायः ॥
॥ अथ द्वितीयोऽध्यायः ॥
सूर्य उवाच -
अथातः सम्प्रवक्ष्यामि कर्मणां पंचभूमिकाः ।
उत्तरोत्तरमुत्कर्षाद्विद्धि सोपानपंक्तिवत् ॥ १ ॥
प्रथामा तांत्रिकी प्रोक्ता परा पौराणिकी मता ।
स्मार्ता तृतीया तुर्या तु श्रौता संकीर्तिता बुधैः ॥ २ ॥
पंचमी त्वौपनिषदा विबुधोत्तमसंमता ।
यस्याः परं न किंचित्स्याद्वाच्यं ज्ञेयं च सत्तम ॥ ३ ॥
स्वेच्छं कर्माणि कुर्वन्यः प्रमाणाश्रयणं विना ।
तन्त्रोक्तानि करोत्येष कर्मी प्राथमिको मतः ॥ ४ ॥
तानि तन्त्रोक्तकर्माणि त्यक्त्वा पौराणिकानि यः ।
करोति तन्त्रसम्बन्धीन्ययं कर्मी द्वितीयकः ॥ ५ ॥
त्यक्त्वा तान्यपि यः स्मार्तान्यनुतिष्ठति सर्वदा ।
श्रुतिसम्बन्धवन्त्येष तृतीयः कर्म्युदीर्यते ॥ ६ ॥
यश्च तान्यपि सन्त्यज्य श्रौतान्येवाचरत्ययम् ।
कर्मी धर्मार्थकामानां स्थानं तुर्योऽभिधीयते ॥ ७ ॥
श्रौतान्यपि च यस्त्यक्त्वा सदौपनिषदानि वै ।
करोति श्रद्धया कर्माण्ययं मोक्षी तु पंचमः ॥ ८ ॥
यान्यौपनिषदानां स्युरविरोधीनि कर्मणाम् ।
श्रौतादीनि सुसंग्राह्यान्यमलानि मुमुक्षुभिः ॥ ९ ॥
कर्माण्युपनिषत्सु स्युर्ब्रह्मैकार्थासु वै कथम् ।
इति शंक्यन्नकुर्वन् हि विधिरस्ति जिजीविषेत् ॥ १० ॥
ईशावास्यादिवेदान्तप्रोक्तान्यामरणादपि ।
कुर्वन्नेव विमुच्येत ब्रह्मवित्प्रवरोऽस्तु वा ॥ ११ ॥
यतयस्त्यक्तगार्हस्थ्या अपि स्वोचितकर्मभिः ।
आश्रमं पालयन्तः स्वं कैवल्यं प्राप्नुयुः परम् ॥ १२ ॥
कर्म प्रजाधनानां यस्त्यागः समभिधीयते ।
कामैकविषयत्वेन स यतेर्न विरुध्यते ॥ १३ ॥
संन्यासिनो हि कर्माणि नित्यानि विमलानि च ।
श्रेयोर्थानि विधीयन्ते परिव्राजेब्जजन्मना ॥ १४ ॥
अपेतकाम्यकर्माणो यतयोऽन्येऽपि वा जनाः ।
सद्यः क्रमेण वा मुक्तिमाप्नुयुर्नात्र संशयः ॥ १५ ॥
पंचमीं भूमिमारूढः ज्ञानोपासनकर्मभिः ।
शोकमोहादिनिर्मुक्तः सर्वदैव विराजते ॥ १६ ॥
न ज्ञानेन विनोपास्तिर्नोपास्त्या न विनेतरत् ।
कर्मापि तेन हेतुत्वं पूर्वपूर्वस्य कथ्यते ॥ १७ ॥
यद्वा यावन्न हि ज्ञानं तावन्नोपासनं मतम् ।
यावन्नोपासनं तावन्न ज्ञानं च कथंचन ॥ १८ ॥
ज्ञानं यावन्न कर्मापि न तावन्मुख्यमीर्यते ।
यावन्न कर्म तावच्च न ज्ञानं साधुसंमतम् ॥ १९ ॥
यावन्नोपासनं तावन्न कर्मापि प्रशस्यते ।
यावन्न कर्मोपास्तिश्च न तावत्सात्त्विकी मता ॥ २० ॥
ज्ञानोपासनकर्माणि सापेक्षाणि परस्परम् ।
प्रयच्छन्ति परां मुक्तिं नान्यथेत्युक्तमेव ते ॥ २१ ॥
एतेषु साधनेष्वेकं त्रिषु यत्किंचिदत्र यः ।
त्यजेदसद्गुरूक्त्या स नाश्नुवीत परामृतम् ॥ २२ ॥
नानाविधानि ज्ञानानि नानारूपा उपास्तयः ।
नानाविधानि कर्माणि श्रुत्यन्तादिषु संविदुः ॥ २३ ॥
सम्बन्धस्तु त्रयाणां स्यादुचितः शिष्टवर्त्मना ।
निपुणैश्च सुविज्ञेयमनुबन्धचतुष्टयम् ॥ २४ ॥
अनुबन्धविरोधेन त्रयाणां चेत्समुच्चयः ।
कृतः स सद्यः प्राप्नोति तृप्तिं मानवपुंगवः ॥ २५ ॥
अनुबन्धपरिज्ञानं विना मुक्त्यै प्रयत्नवान् ।
न मुक्तिं विन्दते कोऽपि साधकादिविपर्ययात् ॥ २६ ॥
भोगाधिकारी मोक्षं चेत्फलमिच्छेत्कदाचन ।
अनुबन्धस्य विज्ञानं कथं नु स्यात्समंजसम् ॥ २७ ॥
अधिकारानुगुण्येन सम्बन्धः परिकीर्तितः ।
तत्सम्बन्धानुगुण्येन विषयश्च प्रकीर्तितः ॥ २८ ॥
विषयानुगुणं प्रोक्तं प्रयोजनमतो बुधैः ।
अनुबन्धाः सुविज्ञेया ज्ञानोपासनकर्मसु ॥ २९ ॥
वर्णाश्रमाणां सर्वेषामनुष्ठेयेषु कर्मसु ।
अविद्वान् संशयात्मा चेदनुवर्तेत पूर्वकान् ॥ ३० ॥
विद्वान् चेत्संशयात्माभूच्छास्त्रे स्वमतिनिश्चितम् ।
आचरेत्तु न शिष्टस्यप्यबुधस्य पितुर्मतम् ॥ ३१ ॥
स्वकूटस्थबुधाचारः साधुसंविदितो यदि ।
विद्वानपि त्यजेत्स्वीयं तद्विरुद्धमसंमतम् ॥ ३२ ॥
पूर्वाचारानुसरणं कर्ममात्रे नियम्यते ।
ज्ञानोपास्त्योस्त्वबाह्यत्वादन्यथाऽपि च युज्यते ॥ ३३ ॥
पूर्वकेष्वपि सांख्येषु स्वस्य युज्येत योगिता ।
अन्यथाऽपि च नैतेन प्रत्यवायः कियानपि ॥ ३४ ॥
यदि पूर्वविरोधेन कुर्यात्कर्माणि मानवः ।
स मूर्खो भवति क्षिप्रं प्रत्यवायी न संशयः ॥ ३५ ॥
नैमित्तिकानामकृतौ काम्यानां च न कश्चन ।
प्रत्यवायोऽत्र वाऽमुत्र लोके भवितुमर्हति॥ ३६ ॥
नित्यानां त्वकृतावत्रामुत्र वा प्रत्यवायभाक् ।
भवेदवश्यकार्यत्वादाश्रमच्युतिहेतवे ॥ ३७ ॥
न स्यादकरणं हेतुरभावात्मतया ततः ।
नित्याकरणहेतुः प्राक्कर्म चेत्प्रत्यवायकृत् ॥ ३८ ॥
अकृतौ प्रत्यवायस्य श्रवणं व्यर्थमेव तत् ।
पूर्वकर्मफलादन्यफलस्यानवधारणात् ॥ ३९ ॥
अतो नाभावता युक्ता नित्यकर्माकृतेर्यथा ।
निषिद्धाचरणं भावस्तथैवाकरणं मतम् ॥ ४० ॥
विहिताकरणस्यापि भावात्मत्वोररीकृतेः ।
आस्तिकत्वमिह प्राहुरन्यथा नास्तिकत्वतः ॥ ४१ ॥
पूर्वकर्मफलस्यापि नित्याकरणकर्मणः ।
पापस्य दुःखहेतुत्वं पृथगेवाववधार्यते ॥ ४२ ॥
अज्ञानाद्विहिते लुप्ते ज्ञानाद्वा कर्मणि स्वके ।
प्रायश्चित्ती भवेन्मर्त्यो लभेद्दुर्जन्म वा पुनः ॥ ४३ ॥
बुद्धिपूर्वं त्यजन्नित्यमनुतापविवर्जितः ।
अनाश्रमी नरो घोरं रौरवं नरकं व्रजेत् ॥ ४४ ॥
जीवन्मुक्तस्य नित्येषु यदि लुप्तानि कानिचित् ।
न तेन प्रत्यवायोऽस्ति कैश्चित्स्वाश्रमसिद्धितः ॥ ४५ ॥
प्रायश्चित्तनिवर्त्यानि निषिद्धाचरणानि च ।
प्रायश्चित्तमकुर्वन्तमपि लिम्पन्ति नैव तम् ॥ ४६ ॥
कर्म शुद्धमशुद्धं च द्विविधं प्रोच्यते श्रुतौ ।
तत्राशुद्धेन बन्धः स्यान्मोक्षः शुद्धेन देहिनाम् ॥ ४७ ॥
अशुद्धं च तथा प्रोक्तं पुण्यं पापमिति द्विधा ।
परस्परं न बाधोऽस्ति तयोरत्राविरोधतः ॥ ४८ ॥
सुखदुःखे समस्तस्य जन्तोर्याभ्यां प्रसिध्यतः ।
तयोर्न वशमागच्छेच्छुद्धमात्रेण संस्थितः ॥ ४९ ॥
शुद्धं नित्यमनन्तं यत्सत्यं कर्म निगद्यते ।
नित्यशुद्धविमुक्तात्मसाक्षात्कारार्थकं विदुः ॥ ५० ॥
विशुद्धैः कर्मभिः शुद्धानीन्द्रियाणि भवन्त्यलम् ।
इन्द्रियेषु विशुद्धेषु मनः शुद्धं स्वतो भवेत् ॥ ५१ ॥
शुद्धे मनसि जीवोऽपि विशुद्धो ब्रह्मणैकताम् ।
उपेत्य केवलानन्दं निष्कलं परमश्नुते ॥ ५२ ॥
बाह्यमाभ्यन्तरं चेति शुद्धं कर्म द्विधोच्यते ।
बाह्यं स्नानादि नित्यं स्याद्ध्यानाद्याभ्यन्तरं परम् ॥ ५३ ॥
अतः शुद्धेरशुद्धानां नाशो भवितुमर्हति ।
न शुद्धव्यतिरेकेण प्रयत्नान्तरमिष्यते ॥ ५४ ॥
विशुद्धकर्मनिष्ठास्ते यतयोऽन्येऽपि वा जनाः ।
अत्रैव परिमुच्यन्ते स्वातन्त्र्येण परामृतात् ॥ ५५ ॥
आरूढः पंचमीं भूमिं शुद्धेनैवावतिष्ठते ।
अतोऽत्र मतिमान्नित्यं पंचम्यभ्यासमाचरेत् ॥ ५६ ॥
इन्द्रियाणि विशुद्धान्यप्यशुद्धानां विवर्जनात् ।
शुद्धानामप्यनुष्ठानाद्धीमांस्तानि न विश्वसेत् ॥ ५७ ॥
अशुद्धेषु प्रवर्तेरन् पूर्ववासनया स्वतः ।
तेभ्यो नियम्य शुद्धेषु नित्यं तानि प्रवर्तयेत् ॥ ५८ ॥
इन्द्रियाणां च मनसः प्रसादं शुद्धकर्मभिः ।
उपलभ्यापि दुर्बुद्धिरशुद्धेह प्रवर्तते ॥ ५९ ॥
प्रसन्नमनसः स्वास्थ्यात्सुखं किंचित्प्रजायते ।
तावन्मात्रेण तृप्तस्तु क्रमेणाधः पतेन्नरः ॥ ६० ॥
तृप्तिरल्पसुखप्राप्तौ महानर्थैककारणम् ।
अतस्तृप्तिमनाप्यैव शुद्धं नित्यं समाचरेत् ॥ ६१ ॥
यथा विषयभोगेषु विना तृप्तिं पुनः पुनः ।
प्रवर्तते तथा नित्यं यः शुद्धेषु स बुद्धिमान् ॥ ६२ ॥
शुद्धं शुद्धेन वर्धेत शुद्धः शुद्धं ततो व्रजेत् ।
अशुद्धमप्यशुद्धेनाशुद्धोऽशुद्धं तथा नरः ॥ ६३ ॥
यदेन्द्रियमनःप्राणाः शान्ताः सुप्ताविवाभवन् ।
शुद्धाशुद्धोभयातीतस्तदा तृप्तिं परां व्रजेत् ॥ ६४ ॥
यावन्नेन्द्रियसंशान्तिर्यावन्न मनसोऽप्ययः ।
यावन्न प्राणशान्तिश्च तावच्छुद्धं समाचरेत् ॥ ६५ ॥
परस्परोपयोगित्वाद्बाह्याभ्यन्तरशुद्धयोः ।
वियोगो नैव कार्योऽत्र बुधैरादेहमोचनात् ॥ ६६ ॥
यः शुद्धपक्षो हंसः स ऊर्ध्वं गच्छति चाम्बरे ।
अशुद्धपक्षः श्येनस्तु व्योमगोऽपि पतत्यधः ॥ ६७ ॥
छिन्नैकपक्षो हंसोऽपि नोर्ध्वं गन्तुमितोऽर्हति ।
अतः शुद्धद्वयं मुख्यं साधनं मुक्तये विदुः ॥ ६८ ॥
यद्यप्याभ्यन्तरं शुद्धं बाह्यशुद्धनिवर्तकम् ।
भवत्येतेन साम्यं न तयोरिति च केचन ॥ ६९ ॥
तथाऽपि बाह्यविलयसमकाललयात्परम् ।
आभ्यन्तरं समं तेन बाह्येन स्यात्स्वकर्मणा ॥ ७० ॥
आभ्यन्तरं च तच्छुद्धं कर्म द्विविधमुच्यते ।
सम्प्रज्ञातसमाध्याख्यमसम्प्रज्ञातनाम च ॥ ७१ ॥
जीवन्मुक्तेः पुरावृत्तमाद्यं कर्म स्वमानसम् ।
पुरा विदेहमुक्तेस्तु वृतमन्यत्स्वमानसम् ॥ ७२ ॥
मानसत्वात्समाधेश्च कर्मत्वोक्तिर्न दूष्यते ।
अनन्यविषयत्वाच्च तत्फलं नैव नश्वरम् ॥ ७३ ॥
अन्तःशुद्धिर्बहिःशुद्धिं यथा नॄणामपेक्षते ।
बहिःशुद्धिस्तथैवान्तःशुद्धिं च नियमेन हि ॥ ७४ ॥
यस्य कर्मसु शुद्धेष्वप्यौदासीन्यं विजायते ।
तस्यैव जन्मसांकर्यमनुमेयं विपश्चिता ॥ ७५ ॥
विरोधो जायते यस्य ज्ञानकर्मसमुच्चये ।
तस्यैव जन्मसांकर्यमनुमेयं विपश्चिता ॥ ७६ ॥
यः श्रौतं कर्म हित्वान्यत्तान्त्रिकं समुपाश्रयेत् ।
तस्यैव जन्मसांकर्यमनुमेयं विपश्चिता ॥ ७७ ॥
यश्चान्तरं च तत्कर्म मन्यते मन्दगोचरम् ।
तस्यैव जन्मसांकर्यमनुमेयं विपश्चिता ॥ ७८ ॥
अशुद्धकर्मनिष्ठः सन् शुद्धं निन्दति यः सदा ।
तस्यैव जन्मसांकर्यमनुमेयं विपश्चिता ॥ ७९ ॥
शुद्धं पश्यति यः शान्तमक्षिरोगीव भास्करम् ।
तस्यैव जन्मसांकर्यमनुमेयं विपश्चिता ॥ ८० ॥
विशुद्धवंशप्रभवं महामतिं
विशुद्धबाह्यान्तरकर्मभास्वरम् ।
विशुद्धवेदान्तरहस्यवेदिनं
विद्वेष्टि यः संकर एव नेतरः ॥ ८१ ॥
अशुद्धवंशप्रभवं सुदुर्मतिं
स्वशुद्धकर्मद्वयनष्टतेजसम् ।
अशुद्धतन्त्रार्थविदं नराधमं
यः श्लाघते संकर एव नेतरः ॥ ८२ ॥
इति सूर्यगीतायां द्वितीयोऽध्यायः ॥
॥ अथ तृतीयोऽध्यायः ॥
अथातः सम्प्रवक्ष्यामि ममान्तर्यामिणं शिवम् ।
यः सर्वकर्मणां साक्षी निर्लेपः प्रभुरीश्वरः ॥ १ ॥
त्रिनेत्रं नीलकण्ठं यं साम्बं मृत्युंजयं हरम् ।
ध्यात्वा संसृतिमोक्षः स्यात्तं नमामि महेश्वरम् ॥ २ ॥
सर्वेषां कर्मणामेकः फलदाता य उच्यते ।
स एव मृड ईशानः सर्वज्ञः सर्वशक्तिमान् ॥ ३ ॥
यस्य स्मरणमात्रेण निवर्तन्तेऽखिलापदः ।
सम्पदश्चेह लभ्यन्ते सोऽन्तर्यामी शिवो हरः ॥ ४ ॥
येनैव सृष्टमखिलं जगदेतच्चराचरम् ।
यस्मिंस्तिष्ठति नश्यत्यप्येष एको महेश्वरः ॥ ५ ॥
यं नमन्ति सुराः सर्वे स्वस्वाभीष्टप्रसिद्धये ।
स्वातन्त्र्यं यस्य सर्वत्र सोऽन्तर्यामि महेश्वरः ॥ ६ ॥
उमार्धविग्रहः शम्भुः त्रिनेत्रः शशिशेखरः ।
गंगाधरो महादेवः सोऽन्तर्यामि दयानिधिः ॥ ७ ॥
श्रुतिस्मृतिपुराणेषु यस्यैवाधिक्यमिष्यते ।
यस्याधिक्यस्मृतेर्मुक्तिः सोऽन्तर्यामी पुरातनः ॥ ८ ॥
यन्नामजपमात्रेण पुरुषः पूज्यते सुरैः ।
यमाहुः सर्वदेवेशं सोऽन्तर्यामी गुरूत्तमः ॥ ९ ॥
यदाख्यामृतपानेन संतृप्ता मुनयोऽखिलाः ।
न वाञ्छन्ति महाभोगान् सोऽन्तर्यामी जगत्पतिः ॥ १० ॥
अरुण उवाच -
सद्गुरो भास्कर श्रीमन् सर्वतत्त्वार्थकोविद ।
श्रुतिस्मृतिपुराणेषु ह्यन्तर्याम्यन्यथा श्रुतः ॥ ११ ॥
सत्यं ज्ञानमनन्तं यत्प्रसिद्धं ब्रह्म निष्कलम् ।
निर्गुणं निष्क्रियं शान्तं केवलं सर्वगं परम् ॥ १२ ॥
तदेव सर्वान्तर्यामी श्रुतं सर्वान्तरत्वतः ।
वरेण्यं सवितुस्ते च गायत्र्यां तद्धि कथ्यते ॥ १३ ॥
अशरीरस्य तस्यैव ह्यादिमध्यान्तवर्जनात् ।
आकाशवद्विभूतेन सर्वान्तर्यामितोचिता ॥ १४ ॥
शिवस्य सशरीरस्य साम्बस्य सगुणस्य तु ।
अविभुत्वेन सा नैव युज्यते भास्कर प्रभो ॥ १५ ॥
सगुणैकप्रधानैश्च विशिष्टाद्वैतवादिभिः ।
कैश्चिद्ब्रह्महरीशानामन्तर्यामित्वमुच्यते ॥ १६ ॥
सर्वज्ञत्वादिधर्माणां समत्वं च त्रिमूर्तिषु ।
मत्वैवोपासते विप्राः ते गायत्रीपरायणाः ॥ १७ ॥
केचिद् द्रुहिण एव स्यादन्तर्यामी वाक्पतिः ।
नान्यौ हरिहरौ कर्मप्रसिद्धेरिति वै विदुः ॥ १८ ॥
केचित्तु विष्णुरेव स्यादन्तर्यामी रमापतिः ।
न विधीशौ परोपास्तिप्रसिद्धेरिति वै विदुः ॥ १९ ॥
केचिच्च शिव एकः स्यादन्तर्यामी ह्युमापतिः ।
नान्यौ ब्रह्महरी ज्ञानप्रसिद्धेरिति संविदुः ॥ २० ॥
त्वदुक्तरीत्या त्वाधिक्यं ज्ञानोपासनकर्मसु ।
कर्मणोऽवगतं तेन विधेरेव प्रसिध्यति ॥ २१ ॥
एष पक्षः समीचीनस्तव नैव भविष्यति ।
तस्मादनिश्चितार्थं मां कुरुष्वासंशयं प्रभो ॥ २२ ॥
सूर्य उवाच -
सम्यक्पृष्टं त्वया धीमन्नरुण शृणु सादरम् ।
वक्ष्यामि निश्चितार्थं ते श्रुतिस्मृत्यादिभिः स्फुटम् ॥ २३ ॥
अन्तर्यामी द्विधा प्रोक्तः सगुणो निर्गुणोऽपि च ।
चरस्य केवलं त्वाद्यश्चरस्यान्योऽचरस्य च ॥ २४ ॥
अहं हि चर एवास्मि मदन्तर्यामिणावुभौ ।
गायत्र्यां चावगन्तव्यौ देवौ सगुणनिर्गुणौ ॥ २५ ॥
निर्गुणश्चावगन्तव्यः सगुणद्वारतोऽखिलैः ।
अतोऽब्रुवं शिवं साक्षान्मदन्तर्यामिणं तव ॥ २६ ॥
कारणत्वं यथा सिद्धं ब्रह्मणः परमात्मनः ।
यथा शिवस्य साम्बस्य कार्यत्वं च सतां मतम् ॥ २७ ॥
तथा शिवस्य हेतुत्वं विष्णोः कार्यत्वमप्यथ ।
विष्णोश्च हेतुतां तद्वद्विधेर्विद्धि च कार्यताम् ॥ २८ ॥
ब्रह्मा विष्णुः शिवो ब्रह्म ह्युत्तरोत्तरहेतवः ।
इति जानन्ति विद्वांसो नेतरे मायया वृताः ॥ २९ ॥
विशिष्टाद्वैतिनो वाऽन्ये सगुणैकाभिमानिनः ।
अशरीरानभिज्ञत्वान्मायापरवशा ध्रुवम् ॥ ३० ॥
सर्वज्ञत्वादिधर्माणां कथं साम्यं त्रिमूर्तिषु ।
त्रयाणां च गुणानां हि वैषम्यं सर्वसंमतम् ॥ ३१ ॥
गुणत्रयवशात्तेषां वैषम्यं विद्धि सुस्थितम् ।
ब्रह्मा हि राजसः प्रोक्तो विष्णुस्तामस उच्यते ॥ ३२ ॥
रुद्रः स सात्त्विकः प्रोक्तः मूर्तिवर्णैश्च तादृशाः ।
चित्स्वरूपानुभूत्या च तारतम्यं निगद्यते ॥ ३३ ॥
निर्विशेषपरब्रह्मानन्यत्वेन तु ते समाः ।
तथाऽपि शिवशब्दस्य परब्रह्मात्मकत्वतः ॥ ३४ ॥
साक्षिणा निर्विकारेण चिन्मात्रेण महात्मना ।
सदाशिवेन नित्येन केवलेन समो न हि ॥ ३५ ॥
साम्बस्य चन्द्रचूडस्य नीलकण्ठस्य शूलिनः ।
उत्कर्षोऽस्ति स्वतःसिद्धः किं मया प्रतिपाद्यते ॥ ३६ ॥
आदौ मां जनयामास ब्रह्मा साक्षाच्चतुर्मुखः ।
यथा तथा विरिंचिं तं श्रीमान्नारायणो हरिः ॥ ३७ ॥
यतोऽभवन्महाविष्णुर्ममारुण पितामहः ।
ततो मे सुप्रसिद्धभूत्सूर्यनारायण अभ्धा ॥ ३८ ॥
नैतेन सकलेशस्य प्रपितामहतावशात् ।
सर्वोत्कृष्टत्वसंसिद्ध्या लुप्यते ह्यान्तरात्मना ॥ ३९
अथ वा योगवृत्या स्याच्छिवो नारायणाभिधः ।
तद्दृष्टिर्मयि कर्तव्योपासकरिति सन्मतम् ॥ ४० ॥
कर्मोपासनबोधेषु ब्रह्मविष्णुशिवाः क्रमात् ।
प्रसिद्धा इति संत्यज्य धियं शृणु वचो मम ॥ ४१ ॥
त्रिषु त्रयः प्रसिद्धाः स्युस्तारतम्येन चारुण ।
काम्यकर्मप्रधानोऽस्ति स्वयंभूश्चतुराननः ॥ ४२ ॥
नैमित्तिकप्रधानस्तु विष्णुः कमललोचनः ।
नित्यकर्मप्रधानः स शिवः साक्षात्त्रिलोचनः ॥ ४३ ॥
मूर्त्युपास्तौ विधिमुख्यस्त्वंशोपास्तौ हरिर्मतः ।
निरंशोपासने मुख्यो नीलकण्ठो हरो मतः ॥ ४४ ॥
ज्ञाने श्रवणजे ब्रह्मा विज्ञाने मननोदिते ।
विष्णुः स सम्यग्ज्ञाने तु निदिध्यासनजे शिवः ॥ ४५ ॥
अत्रैवं सति कस्याभूदाधिक्यमरुणाधुना ।
त्वमेव सम्यगालोच्य विनिश्चिनु महामते ॥ ४६ ॥
पुरा कश्चिन्महाधीरः शिवभक्ताग्रणीर्द्विजः ।
शिवाख्याजपसंसक्तश्चचार भुवि निस्पृहः ॥ ४७ ॥
स्वाश्रमाचारनिरतो भस्मरुद्राक्षभूषणः ।
सर्वशास्त्रार्थतत्त्वज्ञः कामक्रोधादिवर्जितः ॥ ४८ ॥
शमादिषट्कसम्पन्नः शिवभक्तजनादरः ।
शिवस्य वैभवं स्मृत्वा श्रुतिस्मृतिपुराणगम् ॥ ४९ ॥
सर्वेश्वरस्य साम्बस्य त्रिनेत्रस्य दयानिधेः ।
सदाशिवस्य माहात्म्यं स्वत एवेदमब्रवीत् ॥ ५० ॥
पश्वादिभ्यो वरिष्ठाः क्षितिगतमनुजास्तेभ्य एवेन्द्रमुख्यः
देवास्तेभ्यो विधाता हरिरपि च ततः शङ्करो यस्त्रिनेत्रः ।
नान्योऽस्माच्छंकरात्तु श्रुतिषु निगदितो वा वरिष्ठः समो वा
सर्वान्विष्ण्वादिकांस्तं न हि वयमधुना नूनमेवाश्रयामः ॥ ५१ ॥
मूलाधारे गणेशस्तदुपरि तु विधिर्विष्णुरस्मात्ततोऽयं
रुद्रस्थाने चतुर्थे श्रुतिरपि च तथा प्राह शान्तं चतुर्थम् ।
अस्मादन्यः शिवोऽस्ति त्रिपुरहर इतो वा सदाद्यः शिवोऽस्ति
स्वस्थोऽयं द्वादशान्तप्रबलनटनकृच्चापि साक्षात्सभेशः ॥ ५२ ॥
रौद्री शक्तिस्तथा स्यादयमपि च हरिः शाक्त एवं विरिंचो
मन्तव्यो वैष्णवोऽमी सनकमुखमहाब्राह्मणा ब्राह्मणाश्च ।
तस्मादेवं विभक्ते न हि भवति हरेरंशितांशांशिभावे
साक्षादप्यत्र नित्यं परमशिवमहं चांशिनं तं नमामि ॥ ५३ ॥
शम्भोरन्यन्न पश्याम्यहमिह परमे व्योम्नि सोमाच्छ्रुतौ वा
यस्यैवैतेन भासा जगदखिलमिदं भासते चैत्यरूपम् ।
यच्छीर्षाङ्घ्री दिदृक्षु द्रुहिणमुररिपु सर्वशक्त्याप्य दृष्ट्वा
खेदन्तौ जग्मतुस्तं परमशिवममुं त्वां विना कं नु वन्दे ॥ ५४ ॥
यं विष्णुर्नावपश्यत्यखिलजनभयध्वंसकं काशिकायां
लिंगं चोपास्त इत्यप्यधिकभसितरुद्राक्षसंभूषितः सन् ।
जाबालेये बृहत्यप्यथ हरिजनिता श्रूयते सोम एकः
पायाच्छ्रुत्यन्तसिद्धो जनिमृतिभयभृत्संसृतेस्तारको माम् ॥ ५५ ॥
मध्ये को वाऽधिकः स्याद्द्रुहिण हरिहराणामिति प्रश्नपूर्वं
ब्रह्मादौ पैप्पलादं खलु वदति महान्रुद्र एवाधिकः स्यात् ।
इत्युक्त्वा शारभाख्ये श्रुतिशिरसि नमश्चास्तु रुद्राय तस्मै
स्तुत्वैवं ध्येयमाह त्रिपुरहरमुमाकांतमेकं भजेऽहम् ॥ ५६ ॥
ध्याता रुद्रो रमेशो हरिरपि तु तथा ध्यानमेकः शिवस्तु
ध्येयोऽथर्वश्रुतेः सा निखिलरसवती या समाप्ता शिखाभूत् ।
ध्येयश्चिन्मात्र एकः परमशिव इतो वा चिदंदशत्व-
मस्य ध्यातुः स्यान्न त्वमुष्य प्रकृतिभवमनोवृत्तिरूपस्य विष्णोः ॥ ५७ ॥
एको रुद्रो महेशः शिव इति च महादेव एवैष सर्व
व्यापी यः श्रूयतेऽस्मिंच्छ्रुतिशिरसि तथाथर्वशीर्षाभिधे च ।
देवाः सर्वे यदन्तस्थितिजुष इह ते विष्णुपूर्वास्ततोन्यः
को वाऽस्याद्व्यापकोऽस्मान्निरतिशयचिदाकाशरूपान्महेशात् ॥ ५८ ॥
नाभौ ब्रह्माणमुक्त्वा हरिमपि हृदये रुद्रमेनं भ्रुवोस्त-
न्मध्ये श्रुत्यन्त एवं प्रणवविवरणे नारसिंहाभिधे च ।
विज्ञेयः सोऽयमात्मा शिव इति च चतुर्थोऽद्वितीयः
प्रशान्तश्चेत्याहान्ते प्रजेशस्त्रिदशपरिपदस्तत्स ईशः प्रपूज्यः ॥ ५९ ॥
कैवल्यं प्राप्नुयात्कः पुरुष इह शिवं केवलं त्वां विहाय
स्वामिन्नीशं तथान्यं जगति सदसतोरत्र विष्णोर्विधेर्वा ।
चिन्मात्रः प्रत्यगात्मा त्वमसि खलु सदा पूर्व एकः शिवोऽत-
स्त्वामेवैकं भजेऽहं सततमपि जगत्साक्षिणं निर्विशेषम् ॥ ६० ॥
सूर्य उवाच -
एवं शिवस्य माहात्म्ये सर्वश्रुत्यन्तनिश्चिते ।
उद्भवेत्संशयः कस्य को मुच्येत संशयात् ॥ ६१ ॥
अतोरुण महाप्राज्ञ मुख्यान्तर्यामिणं मम ।
त्रिनेत्रं भज कैवल्यसंसिध्यै परमेश्वरम् ॥ ६२ ॥
॥ इति सूर्यगीतायां तृतीयोऽध्यायः ॥
॥ अथ चतुर्थोऽध्यायः ॥
सूर्य उवाच -
अथातः सम्प्रवक्ष्यामि तस्यान्तर्यामिणो गुरोः ।
जगत्सृष्ट्यादिकर्माणि लीलारूपाणि सुव्रत ॥ १ ॥
आदौ जगत्ससर्जेदं पंचीकरणकर्मणा ।
यः स ईशो महामायः सर्वज्ञः सर्वशक्तिमान् ॥ २ ॥
चतुर्विधेषु भूतेषु निजमायावशीकृतान् ।
जीवान् प्रवेशयित्वाननुप्रविवेश स्वयं वशी ॥ ३ ॥
लीलारूपमपीदं च कर्म तस्य महेशितुः ।
प्रारब्धकर्मजं ज्ञेयमाधिकारिकतावशात् ॥ ४ ॥
स ह्यादिकारिकः श्रेष्ठः पूर्वं जीवत्वमागतः ।
समुच्चयादभूदीशो ज्ञानोपासनकर्मणाम् ॥ ५॥
प्राक्कल्पाधिकृतो देवः स्वारब्धक्षपणात्स्वयम् ।
अपहाय निजां मायां प्राप्तवान् परमं पदम् ॥ ६ ॥
अथ तामाश्रितो जीवः कल्पादौ पूर्ववत्क्रमात् ।
सृष्ट्वा सर्वाधिकारी सन् जगत्पाति च हन्ति च ॥ ७ ॥
क्रियमाणतया तेन नियमेनैव कर्मणाम् ।
त्रयाणां तस्य कर्मित्वमीशस्याप्युपपद्यते ॥ ८ ॥
जीवन्मुक्तसमानत्वं यतस्तस्यावगम्यते ।
अतः प्रारब्धकर्मित्वं अवश्यं तस्य सिध्यति ॥ ९ ॥
ब्रह्मवित्त्वं हि तस्य स्यान्न तु ब्रह्मत्वमीशितुः ।
सृष्ट्यादिकर्मकर्तृत्वदर्शनान्माययाऽपि वा ॥ १० ॥
जीवसृष्ट्यादिकर्तृत्वं ब्रह्मणोऽपि वर्तते ।
तथापि पूर्वकर्मित्वं तस्य न श्रूयते क्वचित् ॥ ११ ॥
कर्मणः प्रागभावत्वाद्भावत्वाद्ब्रह्मणो विभोः ।
पूर्वकर्मवतो हि स्यात्कर्म प्रारब्धसंज्ञितम् ॥ १२ ॥
सृष्ट्यादिकर्मबद्धत्वे तस्य मायावशत्वतः ।
वश्यमायत्ववचनं व्यर्थमेवेति चेन्न च ॥ १३ ॥
स्वाधिकारावसने हि कैवल्यं नोपरुध्यते ।
अतस्तस्य प्रसिद्धं तद्वश्यमायत्वमर्थवत् ॥ १४ ॥
स्थितौ तु तस्य मायित्वं कामित्वादिवदिष्यते ।
न धनित्वादिवत्कर्म पारवश्यान्निरन्तरम् ॥ १५ ॥
जाग्रद्वत्सृष्टिकर्म स्यात्स्वप्नवत्स्थितिकर्म च ।
जगत्प्रलयकर्म स्यात् सुप्तिवत्तस्य मायिनः ॥ १६ ॥
अवस्थात्रयवत्त्वेन कर्मत्रितयवत्तया ।
शरीरत्रयवत्त्वेन जीवः सोऽपीति केचन ॥ १७ ॥
तदयुक्तं पुरा जीवोऽप्यद्य ब्रह्मात्मवित्तया ।
सर्वज्ञत्वादिसम्पत्त्या स हि जीवविलक्षणः ॥ १८ ॥
जीवन्मुक्तसमानत्वान्न कर्मत्रयमीशितुः ।
प्रारब्धमात्रबद्धत्वादधिकारवशादिह ॥ १९ ॥
अधिकारावसाने तद्ब्रह्मत्वं सम्भविष्यति ।
इति वेदान्तसिद्धेऽर्थे व्यभिचारः कुतो भवेत् ॥ २० ॥
ब्रह्मैवैकमकर्मोक्तं श्रुतिभिः स्मृतिभिश्च तत् ।
ईशस्य कर्मतोक्तिस्तु श्रूयते ह्यौपचारिकी ॥ २१ ॥
स कर्मत्वेऽपि तस्य स्यात्कर्ममोचकतेशितुः ।
संचितागामिहीनत्वात्सर्वज्ञत्वाच्च सत्तम ॥ २२ ॥
ईश्वरब्रह्मणोर्भेदं सकर्माऽकर्मतादिभिः ।
सुप्रसिद्धमपह्नोतुं कः समर्थोऽस्ति मानतः ॥ २३ ॥
ईश्वरस्याप्यकर्मत्वं यदि ब्रूयान्निरंकुशम् ।
स द्वैती न कदाप्यस्मात्संसारान्मुक्तिमाप्नुयात् ॥ २४ ॥
यतस्तत्पदवाच्योऽर्थः स हेय इति कथ्यते ।
अतस्तस्य न नित्यत्वं नाकर्मत्वं च युज्यते ॥ २५ ॥
अनध्यस्तात्मभावेन न देहेनैव कश्चन ।
व्याप्रीयेत ततश्च स्याद्देहीशो ध्यानसंयुतः ॥ २६ ॥
स्वदेहेऽपीश्वरस्यास्ति नाध्यासः पारमार्थिकः ।
प्रातिभासिकमाश्रित्य स्रष्टृत्वादि निगद्यते ॥ २७ ॥
देहाध्यासस्य सत्यस्य न कदाप्यस्ति संगतिः ।
प्रागीशदेहाभावेन देहाभावेन चाऽप्यये ॥ २८ ॥
जगत्प्रलयकाले स निर्व्यापारोऽपि सुप्तवत् ।
अध्यासबीजवत्त्वेन पुनः सृष्टौ प्रवर्तते ॥ २९ ॥
चतुर्युगसहस्रान्ते विधातुर्हि निशोच्यते ।
तदा सुप्तस्य तस्यापि जीवस्येव सबीजता ॥ ३० ॥
तथा विष्णोर्युगाः प्रोक्तास्तस्माच्छतगुणाधिकाः ।
तथा शिवस्य तस्माच्च विष्णोः शतगुणाधिकाः ॥ ३१ ॥
एवं कालैरवच्छिन्नांस्तारतम्येन जीववत् ।
ईश्वरांस्तान् कथं ब्रूयां देहकर्मादिवर्जितान् ॥ ३२ ॥
व्यष्टिदेहत्रयं स्वीयं मत्वा जीवत्रयं यथा ।
पारमार्थिकसंसारनिबद्धं कर्मितामगात् ॥ ३३ ॥
समष्टिदेहत्रितयं तथा मत्वेश्वरत्रयम् ।
प्रातिभासिकसंसारनिबद्धं कर्मितामगात् ॥ ३४ ॥
शुद्धसत्त्वप्रधानायां मायायां प्रतिबिम्बितः ।
ईश इत्युच्यते तस्य निरुपाधिकता कथम् ॥ ३५ ॥
औपाधिकस्य नित्यत्वं कथं वाच्यं मनीषिभिः ।
अनित्यस्य च नैष्कर्म्यं कथं भवितुमर्हति ॥ ३६ ॥
ब्रह्मण्यारोपितो भ्रान्तैरीशाख्यः सर्वसृष्टिकृत् ।
आत्मयोगिभिरभ्रान्तैः स भवत्यवरोपितः ॥ ३७ ॥
अविद्यातिमिरान्धस्य स्थाणौ चोरवदीश्वरः ।
प्रतिभाति परब्रह्मण्यमले स्वात्मरूपिणि ॥ ३८ ॥
सद्यो मुमुक्षुदृष्ट्या हि नेश्वरस्यास्ति सत्यता ।
अतो विवर्तवादोऽयं सुतरामुपयुज्यते ॥ ३९ ॥
परिणामेऽप्यनित्यत्वसंसिद्धेरीश्वरस्य च ।
अद्वैतब्रह्मनिष्ठत्वं श्रोतुर्जीवस्य सम्भवेत् ॥ ४० ॥
अधिकारिविभेदेन वादास्ते मतात्रयः ।
तत्रोत्तमाधिकारी स्याच्छृण्वन्नीशे विवर्तताम् ॥ ४१ ॥
जीवे तु परिणामित्वं शृण्वन्नेवोत्तमोत्तमः ।
कीटवद्भृङ्गरूपेण परिणामे विमोक्षतः ॥ ४२ ॥
जीवस्येश्वरताऽवाप्तौ क्रममुक्तिर्हि सिध्यति ।
अतोऽस्य सद्यो मुक्त्यर्थं ब्रह्मतावाप्तिरीर्यते ॥ ४३ ॥
तुरीयः पंचमो वाऽऽस्तामीश्वरः षष्ठ एव वा ।
तस्मादतीतं ब्रह्मेति सिद्धान्ते कोऽनुसंशयः ॥ ४४ ॥
ईश्वरे तिष्ठति ब्रह्म ब्रह्मणीशश्च तिष्ठति ।
अत एकत्वमेव स्याद्द्वयोरिति न तर्क्यताम् ॥ ४५ ॥
ब्रह्मण्येवेश्वरः प्रोक्तो न तु ब्रह्मेश्वरे क्वचित् ।
विभोरविभुसंस्थत्वासंभवात्परमात्मनः ॥ ४६ ॥
ब्रह्मक्षत्रमुभे यस्य श्रुत्या भवत ओदनः ।
यस्योपसेचनं मृत्युः स यत्र ब्रह्मणीर्यते ॥ ४७ ॥
तदेतादृशमित्यत्र को वेदेदन्तयाव्ययम् ।
अखण्डं निर्गुणं ब्रह्म निराधारं परं महत् ॥ ४८ ॥
परब्रह्मांशभूतोऽपि परमः पुरुषोत्तमः ।
ईश्वरादधिकः प्रोक्तः किं पुनर्ब्रह्म केवलम् ॥ ४९ ॥
कारणं जगतामीशो जीवानां ब्रह्म कारणम् ।
एवं सतीशब्रह्मैक्यं व्यवहारे कथं भवेत् ॥ ५० ॥
ईशस्य कर्मितायां हि पुण्यं पापं च संभवेत् ।
सुखं दुःखं च तेनैव जीवत्वमिति चेच्छृणु ॥ ५१ ॥
ईशः प्रवर्तते पुण्यपापयोर्लोकसंग्रहात् ।
तथाऽपि सुखदुःखे स्तो नैवात्मज्ञानवत्तया ॥ ५२ ॥
भ्रूणहत्यादिपापानि ह्यकरोद्विष्णुरीदृशः ।
न तैर्दुःखमभूत्तस्य सम्प्राप्तं पारमार्थिकम् ॥ ५३ ॥
लोकक्षेमार्थकत्वेन तत्कृताघस्य निन्द्यता ।
न वाच्या न च तेनास्ति जीवत्वं तस्य सर्वथा ॥ ५४ ॥
ऋगादिवेदकर्ताऽपि स यथोक्तं समाचरेत् ।
अन्यथा सम्प्रसज्येत ह्यप्रामाणिकतेशितुः ॥ ५५ ॥
संसिद्धे शास्त्रकर्तृत्वे न कारयितृता वचः ।
व्यर्थमेवेति चेन्नैष दोष एव विचारणे ॥ ५६ ॥
जीवस्य कर्तृतायां हि स्यात्कारयितृतेशितुः ।
शास्त्रस्य कर्मतायां तु महेशस्यास्ति कर्तृता ॥ ५७ ॥
नैतेन शास्त्रयोनित्वं निर्गुणस्यैव हीयते ।
निर्गुणोद्भूतशास्त्रस्य सगुणाद्व्यक्तिदर्शनात् ॥ ५८ ॥
उपचर्यत ईशस्य गुणिनः शास्त्रयोनिता ।
यद्वाऽस्तामुभयोर्वेदवेदान्ताभ्यां च बीजता ॥ ५९ ॥
न चैतेनास्ति कर्मित्वसाम्यं ब्रह्मेशयोस्तयोः ।
कर्तुश्च कृतकर्तुश्च भेदोऽस्ति स्पष्ट एव हि ॥ ६० ॥
कर्तृत्वं यस्य संसिद्धं कर्मित्वं तस्य सिद्ध्यति ।
इत्यत्र संशयः को वा तद्ब्रह्मेशौ च कर्मिणौ ॥ ६१ ॥
इति चेत्कर्मितेशस्य कामित्वादिवदिष्यते ।
ब्रह्मणोऽपि तु कर्मित्वं धनित्वादिवदित्यतः ॥ ६२ ॥
परतन्त्रो महेशः स्यात्स्वतन्त्रं ब्रह्म निर्गुणम् ।
आधाराधेयभावेन कार्यकारणतया द्वयोः ॥ ६३ ॥
कर्मित्वे ब्रह्मणः सिद्धे कथं नैर्गुण्यमीर्यते ।
इति चेन्नैष दोषोऽस्ति मायागुणविवर्जनात् ॥ ६४ ॥
अदृश्यादिभिर्विद्यागुणैरानन्दतादिभिः ।
सगुणव्यपदेशः स्याद्ब्रह्मणस्त्विष्ट एव सः ॥ ६५ ॥
जगत्संसारकर्तृत्वं यथा जीवेशयोर्मतम् ।
तथा जीवेशकर्तृत्वं परस्य ब्रह्मणो मतम् ॥ ६६ ॥
ब्रह्मणोऽन्यो न कर्ताऽस्ति प्राक्कर्मादिविवर्जनात् ।
अनाद्यनन्तं ब्रह्मैकमकर्माकर्तृ हीर्यते ॥ ६७ ॥
कालत्रयेऽप्यकर्तृत्वं ब्रह्मणः सम्मतं यदि ।
जीवेशरचना न स्यात् जगत्संसारयोरपि ॥ ६८ ॥
प्रत्यक्षसिद्धा रचना कर्तारं समपेक्षते ।
अतोऽद्य कर्मकर्तृत्वाद्ब्रह्मणः कर्मितोचिता ॥ ६९ ॥
कर्मित्वे ब्रह्मणोऽप्येवं किं वाच्यं ब्रह्मवेदिनः ।
ब्रह्मीभूतो न कर्मी स्यादित्येतच्च न सिद्ध्यति ॥ ७० ॥
यादृशं ब्रह्म निर्णीतं तद्भूतोऽपि च तादृशः ।
इति निर्णय एव स्याद्युक्तेरपि समंजसः ॥ ७१ ॥
कालत्रयेऽप्यकर्मित्वमकर्तृत्वमकालता ।
कस्य चिद्ब्रह्मणोऽन्यस्य नीरूपस्यास्ति वस्तुनः ॥ ७२ ॥
तत्र कालत्रयातीतं नेह ज्ञेयं विवक्षितम् ।
प्रमेयत्वप्रमाणत्वप्रमातृत्वादिवर्जनात् ॥ ७३ ॥
ये तु ब्रह्मेशजीवाः सम्प्रोक्ताः कर्तृत्वसंयुताः ।
विद्यया मायया ते हि कर्मिणोऽविद्ययापि च ॥ ७४ ॥
कर्मिषु त्रिषु चोक्तेषु ब्रह्मणः श्रैष्ठ्यदर्शनात् ।
अकर्मत्वं श्रुतिस्मृत्योः प्रोच्यते युक्तमेव तत् ॥ ७५ ॥
एतेन कर्मिणः श्रैष्ठ्यं संसिद्धमिति ये विदुः ।
औदासीन्यं न तेषां स्याच्छ्रुतिस्मृत्युक्तकर्मसु ॥ ७६ ॥
ज्ञानादुपास्तिरुत्कृष्टा कर्मोत्कृष्टमुपासनात् ।
इति यो वेद वेदान्तैः स एव पुरुषोत्तमः ॥ ७७ ॥
इति सूर्यगीतायां चतुर्थोऽध्यायः ॥ ४ ॥
अथ पञ्चमोऽध्यायः ॥
सूर्य उवाच -
अथातः सम्प्रवक्ष्यामि कर्मिश्रेष्ठस्य लक्षणम् ।
यच्छ्रुत्वा नैव भूयोऽन्यच्छ्रोतव्यं तेऽवशिष्यते ॥ १ ॥
यस्य देहः स्वकीयोऽपि सर्वथा न प्रतीयते ।
नेन्द्रियाणि च सर्वाणि स कर्मिश्रेष्ठ उच्यते ॥ २ ॥
यस्य प्राणाः प्रशान्ताः स्युर्मन आदीनि च स्वयम् ।
अव्यक्तान्तानि सर्वाणि स कर्मिश्रेष्ठ उच्यते ॥ ३ ॥
बालोन्मत्तपिशाचादि चेष्टितान्यपि यत्र नो ।
निष्ठाऽजगरवद्यस्य स कर्मिश्रेष्ठ उच्यते ॥ ४ ॥
नाहंभावश्च यस्यास्ति नेदंभावश्च कुत्रचित् ।
सर्वद्वन्द्वविहीनात्मा स कर्मिश्रेष्ठ उच्यते ॥ ५ ॥
प्राग्बद्धोऽहं विमुक्तोऽद्येत्येवं यस्य स्मृतिर्न च ।
नित्यमुक्तस्वरूपः सन् स कर्मिश्रेष्ठ उच्यते ॥ ६ ॥
विदेहमुक्तो यः प्रोक्तो वरिष्ठो ब्रह्मवेदिनाम् ।
अरूपनष्टचित्तासुः स कर्मिश्रेष्ठ उच्यते ॥ ७ ॥
कर्माणि यस्य सर्वाणि वासनात्रयजानि च ।
अभवन्नपशान्तानि स कर्मिश्रेष्ठ उच्यते ॥ ८ ॥
कर्माणि कर्मभिः शुद्धैरशुद्धान्युपमृद्य यः ।
स कर्मब्रह्ममात्रोऽभूत् स कर्मिश्रेष्ठ उच्यते ॥ ९ ॥
ज्ञानिनामपि यः श्रेष्ठः सप्तमीं भूमिकां गतः ।
उपासकानां यश्चैकः स कर्मिश्रेष्ठ उच्यते ॥ १० ॥
यः सर्वैः पीडितोऽपि स्यान्निर्विकारोऽपि पूजितः ।
सुखदुःखे न यस्य स्तः स कर्मिश्रेष्ठ उच्यते ॥ ११ ॥
यः सर्वैर्मनुजैः पूज्यो यः सर्वैश्च सुरासुरैः ।
ब्रह्मविष्णुशिवैर्यश्च स कर्मिश्रेष्ठ उच्यते ॥ १२ ॥
त्यक्त्वा कर्माणि सर्वाणि स्वात्ममात्रेण तिष्ठतः ।
कथं कर्मित्वमित्येवं मा शंकिष्ठा महामते ॥ १३ ॥
कर्मणां फलमेषा हि स्वात्ममात्रेण संस्थितिः ।
अतः सफलकर्मैष कर्मिश्रेष्ठो भवेद्ध्रुवम् ॥ १४ ॥
ज्ञानेन ज्ञायते यद्वा उपास्त्या चोपलभ्यते ।
तत्स्थिरं प्राप्यतेऽनेन कर्मणा।आतोऽस्य कर्मिता ॥ १५ ॥
देहेऽस्मिन् वर्तमानेऽपि देहस्मृतिविवर्जनात् ।
विदेहमुक्त इत्युक्तः कथं कर्मीति चेच्छृणु ॥ १६ ॥
देहविस्मृतिमत्त्वेऽपि कर्मदेहे स्थितत्वतः ।
अन्यदृष्ट्याऽस्य देहित्वात्कर्मित्वमुपपद्यते ॥ १७ ॥
देहस्थत्वादपूर्णः स्यादिति शक्यं न किंचन ।
तटाकमप्रकुंभस्थं जलं पूर्णं हि दृश्यते ॥ १८ ॥
प्रारब्धकर्ममुक्तोऽपि भोगान्मुक्तोऽपि चाखिलात् ।
कर्माकार्ये स्थितः कर्मी देहे स्याद्भोगसाधने ॥ १९ ॥
साधने सति देहेऽपि साध्यो भोगो न सिध्यति ।
देहविस्मृतिमत्त्वेन देहहीनसमत्वतः ॥ २० ॥
आहिताग्नित्वसंसिद्ध्यै ज्योतिष्टोमे कृतेऽपि च ।
यथा न स्वर्गमाप्नोति निष्कामः पुरुषर्षभः ॥ २१ ॥
जाग्रस्वप्नसुषुप्त्यात्मसन्धित्रयकृतामृतः ।
सर्वसन्ध्यादिरहितः सन्धिभिर्वन्द्यते सदा ॥ २२ ॥
यः सर्वकर्मभिर्वन्द्यो नित्यं सर्वैरकर्मिभिः ।
स कर्मिप्रवरोऽकर्मिप्रवरश्चेति कथ्यते ॥ २३ ॥
सर्वसाम्यमुपेत्यस्य स्वात्मारामस्य योगिनः ।
सहस्रशः कृतैः किं वा वन्दनैरकृतेश्च वा ॥ २४ ॥
देहादिषु विकारेषु स्वीयत्वं स्वत्वपूर्वकम् ।
विहाय नित्यनिष्ठाभिः स्वमात्रः स विराजते ॥ २५ ॥
इन्द्रियार्थैर्विमूढानां दुष्कर्मत्वं निगद्यते ।
तैरपेतः सुकर्म्येष विदेह इति कथ्यते ॥ २६ ॥
यः सर्वद्वन्द्वनिर्मुक्तः सर्वत्रिपुटिवर्जितः ।
सर्वावस्थाविहीनः स विदेह इति कथ्यते ॥ २७ ॥
लौकिकं वैदिकं कर्म सर्वं यस्मिन्क्षयं गतम् ।
यस्मान्नैवाणुमात्रं च विदेह इति कथ्यते ॥ २८ ॥
यस्येन्द्रियाणि सर्वाणि न चलन्ति कदाचन ।
भित्तिस्थचित्रांगानीव विदेह इति कथ्यते ॥ २९ ॥
आत्मानं सत्यमद्वैतं केवलं निर्गुणामृतम् ।
सम्पश्यतः सदा स्वान्यविकारस्फुरणं कुतः ॥ ३० ॥
आत्मेतरदसत्यं च द्वैतं नानागुणान्वितम् ।
अपश्यतः सदानन्दस्वरूपास्फुरणं कुतः ॥ ३१ ॥
आदिमध्यान्तरहितचिदानन्दस्वरूपिणः ।
स्थितप्रज्ञस्य को बाधः शरीरेण स्वयोगिनः ॥ ३२ ॥
कर्माणि कर्मणा त्यक्त्वा ब्रह्मणा ब्रह्मणि स्थितः ।
कर्मणा शर्म सततं सम्प्राप्तः स विराजते ॥ ३३ ॥
बुद्धेस्तैक्ष्ण्यं च मौढ्यं च यस्य नैवास्ति किंचन ।
बुद्धेः पारंगतः सोऽयं प्रबुद्धः शोभतेतराम् ॥ ३४ ॥
मनस्तथैव संलीनं चितीव लवणं जले ।
यथा निरन्तरात्मीयनिष्ठया सोऽद्वयोऽभवत् ॥ ३५ ॥
समनस्त्वान्महद्दुःखममनस्कस्य तत्कुतः ।
समनस्को हि संकल्पान् करुते दुःखकारिणः ॥ ३६ ॥
प्रारब्धकर्मजं दुःखं जीवन्मुक्तस्य कथ्यते ।
कर्मत्रयविहीनस्य विदेहस्य कथं नु तत् ॥ ३७ ॥
कर्म कर्तव्यमिति वा न कर्तव्यमितीह वा ।
यदि मन्येत वैदेहीं न मुक्तिं प्राप्तवांस्तु सः ॥ ३८ ॥
समाधिर्वाऽथ कर्तव्यो न कर्तव्य इतीह वा ।
यदि मन्येत वैदेहीं न मुक्तिं प्राप्तवांस्तु सः ॥ ३९ ॥
पूर्वं बद्धोऽधुना मुक्तोऽस्म्यहमित्येव बन्धनात् ।
यदि मन्येत वैदेहीं न मुक्तिं प्राप्तवांस्तु सः ॥ ४० ॥
पूर्वमप्यभवन्मुक्तो मध्ये भ्रान्तिस्तु बन्धवत् ।
यदि मन्येत वैदेहीं न मुक्तिं प्राप्तवांस्तु सः ॥ ४१ ॥
वन्ध्यापुत्रादिवत्सर्वं मय्यभूदसदित्यपि ।
यदि मन्येत वैदेहीं न मुक्तिं प्राप्तवांस्तु सः ॥ ४२ ॥
आविद्यकं तमो ध्वस्तं स्वप्रकाशेन वा इति ।
यदि मन्येत वैदेहीं न मुक्तिं प्राप्तवांस्तु सः ॥ ४३ ॥
स्वप्नेऽपि नाहंभावोऽस्ति मम देहेन्द्रियादिषु ।
यदि मन्येत वैदेहीं न मुक्तिं प्राप्तवांस्तु सः ॥ ४४ ॥
अरूपनष्टमनसो विदेहत्वं प्रकीर्त्यते ।
तत्कथं मन्यमानस्य यत्किंचित्स्यादनात्मनः ॥ ४५ ॥
मनो नश्यति निःशेषं मननस्य विसर्जनात् ।
अमनस्कस्वभावं तत्पदं तस्यावशिष्यते ॥ ४६ ॥
मननेन विनिश्चित्य वैदेहीं मुक्तिमात्मनः ।
नैष्कर्म्यसिद्धिं वदतां का तृप्तिरविवेकिनाम् ॥ ४७ ॥
श्रुत्वा वेदान्तवाक्यानि मोदन्तेऽनुभवं विना ।
लीढेन ताडपत्रेण गुडाक्षरयुतेन किम् ॥ ४८ ॥
स्वानुभूतिं विना शास्त्रैः पण्डिताः समलंकृताः ।
कचहीनेव विधवा भूषणैर्भूषितोत्तमैः ॥ ४९ ॥
स्वानुभूतिं विना कर्माण्याचरन्त्यखिलान्यपि ।
स्वर्णयःकुम्भकारादितुल्या एवोपवीतिनः ॥ ५० ॥
स्वानुभूतिं विना वेदान् पठन्ति विविधा द्विजाः ।
प्रावृण्णिशायां परितो मण्डूका इव दुस्स्वराः ॥ ५१ ॥
स्वानुभूतिं विना देहं बिभ्रत्यध्यासदार्ढ्यतः ।
शाकल्यस्य मृतं देहं धनबुद्ध्येव तस्कराः ॥ ५२ ॥
स्वानुभूतिं विना ध्यानं कुर्वन्त्यासनसंयुताः ।
बका इवांभसस्तीरे मत्स्यवंचनतत्पराः ॥ ५३ ॥
स्वानुभूतिं विना श्वासान्निरुन्धन्ति हठात्सदा ।
अयस्कारोऽनिलं बाह्यं द्रुतिकायामिवाधिकम् ॥ ५४ ॥
स्वानुभूतिं विना योगदण्डपट्टादिधारिणः ।
जीर्णकन्धाभरं भग्नदण्डभाण्डादि पित्तवत् ॥ ५५ ॥
स्वानुभूतिं विना यद्यत्कुर्वन्ति भुवि मानवाः ।
तत्तत्सर्वं वृथैव स्यान्मरुभूमौ कृषिर्यथा ॥ ५६ ॥
स्वानुभूत्यर्थकं कर्म निकृष्टमपि सर्वथा ।
उत्तमं विबुधैः श्लाघ्यं श्वेव चोरनिवर्तकः ॥ ५७ ॥
स्वानुभूत्युपयुक्तेभ्य इतराणि बहून्यपि ।
कर्मादीन्याचरन्मर्त्यो भ्रान्तवद्व्यर्थचेष्टितः ॥ ५८ ॥
श्रुतिस्मृतिपुराणेषु काम्यकर्माण्यनेकधा ।
प्रोच्यन्ते तेषु संसक्तस्त्याज्यः शिष्टैर्विटो यथा ॥ ५९ ॥
काम्यकर्मसमासक्तः स्वनिष्ठां स्वस्य मन्यते ।
जात्यन्धः स्वस्य रत्नादिपरीक्षादक्षतामिव ॥ ६० ॥
अवशेन्द्रियमात्मार्थगुरुबुद्ध्यैव सेवते ।
बालातन्तुसुतं लोकेऽगणितं भुक्तये यथा ॥ ६१ ॥
यस्तु वश्येन्द्रियं शान्तं निष्कामं सद्गुरुं सदा ।
स्वात्मैकरसिकं मुक्त्यै स धीमानुपगच्छति ॥ ६२ ॥
काम्यकर्माणि चोत्सृज्य निष्कामो यो मुमुक्षया ।
शान्त्यादिगुणसंयुक्तं गुरुं प्राप्तः स मुच्यते ॥ ६३ ॥
इति श्रुत्वाऽरुणः सूर्यात्संतुष्टः स्वात्मनिष्ठया ।
कृतकृत्य इदं प्राह भास्करं विनयान्वितः ॥ ६४ ॥
अरुण उवाच -
श्रीमन्गुरुवर स्वामिंस्त्वन्मुखात्पारमार्थिकम् ।
निष्कामकर्ममाहात्म्यं श्रुत्वा धन्योऽस्म्यसंशयम् ॥ ६५ ॥
सकर्मत्वमकर्मत्वं विदेहस्य च लक्षणम् ।
श्रुतं रहस्यं नातोऽन्यत्किंचिदप्यवशिष्यते ॥ ६६ ॥
तथाऽपि मम साक्षात्त्वं कर्तव्यं ब्रूहि निश्चितम् ।
मच्चित्तपरिपाकं हि षेत्सि सर्वज्ञ सद्गुरो ॥ ६७ ॥
इति पृष्ट उवाचेदं भगवान्भास्करोऽरुणम् ।
स्वसारथिं निजग्रस्थं बद्धबाहुं नताननम् ॥ ६८ ॥
सूर्य उवाच -
अरुण त्वं परं ब्रह्म साक्षाद्दृष्ट्वाऽधुना कृती ।
तथाऽप्यादेहपतनाद्ब्रह्माभिध्यानमादरात् ॥ ६९ ॥
स्वाधिकारोचितं शुद्धं कर्माप्याचर सत्तम ।
प्रमादो माऽस्तु ते स्वप्नेऽप्युक्तयोर्ब्रह्मकर्मणोः ॥ ७० ॥
संवादमावयोरेतं सर्वपापहरं शुभम् ।
यः शृणोति सकृद्वा स कृतार्थो नात्र संशयः ॥ ७१ ॥
श्रीगुरुमूर्तिरुवाच -
इति दिनकरवक्त्राद्ब्रह्मकर्मैनिष्ठां
स्फुटतरमवगम्य प्राज्ञ एकोऽरुणः सः ।
अभवदखिललोकैः पूजनीयः कृतार्थ-
स्त्वमपि भव तथैव क्षिप्रमंभोजजन्मन् ॥ ७२ ॥
विमलविगुणयोगाभ्यासदार्ढ्येन युक्तः
सकलगतचिदात्मन्यद्वितीये बुधोऽपि ।
सततमपि कुरुष्वारब्धदुःखोपशान्त्यै
रहसि निजसमाधीन्स्वोक्तकर्मापि धातः ॥ ७३ ॥
इति तत्त्वसारायणकर्मकाण्डोक्तश्रीसूर्यगीतायां पंचमोऽध्यायः ॥
॥ इति सूर्यगीता समाप्ता ॥
॥ हंसगीता ॥
युधिष्ठिर उवाच ।
सत्यं दमं क्षमां प्रज्ञां प्रशंसन्ति पितामह ।
विद्वांसो मनुजा लोके कथमेतन्मतं तव ॥ १॥
भीष्म उवाच ।
अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम् ।
साध्यानामिह संवादं हंसस्य च युधिष्ठिर ॥ २॥
हंसो भूत्वाथ सौवर्णस्त्वजो नित्यः प्रजापतिः ।
स वै पर्येति लोकांस्त्रीनथ साध्यानुपागमत् ॥ ३॥
साध्या ऊचुः ।
शकुने वयं स्म देवा वै साध्यास्त्वामनुयुज्महे ।
पृच्छामस्त्वां मोक्षधर्मं भवांश्च किल मोक्षवित् ॥ ४॥
श्रुतोऽसि नः पण्डितो धीरवादी
साधुशब्दश्चरते ते पतत्रिन् ।
किं मन्यसे श्रेष्ठतमं द्विज त्वं
कस्मिन्मनस्ते रमते महात्मन् ॥ ५॥
तन्नः कार्यं पक्षिवर प्रशाधि
यत्कर्मणां मन्यसे श्रेष्ठमेकम् ।
यत्कृत्वा वै पुरुषः सर्वबन्धैर्-
विमुच्यते विहगेन्द्रेह शीघ्रम् ॥ ६॥
हंस उवाच ।
इदं कार्यममृताशाः शृणोमि
तपो दमः सत्यमात्माभिगुप्तिः ।
ग्रन्थीन् विमुच्य हृदयस्य सर्वान्
प्रियाप्रिये स्वं वशमानयीत ॥ ७॥
नारुन्तुदः स्यान्न नृशंसवादी
न हीनतः परमभ्याददीत ।
ययास्य वाचा पर उद्विजेत
न तां वदेद्रुषतीं पापलोक्याम् ॥ ८॥
वाक्सायका वदनान्निष्पतन्ति
यैराहतः शोचति रात्र्यहानि ।
परस्य नामर्मसु ते पतन्ति
तान् पण्डितो नावसृजेत्परेषु ॥ ९॥
परश्चेदेनमति वादबानैर्-
भृशं विध्येच्छम एवेह कार्यः ।
संरोष्यमाणः प्रतिहृष्यते यः
स आदत्ते सुकृतं वै परस्य ॥ १०॥
क्षेपाभिमानादभिषङ्गव्यलीकं var क्षेपायमाणमभिषङ्ग
निगृह्णाति ज्वलितं यश्च मन्युम् ।
अदुष्टचेता मुदितोऽनसूयुः
स आदत्ते सुकृतं वै परेषाम् ॥ ११॥
आक्रुश्यमानो न वदामि किंचित्
क्षमाम्यहं ताड्यमानश्च नित्यम् ।
श्रेष्ठं ह्येतत् यत् क्षमामाहुरार्याः
सत्यं तथैवार्जवमानृशंस्यम् ॥ १२॥
वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः ।
दमस्योपनिषन्मोक्षं एतत्सर्वानुशासनम् ॥ १३॥
वाचो वेगं मनसः क्रोधवेगं विवित्सा वेगमुदरोपस्थ वेगम् ।
एतान् वेगान् यो विषहदुदीर्णांस्तं मन्येऽहं ब्राह्मणं वै मुनिं च ॥ १४॥
अक्रोधनः क्रुध्यतां वै विशिष्टस्तथा तितिक्षुरतितिक्षोर्विशिष्टः ।
अमानुषान्मानुषो वै विशिष्टस् तथा ज्ञानाज्ज्ञानवान्वै प्रधानः ॥ १५॥
var ज्ञानविद्वै विशिष्टः
आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः । var नाक्रुश्येत् मन्युरेनं
आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥ १६॥
यो नात्युक्तः प्राह रूक्षं प्रियं वा
यो वा हतो न प्रतिहन्ति धैर्यात् ।
पापं च यो नेच्छति तस्य हन्तुस्-
तस्मै देवाः स्पृहयन्ते सदैव ॥ १७॥ var तस्येह देवाः स्पृहयन्ति
नित्यम् ।
पापीयसः क्षमेतैव श्रेयसः सदृशस्य च ।
विमानितो हतोऽऽक्रुष्ट एवं सिद्धिं गमिष्यति ॥ १८॥
सदाहमार्यान्निभृतोऽप्युपासे
न मे विवित्सा न चमेऽस्ति रोषः । var विवित्सोत्सहते न रोषः
न चाप्यहं लिप्समानः परैमि
न चैव किंचिद्विषयेण यामि ॥ १९॥
नाहं शप्तः प्रतिशपामि किंचिद्
दमं द्वारं ह्यमृतस्येह वेद्मि ।
गुह्यं ब्रह्म तदिदं वा ब्रवीमि
न मानुषाच्छ्रेष्ठतरं हि किंचित् ॥ २०॥
विमुच्यमानः पापेभ्यो धनेभ्य इव चन्द्रमाः ।
विरजाः कालमाकाङ्क्षन् धीरो धैर्येण सिध्यति ॥ २१॥
यः सर्वेषां भवति ह्यर्चनीय
उत्सेधनस्तम्भ इवाभिजातः ।
यस्मै वाचं सुप्रशस्तां वदन्ति var तस्मै वाचं सुप्रसन्नां
स वै देवान्गच्छति संयतात्मा ॥ २२॥
न तथा वक्तुमिच्छन्ति कल्याणान् पुरुषे गुणान् ।
यथैषां वक्तुमिच्छन्ति नैर्गुण्यमनुयुञ्जकाः ॥ २३॥
यस्य वाङ्मनसी गुप्ते सम्यक्प्रणिहिते सदा ।
वेदास्तपश्च त्यागश्च स इदं सर्वमाप्नुयात् ॥ २४॥
आक्रोशनावमानाभ्यां नाबुधान् गर्हयेद् बुधः । var बोधयेद् बुधः
तस्मान्न वर्धयेदन्यं न चात्मानं विहिंसयेत् ॥ २५॥
अमृतस्येव सन्तृप्येदवमानस्य वै द्विजः । var पण्डितः ।
सुखं ह्यवमतः शेते योऽवमन्ता स नश्यति ॥ २६॥
यत्क्रोधनो यजते यद्ददाति
यद्वा तपस्तप्यति यज्जुहोति ।
वैवस्वतस्तद्धरतेऽस्य सर्वं
मोघः श्रमो भवति हि क्रोधनस्य ॥ २७॥
चत्वारि यस्य द्वाराणि सुगुप्तान्यमरोत्तमाः ।
उपस्थमुदरं हस्तौ वाक्चतुर्थी स धर्मवित् ॥ २८॥
सत्यं दमं ह्यार्जवमानृशंस्यं
धृतिं तितिक्षामभिसेवमानः । var तितिक्षां च संसेवमानः
स्वाध्यायनित्योऽस्पृहयन्परेषाम् var युक्तोऽस्पृहयन् परेषाम्
एकान्तशील्यूर्ध्वगतिर्भवेत्सः ॥ २९॥
सर्वानेताननुचरन् वत्सवच्चतुरः स्तनान् । var सर्वांश्चैनाननुचरन्
न पावनतमं किंचित्सत्यादध्यगमं क्वचित् ॥ ३०॥
आचक्षेऽहं मनुष्येभ्यो देवेभ्यः प्रतिसञ्चरन् ।
सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ॥ ३१॥
यादृशैः संनिवसति यादृशांश्चोपसेवते ।
यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः ॥ ३२॥
यदि सन्तं सेवति यद्यसन्तं
तपस्विनं यदि वा स्तेनमेव ।
वासो यथा रङ्गवशं प्रयाति
तथा स तेषां वशमभ्युपैति ॥ ३३॥
सदा देवाः साधुभिः संवदन्ते
न मानुषं विषयं यान्ति द्रष्टुम् ।
नेन्दुः समः स्यादसमो हि वायुर्-
उच्चावचं विषयं यः स वेद ॥ ३४॥
अदुष्टं वर्तमाने तु हृदयान्तरपूरुषे ।
तेनैव देवाः प्रीयन्ते सतां मार्गस्थितेन वै ॥ ३५॥
शिश्नोदरे येऽभिरताः सदैव var ये निरताः
स्तेना नरा वाक्परुषाश्च नित्यम् ।
अपेतदोषानिति तान् विदित्वा
दूराद्देवाः सम्परिवर्जयन्ति ॥ ३६॥
न वै देवा हीनसत्त्वेन तोष्याः
सर्वाशिना दुष्कृतकर्मणा वा ।
सत्यव्रता ये तु नराः कृतज्ञा
धर्मे रतास्तैः सह सम्भजन्ते ॥ ३७॥
अव्याहृतं व्याकृताच्छ्रेय आहुः
सत्यं वदेद्व्याहृतं तद्द्वितीयम् ।
धर्मं वदेद्व्याहृतं तत्तृतीयं
प्रियंवदेद्व्याहृतं तच्चतुर्थम् ॥ ३८॥
साध्या ऊचुः ।
केनायमावृतो लोकः केन वा न प्रकाशते ।
केन त्यजति मित्राणि केन स्वर्गं न गच्छति ॥ ३९॥
हंस उवाच ।
अज्ञानेनावृतो लोको मात्सर्यान्न प्रकाशते ।
लोभात्त्यजति मित्राणि सङ्गात्स्वर्गं न गच्छति ॥ ४०॥
साध्या ऊचुः ।
कः स्विदेको रमते ब्राह्मणानां
कः स्विदेको बहुभिर्जोषमास्ते ।
कः स्विदेको बलवान् दुर्बलोऽपि
कः स्विदेषां कलहं नान्ववैति ॥ ४१॥
हंस उवाच ।
प्राज्ञ एको रमते ब्राह्मणानां
प्राज्ञश्चैको बहुभिर्जोषमास्ते ।
प्राज्ञ एको बलवान् दुर्बलोऽपि
प्राज्ञ एषां कलहं नान्ववैति ॥ ४२॥
साध्या ऊचुः ।
किं ब्राह्मणानां देवत्वं किं च साधुत्वमुच्यते ।
असाधुत्वं च किं तेषां किमेषां मानुषं मतम् ॥ ४३॥
हंस उवाच ।
स्वाध्याय एषां देवत्वं व्रतं साधुत्वमुच्यते ।
असाधुत्वं परीवादो मृत्युर्मानुष्यमुच्यते ॥ ४४॥
भीष्म उवाच ।
संवाद इत्ययं श्रेष्ठः साध्यानां परिकीर्तितः ।
क्षेत्रं वै कर्मणां योनिः सद्भावः सत्यमुच्यते ॥ ४५॥
var
इत्युक्त्वा परमो देव भगवान् नित्य अव्ययः ।
साध्यैर्देवगणैः सार्धं दिवमेवारुरोह सः ॥ ४५॥
एतद् यशस्यमायुष्यं पुण्यं स्वर्गाय च ध्रुवम् ।
दर्शितं देवदेवेन परमेणाव्ययेन च ॥ ४६॥
॥ इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
हंसगीता समाप्ता ॥
॥ हंसगीता भागवतपुराणे एकादशस्कन्धे ॥
श्रीभगवानुवाच ।
सत्त्वं रजस्तम इति गुणा बुद्धेर्न चात्मनः ।
सत्त्वेनान्यतमौ हन्यात्सत्त्वं सत्त्वेन चैव हि ॥ १३.१॥
सत्त्वाद्धर्मो भवेद्वृद्धात्पुंसो मद्भक्तिलक्षणः ।
सात्त्विकोपासया सत्त्वं ततो धर्मः प्रवर्तते ॥ १३.२॥
धर्मो रजस्तमो हन्यात्सत्त्ववृद्धिरनुत्तमः ।
आशु नश्यति तन्मूलो ह्यधर्म उभये हते ॥ १३.३॥
आगमोऽपः प्रजा देशः कालः कर्म च जन्म च ।
ध्यानं मन्त्रोऽथ संस्कारो दशैते गुणहेतवः ॥ १३.४॥
तत्तत्सात्त्विकमेवैषां यद्यद्वृद्धाः प्रचक्षते ।
निन्दन्ति तामसं तत्तद्राजसं तदुपेक्षितम् ॥ १३.५॥
सात्त्विकान्येव सेवेत पुमान्सत्त्वविवृद्धये ।
ततो धर्मस्ततो ज्ञानं यावत्स्मृतिरपोहनम् ॥ १३.६॥
वेणुसङ्घर्षजो वह्निर्दग्ध्वा शाम्यति तद्वनम् ।
एवं गुणव्यत्ययजो देहः शाम्यति तत्क्रियः ॥ १३.७॥
उद्धव उवाच ।
विदन्ति मर्त्याः प्रायेण विषयान्पदमापदाम् ।
तथापि भुञ्जते कृष्ण तत्कथं श्वखराजवत् ॥ १३.८॥
श्रीभगवानुवाच ।
अहमित्यन्यथाबुद्धिः प्रमत्तस्य यथा हृदि ।
उत्सर्पति रजो घोरं ततो वैकारिकं मनः ॥ १३.९॥
रजोयुक्तस्य मनसः सङ्कल्पः सविकल्पकः ।
ततः कामो गुणध्यानाद्दुःसहः स्याद्धि दुर्मतेः ॥ १३.१०॥
करोति कामवशगः कर्माण्यविजितेन्द्रियः ।
दुःखोदर्काणि सम्पश्यन् रजोवेगविमोहितः ॥ १३.११॥
रजस्तमोभ्यां यदपि विद्वान्विक्षिप्तधीः पुनः ।
अतन्द्रितो मनो युञ्जन्दोषदृष्टिर्न सज्जते ॥ १३.१२॥
अप्रमत्तोऽनुयुञ्जीत मनो मय्यर्पयञ्छनैः ।
अनिर्विण्णो यथाकालं जितश्वासो जितासनः ॥ १३.१३॥
एतावान्योग आदिष्टो मच्छिष्यैः सनकादिभिः ।
सर्वतो मन आकृष्य मय्यद्धावेश्यते यथा ॥ १३.१४॥
उद्धव उवाच ।
यदा त्वं सनकादिभ्यो येन रूपेण केशव ।
योगमादिष्टवानेतद्रूपमिच्छामि वेदितुम् ॥ १३.१५॥
श्रीभगवानुवाच ।
पुत्रा हिरण्यगर्भस्य मानसाः सनकादयः ।
पप्रच्छुः पितरं सूक्ष्मां योगस्यैकान्तिकीं गतिम् ॥ १३.१६॥
सनकादय ऊचुः ।
गुणेष्वाविशते चेतो गुणाश्चेतसि च प्रभो ।
कथमन्योन्यसन्त्यागो मुमुक्षोरतितितीर्षोः ॥ १३.१७॥
श्रीभगवानुवाच ।
एवं पृष्टो महादेवः स्वयम्भूर्भूतभावनः ।
ध्यायमानः प्रश्नबीजं नाभ्यपद्यत कर्मधीः ॥ १३.१८॥
स मामचिन्तयद्देवः प्रश्नपारतितीर्षया ।
तस्याहं हंसरूपेण सकाशमगमं तदा ॥ १३.१९॥
दृष्ट्वा मां त उपव्रज्य कृत्वा पादाभिवन्दनम् ।
ब्रह्माणमग्रतः कृत्वा पप्रच्छुः को भवानिति ॥ १३.२०॥
इत्यहं मुनिभिः पृष्टस्तत्त्वजिज्ञासुभिस्तदा ।
यदवोचमहं तेभ्यस्तदुद्धव निबोध मे ॥ १३.२१॥
वस्तुनो यद्यनानात्व आत्मनः प्रश्न ईदृशः ।
कथं घटेत वो विप्रा वक्तुर्वा मे क आश्रयः ॥ १३.२२॥
पञ्चात्मकेषु भूतेषु समानेषु च वस्तुतः ।
को भवानिति वः प्रश्नो वाचारम्भो ह्यनर्थकः ॥ १३.२३॥
मनसा वचसा दृष्ट्या गृह्यतेऽन्यैरपीन्द्रियैः ।
अहमेव न मत्तोऽन्यदिति बुध्यध्वमञ्जसा ॥ १३.२४॥
गुणेष्वाविशते चेतो गुणाश्चेतसि च प्रजाः ।
जीवस्य देह उभयं गुणाश्चेतो मदात्मनः ॥ १३.२५॥
गुणेषु चाविशच्चित्तमभीक्ष्णं गुणसेवया ।
गुणाश्च चित्तप्रभवा मद्रूप उभयं त्यजेत् ॥ १३.२६॥
जाग्रत्स्वप्नः सुषुप्तं च गुणतो बुद्धिवृत्तयः ।
तासां विलक्षणो जीवः साक्षित्वेन विनिश्चितः ॥ १३.२७॥
यर्हि संसृतिबन्धोऽयमात्मनो गुणवृत्तिदः ।
मयि तुर्ये स्थितो जह्यात्त्यागस्तद्गुणचेतसाम् ॥ १३.२८॥
अहङ्कारकृतं बन्धमात्मनोऽर्थविपर्ययम् ।
विद्वान्निर्विद्य संसारचिन्तां तुर्ये स्थितस्त्यजेत् ॥ १३.२९॥
यावन्नानार्थधीः पुंसो न निवर्तेत युक्तिभिः ।
जागर्त्यपि स्वपन्नज्ञः स्वप्ने जागरणं यथा ॥ १३.३०॥
असत्त्वादात्मनोऽन्येषां भावानां तत्कृता भिदा ।
गतयो हेतवश्चास्य मृषा स्वप्नदृशो यथा ॥ १३.३१॥
यो जागरे बहिरनुक्षणधर्मिणोऽर्थान्
भुङ्क्ते समस्तकरणैर्हृदि तत्सदृक्षान् ।
स्वप्ने सुषुप्त उपसंहरते स एकः
स्मृत्यन्वयात्त्रिगुणवृत्तिदृगिन्द्रियेशः ॥ १३.३२॥
एवं विमृश्य गुणतो मनसस्त्र्यवस्था
मन्मायया मयि कृता इति निश्चितार्थाः ।
सञ्छिद्य हार्दमनुमानसदुक्तितीक्ष्ण-
ज्ञानासिना भजत माखिलसंशयाधिम् ॥ १३.३३॥
ईक्षेत विभ्रममिदं मनसो विलासं
दृष्टं विनष्टमतिलोलमलातचक्रम् ।
विज्ञानमेकमुरुधेव विभाति माया
स्वप्नस्त्रिधा गुणविसर्गकृतो विकल्पः ॥ १३.३४॥
दृष्टिं ततः प्रतिनिवर्त्य निवृत्ततृष्ण-
स्तूष्णीं भवेन्निजसुखानुभवो निरीहः ।
सन्दृश्यते क्व च यदीदमवस्तुबुद्ध्या
त्यक्तं भ्रमाय न भवेत्स्मृतिरानिपातात् ॥ १३.३५॥
देहं च नश्वरमवस्थितमुत्थितं वा
सिद्धो न पश्यति यतोऽध्यगमत्स्वरूपम् ।
दैवादपेतमथ दैववशादुपेतं
वासो यथा परिकृतं मदिरामदान्धः ॥ १३.३६॥
देहोऽपि दैववशगः खलु कर्म यावत्
स्वारम्भकं प्रतिसमीक्षत एव सासुः ।
तं सप्रपञ्चमधिरूढसमाधियोगः
स्वाप्नं पुनर्न भजते प्रतिबुद्धवस्तुः ॥ १३.३७॥
मयैतदुक्तं वो विप्रा गुह्यं यत्साङ्ख्ययोगयोः ।
जानीत माऽऽगतं यज्ञं युष्मद्धर्मविवक्षया ॥ १३.३८॥
अहं योगस्य साङ्ख्यस्य सत्यस्यर्तस्य तेजसः ।
परायणं द्विजश्रेष्ठाः श्रियः कीर्तेर्दमस्य च ॥ १३.३९॥
मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम् ।
सुहृदं प्रियमात्मानं साम्यासङ्गादयोऽगुणाः ॥ १३.४०॥
इति मे छिन्नसन्देहा मुनयः सनकादयः ।
सभाजयित्वा परया भक्त्यागृणत संस्तवैः ॥ १३.४१॥
तैरहं पूजितः सम्यक्संस्तुतः परमर्षिभिः ।
प्रत्येयाय स्वकं धाम पश्यतः परमेष्ठिनः ॥ १३.४२॥
॥ इति भागवतपुराणे एकादशस्कन्धान्तर्त्गता हंसगीता समाप्ता ॥
॥ हारीतगीता ॥
युधिष्ठिर उवाच
किं शीलः किं समाचारः किं विद्यः किं परायनः ।
प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम् ॥ १॥
भीष्म उवाच
मोक्षधर्मेषु निरतो लघ्वाहारो जितेन्द्रियः ।
प्राप्नोति परमं स्थानं यत्परं प्रकृतेर्ध्रुवम् ॥ २॥
स्वगृहादभिनिःसृत्य लाभालाभे समो मुनिः ।
समुपोधेषु कामेषु निरपेक्षः परिव्रजेत् ॥ ३॥
न चक्षुषा न मनसा न वाचा दूसयेदपि ।
न प्रत्यक्षं परोक्षं वा दूसनं व्याहरेत्क्व चित् ॥ ४॥
न हिंस्यात्सर्वभूतानि मैत्रायण गतिश् चरेत् ।
नेदं जीवितमासाद्य वैरं कुर्वीत केन चित् ॥ ५॥
अतिवादांस्तितिक्षेत नाभिमन्येत्कथं चन ।
क्रोध्यमानः प्रियं ब्रूयादाक्रुष्टः कुशलं वदेत् ॥ ६॥
प्रदक्षिणं प्रसव्यं च ग्राममध्ये न चाचरेत् ।
भैक्ष चर्यामनापन्नो न गच्छेत्पूर्वकेतितः ॥ ७॥
अविकीर्णः सुगुप्तश्च न वाचा ह्यप्रियं वदेत् ।
मृदुः स्यादप्रतिक्रूरो विस्रब्धः स्यादरोषणः ॥ ८॥
विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने ।
अतीते पात्रसञ्चारे भिक्षां लिप्सेत वै मुनिः ॥ ९॥
अनुयात्रिकमर्थस्य मात्रा लाभेष्वनादृतः ।
अलाभे न विहन्येत लाभश्चैनं न हर्षयेत् ॥ १०॥
लाभं साधारणं नेच्छेन्न भुञ्जीताभिपूजितः ।
अभिपूजित लाभं हि जुगुप्सेतैव तादृशः ॥ ११॥
न चान्न दोषान्निन्देत न गुणानभिपूजयेत् ।
शयासने विविक्ते च नित्यमेवाभिपूजयेत् ॥ १२॥
शून्यागरं वृक्षमूलमरण्यमथ वा गुहाम् ।
अज्ञातचर्यां गत्वान्यां ततोऽन्यत्रैव संविशेत् ॥ १३॥
अनुरोधविरोधाभ्यां समः स्यादचलो ध्रुवः ।
सुकृतं दुष्कृतं चोभे नानुरुध्येत कर्मणि ॥ १४॥
नित्यतृप्तः सुसंतुष्टः प्रसन्नवदनेन्द्रियः ।
विभीर्जप्यपरो मौनी वैराग्यं समुपाश्रितः ॥ १५॥
अभ्यस्तं भौतिकं पश्यन् भूतानामागतीं गतिम् ।
निस्पृहः समदर्शी च पक्वापक्वेन वर्तयन् ।
आत्मना यः प्रशान्तात्मा लघ्वाहारो जितेन्द्रियः ॥ १६॥
वाचो वेगं मनसः क्रोधवेगं
विवित्सा वेगमुदरोपस्थ वेगम् ।
एतान्वेगान्विनयेद्वै तपस्वी
निन्दा चास्य हृदयं नोपहन्यात् ॥ १७॥
मध्यस्थ एव तिष्ठेत प्रशंसा निन्दयोः समः ।
एतत्पवित्रं परमं परिव्राजक आश्रमे ॥ १८॥
महात्मा सुव्रतो दान्तः सर्वत्रैवानपाश्रितः ।
अपूर्व चारकः सौम्यो अनिकेतः समाहितः ॥ १९॥
वान प्रस्थगृहस्थाभ्यां न संसृज्येत कर्हि चित् ।
अज्ञातलिप्सां लिप्सेत न चैनं हर्ष आविशेत् ॥ २०॥
विजानतां मोक्ष एष श्रमः स्यादविजानताम् ।
मोक्षयानमिदं कृत्स्नं विदुषां हारितोऽब्रवीत् ॥ २१॥
अभयं सर्वभूतेभ्यो दत्त्वा यः प्रव्रजेद्गृहात् ।
लोकास्तेजोमयास्तस्य तथानन्त्याय कल्पते ॥ २२॥
॥ इति श्री महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि हारीतगीतायां
अष्टसप्तत्यधिकद्विशततमोऽस्ध्याय ॥
॥ भगवद्गीता शब्दार्थ ॥
धृतराष्ट्र उवाच = King Dhritarashtra said
धर्मक्षेत्रे = in the place of pilgrimage
कुरुक्षेत्रे = in the place named Kuruksetra
समवेताः = assembled
युयुत्सवः = desiring to fight
मामकाः = my party (sons)
पाण्डवाः = the sons of Pandu
च = and
एव = certainly
किं = what
अकुर्वत = did they do
सञ्जय = O Sanjaya.
सञ्जय उवाच = Sanjaya said
दृष्ट्वा = after seeing
तु = but
पाण्डवानीकं = the soldiers of the Pandavas
व्यूढं = arranged in a military phalanx
दुर्योधनः = King Duryodhana
तदा = at that time
आचार्यं = the teacher
उपसङ्गम्य = approaching
राजा = the king
वचनं = word
अब्रवीत् = spoke.
पश्य = behold
एतां = this
पाण्डुपुत्राणां = of the sons of Pandu
आचार्य = O teacher
महतीं = great
चमूं = military force
व्यूढां = arranged
द्रुपदपुत्रेण = by the son of Drupada
तव = your
शिष्येण = disciple
धीमता = very intelligent.
अत्र = here
शूराः = heroes
महेश्वासाः = mighty bowmen
भीमार्जुन = to Bhima and Arjuna
समाः = equal
युधि = in the fight
युयुधानः = Yuyudhana
विराटः = Virata
च = also
द्रुपदः = Drupada
च = also
महारथः = great fighter.
धृष्टकेतुः = Dhrishtaketu
चेकितानः = Cekitana
काशिराजः = Kasiraja
च = also
वीर्यवान् = very powerful
पुरुजित् = Purujit
कुन्तिभोजः = Kuntibhoja
च = and
शैब्यः = Saibya
च = and
नरपुङ्गवः = hero in human society.
युधामन्युः = Yudhamanyu
च = and
विक्रान्तः = mighty
उत्तमौजाः = Uttamauja
च = and
वीर्यवान् = very powerful
सौभद्रः = the son of Subhadra
द्रौपदेयाः = the sons of Draupadi
च = and
सर्वे = all
एव = certainly
महारथाः = great chariot fighters.
अस्माकं = our
तु = but
विशिष्टाः = especially powerful
ये = who
तान् = them
निबोध = just take note of, be informed
द्विजोत्तम = O best of the brahmanas
नायकाः = captains
मम = my
सैन्यस्य = of the soldiers
संज्ञार्थं = for information
तान् = them
ब्रवीमि = I am speaking
ते = to you.
भवान् = your good self
भीष्मः = Grandfather Bhishma
च = also
कर्णः = Karna
च = and
कृपः = Krpa
च = and
समितिञ्जयः = always victorious in battle
अश्वत्थामा = Asvatthama
विकर्णः = Vikarna
च = as well as
सौमदत्तिः = the son of Somadatta
तथा = as well as
एव = certainly
च = also.
अन्ये = others
च = also
बहवः = in great numbers
शूराः = heroes
मदर्थे = for my sake
त्यक्तजीविताः = prepared to risk life
नाना = many
शस्त्र = weapons
प्रहरणाः = equipped with
सर्वे = all of them
युद्धविशारदाः = experienced in military science.
अपर्याप्तं = immeasurable
तत् = that
अस्माकं = of ours
बलं = strength
भीष्म = by Grandfather Bhishma
अभिरक्षितं = perfectly protected
पर्याप्तं = limited
तु = but
इदं = all this
एतेषां = of the Pandavas
बलं = strength
भीम = by Bhima
अभिरक्षितं = carefully protected.
अयनेषु = in the strategic points
च = also
सर्वेषु = everywhere
यथाभागं = as differently arranged
अवस्थिताः = situated
भीष्मं = unto Grandfather Bhishma
एव = certainly
अभिरक्षन्तु = should give support
भवन्तः = you
सर्व = all respectively
एव हि = certainly.
तस्य = his
सञ्जनयन् = increasing
हर्षं = cheerfulness
कुरुवृद्धः = the grandsire of the Kuru dynasty (Bhishma)
पितामहः = the grandfather
सिंहनादं = roaring sound, like that of a lion
विनद्य = vibrating
उच्चैः = very loudly
शङ्खं = conchshell
दध्मौ = blew
प्रतापवान् = the valiant.
ततः = thereafter
शङ्खाः = conchshells
च = also
भेर्यः = large drums
च = and
पणवानक = small drums and kettledrums
गोमुखाः = horns
सहसा = all of a sudden
एव = certainly
अभ्यहन्यन्त = were simultaneously sounded
सः = that
शब्दः = combined sound
तुमुलः = tumultuous
अभवत् = became.
ततः = thereafter
श्वेतैः = with white
हयैः = horses
युक्ते = being yoked
महति = in a great
स्यन्दने = chariot
स्थितौ = situated
माधवः = KRiShNa (the husband of the goddess of fortune)
पाण्डवः = Arjuna (the son of Pandu)
च = also
एव = certainly
दिव्यौ = transcendental
शङ्खौ = conchshells
प्रदध्मतुः = sounded.
पाञ्चजन्यं = the conchshell named Pancajanya
हृषीकेशः = Hrsikesa (KRiShNa, the Lord who directs the senses of the devotees)
देवदत्तं = the conchshell named Devadatta
धनञ्जयः = Dhananjaya (Arjuna, the winner of wealth)
पौंड्रं = the conch named Paundra
दध्मौ = blew
महाशङ्खं = the terrific conchshell
भीमकर्मा = one who performs herculean tasks
वृकोदरः = the voracious eater (Bhima).
अनन्तविजयं = the conch named Ananta-vijaya
राजा = the king
कुन्तीपुत्रः = the son of Kunti
युधिष्ठिरः = Yudhisthira
नकुलः = Nakula
सहदेवः = Sahadeva
च = and
सुघोषमणिपुष्पकौ = the conches named Sughosa and Manipuspaka
काश्यः = the King of Kasi (Varanasi)
च = and
परमेष्वासः = the great archer
शिखण्डी = Sikhandi
च = also
महारथः = one who can fight alone against thousands
धृष्टद्युम्नः = Dhristadyumna (the son of King Drupada)
विराटः = Virata (the prince who gave shelter to the Pandavas while they were in disguise)
च = also
सात्यकिः = Satyaki (the same as Yuyudhana, the charioteer of Lord KRiShNa)
च = and
अपराजितः = who had never been vanquished
द्रुपदः = Drupada, the King of Pancala
द्रौपदेयाः = the sons of Draupadi
च = also
सर्वशः = all
पृथिवीपते = O King
सौभद्रः = Abhimanyu, the son of Subhadra
च = also
महाबाहुः = mighty-armed
शङ्खान् = conchshells
दध्मुः = blew
पृथक् = each separately.
सः = that
घोषः = vibration
धार्तराष्ट्राणां = of the sons of Dhritarashtra
हृदयानि = hearts
व्यदारयत् = shattered
नभः = the sky
च = also
पृथिवीं = the surface of the earth
च = also
एव = certainly
तुमुलः = uproarious
अभ्यनुनादयन् = resounding.
अथ = thereupon
व्यवस्थितान् = situated
दृष्ट्वा = looking upon
धार्तराष्ट्रान् = the sons of Dhritarashtra
कपिध्वजः = he whose flag was marked with Hanuman
प्रवृत्ते = while about to engage
शस्त्रसम्पाते = in releasing his arrows
धनुः = bow
उद्यम्य = taking up
पाण्डवः = the son of Pandu (Arjuna)
हृषीकेशं = unto Lord KRiShNa
तदा = at that time
वाक्यं = words
इदं = these
आह = said
महीपते = O King.
अर्जुन उवाच = Arjuna said
सेनयोः = of the armies
उभयोः = both
मध्ये = between
रथं = the chariot
स्थापय = please keep
मे = my
अच्युत = O infallible one
यावत् = as long as
एतान् = all these
निरीक्षे = may look upon
अहं = I
योद्धुकामान् = desiring to fight
अवस्थितान् = arrayed on the battlefield
कैः = with whom
मया = by me
सह = together
योद्धव्यं = have to fight
अस्मिन् = in this
रण = strife
समुद्यमे = in the attempt.
योत्स्यमानान् = those who will be fighting
अवेक्षे = let me see
अहं = I
ये = who
एते = those
अत्र = here
समागताः = assembled
धार्तराष्ट्रस्य = for the son of Dhritarashtra
दुर्बुद्धेः = evil-minded
युद्धे = in the fight
प्रिय = well
चिकीर्षवः = wishing.
सञ्जय उवाच = Sanjaya said
एवं = thus
उक्तः = addressed
हृषीकेशः = Lord KRiShNa
गुडाकेशेन = by Arjuna
भारत = O descendant of Bharata
सेनयोः = of the armies
उभयोः = both
मध्ये = in the midst
स्थापयित्वा = placing
रथोत्तमं = the finest chariot.
भीष्म = Grandfather Bhishma
द्रोण = the teacher Drona
प्रमुखतः = in front of
सर्वेषां = all
च = also
महीक्षितां = chiefs of the world
उवाच = said
पार्थ = O son of Pritha
पश्य = just behold
एतान् = all of them
समवेतान् = assembled
कुरून् = the members of the Kuru dynasty
इति = thus.
तत्र = there
अपश्यत् = he could see
स्थितान् = standing
पार्थः = Arjuna
पितृन् = fathers
अथ = also
पितामहान् = grandfathers
आचार्यान् = teachers
मातुलान् = maternal uncles
भ्रातॄन् = brothers
पुत्रान् = sons
पौत्रान् = grandsons
सखीन् = friends
तथा = too
श्वशुरान् = fathers-in-law
सुहृदः = well-wishers
च = also
एव = certainly
सेनयोः = of the armies
उभयोः = of both parties
अपि = including.
तान् = all of them
समीक्ष्य = after seeing
सः = he
कौन्तेयः = the son of Kunti
सर्वान् = all kinds of
बन्धून् = relatives
अवस्थितान् = situated
कृपया = by compassion
परया = of a high grade
आविष्टः = overwhelmed
विषीदन् = while lamenting
इदं = thus
अब्रवीत् = spoke.
अर्जुन उवाच = Arjuna said
दृष्ट्वा = after seeing
इमं = all these
स्वजनं = kinsmen
कृष्ण = O KRiShNa
युयुत्सुं = all in a fighting spirit
समुपस्थितं = present
सीदन्ति = are quivering
मम = my
गात्राणि = limbs of the body
मुखं = mouth
च = also
परिशुष्यति = is drying up.
वेपथुः = trembling of the body
च = also
शरीरे = on the body
मे = my
रोमहर्षः = standing of hair on end
च = also
जायते = is taking place
गाण्डीवं = the bow of Arjuna
स्त्रंसते = is slipping
हस्तात् = from the hand
त्वक् = skin
च = also
एव = certainly
परिदह्यते = is burning.
न = nor
च = also
शक्नोमि = am I able
अवस्थातुं = to stay
भ्रमति = forgetting
इव = as
च = and
मे = my
मनः = mind
निमित्तानि = causes
च = also
पश्यामि = I see
विपरीतानि = just the opposite
केशव = O killer of the demon Kesi (KRiShNa).
न = nor
च = also
श्रेयः = good
अनुपश्यामि = do I foresee
हत्वा = by killing
स्वजनं = own kinsmen
आहवे = in the fight
न = nor
काङ्क्षे = do I desire
विजयं = victory
कृष्ण = O KRiShNa
न = nor
च = also
राज्यं = kingdom
सुखानि = happiness thereof
च = also.
किं = what use
नः = to us
राज्येन = is the kingdom
गोविन्द = O KRiShNa
किं = what
भोगैः = enjoyment
जीवितेन = living
वा = either
येषां = of whom
अर्थे = for the sake
काङ्क्षितं = is desired
नः = by us
राज्यं = kingdom
भोगाः = material enjoyment
सुखानि = all happiness
च = also
ते = all of them
इमे = these
अवस्थिताः = situated
युद्धे = on this battlefield
प्राणान् = lives
त्यक्त्वा = giving up
धनानि = riches
च = also
आचार्याः = teachers
पितरः = fathers
पुत्राः = sons
तथा = as well as
एव = certainly
च = also
पितामहाः = grandfathers
मातुलाः = maternal uncles
श्वशूराः = fathers-in-law
पौत्राः = grandsons
श्यालाः = brothers-in-law
सम्बन्धिनः = relatives
तथा = as well as
एतान् = all these
न = never
हन्तुं = to kill
इच्छामि = do I wish
घ्नतः = being killed
अपि = even
मधुसूदन = O killer of the demon Madhu (KRiShNa)
अपि = even if
त्रैलोक्य = of the three worlds
राज्यस्य = for the kingdom
हेतोः = in exchange
किम् नु = what to speak of
महीकृते = for the sake of the earth
निहत्य = by killing
धार्तराष्ट्रान् = the sons of Dhritarashtra
नः = our
का = what
प्रीतिः = pleasure
स्यात् = will there be
जनार्दन = O maintainer of all living entities.
पापं = vices
एव = certainly
आश्रयेत् = must come upon
अस्मान् = us
हत्वा = by killing
एतान् = all these
आततायिनः = aggressors
तस्मात् = therefore
न = never
आर्हाः = deserving
वयं = we
हन्तुं = to kill
धार्तराष्ट्रान् = the sons of Dhritarashtra
सबान्धवान् = along with friends
स्वजनं = kinsmen
हि = certainly
कथं = how
हत्वा = by killing
सुखिनः = happy
स्याम = will we become
माधव = O KRiShNa, husband of the goddess of fortune.
यदि = if
अपि = even
एते = they
न = do not
पश्यन्ति = see
लोभ = by greed
उपहत = overpowered
चेतसः = their hearts
कुलक्षय = in killing the family
कृतं = done
दोषं = fault
मित्रद्रोहे = in quarreling with friends
च = also
पातकं = sinful reactions
कथं = why
न = should not
ज्ञेयं = be known
अस्माभिः = by us
पापात् = from sins
अस्मात् = these
निवर्तितुं = to cease
कुलक्षय = in the destruction of a dynasty
कृतं = done
दोषं = crime
प्रपश्यद्भिः = by those who can see
जनार्दन = O KRiShNa.
कुलक्षये = in destroying the family
प्रणश्यन्ति = become vanquished
कुलधर्माः = the family traditions
सनातनाः = eternal
धर्मे = religion
नष्टे = being destroyed
कुलं = family
कृत्स्नं = whole
अधर्मः = irreligion
अभिभवति = transforms
उत = it is said.
अधर्म = irreligion
अभिभवात् = having become predominant
कृष्ण = O KRiShNa
प्रदुष्यन्ति = become polluted
कुलस्त्रियः = family ladies
स्त्रीषु = by the womanhood
दुष्टासु = being so polluted
वार्ष्णेय = O descendant of VRiShNi
जायते = comes into being
वर्णसङ्करः = unwanted progeny.
सङ्करः = such unwanted children
नरकाय = make for hellish life
एव = certainly
कुलघ्नानां = for those who are killers of the family
कुलस्य = for the family
च = also
पतन्ति = fall down
पितरः = forefathers
हि = certainly
एषां = of them
लुप्त = stopped
पिण्ड = of offerings of food
उदक = and water
क्रियाः = performances.
दोषैः = by such faults
एतैः = all these
कुलघ्नानां = of the destroyers of the family
वर्णसङ्कर = of unwanted children
कारकैः = which are causes
उत्साद्यन्ते = are devastated
जातिधर्माः = community projects
कुलधर्माः = family traditions
च = also
शाश्वताः = eternal.
उत्सन्न = spoiled
कुलधर्माणां = of those who have the family traditions
मनुष्याणां = of such men
जनार्दन = O KRiShNa
नरके = in hell
नियतं = always
वासः = residence
भवति = it so becomes
इति = thus
अनुशुश्रुम = I have heard by disciplic succession.
अहो = alas
बत = how strange it is
महत् = great
पापं = sins
कर्तुं = to perform
व्यवासिताः = have decided
वयं = we
यत् = because
राज्यसुखलोभेन = driven by greed for royal happiness
हन्तुं = to kill
स्वजनं = kinsmen
उद्यताः = trying.
यदि = even if
मां = me
अप्रतीकारं = without being resistant
अशस्त्रं = without being fully equipped
शस्त्रपाणयः = those with weapons in hand
धार्तराष्ट्राः = the sons of Dhritarashtra
रणे = on the battlefield
हन्युः = may kill
तत् = that
मे = for me
क्षेमतरं = better
भवेत् = would be.
सञ्जय उवाच = Sanjaya said
एवं = thus
उक्त्वा = saying
अर्जुनः = Arjuna
सङ्ख्ये = in the battlefield
रथ = of the chariot
उपस्थे = on the seat
उपविशत् = sat down again
विसृज्य = putting aside
सशरं = along with arrows
चापं = the bow
शोक = by lamentation
संविग्न = distressed
मानसः = within the mind.
End of 1.46
सञ्जय उवाच = Sanjaya said
तं = unto Arjuna
तथा = thus
कृपया = by compassion
आविष्टं = overwhelmed
अश्रूपूर्णाकुल = full of tears
ईक्षणं = eyes
विषीदन्तं = lamenting
इदं = these
वाक्यं = words
उवाच = said
मधुसूदनः = the killer of Madhu.
श्रीभगवानुवाच = the Supreme Personality of Godhead said
कुतः = wherefrom
त्वा = unto you
कश्मलं = dirtiness
इदं = this lamentation
विषमे = in this hour of crisis
समुपस्थितं = arrived
अनार्य = persons who do not know the value of life
जुष्टं = practiced by
अस्वर्ग्यं = which does not lead to higher planets
अकीर्ति = infamy
करं = the cause of
अर्जुन = O Arjuna.
क्लैब्यं = impotence
मा स्म = do not
गमः = take to
पार्थ = O son of Pritha
न = never
एतत् = this
त्वयि = unto you
उपपद्यते = is befitting
क्षुद्रं = petty
हृदय = of the heart
दौर्बल्यं = weakness
त्यक्त्वा = giving up
उत्तिष्ठ = get up
परंतप = O chastiser of the enemies.
अर्जुन उवाच = Arjuna said
कथं = how
भीष्मं = Bhishma
अहं = I
साङ्ख्ये = in the fight
द्रोणं = Drona
च = also
मधुसूदन = O killer of Madhu
इषुभिः = with arrows
प्रतियोत्स्यामि = shall counterattack
पूजार्हौ = those who are worshipable
अरिसूदन = O killer of the enemies.
गुरुन् = the superiors
अहत्वा = not killing
हि = certainly
महानुभवान् = great souls
श्रेयः = it is better
भोक्तुं = to enjoy life
भैक्ष्यं = by begging
अपि = even
इह = in this life
लोके = in this world
हत्वा = killing
अर्थ = gain
कामान् = desiring
तु = but
गुरुन् = superiors
इह = in this world
एव = certainly
भुञ्जीय = one has to enjoy
भोगान् = enjoyable things
रुधिर = blood
प्रदिग्धान् = tainted with.
न = nor
च = also
एतत् = this
विद्मः = do we know
कतरत् = which
नः = for us
गरीयः = better
यद्वा = whether
जयेम = we may conquer
यदि = if
वा = or
नः = us
जयेयुः = they conquer
यान् = those who
एव = certainly
हत्वा = by killing
न = never
जिजीविषामः = we would want to live
ते = all of them
अवस्थिताः = are situated
प्रमुखे = in the front
धार्तराष्ट्राः = the sons of Dhritarashtra.
कार्पण्य = of miserliness
दोष = by the weakness
उपहत = being afflicted
स्वभावः = characteristics
पृच्छामि = I am asking
त्वां = unto You
धर्म = religion
सम्मूढ = bewildered
चेताः = in heart
यत् = what
श्रेयः = all-good
स्यात् = may be
निश्चितं = confidently
ब्रूहि = tell
तत् = that
मे = unto me
शिष्यः = disciple
ते = Your
अहं = I am
शाधि = just instruct
मां = me
त्वां = unto You
प्रपन्नं = surrendered.
न = do not
हि = certainly
प्रपश्यामि = I see
मम = my
अपनुद्यात् = can drive away
यत् = that which
शोकं = lamentation
उच्छोषणं = drying up
इन्द्रियाणां = of the senses
अवाप्य = achieving
भुमौ = on the earth
असपत्नं = without rival
ऋद्धं = prosperous
राज्यं = kingdom
सुराणां = of the demigods
अपि = even
च = also
आधिपत्यं = supremacy.
सञ्जय उवाच = Sanjaya said
एवं = thus
उक्त्वा = speaking
हृषीकेशं = unto KRiShNa, the master of the senses
गुडाकेशः = Arjuna, the master of curbing ignorance
परन्तप = the chastiser of the enemies
न योत्स्ये = I shall not fight
इति = thus
गोविन्दं = unto KRiShNa, the giver of pleasure to the senses
उक्त्वा = saying
तुष्णिं = silent
बभूव = became
ह = certainly.
तं = unto him
उवाच = said
हृषीकेशः = the master of the senses, KRiShNa
प्रहसन् = smiling
इव = like that
भारत = O Dhritarashtra, descendant of Bharata
सेनयोः = of the armies
उभयोः = of both parties
मध्ये = between
विषीदन्तं = unto the lamenting one
इदं = the following
वचः = words.
श्रीभगवानुवाच = the Supreme Personality of Godhead said
अशोच्यान् = not worthy of lamentation
अन्वशोचः = you are lamenting
त्वं = you
प्रज्ञावादान् = learned talks
च = also
भाषसे = speaking
गत = lost
असून् = life
अगत = not past
असून् = life
च = also
न = never
अनुशोचन्ति = lament
पण्डिताः = the learned.
न = never
तु = but
एव = certainly
अहं = I
जातु = at any time
न = did not
आसं = exist
न = not
त्वं = you
न = not
इमे = all these
जनाधिपः = kings
न = never
च = also
एव = certainly
न = not
भविष्यामः = shall exist
सर्वे वयं = all of us
अतः परं = hereafter.
देहीनः = of the embodied
अस्मिन् = in this
यथा = as
देहे = in the body
कौमारं = boyhood
यौवनं = youth
जरा = old age
तथा = similarly
देहान्तर = of transference of the body
प्राप्तिः = achievement
धीरः = the sober
तत्र = thereupon
न = never
मुह्यति = is deluded.
मात्रास्पर्शः = sensory perception
तु = only
कौन्तेय = O son of Kunti
शीत = winter
उष्ण = summer
सुख = happiness
दुःख = and pain
दाः = giving
आगम = appearing
अपायिनः = disappearing
अनित्यः = nonpermanent
तान् = all of them
तितिक्षस्व = just try to tolerate
भारत = O descendant of the Bharata dynasty.
यं = one to whom
हि = certainly
न = never
व्यथयन्ति = are distressing
एते = all these
पुरुषं = to a person
पुरुषर्षभ = O best among men
सम = unaltered
दुःख = in distress
सुखं = and happiness
धीरं = patient
सः = he
अमृतत्त्वाय = for liberation
कल्पते = is considered eligible.
न = never
असतः = of the nonexistent
विद्यते = there is
भावः = endurance
न = never
अभावः = changing quality
विद्यते = there is
सतः = of the eternal
उभयोः = of the two
अपि = verily
दृष्टः = observed
अन्तः = conclusion
तु = indeed
अनयोः = of them
तत्त्व = of the truth
दर्शिभिः = by the seers.
अविनाशि = imperishable
तु = but
तत् = that
विद्धि = know it
येन = by whom
सर्वं = all of the body
इदं = this
ततं = pervaded
विनाशं = destruction
अव्ययस्य = of the imperishable
अस्य = of it
न कश्चित् = no one
कर्तुं = to do
अर्हति = is able.
अन्तवन्तः = perishable
इमे = all these
देहाः = material bodies
नित्यस्य = eternal in existence
उक्ताः = are said
शरीरिणः = of the embodied soul
अनाशिनः = never to be destroyed
अप्रमेयस्य = immeasurable
तस्मात् = therefore
युध्यस्व = fight
भारत = O descendant of Bharata.
यः = anyone who
एनं = this
वेत्ति = knows
हन्तारं = the killer
यः = anyone who
च = also
एनं = this
मन्यते = thinks
हतं = killed
उभौ = both
तौ = they
न = never
विजानीताः = are in knowledge
न = never
अयं = this
हन्ति = kills
न = nor
हन्यते = is killed.
न = never
जायते = takes birth
म्रियते = dies
वा = either
कदाचित् = at any time (past, present or future)
न = never
अयं = this
भूत्वा = having come into being
भविता = will come to be
वा = or
न = not
भूयः = or is again coming to be
अजः = unborn
नित्यः = eternal
शाश्वतः = permanent
अयं = this
पुराणः = the oldest
न = never
हन्यते = is killed
हन्यमाने = being killed
शरीरे = the body.
वेद = knows
अविनाशिनं = indestructible
नित्यं = always existing
यः = one who
एनं = this (soul)
अजं = unborn
अव्ययं = immutable
कथं = how
सः = that
पुरुषः = person
पार्थ = O Partha (Arjuna)
कं = whom
घातयति = causes to hurt
हन्ति = kills
कं = whom.
वासांसि = garments
जीर्णानि = old and worn out
यथा = just as
विहाय = giving up
नवानि = new garments
गृह्णाति = does accept
नरः = a man
अपराणि = others
तथा = in the same way
शरीराणि = bodies
विहाय = giving up
जीर्णानि = old and useless
अन्यानि = different
संयाति = verily accepts
नवानि = new sets
देही = the embodied.
न = never
एनं = this soul
छिन्दन्ति = can cut to pieces
शस्त्राणि = weapons
न = never
एनं = this soul
दहति = burns
पावकः = fire
न = never
च = also
एनं = this soul
क्लेदयन्ति = moistens
आपः = water
न = never
शोषयति = dries
मारुतः = wind.
अच्छेद्यः = unbreakable
अयं = this soul
अदाह्यः = unable to be burned
अयं = this soul
अक्लेद्यः = insoluble
अशोष्यः = not able to be dried
एव = certainly
च = and
नित्यः = everlasting
सर्वगतः = all-pervading
स्थाणुः = unchangeable
अचलः = immovable
अयं = this soul
सनातनः = eternally the same.
अव्यक्तः = invisible
अयं = this soul
अचिन्त्यः = inconceivable
अयं = this soul
अविकार्यः = unchangeable
अयं = this soul
उच्यते = is said
तस्मात् = therefore
एवं = like this
विदित्वा = knowing it well
एनं = this soul
न = do not
अनुशोचितुं = to lament
अर्हसि = you deserve.
अथ = if, however
च = also
एनं = this soul
नित्यजातं = always born
नित्यं = forever
वा = either
मन्यसे = you so think
मृतं = dead
तथापि = still
त्वं = you
महाबाहो = O mighty-armed one
न = never
एनं = about the soul
शोचितुं = to lament
अर्हसि = deserve.
जातस्य = of one who has taken his birth
हि = certainly
ध्रुवः = a fact
मृत्युः = death
ध्रुवं = it is also a fact
जन्म = birth
मृतस्य = of the dead
च = also
तस्मात् = therefore
अपरिहार्ये = of that which is unavoidable
अर्थे = in the matter
न = do not
त्वं = you
शोचितुं = to lament
अर्हसि = deserve.
अव्यक्तादीनि = in the beginning unmanifested
भूतानी = all that are created
व्यक्त = manifested
मध्यानि = in the middle
भारत = O descendant of Bharata
अव्यक्त = nonmanifested
निधनानि = when vanquished
एव = it is all like that
तत्र = therefore
का = what
परिदेवना = lamentation.
आश्चर्यवत् = as amazing
पश्यति = sees
कश्चित् = someone
एनं = this soul
आश्चर्यवत् = as amazing
वदति = speaks of
तथा = thus
एव = certainly
च = also
अन्यः = another
आश्चर्यवत् = similarly amazing
च = also
एनं = this soul
अन्यः = another
शृणोति = hears of
श्रुत्वा = having heard
अपि = even
एनं = this soul
वेद = knows
न = never
च = and
एव = certainly
कश्चित् = someone.
देही = the owner of the material body
नित्यं = eternally
अवध्यः = cannot be killed
अयं = this soul
देहे = in the body
सर्वस्य = of everyone
भारत = O descendant of Bharata
तस्मात् = therefore
सर्वाणि = all
भूतानि = living entities (that are born)
न = never
त्वं = you
शोचितुं = to lament
अर्हसि = deserve.
स्वधर्मं = one's own religious principles
अपि = also
च = indeed
अवेक्ष्य = considering
न = never
विकम्पितुं = to hesitate
अर्हसि = you deserve
धर्म्यात् = for religious principles
हि = indeed
युद्धात् = than fighting
श्रेयः = better engagement
अन्यत् = any other
क्षत्रियस्य = of the ksatriya
न = does not
विद्यते = exist.
यदृच्छया = by its own accord
च = also
उपपन्नं = arrived at
स्वर्ग = of the heavenly planets
द्वारं = door
अपावृतं = wide open
सुखिनः = very happy
क्षत्रियाः = the members of the royal order
पार्थ = O son of Pritha
लभन्ते = do achieve
युद्धं = war
ईदृषं = like this.
अथ = therefore
चेत् = if
त्वं = you
इमं = this
धर्म्यं = as a religious duty
संग्रामं = fighting
न = do not
करिष्यसि = perform
ततः = then
स्वधर्मं = your religious duty
कीर्तिं = reputation
च = also
हित्वा = losing
पापं = sinful reaction
अवाप्स्यसि = will gain.
अकीर्तिं = infamy
च = also
अपि = over and above
भूतानि = all people
कथयिष्यन्ति = will speak
ते = of you
अव्ययं = forever
सम्भावितस्य = for a respectable man
च = also
अकीर्तिः = ill fame
मरणात् = than death
अतिरिच्यते = becomes more.
भयात् = out of fear
रणात् = from the battlefield
उपरतं = ceased
मंस्यन्ते = they will consider
त्वां = you
महारथाः = the great generals
येषां = for whom
च = also
त्वं = you
बहुमतः = in great estimation
भूत्वा = having been
यास्यसि = you will go
लाघवं = decreased in value.
अवाच्य = unkind
वादान् = fabricated words
च = also
बहून् = many
वदिष्यन्ति = will say
तव = your
अहिताः = enemies
निन्दन्तः = while vilifying
तव = your
सामर्थ्यं = ability
ततः = than that
दुःखतरं = more painful
नु = of course
किं = what is there.
हतः = being killed
वा = either
प्राप्स्यसि = you gain
स्वर्गं = the heavenly kingdom
जित्वा = by conquering
वा = or
भोक्ष्यसे = you enjoy
महीं = the world
तस्मात् = therefore
उत्तिष्ठ = get up
कौन्तेय = O son of Kunti
युद्धाय = to fight
कृत = determined
निश्चयः = in certainty.
सुख = happiness
दुःखे = and distress
समे = in equanimity
कृत्वा = doing so
लाभालाभौ = both profit and loss
जयाजयौ = both victory and defeat
ततः = thereafter
युद्धाय = for the sake of fighting
युज्यस्व = engage (fight)
न = never
एवं = in this way
पापं = sinful reaction
अवाप्स्यसि = you will gain.
एषा = all this
ते = unto you
अभिहिता = described
साङ्ख्ये = by analytical study
बुद्धिः = intelligence
योगे = in work without fruitive result
तु = but
इमं = this
शृणु = just hear
बुद्ध्या = by intelligence
युक्तः = dovetailed
यया = by which
पार्थ = O son of Pritha
कर्मबन्धं = bondage of reaction
प्रहास्यसि = you can be released from.
न = there is not
इह = in this yoga
अभिक्रम = in endeavoring
नाशः = loss
अस्ति = there is
प्रत्यवायः = diminution
न = never
विद्यते = there is
स्वल्पं = a little
अपि = although
अस्य = of this
धर्मस्य = occupation
त्रायते = releases
महतः = from very great
भयात् = danger.
व्यवसायात्मिका = resolute in KRiShNa consciousness
बुद्धिः = intelligence
एक = only one
इह = in this world
कुरुनन्दन = O beloved child of the Kurus
बहुशाखाः = having various branches
हि = indeed
अनन्ताः = unlimited
च = also
बुद्धयः = intelligence
अव्यवसायिनां = of those who are not in KRiShNa consciousness.
यामिमां = all these
पुष्पितां = flowery
वाचं = words
प्रवदन्ति = say
अविपश्चितः = men with a poor fund of knowledge
वेदवादरताः = supposed followers of the Vedas
पार्थ = O son of Pritha
न = never
अन्यत् = anything else
अस्ति = there is
इति = thus
वादिनः = the advocates
कामात्मानः = desirous of sense gratification
स्वर्गपराः = aiming to achieve heavenly planets
जन्मकर्मफलप्रदां = resulting in good birth and other fruitive reactions
क्रियाविशेष = pompous ceremonies
बहुलां = various
भोग = in sense enjoyment
ऐश्वर्य = and opulence
गतिं = progress
प्रति = towards.
भोग = to material enjoyment
ऐश्वर्य = and opulence
प्रसक्तानां = for those who are attached
तया = by such things
अपहृतचेतसां = bewildered in mind
व्यवसायात्मिका = fixed in determination
बुद्धिः = devotional service to the Lord
समाधौ = in the controlled mind
न = never
विधीयते = does take place.
त्रैगुण्य = pertaining to the three modes of material nature
विषयाः = on the subject matter
वेदाः = Vedic literatures
निस्त्रैगुण्यः = transcendental to the three modes of material nature
भव = be
अर्जुन = O Arjuna
निर्द्वन्द्वः = without duality
नित्यसत्त्वस्थः = in a pure state of spiritual existence
निर्योगक्षेमः = free from ideas of gain and protection
आत्मवान् = established in the self.
यावान् = all that
अर्थः = is meant
उदपाने = in a well of water
सर्वतः = in all respects
सम्प्लुतोदके = in a great reservoir of water
तावान् = similarly
सर्वेषु = in all
वेदेषु = Vedic literatures
ब्राह्मणस्य = of the man who knows the Supreme Brahman
विजानतः = who is in complete knowledge.
कर्माणि = in prescribed duties
एव = certainly
अधिकारः = right
ते = of you
मा = never
फलेषु = in the fruits
कदाचन = at any time
मा = never
कर्मफल = in the result of the work
हेतुः = cause
भूः = become
मा = never
ते = of you
सङ्गः = attachment
अस्तु = there should be
अकर्मणि = in not doing prescribed duties.
योगस्थः = equipoised
कुरु = perform
कर्माणि = your duties
सङ्गं = attachment
त्यक्त्वा = giving up
धनञ्जय = O Arjuna
सिद्ध्यसिद्ध्योः = in success and failure
समः = equipoised
भूत्वा = becoming
समत्वं = equanimity
योगः = yoga
उच्यते = is called.
दूरेण = discard it at a long distance
हि = certainly
अवरं = abominable
कर्म = activity
बुद्धियोगात् = on the strength of KRiShNa consciousness
धनञ्जय = O conqueror of wealth
बुद्धौ = in such consciousness
शरणं = full surrender
अन्विच्छ = try for
कृपणाः = misers
फलहेतवः = those desiring fruitive results.
बुद्धियुक्तः = one who is engaged in devotional service
जहाति = can get rid of
इह = in this life
उभे = both
सुकृतदुष्कृते = good and bad results
तस्मात् = therefore
योगाय = for the sake of devotional service
युज्यस्व = be so engaged
योगः = KRiShNa consciousness
कर्मसु = in all activities
कौशलं = art.
कर्मजं = due to fruitive activities
बुद्धियुक्ताः = being engaged in devotional service
हि = certainly
फलं = results
त्यक्त्वा = giving up
मनीषिणः = great sages or devotees
जन्मबन्ध = from the bondage of birth and death
विनिर्मुक्ताः = liberated
पदं = position
गच्छन्ति = they reach
अनामयं = without miseries.
यदा = when
ते = your
मोह = of illusion
कलिलं = dense forest
बुद्धिः = transcendental service with intelligence
व्यतितरिष्यति = surpasses
तदा = at that time
गन्तासि = you shall go
निर्वेदं = callousness
श्रोतव्यस्य = toward all that is to be heard
श्रुतस्य = all that is already heard
च = also.
श्रुति = of Vedic revelation
विप्रतिपन्ना = without being influenced by the fruitive results
ते = your
यदा = when
स्थास्यति = remains
निश्चला = unmoved
समाधौ = in transcendental consciousness, or KRiShNa consciousness
अचला = unflinching
बुद्धिः = intelligence
तदा = at that time
योगं = self-realization
अवाप्स्यसि = you will achieve.
अर्जुन उवाच = Arjuna said
स्थितप्रज्ञस्य = of one who is situated in fixed KRiShNa consciousness
का = what
भाषा = language
समाधिस्थस्य = of one situated in trance
केशव = O KRiShNa
स्थितधीः = one fixed in KRiShNa consciousness
किं = what
प्रभाषेत = speaks
किं = how
आसीत = does remain still
व्रजेत = walks
किं = how.
श्रीभगवानुवाच = the Supreme Personality of Godhead said
प्रजहाति = gives up
यदा = when
कामान् = desires for sense gratification
सर्वान् = of all varieties
पार्थ = O son of Pritha
मनोगतान् = of mental concoction
आत्मानि = in the pure state of the soul
एव = certainly
आत्मना = by the purified mind
तुष्टः = satisfied
स्थितप्रज्ञः = transcendentally situated
तदा = at that time
उच्यते = is said.
दुःखेषु = in the threefold miseries
अनुद्विग्नमनाः = without being agitated in mind
सुखेषु = in happiness
विगतस्पृहः = without being interested
वीत = free from
राग = attachment
भय = fear
क्रोधः = and anger
स्थितधीः = whose mind is steady
मुनिः = a sage
उच्यते = is called.
यः = one who
सर्वत्र = everywhere
अनभिस्नेहः = without affection
तत् = that
तत् = that
प्राप्य = achieving
शुभ = good
अशुभं = evil
न = never
अभिनन्दती = praises
न = never
द्वेष्टि = envies
तस्य = his
प्रज्ञा = perfect knowledge
प्रतिष्ठिता = fixed.
यदा = when
संहरते = winds up
च = also
अयं = he
कूर्मः = tortoise
अङ्गानि = limbs
इव = like
सर्वशः = altogether
इन्द्रियाणि = senses
इन्द्रियार्थेभ्यः = from the sense objects
तस्य = his
प्रज्ञा = consciousness
प्रतिष्ठिता = fixed.
विषयाः = objects for sense enjoyment
विनिवर्तन्ते = are practiced to be refrained from
निराहारस्य = by negative restrictions
देहीनः = for the embodied
रसवर्जं = giving up the taste
रसः = sense of enjoyment
अपि = although there is
अस्य = his
परं = far superior things
दृष्ट्वा = by experiencing
निवर्तते = he ceases from.
यततः = while endeavoring
हि = certainly
अपि = in spite of
कौन्तेय = O son of Kunti
पुरुषस्य = of a man
विपश्चितः = full of discriminating knowledge
इन्द्रियाणि = the senses
प्रमाथीनि = agitating
हरन्ति = throw
प्रसभं = by force
मनः = the mind.
तानि = those senses
सर्वाणि = all
संयम्य = keeping under control
युक्तः = engaged
आसीत = should be situated
मत्परः = in relationship with Me
वशे = in full subjugation
हि = certainly
यस्य = one whose
इन्द्रियाणि = senses
तस्य = his
प्रज्ञा = consciousness
प्रतिष्ठिता = fixed.
ध्यायतः = while contemplating
विषयान् = sense objects
पुंसः = of a person
सङ्गः = attachment
तेषु = in the sense objects
उपजायते = develops
सङ्गात् = from attachment
सञ्जायते = develops
कामः = desire
कामात् = from desire
क्रोधः = anger
अभिजायते = becomes manifest.
क्रोधात् = from anger
भवति = takes place
सम्मोहः = perfect illusion
सम्मोहात् = from illusion
स्मृति = of memory
विभ्रमः = bewilderment
स्मृतिभ्रंशात् = after bewilderment of memory
बुद्धिनाशः = loss of intelligence
बुद्धिनाशात् = and from loss of intelligence
प्रणश्यति = one falls down.
राग = attachment
द्वेष = and detachment
विमुक्तैः = by one who has become free from
तु = but
विषयान् = sense objects
इन्द्रियैः = by the senses
चरन् = acting upon
आत्मवश्यैः = under one's control
विधेयात्मा = one who follows regulated freedom
प्रसादं = the mercy of the Lord
अधिगच्छति = attains.
प्रसादे = on achievement of the causeless mercy of the Lord
सर्व = of all
दुःखानां = material miseries
हानिः = destruction
अस्य = his
उपजायते = takes place
प्रसन्नचेतसः = of the happy-minded
हि = certainly
आषु = very soon
बुद्धिः = intelligence
परि = sufficiently
अवतिष्ठते = becomes established.
नास्ति = there cannot be
बुद्धिः = transcendental intelligence
अयुक्तस्य = of one who is not connected (with KRiShNa consciousness)
न = not
च = and
अयुक्तस्य = of one devoid of KRiShNa consciousness
भावना = fixed mind (in happiness)
न = not
च = and
अभावयतः = of one who is not fixed
शान्तिः = peace
अशान्तस्य = of the unpeaceful
कुतः = where is
सुखं = happiness.
इन्द्रियाणां = of the senses
हि = certainly
चरतां = while roaming
यत् = with which
मनः = the mind
अनुविधीयते = becomes constantly engaged
तत् = that
अस्य = his
हरति = takes away
प्रज्ञां = intelligence
वायुः = wind
नवं = a boat
इव = like
अम्भसि = on the water.
तस्मात् = therefore
यस्य = whose
महाबाहो = O mighty-armed one
निगृहीतानि = so curbed down
सर्वशः = all around
इन्द्रियाणि = the senses
इन्द्रियार्थेभ्यः = from sense objects
तस्य = his
प्रज्ञा = intelligence
प्रतिष्ठिता = fixed.
या = what
निशा = is night
सर्व = all
भूतानां = of living entities
तस्यां = in that
जागर्ति = is wakeful
संयमी = the self-controlled
यस्यां = in which
जाग्रति = are awake
भूतानि = all beings
सा = that is
निशा = night
पश्यतः = for the introspective
मुनेः = sage.
आपुर्यमाणं = always being filled
अचलप्रतिष्ठं = steadily situated
समुद्रं = the ocean
आपः = waters
प्रविशन्ति = enter
यद्वत् = as
तद्वत् = so
कामाः = desires
यं = unto whom
प्रविशन्ति = enter
सर्वे = all
सः = that person
शान्तिं = peace
आप्नोति = achieves
न = not
कामकामी = one who desires to fulfill desires.
विहाय = giving up
कामान् = material desires for sense gratification
यः = who
सर्वान् = all
पुमान् = a person
चरति = lives
निःस्पृहः = desireless
निर्ममः = without a sense of proprietorship
निरहङ्कारः = without false ego
सः = he
शान्तिं = perfect peace
अधिगच्छति = attains.
एषा = this
ब्राह्मी = spiritual
स्थितिः = situation
पार्थ = O son of Pritha
न = never
एनं = this
प्राप्य = achieving
विमुह्यति = one is bewildered
स्थित्वा = being situated
अस्यां = in this
अन्तकाले = at the end of life
अपि = also
ब्रह्मनिर्वाणं = the spiritual kingdom of God
ऋच्छति = one attains.
End of 2.72
अर्जुन उवाच = Arjuna said
ज्यायसि = better
चेत् = if
कर्मणः = than fruitive action
ते = by You
मता = is considered
बुद्धिः = intelligence
जनार्दन = O KRiShNa
तत् = therefore
किं = why
कर्मणि = in action
घोरे = ghastly
मां = me
नियोजयसि = You are engaging
केशव = O KRiShNa.
व्यामिश्रेण = by equivocal
इव = certainly
वाक्येन = words
बुद्धिं = intelligence
मोहयसि = You are bewildering
इव = certainly
मे = my
तत् = therefore
एकं = only one
वद = please tell
निश्चित्य = ascertaining
येन = by which
श्रेयः = real benefit
अहं = I
आप्नुयां = may have.
श्रीभगवानुवाच = the Supreme Personality of Godhead said
लोके = in the world
अस्मिन् = this
द्विविधा = two kinds of
निष्ठा = faith
पुरा = formerly
प्रोक्ता = were said
मया = by Me
अनघ = O sinless one
ज्ञानयोगेन = by the linking process of knowledge
साङ्ख्यानां = of the empiric philosophers
कर्मयोगेण = by the linking process of devotion
योगिनां = of the devotees.
न = not
कर्मणां = of prescribed duties
अनारम्भात् = by nonperformance
नैष्कर्म्यं = freedom from reaction
पुरुषः = a man
अश्नुते = achieves
न = nor
च = also
संन्यासनात् = by renunciation
एव = simply
सिद्धिं = success
समधिगच्छति = attains.
न = nor
हि = certainly
कश्चित् = anyone
क्षणं = a moment
अपि = also
जातु = at any time
तिष्ठति = remains
अकर्मकृत् = without doing something
कार्यते = is forced to do
हि = certainly
अवशः = helplessly
कर्म = work
सर्वः = all
प्रकृतिजैः = born of the modes of material nature
गुणैः = by the qualities.
कर्मेन्द्रियाणि = the five working sense organs
संयम्य = controlling
यः = anyone who
आस्ते = remains
मनसा = by the mind
स्मरन् = thinking of
इन्द्रियार्थान् = sense objects
विमूढ = foolish
आत्मा = soul
मिथ्याचारः = pretender
सः = he
उच्यते = is called.
यः = one who
तु = but
इन्द्रियाणि = the senses
मनसा = by the mind
नियम्य = regulating
आरभते = begins
अर्जुन = O Arjuna
कर्मेन्द्रियैः = by the active sense organs
कर्मयोगं = devotion
असक्तः = without attachment
सः = he
विशिष्यते = is by far the better.
नियतं = prescribed
कुरु = do
कर्म = duties
त्वं = you
कर्म = work
ज्यायाः = better
हि = certainly
अकर्मणः = than no work
शरीर = bodily
यात्रा = maintenance
अपि = even
च = also
ते = your
न = never
प्रसिद्ध्येत् = is effected
अकर्मणः = without work.
यज्ञार्थात् = done only for the sake of Yajna, or Visnu
कर्मणः = than work
अन्यत्र = otherwise
लोकः = world
अयं = this
कर्मबन्धनः = bondage by work
तत् = of Him
अर्थं = for the sake
कर्म = work
कौन्तेय = O son of Kunti
मुक्तसङ्गः = liberated from association
समाचर = do perfectly.
सह = along with
यज्ञाः = sacrifices
प्रजाः = generations
सृष्ट्वा = creating
पुरा = anciently
उवाच = said
प्रजापतिः = the Lord of creatures
अनेन = by this
प्रसविष्यध्वं = be more and more prosperous
एषः = this
वः = your
अस्तु = let it be
इष्ट = of all desirable things
कामधुक् = bestower.
देवान् = demigods
भावयता = having pleased
अनेन = by this sacrifice
ते = those
देवाः = demigods
भावयन्तु = will please
वः = you
परस्परं = mutually
भावयन्तः = pleasing one another
श्रेयः = benediction
परं = the supreme
अवाप्स्यथ = you will achieve.
इष्टान् = desired
भोगान् = necessities of life
हि = certainly
वः = unto you
देवाः = the demigods
दास्यन्ते = will award
यज्ञभाविताः = being satisfied by the performance of sacrifices
तैः = by them
दत्तान् = things given
अप्रदाय = without offering
एभ्यः = to these demigods
यः = he who
भुङ्क्ते = enjoys
स्तेनः = thief
एव = certainly
सः = he.
यज्ञशिष्टा = of food taken after performance of yajna
आसिनः = eaters
सन्तः = the devotees
मुच्यन्ते = get relief
सर्व = all kinds of
किल्बिषैः = from sins
भुञ्जते = enjoy
ते = they
तु = but
अघं = grievous sins
पापाः = sinners
ये = who
पचन्ति = prepare food
आत्मकारणात् = for sense enjoyment.
अन्नात् = from grains
भवन्ति = grow
भूतानि = the material bodies
पर्जन्यात् = from rains
अन्न = of food grains
सम्भवः = production
यज्ञात् = from the performance of sacrifice
भवति = becomes possible
पर्जन्यः = rain
यज्ञः = performance of yajna
कर्म = prescribed duties
समुद्भवः = born of.
कर्म = work
ब्रह्म = from the Vedas
उद्भवं = produced
विद्धि = you should know
ब्रह्म = the Vedas
अक्षर = from the Supreme Brahman (Personality of Godhead)
समुद्भवं = directly manifested
तस्मात् = therefore
सर्वगतं = all-pervading
ब्रह्म = transcendence
नित्यं = eternally
यज्ञे = in sacrifice
प्रतिष्ठितं = situated.
एवं = thus
प्रवर्तितं = established by the Vedas
चक्रं = cycle
न = does not
अनुवर्तयति = adopt
इह = in this life
यः = one who
अघायुः = whose life is full of sins
इन्द्रियारामः = satisfied in sense gratification
मोघं = uselessly
पार्थ = O son of Pritha (Arjuna)
सः = he
जीवति = lives.
यः = one who
तु = but
आत्मरतिः = taking pleasure in the self
एव = certainly
स्यात् = remains
आत्मतृप्तः = self-illuminated
च = and
मानवः = a man
आत्मनि = in himself
एव = only
च = and
सन्तुष्टः = perfectly satiated
तस्य = his
कार्यं = duty
न = does not
विद्यते = exist.
न = never
एव = certainly
तस्य = his
कृतेन = by discharge of duty
अर्थः = purpose
न = nor
अकृतेन = without discharge of duty
इह = in this world
कश्चन = whatever
न = never
च = and
अस्य = of him
सर्वभूतेषु = among all living beings
कश्चित् = any
अर्थ = purpose
व्यपाश्रयः = taking shelter of.
तस्मात् = therefore
असक्तः = without attachment
सततं = constantly
कार्यं = as duty
कर्म = work
समाचर = perform
असक्तः = unattached
हि = certainly
आचरान् = performing
कर्म = work
परं = the Supreme
आप्नोति = achieves
पूरुषः = a man.
कर्मणा = by work
एव = even
हि = certainly
संसिद्धिं = in perfection
आस्थिताः = situated
जनकादयाः = Janaka and other kings
लोकसंग्रहं = the people in general
एवापि = also
सम्पश्यन् = considering
कर्तुं = to act
अर्हसि = you deserve.
यद्यत् = whatever
आचरति = he does
श्रेष्ठः = a respectable leader
तत् = that
तत् = and that alone
एव = certainly
इतरः = common
जनः = person
सः = he
यत् = whichever
प्रमाणं = example
कुरुते = does perform
लोकाः = all the world
तत् = that
अनुवर्तते = follows in the footsteps.
न = not
मे = Mine
पार्थ = O son of Pritha
अस्ति = there is
कर्तव्यं = prescribed duty
त्रिषु = in the three
लोकेषु = planetary systems
किञ्चन = any
न = nothing
अनवाप्तं = wanted
अवाप्तव्यं = to be gained
वर्ते = I am engaged
एव = certainly
च = also
कर्मणि = in prescribed duty.
यदि = if
हि = certainly
अहं = I
न = do not
वर्तेयं = thus engage
जातु = ever
कर्मणि = in the performance of prescribed duties
अतन्द्रितः = with great care
मम = My
वर्त्म = path
अनुवर्तन्ते = would follow
मनुष्याः = all men
पार्थ = O son of Pritha
सर्वशः = in all respects.
उत्सीदेयुः = would be put into ruin
इमे = all these
लोकाः = worlds
न = not
कुर्यां = I perform
कर्म = prescribed duties
चेत् = if
अहं = I
सङ्करस्य = of unwanted population
च = and
कर्ता = creator
स्यां = would be
उपहन्यां = would destroy
इमाः = all these
प्रजाः = living entities.
सक्ताः = being attached
कर्मणि = in prescribed duties
अविद्वांसः = the ignorant
यथा = as much as
कुर्वन्ति = they do
भारत = O descendant of Bharata
कुर्यात् = must do
विद्वान् = the learned
तथा = thus
असक्तः = without attachment
चिकीर्षुः = desiring to lead
लोकसंग्रहं = the people in general.
न = not
बुद्धिभेदं = disruption of intelligence
जनयेत् = he should cause
अज्ञानां = of the foolish
कर्मसङ्गिनां = who are attached to fruitive work
जोषयेत् = he should dovetail
सर्व = all
कर्माणि = work
विद्वान् = a learned person
युक्तः = engaged
समाचरन् = practicing.
प्रकृतेः = of material nature
क्रियमाणानि = being done
गुणैः = by the modes
कर्माणि = activities
सर्वशः = all kinds of
अहङ्कारविमूढ = bewildered by false ego
आत्मा = the spirit soul
कर्ता = doer
अहं = I
इति = thus
मन्यते = he thinks.
तत्त्ववित् = the knower of the Absolute Truth
तु = but
महाबाहो = O mighty-armed one
गुणकर्म = of works under material influence
विभागयोः = differences
गुणाः = senses
गुणेषु = in sense gratification
वर्तन्ते = are being engaged
इति = thus
मत्वा = thinking
न = never
सज्जते = becomes attached.
प्रकृतेः = of material nature
गुण = by the modes
सम्मूढाः = befooled by material identification
सज्जन्ते = they become engaged
गुणकर्मसु = in material activities
तान् = those
अकृत्स्नविदाः = persons with a poor fund of knowledge
मन्दान् = lazy to understand self-realization
कृत्स्नवित् = one who is in factual knowledge
न = not
विचालयेत् = should try to agitate.
मयि = unto Me
सर्वाणि = all sorts of
कर्माणि = activities
संन्यस्य = giving up completely
अध्यात्म = with full knowledge of the self
चेतसा = by consciousness
निराशीः = without desire for profit
निर्ममः = without ownership
भूत्वा = so being
युध्यस्व = fight
विगतज्वरः = without being lethargic.
ये = those who
मे = My
मतं = injunctions
इदं = these
नित्यं = as an eternal function
अनुतिष्ठन्ति = execute regularly
मानवाः = human beings
श्रद्धावन्तः = with faith and devotion
अनसूयन्तः = without envy
मुच्यन्ते = become free
ते = all of them
अपि = even
कर्मभिः = from the bondage of the law of fruitive actions.
ये = those
तु = however
एतत् = this
अभ्यसूयन्तः = out of envy
न = do not
अनुतिष्ठन्ति = regularly perform
मे = My
मतं = injunction
सर्वज्ञान = in all sorts of knowledge
विमूढान् = perfectly befooled
तान् = they are
विद्धि = know it well
नष्टान् = all ruined
अचेतसः = without KRiShNa consciousness.
सदृशं = accordingly
चेष्टते = tries
स्वस्यः = by his own
प्रकृतेः = modes of nature
ज्ञानवान् = learned
अपि = although
प्रकृतिं = nature
यान्ति = undergo
भूतानी = all living entities
निग्रहः = repression
किं = what
करिष्यति = can do.
इन्द्रियस्य = of the senses
इन्द्रियस्यार्थे = in the sense objects
राग = attachment
द्वेषौ = also detachment
व्यवस्थितौ = put under regulations
तयोः = of them
न = never
वशं = control
आगच्छेत् = one should come
तौ = those
हि = certainly
अस्य = his
परिपन्थिनौ = stumbling blocks.
श्रेयान् = far better
स्वधर्मः = one's prescribed duties
विगुणः = even faulty
परधर्मात् = than duties mentioned for others
स्वनुष्ठितात् = perfectly done
स्वधर्मे = in one's prescribed duties
निधनं = destruction
श्रेयः = better
परधर्मः = duties prescribed for others
भयावहः = dangerous.
अर्जुन उवाच = Arjuna said
अथ = then
केन = by what
प्रयुक्तः = impelled
अयं = one
पापं = sins
चरति = does
पूरुषः = a man
अनिच्छन् = without desiring
अपि = although
वार्ष्णेय = O descendant of VRiShNi
बलात् = by force
इव = as if
नियोजितः = engaged.
श्रीभगवानुवाच = the Personality of Godhead said
कामः = lust
एषः = this
क्रोधः = wrath
एषः = this
रजोगुण = the mode of passion
समुद्भवः = born of
महाशनः = all-devouring
महापाप्मा = greatly sinful
विद्धि = know
एनं = this
इह = in the material world
वैरिणं = greatest enemy.
धूमेन = by smoke
आव्रियते = is covered
वह्निः = fire
यथा = just as
अदर्शः = mirror
मलेन = by dust
च = also
यथा = just as
उल्बेन = by the womb
आवृतः = is covered
गर्भः = embryo
तथा = so
तेन = by that lust
इदं = this
आवृतं = is covered.
आवृतं = covered
ज्ञानं = pure consciousness
एतेन = by this
ज्ञानिनः = of the knower
नित्यवैरिण = by the eternal enemy
कामरूपेण = in the form of lust
कौन्तेय = O son of Kunti
दुष्पूरेण = never to be satisfied
अनलेन = by the fire
च = also.
इन्द्रियाणि = the senses
मनः = the mind
बुद्धिः = the intelligence
अस्य = of this lust
अधिष्ठानं = sitting place
उच्यते = is called
एतैः = by all these
विमोहयति = bewilders
एषः = this
ज्ञानं = knowledge
आवृत्य = covering
देहिनं = of the embodied.
तस्मात् = therefore
त्वं = you
इन्द्रियाणि = senses
आदौ = in the beginning
नियम्य = by regulating
भरतर्षभ = O chief amongst the descendants of Bharata
पाप्मानं = the great symbol of sin
प्रजहि = curb
हि = certainly
एनं = this
ज्ञान = of knowledge
विज्ञान = and scientific knowledge of the pure soul
नाशनं = the destroyer.
इन्द्रियाणि = senses
पराणि = superior
आहुः = are said
इन्द्रियेभ्यः = more than the senses
परं = superior
मनः = the mind
मनसः = more than the mind
तु = also
परा = superior
बुद्धिः = intelligence
यः = who
बुद्धेः = more than the intelligence
परतः = superior
तु = but
सः = he.
एवं = thus
बुद्धेः = to intelligence
परं = superior
बुद्ध्वा = knowing
संस्तभ्य = by steadying
आत्मानं = the mind
आत्मना = by deliberate intelligence
जहि = conquer
शत्रुं = the enemy
महाबाहो = O mighty-armed one
कामरूपं = in the form of lust
दुरासदं = formidable.
End of 3.43
श्रीभगवानुवाच = the Supreme Personality of Godhead said
इमं = this
विवस्वते = unto the sun-god
योगं = the science of one's relationship to the Supreme
प्रोक्तवान् = instructed
अहं = I
अव्ययं = imperishable
विवस्वान् = Vivasvan (the sun-god's name)
मनवे = unto the father of mankind (of the name Vaivasvata)
प्राह = told
मनुः = the father of mankind
इक्ष्वाकवे = unto King Iksvaku
अब्रवीत् = said.
एवं = thus
परम्परा = by disciplic succession
प्राप्तं = received
इमं = this science
राजर्षयः = the saintly kings
विदुः = understood
सः = that knowledge
कालेन = in the course of time
इह = in this world
महता = great
योगः = the science of one's relationship with the Supreme
नष्टः = scattered
परन्तप = O Arjuna, subduer of the enemies.
सः = the same
एव = certainly
अयं = this
मया = by Me
ते = unto you
अद्य = today
योगः = the science of yoga
प्रोक्तः = spoken
पुरातनः = very old
भक्तः = devotee
असि = you are
मे = My
सखा = friend
च = also
इति = therefore
रहस्यं = mystery
हि = certainly
एतत् = this
उत्तमं = transcendental.
अर्जुन उवाच = Arjuna said
अपरं = junior
भवतः = Your
जन्म = birth
परं = superior
जन्म = birth
विवस्वतः = of the sun-god
कथं = how
एतत् = this
विजानीयं = shall I understand
त्वं = You
आदौ = in the beginning
प्रोक्तवान् = instructed
इति = thus.
श्रीभगवानुवाच = the Personality of Godhead said
बहूनि = many
मे = of Mine
व्यतीतानि = have passed
जन्मानि = births
तव = of yours
च = and also
अर्जुन = O Arjuna
तानि = those
अहं = I
वेद = do know
सर्वाणि = all
न = not
त्वं = you
वेत्थ = know
परन्तप = O subduer of the enemy.
अजः = unborn
अपि = although
सन् = being so
अव्यय = without deterioration
आत्मा = body
भूतानां = of all those who are born
ईश्वरः = the Supreme Lord
अपि = although
सन् = being so
प्रकृतिं = in the transcendental form
स्वां = of Myself
अधिष्ठाय = being so situated
सम्भवामि = I do incarnate
आत्ममायया = by My internal energy.
यदा यदा = whenever and wherever
हि = certainly
धर्मस्य = of religion
ग्लानिः = discrepancies
भवति = become manifested
भारत = O descendant of Bharata
अभ्युत्थानं = predominance
अधर्मस्य = of irreligion
तदा = at that time
आत्मानं = self
सृजामि = manifest
अहं = I.
परित्राणाय = for the deliverance
साधूनां = of the devotees
विनाशाय = for the annihilation
च = and
दुष्कृतां = of the miscreants
धर्म = principles of religion
संस्थापनार्थाय = to reestablish
सम्भवामि = I do appear
युगे = millennium
युगे = after millennium.
जन्म = birth
कर्म = work
च = also
मे = of Mine
दिव्यं = transcendental
एवं = like this
यः = anyone who
वेत्ति = knows
तत्त्वतः = in reality
त्यक्त्वा = leaving aside
देहं = this body
पुनः = again
जन्म = birth
न = never
एति = does attain
मां = unto Me
एति = does attain
सः = he
अर्जुन = O Arjuna.
वीत = freed from
राग = attachment
भय = fear
क्रोधः = and anger
मन्मया = fully in Me
मां = in Me
उपाश्रिताः = being fully situated
बहवः = many
ज्ञान = of knowledge
तपसा = by the penance
पूताः = being purified
मद्भावं = transcendental love for Me
आगताः = attained.
ये = all who
यथा = as
मां = unto Me
प्रपद्यन्ते = surrender
तान् = them
तथा = so
एव = certainly
भजामि = reward
अहं = I
मम = My
वर्त्म = path
अनुवर्तन्ते = follow
मनुष्याः = all men
पार्थ = O son of Pritha
सर्वशः = in all respects.
काङ्क्षन्तः = desiring
कर्मणां = of fruitive activities
सिद्धिं = perfection
यजन्ते = they worship by sacrifices
इह = in the material world
देवताः = the demigods
क्षिप्रं = very quickly
हि = certainly
मानुषे = in human society
लोके = within this world
सिद्धिः = success
भवति = comes
कर्मजा = from fruitive work.
चातुर्वर्ण्यं = the four divisions of human society
मया = by Me
सृष्ट्वा = created
गुण = of quality
कर्म = and work
विभागशः = in terms of division
तस्य = of that
कर्तारं = the father
अपि = although
मां = Me
विद्धि = you may know
अकर्तारं = as the nondoer
अव्ययं = unchangeable.
न = never
मां = Me
कर्माणि = all kinds of work
लिम्पन्ति = do affect
न = nor
मे = My
कर्मफले = in fruitive action
स्पृहा = aspiration
इति = thus
मां = Me
यः = one who
अभिजानाति = does know
कर्मभिः = by the reaction of such work
न = never
सः = he
बध्यते = becomes entangled.
एवं = thus
ज्ञात्वा = knowing well
कृतं = was performed
कर्म = work
पूर्वैः = by past authorities
अपि = indeed
मुमुक्षुभिः = who attained liberation
कुरु = just perform
कर्म = prescribed duty
एव = certainly
तस्मात् = therefore
त्वं = you
पूर्वैः = by the predecessors
पूर्वतरं = in ancient times
कृतं = as performed.
किं = what is
कर्म = action
किं = what is
अकर्म = inaction
इति = thus
कवयः = the intelligent
अपि = also
अत्र = in this matter
मोहिताः = are bewildered
तत् = that
ते = unto you
कर्म = work
प्रवक्ष्यामि = I shall explain
यत् = which
ज्ञात्वा = knowing
मोक्ष्यसे = you will be liberated
अशुभात् = from ill fortune.
कर्मणः = of work
हि = certainly
अपि = also
बोद्धव्यं = should be understood
बोद्धव्यं = should be understood
च = also
विकर्मणः = of forbidden work
अकर्मणः = of inaction
च = also
बोद्धव्यं = should be understood
गहना = very difficult
कर्मणः = of work
गतिः = entrance.
कर्मणि = in action
अकर्म = inaction
यः = one who
पश्येत् = observes
अकर्मणि = in inaction
च = also
कर्म = fruitive action
यः = one who
सः = he
बुद्धिमान् = is intelligent
मनुष्येषु = in human society
सः = he
युक्तः = is in the transcendental position
कृत्स्नकर्मकृत् = although engaged in all activities.
यस्य = one whose
सर्वे = all sorts of
समारम्भाः = attempts
काम = based on desire for sense gratification
सङ्कल्प = determination
वर्जिताः = are devoid of
ज्ञान = of perfect knowledge
अग्नि = by the fire
दग्ध = burned
कर्माणां = whose work
तं = him
आहुः = declare
पण्डितं = learned
बुधाः = those who know.
त्यक्त्वा = having given up
कर्मफलासङ्गं = attachment for fruitive results
नित्य = always
तृप्तः = being satisfied
निराश्रयः = without any shelter
कर्मणि = in activity
अभिप्रवृत्तः = being fully engaged
अपि = in spite of
न = does not
एव = certainly
किञ्चित् = anything
करोति = do
सः = he.
निराशीः = without desire for the result
यत = controlled
चित्तात्मा = mind and intelligence
त्यक्त = giving up
सर्व = all
परिग्रहः = sense of proprietorship over possessions
शारीरं = in keeping body and soul together
केवलं = only
कर्म = work
कुर्वान् = doing
न = never
आप्नोति = does acquire
किल्बिशं = sinful reactions.
यदृच्छा = out of its own accord
लाभ = with gain
सन्तुष्टः = satisfied
द्वन्द्व = duality
अतीतः = surpassed
विमत्सरः = free from envy
समः = steady
सिद्धौ = in success
असिद्धौ = failure
च = also
कृत्वा = doing
अपि = although
न = never
निबध्यते = becomes affected.
गतसङ्गस्य = of one unattached to the modes of material nature
मुक्तस्य = of the liberated
ज्ञानावस्थित = situated in transcendence
चेतसः = whose wisdom
यज्ञाय = for the sake of Yajna (KRiShNa)
आचरतः = acting
कर्म = work
समग्रं = in total
प्रविलीयते = merges entirely.
ब्रह्म = spiritual in nature
अर्पणं = contribution
ब्रह्म = the Supreme
हविः = butter
ब्रह्म = spiritual
अग्नौ = in the fire of consummation
ब्रह्मणा = by the spirit soul
हुतं = offered
ब्रह्म = spiritual kingdom
एव = certainly
तेन = by him
गन्तव्यं = to be reached
ब्रह्म = spiritual
कर्म = in activities
समाधिना = by complete absorption.
दैवं = in worshiping the demigods
एव = like this
अपरे = some others
यज्ञं = sacrifices
योगिनः = mystics
पर्युपासते = worship perfectly
ब्रह्म = of the Absolute Truth
अग्नौ = in the fire
अपरे = others
यज्ञं = sacrifice
यज्ञेन = by sacrifice
एव = thus
उपजुह्वति = offer.
श्रोत्रादीनि = such as the hearing process
इन्द्रियाणि = senses
अन्ये = others
संयम = of restraint
अग्निषु = in the fires
जुह्वति = offer
शब्दादिन् = sound vibration, etc.
विषयान् = objects of sense gratification
अन्ये = others
इन्द्रिय = of the sense organs
अग्निषु = in the fires
जुह्वति = they sacrifice.
सर्वाणि = of all
इन्द्रिय = the senses
कर्माणि = functions
प्राणकर्माणि = functions of the life breath
च = also
अपरे = others
आत्मसंयम = of controlling the mind
योग = the linking process
अग्नौ = in the fire of
जुह्वति = offer
ज्ञानदीपिते = because of the urge for self-realization.
द्रव्ययज्ञाः = sacrificing one's possessions
तपोयज्ञाः = sacrifice in austerities
योगयज्ञाः = sacrifice in eightfold mysticism
तथा = thus
अपरे = others
स्वाध्याय = sacrifice in the study of the Vedas
ज्ञानयज्ञाः = sacrifice in advancement of transcendental knowledge
च = also
यतयः = enlightened persons
संशितव्रताः = taken to strict vows.
अपाने = in the air which acts downward
जुह्वति = offer
प्राणं = the air which acts outward
प्राणे = in the air going outward
अपानं = the air going downward
तथा = as also
अपरे = others
प्राण = of the air going outward
अपान = and the air going downward
गति = the movement
रुद्ध्वा = checking
प्राणायाम = trance induced by stopping all breathing
परायणाः = so inclined
अपरे = others
नियत = having controlled
आहाराः = eating
प्राणान् = the outgoing air
प्राणेषु = in the outgoing air
जुह्वति = sacrifice.
सर्वे = all
अपि = although apparently different
एते = these
यज्ञविदः = conversant with the purpose of performing sacrifices
यज्ञक्षपित = being cleansed as the result of such performances
कल्मषाः = of sinful reactions
यज्ञशिष्ट = of the result of such performances of yajna
अमृतभुजः = those who have tasted such nectar
यान्ति = do approach
ब्रह्म = the supreme
सनातनं = eternal atmosphere.
न = never
अयं = this
लोकाः = planet
अस्ति = there is
अयज्ञस्य = for one who performs no sacrifice
कुतः = where is
अन्यः = the other
कुरुसत्तम = O best amongst the Kurus.
एवं = thus
बहुविधाः = various kinds of
यज्ञाः = sacrifices
विततः = are spread
ब्रह्मणः = of the Vedas
मुखे = through the mouth
कर्मजान् = born of work
विद्धि = you should know
तान् = them
सर्वान् = all
एवं = thus
ज्ञात्वा = knowing
विमोक्ष्यसे = you will be liberated.
श्रेयान् = greater
द्रव्यमयात् = of material possessions
यज्ञात् = than the sacrifice
ज्ञानयज्ञः = sacrifice in knowledge
परन्तप = O chastiser of the enemy
सर्वं = all
कर्म = activities
अखिलं = in totality
पार्थ = O son of Pritha
ज्ञाने = in knowledge
परिसमप्यते = end.
तत् = that knowledge of different sacrifices
विद्धि = try to understand
प्रणिपातेन = by approaching a spiritual master
परिप्रश्नेन = by submissive inquiries
सेवया = by the rendering of service
उपदेक्ष्यन्ति = they will initiate
ते = you
ज्ञानं = into knowledge
ज्ञानिनः = the self-realized
तत्त्व = of the truth
दर्शिनः = seers.
यत् = which
ज्ञात्वा = knowing
न = never
पुनः = again
मोहं = to illusion
एवं = like this
यास्यसि = you shall go
पाण्डव = O son of Pandu
येन = by which
भूतानि = living entities
अशेषाणि = all
द्रक्ष्यसि = you will see
आत्मनि = in the Supreme Soul
अथौ = or in other words
मयि = in Me.
अपि = even
चेत् = if
असि = you are
पापेभ्यः = of sinners
सर्वेभ्यः = of all
पापकृत्तमः = the greatest sinner
सर्वं = all such sinful reactions
ज्ञानप्लवेन = by the boat of transcendental knowledge
एव = certainly
वृजनं = the ocean of miseries
सन्तरिष्यसि = you will cross completely.
यथा = just as
एधांसि = firewood
समिद्धः = blazing
अग्निः = fire
भस्मसात् = ashes
कुरुते = turns
अर्जुन = O Arjuna
ज्ञानाग्निः = the fire of knowledge
सर्वकर्माणि = all reactions to material activities
भस्मसात् = to ashes
कुरुते = it turns
तथा = similarly.
न = notHing
हि = certainly
ज्ञानेन = with knowledge
सदृशं = in comparison
पवित्रं = sanctified
इह = in this world
विद्यते = exists
तत् = that
स्वयं = himself
योग = in devotion
संसिद्धः = he who is mature
कालेन = in course of time
आत्मनि = in himself
विन्दति = enjoys.
श्रद्धावान् = a faithful man
लभते = achieves
ज्ञानं = knowledge
तत्परः = very much attached to it
संयत = controlled
इन्द्रियः = senses
ज्ञानं = knowledge
लब्ध्वा = having achieved
परां = transcendental
शान्तिं = peace
अचिरेण = very soon
अधिगच्छति = attains.
अज्ञः = a fool who has no knowledge in standard scriptures
च = and
अश्रद्दधानः = without faith in revealed scriptures
च = also
संशय = of doubts
आत्मा = a person
विनश्यति = falls back
न = never
अयं = in this
लोकः = world
अस्ति = there is
न = nor
परः = in the next life
न = not
सुखं = happiness
संशय = doubtful
आत्मनः = of the person.
योग = by devotional service in karma-yoga
संन्यस्त = one who has renounced
कर्माणं = the fruits of actions
ज्ञान = by knowledge
सञ्छिन्न = cut
संशयं = doubts
आत्मवन्तं = situated in the self
न = never
कर्माणि = works
निबध्नन्ति = do bind
धनञ्जय = O conqueror of riches.
तस्मात् = therefore
अज्ञानसम्भूतं = born of ignorance
हृत्स्थं = situated in the heart
ज्ञान = of knowledge
आसिन = by the weapon
आत्मनः = of the self
छित्त्वा = cutting off
एनं = this
संशयं = doubt
योगं = in yoga
आतिष्ठ = be situated
उत्तिष्ठ = stand up to fight
भारत = O descendant of Bharata.
End of 4.42
अर्जुन उवाच = Arjuna said
संन्यासं = renunciation
कर्मणां = of all activities
कृष्ण = O KRiShNa
पुनः = again
योगं = devotional service
च = also
शंससि = You are praising
यत् = which
श्रेयः = is more beneficial
एतयोः = of these two
एकं = one
तत् = that
मे = unto me
ब्रूहि = please tell
सुनिश्चितं = definitely.
श्रीभगवानुवाच = the Personality of Godhead said
संन्यासः = renunciation of work
कर्मयोगः = work in devotion
च = also
निःश्रेयसकरौ = leading to the path of liberation
उभौ = both
तयोः = of the two
तु = but
कर्मसंन्यासात् = in comparison to the renunciation of fruitive work
कर्मयोगः = work in devotion
विशिष्यते = is better.
ज्ञेयः = should be known
सः = he
नित्य = always
संन्यासी = renouncer
यः = who
न = never
द्वेष्टि = abhors
न = nor
काङ्क्षति = desires
निर्द्वन्द्वः = free from all dualities
हि = certainly
महाबाहो = O mighty-armed one
सुखं = happily
बन्धात् = from bondage
प्रमुच्यते = is completely liberated.
साङ्ख्य = analytical study of the material world
योगौ = work in devotional service
पृथक् = different
बालाः = the less intelligent
प्रवदन्ति = say
न = never
पण्डिताः = the learned
एकं = in one
अपि = even
आस्थितः = being situated
सम्यक् = complete
उभयोः = of both
विन्दते = enjoys
फलं = the result.
यत् = what
साङ्ख्यैः = by means of Sankhya philosophy
प्राप्यते = is achieved
स्थानं = place
तत् = that
योगैः = by devotional service
अपि = also
गम्यते = one can attain
एकं = one
साङ्ख्यं = analytical study
च = and
योगं = action in devotion
च = and
यः = one who
पश्यति = sees
सः = he
पश्यति = actually sees.
संन्यासः = the renounced order of life
तु = but
महाबाहो = O mighty-armed one
दुःखं = distress
आप्तुं = afflicts one with
अयोगतः = without devotional service
योगयुक्तः = one engaged in devotional service
मुनिः = a thinker
ब्रह्म = the Supreme
न चिरेण = without delay
अधिगच्छति = attains.
योगयुक्तः = engaged in devotional service
विशुद्धात्मा = a purified soul
विजितात्मा = self-controlled
जितेन्द्रियः = having conquered the senses
सर्वभूत = to all living entities
आत्मभूतात्मा = compassionate
कुर्वन्नपि = although engaged in work
न = never
लिप्यते = is entangled.
न = never
एव = certainly
किञ्चित् = anything
करोमि = I do
इति = thus
युक्तः = engaged in the divine consciousness
मन्येत = thinks
तत्त्ववित् = one who knows the truth
पश्यन् = seeing
शृण्वन् = hearing
स्पृशन् = touching
जिघ्रन् = smelling
अश्नन् = eating
गच्छन् = going
स्वपन् = dreaming
श्वसन् = breathing
प्रलपन् = talking
विसृजन् = giving up
गृह्णन् = accepting
उन्मिषन् = opening
निमिषन् = closing
अपि = in spite of
इन्द्रियाणि = the senses
इन्द्रियार्थेषु = in sense gratification
वर्तन्ते = let them be so engaged
इति = thus
धारयन् = considering.
ब्रह्मणि = unto the Supreme Personality of Godhead
आधाय = resigning
कर्माणि = all works
सङ्गं = attachment
त्यक्त्वा = giving up
करोति = performs
यः = who
लिप्यते = is affected
न = never
सः = he
पापेन = by sin
पद्मपत्रं = a lotus leaf
इव = like
अम्भसा = by the water.
कायेन = with the body
मनसा = with the mind
बुद्ध्या = with the intelligence
केवलैः = purified
इन्द्रियैः = with the senses
अपि = even
योगिनः = KRiShNa conscious persons
कर्म = actions
कुर्वन्ति = they perform
सङ्गं = attachment
त्यक्त्वा = giving up
आत्म = of the self
शुद्धये = for the purpose of purification.
युक्तः = one who is engaged in devotional service
कर्मफलं = the results of all activities
त्यक्त्वा = giving up
शन्तिं = perfect peace
आप्नोति = achieves
नैष्ठिकीं = unflinching
अयुक्तः = one who is not in KRiShNa consciousness
कामकारेण = for enjoying the result of work
फले = in the result
सक्ताः = attached
निबध्यते = becomes entangled.
सर्व = all
कर्माणि = activities
मनसा = by the mind
संन्यस्य = giving up
आस्ते = remains
सुखं = in happiness
वशी = one who is controlled
नवद्वारे = in the place where there are nine gates
पुरे = in the city
देही = the embodied soul
न = never
एव = certainly
कुर्वन् = doing anything
न = not
कारयन् = causing to be done.
न = never
कर्तृत्वं = proprietorship
न = nor
कर्माणि = activities
लोकस्य = of the people
सृजति = creates
प्रभुः = the master of the city of the body
न = nor
कर्मफल = with the results of activities
संयोगं = connection
स्वभावः = the modes of material nature
तु = but
प्रवर्तते = act.
न = never
आदत्ते = accepts
कस्यचित् = anyone's
पापं = sin
न = nor
च = also
एव = certainly
सुकृतं = pious activities
विभुः = the Supreme Lord
अज्ञानेन = by ignorance
आवृतं = covered
ज्ञानं = knowledge
तेन = by that
मुह्यन्ति = are bewildered
जन्तवः = the living entities.
ज्ञानेन = by knowledge
तु = but
तत् = that
अज्ञानं = nescience
येषां = whose
नाशितं = is destroyed
आत्मनः = of the living entity
तेषां = their
आदित्यवत् = like the rising sun
ज्ञानं = knowledge
प्रकाशयति = discloses
तत्परं = KRiShNa consciousness.
तत्बुद्धयः = those whose intelligence is always in the Supreme
तदात्मानः = those whose minds are always in the Supreme
तन्निष्ठाः = those whose faith is only meant for the Supreme
तत्परायणः = who have completely taken shelter of Him
गच्छन्ति = go
अपुनरावृत्तिं = to liberation
ज्ञान = by knowledge
निर्धूत = cleansed
कल्मषाः = misgivings.
विद्या = with education
विनय = and gentleness
सम्पन्ने = fully equipped
ब्राह्मणे = in the brahmana
गवि = in the cow
हस्तिनि = in the elephant
शुनि = in the dog
च = and
एव = certainly
श्वपाके = in the dog-eater (the outcaste)
च = respectively
पण्डिताः = those who are wise
समदर्शिनः = who see with equal vision.
इह = in this life
एव = certainly
तैः = by them
जितः = conquered
सर्गः = birth and death
येषां = whose
साम्ये = in equanimity
स्थितं = situated
मनः = mind
निर्दोषं = flawless
हि = certainly
समं = in equanimity
ब्रह्म = like the Supreme
तस्मात् = therefore
ब्रह्मणि = in the Supreme
ते = they
स्थिताः = are situated.
न = never
प्रहृष्येत् = rejoices
प्रियं = the pleasant
प्राप्य = achieving
न = does not
उद्विजेत् = become agitated
प्राप्य = obtaining
च = also
अप्रियं = the unpleasant
स्थिरबुद्धिः = self-intelligent
असम्मूढाः = unbewildered
ब्रह्मवित् = one who knows the Supreme perfectly
ब्रह्मणि = in the transcendence
स्थितः = situated.
बाह्यस्पर्शेषु = in external sense pleasure
असक्तात्मा = one who is not attached
विन्दति = enjoys
आत्मनि = in the self
यत् = that which
सुखं = happiness
सः = he
ब्रह्मयोग = by concentration in Brahman
युक्तात्मा = self-connected
सुखं = happiness
अक्षयं = unlimited
अश्नुते = enjoys.
ये = those
हि = certainly
संस्पर्शजाः = by contact with the material senses
भोगाः = enjoyments
दुःख = distress
योनयः = sources of
एव = certainly
ते = they are
आदि = beginning
अन्त = end
वन्तः = subject to
कौन्तेय = O son of Kunti
न = never
तेषु = in those
रमते = takes delight
बुधः = the intelligent person.
शक्नोति = is able
इहैव = in the present body
यः = one who
सोढुं = to tolerate
प्राक् = before
शरीर = the body
विमोक्षणात् = giving up
काम = desire
क्रोध = and anger
उद्भवं = generated from
वेगं = urges
सः = he
युक्तः = in trance
सः = he
सुखी = happy
नरः = human being.
यः = one who
अन्तर्सुखः = happy from within
अन्तरारामः = actively enjoying within
तथा = as well as
अन्तर्ज्योतिः = aiming within
एव = certainly
यः = anyone
सः = he
योगी = a mystic
ब्रह्मनिर्वाणं = liberation in the Supreme
ब्रह्मभूतः = being self-realized
अधिगच्छति = attains.
लभन्ते = achieve
ब्रह्मनिर्वाणं = liberation in the Supreme
ऋषयः = those who are active within
क्षीणकल्मषाः = who are devoid of all sins
छिन्न = having torn off
द्वैधाः = duality
यतात्मनाः = engaged in self-realization
सर्वभूत = for all living entities
हिते = in welfare work
रताः = engaged.
काम = from desires
क्रोध = and anger
विमुक्तानां = of those who are liberated
यतीनां = of the saintly persons
यतचेतसां = who have full control over the mind
अभितः = assured in the near future
ब्रह्मनिर्वाणं = liberation in the Supreme
वर्तते = is there
विदितात्मनां = of those who are self-realized.
स्पर्शान् = sense objects, such as sound
कृत्वा = keeping
बहिः = external
बाह्यान् = unnecessary
चक्षुः = eyes
च = also
एव = certainly
अन्तरे = between
भ्रुवोः = the eyebrows
प्राणापानौ = up-and down-moving air
समौ = in suspension
कृत्वा = keeping
नासाभ्यन्तर = within the nostrils
चारिणौ = blowing
यत = controlled
इन्द्रिय = senses
मनः = mind
बुद्धिः = intelligence
मुनिः = the transcendentalist
मोक्ष = for liberation
परायणः = being so destined
विगत = having discarded
इच्छा = wishes
भय = fear
क्रोधः = anger
यः = one who
सदा = always
मुक्तः = liberated
एव = certainly
सः = he is.
भोक्तारं = the beneficiary
यज्ञ = of sacrifices
तपसां = and penances and austerities
सर्वलोक = of all planets and the demigods thereof
महेश्वरं = the Supreme Lord
सुहृदं = the benefactor
सर्व = of all
भूतानां = the living entities
ज्ञात्वा = thus knowing
मां = Me (Lord KRiShNa)
शान्तिं = relief from material pangs
ऋच्छति = one achieves.
End of 5.29
श्रीभगवानुवाच = the Lord said
अनाश्रितः = without taking shelter
कर्मफलं = of the result of work
कार्यं = obligatory
कर्म = work
करोति = performs
यः = one who
सः = he
संन्यासी = in the renounced order
च = also
योगी = mystic
च = also
न = not
निः = without
अग्निः = fire
न = nor
च = also
अक्रियाः = without duty.
यं = what
संन्यासं = renunciation
इति = thus
प्राहुः = they say
योगं = linking with the Supreme
तं = that
विद्धि = you must know
पाण्डव = O son of Pandu
न = never
हि = certainly
असंन्यस्त = without giving up
सङ्कल्पः = desire for self-satisfaction
योगी = a mystic transcendentalist
भवति = becomes
कश्चन = anyone.
आरुरुक्षोः = who has just begun yoga
मुनेः = of the sage
योगं = the eightfold yoga system
कर्म = work
कारणं = the means
उच्यते = is said to be
योग = eightfold yoga
आरूढस्य = of one who has attained
तस्य = his
एव = certainly
शमः = cessation of all material activities
करणं = the means
उच्यते = is said to be.
यदा = when
हि = certainly
न = not
इन्द्रियार्थेषु = in sense gratification
न = never
कर्मसु = in fruitive activities
अनुषज्जते = one necessarily engages
सर्वसङ्कल्प = of all material desires
संन्यासी = renouncer
योगारूढः = elevated in yoga
तदा = at that time
उच्यते = is said to be.
उद्धरेत् = one must deliver
आत्मना = by the mind
आत्मानं = the conditioned soul
न = never
आत्मानं = the conditioned soul
अवसादयेत् = put into degradation
आत्मा = mind
एव = certainly
हि = indeed
आत्मनः = of the conditioned soul
बन्धुः = friend
आत्मा = mind
एव = certainly
रिपुः = enemy
आत्मनः = of the conditioned soul.
बन्धुः = friend
आत्मा = the mind
आत्मनः = of the living entity
तस्य = of him
येन = by whom
आत्मा = the mind
एव = certainly
आत्मना = by the living entity
जितः = conquered
अनात्मनः = of one who has failed to control the mind
तु = but
शत्रुत्वे = because of enmity
वर्तेत = remains
आत्मैव = the very mind
शत्रुवत् = as an enemy.
जितात्मनः = of one who has conquered his mind
प्रशान्तस्य = who has attained tranquillity by such control over the mind
परमात्मा = the Supersoul
समाहितः = approached completely
शीत = in cold
उष्ण = heat
सुख = happiness
दुःखेषु = and distress
तथा = also
मान = in honor
अपमानयोः = and dishonor.
ज्ञान = by acquired knowledge
विज्ञान = and realized knowledge
तृप्त = satisfied
आत्मा = a living entity
कूटस्थः = spiritually situated
विजितेन्द्रियः = sensually controlled
युक्तः = competent for self-realization
इति = thus
उच्यते = is said
योगी = a mystic
सम = equipoised
लोष्ट्र = pebbles
अश्म = stone
काञ्चनः = gold.
सुहृत् = to well-wishers by nature
मित्र = benefactors with affection
अरि = enemies
उदासीन = neutrals between belligerents
मध्यस्थ = mediators between belligerents
द्वेष्य = the envious
बन्धुषु = and the relatives or well-wishers
साधुषु = unto the pious
अपि = as well as
च = and
पापेषु = unto the sinners
समबुद्धिः = having equal intelligence
विशिष्यते = is far advanced.
योगी = a transcendentalist
युञ्जीत = must concentrate in KRiShNa consciousness
सततं = constantly
आत्मानं = himself (by body, mind and self)
रहसि = in a secluded place
स्थितः = being situated
एकाकी = alone
यतचित्तात्मा = always careful in mind
निराशीः = without being attracted by anything else
अपरिग्रहः = free from the feeling of possessiveness.
शुचौ = in a sanctified
देशे = land
प्रतिष्ठाप्य = placing
स्थिरं = firm
आसनं = seat
आत्मनः = his own
न = not
अति = too
उच्छ्रितं = high
न = nor
अति = too
नीचं = low
चैलाजिन = of soft cloth and deerskin
कुश = and kusa grass
उत्तरं = covering
तत्र = thereupon
एकाग्रं = with one attention
मनः = mind
कृत्वा = making
यतचित्त = controlling the mind
इन्द्रिय = senses
क्रियः = and activities
उपविश्य = sitting
आसने = on the seat
युञ्ज्यात् = should execute
योगं = yoga practice
आत्मा = the heart
विशुद्धये = for clarifying.
समं = straight
काय = body
शिरः = head
ग्रीवं = neck
धारयन् = holding
अचलं = unmoving
स्थिरः = still
सम्प्रेक्ष्य = looking
नासिका = of the nose
अग्रं = at the tip
स्वं = own
दिशः = on all sides
च = also
अनवलोकयान् = not looking
प्रशान्त = unagitated
आत्मा = mind
विगतभीः = devoid of fear
ब्रह्मचारिव्रते = in the vow of celibacy
स्थितः = situated
मनः = mind
संयम्य = completely subduing
मत् = upon Me (KRiShNa)
चित्तः = concentrating the mind
युक्तः = the actual yogi
आसीत = should sit
मत् = Me
परः = the ultimate goal.
युञ्जन् = practicing
एवं = as mentioned above
सदा = constantly
आत्मानं = body, mind and soul
योगी = the mystic transcendentalist
नियतमनसः = with a regulated mind
शान्तिं = peace
निर्वाणपरमां = cessation of material existence
मत्संस्थां = the spiritual sky (the kingdom of God)
अधिगच्छति = does attain.
न = never
अति = too much
अश्नतः = of one who eats
तु = but
योगः = linking with the Supreme
अस्ति = there is
न = nor
च = also
एकान्तं = overly
अनश्नतः = abstaining from eating
न = nor
च = also
अति = too much
स्वप्नशीलस्य = of one who sleeps
जग्रतः = or one who keeps night watch too much
न = not
एव = ever
च = and
अर्जुन = O Arjuna.
युक्त = regulated
आहार = eating
विहारस्य = recreation
युक्त = regulated
चेष्टस्य = of one who works for maintenance
कर्मसु = in discharging duties
युक्त = regulated
स्वप्नावबोधस्य = sleep and wakefulness
योगः = practice of yoga
भवति = becomes
दुःखहा = diminishing pains.
यदा = when
विनियतं = particularly disciplined
चित्तं = the mind and its activities
आत्मनि = in the transcendence
एव = certainly
अवतिष्ठते = becomes situated
निस्पृहः = devoid of desire
सर्व = for all kinds of
कामेभ्यः = material sense gratification
युक्तः = well situated in yoga
इति = thus
उच्यते = is said to be
तदा = at that time.
यथा = as
दीपः = a lamp
निवातस्थः = in a place without wind
न = does not
इङ्गते = waver
सा = this
उपमा = comparison
स्मृता = is considered
योगिनः = of the yogi
यतचित्तस्य = whose mind is controlled
युञ्जतः = constantly engaged
योगं = in meditation
आत्मनः = on transcendence.
यत्र = in that state of affairs where
उपरमते = cease (because one feels transcendental happiness)
चित्तं = mental activities
निरुद्धं = being restrained from matter
योगसेवया = by performance of yoga
यत्र = in which
च = also
एव = certainly
आत्मना = by the pure mind
आत्मानं = the self
पश्यन् = realizing the position of
आत्मनि = in the self
तुष्यति = one becomes satisfied
सुखं = happiness
आत्यन्तिकं = supreme
यत् = which
तत् = that
बुद्धि = by intelligence
ग्राह्यं = accessible
अतीन्द्रियं = transcendental
वेत्ति = one knows
यत्र = wherein
न = never
च = also
एव = certainly
अयं = he
स्थितः = situated
चलति = moves
तत्त्वतः = from the truth
यं = that which
लब्ध्वा = by attainment
च = also
अपरं = any other
लाभं = gain
मन्यते = considers
न = never
अधिकं = more
ततः = than that
यस्मिन् = in which
स्थितः = being situated
न = never
दुःखेन = by miseries
गुरुणापि = even though very difficult
विचाल्यते = becomes shaken
तं = that
विद्यात् = you must know
दुःखसंयोग = of the miseries of material contact
वियोगं = extermination
योगसंज्ञितं = called trance in yoga.
सः = that
निश्चयेन = with firm determination
योक्तव्यः = must be practiced
योगः = yoga system
अनिर्विण्णचेतस = without deviation
सङ्कल्प = mental speculations
प्रभवान् = born of
कामान् = material desires
त्यक्त्वा = giving up
सर्वान् = all
अशेषतः = completely
मनसा = by the mind
एव = certainly
इन्द्रियग्रामं = the full set of senses
विनियम्य = regulating
समन्ततः = from all sides.
शनैः = gradually
शनैः = step by step
उपरमेत् = one should hold back
बुद्ध्या = by intelligence
धृतिगृहीतया = carried by conviction
आत्मसंस्थं = placed in transcendence
मनः = mind
कृत्वा = making
न = not
किञ्चित् = anything else
अपि = even
चिन्तयेत् = should think of.
यतस्यतः = wherever
निश्चलति = becomes verily agitated
मनः = the mind
चञ्चलं = flickering
अस्थिरं = unsteady
ततस्ततः = from there
नियम्य = regulating
एतत् = this
आत्मनि = in the self
एव = certainly
वशं = control
नयेत् = must bring under.
प्रशान्त = peaceful, fixed on the lotus feet of KRiShNa
मनसं = whose mind
हि = certainly
एनं = this
योगिनं = yogi
सुखं = happiness
उत्तमं = the highest
उपैति = attains
शान्तरजसं = his passion pacified
ब्रह्मभूतं = liberation by identification with the Absolute
अकल्मषं = freed from all past sinful reactions.
युञ्जन् = engaging in yoga practice
एवं = thus
सदा = always
आत्मानं = the self
योगी = one who is in touch with the Supreme Self
विगत = freed from
कल्मषः = all material contamination
सुखेन = in transcendental happiness
ब्रह्मसंस्पर्शं = being in constant touch with the Supreme
अत्यन्तं = the highest
सुखं = happiness
अश्नुते = attains.
सर्वभूतस्थं = situated in all beings
आत्मानं = the Supersoul
सर्व = all
भूतानी = entities
च = also
आत्मनि = in the self
ईक्षते = does see
योगयुक्तात्मा = one who is dovetailed in KRiShNa consciousness
सर्वत्र = everywhere
समदर्शनः = seeing equally.
यः = whoever
मां = Me
पश्यति = sees
सर्वत्र = everywhere
सर्वं = everything
च = and
मयि = in Me
पश्यति = sees
तस्य = for him
अहं = I
न = not
प्रणश्यामि = am lost
सः = he
च = also
मे = to Me
न = nor
प्रणश्यति = is lost.
सर्वभूतस्थितं = situated in everyone's heart
यः = he who
मां = Me
भजति = serves in devotional service
एकत्वं = in oneness
आस्थितः = situated
सर्वथा = in all respects
वर्तमानः = being situated
अपि = in spite of
सः = he
योगी = the transcendentalist
मयि = in Me
वर्तते = remains.
आत्मा = with his self
औपम्येन = by comparison
सर्वत्र = everywhere
समं = equally
पश्यति = sees
यः = he who
अर्जुन = O Arjuna
सुखं = happiness
वा = or
यदि = if
वा = or
दुःखं = distress
सः = such
योगी = a transcendentalist
परमः = perfect
मतः = is considered.
अर्जुन उवाच = Arjuna said
योऽयं = this system
योगः = mysticism
त्वया = by You
प्रोक्तः = described
साम्येन = generally
मधुसूदन = O killer of the demon Madhu
एतस्य = of this
अहं = I
न = do not
पश्यामि = see
चञ्चलत्वात् = due to being restless
स्थितिं = situation
स्थिरां = stable.
चञ्चलं = flickering
हि = certainly
मनः = mind
कृष्ण = O KRiShNa
प्रमाथि = agitating
बलवत् = strong
दृढं = obstinate
तस्य = its
अहं = I
निग्रहं = subduing
मन्ये = think
वायोः = of the wind
इव = like
सुदुष्करं = difficult.
श्रीभगवानुवाच = the Personality of Godhead said
असंशयं = undoubtedly
महाबाहो = O mighty-armed one
मनः = the mind
दुर्निग्रहं = difficult to curb
चलं = flickering
अभ्यासेन = by practice
तु = but
कौन्तेय = O son of Kunti
वैराग्येण = by detachment
च = also
गृह्यते = can be so controlled.
असंयता = unbridled
आत्मना = by the mind
योगः = self-realization
दुष्प्रापः = difficult to obtain
इति = thus
मे = My
मतिः = opinion
वश्य = controlled
आत्मना = by the mind
तु = but
यतता = while endeavoring
शक्यः = practical
अवाप्तुं = to achieve
उपायतः = by appropriate means.
अर्जुन उवाच = Arjuna said
अयतिः = the unsuccessful transcendentalist
श्रद्धया = with faith
उपेतः = engaged
योगात् = from the mystic link
चलित = deviated
मानसः = who has such a mind
अप्राप्य = failing to attain
योगसंसिद्धिं = the highest perfection in mysticism
कां = which
गतिं = destination
कृष्ण = O KRiShNa
गच्छति = achieves.
कच्चित् = whether
न = not
उभय = both
विभ्रष्टः = deviated from
छिन्न = torn
अभ्रं = cloud
इव = like
नश्यति = perishes
अप्रतिष्ठः = without any position
महाबाहो = O mighty-armed KRiShNa
विमूढः = bewildered
ब्रह्मणः = of transcendence
पथि = on the path.
एतत् = this is
मे = my
संशयं = doubt
कृष्ण = O KRiShNa
छेत्तुं = to dispel
अर्हसि = You are requested
अशेषतः = completely
त्वत् = than You
अन्यः = other
संशयस्य = of the doubt
अस्य = this
छेत्ता = remover
न = never
हि = certainly
उपपद्यते = is to be found.
श्रीभगवानुवाच = the Supreme Personality of Godhead said
पार्थ = O son of Pritha
नैव = never is it so
इह = in this material world
न = never
अमुत्र = in the next life
विनाशः = destruction
तस्य = his
विद्यते = exists
न = never
हि = certainly
कल्याणकृत् = one who is engaged in auspicious activities
कश्चित् = anyone
दुर्गतिं = to degradation
तात = My friend
गच्छति = goes.
प्राप्य = after achieving
पुण्यकृतं = of those who performed pious activities
लोकान् = planets
उषित्वा = after dwelling
शाश्वतीः = many
समाः = years
शुचीनां = of the pious
श्रीमतं = of the prosperous
गेहे = in the house
योगभ्रष्टः = one who has fallen from the path of self-realization
अभिजायते = takes his birth.
अथवा = or
योगिनां = of learned transcendentalists
एव = certainly
कुले = in the family
भवति = takes birth
धीमतां = of those who are endowed with great wisdom
एतत् = this
हि = certainly
दुर्लभतरं = very rare
लोके = in this world
जन्म = birth
यत् = that which
ईदृषं = like this.
तत्र = thereupon
तं = that
बुद्धिसंयोगं = revival of consciousness
लभते = gains
पौर्वदेहिकं = from the previous body
यतते = he endeavors
च = also
ततः = thereafter
भूयः = again
संसिद्धौ = for perfection
कुरुनन्दन = O son of Kuru.
पूर्व = previous
अभ्यासेन = by practice
तेन = by that
एव = certainly
ह्रियते = is attracted
हि = surely
अवशः = automatically
अपि = also
सः = he
जिज्ञासुः = inquisitive
अपि = even
योगस्य = about yoga
शब्दब्रह्म = ritualistic principles of scriptures
अतिवर्तते = transcends.
प्रयत्नात् = by rigid practice
यतमानः = endeavoring
तु = and
योगी = such a transcendentalist
संशुद्ध = washed off
किल्बिषः = all of whose sins
अनेक = after many, many
जन्म = births
संसिद्धः = having achieved perfection
ततः = thereafter
याति = attains
परां = the highest
गतिं = destination.
तपस्विभ्यः = than the ascetics
अधिकः = greater
योगी = the yogi
ज्ञानिभ्यः = than the wise
अपि = also
मतः = considered
अधिकः = greater
कर्मिभ्यः = than the fruitive workers
च = also
अधिकः = greater
योगी = the yogi
तस्मात् = therefore
योगी = a transcendentalist
भव = just become
अर्जुन = O Arjuna.
योगिनां = of yogis
अपि = also
सर्वेषां = all types of
मद्गतेन = abiding in Me, always thinking of Me
अन्तरात्मना = within himself
श्रद्धावान् = in full faith
भजते = renders transcendental loving service
यः = one who
मां = to Me (the Supreme Lord)
सः = he
मे = by Me
युक्ततमः = the greatest yogi
मतः = is considered.
End of 6.47
श्रीभगवानुवाच = the Supreme Lord said
मयि = to Me
आसक्तमनाः = mind attached
पार्थ = O son of Pritha
योगं = self-realization
युञ्जन् = practicing
मदाश्रयः = in consciousness of Me (KRiShNa consciousness)
असंशयं = without doubt
समग्रं = completely
मां = Me
यथा = how
ज्ञास्यसि = you can know
तत् = that
शृणु = try to hear.
ज्ञानं = phenomenal knowledge
ते = unto you
अहं = I
स = with
विज्ञानं = numinous knowledge
इदं = this
वक्ष्यामि = shall explain
अशेषतः = in full
यत् = which
ज्ञात्वा = knowing
न = not
इह = in this world
भूयः = further
अन्यत् = anything more
ज्ञातव्यं = knowable
अवशिष्यते = remains.
मनुष्याणां = of men
सहस्रेषु = out of many thousands
कश्चित् = someone
यतति = endeavors
सिद्धये = for perfection
यततां = of those so endeavoring
अपि = indeed
सिद्धानां = of those who have achieved perfection
कश्चित् = someone
मां = Me
वेत्ति = does know
तत्त्वतः = in fact.
भूमिः = earth
आपः = water
अनलः = fire
वायुः = air
खं = ether
मनः = mind
बुद्धिः = intelligence
एव = certainly
च = and
अहङ्कारः = false ego
इति = thus
इयं = all these
मे = My
भिन्ना = separated
प्रकृतिः = energies
अष्टधा = eightfold.
अपरा = inferior
इयं = this
इतः = besides this
तु = but
अन्यां = another
प्रकृतिं = energy
विद्धि = just try to understand
मे = My
परं = superior
जिवभूतां = comprising the living entities
महाबाहो = O mighty-armed one
यया = by whom
इदं = this
धार्यते = is utilized or exploited
जगत् = the material world.
एतत् = these two natures
योनीनि = whose source of birth
भूतानि = everything created
सर्वाणि = all
इति = thus
उपधारय = know
अहं = I
कृत्स्नस्य = all-inclusive
जगतः = of the world
प्रभवः = the source of manifestation
प्रलयः = annihilation
तथा = as well as.
मत्तः = beyond Me
परतरं = superior
न = not
अन्यत् किञ्चित् = anything else
अस्ति = there is
धनञ्जय = O conqueror of wealth
मयि = in Me
सर्वं = all that be
इदं = which we see
प्रोतं = is strung
सूत्रे = on a thread
मणिगणाः = pearls
इव = like.
रसः = taste
अहं = I
अप्सु = in water
कौन्तेय = O son of Kunti
प्रभा = the light
अस्मि = I am
शशिसूर्ययोः = of the moon and the sun
प्रणवः = the three letters a-u-m
सर्व = in all
वेदेषु = the Vedas
शब्दः = sound vibration
खे = in the ether
पौरुषं = ability
नृषु = in men.
पुण्यः = original
गन्धः = fragrance
पृथिव्यां = in the earth
च = also
तेजः = heat
च = also
अस्मि = I am
विभावसौ = in the fire
जीवनं = life
सर्व = in all
भूतेषु = living entities
तपः = penance
च = also
अस्मि = I am
तपस्विषु = in those who practice penance.
बीजं = the seed
मां = Me
सर्वभूतानां = of all living entities
विद्धि = try to understand
पार्थ = O son of Pritha
सनातनं = original, eternal
बुद्धिः = intelligence
बुद्धिमतां = of the intelligent
अस्मि = I am
तेजः = prowess
तेजस्विनां = of the powerful
अहं = I am.
बलं = strength
बलवतां = of the strong
च = and
अहं = I am
काम = passion
राग = and attachment
विवर्जितं = devoid of
धर्माविरुद्धः = not against religious principles
भूतेषु = in all beings
कामः = sex life
अस्मि = I am
भरतर्षभ = O lord of the Bharatas.
ये = all which
च = and
एव = certainly
सात्त्विकाः = in goodness
भावः = states of being
राजसः = in the mode of passion
तामसाः = in the mode of ignorance
च = also
ये = all which
मत्तः = from Me
एव = certainly
इति = thus
तान् = those
विद्धि = try to know
न = not
तु = but
अहं = I
तेषु = in them
ते = they
मयि = in Me.
त्रिभिः = three
गुणमयैः = consisting of the gunas
भावैः = by the states of being
एभिः = all these
सर्वं = whole
इदं = this
जगत् = universe
मोहितं = deluded
नाभिजानाति = does not know
मां = Me
एभ्यः = above these
परं = the Supreme
अव्ययं = inexhaustible.
दैवी = transcendental
हि = certainly
एषा = this
गुणमयी = consisting of the three modes of material nature
मम = My
माया = energy
दुरत्यया = very difficult to overcome
मां = unto Me
एव = certainly
ये = those who
प्रपद्यन्ते = surrender
मायामेतां = this illusory energy
तरन्ति = overcome
ते = they.
न = not
मां = unto Me
दुष्कृतिनः = miscreants
मूढः = foolish
प्रपद्यन्ते = surrender
नराधमाः = lowest among mankind
मायया = by the illusory energy
अपहृत = stolen
ज्ञानः = whose knowledge
आसुरं = demonic
भावं = nature
आश्रिताः = accepting.
चतुर्विधाः = four kinds of
भजन्ते = render services
मां = unto Me
जनाः = persons
सुकृतिनः = those who are pious
अर्जुन = O Arjuna
आर्तः = the distressed
जिज्ञासुः = the inquisitive
अर्थार्थी = one who desires material gain
ज्ञानी = one who knows things as they are
च = also
भरतर्षभ = O great one amongst the descendants of Bharata.
तेषां = out of them
ज्ञानी = one in full knowledge
नित्ययुक्तः = always engaged
एक = only
भक्तिः = in devotional service
विशिष्यते = is special
प्रियः = very dear
हि = certainly
ज्ञानिनः = to the person in knowledge
अत्यर्थं = highly
अहं = I am
सः = he
च = also
मम = to Me
प्रियः = dear.
उदाराः = magnanimous
सर्व = all
एव = certainly
एते = these
ज्ञानी = one who is in knowledge
तु = but
आत्मैव = just like Myself
मे = My
मतं = opinion
आस्थितः = situated
सः = he
हि = certainly
युक्तात्मा = engaged in devotional service
मां = in Me
एव = certainly
अनुत्तमां = the highest
गतिं = destination.
बहूनां = many
जन्मनां = repeated births and deaths
अन्ते = after
ज्ञानवान् = one who is in full knowledge
मां = unto Me
प्रपद्यते = surrenders
वासुदेवः = the Personality of Godhead, KRiShNa
सर्वं = everything
इति = thus
सः = that
महात्मा = great soul
सुदुर्लभः = very rare to see.
कामैः = by desires
तैस्तैः = various
हृत = deprived of
ज्ञानाः = knowledge
प्रपद्यन्ते = surrender
अन्य = to other
देवताः = demigods
तं तं = corresponding
नियमं = regulations
आस्थाय = following
प्रकृत्या = by nature
नियताः = controlled
स्वया = by their own.
यस्य = whoever
यां यां = whichever
तनुं = form of a demigod
भक्तः = devotee
श्रद्धया = with faith
अर्चितुं = to worship
इच्छति = desires
तस्य तस्य = to him
अचलं = steady
श्रद्धां = faith
तां = that
एव = surely
विदधामि = give
अहं = I.
सः = he
तया = with that
श्रद्धया = inspiration
युक्तः = endowed
तस्य = of that demigod
आराधनं = for the worship
ईहते = he aspires
लभते = obtains
च = and
ततः = from that
कामान् = his desires
मया = by Me
एव = alone
विहितान् = arranged
हि = certainly
तान् = those.
अन्तवत् = perishable
तु = but
फलं = fruit
तेषां = their
तत् = that
भवति = becomes
अल्पमेधसां = of those of small intelligence
देवान् = to the demigods
देवयजः = the worshipers of the demigods
यान्ति = go
मत् = My
भक्ताः = devotees
यान्ति = go
मां = to Me
अपि = also.
अव्यक्तं = nonmanifested
व्यक्तिं = personality
आपन्नं = achieved
मन्यन्ते = think
मां = Me
अबुद्धयः = less intelligent persons
परं = supreme
भावं = existence
अजानन्तः = without knowing
मम = My
अव्ययं = imperishable
अनुत्तमं = the finest.
न = nor
अहं = I
प्रकाशः = manifest
सर्वस्य = to everyone
योगमाया = by internal potency
समावृतः = covered
मूढः = foolish
अयं = these
न = not
अभिजानाति = can understand
लोकः = persons
मां = Me
अजं = unborn
अव्ययं = inexhaustible.
वेद = know
अहं = I
समतीतानि = completely past
वर्तमानानि = present
च = and
अर्जुन = O Arjuna
भविष्याणि = future
च = also
भूतानी = all living entities
मां = Me
तु = but
वेद = knows
न = not
कश्चन = anyone.
इच्छा = desire
द्वेष = and hate
समुत्थेन = arisen from
द्वन्द्व = of duality
मोहेन = by the illusion
भारत = O scion of Bharata
सर्व = all
भूतानी = living entities
सम्मोहं = into delusion
सर्गे = while taking birth
यान्ति = go
परन्तप = O conqueror of enemies.
येषां = whose
तु = but
अन्तगतं = completely eradicated
पापं = sin
जनानां = of the persons
पुण्य = pious
कर्मणां = whose previous activities
ते = they
द्वन्द्व = of duality
मोह = delusion
निर्मुक्ताः = free from
भजन्ते = engage in devotional service
मां = to Me
दृढव्रताः = with determination.
जरा = from old age
मरण = and death
मोक्षाय = for the purpose of liberation
मां = Me
आश्रित्य = taking shelter of
यतन्ति = endeavor
ये = all those who
ते = such persons
ब्रह्म = Brahman
तत् = actually that
विदुः = they know
कृत्स्नं = everything
अध्यात्मं = transcendental
कर्म = activities
च = also
अखिलं = entirely.
साधिभूत = and the governing principle of the material manifestation
अधिदैवं = governing all the demigods
मां = Me
साधियज्ञं = and governing all sacrifices
च = also
ये = those who
विदुः = know
प्रयाण = of death
काले = at the time
अपि = even
च = and
मां = Me
ते = they
विदुः = know
युक्तचेतसः = their minds engaged in Me.
End of 7.30
अर्जुन उवाच = Arjuna said
किं = what
तत् = that
ब्रह्म = Brahman
किं = what
अध्यात्मं = the self
किं = what
कर्म = fruitive activities
पुरुषोत्तम = O Supreme Person
अधिभूतं = the material manifestation
च = and
किं = what
प्रोक्तं = is called
अधिदैवं = the demigods
किं = what
उच्यते = is called.
अधियज्ञः = the Lord of sacrifice
कथं = how
कः = who
अत्र = here
देहे = in the body
अस्मिन् = this
मधुसूदन = O Madhusudana
प्रयाणकाले = at the time of death
च = and
कथं = how
ज्ञेयोसि = You can be known
नियतात्मभिः = by the self-controlled.
श्रीभगवानुवाच = the Supreme Personality of Godhead said
अक्षरं = indestructible
ब्रह्म = Brahman
परमं = transcendental
स्वभावः = eternal nature
अध्यात्मं = the self
उच्यते = is called
भूतभावोद्भवकरः = producing the material bodies of the living entities
विसर्गः = creation
कर्म = fruitive activities
संज्ञितः = is called.
अधिभूतं = the physical manifestation
क्षरः = constantly changing
भावः = nature
पुरुषः = the universal form
च = and
अधिदैवतं = called adhidaiva
अधियज्ञः = the Supersoul
अहं = I (KRiShNa)
एव = certainly
अत्र = in this
देहे = body
देहभृतां = of the embodied
वर = O best.
अन्तकाले = at the end of life
च = also
मां = Me
एव = certainly
स्मरन् = remembering
मुक्त्वा = quitting
कलेवरं = the body
यः = he who
प्रयाति = goes
सः = he
मद्भावं = My nature
याति = achieves
न = not
अस्ति = there is
अत्र = here
संशयः = doubt.
यं यं = whatever
वापि = at all
स्मरन् = remembering
भावं = nature
त्यजति = gives up
अन्ते = at the end
कलेवरं = this body
तं तं = similar
एव = certainly
एति = gets
कौन्तेय = O son of Kunti
सदा = always
तत् = that
भाव = state of being
भाविताः = remembering.
तस्मात् = therefore
सर्वेषु = at all
कालेषु = times
मां = Me
अनुस्मर = go on remembering
युध्य = fight
च = also
मयि = unto Me
अर्पित = surrendering
मनः = mind
बुद्धिः = intellect
मां = unto Me
एव = surely
एष्यसि = you will attain
असंशयः = beyond a doubt.
अभ्यासयोग = by practice
युक्तेन = being engaged in meditation
चेतसा = by the mind and intelligence
नान्यगामिना = without their being deviated
परमं = the Supreme
पुरुषं = Personality of Godhead
दिव्यं = transcendental
याति = one achieves
पार्थ = O son of Pritha
अनुचिन्तयन् = constantly thinking of.
कविं = the one who knows everything
पुराणं = the oldest
अनुशासितारं = the controller
अणोः = than the atom
अणीयांसं = smaller
अनुस्मरेत् = always thinks of
यः = one who
सर्वस्य = of everything
धातारं = the maintainer
अचिन्त्य = inconceivable
रूपं = whose form
आदित्यवर्णं = luminous like the sun
तमसः = to darkness
परस्तात् = transcendental.
प्रयाणकाले = at the time of death
मनसा = by the mind
अचलेन = without its being deviated
भक्त्या = in full devotion
युक्तः = engaged
योगबलेन = by the power of mystic yoga
च = also
एव = certainly
भ्रुवोः = the two eyebrows
मध्ये = between
प्राणं = the life air
आवेश्य = establishing
सम्यक् = completely
सः = he
तं = that
परं = transcendental
पुरुषं = Personality of Godhead
उपैति = achieves
दिव्यं = in the spiritual kingdom.
यत् = that which
अक्षरं = syllable om
वेदविदः = persons conversant with the Vedas
वदन्ति = say
विशन्ति = enter
यत् = in which
यतयः = great sages
वीतरागाः = in the renounced order of life
यत् = that which
इच्छन्तः = desiring
ब्रह्मचर्यं = celibacy
चरन्ति = practice
तत् = that
ते = unto you
पदं = situation
संग्रहेण = in summary
प्रवक्ष्ये = I shall explain.
सर्वद्वाराणि = all the doors of the body
संयम्य = controlling
मनः = the mind
हृदि = in the heart
निरुध्य = confining
च = also
मूर्ध्नि = on the head
आधाय = fixing
आत्मनः = of the soul
प्राणं = the life air
आस्थितः = situated in
योगधारणां = the yogic situation.
ॐ = the combination of letters om (omkara)
इति = thus
एकाक्षरं = the one syllable
ब्रह्म = absolute
व्याहरन् = vibrating
मां = Me (KRiShNa)
अनुस्मरन् = remembering
यः = anyone who
प्रयाति = leaves
त्यजन् = quitting
देहं = this body
सः = he
याति = achieves
परमां = the supreme
गतिं = destination.
अनन्यचेताः = without deviation of the mind
सततं = always
यः = anyone who
मां = Me (KRiShNa)
स्मरति = remembers
नित्यशः = regularly
तस्य = to him
अहं = I am
सुलभः = very easy to achieve
पार्थ = O son of Pritha
नित्य = regularly
युक्तस्य = engaged
योगिनः = for the devotee.
मां = Me
उपेत्य = achieving
पुनः = again
जन्म = birth
दुःखालयं = place of miseries
अशाश्वतं = temporary
न = never
आप्नुवन्ति = attain
महात्मनः = the great souls
संसिद्धिं = perfection
परमां = ultimate
गताः = having achieved.
आब्रह्मभुवनात् = up to the Brahmaloka planet
लोकाः = the planetary systems
पुनः = again
आवर्तिनः = returning
अर्जुन = O Arjuna
मां = unto Me
उपेत्य = arriving
तु = but
कौन्तेय = O son of Kunti
पुनर्जन्म = rebirth
न = never
विद्यते = takes place.
सहस्र = one thousand
युग = millenniums
पर्यन्तं = including
अहः = day
यत् = that which
ब्रह्मणः = of Brahma
विदुः = they know
रात्रिं = night
युग = millenniums
सहस्रान्तां = similarly, ending after one thousand
ते = they
अहोरात्र = day and night
विदः = who understand
जनाः = people.
अव्यक्तात् = from the unmanifest
व्यक्तयः = living entities
सर्वः = all
प्रभवन्ति = become manifest
अहरागमे = at the beginning of the day
रात्र्यागमे = at the fall of night
प्रलीयन्ते = are annihilated
तत्र = into that
एव = certainly
अव्यक्त = the unmanifest
संज्ञके = which is called.
भूतग्रामः = the aggregate of all living entities
सः = these
एव = certainly
अयं = this
भूत्वा भूत्वा = repeatedly taking birth
प्रलीयते = is annihilated
रात्रि = of night
आगमे = on the arrival
अवशः = automatically
पार्थ = O son of Pritha
प्रभवति = is manifest
अहः = of daytime
आगमे = on the arrival.
परः = transcendental
तस्मात् = to that
तु = but
भावः = nature
अन्यः = another
अव्यक्तः = unmanifest
अव्यक्तात् = to the unmanifest
सनातनः = eternal
यः सः = that which
सर्वेषु = all
भूतेषु = manifestation
नश्यात्सु = being annihilated
न = never
विनश्यति = is annihilated.
अव्यक्तः = unmanifested
अक्षरः = infallible
इति = thus
उक्तः = is said
तं = that
आहुः = is known
परमां = the ultimate
गतिं = destination
यं = which
प्राप्य = gaining
न = never
निवर्तन्ते = come back
तत् = that
धाम = abode
परमं = supreme
मम = My.
पुरुषः = the Supreme Personality
सः = He
परः = the Supreme, than whom no one is greater
पार्थ = O son of Pritha
भक्त्या = by devotional service
लभ्यः = can be achieved
तु = but
अनन्यया = unalloyed, undeviating
यस्य = whom
अन्तःस्थानि = within
भूतानी = all of this material manifestation
येन = by whom
सर्वं = all
इदं = whatever we can see
ततं = is pervaded.
यत्र = at which
काले = time
तु = and
अनावृत्तिं = no return
आवृत्तिं = return
च = also
एव = certainly
योगिनः = different kinds of mystics
प्रयाताः = having departed
यान्ति = attain
तं = that
कालं = time
वक्ष्यामि = I shall describe
भरतर्षभ = O best of the Bharatas.
अग्निः = fire
ज्योतिः = light
अहः = day
शुक्लः = the white fortnight
षण्मासाः = the six months
उत्तरायणं = when the sun passes on the northern side
तत्र = there
प्रयाताः = those who pass away
गच्छन्ति = go
ब्रह्म = to the Absolute
ब्रह्मविदः = who know the Absolute
जनाः = persons.
धुमः = smoke
रात्रिः = night
तथा = also
कृष्णः = the fortnight of the dark moon
षण्मासाः = the six months
दक्षिणायनं = when the sun passes on the southern side
तत्र = there
चान्द्रमसं = the moon planet
ज्योतिः = the light
योगी = the mystic
प्राप्य = achieving
निवर्तते = comes back.
शुक्ल = light
कृष्णे = and darkness
गति = ways of passing
हि = certainly
एते = these two
जगतः = of the material world
शाश्वते = of the Vedas
मते = in the opinion
एकया = by one
याति = goes
अनावृत्तिं = to no return
अन्यया = by the other
आवर्तते = comes back
पुनः = again.
न = never
एते = these two
सृती = different paths
पार्थ = O son of Pritha
जानन् = even if he knows
योगी = the devotee of the Lord
मुह्यति = is bewildered
कश्चन = any
तस्मात् = therefore
सर्वेषु कालेषु = always
योगयुक्तः = engaged in KRiShNa consciousness
भव = just become
अर्जुन = O Arjuna.
वेदेषु = in the study of the Vedas
यज्ञेषु = in the performances of yajna, sacrifice
तपःसु = in undergoing different types of austerities
च = also
एव = certainly
दानेषु = in giving charities
यत् = that which
पुण्यफलं = result of pious work
प्रदिष्टं = indicated
अत्येति = surpasses
तत् सर्वं = all those
इदं = this
विदित्वा = knowing
योगी = the devotee
परं = supreme
स्थानं = abode
उपैति = achieves
च = also
आद्यं = original.
End of 8.28
श्रीभगवानुवाच = the Supreme Personality of Godhead said
इदं = this
तु = but
ते = unto you
गुह्यतमं = the most confidential
प्रवक्ष्यामि = I am speaking
अनसुयवे = to the nonenvious
ज्ञानं = knowledge
विज्ञान = realized knowledge
सहितं = with
यत् = which
ज्ञात्वा = knowing
मोक्ष्यसे = you will be released
अशुभात् = from this miserable material existence.
राजविद्या = the king of education
राजगुह्यं = the king of confidential knowledge
पवित्रं = the purest
इदं = this
उत्तमं = transcendental
प्रत्यक्ष = by direct experience
अवगमं = understood
धर्म्यं = the principle of religion
सुसुखं = very happy
कर्तुं = to execute
अव्ययं = everlasting.
अश्रद्दधानाः = those who are faithless
पुरुषाः = such persons
धर्मस्य = toward the process of religion
अस्य = this
परन्तप = O killer of the enemies
अप्राप्य = without obtaining
मां = Me
निवर्तन्ते = come back
मृत्यु = of death
संसार = in material existence
वर्त्मनि = on the path.
मया = by Me
ततं = pervaded
इदं = this
सर्वं = all
जगत् = cosmic manifestation
अव्यक्तमूर्तिना = by the unmanifested form
मत्स्थानि = in Me
सर्वभूतानी = all living entities
न = not
च = also
अहं = I
तेषु = in them
अवस्थितः = situated.
न = never
च = also
मत्स्थानि = situated in Me
भूतानि = all creation
पश्य = just see
मे = My
योगमैश्वरं = inconceivable mystic power
भूतभृत् = the maintainer of all living entities
न = never
च = also
भूतस्थः = in the cosmic manifestation
मम = My
आत्मा = Self
भूतभावनः = the source of all manifestations.
यथा = just as
आकाशस्थितः = situated in the sky
नित्यं = always
वायुः = the wind
सर्वत्रगः = blowing everywhere
महान् = great
तथा = similarly
सर्वाणि भूतानि = all created beings
मत्स्थानि = situated in Me
इति = thus
उपधारय = try to understand.
सर्वभूतानि = all created entities
कौन्तेय = O son of Kunti
प्रकृतिं = nature
यान्ति = enter
मामिकां = My
कल्पक्षये = at the end of the millennium
पुनः = again
तानि = all those
कल्पादौ = in the beginning of the millennium
विसृजामि = create
अहं = I.
प्रकृतिं = the material nature
स्वां = of My personal Self
अवष्टभ्य = entering into
विसृजामि = I create
पुनः पुनः = again and again
भूतग्रामं = all the cosmic manifestations
इमं = these
कृत्स्नं = in total
अवसं = automatically
प्रकृतेः = of the force of nature
वशात् = under obligation.
न = never
च = also
मां = Me
तानि = all those
कर्माणि = activities
निबध्नन्ति = bind
धनञ्जय = O conqueror of riches
उदासीनवत् = as neutral
आसिनं = situated
असक्तं = without attraction
तेषु = for those
कर्मसु = activities.
मया = by Me
अध्यक्षेण = by superintendence
प्रकृतिः = material nature
सूयते = manifests
स = with both
चराचरम् = the moving and the nonmoving
हेतुना = for the reason
अनेन = this
कौन्तेय = O son of Kunti
जगत् = the cosmic manifestation
विपरिवर्तते = is working.
अवजानन्ति = deride
मां = Me
मूढाः = foolish men
मानुषीं = in a human form
तनुं = a body
आश्रितं = assuming
परं = transcendental
भावं = nature
अजानन्तः = not knowing
मम = My
भूत = of everything that be
महेश्वरं = the supreme proprietor.
मोघाशाः = baffled in their hopes
मोघकर्माणः = baffled in fruitive activities
मोघज्ञानाः = baffled in knowledge
विचेतसः = bewildered
राक्षसीं = demonic
आसुरीं = atheistic
च = and
एव = certainly
प्रकृतिं = nature
मोहिनीं = bewildering
श्रिताः = taking shelter of.
महात्मानः = the great souls
तु = but
मां = unto Me
पार्थ = O son of Pritha
दैवीं = divine
प्रकृतिं = nature
आश्रिताः = having taken shelter of
भजन्ति = render service
अनन्यमनसः = without deviation of the mind
ज्ञात्वा = knowing
भूत = of creation
आदिं = the origin
अव्ययं = inexhaustible.
सततं = always
कीर्तयन्तः = chanting
मां = about Me
यतन्तः = fully endeavoring
च = also
दृढव्रताः = with determination
नमस्यन्तः = offering obeisances
च = and
मां = Me
भक्त्या = in devotion
नित्ययुक्ताः = perpetually engaged
उपासते = worship.
ज्ञानयज्ञेन = by cultivation of knowledge
च = also
अपि = certainly
अन्ये = others
यजन्तः = sacrificing
मां = Me
उपासते = worship
एकत्वेन = in oneness
पृथक्त्वेन = in duality
बहुधा = in diversity
विश्वतोमुखं = and in the universal form.
अहं = I
क्रतुः = Vedic ritual
अहं = I
यज्ञः = smrti sacrifice
स्वधा = oblation
अहं = I
अहं = I
औषधं = healing herb
मन्त्रः = transcendental chant
अहं = I
अहं = I
एव = certainly
आज्यं = melted butter
अहं = I
अग्निः = fire
अहं = I
हुतं = offering.
पिता = father
अहं = I
अस्य = of this
जगतः = universe
माता = mother
धाता = supporter
पितामहः = grandfather
वेद्यं = what is to be known
पवित्रं = that which purifies
ॐकार = the syllable om
ऋक् = the Rg Veda
साम = the Sama Veda
यजुः = the Yajur Veda
एव = certainly
च = and.
गतिः = goal
भर्ता = sustainer
प्रभुः = Lord
सक्षी = witness
निवासः = abode
शरणं = refuge
सुहृत् = most intimate friend
प्रभवः = creation
प्रलयः = dissolution
स्थानं = ground
निधानं = resting place
बीजं = seed
अव्ययं = imperishable.
तपामि = give heat
अहं = I
अहं = I
वर्षं = rain
निगृह्णामि = withhold
उत्सृजामि = send forth
च = and
अमृतं = immortality
च = and
एव = certainly
मृत्युः = death
च = and
सत् = spirit
असत् = matter
च = and
अहं = I
अर्जुन = O Arjuna.
त्रैविद्यः = the knowers of the three Vedas
मां = Me
सोमपाः = drinkers of soma juice
पूत = purified
पापाः = of sins
यज्ञैः = with sacrifices
इष्ट्वा = worshiping
स्वर्गतिं = passage to heaven
प्रार्थयन्ते = pray for
ते = they
पुण्यं = pious
आसाद्य = attaining
सुरेन्द्र = of Indra
लोकं = the world
अश्नन्ति = enjoy
दिव्यान् = celestial
दिवि = in heaven
देवभोगान् = the pleasures of the gods.
ते = they
तं = that
भुक्त्वा = enjoying
स्वर्गलोकं = heaven
विशालं = vast
क्षीणे = being exhausted
पुण्ये = the results of their pious activities
मर्त्यलोकं = to the mortal earth
विशन्ति = fall down
एवं = thus
त्रयी = of the three Vedas
धर्मं = doctrines
अनुप्रपन्नाः = following
गतागतं = death and birth
कामकामाः = desiring sense enjoyments
लभन्ते = attain.
अनन्याः = having no other object
चिन्तयन्तः = concentrating
मां = on Me
ये = those who
जनाः = persons
पर्युपासते = properly worship
तेषां = of them
नित्य = always
अभियुक्तानां = fixed in devotion
योग = requirements
क्षेमं = protection
वहामि = carry
अहं = I.
ये = those who
अपि = also
अन्य = of other
देवता = gods
भक्ताः = devotees
यजन्ते = worship
श्रद्धयान्विताः = with faith
ते = they
अपि = also
मां = Me
एव = only
कौन्तेय = O son of Kunti
यजन्ति = they worship
अविधिपूर्वकं = in a wrong way.
अहं = I
हि = surely
सर्व = of all
यज्ञानां = sacrifices
भोक्ता = the enjoyer
च = and
प्रभुः = the Lord
एव = also
च = and
न = not
तु = but
मां = Me
अभिजानन्ति = they know
तत्त्वेन = in reality
अतः = therefore
च्यवन्ति = fall down
ते = they.
यान्ति = go
देवव्रताः = worshipers of demigods
देवान् = to the demigods
पितॄन् = to the ancestors
यान्ति = go
पितृव्रताः = worshipers of ancestors
भूतानी = to the ghosts and spirits
यान्ति = go
भूतेज्याः = worshipers of ghosts and spirits
यान्ति = go
मत् = My
यजिनः = devotees
अपि = but
मां = unto Me.
पत्रं = a leaf
पुष्पं = a flower
फलं = a fruit
तोयं = water
यः = whoever
मे = unto Me
भक्त्या = with devotion
प्रयच्छति = offers
तत् = that
अहं = I
भक्त्युपहृतं = offered in devotion
अश्नामि = accept
प्रयतात्मनः = from one in pure consciousness.
यत् = whatever
करोसि = you do
यत् = whatever
अश्नासि = you eat
यत् = whatever
जुहोसि = you offer
ददासि = you give away
यत् = whatever
यत् = whatever
तपस्यसि = austerities you perform
कौन्तेय = O son of Kunti
तत् = that
कुरुष्व = do
मत् = unto Me
अर्पणं = as an offering.
शुभ = from auspicious
अशुभ = and inauspicious
फलैः = results
एवं = thus
मोक्ष्यसे = you will become free
कर्म = of work
बन्धनैः = from the bondage
संन्यास = of renunciation
योग = the yoga
युक्तात्म = having the mind firmly set on
विमुक्तः = liberated
मां = to Me
उपैष्यसि = you will attain.
समः = equally disposed
अहं = I
सर्वभूतेषु = to all living entities
न = no one
मे = to Me
द्वेष्यः = hateful
अस्ति = is
न = nor
प्रियः = dear
ये = those who
भजन्ति = render transcendental service
तु = but
मां = unto Me
भक्त्या = in devotion
मयि = are in Me
ते = such persons
तेषु = in them
च = also
अपि = certainly
अहं = I.
अपि = even
चेत् = if
सुदुराचारः = one committing the most abominable actions
भजते = is engaged in devotional service
मां = unto Me
अनन्यभाक् = without deviation
साधुः = a saint
एव = certainly
सः = he
मन्तव्यः = is to be considered
सम्यक् = completely
व्यवसितः = situated in determination
हि = certainly
सः = he.
क्षिप्रं = very soon
भवति = becomes
धर्मात्मा = righteous
शश्वच्छान्तिं = lasting peace
निगच्छति = attains
कौन्तेय = O son of Kunti
प्रतिजानीहि = declare
न = never
मे = My
भक्तः = devotee
प्रणश्यति = perishes.
मां = of Me
हि = certainly
पार्थ = O son of Pritha
व्यपाश्रित्य = particularly taking shelter
ये = those who
अपि = also
स्युः = are
पापयोनयः = born of a lower family
स्त्रियः = women
वैश्यः = mercantile people
तथा = also
शूद्रः = lower-class men
तेऽपि = even they
यान्ति = go
परां = to the supreme
गतिं = destination.
किं = how much
पुनः = again
ब्राह्मणाः = brahmanas
पुण्याः = righteous
भक्ताः = devotees
राजर्षयः = saintly kings
तथा = also
अनित्यं = temporary
असुखं = full of miseries
लोकं = planet
इमं = this
प्राप्य = gaining
भजस्व = be engaged in loving service
मां = unto Me.
मन्मनाः = always thinking of Me
भव = become
मत् = My
भक्तः = devotee
मत् = My
याजि = worshiper
मां = unto Me
नमस्कुरु = offer obeisances
मां = unto Me
एव = completely
एष्यसि = you will come
युक्त्वा = being absorbed
एवं = thus
आत्मानं = your soul
मत्परायणः = devoted to Me.
End of 9.34
श्रीभगवानुवाच = the Supreme Personality of Godhead said
भूयः = again
एव = certainly
महाबाहो = O mighty-armed
शृणु = just hear
मे = My
परमं = supreme
वचः = instruction
यत् = that which
ते = to you
अहं = I
प्रीयमाणाय = thinking you dear to Me
वक्ष्यामि = say
हितकाम्यया = for your benefit.
न = never
मे = My
विदुः = know
सुरगणाः = the demigods
प्रभवं = origin, opulences
न = never
महर्षयः = great sages
अहं = I am
आदिः = the origin
हि = certainly
देवानां = of the demigods
महर्षीणां = of the great sages
च = also
सर्वशः = in all respects.
यः = anyone who
मां = Me
अजं = unborn
अनादिं = without beginning
च = also
वेत्ति = knows
लोक = of the planets
महेश्वरं = the supreme master
असम्मूढः = undeluded
सः = he
मर्त्येषु = among those subject to death
सर्वपापैः = from all sinful reactions
प्रमुच्यते = is delivered.
बुद्धिः = intelligence
ज्ञानं = knowledge
असम्मोहः = freedom from doubt
क्षमा = forgiveness
सत्यं = truthfulness
दमः = control of the senses
शमः = control of the mind
सुखं = happiness
दुःखं = distress
भवः = birth
अभावः = death
भयं = fear
च = also
अभयं = fearlessness
एव = also
च = and
अहिंसा = nonviolence
समता = equilibrium
तुष्टिः = satisfaction
तपः = penance
दानं = charity
यशः = fame
अयशः = infamy
भवन्ति = come about
भावाः = natures
भूतानां = of living entities
मत्तः = from Me
एव = certainly
पृथग्विधाः = variously arranged.
महर्षयः = the great sages
सप्त = seven
पूर्वे = before
चत्वारः = four
मनवः = Manus
तथा = also
मद्भावाः = born of Me
मानसाः = from the mind
जाताः = born
येषां = of them
लोके = in the world
इमाः = all this
प्रजाः = population.
एतां = all this
विभूतिं = opulence
योगं = mystic power
च = also
मम = of Mine
यः = anyone who
वेत्ति = knows
तत्त्वतः = factually
सः = he
अविकल्पेन = without division
योगेन = in devotional service
युज्यते = is engaged
न = never
अत्र = here
संशयः = doubt.
अहं = I
सर्वस्य = of all
प्रभवः = the source of generation
मत्तः = from Me
सर्वं = everything
प्रवर्तते = emanates
इति = thus
मत्वा = knowing
भजन्ते = become devoted
मां = unto Me
बुधाः = the learned
भावसमन्वितः = with great attention.
मच्चित्ताः = their minds fully engaged in Me
मद्गतप्राणाः = their lives devoted to Me
बोधयन्तः = preaching
परस्परं = among themselves
कथयन्तः = talking
च = also
मां = about Me
नित्यं = perpetually
तुष्यन्ति = become pleased
च = also
रमन्ति = enjoy transcendental bliss
च = also.
तेषां = unto them
सततयुक्तानां = always engaged
भजतां = in rendering devotional service
प्रीतिपूर्वकं = in loving ecstasy
ददामि = I give
बुद्धियोगं = real intelligence
तं = that
येन = by which
मां = unto Me
उपयान्ति = come
ते = they.
तेषां = for them
एव = certainly
अनुकम्पार्थं = to show special mercy
अहं = I
अज्ञानजं = due to ignorance
तमः = darkness
नाशयामि = dispel
आत्मभाव = within their hearts
स्थः = situated
ज्ञान = of knowledge
दीपेन = with the lamp
भास्वता = glowing.
अर्जुन उवाच = Arjuna said
परं = supreme
ब्रह्म = truth
परं = supreme
धाम = sustenance
पवित्रं = pure
परमं = supreme
भवान् = You
पुरुषं = personality
शाश्वतं = original
दिव्यं = transcendental
आदिदेवं = the original Lord
अजं = unborn
विभुं = greatest
आहुः = say
त्वां = of You
ऋषयः = sages
सर्वे = all
देवर्षिः = the sage among the demigods
नारदः = Narada
तथा = also
असितः = Asita
देवलः = Devala
व्यासः = Vyasa
स्वयं = personally
च = also
एव = certainly
ब्रवीषि = You are explaining
मे = unto me.
सर्वं = all
एतत् = this
ऋतं = truth
मन्ये = I accept
यत् = which
मां = unto me
वदसि = You tell
केशव = O KRiShNa
न = never
हि = certainly
ते = Your
भगवान् = O Personality of Godhead
व्यक्तिं = revelation
विदुः = can know
देवाः = the demigods
न = nor
दानवः = the demons.
स्वयं = personally
एव = certainly
आत्मना = by Yourself
आत्मानं = Yourself
वेत्थ = know
त्वं = You
पुरुषोत्तम = O greatest of all persons
भूतभावन = O origin of everything
भूतेश = O Lord of everything
देवदेव = O Lord of all demigods
जगत्पते = O Lord of the entire universe.
वक्तुं = to say
अर्हसि = You deserve
अशेषेण = in detail
दिव्याः = divine
हि = certainly
आत्म = Your own
विभूतयः = opulences
याभिः = by which
विभूतिभिः = opulences
लोकान् = all the planets
इमान् = these
त्वां = You
व्याप्य = pervading
तिष्ठसि = remain.
कथं = how
विद्यामहं = shall I know
योगिन् = O supreme mystic
त्वां = You
सदा = always
परिचिन्तयन् = thinking of
केषु = in which
केषु = in which
च = also
भावेषु = natures cintyah
असि = You are to be remembered
भगवन् = O Supreme
मया = by me.
विस्तरेण = in detail
आत्मनः = Your
योगं = mystic power
विभूतिं = opulences
च = also
जनार्दन = O killer of the atheists
भूयः = again
कथय = describe
तृप्तिः = satisfaction
हि = certainly
शृण्वतः = hearing
नास्ति = there is not
मे = my
अमृतं = nectar.
श्रीभगवानुवाच = the Supreme Personality of Godhead said
हन्त = yes
ते = unto you
कथयिष्यामि = I shall speak
दिव्याः = divine
हि = certainly
आत्मविभूतयः = personal opulences
प्राधान्यतः = which are principal
कुरुश्रेष्ठ = O best of the Kurus
नास्ति = there is not
अन्तः = limit
विस्तरस्य = to the extent
मे = My.
अहं = I
आत्मा = the soul
गुडाकेश = O Arjuna
सर्वभूत = of all living entities
आशयस्थिताः = situated within the heart
अहं = I am
आदिः = the origin
च = also
मध्यं = middle
च = also
भूतानां = of all living entities
अन्तः = end
एव = certainly
च = and.
आदित्यानां = of the Adityas
अहं = I am
विष्णुः = the Supreme Lord
ज्योतीषां = of all luminaries
रविः = the sun
अंशुमान् = radiant
मरीचिः = Marici
मरुतां = of the Maruts
अस्मि = I am
नक्षत्राणां = of the stars
अहं = I am
शशी = the moon.
वेदानां = of all the Vedas
सामवेदः = the Sama Veda
अस्मि = I am
देवानां = of all the demigods
अस्मि = I am
वासवः = the heavenly king
इन्द्रियाणां = of all the senses
मनः = the mind
च = also
अस्मि = I am
भूतानां = of all living entities
अस्मि = I am
चेतना = the living force.
रुद्राणां = of all the Rudras
शङ्करः = Lord Siva
च = also
अस्मि = I am
वित्तेशः = the lord of the treasury of the demigods
यक्षरक्षसां = of the Yaksas and Raksasas
वसौनां = of the Vasus
पावकः = fire
च = also
अस्मि = I am
मेरुः = Meru
शिखरिणां = of all mountains
अहं = I am.
पुरोधसां = of all priests
च = also
मुख्यं = the chief
मां = Me
विद्धि = understand
पार्थ = O son of Pritha
बृहस्पतिं = Brhaspati
सेनानीनां = of all commanders
अहं = I am
स्कन्दः = Kartikeya
सरसां = of all reservoirs of water
अस्मि = I am
सागरः = the ocean.
महर्षीणां = among the great sages
भृगुः = Bhrigu
अहं = I am
गिरां = of vibrations
अस्मि = I am
एकमक्षरं = pranava
यज्ञानां = of sacrifices
जपयज्ञः = chanting
अस्मि = I am
स्थावराणां = of immovable things
हिमालयः = the Himalayan mountains.
अश्वत्थः = the banyan tree
सर्ववृक्षाणां = of all trees
देवर्षीणां = of all the sages amongst the demigods
च = and
नारदः = Narada
गन्धर्वाणां = of the citizens of the Gandharva planet
चित्ररथः = Citraratha
सिद्धानां = of all those who are perfected
कपिलः मुनिः = Kapila Muni.
उच्चैःश्रवसं = Uccaihsrava
अश्वानां = among horses
विद्धि = know
मां = Me
अमृतोद्भवं = produced from the churning of the ocean
ऐरावतं = Airavata
गजेन्द्राणां = of lordly elephants
नराणां = among human beings
च = and
नराधिपं = the king.
आयुधानां = of all weapons
अहं = I am
वज्रं = the thunderbolt
धेनूनां = of cows
अस्मि = I am
कामधुक् = the surabhi cow
प्रजनः = the cause for begetting children
च = and
अस्मि = I am
कन्दर्पः = Cupid
सर्पाणां = of serpents
अस्मि = I am
वासुकिः = Vasuki.
अनन्तः = Ananta
च = also
अस्मि = I am
नागानां = of the manyhooded serpents
वरुणः = the demigod controlling the water
यादसां = of all aquatics
अहं = I am
पितॄणां = of the ancestors
अर्यमा = Aryama
च = also
अस्मि = I am
यमः = the controller of death
संयमतां = of all regulators
अहं = I am.
प्रह्लादः = Prahlada
च = also
अस्मि = I am
दैत्यानां = of the demons
कालः = time
कलयतां = of subduers
अहं = I am
मृगाणां = of animals
च = and
मृगेन्द्रः = the lion
अहं = I am
वैनतेयः = Garuda
च = also
पक्षिणां = of birds.
पवनः = the wind
पवतां = of all that purifies
अस्मि = I am
रामः = Rama
शस्त्रभृतां = of the carriers of weapons
अहं = I am
झषाणां = of all fish
मकरः = the shark
च = also
अस्मि = I am
स्रोतसां = of flowing rivers
अस्मि = I am
जाह्नवी = the River Ganges.
सर्गाणां = of all creations
आदिः = the beginning
अन्तः = end
च = and
मध्यं = middle
च = also
एव = certainly
अहं = I am
अर्जुन = O Arjuna
अध्यात्मविद्या = spiritual knowledge
विद्यानां = of all education
वादः = the natural conclusion
प्रवदतां = of arguments
अहं = I am.
अक्षराणां = of letters
अकारः = the first letter
अस्मि = I am
द्वन्द्वः = the dual
सामासिकस्य = of compounds
च = and
अहं = I am
एव = certainly
अक्षयः = eternal
कालः = time
धाता = the creator
अहं = I am
विश्वतोमुखः = Brahma.
मृत्युः = death
सर्वहरः = all-devouring
च = also
अहं = I am
उद्भवः = generation
च = also
भविष्यतां = of future manifestations
कीर्तिः = fame
श्रीः = opulence or beauty
वाक् = fine speech
च = also
नारीणां = of women
स्मृतिः = memory
मेधा = intelligence
धृतिः = firmness
क्षमा = patience.
बृहत्साम = the BrAhat-sama
तथा = also
साम्नं = of the Sama Veda songs
गायत्री = the Gayatri hymns
छन्दसां = of all poetry
अहं = I am
मासानां = of months
मार्गशीर्षः = the month of November-December
अहं = I am
ऋतूनां = of all seasons
कुसुमाकरः = spring.
द्युतं = gambling
छलयतां = of all cheats
अस्मि = I am
तेजः = the splendor
तेजस्विनां = of everything splendid
अहं = I am
जयः = victory
अस्मि = I am
व्यवसायः = enterprise or adventure
अस्मि = I am
सत्त्वं = the strength
सत्त्ववतं = of the strong
अहं = I am.
वृष्णीनां = of the descendants of VRiShNi
वासुदेवः = KRiShNa in Dvaraka
अस्मि = I am
पाण्डवानां = of the Pandavas
धनञ्जयः = Arjuna
मुनीनां = of the sages
अपि = also
अहं = I am
व्यासः = Vyasa, the compiler of all Vedic literature
कवीनां = of all great thinkers
उशना = Usana
कविः = the thinker.
दंडः = punishment
दमयतां = of all means of suppression
अस्मि = I am
नीतिः = morality
अस्मि = I am
जिगिषतां = of those who seek victory
मौनं = silence
च = and
एव = also
अस्मि = I am
गुह्यानां = of secrets
ज्ञानं = knowledge
ज्ञानवतां = of the wise
अहं = I am.
यत् = whatever
च = also
अपि = may be
सर्वभूतानां = of all creations
बीजं = seed
तत् = that
अहं = I am
अर्जुन = O Arjuna
न = not
तत् = that
अस्ति = there is
विना = without
यत् = which
स्यात् = exists
मया = Me
भूतं = created being
चराचरं = moving and nonmoving.
न = nor
अन्तः = a limit
अस्ति = there is
मम = My
दिव्यानां = of the divine
विभूतिनां = opulences
परन्तप = O conqueror of the enemies
एषः = all this
तु = but
उद्देशतः = as examples
प्रोक्ताः = spoken
विभूतेः = of opulences
विस्तरः = the expanse
मया = by Me.
यद्यत् = whatever
विभूति = opulences
मत् = having
सत्त्वं = existence
श्रीमत् = beautiful
उर्जितं = glorious
एव = certainly
वा = or
तत् तत् = all those
एव = certainly
अवगच्छ = must know
त्वं = you
मम = My
तेजः = of the splendor
अंश = a part
सम्भवं = born of.
अथवा = or
बहुना = many
एतेन = by this kind
किं = what
ज्ञातेन = by knowing
तव = your
अर्जुन = O Arjuna
विष्टभ्य = pervading
अहं = I
इदं = this
कृत्स्नं = entire
एक = by one
अंशेन = part
स्थिताः = am situated
जगत् = universe.
End of 10.41
अर्जुन उवाच = Arjuna said
मदनुग्रहाय = just to show me favor
परमं = supreme
गुह्यं = confidential subject
अध्यात्म = spiritual
संज्ञितं = in the matter of
यत् = what
त्वया = by You
उक्तं = said
वचः = words
तेन = by that
मोहः = illusion
अयं = this
विगतः = is removed
मम = my.
भव = appearance
अप्ययौ = disappearance
हि = certainly
भूतानां = of all living entities
श्रुतौ = have been heard
विस्तरशः = in detail
मया = by me
त्वत्तः = from You
कमलपत्राक्ष = O lotus-eyed one
माहात्म्यं = glories
अपि = also
च = and
अव्ययं = inexhaustible.
एवं = thus
एतत् = this
यथा = as it is
आत्थ = have spoken
त्वं = You
आत्मानं = Yourself
परमेश्वर = O Supreme Lord
द्रष्टुं = to see
इच्छामि = I wish
ते = Your
रूपं = form
ऐश्वरं = divine
पुरुषोत्तम = O best of personalities.
मन्यसे = You think
यदि = if
तत् = that
शक्यं = is able
मया = by me
द्रष्टुं = to be seen
इति = thus
प्रभो = O Lord
योगेश्वर = O Lord of all mystic power
ततः = then
मे = unto me
त्वं = You
दर्शय = show
आत्मानं = Your Self
अव्ययं = eternal.
श्रीभगवानुवाच = the Supreme Personality of Godhead said
पश्य = just see
मे = My
पार्थ = O son of Pritha
रूपाणि = forms
शतशः = hundreds
अथ = also
सहस्रशः = thousands
नानाविधानि = variegated
दिव्यानि = divine
नाना = variegated
वर्ण = colors
आकृतीनि = forms
च = also.
पश्य = see
आदित्यान् = the twelve sons of Aditi
वसुन् = the eight Vasus
रुद्रान् = the eleven forms of Rudra
अश्विनौ = the two Asvinis
मरुतः = the forty-nine Maruts (demigods of the wind)
तथा = also
बहूनि = many
अदृष्ट = that you have not seen
पूर्वाणि = before
पश्य = see
आश्चर्याणि = all the wonders
भारत = O best of the Bharatas.
इह = in this
एकस्थं = in one place
जगत् = the universe
कृत्स्नं = completely
पश्य = see
आद्य = immediately
स = with
चर = the moving
अचरं = and not moving
मम = My
देहे = in this body
गुडाकेश = O Arjuna
यत् = that which
च = also
अन्यत् = other
द्रष्टुं = to see
इच्छसि = you wish.
न = never
तु = but
मां = Me
शक्यसे = are able
द्रष्टुं = to see
अनेन = with these
एव = certainly
स्वचक्षुषा = your own eyes
दिव्यं = divine
ददामि = I give
ते = to you
चक्षुः = eyes
पश्य = see
मे = My
योगमैश्वरं = inconceivable mystic power.
सञ्जय उवाच = Sanjaya said
एवं = thus
उक्त्वा = saying
ततः = thereafter
राजन् = O King
महायोगेश्वरः = the most powerful mystic
हरिः = the Supreme Personality of Godhead, KRiShNa
दर्शयामास = showed
पार्थाय = unto Arjuna
परमं = the divine
रूपमैश्वरं = universal form.
अनेक = various
वक्त्र = mouths
नयनं = eyes
अनेक = various
अद्भुत = wonderful
दर्शनं = sights
अनेक = many
दिव्य = divine
आभरणं = ornaments
दिव्य = divine
अनेक = various
उद्यत = uplifted
आयुधं = weapons
दिव्य = divine
माल्य = garlands
अम्बर = dresses
धरं = wearing
दिव्य = divine
गन्ध = fragrances
अनुलेपनं = smeared with
सर्व = all
आश्चर्यमयं = wonderful
देवं = shining
अनन्तं = unlimited
विश्वतोमुखं = all-pervading.
दिवि = in the sky
सूर्य = of suns
सहस्रस्य = of many thousands
भवेत् = there were
युगपत् = simultaneously
उत्थिता = present
यदि = if
भाः = light
सदृशी = like that
स = that
स्यात् = might be
भासः = effulgence
तस्य = of Him
महात्मनः = the great Lord.
तत्र = there
एकस्थं = in one place
जगत् = the universe
कृत्स्नं = complete
प्रविभक्तं = divided
अनेकधा = into many
अपश्यत् = could see
देवदेवस्य = of the Supreme Personality of Godhead
शरीरे = in the universal form
पाण्डवः = Arjuna
तदा = at that time.
ततः = thereafter
सः = he
विस्मयाविष्टः = being overwhelmed with wonder
हृष्टरोमा = with his bodily hairs standing on end due to his great ecstasy
धनञ्जयः = Arjuna
प्रणम्य = offering obeisances
शिरसा = with the head
देवं = to the Supreme Personality of Godhead
कृताञ्जलिः = with folded hands
अभाषत = began to speak.
अर्जुन उवाच = Arjuna said
पश्यामि = I see
देवान् = all the demigods
तव = Your
देव = O Lord
देहे = in the body
सर्वान् = all
तथा = also
भूत = living entities
विशेषसङ्घान् = specifically assembled
ब्रह्माणं = Lord Brahma
ईशं = Lord Siva
कमलासनस्थं = sitting on the lotus flower
ऋषिन् = great sages
च = also
सर्वान् = all
उरगान् = serpents
च = also
दिव्यान् = divine.
अनेक = many
बाहु = arms
उदर = bellies
वक्त्र = mouths
नेत्रं = eyes
पश्यामि = I see
त्वं = You
सर्वतः = on all sides
अनन्तरूपं = unlimited form
नान्तं = no end
न मध्यं = no middle
न पुनः = nor again
तव = Your
आदिं = beginning
पश्यामि = I see
विश्वेश्वर = O Lord of the universe
विश्वरूप = in the form of the universe.
किरीटिनं = with helmets
गदिनं = with maces
चक्रिणं = with discs
च = and
तेजोराशिं = effulgence
सर्वतः = on all sides
दीप्तिमन्तं = glowing
पश्यामि = I see
त्वां = You
दुर्निरीक्ष्यं = difficult to see
समन्तात् = everywhere
दीप्तानल = blazing fire
अर्क = of the sun
द्युतिं = the sunshine
अप्रमेयं = immeasurable.
त्वं = You
अक्षरं = the infallible
परमं = supreme
वेदितव्यं = to be understood
त्वं = You
अस्य = of this
विश्वस्य = universe
परं = supreme
निधानं = basis
त्वं = You
अव्ययः = inexhaustible
शाश्वतधर्मगोप्ता = maintainer of the eternal religion
सनातनः = eternal
त्वं = You
पुरुषः = the Supreme Personality
मतः मे = this is my opinion.
अनादि = without beginning
मध्य = middle
अन्तं = or end
अनन्त = unlimited
वीर्यां = glories
अनन्त = unlimited
बाहुं = arms
शशी = the moon
सूर्य = and sun
नेत्रं = eyes
पश्यामि = I see
त्वां = You
दीप्त = blazing
हुताशवक्त्रं = fire coming out of Your mouth
स्वतेजसा = by Your radiance
विश्वं = universe
इदं = this
तपन्तं = heating.
द्यौ = from outer space
अपृथिव्योः = to the earth
इदं = this
अन्तरं = between
हि = certainly
व्याप्तं = pervaded
त्वया = by You
एकेन = alone
दिशः = directions
च = and
सर्वाः = all
दृष्ट्वा = by seeing
अद्भुतं = wonderful
रूपं = form
उग्रं = terrible
तव = Your
इदं = this
लोक = the planetary systems
त्रयं = three
प्रव्यथितं = perturbed
महात्मन् = O great one.
अमी = all those
हि = certainly
त्वां = You
सुरसङ्घाः = groups of demigods
विशन्ति = are entering
केचित् = some of them
भिताः = out of fear
प्राञ्जलयः = with folded hands
गृणन्ति = are offering prayers
स्वस्ति = all peace
इति = thus
उक्त्वा = speaking
महर्षि = great sages
सिद्धसङ्घाः = perfect beings
स्तुवन्ति = are singing hymns
त्वां = unto You
स्तुतिभिः = with prayers
पुष्कलाभिः = Vedic hymns.
रुद्र = manifestations of Lord Siva
आदित्यः = the Adityas
वसवः = the Vasus
ये = all those
च = and
साध्याः = the Sadhyas
विश्वे = the Visvedevas
अश्विनौ = the Asvini-kumaras
मरुतः = the Maruts
च = and
उष्मपाः = the forefathers
च = and
गन्धर्व = of the Gandharvas
यक्ष = the Yaksas
असुर = the demons
सिद्ध = and the perfected demigods
सङ्घाः = the assemblies
वीक्षन्ते = are beholding
त्वां = You
विस्मिताः = in wonder
च = also
एव = certainly
सर्वे = all.
रूपं = the form
महत् = very great
ते = of You
बहु = many
वक्त्र = faces
नेत्रं = and eyes
महाबाहो = O mighty-armed one
बहु = many
बाहु = arms
उरु = thighs
पादं = and legs
बहूदरं = many bellies
बहुदंष्ट्रा = many teeth
करालं = horrible
दृष्ट्वा = seeing
लोकाः = all the planets
प्रव्यथिताः = perturbed
तथा = similarly
अहं = I.
नभःस्पृशं = touching the sky
दीप्तं = glowing
अनेक = many
वर्णं = colors
व्यत्त = open
आननं = mouths
दीप्त = glowing
विशाल = very great
नेत्रं = eyes
दृष्ट्वा = seeing
हि = certainly
त्वां = You
प्रव्यथित = perturbed
अन्तः = within
आत्मा = soul
धृतिं = steadiness
न = not
विन्दामि = I have
शमं = mental tranquillity
च = also
विष्णो = O Lord Visnu.
दंष्ट्रा = teeth
करालानि = terrible
च = also
ते = Your
मुखानि = faces
दृष्ट्वा = seeing
एव = thus
कालानल = the fire of death
सन्निभानि = as if
दिशः = the directions
न = not
जाने = I know
न = not
लभे = I obtain
च = and
शर्म = grace
प्रसीद = be pleased
देवेश = O Lord of all lords
जगन्निवास = O refuge of the worlds.
अमी = these
च = also
त्वां = You
धृतराष्ट्रस्य = of Dhritarashtra
पुत्राः = the sons
सर्वे = all
सह = with
एव = indeed
अवनिपाल = of warrior kings
सङ्घैः = the groups
भीष्मः = Bhishmadeva
द्रोणः = Dronacarya
सूतपुत्रः = Karna
तथा = also
असौ = that
सह = with
अस्मदीयैः = our
अपि = also
योधमुख्यैः = chiefs among the warriors
वक्त्राणि = mouths
ते = Your
त्वरमाणाः = rushing
विशन्ति = are entering
दंष्ट्रा = teeth
करालानि = terrible
भयानकानि = very fearful
केचित् = some of them
विलग्नाः = becoming attached
दशनान्तरेषु = between the teeth
सन्दृश्यन्ते = are seen
चूर्णितैः = with smashed
उत्तमाङ्गैः = heads.
यथा = as
नदीनां = of the rivers
बहवः = the many
अम्बुवेगाः = waves of the waters
समुद्रं = the ocean
एव = certainly
अभिमुखाः = towards
द्रवन्ति = glide
तथा = similarly
तव = Your
अमी = all these
नरलोकवीराः = kings of human society
विशन्ति = are entering
वक्त्राणि = the mouths
अभिविज्वलन्ति = and are blazing.
यथा = as
प्रदीप्तं = blazing
ज्वलनं = a fire
पतङ्गाः = moths
विशन्ति = enter
नाशाय = for destruction
समृद्ध = with full
वेगाः = speed
तथैव = similarly
नाशाय = for destruction
विशन्ति = are entering
लोकाः = all people
तव = Your
अपि = also
वक्त्राणि = mouths
समृद्धवेगः = with full speed.
लेलिह्यसे = You are licking
ग्रसमानः = devouring
समन्तात् = from all directions
लोकान् = people
समग्रान् = all
वदनैः = by the mouths
ज्वलद्भिः = blazing
तेजोभिः = by effulgence
आपूर्य = covering
जगत् = the universe
समग्रं = all
भासः = rays
तव = Your
उग्रः = terrible
प्रतपन्ति = are scorching
विष्णो = O all-pervading Lord.
आख्याहि = please explain
मे = unto me
कः = who
भवान् = You
उग्ररूपः = fierce form
नमः अस्तु = obeisances
ते = unto You
देववर = O great one amongst the demigods
प्रसीद = be gracious
विज्ञातुं = to know
इच्छामि = I wish
भवन्तं = You
आद्यं = the original
न = not
हि = certainly
प्रजानामि = do I know
तव = Your
प्रवृत्तिं = mission.
श्रीभगवानुवाच = the Personality of Godhead said
कालः = time
अस्मि = I am
लोक = of the worlds
क्षयकृत् = the destroyer
प्रवृद्धः = great
लोकान् = all people
समाहर्तुं = in destroying
इह = in this world
प्रवृत्तः = engaged
ऋते = without, except for
अपि = even
त्वां = you
न = never
भविष्यन्ति = will be
सर्वे = all
ये = who
अवस्थिताः = situated
प्रत्यानीकेषु = on the opposite sides
योधाः = the soldiers.
तस्मात् = therefore
त्वं = you
उत्तिष्ठ = get up
यशः = fame
लभस्व = gain
जित्वा = conquering
शत्रुन् = enemies
भुङ्क्ष्व = enjoy
राज्यं = kingdom
समृद्धं = flourishing
मया = by Me
एव = certainly
एते = all these
निहताः = killed
पूर्वमेव = by previous arrangement
निमित्तमात्रं = just the cause
भव = become
सव्यसाचिन् = O Savyasaci.
द्रोणं च = also Drona
भीष्मं च = also Bhishma
जयद्रथं च = also Jayadratha
कर्णं = Karna
तथा = also
अन्यान् = others
अपि = certainly
योधवीरान् = great warriors
मया = by Me
हतान् = already killed
त्वं = you
जहि = destroy
मा = do not
व्यथिष्ठाः = be disturbed
युध्यस्व = just fight
जेतासि = you will conquer
रणे = in the fight
सपत्नान् = enemies.
सञ्जय उवाच = Sanjaya said
एतत् = thus
श्रुत्वा = hearing
वचनं = the speech
केशवस्य = of KRiShNa
कृताञ्जलिः = with folded hands
वेपमानः = trembling
किरीटिन् = Arjuna
नमस्कृत्वा = offering obeisances
भूयः = again
एव = also
अह = said
कृष्णं = unto KRiShNa
सगद्गदं = with a faltering voice
भीतभीतः = fearful
प्रणम्य = offering obeisances.
अर्जुन उवाच = Arjuna said
स्थाने = rightly
हृषीकेश = O master of all senses
तव = Your
प्रकीर्त्य = by the glories
जगत् = the entire world
प्रहृष्यति = is rejoicing
अनुरज्यते = is becoming attached
च = and
रक्षांसि = the demons
भीतानि = out of fear
दिशः = in all directions
द्रवन्ति = are fleeing
सर्वे = all
नमस्यन्ति = are offering respects
च = also
सिद्धसङ्घाः = the perfect human beings.
कस्मात् = why
च = also
ते = unto You
न = not
नमेरन् = they should offer proper obeisances
महात्मन् = O great one
गरीयसे = who are better
ब्रह्मणः = than Brahma
अपि = although
आदिकर्त्रे = to the supreme creator
अनन्त = O unlimited
देवेश = O God of the gods
जगन्निवास = O refuge of the universe
त्वं = You are
अक्षरं = imperishable
सदसत् = to cause and effect
तत्परं = transcendental
यत् = because.
त्वं = You
आदिदेवः = the original Supreme God
पुरुषः = personality
पुराणः = old
त्वं = You
अस्य = of this
विश्वस्य = universe
परं = transcendental
निधानं = refuge
वेत्त = the knower
असि = You are
वेद्यं = the knowable
च = and
परं = transcendental
च = and
धाम = refuge
त्वया = by You
ततं = pervaded
विश्वं = the universe
अनन्तरूप = O unlimited form.
वायुः = air
यमः = the controller
अग्निः = fire
वरुणः = water
शशाङ्कः = the moon
प्रजापतिः = Brahma
त्वं = You
प्रपितामहः = the great-grandfather
च = also
नमः = my respects
नमः = again my respects
ते = unto You
अस्तु = let there be
सहस्रकृत्वः = a thousand times
पुनश्च = and again
भूयः = again
अपि = also
नमः = offering my respects
नमस्ते = offering my respects unto You.
नमः = offering obeisances
पुरस्तात् = from the front
अथ = also
पृष्ठतः = from behind
ते = unto You
नमः अस्तु = I offer my respects
ते = unto You
सर्वतः = from all sides
एव = indeed
सर्व = because You are everything
अनन्तवीर्या = unlimited potency
अमितविक्रमः = and unlimited force
त्वं = You
सर्वं = everything
समाप्नोषि = You cover
ततः = therefore
असि = You are
सर्वः = everything.
सखा = friend
इति = thus
मत्वा = thinking
प्रसभं = presumptuously
यत् = whatever
उक्तं = said
हे कृष्ण = O KRiShNa
हे यादव = O Yadava
हे सखे = O my dear friend
इति = thus
अजानता = without knowing
महिमानं = glories
तव = Your
इदं = this
मया = by me
प्रमादात् = out of foolishness
प्रणयेन = out of love
वापि = either
यत् = whatever
च = also
अवहासार्थं = for joking
असत्कृतः = dishonored
असि = You have been
विहार = in relaxation
शय्या = in lying down
आसन = in sitting
भोजनेषु = or while eating together
एकः = alone
अथवा = or
अपि = also
अच्युत = O infallible one
तत्समक्षं = among companions
तत् = all those
क्षामये = ask forgiveness
त्वं = from You
अहं = I
अप्रमेयं = immeasurable.
पिता = the father
असि = You are
लोकस्य = of all the world
चर = moving
अचरस्य = and nonmoving
त्वं = You are
अस्य = of this
पूज्यः = worshipable
च = also
गुरुः = master
गरीयान् = glorious
न = never
त्वत्समः = equal to You
अस्ति = there is
अभ्यधिकः = greater
कुतः = how is it possible
अन्यः = other
लोकत्रये = in the three planetary systems
अपि = also
अप्रतिमप्रभाव = O immeasurable power.
तस्मात् = therefore
प्रणम्य = offering obeisances
प्रणिधाय = laying down
कायं = the body
प्रसादये = to beg mercy
त्वं = unto You
अहं = I
ईशं = unto the Supreme Lord
इड्यं = worshipable
पितेव = like a father
पुत्रस्य = with a son
सखैव = like a friend
सख्युः = with a friend
प्रियः = a lover
प्रियायाः = with the dearmost
अर्हसि = You should
देव = my Lord
सोढुं = tolerate.
अदृष्टपूर्वं = never seen before
हृषितः = gladdened
अस्मि = I am
दृष्ट्वा = by seeing
भयेन = out of fear
च = also
प्रव्यथितं = perturbed
मनः = mind
मे = my
तत् = that
एव = certainly
मे = unto me
दर्शय = show
देव = O Lord
रूपं = the form
प्रसीद = just be gracious
देवेश = O Lord of lords
जगन्निवास = O refuge of the universe.
किरीटिनं = with helmet
गदिनं = with club
चक्रहस्तं = disc in hand
इच्छामि = I wish
त्वां = You
द्रष्टुं = to see
अहं = I
तथैव = in that position
तेनैव = in that
रूपेण = form
चतुर्भुजेन = four-handed
सहस्रबाहो = O thousand-handed one
भव = just become
विश्वमूर्ते = O universal form.
श्रीभगवानुवाच = the Supreme Personality of Godhead said
मया = by Me
प्रसन्नेन = happily
तव = unto you
अर्जुन = O Arjuna
इदं = this
रूपं = form
परं = transcendental
दर्शितं = shown
आत्मयोगात् = by My internal potency
तेजोमयं = full of effulgence
विश्वं = the entire universe
अनन्तं = unlimited
आद्यं = original
यत् = that which
मे = My
त्वदन्येन = besides you
न दृष्टपूर्वं = no one has previously seen.
न = never
वेदयज्ञ = by sacrifice
अध्ययनैः = or Vedic study
न = never
दानैः = by charity
न = never
च = also
क्रियाभिः = by pious activities
न = never
तपोभिः = by serious penances
उग्रैः = severe
एवं रूपः = in this form
शक्यः = can
अहं = I
नृलोके = in this material world
द्रष्टुं = be seen
त्वत् = than you
अन्येन = by another
कुरुप्रवीर = O best among the Kuru warriors.
मा = let it not be
ते = unto you
व्यथा = trouble
मा = let it not be
च = also
विमूढभावः = bewilderment
दृष्ट्वा = by seeing
रूपं = form
घोरं = horrible
इदृक् = as it is
मम = My
इदं = this
व्यपेतभीः = free from all fear
प्रीतमनाः = pleased in mind
पुनः = again
त्वं = you
तत् = that
एव = thus
मे = My
रूपं = form
इदं = this
प्रपश्य = just see.
सञ्जय उवाच = Sanjaya said
इति = thus
अर्जुनं = unto Arjuna
वासुदेवाः = KRiShNa
तथा = in that way
उक्त्वा = speaking
स्वकं = His own
रूपं = form
दर्शयामास = showed
भूयः = again
आश्वासयामास = encouraged
च = also
भीतं = fearful
एनं = him
भूत्वा = becoming
पुनः = again
सौम्यवपुः = the beautiful form
महात्मा = the great one.
अर्जुन उवाच = Arjuna said
दृष्ट्वा = seeing
इदं = this
मानुषं = human
रूपं = form
तव = Your
सौम्यं = very beautiful
जनार्दन = O chastiser of the enemies
इदानीं = now
अस्मि = I am
संवृत्तः = settled
सचेताः = in my consciousness
प्रकृतिं = to my own nature
गतः = returned.
श्रीभगवानुवाच = the Supreme Personality of Godhead said
सुदुर्दर्शं = very difficult to see
इदं = this
रूपं = form
दृष्टवानसि = as you have seen
यत् = which
मम = of Mine
देवाः = the demigods
अपि = also
अस्य = this
रूपस्य = form
नित्यं = eternally
दर्शनकाङ्क्षिणः = aspiring to see.
न = never
अहं = I
वेदैः = by study of the Vedas
न = never
तपसा = by serious penances
न = never
दानेन = by charity
न = never
च = also
इज्यया = by worship
शक्यः = it is possible
एवंविधाः = like this
द्रष्टुं = to see
दृष्टवान् = seeing
असि = you are
मां = Me
यथा = as.
भक्त्या = by devotional service
तु = but
अनन्यया = without being mixed with fruitive activities or speculative knowledge
शक्यः = possible
अहं = I
एवंविधः = like this
अर्जुन = O Arjuna
ज्ञातुं = to know
द्रष्टुं = to see
च = and
तत्त्वेन = in fact
प्रवेष्टुं = to enter into
च = also
परन्तप = O mighty-armed one.
मत्कर्मकृत् = engaged in doing My work
मत्परमः = considering Me the Supreme
मद्भक्तः = engaged in My devotional service
संगवर्जितः = freed from the contamination of fruitive activities and mental speculation
निर्वैरः = without an enemy
सर्वभूतेषु = among all living entities
यः = one who
सः = he
मां = unto Me
एति = comes
पाण्डव = O son of Pandu.
End of 11.55
अर्जुन उवाच = Arjuna said
एवं = thus
सतत = always
युक्तः = engaged
ये = those who
भक्ताः = devotees
त्वां = You
पर्युपासते = properly worship
ये = those who
च = also
अपि = again
अक्षरं = beyond the senses
अव्यक्तं = the unmanifested
तेषां = of them
के = who
योगवित्तमाः = the most perfect in knowledge of yoga.
श्रीभगवानुवाच = the Supreme Personality of Godhead said
मयि = upon Me
आवेश्य = fixing
मनः = the mind
ये = those who
मां = Me
नित्य = always
युक्ताः = engaged
उपासते = worship
श्रद्धया = with faith
परया = transcendental
उपेतः = endowed
ते = they
मे = by Me
युक्ततमाः = most perfect in yoga
मताः = are considered.
ये = those who
तु = but
अक्षरं = that which is beyond the perception of the senses
अनिर्देश्यं = indefinite
अव्यक्तं = unmanifested
पर्युपासते = completely engage in worshiping
सर्वत्रगं = all-pervading
अचिन्त्यं = inconceivable
च = also
कूटस्थं = unchanging
अचलं = immovable
ध्रुवं = fixed
सन्नियम्य = controlling
इन्द्रियग्रामं = all the senses
सर्वत्र = everywhere
समबुद्धयः = equally disposed
ते = they
प्राप्नुवन्ति = achieve
मां = Me
एव = certainly
सर्वभूतहिते = for the welfare of all living entities
रताः = engaged.
क्लेशः = trouble
अधिकतरः = very much
तेषां = of them
अव्यक्त = to the unmanifested
असक्त = attached
चेतसां = of those whose minds
अव्यक्ता = toward the unmanifested
हि = certainly
गतिः = progress
दुःखं = with trouble
देहवद्भिः = by the embodied
अवाप्यते = is achieved.
ये = those who
तु = but
सर्वाणि = all
कर्माणि = activities
मयि = unto Me
संन्यस्य = giving up
मत्पराः = being attached to Me
अनन्येन = without division
एव = certainly
योगेन = by practice of such bhakti-yoga
मां = upon Me
ध्यायन्तः = meditating
उपासते = worship
तेषां = of them
अहं = I
समुद्धर्ता = the deliverer
मृत्यु = of death
संसार = in material existence
सागरात् = from the ocean
भवामि = I become
न = not
चिरात् = after a long time
पार्थ = O son of Pritha
मयि = upon Me
आवेशित = fixed
चेतसां = of those whose minds.
मयि = upon Me
एव = certainly
मनः = mind
आधत्स्व = fix
मयि = upon Me
बुद्धिं = intelligence
निवेशय = apply
निवसिष्यसि = you will live
मयि = in Me
एव = certainly
अत ऊर्ध्वं = thereafter
न = never
संशयः = doubt.
अथ = if, therefore
चित्तं = mind
समाधातुं = to fix
न = not
शक्नोषि = you are able
मयि = upon Me
स्थिरं = steadily
अभ्यासयोगेन = by the practice of devotional service
ततः = then
मां = Me
इच्छा = desire
आप्तुं = to get
धनञ्जय = O winner of wealth, Arjuna.
अभ्यासे = in practice
अपि = even if
असमर्थः = unable
असि = you are
मत्कर्म = My work
परमः = dedicated to
भव = become
मदर्थं = for My sake
अपि = even
कर्माणि = work
कुर्वन् = performing
सिद्धिं = perfection
अवाप्स्यसि = you will achieve.
अथ = even though
एतत् = this
अपि = also
अशक्तः = unable
असि = you are
कर्तुं = to perform
मत् = unto Me
योगं = in devotional service
आश्रितः = taking refuge
सर्वकर्म = of all activities
फल = of the results
त्यागं = renunciation
ततः = then
कुरु = do
यतात्मवान् = self-situated.
श्रेयः = better
हि = certainly
ज्ञानं = knowledge
अभ्यासात् = than practice
ज्ञानात् = than knowledge
ध्यानं = meditation
विशिष्यते = is considered better
ध्यानात् = than meditation
कर्मफलत्यागः = renunciation of the results of fruitive action
त्यागात् = by such renunciation
शान्तिः = peace
अनन्तरं = thereafter.
अद्वेष्टा = nonenvious
सर्वभूतानां = toward all living entities
मैत्रः = friendly
करुणः = kindly
एव = certainly
च = also
निर्ममः = with no sense of proprietorship
निरहङ्कारः = without false ego
सम = equal
दुःख = in distress
सुखः = and happiness
क्षमी = forgiving
सन्तुष्टः = satisfied
सततं = always
योगी = one engaged in devotion
यतात्म = self-controlled
दृढनिश्चयः = with determination
मयि = upon Me
अर्पित = engaged
मनः = mind
बुद्धिः = and intelligence
यः = one who
मद्भक्तः = My devotee
सः = he
मे = to Me
प्रियः = dear.
यस्मात् = from whom
न = never
उद्विजते = are agitated
लोकः = people
लोकात् = from people
न = never
उद्विजते = is disturbed
च = also
यः = anyone who
हर्ष = from happiness
अमर्ष = distress
भय = fear
उद्वेगैः = and anxiety
मुक्तः = freed
यः = who
सः = anyone
च = also
मे = to Me
प्रियः = very dear.
अनपेक्षः = neutral
शुचिः = pure
दक्षः = expert
उदासीनः = free from care
गतव्यथाः = freed from all distress
सर्वारम्भ = of all endeavors
परित्यागी = renouncer
यः = anyone who
मद्भक्तः = My devotee
सः = he
मे = to Me
प्रियः = very dear.
यः = one who
न = never
हृष्यति = takes pleasure
न = never
द्वेष्टि = grieves
न = never
शोचति = laments
न = never
काङ्क्षति = desires
शुभ = of the auspicious
अशुभ = and the inauspicious
परित्यागी = renouncer
भक्तिमान् = devotee
यः = one who
सः = he is
मे = to Me
प्रियः = dear.
समः = equal
शत्रौ = to an enemy
च = also
मित्रे = to a friend
च = also
तथा = so
मान = in honor
अपमानयोः = and dishonor
शीत = in cold
उष्ण = heat
सुख = happiness
दुःखेषु = and distress
समः = equipoised
सङ्गविवर्जितः = free from all association
तुल्य = equal
निन्दा = in defamation
स्तुतिः = and repute
मौनि = silent
सन्तुष्टः = satisfied
येनकेनचित् = with anything
अनिकेतः = having no residence
स्थिर = fixed
मतिः = determination
भक्तिमान् = engaged in devotion
मे = to Me
प्रियः = dear
नरः = a man.
ये = those who
तु = but
धर्म = of religion
अमृतं = nectar
इदं = this
यथा = as
उक्तं = said
पर्युपासते = completely engage
श्रद्दधानाः = with faith
मत्परमाः = taking Me, the Supreme Lord, as everything
भक्तः = devotees
ते = they
अतीव = very, very
मे = to Me
प्रियः = dear.
End of 12.20
अर्जुन उवाच = Arjuna said
प्रकृतिं = nature
पुरुषं = the enjoyer
च = also
एव = certainly
क्षेत्रं = the field
क्षेत्रज्ञं = the knower of the field
एव = certainly
च = also
एतत् = all this
वेदितुं = to understand
इच्छामि = I wish
ज्ञानं = knowledge
ज्ञेयं = the object of knowledge
च = also
केशव = O KRiShNa
श्रीभगवानुवाच = the Personality of Godhead said
इदं = this
शरीरं = body
कौन्तेय = O son of Kunti
क्षेत्रं = the field
इति = thus
अभिधीयते = is called
एतत् = this
यः = one who
वेत्ति = knows
तं = he
प्राहुः = is called
क्षेत्रज्ञः = the knower of the field
इति = thus
तत्विदः = by those who know this.
क्षेत्रज्ञं = the knower of the field
च = also
अपि = certainly
मां = Me
विद्धि = know
सर्व = all
क्षेत्रेषु = in bodily fields
भारत = O son of Bharata
क्षेत्र = the field of activities (the body)
क्षेत्रज्ञयोः = and the knower of the field
ज्ञानं = knowledge of
यत् = that which
तत् = that
ज्ञानं = knowledge
मतं = opinion
मम = My.
तत् = that
क्षेत्रं = field of activities
यत् = what
च = also
यादृक् = as it is
च = also
यत् = having what
विकारि = changes
यतः = from which
च = also
यत् = what
सः = he
च = also
यः = who
यत् = having what
प्रभावः = influence
च = also
तत् = that
समासेन = in summary
मे = from Me
शृणु = understand.
ऋषिभिः = by the wise sages
बहुधा = in many ways
गीतं = described
छन्दोभिः = by Vedic hymns
विविधैः = various
पृथक् = variously
ब्रह्मसूत्र = of the Vedanta
पदैः = by the aphorisms
च = also
एव = certainly
हेतुमद्भिः = with cause and effect
विनिश्चितैः = certain.
महाभूतानी = the great elements
अहङ्कारः = false ego
बुद्धिः = intelligence
अव्यक्तं = the unmanifested
एव = certainly
च = also
इन्द्रियाणि = the senses
दशैकं = eleven
च = also
पञ्च = five
च = also
इन्द्रियगोचराः = the objects of the senses
इच्छा = desire
द्वेषः = hatred
सुखं = happiness
दुःखं = distress
सङ्घातः = the aggregate
चेतना = living symptoms
धृतिः = conviction
एतत् = all this
क्षेत्रं = the field of activities
समासेन = in summary
सविकारं = with interactions
उदाहृतं = exemplified.
अमानित्वं = humility
अदम्भित्वं = pridelessness
अहिंसा = nonviolence
क्षन्तिः = tolerance
आर्जवं = simplicity
आचार्योपासनं = approaching a bona fide spiritual master
शौचं = cleanliness
स्थैर्यं = steadfastness
आत्मविनिग्रहः = self-control
इन्द्रियार्थेषु = in the matter of the senses
वैराग्यं = renunciation
अनहङ्कारः = being without false egoism
एव = certainly
च = also
जन्म = of birth
मृत्यु = death
जरा = old age
व्याधि = and disease
दुःख = of the distress
दोष = the fault
अनुदर्शनं = observing
असक्तिः = being without attachment
अनभिश्वङ्गः = being without association
पुत्र = for son
दारा = wife
गृहादिषु = home, etc.
नित्यं = constant
च = also
समचित्तत्वं = equilibrium
इष्ट = the desirable
अनिष्ट = and undesirable
उपपत्तिषु = having obtained
मयि = unto Me
च = also
अनन्ययोगेन = by unalloyed devotional service
भक्तिः = devotion
अव्यभिचारिणी = without any break
विविक्त = to solitary
देश = places
सेवित्वं = aspiring
अरतिः = being without attachment
जनसंसदि = to people in general
अध्यात्म = pertaining to the self
ज्ञान = in knowledge
नित्यत्वं = constancy
तत्त्वज्ञान = of knowledge of the truth
अर्थ = for the object
दर्शनं = philosophy
एतत् = all this
ज्ञानं = knowledge
इति = thus
प्रोक्तं = declared
अज्ञानं = ignorance
यत् = that which
अतः = from this
अन्यथा = other.
ज्ञेयं = the knowable
यत् = which
तत् = that
प्रवक्ष्यामि = I shall now explain
यत् = which
ज्ञात्वा = knowing
अमृतं = nectar
अश्नुते = one tastes
अनादि = beginningless
मत्परं = subordinate to Me
ब्रह्म = spirit
न = neither
सत् = cause
तत् = that
न = nor
असत् = effect
उच्यते = is said to be.
सर्वतः = everywhere
पाणि = hands
पदं = legs
तत् = that
सर्वतः = everywhere
अक्षि = eyes
शिरः = heads
मुखं = faces
सर्वतः = everywhere
श्रुतिमत् = having ears
लोके = in the world
सर्वं = everything
आवृत्य = covering
तिष्ठति = exists.
सर्व = of all
इन्द्रिय = senses
गुण = of the qualities
आभासं = the original source
सर्व = all
इन्द्रिय = senses
विवर्जितं = being without
असक्तं = without attachment
सर्वभृत् = the maintainer of everyone
च = also
एव = certainly
निर्गुणं = without material qualities
गुणभोक्तृ = master of the gunas
च = also.
बहिः = outside
अन्तः = inside
च = also
भूतानां = of all living entities
अचरं = not moving
चरं = moving
एव = also
च = and
सूक्ष्मत्वात् = on account of being subtle
तत् = that
अविज्ञेयं = unknowable
दूरस्थं = far away
च = also
अन्तिके = near
च = and
तत् = that.
अविभक्तं = without division
च = also
भूतेषु = in all living beings
विभक्तं = divided
इव = as if
च = also
स्थितं = situated
भूतभर्तृ = the maintainer of all living entities
च = also
तत् = that
ज्ञेयं = to be understood
ग्रसिष्णु = devouring
प्रभविष्णु = developing
च = also.
ज्योतीषां = in all luminous objects
अपि = also
तत् = that
ज्योतिः = the source of light
तमसः = the darkness
परं = beyond
उच्यते = is said
ज्ञानं = knowledge
ज्ञेयं = to be known
ज्ञानगम्यं = to be approached by knowledge
हृदि = in the heart
सर्वस्य = of everyone
विष्ठितं = situated.
इति = thus
क्षेत्रं = the field of activities (the body)
तथा = also
ज्ञानं = knowledge
ज्ञेयं = the knowable
च = also
उक्तं = described
समासतः = in summary
मद्भक्तः = My devotee
एतत् = all this
विज्ञाय = after understanding
मद्भावाय = to My nature
उपपद्यते = attains.
प्रकृतिं = material nature
पुरुषं = the living entities
च = also
एव = certainly
विद्धि = you must know
अनादि = without beginning
उभौ = both
अपि = also
विकारान् = transformations
च = also
गुणान् = the three modes of nature
च = also
एव = certainly
विद्धि = know
प्रकृति = material nature
सम्भवान् = produced of.
कार्य = of effect
कारण = and cause
कर्तृत्वे = in the matter of creation
हेतुः = the instrument
प्रकृतिः = material nature
उच्यते = is said to be
पुरुषः = the living entity
सुख = of happiness
दुःखानां = and distress
भोक्तृत्वे = in enjoyment
हेतुः = the instrument
उच्यते = is said to be.
पुरुषः = the living entity
प्रकृतिस्थः = being situated in the material energy
हि = certainly
भुङ्क्ते = enjoys
प्रकृतिजान् = produced by the material nature
गुणान् = the modes of nature
करणं = the cause
गुणसङ्गः = the association with the modes of nature
अस्य = of the living entity
सदसत् = in good and bad
योनि = species of life
जन्मसु = in births.
उपद्रष्टा = overseer
अनुमन्ता = permitter
च = also
भर्ता = master
भोक्ता = supreme enjoyer
महेश्वरः = the Supreme Lord
परमात्म = the Supersoul
इति = also
च = and
अपि = indeed
उक्तः = is said
देहे = in the body
अस्मिन् = this
पुरुषः = enjoyer
परः = transcendental.
यः = anyone who
एवं = thus
वेत्ति = understands
पुरुषं = the living entity
प्रकृतिं = material nature
च = and
गुणैः = the modes of material nature
सह = with
सर्वथा = in all ways
वर्तमानः = being situated
अपि = in spite of
न = never
सः = he
भूयः = again
अभिजायते = takes his birth.
ध्यानेन = by meditation
आत्मनि = within the self
पश्यन्ति = see
केचित् = some
आत्मानं = the Supersoul
आत्मना = by the mind
अन्ये = others
साङ्ख्येन = of philosophical discussion
योगेन = by the yoga system
कर्मयोगेण = by activities without fruitive desire
च = also
अपरे = others.
अन्ये = others
तु = but
एवं = thus
अजानन्तः = without spiritual knowledge
श्रुत्वा = by hearing
अन्येभ्यः = from others
उपासते = begin to worship
ते = they
अपि = also
च = and
अतितरन्ति = transcend
एव = certainly
मृत्युं = the path of death
श्रुतिपरायणाः = inclined to the process of hearing.
यावत् = whatever
सञ्जायते = comes into being
किञ्चित् = anything
सत्त्वं = existence
स्थावर = not moving
जङ्गमं = moving
क्षेत्र = of the body
क्षेत्रज्ञ = and the knower of the body
संयोगात् = by the union between
तद्विद्धि = you must know it
भरतर्षभ = O chief of the Bharatas.
समं = equally
सर्वेषु = in all
भूतेषु = living entities
तिष्ठन्तं = residing
परमेश्वरं = the Supersoul
विनश्यत्सु = in the destructible
अविनश्यन्तं = not destroyed
यः = anyone who
पश्यति = sees
सः = he
पश्यति = actually sees.
समं = equally
पश्यन् = seeing
हि = certainly
सर्वत्र = everywhere
समवस्थितं = equally situated
ईश्वरं = the Supersoul
न = does not
हिनस्ति = degrade
आत्मना = by the mind
आत्मानं = the soul
ततः = then
याति = reaches
परां = the transcendental
गतिं = destination.
प्रकृत्या = by material nature
एव = certainly
च = also
कर्माणि = activities
क्रियमाणानि = being performed
सर्वशः = in all respects
यः = anyone who
पश्यति = sees
तथा = also
आत्मानं = himself
अकर्तारं = the nondoer
सः = he
पश्यति = sees perfectly.
यदा = when
भूत = of living entities
पृथग्भावं = separated identities
एकस्थं = situated in one
अनुपश्यति = one tries to see through authority
ततः एव = thereafter
च = also
विस्तारं = the expansion
ब्रह्म = the Absolute
सम्पद्यते = he attains
तदा = at that time.
अनादित्वात् = due to eternity
निर्गुणत्वात् = due to being transcendental
परम = beyond material nature
आत्मा = spirit
अयं = this
अव्ययः = inexhaustible
शरीरस्थः = dwelling in the body
अपि = though
कौन्तेय = O son of Kunti
न करोति = never does anything
न लिप्यते = nor is he entangled.
यथा = as
सर्वगतं = all-pervading
सौक्ष्म्यात् = due to being subtle
आकाशं = the sky
न = never
उपलिप्यते = mixes
सर्वत्र = everywhere
अवस्थितः = situated
देहे = in the body
तथा = so
आत्मा = the self
न = never
उपलिप्यते = mixes.
यथा = as
प्रकाशयति = illuminates
एकः = one
कृत्स्नं = the whole
लोकं = universe
इमं = this
रविः = sun
क्षेत्रं = this body
क्षेत्री = the soul
तथा = similarly
कृत्स्नं = all
प्रकाशयति = illuminates
भारत = O son of Bharata.
क्षेत्र = of the body
क्षेत्रज्ञयोः = of the proprietor of the body
एवं = thus
अन्तरं = the difference
ज्ञानचक्षुषा = by the vision of knowledge
भूत = of the living entity
प्रकृति = from material nature
मोक्षं = the liberation
च = also
ये = those who
विदुः = know
यान्ति = approach
ते = they
परं = the Supreme.
End of 13.35
श्रीभगवानुवाच = the Supreme Personality of Godhead said
परं = transcendental
भूयः = again
प्रवक्ष्यामि = I shall speak
ज्ञानानां = of all knowledge
ज्ञानं = knowledge
उत्तमं = the supreme
यत् = which
ज्ञात्वा = knowing
मुनयः = the sages
सर्वे = all
परं = transcendental
सिद्धिं = perfection
इतः = from this world
गताः = attained.
इदं = this
ज्ञानं = knowledge
उपाश्रित्य = taking shelter of
मम = My
साधर्म्यं = same nature
आगतः = having attained
सर्गेऽपि = even in the creation
न = never
उपजायन्ते = are born
प्रलये = in the annihilation
न = nor
व्यथन्ति = are disturbed
च = also.
मम = My
योनिः = source of birth
महत् = the total material existence
ब्रह्म = supreme
तस्मिन् = in that
गर्भं = pregnancy
दधामि = create
अहं = I
सम्भवः = the possibility
सर्वभूतानां = of all living entities
ततः = thereafter
भवति = becomes
भारत = O son of Bharata.
सर्वयोनिषु = in all species of life
कौन्तेय = O son of Kunti
मूर्तयः = forms
सम्भवन्ति = they appear
यः = which
तासां = of all of them
ब्रह्म = the supreme
महद्योनिः = source of birth in the material substance
अहं = I
बीजप्रदः = the seed-giving
पिता = father.
सत्त्वं = the mode of goodness
रजः = the mode of passion
तमः = the mode of ignorance
इति = thus
गुणाः = the qualities
प्रकृति = material nature
सम्भवाः = produced of
निबध्नन्ति = do condition
महाबाहो = O mighty-armed one
देहे = in this body
देहीनं = the living entity
अव्ययं = eternal.
तत्र = there
सत्त्वं = the mode of goodness
निर्मलत्वात् = being purest in the material world
प्रकाशकं = illuminating
अनामयं = without any sinful reaction
सुख = with happiness
सङ्गेन = by association
बध्नाति = conditions
ज्ञान = with knowledge
सङ्गेन = by association
च = also
अनघ = O sinless one.
रजः = the mode of passion
रागात्मकं = born of desire or lust
विद्धि = know
तृष्णा = with hankering
सङ्ग = association
समुद्भवं = produced of
तत् = that
निबध्नाति = binds
कौन्तेय = O son of Kunti
कर्मसङ्गेन = by association with fruitive activity
देहिनं = the embodied.
तमः = the mode of ignorance
तु = but
अज्ञानजं = produced of ignorance
विद्धि = know
मोहनं = the delusion
सर्वदेहिनां = of all embodied beings
प्रमाद = with madness
अलस्य = indolence
निद्राभिः = and sleep
तत् = that
निबध्नाति = binds
भारत = O son of Bharata.
सत्त्वं = the mode of goodness
सुखे = in happiness
सञ्जयति = binds
रजः = the mode of passion
कर्माणि = in fruitive activity
भारत = O son of Bharata
ज्ञानं = knowledge
आवृत्य = covering
तु = but
तमः = the mode of ignorance
प्रमादे = in madness
सञ्जयति = binds
उत = it is said.
रजः = the mode of passion
तमः = the mode of ignorance
च = also
अभिभूय = surpassing
सत्त्वं = the mode of goodness
भवति = becomes prominent
भारत = O son of Bharata
रजः = the mode of passion
सत्त्वं = the mode of goodness
तमः = the mode of ignorance
च = also
एव = like that
तमः = the mode of ignorance
सत्त्वं = the mode of goodness
रजः = the mode of passion
तथा = thus.
सर्वद्वारेषु = in all the gates
देहेऽस्मिन् = in this body
प्रकाशः = the quality of illumination
उपजायते = develops
ज्ञानं = knowledge
यदा = when
तदा = at that time
विद्यात् = know
विवृद्धं = increased
सत्त्वं = the mode of goodness
इत्युत = thus it is said.
लोभः = greed
प्रवृत्तिः = activity
आरम्भः = endeavor
कर्मणां = in activities
अशमः = uncontrollable
स्पृहा = desire
रजसि = of the mode of passion
एतानि = all these
जायन्ते = develop
विवृद्धे = when there is an excess
भरतर्षभ = O chief of the descendants of Bharata.
अप्रकाशः = darkness
अप्रवृत्तिः = inactivity
च = and
प्रमादः = madness
मोहः = illusion
एव = certainly
च = also
तमसि = the mode of ignorance
एतानि = these
जायन्ते = are manifested
विवृद्धे = when developed
कुरुनन्दन = O son of Kuru.
यदा = when
सत्त्वे = the mode of goodness
प्रवृद्धे = developed
तु = but
प्रलयं = dissolution
याति = goes
देहभृत् = the embodied
तदा = at that time
उत्तमविदां = of the great sages
लोकान् = the planets
अमलान् = pure
प्रतिपद्यते = attains.
रजसि = in passion
प्रलयं = dissolution
गत्वा = attaining
कर्मसङ्गिषु = in the association of those engaged in fruitive activities
जायते = takes birth
तथा = similarly
प्रलीनः = being dissolved
तमसि = in ignorance
मूढयोनिषु = in animal species
जायते = takes birth.
कर्मणः = of work
सुकृतस्य = pious
आहुः = is said
सात्त्विकं = in the mode of goodness
निर्मलं = purified
फलं = the result
रजसः = of the mode of passion
तु = but
फलं = the result
दुःखं = misery
अज्ञानं = nonsense
तमसः = of the mode of ignorance
फलं = the result.
सत्त्वात् = from the mode of goodness
सञ्जायते = develops
ज्ञानं = knowledge
रजसः = from the mode of passion
लोभः = greed
एव = certainly
च = also
प्रमाद = madness
मोहौ = and illusion
तमसः = from the mode of ignorance
भवतः = develop
अज्ञानं = nonsense
एव = certainly
च = also.
ऊर्ध्वं = upwards
गच्छन्ति = go
सत्त्वस्थाः = those situated in the mode of goodness
मध्ये = in the middle
तिष्ठन्ति = dwell
राजसाः = those situated in the mode of passion
जघन्य = of abominable
गुण = quality
वृत्तिस्थाः = whose occupation
अधः = down
गच्छन्ति = go
तामसाः = persons in the mode of ignorance.
न = no
अन्यं = other
गुणेभ्यः = than the qualities
कर्तारं = performer
यदा = when
द्रष्टा = a seer
अनुपश्यति = sees properly
गुणेभ्यः = to the modes of nature
च = and
परं = transcendental
वेत्ति = knows
मद्भावं = to My spiritual nature
सः = he
अधिगच्छति = is promoted.
गुणान् = qualities
एतान् = all these
अतीत्य = transcending
त्रीन् = three
देही = the embodied
देह = the body
समुद्भवान् = produced of
जन्म = of birth
मृत्यु = death
जरा = and old age
दुःखैः = the distresses
विमुक्तः = being freed from
अमृतं = nectar
अश्नुते = he enjoys.
अर्जुन उवाच = Arjuna said
कैः = by which
लिङ्गैः = symptoms
त्रीन् = three
गुणान् = qualities
एतान् = all these
अतीतः = having transcended
भवति = is
प्रभो = O my Lord
किं = what
आचारः = behavior
कथं = how
च = also
एतान् = these
त्रीन् = three
गुणान् = qualities
अतिवर्तते = transcends.
श्रीभगवानुवाच = the Supreme Personality of Godhead said
प्रकाशं = illumination
च = and
प्रवृत्तिं = attachment
च = and
मोहं = illusion
एव च = also
पाण्डव = O son of Pandu
न द्वेष्टि = does not hate
सम्प्रवृत्तानि = although developed
न निवृत्तानि = nor stopping development
काङ्क्षति = desires
उदासीनवत् = as if neutral
आसीनः = situated
गुणैः = by the qualities
यः = one who
न = never
विचाल्यते = is agitated
गुणाः = the qualities
वर्तन्ते = are acting
इत्येवं = knowing thus
यः = one who
अवतिष्ठति = remains
न = never
इङ्गते = flickers
सम = equal
दुःख = in distress
सुखः = and happiness
स्वस्थः = being situated in himself
सम = equally
लोष्ट = a lump of earth
अश्म = stone
काञ्चनः = gold
तुल्य = equally disposed
प्रिय = to the dear
अप्रियः = and the undesirable
धीरः = steady
तुल्य = equal
निन्दा = in defamation
आत्मसंस्तुतिः = and praise of himself
मान = in honor
अपमानयोः = and dishonor
तुल्यः = equal
तुल्यः = equal
मित्र = of friends
अरि = and enemies
पक्षयोः = to the parties
सर्व = of all
आरम्भ = endeavors
परित्यागी = renouncer
गुणातीतः = transcendental to the material modes of nature
सः = he
उच्यते = is said to be.
मां = unto Me
च = also
यः = a person who
अव्यभिचारेण = without fail
भक्तियोगेन = by devotional service
सेवते = renders service
सः = he
गुणान् = the modes of material nature
समतित्य = transcending
एतान् = all these
ब्रह्मभुयाय = elevated to the Brahman platform
कल्पते = becomes.
ब्रह्मणः = of the impersonal brahmajyoti
हि = certainly
प्रतिष्ठा = the rest
अहं = I am
अमृतस्य = of the immortal
अव्ययस्य = of the imperishable
च = also
शाश्वतस्य = of the eternal
च = and
धर्मस्य = of the constitutional position
सुखस्य = of happiness
ऐकान्तिकस्य = ultimate
च = also.
End of 14.27
श्रीभगवानुवाच = the Supreme Personality of Godhead said
ऊर्ध्वमूलं = with roots above
अधः = downwards
शाखं = branches
अश्वत्थं = a banyan tree
प्राहुः = is said
अव्ययं = eternal
छन्दांसि = the Vedic hymns
यस्य = of which
पर्णानि = the leaves
यः = anyone who
तं = that
वेद = knows
सः = he
वेदवित् = the knower of the Vedas.
अधः = downward
च = and
ऊर्ध्वं = upward
प्रसृताः = extended
तस्य = its
शाखाः = branches
गुण = by the modes of material nature
प्रवृद्धाः = developed
विषय = sense objects
प्रवालाः = twigs
अधः = downward
च = and
मूलानि = roots
अनुसन्ततानि = extended
कर्म = to work
अनुबन्धीनि = bound
मनुष्यलोके = in the world of human society.
न = not
रूपं = the form
अस्य = of this tree
इह = in this world
तथा = also
उपलभ्यते = can be perceived
न = never
अन्तः = end
न = never
च = also
आदिः = beginning
न = never
च = also
सम्प्रतिष्ठा = the foundation
अश्वत्थं = banyan tree
एनं = this
सुविरूढ = strongly
मूलं = rooted
असङ्गशस्त्रेण = by the weapon of detachment
दृढेन = strong
छित्त्व = cutting
ततः = thereafter
पदं = situation
तत् = that
परिमार्गितव्यं = has to be searched out
यस्मिन् = where
गताः = going
न = never
निवर्तन्ति = they come back
भूयः = again
तं = to Him
एव = certainly
च = also
आद्यं = original
पुरुषं = the Personality of Godhead
प्रपद्ये = surrender
यतः = from whom
प्रवृत्तिः = the beginning
प्रसृता = extended
पुराणी = very old.
निः = without
मान = false prestige
मोहः = and illusion
जित = having conquered
सङ्ग = of association
दोषाः = the faults
अध्यात्म = in spiritual knowledge
नित्याः = in eternity
विनिवृत्त = disassociated
कामाः = from lust
द्वन्द्वैः = from the dualities
विमुक्तः = liberated
सुखदुःख = happiness and distress
संज्ञैः = named
गच्छन्ति = attain
अमूढाः = unbewildered
पदं = situation
अव्ययं = eternal
तत् = that.
न = not
तत् = that
भासयते = illuminates
सूर्यः = the sun
न = nor
शशाङ्कः = the moon
न = nor
पावकः = fire, electricity
यत् = where
गत्वा = going
न = never
निवर्तन्ते = they come back
तद्धाम = that abode
परमं = supreme
मम = My.
मम = My
एव = certainly
अंशः = fragmental particle
जीवलोके = in the world of conditional life
जीवभूतः = the conditioned living entity
सनातनः = eternal
मनः = with the mind
षष्ठाणि = the six
इन्द्रियाणि = senses
प्रकृति = in material nature
स्थानि = situated
कर्षति = is struggling hard.
शरीरं = the body
यत् = as
अवाप्नोति = gets
यत् = as
चापि = also
उत्क्रामति = gives up
ईश्वरः = the lord of the body
गृहीत्वा = taking
एतानि = all these
संयाति = goes away
वायुः = the air
गन्धान् = smells
इव = like
अशयात् = from their source.
श्रोत्रं = ears
चक्षुः = eyes
स्पर्शनं = touch
च = also
रसनं = tongue
घ्राणं = smelling power
एव = also
च = and
अधिष्ठाय = being situated in
मनः = mind
च = also
अयं = he
विषयान् = sense objects
उपसेवते = enjoys.
उत्क्रामन्तं = quitting the body
स्थितं = situated in the body
वापि = either
भुञ्जानं = enjoying
वा = or
गुणान्वितं = under the spell of the modes of material nature
विमूढाः = foolish persons
न = never
अनुपश्यन्ति = can see
पश्यन्ति = can see
ज्ञानचक्षुषः = those who have the eyes of knowledge.
यतन्तः = endeavoring
योगिनः = transcendentalists
च = also
एनं = this
पश्यन्ति = can see
आत्मनि = in the self
अवस्थितं = situated
यतन्तः = endeavoring
अपि = although
अकृतात्मानः = those without self-realization
न = do not
एनं = this
पश्यन्ति = see
अचेतसः = having undeveloped minds.
यत् = that which
आदित्यगतं = in the sunshine
तेजः = splendor
जगत् = the whole world
भासयते = illuminates
अखिलं = entirely
यत् = that which
चन्द्रमसि = in the moon
यत् = that which
च = also
अग्नौ = in fire
तत् = that
तेजः = splendor
विद्धि = understand
मामकं = from Me.
गां = the planets
आविश्य = entering
च = also
भूतानी = the living entities
धारयामि = sustain
अहं = I
ओजसा = by My energy
पुष्णामि = am nourishing
च = and
औषधीः = vegetables
सर्वाः = all
सोमः = the moon
भूत्वा = becoming
रसात्मकः = supplying the juice.
अहं = I
वैश्वानरः = My plenary portion as the digesting fire
भूत्वा = becoming
प्राणिनां = of all living entities
देहं = in the bodies
आश्रितः = situated
प्राण = the outgoing air
अपान = the down-going air
समायुक्तः = keeping in balance
पचामि = I digest
अन्नं = foodstuff
चतुर्विधं = the four kinds.
सर्वस्य = of all living beings
च = and
अहं = I
हृदि = in the heart
सन्निविष्टः = situated
मत्तः = from Me
स्मृतिः = remembrance
ज्ञानं = knowledge
अपोहनं = forgetfulness
च = and
वेदैः = by the Vedas
च = also
सर्वैः = all
अहं = I am
एव = certainly
वेद्यः = knowable
वेदान्तकृत् = the compiler of the Vedanta
वेदवित् = the knower of the Vedas
एव = certainly
च = and
अहं = I.
द्वौ = two
इमौ = these
पुरुषौ = living entities
लोके = in the world
क्षरः = fallible
च = and
अक्षरः = infallible
एव = certainly
च = and
क्षरः = fallible
सर्वाणि = all
भूतानी = living entities
कूटस्थः = in oneness
अक्षरः = infallible
उच्यते = is said.
उत्तमः = the best
पुरुषः = personality
तु = but
अन्यः = another
परम = the supreme
आत्मा = self
इति = thus
उदाहृतः = is said
यः = who
लोक = of the universe
त्रयं = the three divisions
आविश्य = entering
बिभर्ति = is maintaining
अव्ययः = inexhaustible
ईश्वरः = the Lord.
यस्मात् = because
क्षरं = to the fallible
अतीतः = transcendental
अहं = I am
अक्षरात् = beyond the infallible
अपि = also
च = and
उत्तमः = the best
अतः = therefore
अस्मि = I am
लोके = in the world
वेदे = in the Vedic literature
च = and
प्रथितः = celebrated
पुरुषोत्तमः = as the Supreme Personality.
यः = anyone who
मां = Me
एवं = thus
असम्मूढः = without a doubt
जानाति = knows
पुरुषोत्तमं = the Supreme Personality of Godhead
सः = he
सर्ववित् = the knower of everything
भजति = renders devotional service
मां = unto Me
सर्वभावेन = in all respects
भारत = O son of Bharata.
इति = thus
गुह्यतमं = the most confidential
शास्त्रं = revealed scripture
इदं = this
उक्तं = disclosed
मया = by Me
अनघ = O sinless one
एतत् = this
बुद्ध्वा = understanding
बुद्धिमान् = intelligent
स्यात् = one becomes
कृतकृत्यः = the most perfect in his endeavors
च = and
भारत = O son of Bharata.
End of 15.20
श्रीभगवानुवाच = the Supreme Personality of Godhead said
अभयं = fearlessness
सत्त्वसंशुद्धिः = purification of one's existence
ज्ञान = in knowledge
योग = of linking up
व्यवस्थितिः = the situation
दानं = charity
दमः = controlling the mind
च = and
यज्ञः = performance of sacrifice
च = and
स्वाध्यायः = study of Vedic literature
तपः = austerity
आर्जवं = simplicity
अहिंसा = nonviolence
सत्यं = truthfulness
अक्रोधः = freedom from anger
त्यागः = renunciation
शान्तिः = tranquillity
अपैशुनं = aversion to fault-finding
दया = mercy
भूतेषु = towards all living entities
अलोलुप्त्वं = freedom from greed
मार्दवं = gentleness
ह्रीः = modesty
अचापलं = determination
तेजः = vigor
क्षमा = forgiveness
धृतिः = fortitude
शौचं = cleanliness
अद्रोहः = freedom from envy
न = not
अति मानिता = expectation of honor
भवन्ति = are
सम्पदं = the qualities
दैवीं = the transcendental nature
अभिजातस्य = of one who is born of
भारत = O son of Bharata.
दम्भः = pride
दर्पः = arrogance
अभिमनः = conceit
च = and
क्रोधः = anger
पारुष्यं = harshness
एव = certainly
च = and
अज्ञानं = ignorance
च = and
अभिजातस्य = of one who is born of
पार्थ = O son of Pritha
सम्पदं = the qualities
आसुरीं = the demoniac nature.
दैवी = transcendental
सम्पत् = assets
विमोक्षाय = meant for liberation
निबन्धाय = for bondage
आसुरी = demoniac qualities
मता = are considered
मा = do not
शुचः = worry
सम्पदं = assets
दैवीं = transcendental
अभिजातः = born of
असि = you are
पाण्डव = O son of Pandu.
द्वौ = two
भूतसर्गौ = created living beings
लोके = in the world
अस्मिन् = this
दैवः = godly
आसुरः = demoniac
एव = certainly
च = and
दैवः = the divine
विस्तरशः = at great length
प्रोक्तः = said
आसुरं = the demoniac
पार्थ = O son of Pritha
मे = from Me
शृणु = just hear.
प्रवृत्तिं = acting properly
च = also
निवृत्तिं = not acting improperly
च = and
जनाः = persons
न = never
विदुः = know
आसुरः = of demoniac quality
न = never
शौचं = cleanliness
न = nor
अपि = also
च = and
आचारः = behavior
न = never
सत्यं = truth
तेषु = in them
विद्यते = there is.
असत्यं = unreal
अप्रतिष्ठं = without foundation
ते = they
जगत् = the cosmic manifestation
आहुः = say
अनीश्वरं = with no controller
अपरस्पर = without cause
सम्भूतं = arisen kim
अन्यत् = there is no other cause
कामहैतुकं = it is due to lust only.
एतां = this
दृष्टिं = vision
अवष्टभ्य = accepting
नष्ट = having lost
आत्मनः = themselves
अल्पबुद्धयः = the less intelligent
प्रभवन्ति = flourish
उग्रकर्माणः = engaged in painful activities
क्षयाय = for destruction
जगतः = of the world
अहिताः = unbeneficial.
कामं = lust
आश्रित्य = taking shelter of
दुष्पूरं = insatiable
दम्भ = of pride
मन = and false prestige
मदान्विताः = absorbed in the conceit
मोहात् = by illusion
गृहीत्वा = taking
असत् = nonpermanent
ग्राहान् = things
प्रवर्तन्ते = they flourish
अशुचि = to the unclean
व्रताः = avowed.
चिन्तां = fears and anxieties
अपरिमेयं = immeasurable
च = and
प्रलयान्तां = unto the point of death
उपाश्रिताः = having taken shelter of
कामोपभोग = sense gratification
परमाः = the highest goal of life
एतावत् = thus
इति = in this way
निश्चिताः = having ascertained
आशापाश = entanglements in a network of hope
शतैः = by hundreds
बद्धाः = being bound
काम = of lust
क्रोध = and anger
परायणाः = always situated in the mentality
ईहन्ते = they desire
काम = lust
भोग = sense enjoyment
अर्थं = for the purpose of
अन्यायेन = illegally
अर्थ = of wealth
सञ्चयान् = accumulation.
इदं = this
अद्य = today
मया = by me
लब्धं = gained
इमं = this
प्राप्स्ये = I shall gain
मनोरथं = according to my desires
इदं = this
अस्ति = there is
इदं = this
अपि = also
मे = mine
भविष्यति = it will increase in the future
पुनः = again
धनं = wealth
असौ = that
मया = by me
हतः = has been killed
शत्रुः = enemy
हनिष्ये = I shall kill
च = also
अपरान् = others
अपि = certainly
ईश्वरः = the lord
अहं = I am
अहं = I am
भोगी = the enjoyer
सिद्धः = perfect
अहं = I am
बलवान् = powerful
सुखी = happy
आढ्यः = wealthy
अभिजनवान् = surrounded by aristocratic relatives
अस्मि = I am
कः = who
अन्यः = other
अस्ति = there is
सदृशः = like
मया = me
यक्ष्ये = I shall sacrifice
दास्यामि = I shall give charity
मोदिष्ये = I shall rejoice
इति = thus
अज्ञान = by ignorance
विमोहिताः = deluded.
अनेक = numerous
चित्त = by anxieties
विभ्रान्ताः = perplexed
मोह = of illusions
जाल = by a network
समावृतः = surrounded
प्रसक्ताः = attached
कामभोगेषु = to sense gratification
पतन्ति = they glide down
नरके = into hell
अशुचौ = unclean.
आत्मासम्भविताः = self-complacent
स्तब्धः = impudent
धनमान = of wealth and false prestige
मद = in the delusion
अन्विताः = absorbed
यजन्ते = they perform sacrifice
नाम = in name only
यज्ञैः = with sacrifices
ते = they
दम्भेन = out of pride
अविधिपूर्वकं = without following any rules and regulations.
अहङ्कारं = false ego
बलं = strength
दर्पं = pride
कामं = lust
क्रोधं = anger
च = also
संश्रिताः = having taken shelter of
मां = Me
आत्म = in their own
पर = and in other
देहेषु = bodies
प्रद्विषन्तः = blaspheming
अभ्यसूयकाः = envious.
तान् = those
अहं = I
द्विषतः = envious
क्रूरान् = mischievous
संसारेषु = into the ocean of material existence
नराधमान् = the lowest of mankind
क्षिपामि = I put
अजस्रं = forever
अशुभान् = inauspicious
आसुरीषु = demoniac
एव = certainly
योनिषु = into the wombs.
आसुरीं = demoniac
योनिं = species
आपन्नाः = gaining
मूढाः = the foolish
जन्मनि जन्मनि = in birth after birth
मां = Me
अप्राप्य = without achieving
एव = certainly
कौन्तेय = O son of Kunti
ततः = thereafter
यान्ति = go
अधमां = condemned
गतिं = destination.
त्रिविधं = of three kinds
नरकस्य = of hell
इदं = this
द्वारं = gate
नाशनं = destructive
आत्मनः = of the self
कामः = lust
क्रोधः = anger
तथा = as well as
लोभः = greed
तस्मात् = therefore
एतत् = these
त्रयं = three
त्यजेत् = one must give up.
एतैः = from these
विमुक्तः = being liberated
कौन्तेय = O son of Kunti
तमोद्वारैः = from the gates of ignorance
त्रिभिः = of three kinds
नरः = a person
आचरति = performs
आत्मनः = for the self
श्रेयः = benediction
ततः = thereafter
याति = he goes
परां = to the supreme
गतिं = destination.
यः = anyone who
शास्त्रविधिं = the regulations of the scriptures
उत्सृज्य = giving up
वर्तते = remains
कामकारतः = acting whimsically in lust
न = never
सः = he
सिद्धिं = perfection
अवाप्नोति = achieves
न = never
सुखं = happiness
न = never
परां = the supreme
गतिं = perfectional stage.
तस्मात् = therefore
शास्त्रं = the scriptures
प्रमाणं = evidence
ते = your
कार्य = duty
अकार्य = and forbidden activities
व्यवस्थितौ = in determining
ज्ञात्वा = knowing
शास्त्र = of scripture
विधान = the regulations
उक्तं = as declared
कर्म = work
कर्तुं = do
इह = in this world
अर्हसि = you should.
End of 16.24
अर्जुन उवाच = Arjuna said
ये = those who
शास्त्रविधिं = the regulations of scripture
उत्सृज्य = giving up
यजन्ते = worship
श्रद्धया = full faith
अन्विताः = possessed of
तेषां = of them
निष्ठा = the faith
तु = but
का = what
कृष्ण = O KRiShNa
सत्त्वं = in goodness
आहो = or else
रजः = in passion
तमः = in ignorance.
श्रीभगवानुवाच = the Supreme Personality of Godhead said
त्रिविधा = of three kinds
भवति = becomes
श्रद्धा = the faith
देहिनां = of the embodied
सा = that
स्वभावजा = according to his mode of material nature
सात्त्विकी = in the mode of goodness
राजसी = in the mode of passion
च = also
एव = certainly
तामसी = in the mode of ignorance
च = and
इति = thus
तां = that
शृणु = hear from Me.
सत्त्वानुरूपा = according to the existence
सर्वस्य = of everyone
श्रद्धा = faith
भवति = becomes
भारत = O son of Bharata
श्रद्धा = faith
मयः = full of
अयं = this
पुरुषः = living entity
यः = who
यत् = having which
श्रद्धः = faith
सः = thus
एव = certainly
सः = he.
यजन्ते = worship
सात्त्विकाः = those who are in the mode of goodness
देवान् = demigods
यक्षरक्षांसि = demons
राजसाः = those who are in the mode of passion
प्रेतान् = spirits of the dead
भूतगणान् = ghosts
च = and
अन्ये = others
यजन्ते = worship
तामसाः = in the mode of ignorance
जनाः = people.
अशास्त्र = not in the scriptures
विहितं = directed
घोरं = harmful to others
तप्यन्ते = undergo
ये = those who
तपः = austerities
जनाः = persons
दम्भ = with pride
अहङ्कार = and egoism
संयुक्ताः = engaged
काम = of lust
राग = and attachment
बल = by the force
अन्विताः = impelled
कर्षयन्तः = tormenting
शरीरस्थं = situated within the body
भूतग्रामं = the combination of material elements
अचेतसः = having a misled mentality
मां = Me
च = also
एव = certainly
अन्तः = within
शरीरस्थं = situated in the body
तान् = them
विद्धि = understand
आसुरनिश्चयान् = demons.
आहारः = eating
तु = certainly
अपि = also
सर्वस्य = of everyone
त्रिविधः = of three kinds
भवति = there is
प्रियः = dear
यज्ञः = sacrifice
तपः = austerity
तथा = also
दानं = charity
तेषां = of them
भेदं = the differences
इमं = this
शृणु = hear.
आयुः = duration of life
सत्त्व = existence
बल = strength
आरोग्य = health
सुख = happiness
प्रीति = and satisfaction
विवर्धनाः = increasing
रस्याः = juicy
स्निग्धाः = fatty
स्थिराः = enduring
हृद्याः = pleasing to the heart
आहारः = food
सात्त्विक = to one in goodness
प्रियाः = palatable.
कटु = bitter
आम्ल = sour
लवण = salty
अत्युष्ण = very hot
तीक्ष्ण = pungent
रुक्ष = dry
विदाहिनः = burning
आहारः = food
राजसस्य = to one in the mode of passion
इष्टाः = palatable
दुःख = distress
शोक = misery
आमय = disease
प्रदाः = causing.
यातयामं = food cooked three hours before being eaten
गतरसं = tasteless
पूति = bad-smelling
पर्युषितं = decomposed
च = also
यत् = that which
उच्छिष्टं = remnants of food eaten by others
अपि = also
च = and
अमेध्यं = untouchable
भोजनं = eating
तामस = to one in the mode of darkness
प्रियं = dear.
अफलाकाङ्क्षिभिः = by those devoid of desire for result
यज्ञः = sacrifice
विधिदिष्टः = according to the direction of scripture
यः = which
इज्यते = is performed
यष्टव्यं = must be performed
एव = certainly
इति = thus
मनः = mind
समाधाय = fixing
सः = it
सात्त्विकः = in the mode of goodness.
अभिसन्धाय = desiring
तु = but
फलं = the result
दम्भ = pride
अर्थं = for the sake of
अपि = also
च = and
एव = certainly
यत् = that which
इज्यते = is performed
भरतश्रेष्ठ = O chief of the Bharatas
तं = that
यज्ञं = sacrifice
विद्धि = know
राजसं = in the mode of passion.
विधिहीनं = without scriptural direction
असृष्टान्नं = without distribution of prasAdam
मन्त्रहीनं = with no chanting of the Vedic hymns
अदक्षिणं = with no remunerations to the priests
श्रद्धा = faith
विरहितं = without
यज्ञं = sacrifice
तामसं = in the mode of ignorance
परिचक्षते = is to be considered.
देव = of the Supreme Lord
द्विज = the brahmanas
गुरु = the spiritual master
प्रज्ञा = and worshipable personalities
पूजानं = worship
शौचं = cleanliness
आर्जवं = simplicity
ब्रह्मचर्यं = celibacy
अहिंसा = nonviolence
च = also
शरीरं = pertaining to the body
तपः = austerity
उच्यते = is said to be.
अनुद्वेगकरं = not agitating
वाक्यं = words
सत्यं = truthful
प्रिय = dear
हितं = beneficial
च = also
यत् = which
स्वाध्याय = of Vedic study
अभ्यसनं = practice
च = also
एव = certainly
वाङ्मयं = of the voice
तपः = austerity
उच्यते = is said to be.
मनःप्रसादः = satisfaction of the mind
सौम्यत्वं = being without duplicity towards others
मौनं = gravity
आत्म = of the self
विनिग्रहः = control
भाव = of one's nature
संशुद्धिः = purification
इति = thus
एतत् = this
तपः = austerity
मानसं = of the mind
उच्यते = is said to be.
श्रद्धया = with faith
परया = transcendental
तप्तं = executed
तपः = austerity
तत् = that
त्रिविधं = of three kinds
नरैः = by men
अफलाकाङ्क्षिभिः = who are without desires for fruits
युक्तैः = engaged
सात्त्विकं = in the mode of goodness
परिचक्षते = is called.
सत्कार = respect
मान = honor
पूजा = and worship
अर्थं = for the sake of
तपः = austerity
दम्भेन = with pride
च = also
एव = certainly
यत् = which
क्रियते = is performed
तत् = that
इह = in this world
प्रोक्तं = is said
राजसं = in the mode of passion
चलं = flickering
अध्रुवं = temporary.
मूढ = foolish
ग्राहेण = with endeavor
आत्मनः = of one's own self
यत् = which
पीडया = by torture
क्रियते = is performed
तपः = penance
परस्य = to others
उत्सादनार्थं = for the sake of causing annihilation
वा = or
तत् = that
तामसं = in the mode of darkness
उदाहृतं = is said to be.
दातव्यं = worth giving
इति = thus
यत् = that which
दानं = charity
दीयते = is given
अनुपकारिणे = irrespective of return
देशे = in a proper place
काले = at a proper time
च = also
पात्रे = to a suitable person
च = and
तत् = that
दानं = charity
सात्त्विकं = in the mode of goodness
स्मृतं = is considered.
यत् = that which
तु = but
प्रत्युपकारार्थं = for the sake of getting some return
फलं = a result
उद्दिश्य = desiring
वा = or
पुनः = again
दीयते = is given
च = also
परिक्लिष्टं = grudgingly
तत् = that
दानं = charity
राजसं = in the mode of passion
स्मृतं = is understood to be.
अदेश = at an unpurified place
काले = and unpurified time
यत् = that which
दानं = charity
अपात्रेभ्यः = to unworthy persons
च = also
दीयते = is given
असत्कृतं = without respect
अवज्ञातं = without proper attention
तत् = that
तामसं = in the mode of darkness
उदाहृतं = is said to be.
ॐ = indication of the Supreme
तत् = that
सत् = eternal
इति = thus
निर्देशः = indication
ब्रह्मणः = of the Supreme
त्रिविधः = threefold
स्मृतः = is considered
ब्राह्मणाः = the brahmanas
तेन = with that
वेदाः = the Vedic literature
च = also
यज्ञाः = sacrifice
च = also
विहिताः = used
पुरा = formerly.
तस्मात् = therefore
ॐ = beginning with om
इति = thus
उदाहृत्य = indicating
यज्ञ = of sacrifice
दान = charity
तपः = and penance
क्रियाः = performances
प्रवर्तन्ते = begin
विधानोक्तः = according to scriptural regulation
सततं = always
ब्रह्मवादिनां = of the transcendentalists.
तत् = that
इति = thus
अनभिसन्धाय = without desiring
फलं = the fruitive result
यज्ञ = of sacrifice
तपः = and penance
क्रियाः = activities
दान = of charity
क्रियाः = activities
च = also
विविधाः = various
क्रियन्ते = are done
मोक्षकाङ्क्षिभिः = by those who actually desire liberation.
सद्भवे = in the sense of the nature of the Supreme
साधुभावे = in the sense of the nature of the devotee
च = also
सत् = the word sat
इति = thus
एतत् = this
प्रयुज्यते = is used
प्रशस्ते = in bona fide
कर्मणि = activities
तथा = also
सच्छब्दः = the sound sat
पार्थ = O son of Pritha
युज्यते = is used
यज्ञे = in sacrifice
तपसि = in penance
दाने = in charity
च = also
स्थितिः = the situation
सत् = the Supreme
इति = thus
च = and
उच्यते = is pronounced
कर्म = work
च = also
एव = certainly
तत् = for that
अर्थियं = meant
सत् = the Supreme
इति = thus
एव = certainly
अभिधीयते = is indicated.
अश्रद्धया = without faith
हुतं = offered in sacrifice
दत्तं = given
तपः = penance
तप्तं = executed
कृतं = performed
च = also
यत् = that which
असत् = false
इति = thus
उच्यते = is said to be
पार्थ = O son of Pritha
न = never
च = also
तत् = that
प्रेत्य = after death
नो = nor
इह = in this life.
End of 17.28
अर्जुन उवाच = Arjuna said
संन्यासस्य = of renunciation
महाबाहो = O mighty-armed one
तत्त्वं = the truth
इच्छामि = I wish
वेदितुं = to understand
त्यागस्य = of renunciation
च = also
हृषीकेश = O master of the senses
पृथक् = differently
केशिनिशूदन = O killer of the Kesi demon.
श्रीभगवानुवाच = the Supreme Personality of Godhead said
काम्यानां = with desire
कर्मणां = of activities
न्यासं = renunciation
संन्यासं = the renounced order of life
कवयः = the learned
विदुः = know
सर्व = of all
कर्म = activities
फल = of results
त्यागं = renunciation
प्राहुः = call
त्यागं = renunciation
विचक्षणः = the experienced.
त्याज्यं = must be given up
दोषवत् = as an evil
इति = thus
एके = one group
कर्म = work
प्राहुः = they say
मनीषिणः = great thinkers
यज्ञ = of sacrifice
दान = charity
तपः = and penance
कर्म = works
न = never
त्याज्यं = are to be given up
इति = thus
च = and
अपरे = others.
निश्चयं = certainty
शृणु = hear
मे = from Me
तत्र = therein
त्यागे = in the matter of renunciation
भरतसत्तम = O best of the Bharatas
त्यागः = renunciation
हि = certainly
पुरुषव्याघ्र = O tiger among human beings
त्रिविधः = of three kinds
सम्प्रकीर्तितः = is declared.
यज्ञ = of sacrifice
दान = charity
तपः = and penance
कर्म = activity
न = never
त्याज्यं = to be given up
कार्यं = must be done
एव = certainly
तत् = that
यज्ञः = sacrifice
दानं = charity
तपः = penance
च = also
एव = certainly
पावनानि = purifying
मनीषिणां = even for the great souls.
एतानि = all these
अपि = certainly
तु = but
कर्माणि = activities
सङ्गं = association
त्यक्त्वा = renouncing
फलानि = results
च = also
कर्तव्यानि = should be done as duty
इति = thus
मे = My
पार्थ = O son of Pritha
निश्चितं = definite
मतं = opinion
उत्तमं = the best.
नियतस्य = prescribed
तु = but
संन्यासः = renunciation
कर्मणः = of activities
न = never
उपपद्यते = is deserved
मोहात् = by illusion
तस्य = of them
परित्यागः = renunciation
तामसः = in the mode of ignorance
परिकीर्तितः = is declared.
दुःखं = unhappy
इति = thus
एव = certainly
यत् = which
कर्म = work
काय = for the body
क्लेश = trouble
भयात् = out of fear
त्यजेत् = gives up
सः = he
कृत्वा = after doing
राजसं = in the mode of passion
त्यागं = renunciation
न = not
एव = certainly
त्याग = of renunciation
फलं = the results
लभेत् = gains.
कार्यं = it must be done
इति = thus
एव = indeed
यत् = which
कर्म = work
नियतं = prescribed
क्रियते = is performed
अर्जुन = O Arjuna
सङ्गं = association
त्यक्त्वा = giving up
फलं = the result
च = also
एव = certainly
सः = that
त्यागः = renunciation
सात्त्विकः = in the mode of goodness
मतः = in My opinion.
न = never
द्वेष्टि = hates
अकुशलं = inauspicious
कर्म = work
कुशले = in the auspicious
न = nor
अनुषज्जते = becomes attached
त्यागी = the renouncer
सत्त्व = in goodness
समाविष्टः = absorbed
मेधावी = intelligent
छिन्न = having cut off
संशयः = all doubts.
न = never
हि = certainly
देहभृता = by the embodied
शक्यं = is possible
त्यक्तुं = to be renounced
कर्माणि = activities
अशेषतः = altogether
यः = anyone who
तु = but
कर्म = of work
फल = of the result
त्यागी = the renouncer
सः = he
त्यागी = the renouncer
इति = thus
अभिधीयते = is said.
अनिष्टं = leading to hell
इष्टं = leading to heaven
मिश्रं = mixed
च = and
त्रिविधं = of three kinds
कर्मणः = of work
फलं = the result
भवति = comes
अत्यागिनां = for those who are not renounced
प्रेत्य = after death
न = not
तु = but
संन्यासीनां = for the renounced order
क्वचित् = at any time.
पञ्च = five
एतानि = these
महाबाहो = O mighty-armed one
कारणानि = causes
निबोध = just understand
मे = from Me
साङ्ख्ये = in the Vedanta
कृतान्ते = in the conclusion
प्रोक्तानि = said
सिद्धये = for the perfection
सर्व = of all
कर्मणां = activities.
अधिष्ठानं = the place
तथा = also
कर्ता = the worker
करणं = instruments
च = and
पृथग्विधं = of different kinds
विविधः = various
च = and
पृथक् = separate
चेष्टः = the endeavors
दैवं = the Supreme
च = also
एव = certainly
अत्र = here
पञ्चमं = the fifth.
शरीर = by the body
वाक् = speech
मनोभिः = and mind
यत् = which
कर्म = work
प्रारभते = begins
नरः = a person
न्याय्यं = right
वा = or
विपरीतं = the opposite
वा = or
पञ्च = five
एते = all these
तस्य = its
हेतवः = causes.
तत्र = there
एवं = thus
सति = being
कर्तारं = the worker
आत्मानं = himself
केवलं = only
तु = but
यः = anyone who
पश्यति = sees
अकृतबुद्धित्वात् = due to unintelligence
न = never
सः = he
पश्यति = sees
दुर्मतिः = foolish.
यस्य = one whose
न = never
अहङ्कृतः = of false ego
भावः = nature
बुद्धिः = intelligence
यस्य = one whose
न = never
लिप्यते = is attached
हत्वा = killing
अपि = even
सः = he
इमान् = this
लोकान् = world
न = never
हन्ति = kills
न = never
निबध्यते = becomes entangled.
ज्ञानं = knowledge
ज्ञेयं = the objective of knowledge
परिज्ञाता = the knower
त्रिविधा = of three kinds
कर्म = of work
चोदना = the impetus
करणं = the senses
कर्म = the work
कर्ता = the doer
इति = thus
त्रिविधः = of three kinds
कर्म = of work
संग्रहः = the accumulation.
ज्ञानं = knowledge
कर्म = work
च = also
कर्ता = worker
च = also
त्रिधा = of three kinds
एव = certainly
गुणभेदतः = in terms of different modes of material nature
प्रोच्यते = are said
गुणसंख्याने = in terms of different modes
यथावत् = as they are
शृणु = hear
तानि = all of them
अपि = also.
सर्वभूतेषु = in all living entities
येन = by which
एकं = one
भावं = situation
अव्ययं = imperishable
ईक्षते = one sees
अविभक्तं = undivided
विभक्तेषु = in the numberless divided
तत् = that
ज्ञानं = knowledge
विद्धि = know
सात्त्विकं = in the mode of goodness.
पृथक्त्वेन = because of division
तु = but
यत् = which
ज्ञानं = knowledge
नानाभावान् = multifarious situations
पृथग्विधान् = different
वेत्ति = knows
सर्वेषु = in all
भूतेषु = living entities
तत् = that
ज्ञानं = knowledge
विद्धि = must be known
राजसं = in terms of passion.
यत् = that which
तु = but
कृत्स्नवत् = as all in all
एकस्मिन् = in one
कार्ये = work
सक्तं = attached
अहैतुकं = without cause
अतत्त्वार्थवत् = without knowledge of reality
अल्पं = very meager
च = and
तत् = that
तामसं = in the mode of darkness
उदाहृतं = is said to be.
नियतं = regulated
सङ्गरहितं = without attachment
अरागद्वेषतः = without love or hatred
कृतं = done
अफलप्रेप्सुना = by one without desire for fruitive result
कर्म = action
यत् = which
तत् = that
सात्त्विकं = in the mode of goodness
उच्यते = is called.
यत् = that which
तु = but
कामेप्सुना = by one with desires for fruitive results
कर्म = work
साहङ्कारेण = with ego
वा = or
पुनः = again
क्रियते = is performed
बहुलायासं = with great labor
तत् = that
राजसं = in the mode of passion
उदाहृतं = is said to be.
अनुबन्धं = of future bondage
क्षयं = destruction
हिंसां = and distress to others
अनपेक्ष्य = without considering the consequences
च = also
पौरुषं = self-sanctioned
मोहात् = by illusion
आरभ्यते = is begun
कर्म = work
यत् = which
तत् = that
तामसं = in the mode of ignorance
उच्यते = is said to be.
मुक्तसङ्गः = liberated from all material association
अनहंवादि = without false ego
धृति = with determination
उत्साह = and great enthusiasm
समन्वितः = qualified
सिद्धि = in perfection
असिद्ध्योः = and failure
निर्विकारः = without change
कर्ता = worker
सात्त्विकः = in the mode of goodness
उच्यते = is said to be.
रागी = very much attached
कर्मफल = the fruit of the work
प्रेप्सुः = desiring
लुब्धः = greedy
हिंसात्मकः = always envious
अशुचिः = unclean
हर्षशोकान्वितः = subject to joy and sorrow
कर्ता = such a worker
राजसः = in the mode of passion
परिकीर्तितः = is declared.
अयुक्तः = not referring to the scriptural injunctions
प्राकृतः = materialistic
स्तब्धः = obstinate
शठः = deceitful
नैष्कृतिकः = expert in insulting others
अलसः = lazy
विषादि = morose
दीर्घसूत्री = procrastinating
च = also
कर्ता = worker
तामसः = in the mode of ignorance
उच्यते = is said to be.
बुद्धेः = of intelligence
भेदं = the differences
धृतेः = of steadiness
च = also
एव = certainly
गुणतः = by the modes of material nature
त्रिविधं = of three kinds
शृणु = just hear
प्रोच्यमानं = as described by Me
अशेषेण = in detail
पृथक्त्वेन = differently
धनञ्जय = O winner of wealth.
प्रवृत्तिं = doing
च = also
निवृत्तिं = not doing
च = and
कार्य = what ought to be done
अकार्ये = and what ought not to be done
भय = fear
अभये = and fearlessness
बन्धं = bondage
मोक्षं = liberation
च = and
या = that which
वेत्ति = knows
बुद्धिः = understanding
सा = that
पार्थ = O son of Pritha
सात्त्विकी = in the mode of goodness.
यया = by which
धर्मं = the principles of religion
अधर्मं = irreligion
च = and
कार्यं = what ought to be done
च = also
अकार्यं = what ought not to be done
एव = certainly
च = also
अयथावत् = imperfectly
प्रजानाति = knows
बुद्धिः = intelligence
सा = that
पार्थ = O son of Pritha
राजसी = in the mode of passion.
अधर्मं = irreligion
धर्मं = religion
इति = thus
या = which
मन्यते = thinks
तमस = by illusion
आवृता = covered
सर्वार्थान् = all things
विपरीतान् = in the wrong direction
च = also
बुद्धिः = intelligence
सा = that
पार्थ = O son of Pritha
तामसी = in the mode of ignorance.
धृत्या = determination
यया = by which
धारयते = one sustains
मनः = of the mind
प्राण = life
इन्द्रिय = and senses
क्रियाः = the activities
योगेन = by yoga practice
अव्यभिचारिण्या = without any break
धृतिः = determination
सा = that
पार्थ = O son of Pritha
सात्त्विकी = in the mode of goodness.
यया = by which
तु = but
धर्म = religiosity
काम = sense gratification
अर्थन् = and economic development
धृत्य = by determination
धारयते = one sustains
अर्जुन = O Arjuna
प्रसङ्गेन = because of attachment
फलाकाङ्क्षी = desiring fruitive results
धृतिः = determination
सा = that
पार्थ = O son of Pritha
राजसी = in the mode of passion.
यया = by which
स्वप्नं = dreaming
भयं = fearfulness
शोकं = lamentation
विषादं = moroseness
मदं = illusion
एव = certainly
च = also
न = never
विमुञ्चति = one gives up
दुर्मेधा = unintelligent
धृतिः = determination
सा = that
पार्थ = O son of Pritha
तामसी = in the mode of ignorance.
सुखं = happiness
तु = but
इदानीं = now
त्रिविधं = of three kinds
शृणु = hear
मे = from Me
भरतर्षभ = O best amongst the Bharatas
अभ्यासात् = by practice
रमते = one enjoys
यत्र = where
दुःख = of distress
अन्तं = the end
च = also
निगच्छति = gains.
यत् = which
तत् = that
अग्रे = in the beginning
विषमिव = like poison
परिणामे = at the end
अमृत = nectar
उपमं = compared to
तत् = that
सुखं = happiness
सात्त्विकं = in the mode of goodness
प्रोक्तं = is said
आत्म = in the self
बुद्धि = of intelligence
प्रसादजं = born of the satisfaction.
विषय = of the objects of the senses
इन्द्रिय = and the senses
संयोगात् = from the combination
यत् = which
तत् = that
अग्रे = in the beginning
अमृतोपमं = just like nectar
परिणामे = at the end
विषमिव = like poison
तत् = that
सुखं = happiness
राजसं = in the mode of passion
स्मृतं = is considered.
यत् = that which
अग्रे = in the beginning
च = also
अनुबन्धे = at the end
च = also
सुखं = happiness
मोहनं = illusory
आत्मनः = of the self
निद्रा = sleep
आलस्य = laziness
प्रमाद = and illusion
उत्थं = produced of
तत् = that
तामसं = in the mode of ignorance
उदाहृतं = is said to be.
न = not
तत् = that
अस्ति = there is
पृथिव्यां = on the earth
वा = or
दिवि = in the higher planetary system
देवेषु = amongst the demigods
वा = or
पुनः = again
सत्त्वं = existence
प्रकृतिजैः = born of material nature
मुक्तं = liberated
यत् = that
एभिः = from the influence of these
स्यात् = is
त्रिभिः = three
गुणैः = modes of material nature.
ब्राह्मण = of the brahmanas
क्षत्रिय = the ksatriyas
विशां = and the vaisyas
शूद्राणां = of the shudras
च = and
परन्तप = O subduer of the enemies
कर्माणि = the activities
प्रविभक्तानि = are divided
स्वभाव = their own nature
प्रभवैः = born of
गुणैः = by the modes of material nature.
समः = peacefulness
दमः = self-control
तपः = austerity
शौचं = purity
क्षान्तिः = tolerance
आर्जवं = honesty
एव = certainly
च = and
ज्ञानं = knowledge
विज्ञानं = wisdom
आस्तिक्यं = religiousness
ब्रह्म = of a brahmana
कर्म = duty
स्वभावजं = born of his own nature.
शौर्यं = heroism
तेजः = power
धृतिः = determination
दाक्ष्यं = resourcefulness
युद्धे = in battle
च = and
अपि = also
अपलायनं = not fleeing
दानं = generosity
ईश्वर = of leadership
भावः = the nature
च = and
क्षात्रं = of a ksatriya
कर्म = duty
स्वभावजं = born of his own nature.
कृषि = plowing
गो = of cows
रक्ष्य = protection
वाणिज्यं = trade
वैश्य = of a vaisya
कर्म = duty
स्वभावजं = born of his own nature
परिचर्य = service
आत्मकं = consisting of
कर्म = duty
शूद्रस्य = of the shudra
अपि = also
स्वभावजं = born of his own nature.
स्वे स्वे = each his own
कर्मणि = work
अभिरतः = following
संसिद्धिं = perfection
लभते = achieves
नरः = a man
स्वकर्म = in his own duty
निरतः = engaged
सिद्धिं = perfection
यथा = as
विन्दति = attains
तत् = that
शृणु = listen.
यतः = from whom
प्रवृत्तिः = the emanation
भूतानां = of all living entities
येन = by whom
सर्वं = all
इदं = this
ततं = is pervaded
स्वकर्मणा = by his own duties
तं = Him
अभ्यर्च्य = by worshiping
सिद्धिं = perfection
विन्दति = achieves
मानवः = a man.
श्रेयान् = better
स्वधर्मः = one's own occupation
विगुणः = imperfectly performed
परधर्मात् = than another's occupation
स्वनुष्ठितात् = perfectly done
स्वभावनियतं = prescribed according to one's nature
कर्म = work
कुर्वन् = performing
न = never
आप्नोति = achieves
किल्बिशं = sinful reactions.
सहजं = born simultaneously
कर्म = work
कौन्तेय = O son of Kunti
सदोषं = with fault
अपि = although
न = never
त्यजेत् = one should give up
सर्वारम्भः = all ventures
हि = certainly
दोषेन = with fault
धूमेन = with smoke
अग्निः = fire
इव = as
आवृताः = covered.
असक्तबुद्धिः = having unattached intelligence
सर्वत्र = everywhere
जितात्मा = having control of the mind
विगतस्पृहः = without material desires
नैष्कर्म्यसिद्धिं = the perfection of nonreaction
परमां = supreme
संन्यासेन = by the renounced order of life
अधिगच्छति = one attains.
सिद्धिं = perfection
प्राप्तः = achieving
यथा = as
ब्रह्म = the Supreme
तथा = so
आप्नोति = one achieves
निबोध = try to understand
मे = from Me
समासेन = summarily
एव = certainly
कौन्तेय = O son of Kunti
निष्ठा = the stage
ज्ञानस्य = of knowledge
या = which
परा = transcendental.
बुद्ध्या = with the intelligence
विशुद्धया = fully purified
युक्तः = engaged
धृत्य = by determination
आत्मानं = the self
नियम्य = regulating
च = also
शब्दादिन् = such as sound
विषयान् = the sense objects
त्यक्त्वा = giving up
राग = attachment
द्वेषौ = and hatred
व्युदस्य = laying aside
च = also
विविक्तसेवी = living in a secluded place
लघ्वाशी = eating a small quantity
यत = having controlled
वाक् = speech
काय = body
मानसः = and mind
ध्यानयोगपरः = absorbed in trance
नित्यं = twenty-four hours a day
वैराग्यं = detachment
समुपाश्रितः = having taken shelter of
अहङ्कारं = false ego
बलं = false strength
दर्पं = false pride
कामं = lust
क्रोधं = anger
परिग्रहं = and acceptance of material things
विमुच्य = being delivered from
निर्ममः = without a sense of proprietorship
शान्तः = peaceful
ब्रह्मभूयाय = for self-realization
कल्पते = is qualified.
ब्रह्मभूतः = being one with the Absolute
प्रसन्नात्मा = fully joyful
न = never
शोचति = laments
न = never
काङ्क्षति = desires
समः = equally disposed
सर्वेषु = to all
भूतेषु = living entities
मद्भक्तिं = My devotional service
लभते = gains
परां = transcendental.
भक्त्या = by pure devotional service
मां = Me
अभिजानाति = one can know
यावान् = as much as yah
चास्मि = as I am
तत्त्वतः = in truth
ततः = thereafter
मां = Me
तत्त्वतः = in truth
ज्ञात्वा = knowing
विशते = he enters
तदनन्तरं = thereafter.
सर्व = all
कर्माणि = activities
अपि = although
सदा = always
कुर्वाणः = performing
मद्व्यपाश्रयः = under My protection
मत्प्रसादात् = by My mercy
अवाप्नोति = one achieves
शाश्वतं = the eternal
पदं = abode
अव्ययं = imperishable.
चेतसा = by intelligence
सर्वकर्माणि = all kinds of activities
मयि = unto Me
संन्यस्य = giving up
मत्परः = under My protection
बुद्धियोगं = devotional activities
उपाश्रित्य = taking shelter of
मच्चित्तः = in consciousness of Me
सततं = twenty-four hours a day
भव = just become.
मत् = of Me
चित्तः = being in consciousness
सर्व = all
दुर्गाणि = impediments
मत्प्रसादात् = by My mercy
तरिष्यसि = you will overcome
अथ = but
चेत् = if
त्वं = you
अहङ्कारात् = by false ego
न श्रोस्यसि = do not hear
विनङ्क्ष्यसि = you will be lost.
यत् = if
अहङ्कारं = of false ego
आश्रित्य = taking shelter
न योत्स्ये = I shall not fight
इति = thus
मन्यसे = you think
मिथ्यैषः = this is all false
व्यवसायः = determination
ते = your
प्रकृतिः = material nature
त्वां = you
नियोक्ष्यति = will engage.
स्वभावजेन = born of your own nature
कौन्तेय = O son of Kunti
निबद्धः = conditioned
स्वेन = by your own
कर्मणा = activities
कर्तुं = to do
न = not
इच्छसि = you like
यत् = that which
मोहात् = by illusion
करिष्यसि = you will do
अवशः = involuntarily
अपि = even
तत् = that.
ईश्वरः = the Supreme Lord
सर्वभूतानां = of all living entities
हृद्देशे = in the location of the heart
अर्जुन = O Arjuna
तिष्ठति = resides
भ्रामयन् = causing to travel
सर्वभूतानी = all living entities
यन्त्र = on a machine
आरूढानि = being placed
मायया = under the spell of material energy.
तं = unto Him
एव = certainly
शरणम् गच्छ = surrender
सर्वभावेन = in all respects
भारत = O son of Bharata
तत्प्रसादात् = by His grace
परां = transcendental
शान्तिं = peace
स्थानं = the abode
प्राप्स्यसि = you will get
शाश्वतं = eternal.
इति = thus
ते = unto you
ज्ञानं = knowledge
आख्यातं = described
गुह्यात् = than confidential
गुह्यतरं = still more confidential
मया = by Me
विमृश्य = deliberating
एतत् = on this
अशेषेण = fully
यथा = as
इच्छसि = you like
तथा = that
कुरु = perform.
सर्वगुह्यतमं = the most confidential of all
भूयः = again
शृणु = just hear
मे = from Me
परमं = the supreme
वचः = instruction
इष्टः असि = you are dear
मे = to Me
दृढं = very
इति = thus
ततः = therefore
वक्ष्यामि = I am speaking
ते = for your
हितं = benefit.
मन्मनाः = thinking of Me
भव = just become
मद्भक्तः = My devotee
मद्याजी = My worshiper
मां = unto Me
नमस्कुरु = offer your obeisances
मां = unto Me
एव = certainly
एष्यसि = you will come
सत्यं = truly
ते = to you
प्रतिजाने = I promise
प्रियः = dear
असि = you are
मे = to Me.
सर्वधर्मान् = all varieties of religion
परित्यज्य = abandoning
मां = unto Me
एकं = only
शरणं = for surrender
व्रज = go
अहं = I
त्वां = you
सर्व = all
पापेभ्यः = from sinful reactions
मोक्षयिष्यामि = will deliver
मा = do not
शुचः = worry.
इदं = this
ते = by you
न = never
अतपस्काय = to one who is not austere
न = never
अभक्ताय = to one who is not a devotee
कदाचन = at any time
न = never
च = also
अशुश्रूषवे = to one who is not engaged in devotional service
वाच्यं = to be spoken
न = never
च = also
मां = toward Me
यः = anyone who
अभ्यसूयति = is envious.
यः = anyone who
इदं = this
परमं = most
गुह्यं = confidential secret
मत् = of Mine
भक्तेषु = amongst devotees
अभिधास्यति = explains
भक्तिं = devotional service
मयि = unto Me
परां = transcendental
कृत्वा = doing
मां = unto Me
एव = certainly
एष्यति = comes
असंशयः = without doubt.
न = never
च = and
तस्मात् = than him
मनुष्येषु = among men
कश्चित् = anyone
मे = to Me
प्रियकृत्तमः = more dear
भविता = will become
न = nor
च = and
मे = to Me
तस्मात् = than him
अन्यः = another
प्रियतरः = dearer
भुवि = in this world.
अध्येष्यते = will study
च = also
यः = he who
इमं = this
धर्म्यं = sacred
संवादं = conversation
आवयोः = of ours
ज्ञान = of knowledge
यज्ञेन = by the sacrifice
तेन = by him
अहं = I
इष्टः = worshiped
स्यां = shall be
इति = thus
मे = My
मतिः = opinion.
श्रद्धावान् = faithful
अनसूयः = not envious
च = and
शृणुयात् = does hear
अपि = certainly
यः = who
नरः = a man
सः = he
अपि = also
मुक्तः = being liberated
शुभान् = the auspicious
लोकान् = planets
प्राप्नुयात् = he attains
पुण्यकर्मणां = of the pious.
कच्चित् = whether
एतत् = this
श्रुतं = heard
पार्थ = O son of Pritha
त्वया = by you
एकाग्रेण = with full attention
चेतसा = by the mind
कच्चित् = whether
अज्ञान = of ignorance
सम्मोहः = the illusion
प्रणष्टः = dispelled
ते = of you
धनञ्जय = O conqueror of wealth (Arjuna).
अर्जुन उवाच = Arjuna said
नष्टः = dispelled
मोहः = illusion
स्मृतिः = memory
लब्धा = regained
त्वत्प्रसादात् = by Your mercy
मया = by me
अच्युत = O infallible KRiShNa
स्थितः = situated
अस्मि = I am
गत = removed
सन्देहः = all doubts
करिष्ये = I shall execute
वचनं = order
तव = Your.
सञ्जय उवाच = Sanjaya said
इति = thus
अहं = I
वासुदेवस्य = of KRiShNa
पार्थस्य = and Arjuna
च = also
महात्मनः = of the great soul
संवादं = discussion
इमं = this
अश्रौषं = have heard
अद्भुतं = wonderful
रोमहर्षणं = making the hair stand on end.
व्यासप्रसादात् = by the mercy of Vyasadeva
श्रुतवान् = have heard
एतत् = this
गुह्यं = confidential
अहं = I
परं = the supreme
योगं = mysticism
योगेश्वरात् = from the master of all mysticism
कृष्णात् = from KRiShNa
साक्षात् = directly
कथयतः = speaking
स्वयं = personally.
राजन् = O King
संस्मृत्य = remembering
संस्मृत्य = remembering
संवादं = message
इमं = this
अद्भुतं = wonderful
केशव = of Lord KRiShNa
अर्जुनयोः = and Arjuna
पुण्यं = pious
हृष्यामि = I am taking pleasure
च = also
मुहुर्मुहुः = repeatedly.
तत् = that
च = also
संस्मृत्य = remembering
संस्मृत्य = remembering
रूपं = form
अति = greatly
अद्भुतं = wonderful
हरेः = of Lord KRiShNa
विस्मयः = wonder
मे = my
महान् = great
राजन् = O King
हृष्यामि = I am enjoying
च = also
पुनः पुनः = repeatedly.
यत्र = where
योगेश्वरः = the master of mysticism
कृष्णः = Lord KRiShNa
यत्र = where
पार्थः = the son of Pritha
धनुर्धरः = the carrier of the bow and arrow
तत्र = there
श्रीः = opulence
विजयः = victory
भूतिः = exceptional power
ध्रुवा = certain
नीतिः = morality
मतिर्मम = my opinion.